Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मान् निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् समनुपश्यति.
अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति, यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये वेदनां संज्ञां संस्कारान् विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति, तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति, एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् (psp1-2: 154) इति.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमितेयम् इति. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमितेयम् इति, तस्मिन् समये अध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति यावद् अभावस्वभावशून्यतेयम् इति. पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये स्मृत्युपस्थनानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानानीमानीति, तस्मिन् समये सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियानि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गो ऽयम् इति, तस्मिन् समये अप्रमाणध्यानारूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समापत्तय इमा इति, तस्मिन् समये दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बुद्धधर्मा इमे इति.
पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये सर्वसमाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधिधारणीमुखानीमानि. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादं न समनुपश्यति, सप्तत्रिंशद् बोधिपक्षान् धर्मान् न समनुपश्यति पारमिता न समनुपश्यति अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न समनुपश्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपं यो वेदनायाः संज्ञायाः (psp1-2: 155) संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकरम्. यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुर् यः श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुत्पादो न तन् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न सा अध्यात्मबहिर्धाशून्यता, यो यावद् अभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता, इति हि अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञादशबलवैशारद्यप्रतिसंविदो,
यो भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुत्पादो न ते ऽष्टादशावेणिका बुद्धधर्मा इति हि बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्.
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, यस् तथताया आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा ह्य् अनुत्पादो नैको न द्वौ न बहवो न पृथक् तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
यो भगवन् रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः,
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, एवं (psp1-2: 156) यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पारमितानां व्यायो नताः पारमिता.
यो भगवन्न् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽध्यात्मशून्यतया व्ययो न सा अध्यात्मशून्यता एवं यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न सा ध्यात्मबहिर्धाशून्यता यावद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता इति ह्य् अभावस्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता.
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, इति हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकरम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,
एवं यः सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां यश् चार्याष्टाङ्गस्य मार्गस्य व्ययो न स मार्ग इति हि मार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो मार्गस्य व्ययो न स मार्गः,
एवं यो ऽप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां प्रतिसंविदां वैशारद्यानां दशानां तथागतबलानां यो ऽष्टादशानाम् आवेणिकानां बुद्धधर्माणां व्ययो न ते बुद्धधर्मा इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो बुद्धधर्माणां व्ययो न ते बुद्धधर्माः.
यत् पुनर् भगवन्न् उच्यते, रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यावद् यत् पुनर् उच्यते रूपं यावत् सर्वाकारज्ञतेत्य् (psp1-2: 157) अद्वयस्यैषा गणना कृता.
इति प्राप्तिनिर्याणे प्राप्यप्रापकसंबन्धप्रतिषेधः
अथ खल्व् आयुष्मन् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, कतम आयुष्मन् सुभूते बोधिसत्त्वः, कतमा प्रज्ञापारमिता, कतमा उपपरीक्षमाणा.
सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
कतमेषां धर्माणाम् आकाराञ् जानाति, रूपस्याकाराञ् जानाति न चात्राभिनिविशते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्याकाराञ् जानाति, न चात्राभिनिविशते, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद् बोधिपक्षानां धर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते, एवम् अप्रमाणध्यानारूप्यसमापत्तीनां पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानांबुद्धधर्माणाम् आकाराञ् जानाति न चात्राभिनिविशते.
शारिपुत्र आह: कतमे ते सुभूते सर्वधर्माणाम् आकाराः?
सुभूतिर् आह: यैर् आयुष्मन् शारिपुत्र आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धरसस्प्रष्टव्यधर्मा वा अध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकार्यन्ते इम उच्यन्ते सर्वधर्माणाम् आकाराः.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा प्रज्ञापारमितेति, आरता आरमितैषा आयुष्मन् शारिपुत्र तेनोच्यते प्रज्ञापारमितेति, कुत आरता आरमिता? स्कन्धेभ्यो धातुभ्य आयतनेभ्यः प्रतीत्यसमुत्पदाद् दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया आरता आरमिता, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया आरता आरमिता, स्मृत्युपस्थानेभ्य आरता आरमिता, सम्यक्प्रहाणर्द्धिपदेन्द्रियबलबोध्यङ्गमार्गाद् आरता आरमिता, अप्रमाणध्यानारूप्यसमापत्तिभ्य आरता आरमिता, बलेभ्यो वैशारद्येभ्य आरता आरमिता, प्रतिसंविद्भ्य आवेणिकेभ्यो बुद्धधर्मेभ्य आरता आरमिता, यावत् सर्वज्ञताया आरता आरमिता, एषा तेनोच्यते प्रज्ञापारमितेति.
अनेनायुष्मन् शारिपुत्र पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा उपपरीक्षणेति, इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यमिति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं नित्यम् इत्य् उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तमित्य् उपपरीक्षते.
एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मान् न नित्या इति नानित्या इति उपपरीक्षते, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ताइति उपपरीक्षते.
एवं चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न नित्यं नानित्यम् इति उपपरीक्षते, न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं चक्षुःसंस्पर्शं श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शं न नित्य इति नानित्य इत्य् उपपरीक्षते, न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति (psp1-2: 159) नाशान्त इति न शून्य इति नाशून्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते.
एवं चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शपृतत्यया वेदना न नित्या इति नानित्या इत्य् उपपरीक्षते, न सुखा इति न दुःखा इति नात्मा इति नानात्मा इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति न आत्मेति नानात्मेति न शान्ता इति नाशान्ता इति, न शून्या इति नाशुन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते.
एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरिक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
एवं स्मृत्युपस्थानानि न नित्यानीति नानित्यानीत्य् उपपरीक्षते न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशून्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षते, न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षते,
एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा दशतथागतबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समाधयः सर्वधारणीमुखानि सर्वज्ञता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वओ महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञास्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति.
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपेण, या चायुष्मन् शारिपुत्र शून्यता न तद् रूपं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदना संज्ञा संस्कारा, विज्ञानं शून्यं विज्ञानेन, या चायुष्मन् शारिपुत्र शून्यता न तद् विज्ञानं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो विज्ञानस्यानुत्पादोन तद् विज्ञानम्.
दानपारमिता आयुष्मन् शारिपुत्र दानपारमितया शून्या, या च शून्यता न सा दानपारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, या च शून्यता न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, एवं बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, या च शून्यता न सा अभावस्वभावशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता.
स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानैः शून्यानि, या च शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तयो (psp1-2: 161) दशबलवैशारद्यप्रतिसंविदः समाधिधारण्यष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता आयुष्मन् शारिपुत्र सर्वाकारज्ञतया शून्या, या च शून्यता न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मन् शारिपुत्र प्रयायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते एवं वदसि, यो रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम् इति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यताबोधिपक्षेसु धर्मेषु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सासर्वाकारज्ञता.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च वेदना या च संज्ञा ये च संस्काराः, यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाशून्यताबोधिपक्षेसु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यावेणिकबुद्धधर्मसमाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञतायच् चाद्वैधीकारं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपम्, एवं वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु बोधिपक्षेसु धर्मेष्व् अभिज्ञापारमिताप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु समाधिधारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् इदम् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृतेति, वेदना संज्ञा संस्काराः, यद् इदम् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृतेति, यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृतेति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्यद् रूपम्, अनुत्पाद एव रूपं, रूपम् एवानुत्पादः, वेदना संज्ञा (psp1-2: 162) संस्कारा, नान्यो ऽनुत्पादो ऽन्यद् विज्ञानं, विज्ञानम् एवानुत्पादो ऽनुत्पाद एव विज्ञानम्, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषुपारमितासु बोधिपक्षेसु धर्मेषु सर्वशून्यतास्व् अप्रमाणध्यानारूप्यसमापत्तिषु अभिज्ञासु बलेषु वैशारद्येषु प्रतिसंवित्सु आवेणिकेषु बुद्धधर्मेषु समाधिधारणीमुखेषु तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता अनुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैवानुत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
पुनर् अपरम् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूपस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय,
आत्मनो ऽनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमनवकारकवेदकजानकपश्यकस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
दानपारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
अध्यात्मशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
स्मृत्युपस्थानानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तीनां दशबलवैशारद्यप्रतिसंवित्समाधिधारणीमुखाष्टादशावेणिकबुद्धधर्माणां सर्वाकारज्ञताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय,
पृथग्जनस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् (psp1-2: 163) अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं स्रोतआपन्नस्य स्रोतआपन्नधर्माणां सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम् अर्हतो ऽर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्धधर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय.
शारिपुत्र आह: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि तथा रूपम् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्ता समस्ता स्कन्धा अनुत्पादो धातवो ऽनुत्पाद आयतनान्य् अनुत्पादः प्रतीत्यसमुत्पादो ऽप्य् अनुत्पादः पारमितानुत्पादः सर्वशून्यतानुत्पादः सप्तत्रिंशद् बोधिपक्षा धर्मा अनुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽनुत्पादः, समाधिधारणीमुखानि अनुत्पादो दशबलवैशारद्यप्रतिसंविदो ऽनुत्पादः, अष्टादशावेणिका बुद्धधर्मा अनुत्पादः सर्वाकारज्ञता अनुत्पादः पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादः, एवं स्रोतआपन्नः स्रोतआपन्नधर्माः सकृदागामीसकृदागामिधर्माः अनागामी अनागामिधर्मा अर्हन्न् अर्हद्धर्मा प्रत्येकबुद्धः प्रत्येकबुद्धधर्मा बोधिसत्त्वो बोधिसत्त्वधर्मा बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादः.
यदि चायुष्मन् सुभूते रूपम् अप्य् अनुत्पादो यावद् बुद्धधर्मा अप्य् अनुत्पादः, नन्व् आयुष्मन् सुभूते प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्धयानिकेन प्रत्येकबुद्धबोधिः, बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति, पञ्चानाञ् च गतीनां भेदो न भविष्यति, प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन पञ्चविधा बोधिः.
यदि चायुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किम् अर्थं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, सकृदागामिना रागदोषमोहानां तनुतायै मार्गो भावयितव्यः, अनागामिना पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, अर्हता पञ्चोर्ध्वभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये मार्गो भावयितव्यः, किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति, यानि तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति, किं कारणं तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, (psp1-2: 164) किं कारणं तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितम्?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभिसमयं,
नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं, नानागामिनं नानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं,
नाहम् आयुष्मन् शारिपुत्रेच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न हि शक्य आयुष्मन् शारिपुत्र दुष्करसंज्ञायां स्थित्वा अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां जनयित्वा शक्यो ऽप्रमेयाणाब्म् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्.
अपि तु खलु पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवंचित्तम् उत्पादयितव्यं, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा, एवं सर्वेष्व् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवंसंज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां भविष्यति. तत् कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते.
नाहम् आयुष्मन् शारिपुत्रानुत्पादे तथगतम् इच्छामि, नाप्य् अनुत्तरां सम्यक्संबोधिं, नापि धर्मचक्रप्रवर्तनं, नापीच्छाम्य् अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते, अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नेन धर्मेण अनुत्पन्नां प्राप्तिं प्राप्यमाणाम् इच्छामि, नाप्य् अनुत्पन्ने नोत्पन्नां प्राप्तिं प्राप्यमाणाम्.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि, अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि?
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि, नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्, अपि तु खलु पुनर् आयुष्मन् शारिपुत्र लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमार्थेन प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो न बुद्धः.
शारिपुत्र आह: अनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् शारिपुत्र यद् वदसि प्रतिभाति मन्त्रयितुम् इति, अनुत्पादो ऽपि ये आयुष्मन् शारिपुत्र प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
शारिपुत्र आह: अनुत्पादो ऽप्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र अनुत्पादो मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना, यान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनुत्पादः, एवं वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादः, एवं व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः पारमिताः सप्तत्रिंशद् बोधिपक्षा धर्माः सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञासमाधयो धारणीमुखानिबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनुत्पादः, स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञताप्य् अनुत्पादः.
शारिपुत्र आह: एवम् एतद् आयुष्मन् सुभूते अनुत्पादो मन्त्रः, (psp1-2: 166) अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुं, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पदपारमिताबोधिपक्षा धर्माः सर्वशून्यता सर्वधारणीमुखानि सर्वसमाधयो बलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्माः पेयालं, यावत् सर्वाकारज्ञताप्य् अनुत्पादाः.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च, एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्रैवम् एतत्, यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव लोकव्यवहारेण पञ्चाणां गतीनां संभेदो भवति नात्र खलु पुनः परमार्थेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र परमार्थे न कर्म न विपाको नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते उताहो उत्पन्नो धर्म उत्पद्यते.
सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अनुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि.
शारिपुत्र आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
सुभूतिर् आह: रूपस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां बोधिपक्षाणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां धारणीमुखानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां बोधेर् अप्य् अहम् आयुष्मन् शारिपुत्र अनुत्पापन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते?
सुभूतिर् आह: न ह्य् आयुष्मन् शारिपुत्र उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चोत्पादो यश् (psp1-2: 167) चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ.
अनेनायुष्मन् शारिपुत्र पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्, अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्.
शारिपुत्र आह: धर्मकथिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः. तत् कस्य हेतोः? तथा हि आयुष्मान् सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव निःसरति.
सुभूतिर् आह: धर्मतैषा आयुष्मन् शारिपुत्र तथागतश्रावकाणाम् अनिश्रितसर्वधर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि नामानिश्रितत्वात् सर्वधर्माणाम्.
शारिपुत्र आह: कथम् आयुष्मन् सुभूते अनिश्रिताः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, एवं श्रोत्रं घ्राणं जिह्वा कायो मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
दानपारमितापि आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
अध्यात्मशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
स्मृत्युपस्थानानि प्रकृतिशून्यानि तानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि (psp1-2: 168) बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः प्रकृतिशून्यः स नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
एवम् अप्रमाणध्यानारूप्यसमापत्त्यभिज्ञासमाधिधारणीमुखबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यास् ते नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः, प्रकृतिशून्यताम् उपादाय. एवं हि आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रूपं परिशोधयितव्यं, वेदना संज्ञा संस्कारा विज्ञानं परिशोधयितव्यम्, एवं व्यस्तसमस्ताः स्कन्धा धातवः, आयतनानि प्रतीत्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः परिशोधयितव्याः, यावत् सर्वाकारज्ञता परिशोधयितव्या.
इति सर्वाकारज्ञतानिर्याणम्
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमितासु चरन् बोधिसत्त्वमार्गं परिशोधयति?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र दानपारमिता लौकिकी अस्ति लोकोत्तरा, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अस्ति प्रज्ञापारमिता लौकिकी अस्ति लोकोत्तरा.
शारिपुत्र आह: कतमा आयुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र दानपारमिता इह बोधिसत्त्वो महासत्त्वो दायको भवति दानपतिः, श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति, अन्नार्थिकेभ्यो ऽन्नं ददाति, पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयजीवितोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपानयानवसनशयनासनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति, पुत्रार्थिकेभ्यः पुत्रं ददाति, दुहित्र्यर्थिकेभ्यो दुहितरं ददाति, भार्यार्थिकेभ्यो भार्यां ददाति, राष्ट्रार्थिकेभ्यो राज्यानि ददाति, शिरो ऽर्थिकेभ्यः शिरो ददाति, अङ्गार्थिकेभ्यो ऽङ्गानि ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति, तच् च संनिश्रितं परित्यजति, (psp1-2: 169) तस्यैवं भवति, अहं ददामि एष परिगृह्णीते इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन, अनेन च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय परिनिर्वान्तु, स त्रिभिः सङ्गैः सक्तो दानं ददाति, कतमैस् त्रिभिर्? यद् उतात्मसंज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति, इयम् उच्यते लौकिकी दानपारमितेति. तथा हि आयुष्मन् शारिपुत्र लोकतो न चलति नोच्चलति न संक्रामति, तेनोच्यते लौकिकी दानपारमितेति.
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इह बोधिसत्त्वो महासत्त्वो दानं ददन् नात्मानम् उपलभते प्रतिग्राहकं नोपलभते दानं च नोपलभते, तद् विपाकं च नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानं ददन् सर्वसत्त्वेभ्यस् तद् दानं निर्यातयति, सत्त्वांश् च नोपलभते, आत्मानं च नोपलभते, तच् च दानम् अनुत्तरायै सम्यक्संबोधये परिणामयति, न च बोधिम् उपलभते. इयम् उच्यते लोकोत्तरा दानपारमितेति.
केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा ह्य् आयुष्मन् शारिपुत्र लोकाच् चलति उच्चलति संक्रामति, तेन कारणेनोच्यते लोकोत्तरा दानपारमितेति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
शारिपुत्र आह: कतमायुष्मन् सुभूते प्रज्ञापारमिता लौकिकी, कतमा लोकोत्तरा?
सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वो दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति, तच् चात्मसत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा अध्यात्मिकं वा वस्तु उपात्तं वा अनुपात्तं वा नास्ति किंचिद् यं न परित्यजति, तच् च कुशलमूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः,
स शीलं सेवते धूतगुणप्रतिष्ठितः, कायवाक्चित्तोपलम्भनिश्रितस् (psp1-2: 170) तांश् च दश कुशलान् कर्मपथान् सेवमानः, आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितो बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपलम्भेन, आत्मानम् उत्कर्षयति परान् पंसयति.
स सर्वसत्त्वानां दुष्कृतानि क्षमते, आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन.
स वीर्यम् आरभते कायम् उपलम्भमानश् चित्तम् उपलम्भमानः पुण्यसंभारम् उपलम्भमानः, ज्ञानसंभारम् उपलम्भमानः, आत्मानम् उपलम्भमानः, बोधिम् उपलम्भमानस् तेन च वीर्यारम्भेन मन्यते, तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेनानुत्तरायै सम्यक्संबोधये परिणामयति.
स मैत्रीकरुणामुदितोपेक्षां भावयति ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति, ता आस्वादयन् मन्यते सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधाय परिणामयति. इयम् उच्यते लौकिकी प्रज्ञापारमिता.
स शून्यतां भावयन् रूपं शून्यम् इत्य् उपलभते, वेदना संज्ञा संस्कारान् विज्ञानं शून्यम् इत्य् उपलभते, यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन, तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तं चोपलम्भयोगेन, सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन, आत्मनश् च परेषां च पुण्यम् अनुमोदते, आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते, अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा. इयम् उच्यते लौकिकी प्रज्ञापारमिता
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? आत्मसत्त्वदेयबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति, बोधाय आत्मसत्त्वशीलबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या शीलपारमितां परिशोधयति, बोधाय आत्मसत्त्वक्षमाबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या क्षान्तिपारमितां परिशोधयति, बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या वीर्यपारमितां परिशोधयति, बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्यानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या ध्यानपारमितां (psp1-2: 171) परिशोधयति, बोधाय आत्मसत्त्वसर्वधर्मानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या प्रज्ञापारमितां परिशोधयति, बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेषपरिणामेन, अनुत्तरपरिणामेन, असमसमपरिणामेन, अचिन्त्यातुल्यपरिणामेन, अप्रमेयपरिणामेन. इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता.
केन कारणेन लौकिकी? लोको याभिर् भवति, लोकं वा याभिर् निवर्तयति, लोकेन वा याः समाः, लोकाय वा याभिर् दीयते, लोकाद् वा याभिर् निःसरति, लोकस्य वा या भवाय, लोके वा भवा यास् ता लौकिकस्यः.
तत्र कतमा लोकोत्तरा? लोको याभिर् उत्तरति, लोकं वा याभिर् उत्तारयति, लोकेन वा याभिर् उत्तार्यते, आलोकाय वा या भवति, लोकाद् वा याभिर् निःसरति, लोकस्य वा या उत्तरणाय, लोके वा या उत्तरास् ता लोकोत्तरा इति.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
शारिपुत्र आह: कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
सुभूतिर् आह: चत्वार्य् आयुष्मन् शारिपुत्रै स्मृत्युपस्थानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टान्गो मार्गः शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा. अयम् उच्यते आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
शारिपुत्र आह: कतमस्या आयुष्मन् सुभूते पारमिताया अयं पुरुषकारः?
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मन् शारिपुत्र अयं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां, प्रज्ञापारमिता आयुष्मन् (psp1-2: 172) शारिपुत्र प्रतिग्राहिका सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां, प्रज्ञापारमितायाम् आयुष्मन् शारिपुत्र शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनागता अप्य् आयुष्मन् शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽप्य् एतर्हि आयुष्मन् शारिपुत्र दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपि सर्वे इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
सचेत् पुनर् आयुष्मन् शारिपुत्र अस्यां प्रज्ञापारमितायां भाष्यमाणायां बोधिसत्त्वस्य महासत्त्वस्य न भवति काङ्क्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् आयुअष्मन् शारिपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसिकारेण.
शारिपुत्र आह: यद् आयुष्मन् सुभूते एवम् आह, विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेणेति, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा अपि बोधिसत्त्व भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते सर्वसत्त्वा अविरहिता मनसिकारेण.
सुभूतिर् आह: साधु साधु आयुष्मन् शारिपुत्र उपालप्स्ये त्वां अर्थ एवायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मन् शारिपुत्र मनसिकारासत्ता वेदितव्या, सत्त्वसून्यतया मनसिकारशून्यता वेदितव्या, सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदना संज्ञासंस्कारा विज्ञानासत्तया विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनतावेदितव्या.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सत्यबोधिपक्ष्यधर्मपारमिताप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञताशून्यतया सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
अनेनायुष्मन् शारिपुत्र विहारेणानेन च मनसिकारणाविरहितो बोधिसत्त्वो महासत्त्व इति.
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यथा त्वम् उपदिशसि.
अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ते आयुष्मता सुभूतिना भाष्यमाणे त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिणपश्चिमायां विदिश्य् उन्नामावनामं गच्छन्ति स्म. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्.
अथ खल्व् आय्तिष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः काः प्रत्ययः स्मितस्य प्रादुर्भावाय?
भगवान् आह: यथैव सुभूते इह लोकधातौ तथागतः प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां भाषन्ते, एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां निर्दिशन्ति, अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत्, तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषमाणानाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि.
इति मार्गनिर्याणम्
इत्य् उक्ता निर्याणप्रतिपत्तिर्
इत्य् उक्ता सर्वाकारज्ञता
आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः
(psp_2-3:1) पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता इइ
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् ते सर्वे ऽनेकैर् देवपुत्रसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता अभूवन्, एवं शक्रो देवानाम् इन्द्रो यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या यावन् महाब्रह्माणो ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ परीत्ताभा यावच् छुद्धावासकायिकाश् च देवपुत्रा अनेकैः शुद्धावासकायिकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव परिषदि संनिपतिता. यश् च तेषां चातुर्महाराजकायिकानां देवपुत्राणां कर्मविपाकजः. कायावभासः, यश् च त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां यावच् छुद्धावासकायिकानां देवपुत्राणां कर्मविपाकजः कायावभासः, स तथागतप्रकृतिप्रभायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि नोपैति, न क्षमते तथागतप्रभायाः पुरतः सा देवानां प्रभा. तथागतप्रभैवाग्राख्यते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाख्यायते. तद्यथापि नाम जम्बूनदस्य सुवर्णस्य पुरतः कृष्णलौहं न भ्राजते न तपति न विरोचते, एवम् एव तथागतस्य प्रकृतिप्रभायाः पुरतः सा देवानां कर्मविपाकजप्रभा न भ्राजते न तपति न विरोचते. तथागतप्रभैव तेषाम् अग्राख्यायते ज्येष्ठाख्यायते श्रेष्ठा वरा प्रवरा (psp_2-3:2) प्रणीता अनुत्तरा निरुत्तरा उत्तरोत्तरा चाखायते. इति ध्यामीकरणभा देयानाम्
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एते भदन्त सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा यावच् छुद्धावासकायिका देवपुत्रास् ते सर्वे संनिपतिता आयुष्मतः सुभूतेः प्रज्ञापारमितानिर्देशश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः. कथं च भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? इति योग्यता
एवम् उक्ते, आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक उपदेक्ष्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यैश् च देवपुत्रैर् अनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादितं तैर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. ये पुनर् अवक्रान्तनियामास् ते ऽप्रतिबला अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितुं. तत् कस्य हेतोर्? बद्धसीमानो हि ते संसारस्रोतसः. इति विषयप्रतिनियमः
अपि तु खलु पुनस् तेषाम् अप्य् अनुमोदे ते चेद् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयेयुः. इति व्याप्तिः
नाहं तेषां कुशलपक्षस्यान्तरायं करोमि.इति स्वभावः
विशिष्टेभ्यो धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्याः. इति कारित्रम् इत्य् उक्तानि ध्यामीकरणादीनि
तत्र कौशिक बोधिसत्त्वस्य महासत्त्वस्य कतमा प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः रूपम् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम्. एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, एवं पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुम् अनित्यतो मनसिकरोति दुःखतो (psp_2-3:3) ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन. एवम् अविद्याप्रत्ययान् संस्कारान् अनित्यतो मनसिकरोति दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति तच् चानित्यतो दुःखतो ऽनात्मतः शान्ततो रोगतो गण्डतः शल्यतो ऽघतः परतः प्रलोपधर्मतश् चलतः प्रभङ्गुरतो भयत उपसर्गत उपद्रवतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तेन
चित्तोत्पादेन. अविद्यानिरोधात् संस्कारनिरोध इति मनसिकरोति निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधाद् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति तच् च निरात्मतः शान्ततो विविक्ततः शून्यतो ऽनिमित्ततो ऽप्रणिहिततो ऽनभिसंस्कारतो मनसिकरोति तच् चानुपलम्भयोगेन सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैः.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति तच् चानुपलम्भयोगेन. एवं चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् (psp_2-3:4) बुद्धधर्मान् भावयति सर्वज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तच् चानुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन दानपारमितां चरति तच् चानुपलम्भयोगेन. एवं सर्वज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति तच् चानुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवंधर्मेण धर्मान् योजयति. एवंधर्मेण धर्मान् अभिष्यन्दयन् परिष्यन्दयन् परिपूरयन् परिस्फारन् प्रत्यवेक्षते निरात्मका ह्य् एते सर्वधर्मा आत्मात्मीयविगताः. तत् कस्य हेतोस्? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलचित्तं तद् बोधिचित्तेनासमवहितं यत् परिणामनाचित्तं तद् बोधिचित्तकुशलमूलचित्ताभ्याम् असमवहितं यद् बोधिचित्तं तत् परिणामनाचित्तेनासमवहितं. तत् कस्य हेतोर्? यत् कौशिक बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. यत् परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्मांश् च प्रत्यवेक्षते न च कंचिद् धर्मम् अभिनिविशते नोपलभते.
एवम् उक्ते शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कथं भदन्त सुभूते परिणामनाचित्तं बोधिचित्तेनासमवहितं? कथं बोधेश् चित्तं परिणामनाचित्तेनासमवहितं? कथं वा परिणामनाचित्ते बोधिचित्तं न संविद्यते नोपलभ्यते? कथं बोधिचित्ते परिणामनाचित्तं न संविद्यते नोपलभ्यते?
सुभूतिर् आह : यत् कौशिक परिणामनाचित्तं तद् अचित्तं यद् बोधिचित्तं तद् अचित्तं न ह्य् अचित्तताचित्ततायां परिणामयति. इति हि यद् अचित्तं तद् अचिन्त्यं यद् अचिन्त्यं तद् अचित्तम् अचित्तताचित्ततायां परिणामयति. इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
इति श्रावकमार्गस्य चतुःसत्यालम्बनषोडशाकारव्यवस्थानम्.
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु (psp_2-3:5) सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वं बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदिशसि, उत्साहं ददासि.
सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि भगवन् पूर्वं बोधिसत्त्वचर्यां चरन् पूर्वकाणां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैः षट्सु पारमितास्व् अववदितो ऽनुशिष्टः संदर्शितः समुत्तेजितः संप्रहर्षितः समादापितो निवेशितः प्रतिष्ठापितो यतो भगवान् बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवम् एव भगवन्न् अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशासितव्याः. संदर्शयितव्याः समादापयितव्याः समुत्तेजयितव्याः संप्रहर्षयितव्या निवेशयितव्याः प्रतिष्ठापयितव्या अस्माभिर् अपि बोधिसत्त्वा महासत्त्वा अववदिता अनुशिष्टाः संदर्शिताः समुत्तेज्जिताः संप्रहर्षिताः समादापिता निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
अथ खल्व् आयुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा प्रतिपत्तव्यं रूपं कौशिक रूपेण शून्यं वेदना संज्ञा संस्कारा विज्ञानं कौशिक विज्ञानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक या च रूपशून्यता, या च वेदनासंज्ञासंस्कारविज्ञानशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यम्. एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि या च चक्षुःशून्यता, या च श्रोत्रघ्राणजिह्वाकायमनःशून्यता, या च बोधिसत्त्वशून्यता, अद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः. एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् विज्ञानधातुना शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुसून्यता चाकाशधातुशून्यता च विज्ञानधातुशून्यता (psp_2-3:6) च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक, अविद्याविद्यया शून्या. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणं जरामरणेन सून्यम्. अविद्यानिरोधो ऽविद्यानिरोधेन शून्यः. एवं संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरामरणनिरोधो जरामरणनिरोधेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अविद्याशून्यता चाविद्यानिरोधशून्यता यावज् जरामरणशून्यता च जरामरणनिरोधशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि दानपारमिताशून्यता च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक अध्यात्मशून्यताध्यात्मशून्यतया शून्या. एवं बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति ह्य् अध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च यावद् अभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः शून्या बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि स्मृत्युपस्थानशून्यता च यावद् आवेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक समाधिः समाधिना शून्यः. धारणीमुखानि (psp_2-3:7) धारणीमुखैः शून्यानि बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि समाधिशून्यता च धारणीमुखशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं महायानं महायानेन शून्यं श्रावकः श्रावकत्वेन शून्यः प्रत्येकबुद्धः प्रत्येकबुद्धत्वेन शून्यः बोधिसत्त्वो बोधिसत्त्वेन शून्यः बुद्धो बुद्धत्वेन शून्यः, इति हि श्रावकयानशून्यता च यावन् महायानशून्यता च श्रावकशून्यता च यावद् बुद्धशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. इत्य् उष्मगतम्
अथ खलु सक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं?
सुभूतिर् आह: इह कौशिक बोधिसत्त्वेन महासत्त्वेन रूपे न स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु विज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुषि न स्थातव्यं रूपे न स्थातव्यं चक्षुर्विज्ञाने न स्थातव्यं चक्षुःसंस्पर्शे न स्थातव्यं चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम्, एवं श्रोत्रघ्राणजिह्वाकायमनसि न स्थातव्यं धर्मेषु न स्थातव्यं मनोविज्ञाने न स्थातव्यं मनःसंस्पर्शे न स्थातव्यं मनःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातौ न स्थातव्यं अब्धातौ न स्थातव्यं तेजोधातौ न स्थातव्यं वायुधातौ न स्थातव्यम् आकाशधातौ न स्थातव्यं विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानेषु न स्थातव्यम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञार्यसत्याप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन. स्रोतआपत्तिफले न स्थातव्यम् एवं सकृदागामिफले ऽनागामिफले ऽर्हत्त्वफले प्रत्येकबुद्धत्वफले यावद् बुद्धत्वे न स्थातव्यम् उपलम्भयोगेन. इति मूर्धगतम्
रूपं नित्यम् इति न स्थातव्यम्, एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, रूपं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. वेदना संज्ञा संस्कारा विज्ञानं (psp_2-3:8) नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेत्य् अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम्. विज्ञानं शून्यम् इत्य् अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुपादाङ्गेषु पारमितासु बोधिपक्ष्येषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु सत्याभिज्ञासु समाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु यावत् सर्वाकारज्ञतायां सर्वेषु तेषु नित्यम् इति न स्थातव्यम् एवम् अनित्यम् इति सुखम् इति दुःखम् इत्य् आत्मेति अनात्मेति शान्तम् इत्य् अशान्तम् इति विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यं, शून्यम् इति अशून्यम् इति निमित्तम् इत्य् अनिमित्तम् इति प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् एवं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं, बुद्धत्वम् असंस्कृतप्रभावितम् इति न स्थातव्यं. स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम्, एवं सकृदागामी, अनागामी, अर्हन् प्रत्येकबुद्धस् तथागतो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन. इति क्षान्तिगतम्
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम्. एवं द्वितीयायां भूमौ तृतीयायां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमाव् अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन. प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम्. एवं शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रामयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. बोधिसत्त्वनियामम् अवक्रम्याविनिवर्तनीयभूमौ स्थास्यामीति, एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चाभिज्ञाः परिपूरयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वासंख्येयान्य् अप्रमेयान्य् अपरिमाणानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामीति, (psp_2-3:9) बुद्धांश् च भगवतो दर्शनाय वन्दनाय पूजनाय पर्युपासनाय धर्मश्रवणाय च श्रुत्वा च तथत्वाय प्रतिपत्स्ये परेषां च धर्मं देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्राणि तादृशानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. सत्त्वान् अनुत्तरायां सम्यक्संबोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. अप्रमेयेष्व्
असंख्येयेषु लोकधातुष्व् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकादुष्यकोटीनियुतशतसहस्रैस् तांस् तथागतान् पूजयिष्यामीति, एवम् अपि न स्थातव्यम् अप्रमेयान् असंख्येयान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यं. पञ्च चक्षूंषि उत्पादयिष्यामीति न स्थातव्यं मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यं सर्वसमाधीन् निष्पादयिष्यामीति न स्थातव्यं. येन येन पुनः समाधिनाकाङ्क्षिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यं सर्वधारणीमुखानि निष्पादयिष्यामीति न स्थातव्यम्. अप्रमाणध्यानारूप्यसमापत्तिर् निष्पादयिष्यामीति न स्थातव्यम्. दशतथागतबलानि निष्पादयिष्यामीति न स्थातव्यं. चत्वारि वैशारद्यानि निष्पादयिष्यामीति न स्थातव्यं. चतस्रः प्रतिसंविदो निष्पादयिष्यामीति न स्थातव्यम्. अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. महामैत्रीं महाकरुणां निष्पादयिष्यामीति न स्थातव्यम्. द्वात्रिंशच् च महापुरुषलक्षणानि काये निष्पादयिष्यामीति न स्थातव्यम्. अशीत्यनुव्यञ्जनानि निष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सप्तकृत्वो भवपरम इति न स्थातव्यम्. कुलंकुल इति एकवीचिक इति न स्थातव्यम्. समशीर्षः पुद्गल इति न स्थातव्यम्. आयुःक्षये क्लेशक्षये च न स्थातव्यम्. स्रोतआपन्नो ऽविनिपातधर्म
इति न स्थातव्यं. सकृदागामी सकृद् इमं लोकम् आगम्य दुःखस्यान्तं करिष्यान्तं करिष्यामीति न स्थातव्यम्. अनागाम्य् अनागामिफलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अनागामी तत्रैव परिनिर्वायीति न स्थातव्यम्. अर्हन्न् अर्हत्फलं साक्षात्क्रियायै प्रतिपन्न इति न स्थातव्यम्. अर्हन्न् (psp_2-3:10) इहैवानुपधिशेषे निर्वाणधातौ परिनिर्वायीति न स्थातव्यम्. प्रत्येकबुद्ध इति न स्थातव्यम्. बोधिसत्त्वो ऽतिक्रम्य श्रावकाभूमिं च प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ च स्थास्यामीति न स्थातव्यम्. मार्गज्ञताज्ञाने न स्थातव्यम् उपलम्भयोगेन. सर्वाकारेण सर्वधर्मान् अभिसंबुद्ध्य सर्ववासनानुसंधिक्लेशक्षयात् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यामीति न स्थातव्यम्. बुद्धकृत्यं कृत्वासंख्येयान् अप्रमेयान् सत्त्वान् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम्. चतुर्ष्व् ऋद्धिपादेष्व् इन्द्रियेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपेण समाधिना गङ्गानदीवालुकोपमान् कल्पान् स्थास्यामीति न स्थातव्यम् उपलम्भयोगेन. अपरिमितं म आयुःप्रमाणं भविष्यतीति न स्थातव्यम् उपलम्भयोगेन. द्वात्रिंशन्महापुरुषलक्षणेष्व् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भविष्यतीति न स्थातव्यं. यावन्तः पूर्वेण गङ्गानदीवालुकोपमा लोकधातव एवं दक्षिणपश्चिमोत्तरेण गङ्गानदिवालुकोपमा लोकधातवस् तावत् ममैकैकं बुद्धक्षेत्रं भविष्यतीति न स्थातव्यम्. वज्रमयो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भविष्यतीति न स्थातव्यम्. बोधिवृक्षान् मे तादृग्गन्धो निश्चरेद्, यस् तं गन्धं घ्रायेत तस्य सर्वकायस्य न
रागो बाधेत, न द्वेषो बाधेत, न मोहो बाधेत, न कस्यचिच् छ्रावकचित्तं वा प्रत्येकबुद्धचित्तं वा स्यात्, सर्वे च ते सत्त्वा नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, ये च ते सत्त्वास् तं गन्धं घ्रास्यन्ति तेषां न कश्चिद् व्याधिर् भवेद् इति एवम् अपि न स्थातव्यं. तत्र च बुद्धक्षेत्रे न रूपशब्दो, न वेदनाया, न संज्ञाया, न संस्काराणां, न विज्ञानशब्दो भविष्यतीति न स्थातव्यम्. न दानपारमितायाः शब्दो भविष्यतीति, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः शब्दो भविष्यतीति न स्थातव्यम्. न स्मृत्युपस्थानशब्दो भविष्यतीति, न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मशब्दो भविष्यतीति, एवं न यावत् स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वबुद्धशब्दो भविष्यतीति न स्थातव्यं, विस्तरेण कर्तव्यम्. तत् कस्य हेतोस्? तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य (psp_2-3:11) सर्वधर्मा नोपलब्धाः. एवं हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपलम्भयोगेन न स्थातव्यम्.
अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? इति.
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मतः शारिपुत्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? त्वम् आयुष्मञ् शारिपुत्र क्व तथागतः स्थित इति
शारिपुत्र आह: न क्वचिद् आयुष्मन् सुभूते तथागतः स्थितः. अप्रतिष्ठितमानसः स खलु पुनस् तथागतो ऽर्हन् सम्यक्संबुद्धः स न रूपे स्थितो न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो न संस्कृते धातौ स्थितो नासंस्कृते धातौ स्थितः. एवं न व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न बोधिपक्ष्येषु धर्मेषु नाप्रमाणध्यानारूप्यसमापत्तिषु नाभिज्ञासु न सत्येषु स्थितो न सर्वशून्यतासु न सर्वसमाधिषु न सर्वधारणीमुखेषु स्थितः, न बलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितः.
अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवं ह्य् आयुष्मञ् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. यथा तथागतो ऽर्हन् सम्यक्संबुद्धो न रूपे स्थितो नास्थितः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थितो नास्थितः. एवं ह्य् आयुष्मञ् शरिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं. स्थास्यामीत्य् अस्थानयोगेन. इत्य् अग्रधर्मगतम् इत्य् उक्तः श्रावकमार्गः
अथ खलु तत्र परिषदि केषांचिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षरुतानि यक्षपदानि यक्षमन्त्रितानि यक्षप्रव्याहृतानि प्रज्ञायन्ते तानि जल्प्यमानानि. इदं पुनर् न विज्ञायते यद् आर्यस्थविरः सुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयत्य् उपदिशति.
अथ खल्व् आयुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःइपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयामास: न विज्ञायते देवपुत्रा यन् मन्त्र्यते? (psp_2-3:12)
देवपुत्रा आहुह्: न विज्ञायते आर्यसुभूते.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
