Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अप्य् अत्र न प्रव्याह्रियते, तन् न श्रूयते, तन् न विज्ञायते, तत् कस्य हेतोः? अनक्षरा हि प्रज्ञापारमिता तस्मान् नास्ति ज्ञाता न श्रोता न देशयिता अनक्षरा तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः. तद्यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीयाच् चतस्रश् च परिषदो भिक्षुभिक्षुण्युपासकोपासिकाः सो ऽभिनिर्माय तासां चतसृणां परिषदां धर्मं देशयेत्, तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
देवपुत्रा आहुह्: नो भदन्त.
सुभूतिर् आह: एवम् एव देवपुत्राः. सर्वधर्मा निर्मितोपमास् तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्राः पुरुषः सुप्तः. स्वप्नान्तरगतस् तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्येद् धर्मं देशयन्तं. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र किंचिद् देशितं वा श्रुतं वाज्ञातं वा.
देवपुत्रा आहुः.: न भदन्त सुभूते.
सुभूतिर् आह : एवं देवपुत्राः स्वप्नोपमाः. सर्वे धर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्. तद्यथापि नाम देवपुत्रा द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयाताम्. ततो द्वयोर् अपि तयोः प्रतिश्रुत्कास्वरो निश्चरेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तया प्रतिश्रुत्कया द्वितीयः. प्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.
देवपुत्रा आहुः: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव देवपुत्रः. सर्वधर्माः प्रतिश्रुत्कोपमास् तत्र न किंचिद् देश्यते न श्रूयते न विज्ञायते. तद्यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धं निर्मिमीयाच् चतस्रश् च परिषदः सो ऽभिनिर्माय निर्मितानां चतसृणां परिषदां धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्रा अपि नु तत्र केनचिद् देशितं वा श्रुतं वा विज्ञातं वा भवेत्.
देवपुत्रा आहुः: नो भदन्त सुभूते.
सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मा न तत्र कश्चिद् (psp_2-3:13) देशयिता न श्रोता न विज्ञाता. इति परोपदेशवैयर्थ्यम्
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: उत्तानीकरिष्यति बतायम् आर्यसुभूतिः प्रज्ञापारमिताम् इति, अथ पुनर् गम्भिराद् गम्भीरतरं देशयति, सूक्ष्मात् सूक्ष्मतरं देशयति. इति ज्ञानगम्भीरता
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: न हि देवपुत्रा रूपं गम्भीरं वा सूक्ष्मं वा, न वेदना न संज्ञा न संस्कारा न विज्ञानं गम्भीरं वा सूक्ष्मं वा. तत् कस्य हेतोर्? न रूपस्य स्वभावो गम्भिरो न सूक्ष्मः न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य स्वभावो गम्भीरो न सूक्ष्मः. न चक्षुषः स्वभावो गम्भीरो न सूक्ष्मः न श्रोतस्य न घ्राणस्य न जिह्वाया न कायस्य न मनसः स्वभावो गम्भीरो न सूक्ष्मः. न पृथिवीधातोः. स्वभावो गम्भीरो न सूक्ष्मः, नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न विज्ञानधातोः. स्वभावो गम्भीरो न सूक्ष्मः. न दानपारमितायाः स्वभावो गम्भीरो न सूक्ष्मः, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः स्वभावो गम्भीरो न सूक्ष्मः नाध्यात्मशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः, न बहिर्धाशून्यताया नाध्यात्मबहिर्धाशून्यताया यावन् नाभावस्वभावशून्यतायाः स्वभावो गम्भीरो न सूक्ष्मः. न स्मृत्युपस्थानानां स्वभावो गम्भीरो न सूक्ष्मः. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य सत्यानाम् अभिज्ञानां चतुर्णाम् अप्रमाणानां चतुर्णां ध्यानानां चतसृणाम् आरूप्यसमापत्तीनां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादाशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो गम्भीरो न सूक्ष्मः न सर्वसमाधिधारणीमुखानां स्वभावो गम्भिरो न सूक्ष्मः, यावन् न सर्वाकारज्ञतायाः स्वभावो गम्भीरो न सूक्ष्मः.
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: न खलु पुनर् अस्यां धर्मदेशनायां रूपं प्रज्ञप्तं न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञप्तं, यावन् न धातवो नायतनानि न प्रतित्यसमुत्पादः प्रज्ञप्तो न पारमिता प्रज्ञप्ता न बोधिपक्षा धर्माः प्रज्ञप्ताः, नाप्रमाणध्यानारूप्यसमापत्तवः, न सर्वशून्यता न सर्वसमाधयः न सर्वधारणीमुखानि (psp_2-3:14) न दशतथागतबलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकबुद्धधर्माः प्रज्ञप्ताः. नापीह धर्मदेशनायां स्रोतआपत्तिफलं प्रज्ञप्तं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बोधिसत्त्वत्वं प्रज्ञप्तं न बोधिः प्रज्ञप्ता नाक्षराणि प्रज्ञप्तानि.
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतद्, अनभिलप्या तथागतानां बोधिर् अप्रव्याहारा, सा न केनचिद् देशिता न केनचिच् छ्रुता न केनचिद् विज्ञाता. तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः, ये स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं, ये प्रत्येकबुद्धत्वे स्थातुकामाः, ये प्रत्येकबुद्धत्वं प्राप्तुकामा नेमां क्षान्तिम् अनागम्य. एवं हि देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यम् अप्रव्याहाराश्रवणताम् उपादाय. इति प्रत्येकबुद्धानां ग्राह्यविकल्पप्रहाणम्
अथ खलु तेषां देवपुत्राणाम् एतद् अभवत्: कियद्रूपाः स्थविरस्य सुभूतेर् धर्मश्रवणिका एष्टव्याः.
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मम देवपुत्रा धर्मश्रवणिका एष्टव्या निर्मितोपमा मम धर्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न पर्यवाप्स्यन्ति न साक्षात्करिष्यन्ति.
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिस्थविरम् एवम् आहुः: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः?
सुभूतिर् आह: एवम् एतद् देवपुत्रा एवम् एतत्, मायोपमास् ते सत्त्वा मायोपमास् ते धर्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धर्मश्रवणिकाः. रूपम् अपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदना संज्ञा संस्कारा विज्ञानम् अपि देवपुत्राः स्वप्नोपमं मायोपमं. चक्षुर् अपि देवपुत्राः स्वप्नोपमं मायोपमं. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽपि देवपुत्राः स्वप्नोपमं मायोपमं. रूपम् अपि देवपुत्राः स्वप्नोपमं (psp_2-3:15) मायोपमं. एवं शब्दगन्धरसस्पर्शधर्मा अपि देवपुत्राः. स्वप्नोपमा मायोपमाश्. चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमाः. एवं श्रोत्रं घ्राणं जिह्वा कायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शजा वेदना स्वप्नोपमा मायोपमा. दानपारमितापि स्वप्नोपमा मायोपमा. एवं शीलपारमिता क्षान्तिपारमीता वीर्यपार्मिता ध्यानपारमिता प्रज्ञापारमितापि स्वप्नोपमा मायोपमा. एवम् अध्यात्मशूम्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा. स्मृत्युपस्थानान्य् अपि स्वप्नोपमानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञा सत्यानि दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका अपि बुद्धधर्माः स्वप्नोपमा मायोपमाः. स्रोतआपत्तिफलम् अपि स्वप्नोपमं मायोपमं. स्रोतआपन्नो ऽपि स्वप्नोपमो मायोपमः. एवं सकृदागामिफलम् अपि सकृदागाम्य् अप्य् अनागामिफलम् अप्य् अनागाम्य् अप्य् अर्हत्फलम् अप्य् अर्हन्न् अपि स्वप्नोपमो मायोपमः प्रत्येकबोधिर् अपि स्वप्नोपमा मायोपमा, प्रत्येकबुद्धो ऽपि स्वप्नोपमो मायोपमः. बोधिसत्त्वत्वम् अपि स्वप्नोपमं मायोपमं, बोधिसत्त्वो ऽपि स्वप्नोपमो मायोपमो. अनुत्तरा सम्यक्संबोधिर् अपि स्वप्नोपमा मायोपमा, बुद्धो ऽपि स्वप्नोपमो मायोपमः.
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचत्: बुद्धत्वम् अपि स्थविर सुभूते स्वप्नोपमं मायोपमम् इति वदसि. तत् किं मन्यसे? निर्वाणम् अपि स्वप्नोपमं मायोपमं.
सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमम् इति वदामि, सचेद् अहं देवपुत्रा निर्वाणाद् अपि कंचिद् धर्मविशिष्टतरं जानियां, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयं. तत् कस्य हेतोस्? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्. इति प्रत्येकबुद्धानां ग्राहकविकल्पाप्रहाणम्
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च महाकौष्ठिल आयुष्मांश् च महाकात्यायन आयुष्मांश् च पूर्णो मैत्रायणिपुत्र आयुष्मांश् च महाकाश्यपो ऽनेकानि च देवकोटीनियुतशतसहस्राण्य् आयुष्मन्तं सुभूतिं स्थविरम् एवम् आहुः: के ऽस्या भदन्त सुभूते एवं गम्भीरायाः प्रज्ञापारमिताया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया (psp_2-3:16) एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति?
अथ खल्व् आयुष्मान् सुभूतिस् तान् महाश्रावकांस् तांश् च देवपुत्रान् एतद् अवोचत्: अविनिवर्तनीया आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः, पूर्वजिनकृताधिकारा बहुबुद्धकोटिष्व् अवरोपितकुशलमूला वा कल्याणमित्रपरिगृहिता वा. ते कुलपुत्राः कुलदुहितरश् चास्याः प्रज्ञापारमिताया एवं गम्भीराया एवम् अतर्काया एवम् अतर्कावचराया एवं सूक्ष्माया एवं निपुणाया एवं दुर्दृशाया एवं दुरनुबोधाया एवं शान्ताया एवं प्रणीताया एवम् अलमार्याया एवं पण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषका भविष्यन्ति.
तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति. न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न वेदनां न संज्ञां न संस्कारान् न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति. एवं नानुत्पाद इति, नानिरोध इति, न शान्तम् इति, न विविक्तम् इति विकल्पयिष्यन्ति. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताम्, एवम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् एवं स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गम् अप्रमाणध्यानारूप्यसमापत्तीः अभिज्ञासत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि (psp_2-3:17) चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् सर्वसमाधीन् सर्वधारणीमुखानि, एवं न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं
सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न सर्वाकारज्ञतां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति. न संस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुउ अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुम् अनिरोध इति
विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् (psp_2-3:18) असंस्कृतधातुर् इति विकल्पयिष्यन्ति. नासंस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
अथ खल्व् आयुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नास्या देवपुत्राः प्रज्ञापारमिताया एवं गम्भीराया यावद् अलमार्यायाः पण्डितविज्ञवेदनीयायाः कश्चित् प्रत्येषको भविष्यति तत् कस्य हेतोस्? तथा ह्य् अत्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते, यथैवात्र न कश्चिद् धर्मो देश्यते न सूच्यते न परिदीप्यते तथैवात्र न कश्चित् प्रत्येषको भविष्यति.
अथ खल्व् आयुष्माञ् शारिपुत्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: नन्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पाद इति बोधिसत्त्वमार्गश् चोपदिश्यते यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियाणि बलाणि बोध्यङ्गान्य् आर्याष्टाङ्गमार्गश् चत्वार्य् अप्रमाणां चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽभिज्ञाः सत्यानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्यते एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोपपादुको भविष्यति. एवम् अभिज्ञाभिर् अपरिहाणधर्मा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान्य् अस्य कुशलमूलानि समृद्धिं यास्यन्ति. यं च तेषां बुद्धानां भगवताम् अन्तिके धर्मं श्रोष्यन्ति सर्वो ऽस्य धर्मो न जात्व् अन्तरा विच्छेत्स्यति यावन् नानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति सदा समाहितश् च भविष्यति अविक्षिप्तचित्तः. समाहितयोगेन, असङ्गप्रतिभानश् च भविष्यति, अनाच्छेद्यप्रतिभानः समाहितप्रतिभानो युक्तप्रतिभानः श्लिष्टप्रतिभानो ऽर्थवत्प्रतिभानः सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यति. (psp_2-3:19)
सुभूतिर् आह: एवम् एतद् आयुष्मञ् शारिपुत्र एवम् एतत्. तथैव तद्यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि यद् उत श्रावकयानं प्रत्येकबुद्धयानं महायानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रहा उपदिष्टा यावद् बोधिसत्त्वा महासत्त्वाः सर्वलोकाभ्युद्गतविशिष्टप्रतिभाना भविष्यन्ति. तच् चानुपलम्भयोगेन कस्यानुपलम्भयोगेन? आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकस्यानुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुपलम्भयोगेन. चक्षुषो ऽनुपलम्भयोगेन, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुपलम्भयोगेन. चक्षुर्विञानस्य चक्षुःसंस्पर्शस्य चक्षुःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानस्य मनःसंस्पर्शस्य मनःसंस्पर्शजाया वेदनाया अनुपलम्भयोगेन. एवं रूपशब्दगन्धरसस्पर्शधर्माणाम् अनुपलम्भयोगेन. पृथिवीधातोर् अनुपलम्भयोगेन, एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् अनुपलम्भयोगेन. दानपारमिताया अनुपलम्भयोगेन, एवं शीलपारमितायाः. क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुपलम्भयोगेन. अध्यात्मशून्यताया अनुपलम्भयोगेन यावद् अभावस्वभावशून्यताया अनुपलम्भयोगेन. स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्यानुपलम्भयोगेन. अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानाम् आर्यसत्यानाम् अनुपलम्भयोगेन. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन. सर्वसमाधीनां सर्वधारणीमुखानां सर्वज्ञताया अनुपलम्भयोगेन.
अथ खल्व् आयुष्माञ् छारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रिणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन? केन कारणेन बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वो महासत्त्वो भविष्यति अनुपलम्भयोगेन?
सुभूतिर् आह: अध्यात्मशून्यताम् उपादायायुष्मञ् शारिपुत्र त्रिणि यानानि विस्तरेणोपोदिश्यन्ते अनुपलम्भयोगेन. बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् (psp_2-3:20) उपादाय यावद् अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते अनुपलम्भयोगेन, यावद् अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते यावत् सर्वलोकाभ्युद्गतविशिष्टप्रतिभानो बोधिसत्त्वस्य महासत्त्वस्य भविष्यति अनुपलम्भयोगेन.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् तेषां चैतद् अभवत्: अस्या धर्मदृष्टेः सुभूतिना स्थविरेण भाष्यमाणाया यन् नु वयं पुष्पाण्य् अभिनिर्माय तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां प्रज्ञापारमिताम् अभ्यवकिरेम.
अथ खलु शक्रो देवानाम् इन्द्रस् ते त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिकान् देवान् उपादाय यावद् अकनिष्ठा देवा दिव्यानि मान्दारवाणि पुष्पाण्य् अभिनिर्माय, तैः पुष्पैर् बुद्धं भगवन्तं बोधिसत्त्वं भिक्षुसंघं च सुभूतिं च स्थविरम् इमां च प्रज्ञापारमिताम् अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, समनन्तरावकीर्णानि च तानि पुष्पाणि शक्रेण देवानाम् इन्द्रेण, तैश् च यावद् अकनिष्ठैर् देवैः.
अथ खलु सर्वस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ पुष्पसंस्तरः संस्तृतो ऽभूत्. उपरिष्टाच् चान्तरीक्षे पुष्पकूटागारं संस्थितम् अभूत् रमणीयं मनोरमम्.
अथ खलु सुभूतेः स्थविरस्यैतद् अभवत्: न पुनर् इमानि पुष्पाणि मया सर्वदेवभवणेषु दृष्टपूर्वाणि प्रचरन्ति यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि न वृक्षगुल्मलतानिर्जातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि मनोमयान्य् एतानि पुष्पाणि नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानीमानि देवपुत्रैर् अभ्यवकीर्णानि.
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिं एतद् अवोचत्: अनिर्जातानीमानि भदन्त सुभूते पुष्पाणि नैतानि पुष्पाणि मनोनिर्जातानि नापि (psp_2-3:21) वृक्षगुल्मलतानिर्जातानि.
सुभूतिर् आह: यत् कौशिकैवं वदसि, अनिर्जातानीमानि पुष्पाणि नैतानि मनोनिर्जातानि नापि वृक्षगुल्मलतानिर्जातानीति. यानि कौशिकानिर्जातानि न तानि पुष्पाणि शक्रो देवानाम् इन्द्र आह: किं पुनर् भदन्त सुभूते इमान्य् एव पुष्पान्य् अनिर्जातानि, अथ रूपम् अप्य् अनिर्जातं वेदनासंज्ञासंस्काराः विज्ञानम् अप्य् अनिर्जातं?
सुभूतिः स्थविर आह: न कौशिक इमान्य् एव पुष्पाण्य् अनिर्जातानि, रूपम् अपि कौशिकानिर्जातं यच् चानिर्जातं न तद् रूपम्. वेदनासंज्ञासंस्काराः विज्ञानं कौशिकानिर्जातं यच् चानिर्जातं न तद् विज्ञानं. चक्षुः कौशिकानिर्जातं यच् चानिर्जातं न तच् चक्षुः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः कौशिकानिर्जातं यच् चानिर्जातं न तन् मनः. पृथिवीधातुः कौशिकानिर्जातो यश् चानिर्जातो न स पृथिवीधातुर्, एवम् अब्धातुस् तेजोधातुर् आकाशधातुर् विज्ञानधतुः कौशिकानिर्जातो यश् चानिर्जातो न स विज्ञानधातुः. दानपारमिता कौशिक अनिर्जाता या चानिर्जाता न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कौशिक अनिर्जाता या चानिर्जाता न सा प्रज्ञापारमिता. अध्यात्मशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अध्यात्मशून्यता यावद् अभावस्वभावशून्यता कौशिक अनिर्जाता या चानिर्जाता न सा अभावस्वभावशून्यता, स्मृत्युपस्थानानि कौशिक अनिर्जातानि यानि चानिर्जातानि न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणान्य् ऋद्धिपादाः इन्द्रियाणि बलानि बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः कौशिक, अनिर्जातो यश् चानिर्जातो न स मार्गः. एवम् अभिज्ञाः सत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकाबुद्धधर्माः कौशिक अनिर्जाता ये चानिर्जाता न ते बुद्धधर्माः. स्रोतआपत्तिफलं कौशिक अनिर्जातं यच् चानिर्जातं न तत् स्रोतआपत्तिफलं, एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं सर्वज्ञत्वं कौशिकानिर्जातं यच् चानिर्जातं न तत् सर्वज्ञत्वं. स्रोतआपन्नः कौशिक अनिर्जातो यश् चानिर्जातो न स स्रोतआपन्नः, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्धः कौशिकानिर्जातो यश् चानिर्जातो न स सम्यक्संबुद्धः. इत्य् अधिगमाधारगोत्रम् (psp_2-3:22)
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः. स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, गम्भीरप्रज्ञो बतायम् आर्यसुभूतिः स्थविरो यत्प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?
भगवान् आह: रूपं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशस्ति च. वेदनासंज्ञासंस्कारा विज्ञानं कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधत्य् उपदिशति च. तत् कस्य हेतोर्? या धर्मता सा न विरुध्यते या न विरुध्यते तां च सुभूतिः स्थविर उपदिशति न विरोधयति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु, एवं दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां. एवं स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे ऽप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, एवं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबुद्धत्वे सर्वज्ञत्वे स्रोतआपन्न इति कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो ऽर्हन् सम्यक्संबुद्ध इति कौशिक प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिमात्रं सा धर्मता, तां च सुभूतिः स्थविरो न विरोधयत्य् उपदिशति च. तत् कस्य हेतोर्? या कौशिक धर्मता सा न विरुध्यते, या न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति, एवं हि कौशिक सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति. (psp_2-3:23)
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्. यथा भगवता प्रज्ञप्तिमात्राः सर्वधर्मा उपदिष्टा एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रान् सर्वधर्मान् विदित्वा प्रज्ञापारमितायां शिक्षितव्यम् एवं शिक्षमाणः पुनः कौशिक बोधिसत्त्वो महासत्त्वो न रूपे शिक्षते न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने शिक्षते. तत् कस्य हेतोस्? थथा हि रूपं न समनुपश्यति यत्र शिक्षते. वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न दानपारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. एवं न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां शिक्षते. तत् कस्य हेतोस्? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते. अध्यात्मशून्यतायाम् अपि न शिक्षते यावद् अभावस्वभावशून्यतायाम् अपि न शिक्षते. तत् कस्य हेतोस्? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यावद् अभावस्वभावशून्यताम् अपि न समनुपश्यति यत्र शिक्षते. स्मृत्युपस्थानेष्व् अपि न शिक्षते. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेष्व् अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेष्व् अपि न शिक्षते. न स्रोतआपत्तिफले न सकृदागामिफले नानागामिफले नार्हत्त्वे न प्रत्येकबुद्धत्वे शिक्षते सर्वज्ञत्वे ऽपि न शिक्षते. तत् कस्य हेतोस्? तथा हि स सर्वज्ञत्वं न समनुपश्यति यत्र शिक्षते.
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति न वेदनां न संज्ञां न संस्कारान् न विज्ञानं समनुपश्यति. एवं व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यान् धर्मान् न समनुपश्यति. अप्रमाणध्यानारूप्यसमापत्तीर् न समनुपश्यति. सत्यान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न समनुपश्यति यत्र शिक्षते यावत् सर्वज्ञत्वं अपि न समनुपश्यति यत्र शिक्षते?
सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदनासंज्ञासंस्कारा विज्ञानं विज्ञानेन शून्यं. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि (psp_2-3:24) प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सत्यान्य् अभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावत् सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति यावन् न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति. यः कौशिक इह शून्यतायां शिक्षते स रूपशून्यतायां शिक्षते अद्वैधीकारेण. वेदनासंज्ञासंस्कारेषु विज्ञानशून्यतायां शिक्षते अद्वैधीकारेण. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनेषु प्रतीत्यसमुत्पादपारमितासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्येष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशतथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण. यः कौशिक रूपशून्यतायां शिक्षते अद्वैधीकारेण यावत् सर्वज्ञताशून्यतायां शिक्षते अद्वैधीकारेण स दानपारमितायाम् अपि शिक्षते अद्वैधीकारेण. एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपि शिक्षते अद्वैधीकारेण. अध्यात्मशून्यतायाम् अपि शिक्षते अद्वैधीकारेण यावद् अभावस्वभावशून्यतायाम् अपि शिक्षते अद्वैधीकारेण. स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेष्व् आर्याष्टाङ्गे मार्गे शिक्षते अद्वैधीकारेण. अप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सत्येषु दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. सर्वसमाधिषु सर्वधारणीमुखेषु शिक्षते अद्वैधीकारेण. असंख्येयेष्व् अपरिमाणेषु बुद्धधर्मेषु शिक्षते अद्वैधीकारेण. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्वे प्रत्येकबुद्धत्वे शिक्षते अद्वैधीकारेण. सम्यक्संबुद्धत्वे सर्वाकारज्ञतायां शिक्षते अद्वैधीकारेण. इति प्रत्येकबुद्धमार्गे निर्वेधभागिय उष्मगतम्
न रूपस्य हानये शिक्षते न वृद्धये शिक्षते. न वेदनासंज्ञासंस्कारविज्ञानस्य हानये शिक्षते न वृद्धये शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां न हानये न वृद्धये शिक्षते. प्रतीत्यसमुत्पादस्य न (psp_2-3:25) हानये न वृद्धये शिक्षते. दानपारमिताया न हानये न वृद्धये शिक्षते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया न हानये न वृद्धये शिक्षते. स्मृत्युपस्थानानां न हानये न वृद्धये शिक्षते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां मार्गस्य न हानये न वृद्धये शिक्षते. अप्रमाणानां ध्यानारूप्यसमापत्तीनां न हानये न वृद्धये शिक्षते. अध्यात्मशूयताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया न हानये न वृद्धये शिक्षते. सत्यानाम् अभिज्ञानां दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते. यो रूपस्य न हानये न वृद्धये शिक्षते यावत् सर्वज्ञताया न हानये न वृद्धये शिक्षते स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. एवं पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणम् अप्रमाणध्यानारूप्यसमापत्तीनां सत्यानाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां न परिग्रहाय शिक्षते नान्तर्धानाय शिक्षते. दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते. इति तत्रैव मूर्धगतम्
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय नान्तर्धानाय शिक्षते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न परिग्रहाय नान्तर्धानाय शिक्षते यावत् सर्वज्ञताया न परिग्रहाय नान्तर्धानाय शिक्षते?
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शारिपुत्र रूपस्य परिग्रहो नास्ति. तत् कस्य हेतोर्? न रूपं रूपं परिगृह्णाति. न वेदना न संज्ञा न संस्कारास् तथा ह्य् आयुष्मञ् शारिपुत्र विज्ञानस्य परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि न (psp_2-3:26) विज्ञानं विज्ञानं परिगृह्णाति. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां पारमितानां बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यानां प्रतिसंविदावेणिकानां बुद्धधर्माणां परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा ह्य् आवेणिकबुद्धधर्मा नावेणिकबुद्धधर्मान् परिगृह्णन्ति. तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञतायाः परिग्रहो नास्ति. तत् कस्य हेतोस्? तथा हि सर्वज्ञता न सर्वज्ञतां परिगृह्णाति. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् उपादाय. एतं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मापरिग्रहाय सर्वज्ञतायां शिक्षते सर्वज्ञतायां निर्यास्यति.
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति.
सुभूतिर् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति सर्वधर्माणाम् अपरिग्रहयोगेन. इति तत्रैव क्षान्तिगतम्
शारिपुत्र आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अपरिग्रहाय नान्तर्धानाय शिक्षित्वा कथं सर्वज्ञतायां निर्यास्यति?
सुभूतिर् आह: तथा ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शरिपुत्र रूपं रूपस्वभावेन न विद्यते, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मञ् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिम्. तत् कस्य हेतोस्? अथा ह्य् आयुष्मञ् शरिपुत्र विज्ञानं विज्ञानस्वभावेन न विद्यते. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वसमाधीनां सर्वधारणीमुखानां बलानां वैशारद्यानां (psp_2-3:27) प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वज्ञताया नोत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं न व्यवदानं नाचयं नापचयं न हानिं न वृद्धिं. तत् कस्य हेतोस्? तथा ह्य् आयुष्मञ् शारिपुत्र सर्वज्ञता सर्वज्ञतास्वभावेन न संविद्यते, एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानुद्ग्रहायानुत्सर्गायासंक्लेशायाव्यवदानाय नाचयाय नापचयाय न हानये न वृद्धये शिक्षते प्रज्ञापारमितायां शिक्षते सर्वज्ञतायां निर्यास्यति अशिक्षानिर्याणयोगेन. इति तत्रैवाग्रधर्मगतम् इत्य् उक्तः प्रत्येकबुद्धमार्गः
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारिपुत्र कुतो गवेषितव्या?
शारिपुत्र आह: प्रज्ञापारमिता कौशिक सुभूतेः परिवर्ताद् गवेषितव्या.
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: तवैव आर्यसुभूते, अनुभावस् तवैतद् अधिष्ठानं यद् आर्यशारिपुत्र, एवं वदति; प्रज्ञापारमिता कौशिकायुष्मतः सुभूतेः परिवर्ताद् गवेषितव्येति.
सुभूतिर् आह: न ममैष कौशिकानुभावः न ममैतद् अधिष्ठानम्.
शक्र आह: कस्यैषो ऽनुभावः कस्यैतद् अधिष्ठानम्.
सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानं न चान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चान्यत्र तथतायास् तथागत उपलभ्यते, निरधिष्ठाना देवान्द्र सर्वधर्माः.
देवेन्द्र आह: कथम् आर्यसुभूते निरधिष्ठानेषु सर्वधर्मेषु एवं वदसि? तथागतस्यैषो ऽनुभावस् तथागतस्यैतद् अधिष्ठानम् इति.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथतायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न च तथागते निरधिष्ठानधर्मता उपलभ्यते, न च तथतयां तथागत उपलभ्यते, न च ताथागते तथतोपलभ्यते, न रूपतथतायां तहागत उपलभ्यते, न च तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न च तथागते रूपधर्मता न वेदनातथतायां न संज्ञातथतयां न संस्कारतथतायां न विज्ञानतथतायां तथागत उपलभ्यते, न च (psp_2-3:28) तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न च तथागते विज्ञानधर्मता, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतायां सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावन् न सर्वज्ञतातथतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञतातथता उपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न च तथागते सर्वज्ञताधर्मता. तत् कस्य हेतोर्? यः कौशिक तथागतो न रूपतथतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानतथतायां संयुक्तो न विसंयुक्तः. यः कौशिक तथागतो न रूपधर्मतायां संयुक्तो न विसंयुक्तो वेदनासंज्ञासंस्कारविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः. न चान्यत्र रूपधर्मतायाः संयुक्तो न
विसंयुक्तः. वेदनासंज्ञासंस्कारा न चान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तो न चान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. विस्तरेण यावद् यस् तथागतो न स सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, न चान्यत्र सर्वज्ञतायाः संयुक्तो न विसंयुक्तः न चान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः यो हि कौशिक सर्वधर्मेषु न संयुक्तो न विसंयुक्तः तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन. यत् पुनः कौशिक एवं वदसि: कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनाया न संज्ञाया न संस्कारेभ्यो न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धातुतो गेवेषितव्या नायतनेभ्यो न प्रतीत्यसमुत्पादेभ्यो न पारमिताभ्यो न बोधिपक्ष्येभ्यो धर्मेभ्यो नाप्रमाणध्यानारूप्यसमापत्तिभ्यो न (psp_2-3:29) सत्येभ्यो नाभिज्ञाभ्यो न समाधिभ्यो न धारणीमुखेभ्यो न बलेभ्यो न वैशारद्येभ्यो न प्रतिसंविद्भ्यो नाष्टादशभ्य आवेणिकेभ्यो बुद्धधर्मेभ्यो यावन् न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोस्? तथा हि कौशिक या च प्रज्ञापारमिता या च सर्वाकारज्ञता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. तत् कस्य हेतोस्? तथा हि कौशिक न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता न वेदना न संज्ञा न संस्कारा न विज्ञानं प्रज्ञापारमिता नाप्य् अन्यत्र विज्ञानात् प्रज्ञापारमिता एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मा यावन् न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. एवं न रूपतथता प्रज्ञापारमिता नाप्य् अन्यत्र रूपतथतायाः प्रज्ञापारमिता न वेदनातथता न संज्ञातथता न संस्कारतथता न विज्ञानतथता प्रज्ञापारमिता न चान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता न वेदनाधर्मता न संज्ञाधर्मता न संस्कारधर्मता न विज्ञानधर्मता
प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, यावन् न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते. एवम् एव सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभ्यमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता. न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता. न वेदना न संज्ञा न संस्कारा, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता. न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता. न विज्ञानधर्मता प्रज्ञापारमिता (psp_2-3:30) नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासत्याभिज्ञासप्तत्रिंशद्बोधिपक्ष्या धर्मा अप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः. सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता. न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता. न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापरमिता. इति सानुशंसं दर्शनमार्गम् अधिकृत्य दुःखे धर्मज्ञानक्षान्तिः
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिं स्थविरम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं यद् उत प्रज्ञापारमिता, अपरिमाणपारमितेयं यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त सुभूते यद् उत प्रज्ञापारमिता, यस्यां शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयम् अप्रमाणपारमितेयम् अपरिमाणपारमितेयं अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः. स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तम्, एवं सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैः प्रत्येकबोधिः प्राप्ता. बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता ऽनुप्राप्ता ऽनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा ऽभिसंबुद्ध्यते ऽभिसंभोत्स्यते च. तत् कस्य हेतोः? रूपमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनासंज्ञासंस्कारा विज्ञानमहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य न (psp_2-3:31) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां सत्यानाम् अभिज्ञानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां यावत् सर्वाकारज्ञतामहत्तया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. इति दुःखे धर्मज्ञानम्
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च रूपाप्रमाणता, रूपाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानां वेदनासंज्ञासंस्कारा विज्ञानाप्रमाणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च व्ज्ञानाप्रमाणता, विज्ञानाप्रमाणतया च प्रज्ञापारमिताप्रमाणता बोधिसत्त्वानां महासत्त्वानाम्. एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गपारमिताबोधिपक्ष्यधर्माः सत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तयः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा यावत् सर्वाकारज्ञातताप्रंआणतया कौशिक, अप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिक, आकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकरज्ञतायाः प्रमाणं नोपलभ्यते. आकाशाप्रमाणतया च सर्वाकारज्ञताप्रमाणता, सर्वाकारज्ञताप्रमाणतया च प्रज्ञापारमिताप्रमाणता. अनेन कौशिक पर्यायेणाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (psp_2-3:32) इति दुःखे ऽन्वयज्ञानक्षान्तिः
रूपापरिमाणतया कौशिक, अपरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि कौशिक रूपस्य परिमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य परिमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य परिमाणं नोपलभ्यते. आकाशापरिमाणतया च रूपापरिमाणता, रूपापरिमाणतया च प्रज्ञारमितापरिमाणता बोधिसत्त्वानां महासत्त्वानाम् एवं यावत् सर्वाकारज्ञता वक्तव्या. इति दुःखे ऽन्वयज्ञानम्
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां. तत् कस्य हेतोस्? तथा हि रूपस्य नान्तो न मध्यम् उपलभ्यते. वेदनासंज्ञासंस्काराणां विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोस्? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमिताभिज्ञासत्येषु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिषु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु सर्वाकारज्ञतानन्ततया कौशिक, अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानं. तत् कस्य हेतोस्? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां रूपानन्तताम् उपादाय यावत् सर्वाकारज्ञतानन्तताम् उपादाय. इति हेतुप्रतिषेधः
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: सर्वाकारज्ञतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति समुदयप्रतिषेधः
पुनर् अपरं कौशिकारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते आरम्बणानन्ततयानन्तपारमितेयं (psp_2-3:33) बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: धर्मधात्वारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रभवप्रतिषेधः
पुनर् अपरं कौशिक तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: तथा हि कौशिक तथतानन्ततयारम्बणानन्तता, एवं तथतारम्बणानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति प्रत्ययप्रतिषेधः
पुनर् अपरं कौशिक सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
देवेन्द्र आह: कथं भदन्त सुभूते सत्त्वानन्ततयानन्तपारमितायं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं यद् उत सत्त्वः सत्त्व इति.
देवेन्द्र आह: नेदं भदन्त सुभूते धर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं, अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम्, अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.
सुभूतिर् आह: तत् किं मन्यसे कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता?
देवेन्द्र आह: न भदन्त सुभूते.
सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता न काचित् तत्र सत्त्वानन्तता. सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठन् सत्त्वः सत्त्व इति वाचं भाषेत. तत् किं मन्यसे कौशिक, अपि नु तत्र कश्चित् सत्त्व उत्पन्नो वा निरुद्धो वा?
देवेन्द्र आह: नो भदन्त सुभूते, तत् कस्य हेतोः? आदिशुद्धत्वात् सत्त्वस्य.
सुभूतिर् आह: अनेन कौशिक पर्यायेण सत्त्वानन्ततया प्रज्ञापारमितानन्तता वेदितव्या. इति तत्रैव सत्त्वधातूद्देशिकतां परिदीपयतीति समुदये धर्मज्ञानक्षान्तिः (psp_2-3:34)
अथ खलु सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सनारीनरर्षिगणास् त्रिर् उदानम् उदानयामासुः, अहो धर्मः, अहो धर्मः, अहो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण देश्यते यद् उत तथागतानुभावेन तथागताधिष्ठानेन सूच्यते प्रभाव्यते प्रकाश्यते तथागतान् एव तान् भगवन् बोधिसत्त्वान् महासत्त्वान् धारयिष्यामो ये ऽनया प्रज्ञापारमितयाविरहिता भविष्यन्ति, न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा, कुतः पुनस् त्रयाणां यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा.
अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयामास: एवम् एतद् देवपुत्रा एवम् एतत्, यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावत् सर्वाकारज्ञता वा त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते श्रावकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा. तथागतः स देवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यो यो ऽनया प्रज्ञापारमितयाविरहितो भविष्यति अनुपलम्भयोगेन. तत् कस्य हेतोस्? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि श्रावकयानं वा प्रत्येकबुद्धयानं वा महायानं वा. न चान्यत्र दानपारमितायास् तथागत उपलभ्यते, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते. न चान्यत्राध्यात्मशून्यताया न चान्यत्र बहिर्धाशून्यताया न चान्यत्राध्यात्मबहिर्धाशून्यतायाः, यावन् न चान्यत्राभावस्वाभावशून्यतायास् तथागत उपलभ्यते. न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते. एवं न चान्यत्र सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञासत्याप्रमाणध्यानारूप्यसमापत्तिसमाधिधारणीमुखेभ्यस् तथागत उपलभ्यते. न चान्यत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते. न चान्यत्र सर्वाकारज्ञतायास् तथागत उपलभ्यते. बोधिसत्त्वा महासत्त्वाश् च देवपुत्राः सर्वेष्व् एव धर्मेषु शिक्षन्ते दानपारमितायाम् आदिं कृत्वा यावत् सर्वाकारज्ञतायां शिक्षन्ते. तस्मात् तर्हि (psp_2-3:35) देवपुत्राः स बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यो यो ऽनया
प्रज्ञापारमितयाविरहितश् चरति. यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके दीपवत्यां राजधान्याम् अन्तरायणमध्यगतो दानपारमितयाविरहितो भवेयम्. एवं शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितयाविरहितो भवेयम्. एवम् अध्यात्मशून्यतयाविरहितो भवेयम्. एवं बहिर्धाशान्यतयाध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतयाविरहितो भवेयम्. एवं स्मृत्युपस्थानैर् अविरहितो भवेयम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अविरहितो भवेयं. एवं चतुर्भिर् ध्यानैश् चतुर्बिर् अप्रमाणैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिश् चावेणिकैर् बुद्धधर्मैः. महामैत्र्या महाकरुणया चान्यैश् चाप्रमाणैर् बुद्धधर्मैर् अविरहितो भवेयं तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतो; भविष्यसि त्वम् अनागते ऽध्वन्य् अस्मिन्न् एव सहालोकधातव् असंख्यैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान्. इति समुदये धर्मज्ञानम्
अथ खलु ते देवपुत्रा भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका रूपस्यापरिग्रहानुत्सर्गयोगेन. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यापरिग्रहानुत्सर्गयोगेन. एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादाङ्गानां पारमितानां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां ध्यानारूप्यसमापत्तिनां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां यावत् सर्वाकारज्ञतया अपरिग्रहानुत्सर्गयोगेनेति आर्यपञ्चविंशतिसाहस्रिकायां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण परिशोधितायां शक्रपरिवर्तो नाम द्यितीयः.
अथ खलु भगवांश् चतस्रः परिषदो भिक्षुभिभ्षुण्युपासकोपासिका बोधिसत्त्वान् महासत्त्वांश् चतुरो महाराजांश् चातुर्महाराजकायिकांश् च देवपुत्रान् यावद् अकनिष्ठांश् च देवपुत्रान् संनिपतितान् संनिषण्णांश् (psp_2-3:36) च सर्वान् साक्षिणः स्थापयित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: ये केचित् कौशिक बोधिसत्त्वा महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिका वा कुलपुत्रा वा कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति योनिशो मनसिकरिष्यन्ति, ये च सर्वाकारज्ञताचित्तेनाविरहिता भविष्यन्ति तेषां मारा वा मारकायिका वा अवतारं न लप्स्यन्ते. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति. एवं वेदना संज्ञासंस्काराविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोर्? न हि शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. एवं व्यस्तसमस्ता स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतैव स्वधिष्ठिता भविष्यति. एवं पारमितासत्याभिज्ञाप्रमाणध्यानारूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति. एवं सर्वशून्यता सर्वसमाधिसर्वधारणीमुखस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति. एवं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. यावत् सर्वाकारज्ञताशून्यतैव तैः कुलपुत्रैः कुलदुहितृभिश् च स्वधिष्ठिता भविष्यति. तत् कस्य हेतोस्? तथा हि न शून्यता शून्यतायाम् अवतारं लभते, नानिमित्तम् आनिमित्ते ऽवतारं लभते, नाप्रणिहितम् अप्रणिहिते ऽवतारं लभते. तत् कस्य हेतोस्? तथा हि तेषां स्वभावो न संविद्यते, येनावतारं लभेरन्, यत्र वावतारं लभेरन्, यस्य वावतारं लभेरन्. इति समुदये ऽन्वयज्ञानक्षान्तिः
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा मनुष्यो वामनुष्यो वावतारं लप्स्यते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च सर्वसत्त्वानाम् अन्तिके मैत्रीकरुणामुदितोपेक्षा भाविता सा चानुपलम्भयोगेन. (psp_2-3:37) न च ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च दानपारमितायां चरद्भिः सर्वसत्त्वाः सम्यक्परिचर्यया उपस्थिताः. यैर् वा कौशिक चातुर्महाराजकायिकैर् देवपुत्रैर् इह त्रिसाहस्रमहासाहस्रे लोकधातौ त्रयस्त्रिंशैर् वा यामैर् वा तुषितैर् वा निर्माणरतिभिर् वा परनिर्मितवशवर्तिभिर् वा ब्रह्मकायिकैर् वा ब्रह्मपुरोहितैर् वा ब्रह्मपार्षद्यैर् वा यावद् अकनिष्ठैर् वा देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं न चायं प्रज्ञापारमिता श्रुता नोद्ग्रहीता न धारिता न वाचिता न पर्यवाप्ता, तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या सर्वज्ञताचित्तेनाविरहितैः. इति समुदये ऽन्वयस्ज्ञानम्
पुनर् अपरं कौशिक ये कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताः सर्वाकारज्ञताचित्तेन भविष्यन्ति, न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितृणां वा शून्यागारगतानां वा अभ्यवकाशगतानां वा उत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यति. तत् कस्य हेतोस्? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यता सुभाविता अनुपलम्भयोगेन, बहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुभाविता अनुपलम्भयोगेन यावद् अभावस्वभावसुन्यता सुभाविता अनूपलम्भयोगेन.
अथ खलु तावद् एव त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परम्र्मितवशवर्तिनो यावच् छुद्धावासकायिका देवपुत्रास् ते भगवन्तम् एतद् अवोचत्: वयं भगवंस् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामः य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति योनिशश् च मनसिकरिष्यन्ति अविरहिताश् च भविष्यन्ति सर्वज्ञताचित्तेन. (psp_2-3:38) तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य निरया उच्छिद्यन्ते, तिर्यग्योनियमलोका असुराः काया मनुष्यदारिद्र्या उपद्रवा उपसर्गाः. सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथनां लोके प्रादुर्भावो भवति. चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति. चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य चतुर्णाम् आर्यसत्यानां चतुर्णाम् अप्रमाणानां षण्णाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृनां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भविष्यति. अनेकेषां समाधीनाम् अनेकेषां धारणीमुखानां सर्वज्ञताया बोधिसत्त्वमार्गस्य लोके प्रादुर्भावो भविष्यति.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि लोके प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि लोके प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चक्रवर्तिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्राः प्रज्ञायन्ते. एवं त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणो यावद् अकनिष्ठाश् च देवपुत्रा लोके प्रज्ञायन्ते.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः. प्रज्ञायते. एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हल् लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते.
पुनर् अपरं बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् (psp_2-3:39) सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. अनेन भगवन् पर्यायेण बोओधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरगन्धर्वयक्षगरुडकिंनरमहोरगमनुष्यामनुष्येण लोकेन रक्षावरणगुप्तिः संविधातव्या.
एवम् उक्ते भगवाञ् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बोधिसत्त्वं महासत्त्वम् आगम्य निरयतिर्यग्योनियमलोके गतय उच्छिद्यन्ते, देवदारिद्र्यं मनुष्यदारिद्र्यम् उपद्रवा उपसर्गाः सर्वे ऽप्य् उच्छिद्यन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. दशानां पारमितानां दशानां बोधिसत्त्वभूमीनाम् अप्रमाणध्यानारूप्यसमापत्तीनां सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां सत्यानाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां लोके प्रादुर्भावो भवति. दशबलवैशारद्यप्रतिसंविदावेणिकानां बुद्धधर्माणां सर्वाकारज्ञताया बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति. क्षत्रियमहाशालकुलानि ब्राह्मणमहाशालकुलानि गृहपतिमहाशालकुलानि बोधिसत्त्वं महासात्त्वम् आगम्य लोके प्रज्ञायन्ते, चक्रवर्तिराज्यकुलानि लोके प्रज्ञायन्ते, चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवपुत्राः प्रज्ञायन्ते, स्रोतआपत्तिफलं स्रोतआपन्नः, एवं सकृदागामिफलं सकृदागामी अनागामिफलम् अनागामी अर्हत्त्वम् अर्हश् च लोके प्रज्ञायते, प्रत्येकबोधिः प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वपरिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते, धर्मचक्रप्रवर्तनं लोके प्रज्ञायते, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य बोधिसत्त्वं महासत्त्वम् आगम्य लोके प्रादुर्भावो भवति तस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र
नु रक्षावरणगुप्तिः संविधातव्या, इमां प्रज्ञापारमितां स कौशिक सत्कर्तव्यां गुरुकर्तव्यां मानयितव्यां पूजयितव्यां मन्येत यो बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मन्येत, तस्माद् बोधिसत्त्वो महासत्त्वः सदेवकेन (psp_2-3:40) लोकेन सत्कर्तव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. यश् च कौशिक इमं त्रिसाहस्रमहासाहस्रं लोकधातुं श्रावकप्रत्येकबुद्धप्रतिपूर्णं, तद्यथापि नाम इक्षुवनं वा नडवनं वा वेणुवनं वा शरवनं वा सालिवनं वा तिलवनं वा कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च प्रथमचित्तोत्पादिकं बोधिसत्त्वं महासत्त्वम् अविरहितं षड्भिः पारमिताभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पुजयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति तत् कस्य हेतोर् बहुतरं पुण्यं प्रसवति? तथा हि न कौशिक श्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वं पुनर् आगम्य श्रावकप्रत्येकबुद्धास् तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते, तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चात्र नु रक्षावरणगुप्तिः संविधातव्या. इति निरोधे धर्मज्ञानक्षान्तिः
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अमी बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तः पर्यवाप्नुवन्तो धारयन्तो वाचयन्तो योनिशश् च मनसिकुर्वन्तः, इमान् दृष्टधार्मिकान् गुणान् परिगृह्णन्ति, सत्त्वांश् च परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धक्षेत्राच् च बुद्धक्षेत्रं संक्रामन्ति बुद्धान् भगवतः पर्युपासनाय, यैश् च कुशलमूलैर् आकाङ्क्षेयुस् तान् बुद्धान् भगवतः पूजयितुं तैः पूजयेयुस्. तच् चैषां तथैव ऋध्यते. यं च तेषां बुद्धानां भगवताम् अन्तिके स्थित्वा धर्मं शृण्वन्ति स चैषां धर्मस् तावद् एव न प्रमुष्यते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. इति कुलसंपदं च परिगृह्णन्ति जननीसंपदं च परिवारसंपदं च लक्षणसंपदं च प्रभासंपदं च चक्षुःसंपदं च स्वरसंपदं च समाधिसंपदं च धारणीसंपदं च परिगृह्णन्ति. उपायकौशल्येन (psp_2-3:41) आत्मानं बुद्धविग्रहं निर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् उत्पादो नास्ति ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया वर्णं भाषन्ते. अध्यात्मशून्यताया वर्णं भाषन्ते. एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया वर्णं भाषन्ते. ध्यानानां वर्णं भाषन्ते. अप्रमाणानाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते. स्मृत्युपस्थानानां वर्णं भाषन्ते. एवं सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानाम् आर्याष्टाङ्गिकस्य मार्गस्य वर्णं भाषन्ते. चतुर्णाम् आर्यसत्यानाम् अभिज्ञानां दशानां तथागतबलानां वैशारद्यानां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वर्णं भाषन्ते. उपायकुशलेन च धर्मं देशयन्ति यानत्रयेण च सत्त्वान् विनयन्ति, श्रावकयानेन प्रत्येकबुद्धयानेन बुद्धयानेन. इति निरोधे धर्मज्ञानम्
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनया गम्भीरया प्रज्ञापारमिताया परिगृहीतया सर्वाः पारमिताः परिगृहीत भवन्ति. यद् उत दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञा दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः यावद् व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादाङ्गानि च परिगृहीतानि भवन्ति. स्रोतआपत्तिफलं परिगृहीतं भवति. एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता परिगृहिता भवति.
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: प्रज्ञापारमितया परिगृहीतया सर्वाः पारमिताः परिगृहिता भवन्ति. एवं सर्वे बोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः सत्याभिज्ञाः सर्वे कुशलाः कर्मपथा दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा यावद् व्यस्तसमस्तानि स्कन्धधात्वायतननि प्रतित्यसमुत्पादाङ्गानि यावत् सर्वाकारज्ञता परिगृहीता भवति. (psp_2-3:42)
पुनर् अपरं कौशिक प्रज्ञापारमितया उद्गृहीतया धारितया वाचितया पर्यवाप्तया लिखितया योनिशो मनसिकृतया यान् गुणान् स कुलपुत्रो वा कुलदुहिता वा प्रतिलभते दृष्ट एव धर्मे तान् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते. एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतःत् प्रत्यश्रोषीत् भगवान् एतद् अवोचत्: यः कश्चित् कौशिकान्यतीर्थिकः कुलपुत्रो वा कुलदुहिता वा मारो वा मारकायिका वा देवता अभिमानिको वा पुद्गलो बोधिसत्त्वं महासत्त्वम् इतः प्रज्ञापारमितातो विवेचयितुकामो भविष्यति, विवदितुकामो भविष्यति, विग्रहीतुकामो भविष्यति, विरोधयितुकामो भविष्यति, तेषां विवेचयितुकामानां विवदितुकामानां विग्रहीतुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः क्षिप्रं पुनर् एवान्तर्धास्यन्ति, तेषां विवेचयितुकामानां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न ते ऽभिप्रायाः परिपूरिं गमिष्यन्ति. तत् कस्य हेतोस्? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरता. येषां कृतशः सत्त्वा दीर्घरात्रं विग्रहान् विवादान् विरोधान् आपद्यन्ते ते ऽध्यात्मिकबाह्या धर्माः सर्वे सर्वदा परित्यक्ता. येषां कृतशः सत्त्वा दीर्घरात्रं सत्त्वदौःशील्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् शीले प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् क्षान्तौ प्रतिष्ठापयति. येषां
कृतशः सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् वीर्यपारमितायां प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं विक्षिप्तचित्तम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् ध्याने प्रतिष्ठापयति. येषां कृतशः सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते तान् बोधिसत्त्वो महासत्त्व आध्यात्मिकबाह्यान् धर्मान् परित्यज्य तान् सत्त्वान् महाप्रज्ञापारमितायां प्रतिष्ठापयति. येषां कृतशः कौशिक सत्त्वा दीर्घरात्रं संसारे संसरन्ति यद् उतानुनयप्रतिघपर्यवस्थाने तद्बोधिसत्त्वो महासत्त्व (psp_2-3:43) उपायकौशल्येन तेषां सत्त्वानां विनीय तान् सत्त्वांश् चतुर्षु ध्यानेषु प्रतिष्ठापयति. चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, चतुर्षु स्मृत्युपस्थानेषु प्रतिष्ठापयति. एवं सम्यक्प्रहानेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु वैशारद्येष्व् आर्याष्टाङ्गेषु मार्गेषु शून्यतायां वानिमित्ते ऽप्रणिहिते समाधिधारणीमुखेषु च प्रतिष्ठापयति. चतुर्ष्व् आर्यसत्येष्व् अभिज्ञासु दशबलवैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति. स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतो दृष्टा धार्मिका गुणानुशंसा भविष्यन्ति. संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. धर्मचक्रं प्रवर्त्य सत्त्वान् यथाप्रणिधाने प्रतिष्ठाप्य निरुपधिशेषे निर्वाणधातौ
परिनिर्वापयिष्यन्ति. इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य साम्परायिका गुणानुशंसा भविष्यन्ति. इति निरोधे ऽन्वयज्ञानक्षान्तिः
पुनर् अपरं कौशिक यस्मिन् पृथिवीप्रदेशे कुलपुत्रा वा कुलदुहितरो वा इमां प्रज्ञापापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, न तत्र पृथिवीप्रदेशे मारा वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका वा आभिमानिका वा पुद्गलाः शक्ष्यन्ति चित्तविक्षेपं कर्तुं अस्यां प्रज्ञापारमितायां विग्रहाय विवादाय विरोधाय. उत्तरे च तेषां गुणानुशंसा भविष्यन्ति यद् उतास्याः प्रज्ञापारमितायाः श्रवणेनानुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति. तद्यथापि नाम कौशिक मघि नाम्ऽ औषधी तत्र आशीविषेण जन्तुना बुभुक्षितेनाहारार्थिना आहारगवेषिणा कश्चिद् एव प्राणकजातो दृष्टो भवेत्, स तं प्राणकजातं पुनः खादितुकामः प्राणकजातम् अनुधावेत्.
अथ खलु स प्राणजातः येन सा मघि नाम्ऽ औषधि तेनोपसंक्रामेद् अथ स आशीविषस् तस्या औषध्या गन्धेन प्रत्युदावर्तते. तत् (psp_2-3:44) कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणः यत् तस्याशीविषस्य तद् विषम् अभिभवति. एवं बलवती हि सा कौशिक औषधी एवम् एव कौशिक यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तत्र कौशिक ये उत्पन्नोत्पन्ना विग्रहा विवादा विरोधा भविष्यन्ति ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्त्य् उपशमिष्यन्ति यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति न विवर्धिष्यन्त्य् उपशमिष्यन्ति. इति निरोधे ऽन्वयज्ञानम्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
