Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नैव बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्, यस्मात् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति, एवं महायानं सदेवनानुषासुरं लोकम् अभिभूय निर्यास्यति.
सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्, यस्मात् सुभूते द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो नभावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभिभवन्ति.
सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो भावो ऽभविष्यन् नाभावो नैव तथगतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेनास्फारिष्यत्, यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फारति.
सचेत् सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नैव तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् (psp1-2: 122) लोकधातून् स्वरेणाभिव्यज्ञापयिष्यत्, यस्मात् तर्हि सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अप्रमेयसंख्येयान् लोकधातून् स्वरेणाभिविज्ञपयति.
सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं भावो ऽभविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्, अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण, यस्मात् तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् अभावो न भावस् तस्मात् तथगतेन त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तितम् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण.
सचेत् सुभूते सत्त्वा भावो ऽभविष्यन् नाभावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन् यस्मात् तर्हि सुभूते सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति.
इत्य् अधिगमनिर्याणम्
इति त्रिविधम् उद्देशनिर्याणम्
यत् पुनः सुभूतिर् एवम् आह, आकाशसमं तद् यानम् इति, एवम् एतत् सुभूते एवम् एतत्, आकाशसमं तद् यानं, यथाकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, एवम् एव सुभूते तस्य यानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते,
तद्यथापि नाम सुभूते आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फाटिकरजतवर्णम्, एवम् एव सुभूते तन् महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न माञ्जिष्ठं न स्फाटिकरजतवर्णं, तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नं, एवम् एव सुभूते तन् महायानं नातीतं नानागतं न (psp1-2: 123) प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिः, एवम् एव सुभूते तस्य महायानस्य न हानिर् न वृद्धिस् तेनोच्यते, आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानं, एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते, आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं, एवम् एव सुभूते तस्य महायानस्यनोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं, एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातं, एवम् एव सुभूते तन् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं, एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्मि, एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्मि तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं, एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादः, एवम् एव सुभूते तत्र महायाने न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो (psp1-2: 124) न सप्तमो नाष्टमो न नवमो न दशमश् चित्तोत्पादस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिः, एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् नाष्टमकभूमिर् न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं, एवम् एव सुभूते तत्र महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः, एवम् एव सुभूते तत्र महायानेन श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तं, एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तंन विसंयुक्तं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं, एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं, एवम् एव सुभूते तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न विविक्तं नाविविक्तं नालोको नान्धकारः, एवम् एव सुभूते तन् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारस् तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न लभ्यते नोपलभ्यते, एवम् एव सुभूते तन् महायानं न लभ्यते नोपलभ्यते तेनोच्यते आकाशसमं तद् यानम् इति,
तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः, एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारस् तेनोच्यते आकाशसमं तद् यानम्.
इति समतानिर्याणम्
यत् पुनः सुभूतिर् एवम् आह, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाश इति, एवम् एतत् सुभूते एवम् एतत्, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चाप्रमेयं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंख्येयासत्ता वेदितव्या,
एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अपरिमाणासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् (psp1-2: 126) अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते.
पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंस्कृतासत्ता वेदितव्या, संस्कृतासत्तयाप्रमेयासत्ता वेदितव्या, अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या, असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या, अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यश् च तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया भूतकोट्यसत्ता वेदितव्या, भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च भूतकोटिर् यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या, अचिन्त्यधात्वसत्तया रूपस्कन्धासत्ता वेदितव्या, रूपस्कन्धासत्तया वेदनासंज्ञासंस्कारविज्ञानस्कन्धासत्ता वेदितव्या, विज्ञानस्कन्धासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता (psp1-2: 127) वेदितव्या, जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या, चक्षुरसत्तया श्रोत्रघ्राणजिह्वाकायमनो ऽसत्ता वेदितव्या, मनो ऽसत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया दानपारमितासत्ता वेदितव्या, दानपारमितयासत्तया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्ता वेदितव्या, प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतासत्ता वेदितव्या, अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या, स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितया, सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या, ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या, इन्द्रियासत्तया बलासत्ता वेदितव्या, बलासत्तया बोध्यङ्गासत्ता वेदितव्या, बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या, मार्गासत्तया अप्रमाणासत्ता वेदितया, (psp1-2: 128) अप्रमाणासत्तया ध्यानासत्ता वेदितव्या, ध्यानासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या, आरूप्यसमापत्त्यसत्तया प्रतिसंविदसत्ता वेदितव्या, प्रतिसंविदसत्तया दशबलासत्ता वेदितव्या, दशबलासत्तया वैशारद्यासत्ता वेदितव्या, वैशारद्यासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या, आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया गोत्रभूम्यसत्ता वेदितव्या, गोत्रभूम्यसत्तया अष्टमकभूम्यसत्ता वेदितव्या, अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या, दर्शनभूम्यसत्तया तनूभूम्यसत्ता वेदितव्या, तनूभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या, वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या, कृताविभूम्यस्त्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्रोतआपन्नासत्ता वेदितव्या, स्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या, सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या, अनागाम्यसत्तया अर्हदसत्ता वेदितव्या, अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या, प्रत्येकबुद्धासत्तया यावद् आकाशमहायानाप्रमेयासंख्येयापरिमाणसर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया श्रावकयानासत्ता वेदितव्या, श्रावकयानासत्तया (psp1-2: 129) प्रत्येकबुद्धयानासत्ता वेदितव्या, प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या, सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया यावत् सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते.
तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
तद्यथापि नाम सुभूते आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः.
इति सत्त्वार्थनिर्याणम्
यद् अपि सुभूतिर् एवम् आह, नापि तस्य महायानस्य आगतिर् दृश्यते नापि गतिर् न स्थानं दृश्यत इति. एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते नापि गतिर् न स्थानं दृश्यते. तत् कस्य हेतोः? अचला हि सुभूते सर्वधर्मास् ते न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति. तत् कस्य हेतोः? न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपतथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपस्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनायाः स्वभावः न संज्ञायाः स्वभावो न संस्काराणां स्वभावो न सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनाया लक्षणं न संज्ञाया लक्षणं न संस्काराणां लक्षणं न सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति (psp1-2: 130) न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते चक्षुषः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न सुभूते विज्ञानधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न धर्मधातोस् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न तथतायास् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न भूतकोटेस् तथता न भूतकोटेः स्वभावो न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते अचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोस् तथता नाचिन्त्यधातोः स्वभावो नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दानपारमितायास् तथता न दानपारमितायाः स्वभावो न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न प्रज्ञापारमितायस् तथता न प्रज्ञापारमितायाः स्वभावो न प्रज्ञापारमिताया लक्षणं कुतश्चिद् (psp1-2: 131) आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न स्मृत्युपस्थानानां तथता न स्मृत्युपस्थानानां स्वभावो न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां नेन्द्रियाणां न बलानां न बोध्यङ्गानां नार्याष्टाङ्गस्य मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नार्याष्टाङ्गस्य मार्गस्य तथता नार्याष्टाङ्गस्य मार्गस्य स्वभावो नार्याष्टाङ्गस्य मार्गस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते अप्रमाणध्यानारूप्यसमापत्तीणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाप्रमाणध्यानारूप्यसमापत्तीणां तथता नाप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो नाप्रमाणध्यानारूप्यसमापत्तीणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दशानां तथागतबलानां तथता न दशानां तथागतबलानां स्वभावो न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
एवं न चतुर्णां वैशारद्यानां न चतसृणां प्रतिसंविदां न षण्णाम् अभिज्ञानां न सुभूते अष्टादशानाम् आवेणिकानां बुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां तथता नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न बोधेस् तथता न बोधेः स्वभावो न बोधेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति,
न सुभूते असंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नासंस्कृतस्य तथता नासंस्कृतस्य स्वभावो नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति.
इत्य् अनाभोगनिर्याणम्
यद् अपि तत् सुभूतिर् एवम् आह, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते, एवम् एतत् सुभूते एवम् एतत्, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते. तत् कस्य हेतोः? तथा हि सुभूते अतीतो ऽध्वा अतीतेनाध्वना शून्यः, अनागतो ऽध्वा अनागतेनाध्वना शून्यः, प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेनाध्वना शून्यः, त्र्यध्वसमता त्र्यध्वसमतया शून्या, महायानं महायानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः.
न सुभूते शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षड् वा सप्त वा अष्ट वा नव वा दश वा तस्मात् त्र्यध्वसमतया समम् इदं यानं बोधिसत्त्वस्य महासत्त्वस्य, नापि तत्र समम् उपलभ्यते न विषमं, नापि तत्र राग उपलभ्यते न विरागः, न दोष उपलभ्यते नादोषः, न मोह उपलभ्यते नामोहः, न नाम उपलभ्यते नानाम, यावन् न कुशलम् उपलभ्यते नाकुशलं, न सास्रवम् उपलभ्यते नानास्रवं, न सावद्यम् उपलभ्यते नानवद्यं, न क्लेश उपलभ्यते नाक्लेशः, न क्लेशक्षय उपलभ्यते नाक्लेशक्षयः, न लौकिकम् उपलभ्यते न लोकोत्तरं, न संक्लेश उपलभ्यते न व्यवदानं, न संसार उपलभ्यते न निर्वाणं, नाप्य् अत्र नित्यम् उपलभ्यते नानित्यं, न सुखम् उपलभ्यते न दुःखं, नात्मा उपलभ्यते नानात्मा, न शान्तम् उपलभ्यते नाशान्तं, न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः, न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः, नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नोपलभ्यते, अतीतं सुभूते रूपम् अतीतेन रूपेण शून्यम्, अनागतं रूपम् अनागतेन रूपेण शून्यं, प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यम्. एवम् अतीता वेदना संज्ञा संस्काराः, अतीतं विज्ञानम् अतीतेन विज्ञनेन शून्यम्, अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यं, प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्. तत् कस्य हेतोः?
न शून्यतायाम् अतीतं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलप्स्यते,
न शून्यतायाम् अतीता वेदना उपलभ्यते शून्यतैव तावच् छून्या (psp1-2: 133) शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता वेदना उपलप्स्यते,
न शून्यतायाम् अतीता संज्ञा उपलभ्यते, शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता संज्ञा उपलप्स्यते,
न शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलप्स्यन्ते,
न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलप्स्यते,
एवं न शून्यतायाम् अनागतं रूपं वेदना संज्ञा संस्काराविज्ञानम् उपलभ्यते.
न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते,
न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संस्कारा उपलप्स्यन्ते,
न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते.
न शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते,
न शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलप्स्यते.
पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते दानपारमिता नोपलभ्यते, प्रत्युत्पन्नतो ऽपि सुभूते दानपारमिता नोपलभ्यते, त्र्यध्वसमतया दानपारमिता नोपलभ्यते, न सुभूते त्र्यध्वसमतायाम् अतीतो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते,
एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु शीलपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु क्षान्तिपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु वीर्यपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु ध्यानपारमिता नोपलभ्यते,
पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते, त्र्यध्वसमतया प्रज्ञापारमिता नोपलभ्यते, न सुभूते समतायाम् अतीतो ऽध्वा उपलभ्यते नानागतो न प्रत्युत्पन्नो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना प्रज्ञापारमितोपलप्स्यते.
पुनर् अपरं सुभूते पूर्वान्तापरान्तमध्येषु स्मृत्युपस्थानानि नोपलभ्यन्ते त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते, न सुभूते समतायाम् अतीतानागतप्रत्युत्पन्नो ऽध्वा नोपलभ्यन्ते, समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते,
एवं सम्यक्प्रहाणाब्नि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, ऋद्धिपादाः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, इन्द्रियाणि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बोध्यङ्गानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, आर्याष्टाङ्गमार्गः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, दश तथागतबलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चत्वारि वैशारद्यानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चतस्रः प्रतिसंविदः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अष्टादशावेणिका बुद्धधर्माः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, त्र्यध्वसमतया आवेणिकबुद्धधर्मा नोपलभ्यन्ते, न सुभूते समतायां (psp1-2: 135) अतीतानागतप्रत्युत्पन्नाध्वा उपलभ्यन्ते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते.
पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते, अपरान्ततः पृथग्जनो नोपलभ्यते, प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते, त्र्यध्वसमतया पृथग्जनो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः पूर्वान्ततस् तथागतो नोपलभ्यते, अपरान्ततस् तथागतो नोपलभ्यते, मध्यतस् तथागतो नोपलभ्यते, त्र्यध्वसमतया तथागतो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय.
एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतया महायानं, अत्र स्थितो बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभवन् सर्वाकारज्ञतायां निर्यास्यति.
इत्य् अन्तनिर्याणम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: साधु साधु भगवन् सुभाषितम् इदं भगवतो बोधिसत्त्वानां महासत्त्वानां महायानम्, अत्र भगवन् महायाने शिक्षमाणैर् अतीते ऽध्वनि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता, अनागता अपि बोधिसत्त्वा महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वाः प्रत्युत्पन्नास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम्,
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वाः सर्वाकारज्ञताम् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च.
अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्: अयं भगवन् सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टव्यं मन्येत.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा हैवाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानम् उपदिशामि.
भगवन् आह: न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि. तत् कस्य हेतोः? तथा हि सुभूते ये केचित् कुशला बोधिपक्षा धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
सुभूतिर् आह: कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति?
भगवान् आह: तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा असंप्रमुषितधर्मता सदोपेक्षाविहारिता, इमे सुभूते कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति.
यच् च सुभूते महायानं या च ध्यानपारमिता या च वीर्यपारमिताया च क्षान्तिपारमिता या च शीलपारमिता या च दानपारमिता, यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदनाया च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना,
यानि च चत्वारि स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि ये च ऋद्धिपादा यानि चेन्द्रियानि यानि च बलानि यानि च बोध्यङ्गानि यश् चार्याष्टाङ्गो मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या चाध्यात्मशून्यताया च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च यावद् अष्टादशावेणिका बुद्धधर्माः, यश् च तथागतप्रवेदितो धर्मविनयोयश् च धर्मधातुर् या च तथता या च भूतकोटिर् यश् चाचिन्त्यधातुर् यच् च निर्वाणं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. तत् कस्य हेतोः? न हि सुभूते अन्यन् महायानम् अन्या प्रज्ञापारमिता अन्या ध्यानपारमिता अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दानपारमिता, इति हि महायानञ् च प्रज्ञापारमिता ध्यानवीर्यक्षान्तिशीलदानपारमिता चाद्वयम् एतद् अद्वैधीकारं, न सुभूते अन्यन् महायानम् अन्यानि स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं, एवं नान्यन् महायानम् अन्ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा इति हि महायानं च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानं अन्या अप्रमाणध्यानारूप्यसमापत्तय इति हि महायानं चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानम् अन्ये दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा इति हि महायानं च बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि.
इति प्राप्तिनिर्याणम्
सुभूतिर् आह: अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्ततता वेदितव्या, रूपं (psp1-2: 138) बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्, एवं वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं, न तद् रूपं वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितयाम् अववदिष्याम्य् अनुशासिष्यामि? न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्, सचेद् एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वोनोपैति?
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या?
केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानः, असमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
केन कारणेनायुष्मन् सुभूते एवं वदसि, यावद् एव नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तं कतमे ते वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं यच् चानभिनिवृत्तं न तद् रूपं ये (psp1-2: 139) चानभिनिवृत्ता न वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं, तत् किम् अनभिनिवृत्तम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि?
केन कारणेनायुष्मन् सुभूते एवं वदसि, न चान्यत्रानभिनिवृत्ते बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्?
केन कारणेनायुष्मन् सुभूते एवं वदसि, सचेद् एवम् उपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् इति?
सुभूतिर् आह: सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वशून्यतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वविविक्ततया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वास्वभावतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, एवम् अपरान्ततो मध्यतश् च वक्तव्यम्. तत् कस्य हेतोः? सत्त्वासत्तया शून्यताविविक्ततास्वभावता पूर्वान्तादीनाम् अनुपलब्धेः, न चान्यत्र सत्त्वासत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारं,
रूपासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, रूपशून्यतया रूपविविक्ततया रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं वेदना संज्ञा संस्कारा विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्.
दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासत्तायां शून्यतायां विविक्ततायाम् (psp1-2: 140) अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वः, अन्या दानपारमिता अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च षट् पारमिता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्.
एवं ह्य् आयुष्मन् शारिपुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं यावद् अभावस्वभावशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अभावस्वभावशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभावस्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थनासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अष्टादशवेणिकबुद्धधर्मासत्तायां शून्यतायां विविक्तायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यानि उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता शून्यता विविक्तता अस्वभावता अन्यानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणारूप्यसमापत्तयो (psp1-2: 141) दशबलवैशारद्यप्रतिसंविदो ऽन्ये ऽष्टादशावेणिका बुद्धधर्मा अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या च स्मृत्युपस्थानासत्ता शून्यता विविक्ता अस्वभावता यावद् यो च अष्टादशावेणिकबुद्धधर्मासत्ता शून्यता विविक्ता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटिविविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यः समाधिर् अन्यद् धारणीमुखम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर् अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्र या च समाध्यसत्ता यावद् या च भूतकोट्यसत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि, सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया बोधिसत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावत् सर्वज्ञासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यः श्रावको ऽन्यः प्रत्येकबुद्धो ऽन्यो बोधिसत्त्वो ऽन्यः सर्वज्ञः, अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्रया च श्रावकासत्ता शून्यता विविक्तता अस्वभावता यावद् या च सर्वज्ञासत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि (psp1-2: 142) सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति.
इति प्राप्तिनिर्याणे प्राप्यप्रतिषेधः
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदना संज्ञा संस्कारा, विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मन् शारिपुत्र आकाशसमं, वेदना संज्ञा संस्कारा आकाशसमा, विज्ञानम् आयुष्मन् शारिपुत्र आकाशसमम्. तत् कस्य हेतोः? तद्यथापि नाम आयुष्मन् शारिपुत्र यथा आकाशस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते.
एवम् एवायुष्मन् शारिपुत्र रूपस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते. तत् कस्य हेतोः? रूपशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य नैवपूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. तत् कस्य हेतोः? विज्ञानशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, शून्यतेति च व्यवह्रियते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतित्यसमुत्पादेषु यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मा आयुष्मन् शारिपुत्र आकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामायुष्मन् शारिपुत्र आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते. एवम् एवायुष्मन् शारिपुत्र बुद्धधर्माणां नादिर् नान्तो न मध्यम् उपलभ्यते बुद्धधर्मशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण बुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते इति?
रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र विज्ञानेन शून्यम्. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र शून्यतायां रूपं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते, वेदना संज्ञा संस्कारा, न शून्यतायां विज्ञानं संविद्यते, नापि शून्यतायां बोधिसत्त्वः संविद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.
पुनर् अपरम् आयुष्मन् शारिपुत्र दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, न शुन्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते. अध्यातमशून्यता आयुष्मन् शारिपुत्र अध्यात्मशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या.
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या, धर्मधातुर् धर्मधातुना शून्यः समाधिः समाधिना शून्यो धारणिमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या मार्गाकारज्ञता मार्गाकारज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन तथागतः शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतो विद्यते शून्यतायां बोधिसत्त्वो विद्यते.
अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि (psp1-2: 144) न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते.
यद् अप्य् आयुष्मन् शारिपुत्र आह, केन कारणेनैवं वदसि, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति?
रूपम् आयुष्मन् शारिपुत्र रूपे रूपं न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते,
वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपं वेदना च संज्ञायां न संविद्यते नोपलभ्यते,
संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपे न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयोर् न संविद्यते नोपलभ्यते, रूपं वेदना संज्ञा संस्कारेषु न संविद्यते नोपलभ्यते,
संस्काराः संस्कारेषु न संविद्यते नोपलभ्यन्ते, संस्कारा रूपवेदनासंज्ञासु न संविद्यन्ते नोपलभ्यन्ते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते.
चक्षुर् आयुष्मन् शारिपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते,
श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रं च घ्राणेन संविद्यते नोपलभ्यते,
घ्राणं घ्राने न संविद्यते नोपलभ्यते, घ्राणं चक्षुषि श्रोत्रे च न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणानि जिह्वायां न संविद्यन्ते नोपलभ्यन्ते,
जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यन्ते नोपलभ्यन्ते,
कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यन्ते नोपलभ्यन्ते,
मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु (psp1-2: 145) न संविद्यते नोपलभ्यते.
रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दगन्धरसस्पर्शधर्मेषु न संविद्यते नोपलभ्यते,
शब्दः शब्दे गन्धे रसे न संविद्यते नोपलभ्यते, शब्दो ऽन्येषु न संविद्यते नोपलभ्यते.
एवं गन्धो गन्धे ऽन्येषु च न संविद्यते नोपलभ्यते, रसो रसे ऽन्येषु च न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से ऽन्येषु च न संविद्यते नोपलभ्यते, धर्मा धर्मेष्व् इतरेषु न संविद्यन्ते नोपलभ्यन्ते.
चक्षुर्विज्ञानं चक्षुर्व्र्ज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते,
एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते.
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते,
एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्सो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते.
चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते,
एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते.
स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकेषु बुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, तत्रापीतरे इतरेषु च ते (psp1-2: 146) न संविद्यन्ते नोपलभ्यन्ते.
अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यतापि यावद् अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यतापि यावद् अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते.
समाधिः समाधौ न संविद्यते नोपलभ्यते, समाधिर् धारणीषु न संविद्यते नोपलभ्यते, धारणी धारण्यां न संविद्यते नोपलभ्यते, धारण्यः समाधौ न संविद्यन्ते नोपलभ्यन्ते.
पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, एवं गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः, सर्वज्ञताभूमिः सर्वज्ञताभूमौ न संविद्यते नोपलभ्यते.
स्रोतआपन्नः स्रोतआपन्नत्वे न संविद्यते नोपलभ्यते, एवं सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वो बोधिसत्त्वत्वे न संविद्यते नोपलभ्यते, तथागतस् तथागतत्वे न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमितायाम् अववादानुशासनी न संविद्यते नोपलभ्यते, अववादानुशासन्यां प्रज्ञापारमिता न संविद्यते नोपलभ्यते, एवं ह्य् आयुष्मन् शारिपुत्र सर्वधर्मासंविद्यमानत्वेन अनुपलम्भेन बोधिसत्त्वो न संविद्यते नोपलभ्यते.
इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः
यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, केन कारणेन नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, केन कारनेनायुष्मन् सुभूते एवं वदसि, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तथा ह्य् आयुष्मन् शारिपुत्र नाम दशभ्यो दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति, आगन्तुकम् एतन् नामधेयं तथा हि यद् रूपं यद् वेदना यत् संज्ञा यत् संस्कारा यद् विज्ञानम् इति नामधेयं न तद् रूपं न (psp1-2: 147) वेदना न संज्ञा न संस्कारा न विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम, तेन कारणेनोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति.
पुनर् अपरम् आयुष्मन् शारिपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमितेति, न च दानपारमितायां नाम न च नाम्नि दानपारमिता, तत् कस्य हेतोः? यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, एवं नामधेयमात्रम् एतद् यद् उत शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता नामधेयमात्रम् एतद् यद् उत प्रज्ञापारमितेति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता, तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मन् नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्त यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्नि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता सर्व एते न संविद्यन्ते नोपलभ्यन्ते.
अनेनायुष्मन् शारिपुत्र पर्यायेण नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, आगन्तुकम् एतच् छारिपुत्र नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति, न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानानि उभयम् एतन् न संविद्यते नोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियानि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गो ऽप्रमाणानि ध्यानानि आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न च बुद्धधर्मेषु नाम नाम्नि बुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च बुद्धधर्मा उभयम् एतद् न संविद्यते नोपलभ्यते, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत समाधिर् इति, यावत् सर्वज्ञतेति, न (psp1-2: 148) च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते.
यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेनोच्यते यथा आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मेति, आत्मा शारिपुत्र अत्यन्ततया न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र सत्त्वो जीवः पोषः पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः पश्यको न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, वेदना संज्ञा संस्कारा, अत्यन्ततया आयुष्मन् शारिपुत्र विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रं घ्रानं जिह्वा कायो मनः, अत्यन्ततया मनो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति
अत्यन्ततया रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं शब्दगन्धरसस्पृष्टव्यानि, अत्यन्ततयाधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुर्संस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तित् भविष्यति, अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति,
अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा (psp1-2: 149) वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्य अभिनिवृत्तिर् भविष्यति, अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया अध्यात्मशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवं अत्यन्ततया बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिर्वृत्तिर् भविष्यति.
अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, अप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया समाधयो धारणीमुखानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अत्यन्ततया श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति.
अनेनायुष्मन् शारिपुत्र पर्यायेण आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मा.
पुनर् अपरं यद् आयुष्मन् शारिपुत्र एवम् आह, अभावस्वभावाः सर्वधर्मा इति, एवम् एतत्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः.
शारिपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः?
सुभूतिर् आह: रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः, (psp1-2: 150) वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः,
चक्षुषो नास्ति सांयोगिकः स्वभावः, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो नास्ति सांयोगिकः स्वभावः,
एवं रूपशब्दगन्धरसस्पर्शधर्माणां नास्ति सांयोगिकः स्वभावः, चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शस्य श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शजाया वेदनायाः श्रोत्रसंस्पर्शजाया वेदनाया घ्राणसंस्पर्शजाया वेदनाया जिह्वासंस्पर्शजाया वेदनायाः कायसंस्पर्शजाया वेदनाया मनःसंस्पर्शजाया वेदनाया नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शप्रत्ययवेदनाया श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया नास्ति सांयोगिकः स्वभावः, नास्ति दानपारमिताया नास्ति शीलपारमिताया नास्ति क्षान्तिपारमिताया नास्ति वीर्यपारमिताया नास्ति ध्यानपारमिताया नास्ति प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः. अनेनायुष्मन् शारिपुत्र पर्यायेणास्वभावाः सर्वधर्माः. पुनर् अपरम् आयुष्मन् शारिपुत्र अनित्याः सर्वधर्मा न कस्यचिद् विगमेन.
शारिपुत्र आह: कतमे ते आयुष्मन् सुभूते अनित्याः सर्वधर्मा न कस्यचिद् विगमेन?
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन, वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखा अनात्मानः शान्ताः शून्या आनिमित्ता अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा निःक्लेशा लोकोत्तरा व्यवदाना असंस्कृताः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यो ऽसंस्कृतः सो ऽभावः क्षयश् चानेनायुष्मन् शारिपुत्र पर्यायेण निःस्वभावाः सर्वधर्मा न कस्यचिद् विगमेन. पुनर् अपरं शारिपुत्राकूटस्था अविनाशिनः सर्वधर्माः.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अकूटस्थाविनाशिनः सर्वधर्माः.
सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं कुशलम् अकुशलं सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् असंस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, अनेनायुष्मन् शारिपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः. यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेन रूपम् अनभिसंस्कृतम् एवं वेदना संज्ञा संस्काराः केन कारणेन विज्ञानम् अनभिसंस्कृतम् इति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनभिनिवृत्तं वेदना संज्ञा संस्कारा विज्ञानम् अनभिनिवृत्तम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्राभिसंस्कर्त्ता नास्ति,
चक्षुर् आयुष्मन् शारिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति, एवं श्रोत्रघ्राणजिह्वाकाया मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति.
पुनर् अपरं शारिपुत्र रूपशब्दगन्धरससंस्पर्शधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते, अनेनायुष्मन् शारिपुत्र पर्यायेण रूपवेदनासंज्ञासंस्कारविज्ञानान्य् अनभिनिवृत्तानि. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन यद् अनभिनिवृत्तं न तद् रूपंन वेदना न संज्ञा न संस्कारा न विज्ञानम् इति.
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपं प्रकृतिशून्यं, यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, एवं यावत् सर्वधर्माः प्रकृतिशून्या ये च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययस् तेषां नान्यथात्वं प्रज्ञायते.
अनेनायुष्मन् शारिपुत्र पर्यायेण यद् अनभिनिवृत्तं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्.
यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति, यथा ह्य् आयुष्मन् शारिपुत्र या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा अनभिनिवृत्तिः, इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेणैवं वदामि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति.
यत् पुनर् आयुष्मन् सारिपुत्र एवम् आह, न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति, इति ह्य् अनभिनिवृत्तिश् च बोधिसत्त्वश् चाद्वयम् एतद् अद्वैधीकारम्.
नान्यत्रानभिनिवृत्ते रूपं समनुपश्यति, नान्यत्रानभिनिवृत्तेर् वेदनां संज्ञां संस्कारान् समनुपश्यति, नान्यत्रानभिनिवृत्तेर् विज्ञनं समनुपश्यति,
इति ह्य् अनभिनिर्वृत्तिश् च रूपं चाद्व्यम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च वेदना संज्ञा संस्काराश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च विज्ञनं चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं घ्राणं जिह्वा कायश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तश् च रूपशब्दगन्धरसस्पर्शधर्माश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रघ्राणजिह्वाकायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाश् चाद्वयम् एतद् अद्वैधीकारम्,
इति ह्य् अनभिनिवृत्तिश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दशबलवैशारद्याष्टादशावेणिका बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्मश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
