Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवं च वाचम् अभाषन्त: यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति न तस्य मारा वा मारकायिका वा देवपुत्रा अवतारं लप्स्यन्ते. वयम् अपि भगवं तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः, शास्तारम् इति भगवंस् तं वयं कुलपुत्रं वा कुलदुहितरं वा मंस्यामहे य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रा वा कुलदुहितरो वावरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. पूर्वजिनकृताधिकारास् ते भगवन् कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति.
तत् कस्य हेतोः? अतो निर्जाता हि सर्वज्ञता यद् उत प्रज्ञापारमिता निर्जाता सर्वज्ञता निर्जाता च प्रज्ञापारमिता.
तत् कस्य हेतोस्? तथा हि नान्या प्रज्ञापारमिता नान्या सर्वज्ञता इति हि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्.
एवम् उक्ते भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् (psp_2-3:77) कौशिकैवम् एतत्, यथा वदसि सर्वज्ञता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्. इति स्वपरार्थाधिमुक्तिर् मृदुमध्या
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: तथा हि भगवान् न दानपारमिताया नामधेयं परिकीर्तयति न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति, न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नामधेयं परिकीर्तयति, नार्यसत्यानां नाप्रमाणध्यानारूप्यसमापत्तीनां नामधेयं परिकीर्तयति, नाष्टानां विमोक्षमुखानां न नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न षण्णाम् अभिज्ञानां न सर्वाणां शून्यतानां न समाधीनां न सर्वधारणीमुखानां नामधेयं परिकीर्तयति, न दशानां तथागतबलानां न वैशारद्यानां न प्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: प्रज्ञापारमिता आनन्द पूर्वंगमा नायिका यद् उत षण्णां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां पूर्वंगमा नायिका, अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां विमोक्षमुखानां षण्णाम् अभिज्ञानां पूर्वंगमा नायिका, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां पूर्वंगमा नायिका, दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां पूर्वंगमा नायिका, सर्वबुद्धधर्माणां पूर्वंगमा नायिका प्रज्ञापारमिता.
तत् किं मन्यसे? आनन्द अपरिणामितं दानं सर्वज्ञतायां पारमितानामधेयं लभते.
तत् किं मन्यसे? अपरिणामितं शीलं अपरिणामिता क्षान्तिर् अपरिणामितं वीर्यम् अपरिणामितं ध्यानम् अपरिणामिता प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
आनन्द आह: नो हीदं भगवन् नो हीदं सुगत,
कथं पुनर् भगवन् दानं सर्वज्ञतापरिणामितं पारमितानामधेयं लभते? (psp_2-3:78)
कथं पुनर् भगवन् शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते?
भगवान् आह: अद्वययोगेनानन्द दानं परिणामितं शीलं क्षान्तिर् वीर्यं ध्यानं प्रज्ञा सर्वज्ञतायां परिणामिता पारमितानामधेयं लभते. अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं दानं यावत् प्रज्ञा सर्वज्ञतायां पारमितानामधेयं लभते.
आनन्द आह: कथं भगवन्न् अद्वययोगेन दानं परिणामितं सर्वज्ञतायां पारमितानामधेयं लभते? एवं शीलं क्षान्तिर् वीर्यं ध्यानं कथं भगवन् प्रज्ञाद्वययोगेन परिणामिता सर्वज्ञतायां पारमितानामधेयं लभते? भगवान् आह: रूपस्यानन्द अद्वययोगेन वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याद्वययोगेन यावद् बोधेः.
आनन्द आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनायाः संज्ञायाः संस्काराणां अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं यावद् बोधेर् अद्वययोगेन?
भगवान् आह: तथा हि आनन्द रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यम्.
तत् कस्य हेतोः? तथा हि रूपं च वेदना च संज्ञा च संस्कारा च विज्ञानं च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं यावद् बोधिश् च पारमिताश् चाद्वयम् एतद् अद्वैधीकारं, तस्मात् तर्ह्य् आनन्द प्रज्ञापारमिता नु पूर्वंगमा नायिका सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां त्रयाणां विमोक्षमुखानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावद् बोधेः सर्वज्ञतायाः प्रज्ञापारमिता पूर्वंगमा नायिका. तद्यथापि नामानन्द महापृथिवीं निश्राय सामग्रीवशेन बीजानि विरोहन्ति. एवम् एवानन्द प्रज्ञापारमितां निश्राय प्रज्ञापारमिताम् आगम्य सर्वाः. पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि षडभिज्ञाः सर्वधारणीमुखानि विरोहन्ति. दशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा विरोहन्ति यावत् सर्वज्ञता (psp_2-3:79) विरोहति. सर्वज्ञतां परिनिश्राय सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो यावद् आवेणिका बुद्धधर्मा विरोहन्ति. तस्माद् आनन्द प्रज्ञापारमितैवासां पारमितानां परिणायिका यावाद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतायाः. इति स्वपरार्थाधिमुक्तिर् मृद्वधिमात्रा
शक्र आह: न खलु पुनर् भगवंस् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वगूणाः परिकीर्तिताः यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृह्णाति इमां प्रज्ञापारमिताम् उद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां त्रयानं विमोक्षमुखानां सर्वपारमितानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति. प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया गृहपतिमहाशालकुलानि प्रज्ञायन्ते, क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया यावद् योनिशो मनसिकृतया स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रज्ञायन्ते प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वाः प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते. (psp_2-3:80)
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: न पुनः कौशिक यैः कुलपुत्रैः कुलदुहितृभिर् वा इयं प्रज्ञापारमिता धारिता वाचिता पर्यवाप्ता योनिशश् च मनसिकृता तेषाम् एतावत एवं गुणान् वदामि.
तत् कस्य हेतोर्? अप्रमाणेन हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा शीलस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. अप्रमाणेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. तथागतप्रतिमास् ते कौशिक कुलपुत्राः कुलदुहितरो वा वेदितव्या य इमां प्रज्ञापारमिताम् उद्ग्रहीयन्ति धारयियन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सर्वज्ञताचित्तेन चाविरहिता भविष्यन्ति. यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, यश् च प्रज्ञापारमिताविहारिणां कुलपुत्राणां कुलदुहितृणां च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि नोपैति.
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं, न च कश्चिद् धर्मो नाविगतो न ज्ञातः. ये कौशिक कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तेषाम् अपि कुलपुत्राणां (psp_2-3:81) कुलदुहितृणां च इमे दृष्टधार्मिकाः सांपरायिकाश् च गुणानुशंसाः प्रतिकाङ्क्षितव्याः. इति स्वपरार्थाधिमुक्तिमध्यमृद्धी
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अहं भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन इमां च प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेषां पुनः कौशिक कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां स्वाध्यायतां बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति. तेषां खलु पुनः कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमिताप्रतिसंयुक्तं प्रतिभानं ते देवपुत्रा उपसंहर्तव्यं मंस्यन्ते. यदापि ते धर्म भाणका न मन्त्रयितुकामा भविष्यन्ति तदापि तेनैव देवपुत्रा धर्मगौरवेण प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते. इमम् अपि कौशिक कुलपुत्रा वा कुलदुहितरो वा दृष्टधार्मिकगुणं प्रतिलप्स्यन्ते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तां च लिखित्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
पुनर् अपरं कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा इमां प्रज्ञापारमितां भाष्यमाणानां चतसृणां पर्षदां पुरतो नावलीनचित्तता भविष्यति को वा ममानुयोक्ष्यते उपालप्स्यते चेति.
तत् कस्य हेतोस्? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां वा इयम् एव प्रज्ञापारमिता रक्षावरणगुप्तिं करिष्यति, तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिकाश् च लोकोत्तराश् च साधारणाश् च कुशलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च.
तत् कस्य हेतोस्? तथा हि ते कुलपुत्रा वा कुलदुहितरो वा अध्यात्मशून्यतायां (psp_2-3:82) स्थित्वा यावद् अभावस्वभावशून्यतायां स्थितास् ते उपालम्भं प्रज्ञापारमितायां न समनुपश्यन्ति, यो ऽप्य् उपालभ्येत तम् अपि न समनुपश्यन्ति.
एवं हि तेषां कुलपुत्राणां कुलदुहितृणां वा प्रज्ञापारमितापरिगृहीतानाम् उपालम्भो न भविष्यति.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति य आलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्यते वा. इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् प्रतिग्रहीष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः इति स्वपरार्थाधिमुक्तिमध्यमध्या
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः स प्रियो भविष्यति मातापितृणां मित्रामात्यज्ञातिसालोहितानां श्रमणब्राह्मणानां, ये ऽपि ते दशदिशि लोके सर्वलोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च प्रत्येकबुद्धाश् चार्हन्तश् च सर्वे शैक्षाः सर्वे चाशैक्षास् तेषाम् अपि स बोधिसत्त्वः प्रियो भविष्यति स देवकस्यापि लोकस्य स मारकस्य स श्रमणब्राह्मणिकायाः प्रजायाः स देवमानुषासुरायाः प्रजायाः प्रियो भविष्यति मनआपः. इति स्वपरार्थार्धिमुक्तिमध्याधिमात्रा
अनाच्छेदेन च प्रतिभानेन समन्वागतो भविष्यति. अनाच्छेद्यया दानपारमितया समन्वागतो भविष्यति. एवम् अनाच्छेद्यया शीलपारमितया (psp_2-3:83) अनाच्छेद्यया क्षान्तिपारमितया अनाच्छेद्यया वीर्यपारमितया अनाच्छेद्यया ध्यानपारमितया अनाच्छेद्यया प्रज्ञापारमितया समन्वागतो भविष्यति. अनाच्छेद्यया अध्यात्मशून्यतया अनाच्छेद्यया यावद् अभावस्वभावशून्यतया समन्वागतो भविष्यति. अनाच्छेद्यैः स्मृत्युपस्थानैः समन्वागतो भविष्यति. अनाच्छेद्यैः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैः समन्वागतो भविष्यति. अनाच्छेद्यैर् आर्यसत्यैर् अनाच्छेद्याभिर् अप्रमाणध्यानारूप्यसमापत्तिभिः, अनाच्छेद्यैर् अष्टविमोक्षमुखैर् अनाच्छेद्यैर् नवानुपूर्वविहारसमापत्त्यभिज्ञार्यसत्यसर्वसमाधिसर्वधारणीमुखैर् अनाच्छेद्यैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैर् अनाच्छेद्येन सत्त्वपरिपाकेन अनाच्छेद्यया बुद्धक्षेत्रपरिशुद्ध्या अनाच्छेद्यया सर्वाकारज्ञतया समन्वागतो भविष्यति. प्रतिबलश् च भविष्यति, उत्पन्नोत्पन्नानां तीर्थ्यवादानां सहधर्मेणैव निग्रहं करिष्यति. इमम् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं सांपरायिकं च गुणं परिगृह्णीयाद् य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. अविरहितश् च भविष्यति स सर्वाकारज्ञाताचित्तेन तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रामृद्धी
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारायिष्यति वाचयिष्यति पर्यवाप्स्यति तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते तत्रागत्यैनां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति मनसिकरिष्यन्ति वन्दिष्यन्ति नमस्कृत्वा वन्दित्वा च पुनर् एव प्रक्रमिष्यन्ति. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा ब्र्हत्फलाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः तत्र ये कौशिक महाब्रह्माणो ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव (psp_2-3:84) प्रक्रमिष्यन्ति. ये ऽपि शुद्धावासकायिका अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति. तेन हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं: ये ते दशदिग्लोकधातुषु देवपुत्राश् चातुर्महाराजकायिका यावद् बृहत्फला ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्हिता ये ऽपि शुद्धावासकायिका देवपुत्रा ये ऽपि चान्ये देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽपीहागत्येमां प्रज्ञापारमिताम् उद्ग्रह्य पर्यवाप्य धारयित्वा वाचयित्वा पूजयित्वा पुनर् गच्छन्तु, तेषाम् एतद्
धर्मदानं दत्तं भवन्तु. ये ऽपि दशदिग्लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् बृहत्फला देवपुत्रा ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता ये ऽपि शुद्धावासकायिका देवपुत्रास् ते ऽपि तत्रागत्येमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति वन्दित्वा नमस्कृत्य पूजयित्वा पुनर् एव प्रक्रमितव्यं मंस्यन्ते. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवा ये ऽपि ते दशदिग्लोकधातुषु चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति. नाप्य् अस्य कश्चिद् अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमान् अपि कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति.
तत् कस्य हेतोस्? तथा हि ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितास् ते ऽपि तत्रागन्तव्यं मंस्यन्ते. तथा हि कौशिक देवपुत्रा अनुत्तरायां सम्यक्संबोधौ सर्वसत्त्वानां त्रणाय हितसुखाय संप्रस्थिताः. इति स्वपरार्थाधिमुक्तिर् अधिमात्रमध्या
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् कुलपुत्रो वा कुलदुहिता वा ज्ञास्यति, इह चातुर्महाराजकायिका देवपुत्रा आगच्छन्ति यावद् अकनिष्ठा देवपुत्रा आगच्छन्तीति? एवं समन्ताद् दशभ्यो दिग्भ्य इमां प्रज्ञापारमिताम् उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा सत्कर्तुं वा गुरुकर्तुं वा मानयितुं वा पूजयितुं वा.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: सचेत् कौशिक (psp_2-3:85) कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं ज्ञास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का देवा आगाता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं वन्दितुं नमस्कर्तुम्.
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा अमानुषं दिव्यं गन्धम् अनाघ्रातपूर्वम् आघ्रास्यति निष्ठा तेन गन्तव्या महौजस्का महौजस्का इह देवपुत्रा आगता इति प्रज्ञापारमितां वाचयितुं श्रोतुम् उद्ग्रहीतुं पर्यवाप्तुं धारयितुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया देवता आगत्येमां प्रज्ञापारमिताम् उद्गृह्य धारयित्वा वाचयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यन्ति. याश् च तत्र पृथिवीप्रदेशे ऽल्पौजस्का अल्पौजस्का देवता भविष्यन्ति तास् ततो ऽपक्रमितव्यं मंस्यन्ते. तेषां महौजस्कानां महौजस्कानां देवानां तेजश् च श्रियश् चासहमानाः. यथायथा महौजस्का महौजस्का देवता उपसंक्रमिष्यन्ति तथातथा ते कुलपुत्राः कुलदुहितरो वा उदाराधिमुक्तिका भविष्यन्ति. तस्मिंश् च पृथिवीप्रदेशे ऽचौक्षसमुदाचारता न प्रचारयितव्या, पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिश् च स पृथिवीप्रदेशो ऽलंकर्तव्यः गन्धलिप्तो मुक्तपुष्पावकीर्णः कारयितव्यः. अवसक्तपटदामकलापश् चैलवितानविततः. अनेकप्रकारं च स पृथिवीप्रदेशो ऽलंकर्तव्यः.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा कायो न क्लान्तो भविष्यति. कायसुखं भविष्यति. कायलघुतां च बहुजनहिताय बहुजनसुखाय प्रतिपन्नो भविष्यति. स च कौशिक कुलपुत्रो वा कुलदुहिता वा कायलघुतां कायकर्मण्यतां कायसुखतां चित्तलघुतां चित्तकर्मण्यतां चित्तसुखतां च ज्ञास्यति. सुखेन स रात्रौ शय्यां कल्पयिष्यति. इमां एव प्रज्ञापारमिताम् आशयेन कल्पयन् न पापकान् स्वप्नान् द्रक्ष्यति, द्रक्ष्यंश् च पुनः स्वप्नेन तथागतान् एवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणचित्रितगात्रान् सुवर्णवर्णेन समुच्छ्रयेण भिक्षुसंघपरिवृतान् बोधिसत्त्वगणपरिवृतान् धर्मं देशयमानांस् (psp_2-3:86) तेभ्यः षट्पारमिताप्रतिसंयुक्ताम् एव कथां श्रोष्यति. सप्तत्रिंशद्बोधिपक्ष्यधर्मप्रतिसंयुक्तां यावद् अष्टादशावेणिकबुद्धधर्मप्रतिसंयुक्ताम् एव कथां श्रोष्यति. तासां च पारमितानाम् अर्थं श्रोष्यति यावद् अष्टादशानाम् आवेणिकानाम् अर्थं श्रोष्यति. बोधिवृक्षं द्रक्ष्यति. बोधिसत्त्वं महासत्त्वं बोधिमण्डम् उपसंक्रममाणं द्रक्ष्यति. अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति. अभिसंबुध्याद्वयं धर्मचक्रप्रवर्तयमानं द्रक्ष्यति. बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि द्रक्ष्यति धर्मसंगीतिरतानि एवं सर्वज्ञता परिग्रहीतव्या एवं सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिशोधयितव्यम् इति. बहुनां बुद्धकोटीनियुतशतशहस्राणां पूर्वस्यां दिशि शब्दं श्रोष्यति.
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यति. अमुष्मिन् लोकधातौ अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्धः इयद्भिर् बोधिसत्त्वकोटीशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति. पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि यावद् दशसु दिक्षु बहूनि बुद्धकोटीनियुतशतसहस्राणि द्रक्ष्यति परिनिर्वायमाणानि. तेषां च तथागतानां स्तूपान् धातुधरान् नानारत्नमयान् बहूनि स्तूपकोटीनियुतशतसहस्राणि द्रक्ष्यति. तांश् च स्तूपान् सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एवंरूपान् भद्रकांश् च स्वप्नान् द्रक्ष्यति. स सुखम् एव स्वप्स्यति सुखं च प्रतिभोत्स्यते ओजःप्रक्षिप्तं च कायं संज्ञास्यति. लघुं च कायं संज्ञास्यति न गुरुं. न चास्य बलवती गृद्धिर् आहारे भविष्यति. न चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारगृद्धिर् भविष्यति. तद्यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधेर् व्युत्थितस्य मनसिकारसंतर्पितेन चित्तेन न बलवत्य् आहारे गृद्धिर् भवति.
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बलवत्य् आहारे गृद्धिर् भविष्यति.
तत् कस्य हेतोस्? तथा हि तस्यामनुष्या ओजः काय उपसंहरन्ति. ये चापि (psp_2-3:87) दशसु दिक्षु बुद्धा भगवन्तस् ते ऽपि सदेवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाः ओजः काये प्रक्षिपन्ति. इमं स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णीते य इमां प्रज्ञापारमिताम् उद्गृह्णीते पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति अविरहितश् च सर्वज्ञताचित्तेन. इति स्वपरार्थाधिमुक्तिर् अधिमात्राधिमात्रा
किं चापि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां नोद्गृह्णीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यान् न परेभ्यश् च संप्रकाशयेद् अपि तु खलु पुनः पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
यश् च कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् परेभ्यश् च संप्रकाशयेत् तां च लिखितां सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः अयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहुतरं पुण्यं प्रसवेत्.
न त्व् एव यः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् सश्रावकसंघांश् चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपान् कारयेत्, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
इति परार्थाधिमुक्तिर् मृदुमृद्धि स्तूपसत्कारपरिवर्तो नाम तृतीयः
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यद्य् अयं कौशिक जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणां भवेत्, तानि ते कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपनामयेद्, यश् चेमां ते प्रज्ञापारमिताम् उपनामयेत्, ततस् त्वं तयोर् द्वयोर् भागयोः स्थापितयोः कं परिगृह्णीयाः?
शक्र आह: सचेद् मे भगवन्न् अयं जम्बुद्वीपः परिपूर्णश् चूडिकाबद्धस् तथागतशरीराणाम् उपनाम्येत, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत परिकल्पम् उपादाय इमाम् एवाहं तयोर् द्वयोर् (psp_2-3:88) भागयोः स्थापितयोः प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? न मम भगवंस् तेषु तथागतशरीरेष्व् अगौरवं, नाहं भगवंस् तथागतशरिराणि न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामो. अपि तु खलु पुनर् मे भगवन्न् एवं स्यात् प्रज्ञापारमितानिर्जातानि तथागतशरिराणि येन तानि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते, प्रज्ञापारमितापरिभावितानि तथागतशरीराणि येन तानि पूजां लभन्ते.
अथ खल्व् आयुष्मान् शारिपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमिता कौशिक अग्राह्या अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्यां प्रज्ञापारमिताम् अनिदर्शनाम् अप्रतिघाम् एकलक्षणां यद् उतालक्षणाम् उद्ग्रहीतव्यां मन्यसे?
तत् कस्य हेतोर्? न हि प्रज्ञापारमिता ग्रहाय अनुग्रहाय वा स्थिता, न हानाय न वृद्धये नोत्क्षेपाय न विक्षेपाय न संक्लेशाय न व्यवदानाय, न बुद्धधर्माणां दायिका, न पृथग्जनधर्माणां च्छोरिका, न बोधिसत्त्वधर्माणां न प्रत्येकबुद्धधर्माणां न श्रावकधर्माणां न शैक्षधर्माणां नाशैक्षधर्माणां दायिका, न संस्कृतधातो दायिका, नासंस्कृतधातो दायिका, नाध्यात्मशून्यताया यावन् नाभावस्वभावशून्यताया दात्री, न पारमितानां न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां नाप्रमाणध्यानारूप्यसमापत्तीनां न बलवैशारद्यप्रतिसंविदां नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां दात्री, न सर्वज्ञताया दात्री.
शक्र आह: एवम् एतद् भदन्त शारिपुत्र यथा वदसि न प्रज्ञापारमिता बुद्धधर्माणां दात्री यावन् न सर्वज्ञताया दात्री. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
अथ खलु भगवान् शक्रस्य देवानाम् इन्द्रस्य साधुकारम् अदात्: साधु साधु कौशिक एवम् एतद् यथा निर्दिशसि न प्रज्ञापारमिता द्वयं प्रत्युपस्थिता, अद्वया हि प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता, क्षान्तिपारमिता शीलपारमिता, दानपारमिता न द्वयं प्रत्युपस्थिता, अद्वया हि दानपारमिता.
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोस्? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता (psp_2-3:89) चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
भूतकोटेर् अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्, तत् कस्य हेतोस्? तथा हि कौशिक भूतकोटिश् चाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, एवं ध्यानपारमिता च वीर्यपारमिता च क्षान्तिपारमिता च शीलपारमिता च, भूतकोटिश् चाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
शक्र आह: नमस्करोमि भगवन् प्रज्ञापारमितां सदेवमानुषासुरेण लोकेन नमस्कृतां यत्र शिक्षित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन् देवेन्द्रासने निषण्णो भवामि स्वके आसने तत्र ये देवपुत्रा ममोपस्थानायागच्छन्ति ते मां तत्र स्थं नमस्यन्ति. यदाहं तत्र न भवामि स्वके सिंहासने तदा ते देवपुत्रास् तत् ममासनं नमस्कृत्य पुनर् एव प्रक्रामन्ति, इह शक्रो देवानाम् इन्द्रो धर्मासने निषण्णस् त्रायस्त्रिंशानां देवानां धर्मं देशयामासेति.
एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा स्थास्यते स्वाध्यास्यते वा परेभ्यो वा संप्रकाशयिष्यते, तत्र ये ते दशभ्यो दिग्भ्यो देवपुत्रा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगास् ते तां प्रज्ञापारमितां नमस्कृत्य पुनर् एव प्रक्रमिष्यन्ति, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्जातं च सर्वसत्त्वानां सुखोपधानं, यद् अपि तथागतशरीराणि तद् अपि प्रज्ञापारमितापरिभावितत्वात् पूजां प्रतिलभन्ते. प्रज्ञापारमिता भगवन् बोधिसत्त्वचर्यां चरतः सर्वज्ञानस्याश्रयभूता, कारणभूता आहारिका प्रज्ञापारमितेति.
तस्माद् अहं भगवंस् ताभ्यां द्वाभ्यां प्रत्यंशाभ्यां प्रज्ञापारमिताम् एव परिगृह्णीयाम्. इमां प्रज्ञापारमिताम् उद्गृह्य स्वाध्यायं कुर्यान् धर्मान्तर्गतेन मानसेन यस्मिन् समये प्रज्ञापारमितां मनसिकरोमि (psp_2-3:90) तस्मिन् समये भगवन् निमित्तम् एव न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोर्? अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलप्या, अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, एवं ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलप्या अप्रव्याहारा हि भगवन् दानपारमिता यावत् सर्वज्ञता, सचेद् भगवन् प्रज्ञापारमिता सनिमित्ता सलिङ्गा साभिलप्या सप्रव्याहाराभविष्यन् नानिमित्ता नालिङ्गा नानभिलप्या नाप्रव्याहारा नैव तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् इति विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मम् अदेशयिष्यत्, यस्माद् भगवन्न् इयं प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलप्या अप्रव्याहारा तस्मात् तथागतः सर्वधर्मान् अनिमित्तान् अलिङ्गान् अनभिलप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलप्यम् अप्रव्याहारं धर्मं देशयेत्. इति परार्थाधिमुक्तिर् मृदुमध्या
तस्माद् भगवन्न् इयं प्रज्ञापारमिता सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचिवरच्छत्रध्वजपताकाभिः. न चास्य नरकतिर्यग्योनियमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भविष्यति. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाकेन यद् उत बुद्धक्षेत्रम् उपसंक्रामति, तांश् च तथागतान् सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति परार्थाधिमुक्तिमृद्वधिमात्रा
पुनर् अपरं भगवन् यद्य् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धो ऽपि मे उपनाम्येत, इमां च प्रज्ञापारमितां पुस्तकलिखितं कृत्वा उपनाम्येत, अहम् अनयोर् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि. तेन सत्क्रियन्ते गुरुक्रियन्ते मानयन्ते पूज्यन्ते येन ते कुलपुत्राः कुलदुहितरश् च तानि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिविनिपातेषूपपद्यन्ते, देवमनुष्यसंपत्तीर् अनुभूय यथाप्रणिधानेन निर्वास्यन्ति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन (psp_2-3:91) वा. अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमितादर्शनं तुल्यम् एतत्, तथा हि भगवन् या प्रज्ञापारमिता यश् च तथागतो ऽद्वयम् एतद् अद्वैधीकारम्. इति परार्थाधिमुक्तिर् मध्यमृद्धी
पुनर् अपरं भगवन् यश् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिभिः प्रातिहार्यैर् धर्मं देशयति, यद् उत द्वादशाङ्गं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशा, यश् च स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परेभ्यश् च विस्तरेण देशयेत तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि, ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः.
पुनर् अपरं भगवन् ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तो धर्मं देशयन्ति यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः त्रिभिः प्रातिहार्यैर्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो यावद् विदिक्षु गङ्गानदीवाल्कोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति त्रिभिः प्रातिहार्यैर् यद् उत सूत्रं गेयं व्याकरणं यावद् अवदानोपदेशाः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्णीयात् यावत् परेभ्यश् च विस्तरेण संप्रकाशयेत् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जातानि हि भगवंस् त्रीणि प्रातिहार्याणि. ततो निर्जातं सूत्रं गेयं व्याकरणं यावद् अवदानोपादेशाः.
पुनर् अपरं भगवन् यश् चैकैकस्यां दिशि यावन्तो दशसु दिक्षु सर्वलोकधातुषु गङ्गानदीवालुकोपमास् तथागता अर्हन्तः सम्यक्संबुद्धास् तान् सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् चेमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस् तुल्यम् एतत्. तत् कस्य हेतोर्? अतो निर्जाता हि तथागता अर्हन्तः सम्यक्संबुद्धाः. इति परार्थाधिमुक्ति मध्यमध्या
पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति (psp_2-3:92) परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, तस्य न निरयतिर्यग्योनियमलोकगतिः. प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, तथा हि स भगवन् बोधिसत्त्वो महासत्त्वः स्थितो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोस्? तथा हि स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा उद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखितां सत्करोति गुरुकरोति मानयति पूजयति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्यं. तद्यथापि नाम भगवन् धनिकभयभीतः पुरुषो राजानम् उपतिष्ठेत्, स राजानं सेवमानो येभ्य एवास्य भयं भवति तैर् एव सेव्यते न च तेभ्यो बिभेति. तत् कस्य हेतोर्? एवम् एतत् भगवन् बलवति निश्रये भयं न भवति. एवम् एव भगवन् प्रज्ञापारमितापरिभावितानि तथागतशरीराणि पूजां लभन्ते. तत्र भगवन् यथा स राजा एवं प्रज्ञापारमिता द्रष्टव्या, यथा स राजनिःश्रितः पुरुषः पूजां लभते. एवम् एव तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते. यद् अपि भगवंस् तत् सर्वज्ञज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं वेदितव्यं, तस्मात् तयोर् द्वयोर् भागयोः स्थापितयोः प्रत्यंशम् इमाम् एवाहं प्रज्ञारपामितां परिगृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि, अतो निर्जातानि द्वात्रिंशद् महापुरुषलक्षणान्य्, अतो निर्जातानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाताः पञ्च पारमिताः पारमितानामधेयं लभन्ते, अतो निर्जाता तथागतस्य सर्वज्ञता.
यत्र भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तत्र तेषां सत्त्वानां मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते, सर्वे च ते सत्त्वा अनुपूर्वेण परिनिर्वाणधर्माणो भविष्यन्ति. एवं महर्द्धिका भगवन्न् इयं प्रज्ञापारमिता. यत्र हि नाम भगवन्न् इयं प्रज्ञापारमिता त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास् तेषां बुद्धकृत्येन प्रत्युपस्थिता, बुद्धोत्पादो (psp_2-3:93) भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्यो यत्र लोकधातौ इयं प्रज्ञापारमिता प्रचरिष्यति. तद्यथापि नाम भगवन्न् अनर्घं यत् मणिरत्नैः भवेत् तत् खलु पुनर् महामणिरत्नम् एभिर् एव गुणैः समन्वागतं भवेत्. यत्रयत्र तन् महामणिरत्नं स्थाप्येत तत्रतत्रामनुष्या अवतारं न लभन्ते. यत्रयत्र चामनुष्यगृहीतः स्त्री वा पुरुषो वा भवेत् तत्रतत्र तन् महामणिरत्नं प्रवेष्येत प्रवेशितमात्र एव तस्मिन् महामणिरत्ने सो ऽमनुष्यः प्रक्रामेत् तस्य महामणिरत्नस्य तेजो ऽसहमानः. पित्तेन वा दह्यमाने शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि पित्तं निगृह्णीयान् न विवर्धेतोपशाम्येत. वाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत तम् अपि वातं निगृह्णीयात्. श्लेष्मणा उपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तं सर्वं श्लेष्माणं प्रशमयेत्. संनिपाताभिभूते वा शरीरे तन् महामणिरत्नं कुलपुत्रस्य वा कुलदुहितुर् वा पुरतः स्थाप्येत तस्यापि स व्याधिर् उपशाम्येत. तच् च महामणिरत्नं रात्रावभासं कुर्यात्. उष्णकाले च वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशः शिशिरः परिवर्तेत. शिशिरकाले ऽपि वर्तमाने यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत स पृथिवीप्रदेशो घर्मः परिवर्तेत. यत्र च तन् महामणिरत्नं स्थाप्येत स च पृथिवीप्रदेशो नात्युष्णो नातिशीतः स्यात् ऋतुसुखो.
यत्र पृथिवीप्रदेशे तन् महामणिरत्णं तिष्ठति तत्र पृथिवीप्रदेशे नाशीविषा उपविचरन्ति वृश्चिकादीनि वा सरीसृपाणि वा, यः कश्चित् कुलपुत्रो वा कुलदुहिता आशीविषेण दष्टो भवेत् तस्यापि तन् महामणिरत्नम् उपदर्श्येत तस्य सह दर्शनेनैव तद् विषं विगच्छेत्. एभिर् एवम् आदिभिर् गुणैर् युक्तं तत् महामणिरत्नं भवेद्, ये ऽपि भगवन् स्त्रियो वा पुरुषा वा नानाव्याधिपरिगता भवन्ति तेषाम् अपि काये तन् महामणिरत्नं स्थाप्येत, तेषाम् अपि सर्वे ते व्याधय उपशमं गच्छेयुः. यत्रापि भगवन्न् उदके तन् महामणिरत्नं स्थाप्येत तद् अपि सर्वम् (psp_2-3:94) उदकं स्ववर्णसदृशं कुर्यात्. सचेद् भगवंस् तन् महामणिरत्नं नीलेन वाससा परिवेष्ट्य उदके प्रक्षिपेत् तद् उदकं नीलं कुर्यात्. सचेत् पीतकेन सचेल् लोहितकेन वस्त्रेण सचेद् माञ्जिष्ठवर्णेन सचेत् स्फटिकवर्णेन वस्त्रेण तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् वर्णम् उदकं भवेत्. नानारङ्गरक्तैर् अपि वस्त्रैस् तन् महामणिरत्नं बद्ध्वा उदके प्रक्षिप्येत तद् उदकं नानावर्णं कुर्यात्. यत्र च भगवन्न् उदके कलुषे तन् महामणिरत्नं स्थाप्येत तत् सर्वम् उदकं प्रसादयेद् एभिर् एवम् आदिभिर् गुणैः समुपेतं तन् महामणिरत्नं भवेत्.
अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यं तन् महामणिरत्नम् उताहो जाम्बूद्वीपकानां मनुष्याणाम् एतद् महामणिरत्नं विद्यते.
शक्र आह: दिव्यं तद् भदन्त महामणिरत्नं, यानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि तानि परीत्तानि गुरूणि च, यानि पुनर् दिव्यानि तानि महान्ति लघूनि च, तैर् आकारैस् तथा सुपरिपूर्णानि जाम्बूद्वीपकानां मनुष्याणां मणिरत्नानि यथा न सुपरिपूर्णानि पुनर् जाम्बूद्वीपकानि मणिरत्नानि दिव्यानां मणिरत्नानां संख्याम् अपि नोपयान्ति कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपयान्ति. तत् खलु महामणिरत्नं यस्मिन् करण्डके तिष्ठति यदा तन् महामणिरत्नं तस्मात् करण्डकाद् उत्क्षिप्तं भवति स्पृहणीयः स करण्डको भवति, अत्र तन् महामणिरत्नं स्थितम् अभूद् इति.
एवम् एतद् भदन्तानन्द यत्रेयं प्रज्ञापारमिता पृथिवीप्रदेशे प्रचरिष्यति न तत्र कुलपुत्राणां कुलदुहितृणां वा कायिका वा चैतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा भविष्यन्ति. महामणिरत्नम् इति प्रज्ञापारमिताया एतद् अधिवचनं सर्वज्ञज्ञानस्य च. कियन्तः शक्याः प्रज्ञापारमिताया गुणाः? परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः. एवं ध्यानपारमिताया वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया अध्यात्मशून्यताया यावद् अभावस्वभावशून्यतायाः स्मृत्युपस्थानां सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य (psp_2-3:95) मार्गस्याप्रमाणध्यानारूप्यसमापत्तीनां चतुर्णाम् आर्यसत्यानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां सर्वज्ञज्ञानस्यापि धर्मधातोर् अपि धर्मनियामतायास् तथताया भूतकोटेर् अचिन्त्यधातोः सर्वज्ञज्ञानस्यैते गुणा येन परिनिर्वृतस्यापि तथागतस्य शरीराणि पूजां लभन्ते. सर्वज्ञज्ञानस्य सर्ववासनानुसंधिक्लेशप्रहाणस्य सदोपेक्षाविहारिताया असंप्रमुषितधर्मताया एषां तथागतशरिराणि भाजनभूतान्य् अभूवंस् तेनैतानि तथागतशरीराणि पूजां लभन्ते. इति परार्थाधिमुक्तिमध्याधिमात्रा
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: रत्नपारमिताया भगवन्न् इमानि तथागतशरीराणि भाजनम् अभूत्. असंक्लेशाव्यवदानपारमिताया अनुत्पादानिरोधपारमिताया अनागतिपारमिताया इमानि तथागतशरीराणि भाजनं, धर्मतापारमितायास् तथागतशरीराणि भाजनं, धर्मतापरिभावितानि तथागतशरीराणि पूजां लभन्ते.
पुनर् अपरं भगवंस् तिष्ठतु त्रिसाहस्रमहासाहस्रो लोकधातुस् तथागतशरीराणां परिपूर्णश् चूडिकाबद्धः, सचेद् भगवन् गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां परिपूर्णाश् चूडिकाबद्धा भवेयुर्, इयं च प्रज्ञापारमिता पुस्तकलिखितां कृत्वा उपनाम्येत, तयोर् अहं भगवन् द्वयोर् भागयोः स्थापितयोर् इमाम् एव प्रज्ञापारमिताम् उद्गृह्णीयां. तत् कस्य हेतोर्? अतो निर्जातानि हि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते.
यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत् स तस्य कुशलमूलस्य परित्तीकृतानि दिव्यानि मानुष्यकाणि च सुखानि प्रत्यनुभूय क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा चातुर्महाराजकायिकेषु वा त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु देवेषु सुखं प्रत्यनुभूय तेन कुशलमूलेन दुःखस्यान्तं करिष्यति.
तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतो ध्यानपारमिता (psp_2-3:96) परिपूर्यते ध्यानपारमिता परिपूर्णा वीर्यपारमिता परिपूर्यते वीर्यपारमिता परिपूर्णा क्षान्तिपारमिता परिपूर्यते क्षान्तिपारमिता परिपुर्णा शीलपरमिता परिपूर्यते शीलपारमिता परिपूर्णा दानपारमिता परिपूर्यते दानपारमिता परिपूर्णा. एवं सप्तत्रिंशद्बोधिपक्ष्या धर्मा यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्यन्ते, सो ऽतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलभ्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, समचिन्त्यात्मभावान् प्रतिगृहीष्यति, यैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति. यदि वा चक्रवर्त्यात्मभावं पैगृह्य क्षत्रिय महाशालकुलात्मभावं परिगृह्य ब्राह्मण महाशालकुलात्मभावं परिगृह्य गृहपतिमहाशालकुलात्मभावं परिगृह्य सत्त्वान् परिपाचयिष्यति. तस्माद् भगवन् न मे तथागतशरीरेष्व् अगौरवम् एव मे भगवन् नापि न ग्रहीतुकामः. अपि तु खलु पुनः प्रज्ञापारमितया सत्कृतया गुरुकृतया मानितया पूजितया तथागतशरीराण्य् अपि सत्कृतानि भवन्ति गुरुकृतानि मानितानि पूजितानि भवन्ति.
पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति. तांश् च धर्मकायेन च रूपकायेन च द्रष्टुकामेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या. सचेत् कुलपुत्रो वा कुलदुहिता वा तान् दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् इच्छेद् द्रष्टुं, तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् भावयितव्या.
धर्मतया द्वे इमे भगवतां धर्मते. कतमे द्वे? यद् उत संस्कृतधर्मता चासंस्कृतधर्मता च.
तत्र भगवन् कतमा संस्कृतधर्मता? यद् उताध्यात्मशून्यताज्ञानं बहिर्धाशून्यताज्ञानम् अध्यात्मबहिर्धाशून्यताज्ञानं यावद् अभावस्वभावशून्यताज्ञानं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु यद् आर्यसत्येषु यद् अप्रमाणध्यानारूप्यसमापत्तिषु यद् दशसु तथागतबलेषु ज्ञानं, यच् चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (psp_2-3:97) ज्ञानं, यत् कुशलमूलेषु सास्रवानास्रवेषु सावद्यानवद्येषु लौकिकलोकोत्तरेषु संक्लेशव्यवदानधर्मेषु ज्ञानम् इयम् उच्यते संस्कृतधर्मता.
तत्र कतमा असंस्कृतधर्मा उच्यते? यस्य धर्मस्य नोत्पादो न निरोधो न स्थितिर् नास्थिः, नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिः, यावत् सर्वधर्माणाम् अभावस्वभावता. कतमा सर्वधर्माणाम् अभावस्वभावता? या अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता परभावशून्यता. यत् सर्वधर्माणां प्रकृतिशून्यतात्वम् अनुपलम्भो यावद् या सर्वधर्माणां निरभिलप्यता अप्रव्याहारता इयम् उच्यते असंस्कृतधर्मता. इति परार्थाधिमुक्तिर् अधिमात्रमृद्धी
अथ खलु भगवान् सक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽप्य् एतर्हि दशदिग्लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते ऽभूवन्न् अतीतानागताः श्रावका ये च प्रत्येकबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते, ये ऽपि स्रोतआपत्तिफलं प्राप्स्यन्ते प्राप्नुवन्ति च, ये ऽपि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ते प्राप्नुवन्ति च. ये ऽपि ते दशदिशि लोके ऽसंख्येयेषु लोकधातुषु श्रावका, ये च प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य श्रावकबोधिप्रत्येकबोधिप्राप्तास्. तत् कस्य हेतोस्? तथा ह्य् (psp_2-3:98) अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुत्पादानिरोधयोगेनासंक्लेशाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहानिर्यूहयोगेनानुत्क्षेपाप्रक्षेपयोगेनानुद्ग्रहानुत्सर्गयोगेन. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रज्ञापारमितायाम् अपारं वा पारं वा स्थलं वा निम्नं वा समं वा विषमं वा निमित्तं वा अनिमित्तं वा लौकिकं वा लोकोत्तरं वा संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा अतीतं वा अनागतं वा प्रत्युत्पन्नं वा प्रज्ञायते. न च कौशिक प्रज्ञापारमिता कस्यचिद् धर्मस्य प्रदायिका न प्रत्येकबुद्धधर्माणां नार्हत्वधर्माणां प्रदायिका. इति परार्थाधिमुक्तिर् अधिमात्रमध्या
शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. अत्र हि भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वचित्तचरितानि प्रजानन्ति न च सत्त्वम् उपलभन्ते, न जीवं न पोषं न पुरुषं न मनुजं न मानवं न कारकं न वेदकं न जानकं न पश्यकम् उपलभन्ते. न रूपम् उपलभन्ते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभन्ते. न पृथिवीधातुम् उपलभन्ते, नाब्धातुं न तेजोधातुं न वायुधातुं नाकाशधातुं न विज्ञानधातुम् उपलभन्ते. न चक्षुर् उपलभन्ते, न रूपम् उपलभन्ते, न चक्षुर्विज्ञानम् उपलभन्ते, न चक्षुःसंस्पर्शम् उपलभन्ते, यद् अपि तच् चक्षूरूपसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपलभन्ते. शब्दगन्धरसस्प्रष्टव्यधर्मान् नोपलभन्ते. श्रोत्रविज्ञानं यावन् मनोविज्ञानं, श्रोत्रसंस्पर्शं यावन् मनःसंस्पर्शं नोपलभन्ते यावद् यद् अपि तन् मनोधर्मसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नोपलभन्ते. स्मृत्युपस्थानानिनोपलभन्ते. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभन्ते. अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभन्ते. नार्यसत्यानि नाष्टविमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न षडभिज्ञा उपलभन्ते. (psp_2-3:99) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् उपलभन्ते. नाध्यात्मशून्यताम् उपलभन्ते, न बहिर्धाशून्यतां नाध्यात्मबहिर्धाशून्यतां यावन् नाभावस्वभावशून्यताम् उपलभन्ते. न समाधीन् न धारणीमुखान्य् उपलभन्ते. न शून्यतानिमित्ताप्रणिहितान्य् उपलभन्ते. न बोधिं न बुद्धं न बुद्धधर्मान् उपलभन्ते. न हि प्रज्ञापारमिता उपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोस्? तथा हि स्वभावो न संविद्यते नोपलभ्यते, येनोपलभ्येत यद् उपलभ्येत यत्र चोपलभ्येत.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, तथा हि कौशिक बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरन् बोधिम् अपि नोपलभते प्राग् एव बोधिसत्त्वधर्मान्.
शक्र आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् एव चरति नान्यासु पारमितासु?
भगवान् आह: सर्वासु कौशिक पारमितासु बोधिसत्त्वो महासत्त्वश् चरति न केवलं प्रज्ञापारमितायां. तच् चानुपलम्भयोगेन स दानपारमितां नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलपारमितां नोपलभते शीलवन्तम् अपि नोपलभते दौःशील्यम् अपि नोपलभते, क्षान्तिपारमितां नोपलभते क्षमिणम् अपि नोपलभते क्षम्यम् अपि नोपलभते वीर्यपारमितां नोपलभते कर्तव्यम् अपि नोपलभते कायचित्तम् अपि नोपलभते, ध्यानपारमितां नोपलभते चित्तम् अपि नोपलभते समाधिम् अपि नोपलभते, प्रज्ञापारमितां नोपलभते प्रज्ञावन्तम् अपि नोपलभते प्रज्ञयम् अपि नोपलभते. अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वंगमा नायिका बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः. प्रज्ञापारमिता पूर्वंगमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः क्षान्तिं भावयतो वीर्यम् आरम्भमाणस्य ध्यानं समापद्यमानस्य धर्मान् विभावयतो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता पूर्वंगमा नायिका सर्वधर्माणाम् अनुपलम्भयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानाम् अनुपलम्भयोगेन. सप्तत्रिंशतां (psp_2-3:100) बोधिपक्ष्याणां धर्माणाम् अनुपलनिभयोगेन. आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अनुपलम्भयोगेन. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां षण्णाम् अभिज्ञानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानाम्
अनुपलम्भयोगेन. सर्वज्ञताया अनुपलम्भयोगेन यावत् सर्वधर्माणाम् अनुपलम्भयोगेन. तद्यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्रपलाशानां नानापुष्पफलानां नानारोहसंस्थानपरिणाहानां न च तेषां वृक्षाणां च्छायाया विशेषो वा नानाकरणं चोपलभ्यते, अपि तु च्छाया च्छायेति संख्यां गच्छति. एवम् एव कौशिक पञ्चानां पारमितानां प्रज्ञापारमितापरिगृहीतानां सर्वज्ञातापरिणामितानां न विशेषो न नानाकरणम् उपलभ्यते ऽनुपलम्भयोगेन. इति परार्थाधिमुक्तिर् अधिमात्राधिमात्रेत्य् उक्तो अधिमुक्तिमनस्कारः गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः
शक्र आह: महागुणसमन्वागता भगवन्न् इयं प्रज्ञापारमिता, सर्वगुणपरिपूरणी अप्रमेयगुणसमन्वागता अचिन्त्यगुणसमन्वागता अतुल्यगुणसमन्वागता अपरिमाणगुणसमन्वागता अपर्यन्तगुणसमन्वागतेयं भगवन् प्रज्ञापारमिता. यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् यथोपदिष्टां च प्रज्ञापारमितां योनिशो मनसिकुर्याद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्यात्, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक, यः कश्चित् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रकं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात्, सो ऽपि कुलपुत्रो वा कुलदुहिता वा तत् सर्षपफलमात्रकं (psp_2-3:101) तथागतशरीरं सत्कुर्याद् गुरुकुर्याद् मानयेत् पाजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
शक्र आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानेयायं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि स्वयं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत, सो ऽपि सर्षपफलमात्रकं तथागतशरीरं परस्मै दाद्याद् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. एवम् अर्थवशं संपश्यमानेन तथागतेन वज्रोपमं समाधिं समापद्य आत्मभावं वज्रोपमं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोर्? ये केचिद् भगवन् तथागतस्य परिनिर्वृत्तस्यान्तशः सर्षपफलमात्रकम् अपि धातुं पूजयिष्यन्ति सर्वेषां तेषां न शक्यं तस्य कुशलमूलस्य पर्यन्तो ऽधिगन्तुं यावत् परिनिर्वाणम् इति.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्. यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यत्य् अर्चयिष्यत्य् अपचायिष्यते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, परस्मै च लिखित्वा दद्याद् एवं कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तुतिमात्र
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टां परेभ्यो गत्वा आचक्षीत देशयेत् प्रकाशयेद् विभजेद् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा ततः पूर्वकात् कुलपुत्राद् वा कुलदुहितुर् वा बहुतरं पुण्यं प्रसवति. शास्तेति वा प्रतिकांक्षितव्यः, अन्यतरान्यतरो वा गुरुस्थानीयः सब्रह्मचारी. तत् कस्य हेतोर्? एष एवात्र शास्ता द्रष्टव्यो येयं प्रज्ञापारमिता न ह्य् अन्यः शास्ता अन्या प्रज्ञापारमिता, प्रज्ञापारमितैव शास्ता, शास्तैव प्रज्ञापारमिता. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा कुलपुत्राः कुलदुहितरो वा अतीतानागतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रादुर्भूताः, ये ऽपि ते ऽभिज्ञाः सब्रह्मचारिणो ऽन्यतरान्यतरे ऽविनिवर्तनीयत्वे स्थितास्, ते ऽपि बोधिसत्त्वा महासत्त्वा इहैव प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् (psp_2-3:102) अभिसंबुद्धाः. अत्रैव कौशिक प्रज्ञापारमितायां श्रावकाः शिक्षिताः, अर्हन्तो ऽर्हत्त्वं प्राप्ताः, प्रत्येकबुद्धाः प्रत्येकबोधिं प्राप्ता, बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रामन्ति अवक्रान्ताश् च अवक्रमिष्यन्ति च. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा तथागतान् अर्हतः सम्यक्संबुद्धान् संमुखं सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इयम् एव प्रज्ञापारमिता पुस्तकलिखिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्र ध्वजपताकाभिः. इमम् अपि चार्थवशं संपश्यमानस्य ममानुत्तरां सम्यक्संबोधिम्
अभिसंबुधस्यैतद् अभूत्; कन् न्व् अहं धर्मम् उपनिश्रित्य विहरेयं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति. सो ऽहं कौशिक यदा नाद्राक्षं सदेवके लोके सब्रह्मके समारके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां सदृशम्. तस्य मे सदृशं समनुपश्यमानस्य एतद् अभूत्; यन् नूनम् अहं य एव मया धर्माभिसंबुद्धस् तम् एव धर्मं सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयम् इति, धर्मम् एव चोपनिश्राय विहरेयम् इति. अयम् एव कौशिक सद्धर्मो येयं प्रज्ञापारमिता. अहम् एव कौशिक इमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा उपनिश्राय च विहरामि. किं वा पुनः कौशिक कुलपुत्रेण वा कुलदुहित्रा वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. तत् कस्य हेतोस्? तथा हि श्रावकप्रत्येकबुद्धयानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीव्रच्छत्रध्वजपताकाभिः. तत् कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि बोधिसत्त्वा, बोधिसत्त्वनिर्जाताश् च तथागता अर्हन्तः सम्यक्संबुद्धास्, तथागतनिर् जाताश् च सर्वश्रावकप्रत्येकबुद्धास्. तस्मात् तर्हि कौशिक महायानिकैः कुलपुत्रैर् वा कुलदुहितृभिर् वा श्रावकयानिकैश् च इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या (psp_2-3:103) पूजयितव्या
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. इति द्वितीया स्तुतिमात्रा
एकं कौशिक सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य अप्रमेयं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोर्? दशसु कौशिक कुशलेषु कर्मपथेषु सत्त्वाः प्रतिष्ठापिता अपरिमुक्ता एव निरयतिर्यग्योनियमलोकासुरगतिभ्यः, स्रोतआपत्तिफले प्रतिष्ठापितः पुनः सर्वदुर्गतिभ्यो मुक्तो भवति. इति तृतीया स्तुतिमात्रा
सकृदागामिफले एवं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति चतुर्थी स्तुतिमात्रा
एवम् अनागामिफले एकं सत्त्वं प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति पञ्चमी स्तुतिमात्रा
एवम् एकं सत्त्वम् अर्हत्त्वे प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति षष्ठी स्तुतिमात्रा
एवम् एकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठाप्य बहुतरं पुण्यं प्रसवति, न त्व् एव जाम्बुद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. इति सप्तमी स्तुतिमात्रा
यः कश्चित् कौशिक कुलपुत्रो वास् कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति. इति अष्टमी स्तुतिमात्रा
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् सकृदागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सन्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति नवमी स्तुतिमात्रेत्य् उक्ता स्तुतिः
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अनागामिफले प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति प्रथमा स्तोभमात्रा (psp_2-3:104)
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् अर्हत्त्वे प्रतिष्ठापयेद्, यो वान्य एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयन् ततो बहुतरं पुण्यं प्रसवति. इति द्वितिया स्तोभमात्रा
एवं यः सर्वजाम्बुद्वीपकान् सत्त्वान् प्रत्येकबोधौ प्रतिष्ठापयेद्, यो वान्यः कुलपुत्रो वा कुलदुहिता वा एकं सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोस्? तथा हि बुद्धनेत्र्याः. सो ऽनुपच्छेदाय प्रत्युपस्थितो भवति, य एकं सत्त्वम् अप्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेत्. तत् कस्य हेतोर्? बोधिसत्त्वनिर्जाता हि कौशिक यावन्तस् तथागता अर्हन्तः सम्यक्संबुद्धाः. तद् अनेन कौशिक पर्यायेणैवं वेदितव्यं बोधिसत्त्वो ऽपि पूजयितव्यः सदेवमानुषासुरेण लोकेन. इति तृतीया स्तोभमात्रा
पुनर् अपरं कौशिक यः. कश्चित् कुलपुत्रो वा कुलदुहिता वा जाम्बुद्वीपकान् सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ताश् चावक्रमिष्यन्ति चावक्रामन्ति च. यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति च अवक्रामन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च. कतमे च ते कौशिक अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वार्य् आर्यसत्यानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वं विहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक (psp_2-3:105) पर्यायेणैवं वेदितव्यम्. यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याल् लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोस्? तथा हि अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः
क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञयन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्तिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावन् नैवसंज्ञानासंज्ञायतनोपगा देवा प्रज्ञायन्ते, सर्वपारमिताः प्रज्ञायन्ते, सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमिताप्रणिहितानि षड् अभिज्ञाः प्रज्ञायन्ते, सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि प्रज्ञायन्ते, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते, महामैत्री महाकरुणा प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. तिष्ठन्तु कौशिक जाम्बुद्वीपकाः सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमितानिर्जाताः सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वधर्मा बुद्धधर्माश् च. तिष्ठन्तु कौशिक चातुर्महाद्वीप्द्वीपके लोकधातौ सत्त्वा दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिता, यः कौशिक कुलपुत्रो वा कुलदुहिता वा ये साहस्रे लोकधातौ सत्त्वास् तन् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा (psp_2-3:106) कुलदुहिता वा इमां प्रज्ञापारमिताम् अन्तशः पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकायां बोधौ प्रतिष्ठापिता, यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा ये द्विसाहस्रे लोकधातौ सत्त्वास् तान् सर्वान् दशसु कुशलेषु कर्मपथेषु यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबोधौ प्रतिष्ठापिता, ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु पृतिष्ठापयेत् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेद्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वा यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापिताः यावन्तः काउशिक दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्टापयेद् यावत् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परस्मै दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टास्, तत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च, यावद् अर्हत्त्वं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. प्रत्येकां बोधिं प्राप्ताः प्राप्स्यन्ते प्राप्नुवन्ति च. बोधिसत्त्वाश् च महासत्त्वाश् च
बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमिष्यन्ति अवक्रामन्ति च. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतम एव कौशिक (psp_2-3:107) अनास्रवा धर्मास्? तद्यथा पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्माश् चत्वारि सत्यानि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता यावद् अभावस्वभावशून्यता अप्रमाणध्यानारूप्यसमापत्तयो दश तथागतबलानि यावद् अपरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टास् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः प्रज्ञापारमितायां तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखिताम् अपि कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि अयन् ततो बहुतरं पुण्यं प्रसवति, तत् कस्य हेतोस्? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा, यैर् धर्मैः क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगा देवाः प्रज्ञायन्ते, पारमिताः प्रज्ञायन्ते यावत् सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रज्ञायन्ते, सर्वज्ञताः प्रज्ञायन्ते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
पुनर् अपरं कौशिक ये जाम्बुद्वीपकाः सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेत्. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा परेभ्यो दद्याद् अन्तशो लिखनायापि वाचनायापि. तत् कस्य हेतोर्? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
