Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत् कस्य हेतोस्? तथा हि कौशिक प्रज्ञापारमिता सर्वधर्माणम् उपशमयित्री न विवर्धिका, कतमेषां धर्माणाम्? यद् उत रागस्य दोषस्य मोहस्याविद्यायाः संस्काराणां विज्ञानस्य नामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायानाम् उपशमयित्री न विवर्धिका सर्वदुःखस्कन्धस्य निवरणावरणानुशयपर्यवस्थानानाम् आत्मदृष्टेः सत्त्वदृष्टेर् जीवदृष्टेः पोषदृष्टेः पुरुषदृष्टेः पुद्गलदृष्टेर् मनुजदृष्टेर् मानवदृष्टेः कारकदृष्टेर् वेदकदृष्टेर् जानकदृष्टेः पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेर् यावत् सर्वदृष्टिकृतानां मात्सर्यदौःशील्यव्यापादस्य कौशीद्यस्य विक्षेपस्य दौष्प्रज्ञस्य नित्यसंज्ञासुखसंज्ञात्मसंज्ञाशुचिसंज्ञाशुभसंज्ञातृष्णाविचरितानां रूपग्राहस्य वेदनासंज्ञासंस्कारविज्ञानग्राहस्य दानपारमिताग्राहस्य शीलपारमिताग्राहस्य क्षान्तिपारमिताग्राहस्य वीर्यपारमिताग्राहस्य ध्यानपारमिताग्राहस्य प्रज्ञापारमिताग्राहस्याध्यात्मशून्यताग्राहस्य बहिर्धाशून्यताग्राहस्याध्यात्मबहिर्धशून्यताग्राहस्य यावद् अभावस्वभावशून्यताग्राहस्य स्मृत्युपस्तानग्राहस्य सम्यक्प्रहाणर्द्धिपादान्द्रियबलबोध्यङ्गग्राहस्याप्रमाणध्यानरूप्यसमापत्तिग्राहस्य सत्याभिज्ञाग्राहस्य सर्वसमाधिधारणीमुखग्राहस्य दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मग्राहस्य सर्वाकारज्ञताग्राहस्य निर्वाणग्राहस्योपशमयित्री न विवर्धिका. इति मार्गे धर्मज्ञानक्षान्तिः
अथ खलु य इह त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानो (psp_2-3:45) लोकपालाः शक्रा देवेन्द्रा ये च ब्रह्माणो ब्रह्मा च सहापतिर् यावद् अकनिष्ठा देवपुत्रास् ते सततसमितं तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षावरणगुप्तिं संविधास्यन्ति यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति. ये ऽपि ते दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तिं संविधास्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति यथा कुशलैर् धर्मैर् न परिहास्यते, कुशलैर् धर्मैर् विवर्धिष्यते. यद् उत दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताभिर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यति. एवं बहिर्धाशून्यतयाध्यात्मबहिर्धाशूम्यतया यावद् अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् विवर्धिष्यते न परिहास्यति. अप्रमाणध्यानारूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यति. सत्याभिज्ञाभिर् दशबलैर् वैशारद्यैः प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. सर्वसमाधिभिः सर्वधारणीमुखैर् विवर्धिष्यते न परिहास्यति, यावत् सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यति अनुपलम्भयोगेन. इति मार्गे धर्मज्ञानम्
स आदेयवचनश् च मितवचनश् च भविष्यति, न क्रोधाधिभूतो भविष्यति, न मानाभिभूतश् भविष्यति, न मत्सरी भविष्यति, नेर्ष्यालुर् भविष्यति. आत्मना च प्राणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपतवैरमणे प्रतिष्ठापयिष्यति, प्राणातिपातविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमणे प्रतिष्ठापयिष्यति, अदत्तादानविरतेश् च वर्णं भाषिष्यते, ये ऽपि (psp_2-3:46) चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति, परांश् च काम मिथ्याचारवैरमणे प्रतिष्ठापयिष्यति, काममिथ्याचारविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मृषावादात् प्रतिविरतो भविष्यति, परांश् च मृषावादवैरमणे प्रतिष्ठापयिष्यति, मृषावादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मृषावादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च पिशुनवचनात् प्रतिविरतो भविष्यति, परांश् च पिशुनवचनवैरमणे प्रतिष्ठापयिष्यति, पिशुनवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये पिशुनवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च परुषवचनात् प्रतिविरतो भविष्यति, परांश् च परुषवचनवैरमणे प्रतिष्ठापयिष्यति, परुषवचनविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये परुषवचनात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमणे प्रतिष्ठापयिष्यति, संभिन्नप्रलापविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये संभिन्नप्रलापात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमणे प्रतिष्ठापयिष्यति, अभिध्याविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमणे प्रतिष्ठापयिष्यति, व्यापादविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये व्यापादात् प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमणे प्रतिष्ठापयिष्यति, मिथ्यादृष्टिविरतेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति तेषाम् अपि वर्णवादी (psp_2-3:47) भविष्यति समनुज्ञः.
आत्मना च दानपारमितायां प्रतिष्ठितो भविष्यति, पारांश् च दानपारमितायां प्रतिष्ठापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये दानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च शीलपरमितायां प्रतिष्ठितो भविष्यति, परांश् च शीलपारमितायां प्रतिष्ठापयिष्यति, शीलपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शीलपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च क्षान्तिपारमितायां प्रतिष्ठितो भविष्यति, परांश् च क्षान्तिपारमितायां प्रतिष्ठापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषीष्यते, ये ऽपि चान्ये क्षान्तिपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च वीर्यपारमितायां प्रतिष्ठितो भविष्यति, परांश् च वीर्यपारमितायां प्रतिष्ठापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये वीर्यपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च ध्यानपारमितायां प्रतिष्ठितो भविष्यति, परांश् च ध्यानपारमितायां प्रतिष्ठापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ध्यानपारमितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च प्रज्ञापारमितायां प्रतिष्ठितो भविष्यति, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रज्ञापार्मितायां चरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाध्यात्मशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मशून्यातायाश् च वर्णं भाषिष्यते. ये ऽपि चान्ये ऽध्यात्मशून्यतां भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.
आत्मना च बहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् च (psp_2-3:48) बहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये बहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां प्रतिष्ठापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च यावद् अभावस्वभावशून्यतायां प्रतिष्ठितो भविष्यति, परांश् चाभावस्वभावशून्यतायां प्रतिष्ठापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽभावस्वभावशून्यतां भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च सर्वसमाधीन् समापत्स्यते, परांश् च सर्वसमाधिसमापत्तौ प्रतिष्ठापयिष्यति, सर्वसमाधिसमापत्तीनां वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वसमाधिसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च धारणीप्रतिलब्धो भविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य वर्णं भाषिष्यते, ये ऽपि चान्ये धारणीप्रतिलब्धा भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमध्यानसमापत्तौ प्रतिष्ठापयिष्यति, प्रथमध्यानप्रतिष्ठानस्य च वर्णं भाषिष्यते, ये ऽपि चान्ये प्रथमं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च द्वितीयं ध्यानं समापत्स्यते यावत् तृतीयं ध्यानं समापत्स्यते. आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थध्याने प्रतिष्ठापयिष्यति, चतुर्थध्यानप्रतिष्ठानस्य वर्णं भाषिष्यते, ये ऽपि चान्ये चतुर्थं ध्यानं समापद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मैत्रीं समापत्स्यते, परांश् च मैत्र्यां समादापयिष्यति, मैत्रीसमाधेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मैत्रीं (psp_2-3:49) समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च करुणामुदितोपेक्षाः समापत्स्यते, परांश् च करुणामुदितोपेक्षासु समादापयिष्यति, करुणामुदितोपेक्षाणां च वर्णं भाषिष्यते, ये ऽपि चान्ये करुणामुदितोपेक्षाः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाकाशानन्त्यायतनं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये आकाशानन्त्यायतनसमापत्तिं समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च विज्ञानानन्त्यायतनं समापत्स्यते. आत्मना चाकिंचन्यायतनं समापत्स्यते. आत्मना च नैवसंज्ञानासंज्ञायतनं उपसंपद्य विहरिष्यति, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये ऽपि चान्ये नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनायां समादापयिष्यति, स्मृत्युपस्थानभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
एवम् आत्मना च चत्वारि सम्यक्प्रहाणानि भावयिष्यति, चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि, आत्त्नना चार्याष्टाङ्गं मार्गं भावयिष्यति, परांश् च मार्गभावनायां समादापयिष्यति, मार्गभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये मार्गं भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च चत्वार्य् आर्यसत्यानि भावयिष्यति, परांश् च चतुर्ष्व् आर्यसत्येषु प्रतिष्ठापयिष्यति, चतुर्णां आर्यसत्यानां च वर्णं भाषिष्यते, ये ऽपि चान्ये चत्वार्य् आर्यसत्यानि भावयन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितसमाधिभावनायां प्रतिष्ठापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधिभावनायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः. (psp_2-3:50)
आत्मना चाष्टविमोक्षान् समापत्स्यते, परांश् चाष्टविमोक्षसमापत्तौ समादापयिष्यति, अष्टानां च विमोक्षाणां वर्णं भासिष्यते, ये ऽपि चान्ये ऽष्टविमोक्षान् समापद्यन्ते तेषां अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यते, परांश् च नवानुपूर्वविहारसमापत्तौ समादापयिष्यति, नवानुपूर्वविहारसमापत्तीनां च वर्णं भाषिष्यते, ये ऽपि चान्ये नवानुपूर्वविहारसमापत्तीः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापत्स्यते, परांश् च दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु समादापयिष्यति दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां च वर्णं भाषिष्यते, ये ऽपि चान्ये दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः समापद्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चाष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यते, परांश् चाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापयिष्यति, अष्टादशानाम् आवेणिकानां बुद्धधर्माणां च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽष्टादशावेणिकान् बुद्धधर्मान् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना चासंमोषधर्मा भविष्यति, परांश् चासंमोषधर्मतायां समादापयिष्यति, असंमोषधर्मतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये ऽसंमोषधर्मतायां प्रतिष्टापिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च सर्वाकारज्ञतायां प्रतिष्ठितो भविष्यति, परांश् च सर्वाकारज्ञतायां समादापयिष्यति सर्वाकारज्ञतायाश् च वर्णं भाषिष्यते, ये ऽपि चान्ये सर्वाकारज्ञतायां प्रतिष्ठिता भवन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. इति मार्गे ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यद् दानं ददाति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यच् छीलं रक्षति तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् (psp_2-3:51) अनुपलम्भयोगेन. यां क्षान्तिं भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् वीर्यम् आरभते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यद् ध्यानं समापद्यते तत् सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. यां प्रज्ञां भावयति तां सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपलम्भयोगेन. एवं चरतः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् एवम् उत्पद्यते: यद्य् अहं दानं न दास्यामि, दुर्गतेषु मे कुलेषूपपत्तिर् भविष्यति, न च मे सत्त्वपरिपाको भविष्यति, न च मे बुद्धक्षेत्रं परिशोधनं भविष्यति, न च सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: यद्य् अहं शीलं न रक्षिष्यामि, तिसृणं दुर्गतीनां मे ऽपावृतानि द्वाराणि भविष्यन्ति, न देवमनुष्योपपत्तिर् मे भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं, कुत एव सर्वज्ञताप्रतिलाभस्. तस्यैवं भवति: यद्य् अहं क्षान्तिं न भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यन्ते, मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदा बोधिसत्त्वचारिकां मे चरतः. सत्त्वाः सह दर्शनेन नियता भविष्यन्त्य्
अनुत्तरायां सम्यक्संबोधौ, न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं कुसीदो भविष्यामि, नैव बोधिसत्त्वमार्गं भावयिष्यामि, न वीर्यम् आरप्स्ये कथं बुद्धधर्मान् परिपूरयिष्यामि, कुत एव सर्वज्ञतां प्रतिलप्स्ये, तस्यैवं भवति: सचेद् अहं विक्षिप्तचित्तो भविष्यामि, न शिक्षिष्यामि सर्वसमाधिपरिनिष्पादनाय, न सत्त्वान् परिपाचयिष्यामि, न बुद्धक्षेत्रं परिशोधयिष्यामि, कुतः पुनः सर्वज्ञतां प्रतिलप्स्ये. तस्यैवं भवति: सचेद् अहं दुष्प्रज्ञो भविष्यामि, प्रज्ञोपायकौशल्येन श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वज्ञताम् अभिसंबोद्धुं नाहं शिक्षिष्यामि स एवं प्रतिसंशिक्षते, अयुक्तम् (psp_2-3:52) एतत् मम भवेद्, यो ऽहं मात्सर्यवशेन दानपारमितां न परिपूरयेयम्, एवं दौःशील्यवशेन शीलपारमितां व्यापादवशेन क्षान्तिपारमितां कौशीद्यवशेन वीर्यपारमितां विक्षेपवशेन ध्यानपारमितां दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं. अपरिपूरयन् दानपारमिताम् एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमितां चापरिपूरयन् न निर्यास्यामि सर्वाकारज्ञतायाम्. एवं हि कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधर्मिकान् सांपरायिकांश् च गुणानुशंसान् प्रतिलभते य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति लिखिष्यति लिखापयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वज्ञताचित्तेन. इति मार्गे ऽन्वयज्ञानम् इत्य् उक्तो बोधिसत्त्वदर्शनमार्गः
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता.
भगवान् आह: कथं पुनः कौशिक प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनाय परिणमनाय च प्रत्युपस्थिता?
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यो दानां ददाति. तस्यैवं भवति: अहं दानं ददामि बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः कृपणवनीकार्थिकयाचनकेभ्यः. स एतेन दानेनानुपायकौशल्येनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं शीलं रक्षत एवं भवत्य्: अहं शीलपारमितायां चरामि, अहं शीलपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकीं क्षान्तिं भावयत एवं भवत्य्: अहं क्षान्तिपारमितायां चरामि, अहं क्षान्तिपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं वीर्यम् आरम्भमाणस्यैवं भवति: अहं वीर्यपारमितायां चरामि, अहं वीर्यपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिकं ध्यानं समापद्यमानस्यैवं भवत्य्: अहं ध्यानपारमितायां चरामि, अहं ध्यानपारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य (psp_2-3:53) लौकिक्यां प्रज्ञापारमितायां चरतो ऽनुपायकौशल्येनैवं भवत्य्: अहं प्रज्ञापारमितायां चरामि, प्रज्ञापारमितां परिपूरयामि, स तेनोन्नतिं गच्छति. तस्य बोधिसत्त्वस्य महासत्त्वस्य लौकिक्यां स्मृत्युपस्थानभावनायां स्थितस्यैवं भवत्य्: अहं स्मृत्युपस्थानानि, भावयामि, अहं सम्यक्प्रहाणानि, अहम् ऋद्धिपादान्, अहम् इन्द्रियाणि, अहं बलानि, अहं बोध्यङ्गानि, अहम् आर्याष्टाङ्गं मार्गं भावयामि, अहं
शून्यतानिमित्ताप्रणिहितसमाधिं भावयामि, अहं सर्वसमाधीन्, अहं सर्वधारणीमुखानि, अहम् अप्रमाणध्यानारूप्यसमापत्तीर् भावयामि, अहं चत्वार्य् आर्यसत्यानि भावयामि, अहम् अभिज्ञा, अहं दशबलानि, अहं वैशारद्यानि, अहं प्रतिसंविदः, अहम् अष्टादशावेणिकान् बुद्धधर्मान् भावयामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सर्वाकारज्ञतां परिप्राप्स्यामि, स तेनाहंकारममकाराभिनिवेशेनोन्नतिं गच्छति. एवं हि भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन्न् उन्नतिं गच्छति. अहंकारममकाराभिनिवेशेन. तस्य खलु पुनः प्रज्ञापारमिता परिदमनाय परिणामनाय च प्रत्युपस्थिता भवति.
इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरेषु धर्मेषु चरन् दानं ददद् दायकं नोपलभते, प्रतिग्राहकं नोपलभते, देयं च नोपलभते. एवं हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय प्रत्युपस्थितो भवति परिणामनाय. एवं शीलं रक्षन् क्षान्तिं संपादयमानो वीर्यम् आरम्भमाणो ध्यानं ध्यायन् प्रज्ञापारमितां भावयन् प्रज्ञां नोपलभते. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन् नोपलभते. अप्रमाणध्यानारूप्यसमापत्तीः, आर्यसत्यान्य् अभिज्ञां भावयन् नोपलभते. बलानि वैशारद्यां प्रतिसंविदः, अष्टादशावेणिकान् बुद्धधर्मान् भावयन् नोपलभते. सर्वशून्यताः सर्वसमाधिन् सर्वधारणीमुखानि भावयन् नोपलभते. एवं महामैत्रीं महाकरुणां च भावयन् नोपलभते यावत् सर्वाकारज्ञतां भावयन् नोपलभते. एवं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परिदमनाय परिणामनाय च प्रत्युपस्थितो भवति. इति सर्वतो दमननमनकारित्रम् (psp_2-3:54)
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्गृह्णन् वा धारयन् वा वाचयन् वा पर्यवाप्नुवन् वा प्रवर्तयन् वा स्वाध्यायन् वा योनिशो मनसिकुर्वन् वा संग्रामशीर्षम् आरूढः संग्रामे वर्तमाने संग्रामे ऽवतीर्णो वा शयितो वातिक्रान्तो वा निषण्णो वा स्थितो वा स्यात्, अस्थानं कौशिकानवकाशो यत् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयतः स्वाध्यायतो योनिशो मनसिकुर्वतो वा कश्चिद् एव काण्डं वा शस्त्रं वा लोष्टं वा क्षिपेत् क्षिप्तानि वा तस्य तानि शरीरे प्रहरणानि पतेयुः, परोपक्रमेन वास्य जीवितान्तरायो भवेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहित्रा वा दीर्घरात्रम् इह प्रज्ञापारमितायां चरता आत्मनो रागकाण्डानि रागशस्त्राणि निर्जितानि भवन्ति. परेषाम् अपि रागकाण्डानि रागशस्त्राणि निर्जितानि. आत्मनो दोषकाण्डानि दोषशस्त्रानि मोहकाण्डानि मोहशस्त्राणि निर्जितानि. परेषाम् अपि दोषकाण्डानि दोषशस्त्राणि मोहकाण्डानि मोहशस्त्राणि निर्जिताम्. आत्मनो दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि परेषाम् अपि दृष्टिकृतकाण्डानि दृष्टिकृतशस्त्राणि निर्जितानि. आत्मनः पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. परेषाम् अपि पर्युत्थानकाण्डानि पर्युत्थानशस्त्राणि निर्जितानि. आत्मनो ऽनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. परेषाम् अप्य् अनुशयकाण्डान्य् अनुशयशस्त्राणि निर्जितानि. अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा काण्डं वा शस्त्रं वा शरीरे क्षिप्तं न पतति. इति क्लेशनिर्जयकारित्रम्
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वज्ञताचित्तेन भविष्यति तस्य कश्चिद् एवाभैषज्यम् अवकिरेत्, काखोर्दं वा कुर्याद् अग्निखदां वोपनामयेच् छस्त्रेण वा हन्याद् विषं वा दद्याद् उदके वैनच् छोरयेत् सर्वाण्य् एतानि तस्य न क्रामन्ति. तत् कस्य हेतोर्? महाविद्यैषा कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरैषा (psp_2-3:55) कौशिक विद्या यद् उत प्रज्ञापारमिता. अत्र हि कौशिक शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते. इत्य् उपक्रमाधिसह्यताकारित्रम्
तत् कस्य हेतोस्? तथा हि नैवात्मानम् उपलभते. न परान् नोभयम् उपलभते. न रूपम् उपलभते. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् उपलभते. न यावद् व्यस्तसमस्तान् स्कन्धधात्व् आयतन प्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तिसर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् यावत् सर्वाकारज्ञताम् अपि नोपलभते. अनुपलभमानो नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते. अनुत्तरां सम्यक्संबोधिं प्रतिलभते सर्वसत्त्वांश् चावलोकयति. तत् कस्य हेतोर्? अत्र हि विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि ते दशदिग्लोकधातुष्व् एतर्हि प्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र प्रज्ञापारमितायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति सम्यक्संबोधिकारित्रम्
पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र मणुष्यो वा अमनुष्यो वा अवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां पूजार्थाय त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा, ये ऽप्य् अन्येष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवापुत्रास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां वा रक्षावरणगुप्तिं संविधास्यन्ति. (psp_2-3:56) य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यन्ति वाचयिष्यन्ति ते च देवपुत्रा अगत्येमां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पूजयित्वा प्रतिगमिष्यन्ति. य इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति वाचयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद्यथापि नाम कौशिक ये केचिद् बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा तिर्यग्योनिगतान् अप्य् उपादाय न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोर्? अत्र हि निषद्य तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. अनागतैर् अपि प्रत्युत्पन्नैर् अपि तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंभोत्स्यते अभिसंबुध्यते च. अभिसंबुध्य च सर्वसत्त्वान् सुखे ऽभये
ऽनुद्वेगे ऽवैरे ऽनुत्त्रासे ऽव्याबाधे ऽसपत्ने प्रतिष्ठापयन्ति. सुखे ऽभये ऽनुद्वेगे ऽनुत्त्रासे ऽवैरे ऽव्याबाधे ऽसपत्ने प्रतिष्ठाप्याप्रमेयान् असंख्येयान् सत्त्वान् दिव्यमानुष्यकायं संपत्तौ प्रतिष्ठापयन्ति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे ऽनुत्तरायां सम्यक्संबोधौ परिणामयन्ति. तत् कस्य हेतोर्? अनयैव कौशिक प्रज्ञापारमितया सपृथिवीप्रदेशश् चैत्यभूतः कृतः सर्वसत्त्वानां वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इत्य् आधारदेशपूज्यताकारित्रम् इत्य् उक्तं कारित्रम्
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगताम् अपि कृत्वा धारयेत् ताञ् च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयिष्यति प्रतिष्ठाप्य प्रतिगृह्णीयाद् धारयेद् वाचयेत् तानि च सत्कुर्याद् गुरुकुर्याद् (psp_2-3:57) मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, कतरस् ततो बहुपुण्यं प्रसवति?
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः. तत् किं मन्यसे? कौशिक येयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञता यो चायं तथागतस्यात्मभावो ऽभिनिर्वृत्तः, स कतरस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः?
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: इहैव भगवन् शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाम् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अयं चात्मभावो ऽभिनिर्वृत्तः.
तस्मात् तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस् तथागत इति संख्यां गच्छति. सर्वज्ञतायां तु प्रतिलब्धायां तथागतस् तथागत इति संख्यां गच्छति. येयं कौशिक सर्वज्ञता सा प्रज्ञापारमिता निर्जाता. एवम् अयम् आत्मभावशरीरप्रतिलाभस् तथागतस्य प्रज्ञापारमितानिर्जातत्वात्, सर्वज्ञज्ञानस्याश्रयभूतो भवति. एवं चाश्रयं निश्रित्य सर्वज्ञज्ञानप्रतिलाभप्रभावनाबुद्धप्रभावनाधर्मप्रभावनासंघप्रभावना भवति. एवम् अस्य सर्वज्ञज्ञानहेतुको ऽयम् आत्मभावप्रतिलाभः. आश्रयभूतत्वात् सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः संवृत्तः. एवं च मम परिनिर्वृतस्यापि सत एषां शरीराणां पूजा भविष्यति.
तस्मात् तर्हि कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा सत्कारेण वाचयिष्यति धारयिष्यति, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिर् बहुविधाभिश् च पूजाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवति.
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा (psp_2-3:58) कुलदुहित्रा वा पूजा कृता भवेत्. यः कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य सप्तरत्नमये स्तूपे शरीरं प्रतिष्ठापयेत् सप्तरत्नमये वा समुद्गे वा कृत्वा परिवहेत्, तच् च सत्कुर्याद् यावद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्, यश् च इह प्रज्ञापारमितायां लिख्यामानायां वा पुस्तकगतायां वा सत्कारं कुर्याद् गुरुकारं कुर्याद् माननां पूजनाम् अर्चनाम् अपचायनां कुर्यात्, अयं ततो बहुतरं पुण्यं प्रसवेत्.
तत् कस्य हेतोः? सर्वज्ञज्ञानस्य तेन पूजा कृता भविष्यति अतो निर्जाता हि पञ्चपारमिता, अतो निर्जाता अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, अतो निर्जातानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्यानि, अतो निर्जाता अप्रमाणध्यानारूप्यसमापत्तयः अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातः सर्वसत्त्वपरिपाकः, अतो निर्जाता बुद्धक्षेत्रपरिशुद्धिः, अतो निर्जाता बोधिसत्त्वानां महासत्त्वानां कुलसंपद् भोगसंपद् परिवारसंपद्, अतो निर्जाता महामैत्री महाकरुणा, अतो निर्जाता क्षत्रियमहाशालकुलता ब्राह्मणमहाशालकुलता गृहपतिमहाशालकुलता, अतो निर्जाता चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्त्मो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणो यावद् अकनिष्ठा देवपुत्रा, अतो निर्जाताः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा, अतो निर्जाता बोधिसत्त्वा महासत्त्वा, अतो निर्जातास् तथागता अर्हन्तः सम्यक्संबुद्धा, अतो निर्जाताचिन्त्या अतुल्या अनुत्तरा निरुत्तरा असमा असमसमा सर्वाकारज्ञता. इति स्वार्थाधिमुक्तिमृदुमृद्धी
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति नार्चयन्ति नापचायन्ते पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः किं नु भगवञ् ज्ञास्यन्ति एवं महर्द्धिका प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, एवं महानुशंसा प्रज्ञापारमितायाः पूजा कृता भविष्यतीति, उत न ज्ञास्यन्ति? (psp_2-3:59)
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता, ये धर्मे ऽवेत्यप्रसादेन समन्वागता, ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः?
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा ये धर्मे निष्काङ्क्षा ये संघे निष्काङ्क्षा, ये बुद्धे निष्ठांगता ये धर्मे निष्ठांगता ये संघे निष्ठांगताः.
भगवान् आह: तत् किं मन्यसे कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बाद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागदोषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः?
शक्र आह: अल्पतरकास् ते भगवन् जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतां बोधिपक्ष्यां धर्माणां लाभिनः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनस्, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनस्, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीनां लाभिनस्, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनस्, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः. ततो ऽल्पतरकास् जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरकास् ते ये रागदोषमोहतनुत्वात् (psp_2-3:60) सकृदागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरकास् ते ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे धर्मे संघे ऽवेत्यप्रसादेन समन्वागताः, ये बुद्धे धर्मे संघे निष्काङ्क्षाः, ये बुद्धे धर्मे संघे निष्ठांगताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये दशकुशलकर्मपथसेविनस्, तेभ्यो ऽल्पेभ्यो ऽल्पतरकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरकास् ते ये सप्तत्रिंशद्बोधिपक्षान् धर्मान् भावयन्ति. तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये त्रीणि विमोक्षमुखानि भावयन्ति. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽष्ट विमोक्षां भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति, तेभ्यो ऽप्य् अल्पेभ्यो ऽल्पतरका ये चतस्रः प्रतिसंविदो भावयन्ति, तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये षड् अभिज्ञा भावयन्ति. ततो ऽल्पतरका ये स्रोतआपन्नाः, ततो ऽल्पतरका ये सकृदागामिनः, ततो ऽल्पतरका ये ऽर्हन्तः, ततो ऽल्पतरका ये प्रत्येकबुद्धाः, ततो ऽल्पतरका ये ऽनुत्तरायै सम्यक्संबोधये संप्रस्थिताः. ततो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति.
तत् कस्य हेतोस्? तथा हि तैः संसारे संसरद्भिर् न बुद्धो दृष्टः न धर्मः श्रुतः न संघः पर्युपासितः. न दानं दत्तं न शीलं रक्षितं न क्षान्तिर् भाविता न वीर्यम् आरब्धं न ध्यानं सेवितं न प्रज्ञा भाविता, न दानपारमिता श्रुता एवं न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता श्रुता नोपायकौशलं श्रुतं नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता श्रुता न सप्तत्रिंशद्बोधिपक्षा धर्माः श्रुता न समाधयो न सर्वधारणीमुखानि नाप्रमाणध्यानारूप्यसमापत्तयाः श्रुता नार्यसत्यानि नाभिज्ञा न बलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः श्रुता न सर्वज्ञता श्रुता न भाविता न बहुली कृताः.
अनेन कौशिक हेतुनाल्पकास् ते सत्त्वा ये बुद्धे ऽवेत्यप्रसादेन समन्वागता ये धर्मे ऽवेत्यप्रसादेन समन्वागता ये संघे ऽवेत्यप्रसादेन (psp_2-3:61) समन्वागताः, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्काङ्क्षा, अल्पकास् ते सत्त्वा ये बुद्धे धर्मे संघे निष्ठांगता, अल्पकास् ते जाम्बूद्वीपका मनुष्या ये दशकुशलकर्मपथसेविनः, अल्पकास् ते ये दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभावना युक्ताः, अल्पकास् ते ये सप्तत्रिंशद्बोधिपक्ष्यां धर्मां भावयन्ति. अल्पकास् ते ये त्रीणि विमोक्षमुखानि भावयन्ति. अल्पकास् ते ये ऽष्ट विमोक्षां भावयन्ति अल्पकास् ते ये नवानुपूर्वविहारसमापत्तीर् भावयन्ति. अल्पकास् ते ये चतस्रः प्रतिसंविदो भावयन्ति. अल्पकास् ते षड् अभिज्ञा भावयन्ति. अल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, रागदोषमोहतनुत्वात् सकृदागामिनः, पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाद् आनागामिनः, पञ्चानम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः. अल्पकास् ते जाम्बुद्वीपका मनुष्या ये प्रत्येकबुद्धयानं संप्रस्थिताः. तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः तेभ्यो ऽल्पेभ्यो ऽल्पतरका ये बोधाय चरन्ति. ततो ऽल्पतरका ये बोधिचित्तम् उपबृंहयन्ति. ततो ऽल्पतरका ये प्रज्ञापारमितायां योगम् आपद्यन्ते. ततो ऽल्पतरका ये प्रज्ञापारमितायां चरन्ति. ततो ऽल्पतरका ये ऽविनिवर्तनीयायां भूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
इहाहं कौशिक पश्यामि अनावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि अप्रमेयाम् असंख्येयां सत्त्वाम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य प्रज्ञापारमितायां चरत उपायकौशलविरहितांस् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिः कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु पश्याम्य् अहं कौशिक अनावरणेन बुद्धचक्षुषा अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य बोधाय चरत उपायकौशलविरहितास् तत एको वा द्वौ वा बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयत्वे ऽवतिष्ठेयातां, भूयस्त्वेन ते श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते.
तत् कस्य हेतोर्? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः (psp_2-3:62) कुशीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् हीनसत्त्वैर् दुष्प्रज्ञैः. इति स्वार्थाधिमुक्तिमृदुमध्या
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं च सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन इयम् एव प्रज्ञापारमिता अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या परिप्रश्नीकर्तव्या योनिशो मनसिकर्तव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च ये ऽपि चान्ये कुशला धर्मा इह प्रज्ञापरमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्याः पर्यवाप्तव्याः प्रवर्तयितव्या योनिशो मनसिकर्तव्याः तद्यथापि नाम दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा, अन्ये चापरिमाणा बुद्धधर्मा ये प्रज्ञापारमितायाम् अन्तर्गतास् ते ऽप्य् उद्ग्रहीतव्या यावद् योनिशो मनसिकर्तव्याः.
तत् कस्य हेतोस्? तथा हि कौशिक ते कुलपुत्रा वा कुलदुहितरो वा एवं प्रज्ञास्यन्ति अत्र हि तथागतः पूर्वबोधिसत्त्वचारिकां चरन् शिक्षितो यदुत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु षट्सु अभिज्ञासु दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायाम् अन्येषु चापरिमाणेषु बुद्धधर्मेष्व् अस्माभिर् अप्य् अस्यां प्रज्ञापारमितायाम् अनुशिक्षमाणैः शिक्षितव्यम् एषास्माकं शास्ता, तिष्ठतो वा तथागतस्य परिनिर्वृतस्य वा इयम् एव प्रज्ञापारमिता प्रतिसर्तव्या बोधिसत्त्वैर् महासत्त्वैः. (psp_2-3:63) इति स्वार्थाधिमुक्तिर् मृद्वधिमात्रा
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कियत् स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति?
भगवान् आह: यः कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजायै सप्तरत्नमयं स्तूपं योजनोच्छ्रितं कारयेत् कारयित्वा यावज्जीवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, समन्ताच् च सत्कुर्याद् गुरुकुर्याद् मानायेत् पूजयेत्.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति देशयिष्यति योनिशो मनसिकरिष्यति अविरहितः सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वार्थाधिमुक्तिर् मध्यमृद्धी
तिष्ठतु कौशिक स्तूपो रत्नमयः सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजाकर्मणे इमं जम्बूद्वीपं सप्तरत्नमयैः स्तूपैः परिपूर्णं कुर्याद् योजनोच्छ्रितैः, तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति योनिशो मनसिकरिष्यति, अविरहितश् सर्वज्ञताचित्तेन लिखितां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् (psp_2-3:64) बहुविधाभिश् च पूजाभिः पूजयिष्यति. इति स्वार्थाधिमुक्तिमध्यमध्या
तिष्ठतु कौशिक जम्बूद्वीपस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक य इमां चातुर्महाद्वीपकं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः परिपूर्णं कुर्यात् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेद् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् अन्तशः पुस्तकगताम् अपि कृत्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेत् अर्चयेद् अपचायेत् अयम् एव ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् मध्याधिमात्रा
तिष्ठतु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः सचेत् कौशिक यः साहस्रं लोकधातुं तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयैः स्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत्, दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् अधिमात्रमृद्धी
तिष्ठतु कौशिक साहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णः सचेत् कौशिक द्विसाहस्रं लोकधातुं कश्चिद् एव पुरुषस् तथागतस्य परिनिर्वृतस्य (psp_2-3:65) पूजार्थं नानारत्नमयैः स्तूपैः परिपूर्णं कारयेत् कारयित्वा च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः पूजयेद् अर्चयेद् अपचायेत्.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. इति स्वार्थाधिमुक्तिर् अधिमात्रमध्या
तिष्ठतु कौशिक द्विसाहस्रो लोकधातुर् नानारत्नमयस्तूपपरिपूर्णो यः. कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य पूजार्थम् इमां त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नमयैस् तथागतस्तूपैर् योजनोच्छ्रितैः पूरयेत् पूरयित्वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् अन्तशः पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. इति स्वार्थाधिमुक्तिर् अधिमात्राधिमात्रा
तिष्ठतु कौशिक त्रिसाहस्रमहासाहस्रो लोकधातुर् नानारत्नमयस्तुपपरिपूर्णः पूजितो ये केचित् कौशिक त्रिसाहस्रे लोकधातौ सत्त्वाः सत्त्वसंग्रहेण संगृहीताः तेषाम् एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् कारयेद् योजनोच्छ्रितांस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः. (psp_2-3:66)
तत् किं मन्यसे कौशिकापि नु ते सत्त्वास् ततोनिदानं बहुतरं पुण्यं प्रसवेयुः?
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां पुस्तकगताम् अपि कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्याद् अविरहितः सर्वज्ञताचित्तेन पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
एवम् उक्ते सक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत, प्रज्ञापारमितया भगवन् सत्कृतया गुरुकृतया मानितया पूजितया अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सत्कृता गुरुकृता मानिता पूजिताश् च, ये ऽपि ते भगवन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तेभ्य एकैकः सत्त्वस् तथागतस्य परिनिर्वृतस्य पूजार्थं सप्तरत्नमयान् स्तूपान् प्रतिष्ठापयेद् योजनोच्छ्रितांस् तांश् च कल्पं वा कल्पावशेसं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अपि नु ते भगवन् कुलपुत्रा वा कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसवेयुः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्.
शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तांश् च (psp_2-3:67) सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् अर्चयेद् अपचायेत् दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश् च पूजयेद् अर्चयेद् अपचायेत्, अयम् एव भगवन् कुलपुत्रो वा कुलदुहिता वा तस्मात् पूर्वकात् कुलपुत्राद् वा कुलदुहितृतो वा बहुतरं पुण्यं प्रसवेत्, तथा हि भगवन्न् अस्यां प्रज्ञापारमितायां सर्वे कुशला धर्मा अन्तर्गताः. तद्यथा दशकुशलाः कर्मपथाश् चत्वारि ध्यानां चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सप्तत्रिंशद्बोधिपक्ष्या धर्मास् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यानि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः. प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, इदं तद् बुद्धानां भगवता शासनं यत्र शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावकाश् च निर्जाता निर्यान्ति निर्यास्यन्ति च.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा ततोनिदानं बहुतरं पुण्यं प्रसविष्यन्ति. अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अर्चयिष्यन्ति अपचायिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः.
तत् कस्य हेतोः? प्रज्ञापारमिता निर्जाता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां पञ्च पारमिता सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः पञ्च चक्षूंषि षड् अभिज्ञा अष्ट विमोक्षा नवानुपूर्वविहार समापत्तयः सत्त्वपरिपाको बुद्धक्षेत्रसंपत्, प्रज्ञापारमितानिर्जाता हि कौशिक मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता, प्रज्ञापारमितानिर्जातं हि (psp_2-3:68) कौशिक श्रावकयानं प्रत्येकबुद्धयानं, प्रज्ञापारमितानिर्जाता हि कौशिक अनुत्तरा सम्यक्संबोधिः.
तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति अर्चयिष्यति अपचायिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः, अस्य पुण्याभिसंस्कारस्यासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटिनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि न क्षमते.
तत् कस्य हेतोर्? यावद् इयं हि कौशिक प्रज्ञापारमिता जाम्बूद्वीपे स्थास्यति तावद् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्य न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दश कुशलाः कर्मपथा लोके भविष्यन्ति चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानाम् आर्यसत्यानां षण्णाम् अभिज्ञानाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां चतसृणां प्रतिसंविदां दशानां तथागतबलानां चतुर्णां वैशारद्यानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञतायाः क्षत्र्यमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां चातुर्महाराजकायिकानां देवानां त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां लोके प्रादुर्भावो भवति यावद् अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपत्तिफलस्य सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां समुदागमो भवति. अनुत्तरस्य बुद्धज्ञानस्य धर्मचक्रप्रवर्तनस्य सत्त्वपरिपाकस्य बुद्धक्षेत्रपरिशुद्धिश् च प्रज्ञायते. इति स्वपरार्थाधिमुक्तिमृदुमृद्धी
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका (psp_2-3:69) देवा यावद् अकनिष्ठा देवपुत्रास् तान् शक्रो देवानाम् इन्द्र आमन्त्रयामास: उद्ग्रहीतव्या मार्षाः प्रज्ञापारमिता धारयितव्या वाचयितव्या पर्यवाप्तव्या मार्षाः प्रज्ञापारमिता योनिशो मनसिकर्तव्या प्रज्ञापारमिता.
तत् कस्य हेतोः? प्रज्ञापारमिताया मार्षा उद्ग्रहीतया धारितया वाचितया पर्यवाप्तया सर्वे ऽकुशला धर्माः परिहीयन्ते कुशला धर्मा विवर्धन्ते दिव्याः काया विवर्धन्ते असुराः कायाः परिहीयन्ते, प्रज्ञापारमिताया मार्षा उद्गृहीतया धार्तितया वाचितया पर्यवाप्तया न बुद्धनेत्री समुच्छिद्यते न धर्मनेत्री न संघनेत्री समुच्छिद्यते, त्रिरत्नवंशानुपच्छेदाय मार्षाः सर्वासां पारमितानां लोके प्रादुर्भावो भवति, सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षमुखानां नवानुपूर्वविहारसमापत्तीनां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां मार्गाकारज्ञतायाः सर्वज्ञतायाः सर्वाकारज्ञताया लोके प्रादुर्भावो भवति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भवति, स्रोतआपन्नसकृदागाम्यनागाम्यर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां लोके प्रादुर्भावाः प्रज्ञायन्ते.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: उद्ग्रहाण त्वं कौशिक प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि त्वं कौशिक प्रज्ञापारमिताम्.
तत् कस्य हेतोर्? यदा कौशिक असुराणाम् एवं समुदाचारा भविष्यन्ति देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्याम इति तदा त्वं कौशिक इमां प्रज्ञापारमितां समन्वाहरेः स्वाध्यायेः एवं तेषाम् असुराणां ते समुदाचारा अन्तर्धास्यन्ति, न च पुनस् तान् विग्रहचित्तोत्पादान् उत्पादयिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां वा च्युतिकालो भवेत् तेषाम् अपि पुरतः स्वाध्यायं कुर्यास्, ते यद्य् आत्मनो ऽपायोपपत्तिं द्रक्ष्यन्ति तेषाम् एनां प्रज्ञापारामितां शृण्वतां ते ऽपायोपपत्तिचित्तोत्पादा अन्तर्धास्यन्ति, तत्रैव देवभवने ते उत्पत्स्यन्ते एवं महर्द्धिका ह्य् अस्याः प्रज्ञापारमितायाः श्रवा यस्य कस्यचित् कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया (psp_2-3:70) वा इयं प्रज्ञापारमिता श्रोत्रावभासम् आगमिष्यति. सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: एवम् एतद् भगवन्न् एवम् एतत् सुगत तथा हि भगवन् ये ऽतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अभूवन्, येषां श्रावका निरुपधिशेषे निर्वाणधातौ प्रतिष्ठितास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. ये ऽपि ते भगवन् भविष्यन्ति अनागते ऽध्वनि बुद्धा भगवन्तः सश्रावकसंघास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. ये ऽपि चैतर्हि दशदिशि लोके प्रत्युत्पन्ने ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भगवन्तः स श्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
तत् कस्य हेतोस्? तथा हि प्रज्ञापारमितायां सर्वे बुद्धधर्मा अन्तर्गताः सर्वे बोधिसत्त्वधर्माः सर्वे प्रत्येकबुद्धधर्माः सर्वे श्रावकधर्मा अन्तर्गताः
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, महाविद्येयं कौशिक यद् उत प्रज्ञापारमिता, अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, असमसमेयं कौशिक विद्या यद् उत प्रज्ञापारमिता.
तत् कस्य हेतोस्? तथा हि कौशिक ये ऽतीतानागतप्रत्युत्पन्ना दशदिशि लोके तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वे ते इमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. इमाम् एव प्रज्ञापारमिताम् आगम्य दशकुशलाः कर्मपथाः प्रज्ञायन्ते, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधमाः प्रज्ञायन्ते. त्रीणि विमोक्षमुखानि अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः षड् अभिज्ञा धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् (psp_2-3:71) अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञता लोके प्रज्ञायते. बोधिसत्त्वं पुनः कौशिकागम्य दश कुशलाः कर्मपथा लोके प्रभाव्यन्ते. सप्तत्रिंशद् बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो ऽष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयस् त्रीणि विमोक्षमुखानि षड् अभिज्ञाः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा मार्गाकारज्ञता सर्वज्ञता सर्वाकारज्ञता लोके प्रज्ञायते. धर्मधातुर् भूतकोटितथता अवितथता अनन्यतथता धर्मता धर्मस्थितिता धर्मनियामता लोके प्रज्ञायते. पञ्च चक्षूंषि
स्रोतआपत्तिफलं स्रोतआपन्नः सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हन् प्रत्येकबोधिः प्रत्येकबुद्धः, अनुत्तरा सम्यक्संबोधिः. तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते. तद्यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वौषधीतारागणाः प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य दशकुशलाः कर्मपथाः. सर्वकुशलचर्या सम्यक्चर्या सर्वपारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः सर्वसमाधयः सर्वशून्यताः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहितसमाध्योषधयः प्रभाव्यन्ते. दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मौषधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षसर्वश्रावकप्रत्येकबुद्धतारानक्षत्राणि प्रज्ञायन्ते. सर्वज्ञता प्रभाव्यते. तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते. यदापि बुद्धा भगवन्तो लोके नाभिसंबुध्यन्ते नोत्पादस् तथागतानां भवति, तदापि ते बोधिसत्त्वा महासत्त्वाः. सत्त्वानां लौकिकांश् च लोकोत्तरांश् च धर्मान् देशयन्ति.
तत् कस्य हेतोः? बोधिसत्त्वनिर्जातानि हि देवयानमनुष्ययानश्रावकयानप्रत्येकबुद्धयानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं प्रज्ञापारमितानिर्जातं, येनोपायकौशल्येन षड् पारमिताः परिपूरयति सर्वशून्यतां भावयति सर्वसमाधींश् च समापद्यते सर्वधारणीमुखानि च प्रतिलभते अप्रमाणध्यानारूप्यसमापत्तीश् च समापद्यते सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति आर्यसत्यानि भावयति अष्ट विमोक्षान् भावयति नवानुपूर्वविहारसमापत्तीश् च समापद्यते अभिज्ञा भावयति त्रिणि विमोक्षमुखानि (psp_2-3:72) भावयति दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि प्रतिलभते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा साक्षात् करोति. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति बोधिसत्त्वसंपदं च परिगृह्णाति सर्वज्ञतां चानुप्राप्नोति.
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति स एभिः दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति.
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः कुलपुत्रा वा कुलदुहितरो वा समन्वागता भविष्यन्ति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति.
भगवान् आह: तेन हि कौशिक कुलपुत्रा वा कुलदुहितरो वा न विषेण कालं करिष्यन्ति नाग्निना न शस्त्रेण नोदकेन कालं करिष्यन्ति यावन् न केनचिद् व्याधिना कालं करिष्यन्ति स्थापयित्वा पूर्वकर्मविपाकं न च राजकुलाद् उपद्रवा भविष्यन्ति. सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलं प्रविशत्य् अस्यावतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते.
तत् कस्य हेतोस्? तथा ह्य् अस्या एव प्रज्ञापारमितायास् तेजसा. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र राजकुलम् उपसंक्रमिष्यति, ते चास्य तत्र राजानो वा राजपुत्रा वा राजमहामात्रा वा पूर्वम् आलपितव्यं मंस्यन्ते अभिभाषितव्यं मंस्यन्ते.
तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितृणां च सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं भवति. एभिः स कौशिक दृष्टधार्मिकैर् गुणैः कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा एभिः सांपरायिकैर् (psp_2-3:73) गुणैः समन्वागतो भविष्यति. य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. यद् उत न जातु दशभिः कुशलैः कर्मपथे ऽविरहितो भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिर् न पारमिताभिर् न सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् न सत्यैर् नाष्टविमोक्षैर् न नवानुपूर्वविहारसमापत्तिभिर् न त्रिभिर् विमोक्षमुखैर् नाभिज्ञाभिर् न सर्वशून्यताभिर् न सर्वसमाधिभिर् न सर्वधारणीमुखैर् न दशभिर् बलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् विरहितो भविष्यति. न लक्षणानुव्यञ्जनैर् विरहितो भविष्यति. स न जातु निरयतिर्यग्योनियमलोकेषूपपत्स्यते. न जात्व् इन्द्रियविकलो भविष्यति न जात्व् अङ्गहीनो भविष्यति न जातु दरिद्रकुलेषूपपत्स्यते न वेणुकारकुलेषूपपत्स्यते न पुष्कसकुलेषूपपत्स्यते न मौष्टिककुलेषूपपत्स्यते न चण्डालौरभ्रिकशाकुनिककुलेषूपपत्स्यते न शूद्रकुलेषूपपत्स्यते क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा उदारोदारेषूपपत्स्यते. स ततः प्रभृति सततसमितं द्वात्रिंशन्महापुरुषलक्षणानुव्यञ्जनसमलंकृतकायो भविष्यति यत्र वा लोकधातौ बुद्धा भगवन्तो भविष्यन्ति तत्र बुद्धानां भगवतां पुरतः पद्म औपपादुक उपपत्स्यते. न जात्व् अभिज्ञा विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, तान् बुद्धान् भगवतः पर्युपासितुं धर्मं च श्रोतुं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयिष्यति.
तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिता उद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेन चाविरहितेन भवितव्यं. स एतैर् दृष्टधार्मिकैर् गुणैः सांपरायिकैर् गुणैर् अविरहितो भविष्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते इति.
अथ खल्व् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति स्म.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: इदम् अन्यतीर्थिकानां परिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामति, यन् नूनम् अहं यावन्मात्रं मया भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावन्मात्रं स्वाध्यायेयं यद् एतद् अन्यतीर्थिकानां (psp_2-3:74) परिव्राजकानां शतं न भगवन्तम् उपसंक्रामेयुर् नान्तरायं प्रज्ञापारमितायां कुर्युः.
अथ खलु शक्रो देवानाम् इन्द्रो यावद् अनेन भगवतो ऽन्तिकात् प्रज्ञापारमिताया उद्ग्रहीतं तावत् स्वाध्यायति स्म.
अथ खलु ते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः.
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: किम् अत्र कारणं येनैते ऽन्यतीर्थिकाः परिव्राजका उपारम्भाभिप्राया भगवन्तं दूरत एव प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः?
अथ खलु भगवान् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: शक्रेण शारिपुत्र देवानाम् इन्द्रेण इयं प्रज्ञापारमिता समन्वाहृता येनैते ऽन्यतीर्थिकाः परिव्राजका दूरत एव भगवन्तं प्रदक्षिणीकृत्य येनैव मार्गेणागतास् तेनैव प्रतिगताः न हि शारिपुत्र तेषाम् अन्यतीर्थिकानां परिव्राजकानाम् एकस्यापि शुक्लं धर्मं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकाः परिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया उपसंक्रमितव्यं मंस्यन्ते, नाहं तं शारिपुत्र समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् इमां प्रज्ञापारमिताम् उपारम्भाभिप्रायः प्रतिहतचित्त उपसंक्रामेन्, नैतत् स्थानं विद्यते.
तत् कस्य हेतोस्? तथा हि शारिपुत्र य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजिकास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या यावद् अकनिष्ठा देवपुत्रा ये ऽपि श्रावका ये ऽपि प्रत्येकबुद्धा ये ऽपि बोधिसत्त्वा महासत्त्वास् तैर् अपीयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमितानिर्जाताः.
पुनर् अपरं शारिपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावद् दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुष्व् एकैकस्यां दिशि बुद्धा भगवन्तः सश्रावकसंघाः सबोधिसत्त्वदेवानागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैर् अपि सर्वैर् इयं प्रज्ञापारमिता परिगृहीता. तत् कस्य हेतोस्? तथा हि ते प्रज्ञापारमितानिर्जाताः सर्वे.
अथ खलु मारस्य पापीयस एतद् अभवद्: इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः परिषदः संमुखं स्थिताः. अमी च कामावचरा रूपावचराश् च देवपुत्राः संमुखं स्थिता निःसंशयम् अत्र बोधिसत्त्वा (psp_2-3:75) महासत्त्वा व्याकरिष्यन्ते ऽनुत्तरायां सम्यक्संबोधौ, यन् नूनम् अहं येन भगवांस् तेनोपसंक्रामेयं विचक्षुःकरणायेति.
अथ खलु मारः पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामो भवेत्.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: मारो बतायं पापीयांश् चतुरङ्गबलकायं निर्माय येन भगवांस् तेनोपसंक्रमितुकामः. यो ऽयं मारस्य पापीयसश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः. न राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न प्रसेनजितश् चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न शाक्यानां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहः, न मल्लानां चतुरङ्गस्य बलकायस्यैवंरूपो व्युहः, यो ऽयं चतुरङ्गस्य बलकायस्यैवंरूपो मारेण पापीयसा निर्मितः, दीर्घरात्रं खलु पुनर् मारः पापीयान् भगवतो ऽवतारप्रेक्षी अवतारगवेषी सत्त्वानां च विहेठनाभिप्रायः, यन् नूनम् अहम् इमां प्रज्ञापारमितां समन्वाहरेयं स्मृत्या स्वाध्यायं कुर्याम्.
अथ खलु शक्रो देवानाम् इन्द्रः प्रज्ञापरमितां समन्वाजहार स्मृत्या स्वाध्यायम् अकरोत्, यथा यथा शक्रो देवानाम् इन्द्रः स्मृत्या इमां प्रज्ञापारमितां स्वाध्यायति स्म तथा तथा मारः पापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावृत्तो ऽभूत्.
अथ खलु ये ऽस्यां परिषदि चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाण्य् अभिनिर्मायान्तरीक्षगता एव येन भगवांस् तेनाक्षिपन्ति स्म तेनाभ्यवकिरन्ति स्म.
एवं च वाचम् अभाषन्त: चिरं बतेयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्याणां प्रचरतु यावद् इयं प्रज्ञापारमिता जाम्बूद्वीपकानां मनुष्यानां प्रचरिष्यति तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सद्धर्मश् चिरस्थितिको भविष्यति, संघस्य लोके प्रादुर्भावो भविष्यति. एवं त्रिसाहस्रमहासाहस्रे लोकधातौ, एवं दशसु दिक्षु सर्वबुद्धक्षेत्रेषु बोधिसत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा वा कुलदुहितरो वा लिखितां धारयिष्यन्ति वाचयिष्यन्ति पुस्तकलिखिताम् अपि कृत्वा स्थापयिष्यन्ति, आलोकजाता च एषा दिग् (psp_2-3:76) भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति, यत्रेयं प्रज्ञापारमिता प्रचरिष्यति.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, यत्र यत्र दिशि लोकधातुप्रसरे इयं प्रज्ञापारमिता प्रचरिष्यति, पुस्तकलिखिता आलोकजाता च एषा दिग् भविष्यति, सनाथा विगततमोन्धकारा च एषा दिग् भविष्यति.
अथ खलु ते देवपुत्रा दिव्यानि कुसुमान्य् अभिनिर्माय येन भगवांस् तेनाभ्यवकिरन्ति स्म.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
