Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अभीक्ष्णं नैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय,

बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धितामुपादाय,

धर्मविवरणपरिकर्म धर्मभेदानुपलब्धिताम् उपादाय,

सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय,

इमानि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दश परिकर्माणि करणीयानि.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसिकरोति तेषु च प्रतिपद्यते. कतमान् अष्टौ? यद् उत शीलविशुद्धिं, कृतज्ञतां कृतवेदितां, क्षान्तिबलप्रतिष्ठानं, प्रामोद्यप्रत्यनुभवतां, सर्वसत्त्वापरित्यागतया महाकरुणाया आमुखीकर्म, गुरूणां श्रद्धया गौरवं, शास्तृसंज्ञायागुरुशुश्रूषां, पारमितास् तद् योगपर्येष्टिम्, इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ वर्तमानेनाष्टौ धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्यम्. कतमेषु पञ्चसु? यद् उत बहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरानभिनिवेशे, निरामिषधर्मदानविवरणतायां तया चामन्यनतया, बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामनतायां तया चामन्यनतया, अमितसंसारापरिखेदनतायां तया चामन्यनतया, ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया, एषु सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु स्थातव्यं, ते च न परित्यक्तव्याः. कतमेषु दशसु? यद् उत अरण्यवासो, ऽल्पेच्छता, संतुष्टिर्, धूतगुणसंलेखानुत्सर्जनं, शिक्षाया अपरित्यागः, कामगुणविजुगुप्सनं, निर्वित्सहगतश् चित्तोत्पदः, सर्वास्तिपरित्यागता, अनवलीनचित्तता, सर्ववस्तुनिरपेक्षता, इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन न परित्यक्तव्या एषु च स्थातव्यम्.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्माः परिवर्जयितव्याः. कतमे दश? यद् उत गृहिप्रव्रजितसंस्तवः परिवर्जयितव्यः, कुलमात्सर्यं परिवर्जयितव्यः, संगणिकास्थानं परिवर्जयितव्यं, आत्मोत्कर्षणं परिवर्जयितव्यं, परपंसनं परिवर्जयितव्यं, दशाकुशलाः कर्मपथाः परिवर्जयितव्याः, अधिमानस्तम्भौ परिवर्जयितव्यौ, विपर्यासाः परिवर्जयितव्याः, विचिकित्सा परिवर्जयितव्या, रागद्वेषमोहाधिवासनाः परिवर्जयितव्याः. इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः. कतमे षट्? यद् उत षट् पारमिताः परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः. कतमे षट्? श्रावकचित्तं परिवर्जयितव्यं, प्रत्येकबुद्धचित्तं परिवर्जयितव्यं, परितसनाचित्तं परिवर्जयितव्यं, याचनकं दृष्ट्वा नावलीयते, सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्यचित्तम् उत्पादयितव्यं, न च याचनकविक्षेपः कर्तव्यः. इमे सुभूते षड् धर्मा बोधिसत्त्वेन (psp1-2: 90) महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिधर्मा न भवन्ति. कतमे विंशतिः? यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहो निमित्तसंज्ञा हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः, आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातुकाध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्मनिश्रयदृष्ट्यभिनिवेशः संघनिश्रयदृष्ट्यभिनिवेशः शीलनिश्रयदृष्ट्यभिनिवेशः शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति, इमे सुभूते विंशतिधर्मा बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति.

तेन विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः. कतमे विंशतिः? यद् उत शून्यतापरिपूरिता, आनिमित्तसाक्षात्क्रिया, अप्रणिहितज्ञानं, त्रिमण्डलपरिशुद्धिः, कृपाकारुण्यं च सर्वसत्त्वेषु तेष्व् अनवमन्यना, सर्वधर्मसमतादर्शनं तत्र चानभिनिवेशः, भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनयनिर्देशः सर्वधर्माणां कल्पनासमुद्घातः संज्ञादृष्टिविवर्तः क्लेशविवर्तः शमथनिध्यप्तिर् विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता अनुनयस्याभूमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभावसंदर्शनम्. इमे विंशतिधर्मा बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परिपूरयितव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत सर्वसत्त्वचित्तानुप्रवेशो ऽभिज्ञाविक्रीडनं बुद्धक्षेत्रदर्शनन् तेषां च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्धकाययथाभूतप्रत्यवेक्षणतया. इमे सुभूते चत्वारो धर्मा बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन परिपूरयितव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत इन्द्रियपरापरज्ञानं, बुद्धक्षेत्रपरिशोधनं, मायोपमस्य (psp1-2: 91) समाधेर् अभीक्ष्णं समापत्तिर्, यथायथा च सत्त्वानां कुशलमूलनिष्पत्तिस् तथातथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनतया. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः. कतमे द्वादश? यद् उत अनन्तप्रणिधानपरिग्रहः, स यथायथा प्रणिदधाति तथातथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगरुतज्ञानं प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसंपत् कुशलसंपद् जातिसंपद् गोत्रसंपत् परिवारसंपद् जन्मसंपन् नैष्क्रम्यसंपद् बोधिवृक्षसंपत् सर्वगुणपरिपूरणसंपत्. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः.

दशम्यां पुनः सुभूते बोधिसत्त्वभूमौ वर्तमानो बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यः.

सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म?

भगवान् आह: या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म? यद् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर् अप्रमाणाभिनिर्हरणा मैत्रीकरुणामुदितोपेक्षाणाम्, इदम् उच्यते सर्वसत्त्वसमचित्ततापरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म? यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति, इदम् उच्यते त्यागपरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म? (psp1-2: 92) यानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि सर्वाकारज्ञतायां समादापयन्ति, तेषां मित्राणां सेवना भजना पर्युपासना शुश्रूषा, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तेन मनसिकारेण धर्मंपर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म? यत् सर्वजातिष्व् अव्यवकीर्णो ऽभिनिष्क्रामति तथागतशासने प्रव्रजितस्य न चास्य कश्चिद् अन्तरायो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म? यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध मनसिकारेण विरहितो भवति, यावत् सर्वाकारज्ञतानुप्राप्तो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म? यद् बोधिसत्त्वो महासत्त्वः संमुखीभूतस्य तथागतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति, यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं निदानम् अवदानं गाथा वैपुल्याद्भुतधर्मोपदेशाः, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म? यद् उत यथा वादि तथा कारिता, इदं बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म.

इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि.

तत्र सुभूते कतमानि बोधिसत्त्वस्य महासत्त्वस्य द्वितीयायां भूमौ वर्तमानस्याष्टौ परिकर्माणि? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् (psp1-2: 93) अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थनकरा धर्मास् तेषाम् अमनसिकारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् अल्पम् अपि कृतम् आ संसारान् न नाशयति प्राग् एव बहु, इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्? यत् सर्वसत्त्वानाम् अन्तिके ऽव्यापादाविहिंसाचित्तता, इदं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता? यत् सर्वसत्त्वपरिपाचनता, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरत एवं भवति, एकैकस्य सत्त्वस्यार्थायाहङ् गङ्गानदीवालुकोपमान् कल्पान् निरये पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति, एवम् एकैकस्य कृतशः सत्त्वस्य य उत्साहो यो ऽपरिखेदो यम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः,

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्? यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्दधानता? यद् गुरूणाम् अन्तिके शास्तृसंज्ञा, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रुषाश्रद्दधानता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः? या अनन्यकर्मतया पारमितापर्येषणता, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता? यत् किंचिद् बुद्धैर् भगवद्भिर् भाषितम् इह वा लोकधातौ समन्ताद् वा दश दिशि लोके तत् सर्वम् आराधयिष्यामीति या अतृप्तता, इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता? यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयति, स तेन (psp1-2: 94) धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकाङ्क्षति, इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना? यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयनात्मपरिचित्तं परिशोधयति तेषां कुशलमूलानां या परिणामना, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता? या कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः, सत्त्वानांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च परिपूरयति, इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्? या सर्वश्रावकप्रत्येकबुद्धचित्तजुगुप्सनता, इदं बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता? या सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता, इयं बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता? यद् बोधिसत्त्वो महसत्त्वो बोधिम् अपि नेच्छति, इयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः? यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता? या गम्भीरेषु धर्मेषु निध्यप्तिक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता? यः सर्वशिक्षाणाम् अप्रचारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता? यः कामचित्तस्यानुत्पादः, इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः? यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता? या अध्यात्मिकबाह्यानां धर्माणाम् अग्रहणता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता? या यद् विज्ञानस्थितिष्व् अस्य चित्तं नावलीयते, इयं बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता? या सर्ववस्तूनाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता? या बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमणता उपपादुकता प्रतिलाभमुण्डकाषायप्रावरणता, इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता? यद् भिक्षुणा भिक्षुण्या वा सह अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्? इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं, यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं त एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्, इदं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम्? यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता कथा स्यात् तत् प्रतिसंयुक्तं वा चित्तोत्पादम् उत्पादयेन् न तत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, इयं बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानपरिवर्जनता.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या? या आध्यात्मिकानां धर्माणाम् असमनुपश्यना इयं (psp1-2: 96) बोधिसत्त्वस्य महासत्त्वस्य आत्मोत्कर्षणपरिवर्जनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता? यद् उत बाह्यानां धर्माणाम् असमनुपश्यना, इयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः? तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः? तथा हि स न कञ्चिद् धर्मं समनुपश्यति, कुतः पुनर् अधिकं येनाधिमंस्यते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः.

तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः? तथा हि तद् वस्तु न समनुपश्यति यत्र स्तम्भम् उत्पादयेद् एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भो नोत्पादयितव्यः.

तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः? सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः.

तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या? तथा हि संदेहापगतात् सर्वधर्मान् समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या.

तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या? तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहाः परिवर्जयितव्याः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिपूरयितव्याः? यद् उत षट् पारमिता दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इमाः षट् पारमिताः परिपूरयितव्याः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिवर्जयितव्याः? यद् उत श्रावकचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा (psp1-2: 97) हि नैष मार्गो बोधये, प्रत्येकबुद्धचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, परितसनाचित्तं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकं दृष्ट्वा नावलीनचित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, सर्वस्वम् अपि परित्यज्य न दुर्मनस्को भवति. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकविक्षेपो न कर्तव्यः. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया आत्मा न संविद्यते एवं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः, एवं सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् एते अत्यन्ततया न संविद्यन्ते, एवं सत्त्वजीवपुद्गलग्राहो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन उच्छेदग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न कश्चिद् धर्म उच्छिद्यते, अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदेः, एवम् उच्छेदग्राहो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शास्वतग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि यो धर्मो नोत्पद्यते स न शाश्वती भवति, एवं शाश्वतग्राहो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा नोत्पादयितव्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते, एवं निमित्तसंज्ञा नोत्पादयितव्या.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या. तत् कस्य हेतोः? तथा हि स तां दृष्टिं न समनुपश्यति, एवं हेतुदृष्टिर् न कर्तव्या, एवं स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि ते धर्माः स्वभावेन न संविद्यन्ते, एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वन त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि त्रैधातुकस्वभावो न संविद्यते, एवं त्रैधातुके ऽभिनिवेशो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके ऽध्यवसानं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि तद् वस्तु नोपलभ्यते, एवं त्रैधातुके ऽध्यवसानं न कर्तव्यम्.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके आलयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि निःस्वभावत्वाद् एवं त्रैधातुके आलयो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धधर्मसंघनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न बुद्धधर्मसंघदृष्टिनिश्रयाद् बुद्धधर्मसंघदर्शनं, एवं बुद्धधर्मसंघदृष्टिनिश्रयो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलदृष्टिनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं शीलदृष्टिनिश्रयो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विवादो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः स्वभावेन शून्या न शून्यतया, एवं शून्यतायां विवादो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः शून्या न शून्यता शून्यतां विरोधयति, एवं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या? स्वलक्षणशून्यताम् उपादाय, परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिर्, एवं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य आनिमित्तसाक्षात्क्रिया? यद् उत सर्वनिमित्तानाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्? यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः? यद् उत दश कुशलकर्मपथपरिशुद्धिर् एवं बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.

तत्र कथं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या? यो महाकरुणायाः प्रतिलाभः, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः करणीया.

तत्र कथं बोधिसत्त्वेन मःआसत्त्वेन सर्वसत्त्वा नावमन्तव्याः? यद् उत मैत्रीपरिपूर्या, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वा नावमन्तव्याः.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनं यद् उतानुत्क्षेपो ऽप्रक्षेपः सर्वधर्माणाम् इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम्.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः? यः सर्वधर्माणाम् अप्रतिवेधः, अयं बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः? या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय क्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्? यन् नामरूपानुत्पादज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानं.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः? या अद्वयसमुदाचारता अयं बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः? या सर्वधर्माणां कल्पना अयं बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः? या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता अयं बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः? यः सर्ववासनानुसंधिक्लेशोत्सर्गः, अयं बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः,

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः? यत् सर्वाकारज्ञताज्ञानम् इयं बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः,

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता? या त्रैधातुके ऽनभिरतिः, इयं बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्? यो (psp1-2: 100) बुद्धचक्षुःप्रतिलम्भः, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता? या षड् आयतनिका उपेक्षा, इयं बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्? यद् एकबुद्धक्षेत्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते, न चास्य बुद्धक्षेत्रे संज्ञोत्पद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्? यद् यथापर्षन् मण्डले आत्मभावदर्शनम्, इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः? यद् एकचित्तेन सर्वसत्त्वचित्तचरितज्ञानम्, अयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना? याभिर् अभिज्ञाभिर् विक्रीडमानो बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति, इयं बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञाविक्रीडना.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता? या त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिमूर्तिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता, इयं बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता? या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता? या धर्मकाययथाभूतप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता,

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता? या दशसु बलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता, इयं बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता? (psp1-2: 101) या सर्वसत्त्वचित्तपरिशोधनता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः? यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो भवति, अयं बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः? या बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिर्, इयं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः? यद् बोधिसत्त्वो महासत्त्वो यथायथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथातथा संचिन्तयात्मभावं परिगृह्णाति, अयं बोधिसत्त्वस्य महासत्त्वस्यात्मभावपरिग्रहः.

तत्र कथं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्? यद् बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिधिं प्रणिदधाति तथातथा समृध्यते, इदं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्.

तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्? यद् बोधिसत्त्वो महासत्त्वो निरुक्तिप्रतिसंविदा देवादीनां रुतं प्रतिसंविध्यति, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्.

तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्? यद् बोधिसत्त्वो महासत्त्वः प्रतिभानप्रतिसंविदा परिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति, इदं बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत्? इह बोधिसत्त्वो महासत्त्वः सर्वासु जातिषु औपपादुक उपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रन्तिसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वकुलेषु प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्? यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु वा प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्? यद् बोधिसत्त्वो (psp1-2: 102) महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्व अभूवंस् तत्र गोत्रे प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्? यज् जातमात्र एव बोधिसत्त्वो महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति, तांश् च सर्वान् षड् विकारं कम्पयति, इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्? यद् बोधिसत्त्वो महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभिनिष्क्रामति गृहात्, इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैडूर्यमयो भवति, सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पाङ् गन्धो ऽवभासश् चानन्तान् लोकधातून् अवभासेन स्फुरति, इयं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्? या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरिशुद्धिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्.

तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितः संस्तथागत एवेति वक्तव्यः? यदा बोधिसत्त्वस्य महासत्त्वस्य दशपारमिताः परिपूर्णा भवन्ति, यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्णा भवन्ति, सर्वाकारज्ञताज्ञानं च सर्ववासनानुसंधिक्लेशप्रहाणं भवति, महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परं तथागत एवेति वक्तव्यः.

तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः? यद् बोधिसत्त्वो महासत्त्व उपायकौशल्येन सर्वासु पारमितासु चरन् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्यसमापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (psp1-2: 103) चरन् गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनूभूमिं वीतरागभूमिं कृतावीभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिं बोधिसत्त्वभूमिं बोधिसत्त्वो महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अतिक्रम्य बुद्धभूमौ प्रतिष्ठते, इयं बोधिसत्त्वस्य महासत्त्वस्य दशमी भूमिः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो भवति.

इति भूमिसंभारः

यत् पुनः सुभूतिर् एवम् आह, कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् निर्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन. तत् कस्य हेतोः? तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. तत् कस्य हेतोः? न हि सुभूते ऽलक्षणौ धर्मौ निर्यातौ वा निर्यातो वा निर्यास्यतो वा धर्मधातोः स सुभूते निर्याणम् इच्छेत्, तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद्, एवं भूतकोटेर् अचिन्त्यधातोर् आकाशधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्यस निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्.

रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?

न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न वेदनाशून्यता न संज्ञाशून्यता न संस्कारशून्यता न विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः?

तथा हि सुभूते रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यं,

चक्षुःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं श्रोत्रशून्यताया घ्राणशून्यताया जिह्वाशून्यतायाः कायशून्यताया मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद्यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं रूपशून्यतायाः शब्दशून्यताया गन्धशून्यताया रसशून्यतायाः स्पर्शशून्यताया धर्मशून्यतायाः,

चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाश्

चक्षुःसंस्पर्शशून्यताया श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाश्

चक्षुःसंस्पर्शजवेदयितशून्यतायाः श्रोत्रसंस्पर्शजवेदयितशून्यताया घ्राणसंस्पर्शजवेदयितशून्यताया जिह्वासंस्पर्शजवेदयितशून्यतायाः कायसंस्पर्शजवेदयितशून्यताया मनःसंस्पर्शजवेदयितशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः?

न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति,

न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्पर्शशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.

न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.

न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति.

न हि सुभूते चक्षुःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति, न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शजवेदयितशून्यता न घ्राणसंस्पर्शजवेदयितशून्यता न जिह्वासंस्पर्शजवेदयितशून्यता न कायसंस्पर्शजवेदयितशून्यता न (psp1-2: 105) मनःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं, एवं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यो धर्मा धर्मैः शून्याः,

चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं,

चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः,

चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या, श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या, घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या, जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या, कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या, मनःसंस्पर्शजा वेदना मनःसंस्पर्शजया वेदनया शून्या.

स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, विस्तरेण कर्तव्यम्, एवं मरीच्या मायायाः प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्य स्वभवस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न मरीच्याः स्वभावो न मायायाः स्वभावो न प्रतिश्रुत्कायाः स्वभावो न प्रतिभासस्य स्वभावो न प्रतिबिम्बस्य स्वभावो न गन्धर्वनगरस्य स्वभावो न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यो, मरीचिस्वभावो मरीचिस्वभावेन शून्यः, मायास्वभावो मायास्वभावेन शून्यः, प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः, प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः, (psp1-2: 106) प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः, गन्धर्वनगरस्वभावः गन्धर्वनगरस्वभावेन शून्यः, तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः.

इति दर्शनमार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः

दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो दानपारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः तथा हि यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दानपारमितास्वभावो दानपारमितास्वभावेन शून्यः, शीलपारमितास्वभावः शीलपारमितास्वभावेन शून्यः, क्षान्तिपारमितास्वभावः क्षान्तिपारमितास्वभावेन शून्यः, वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः, ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः, प्रज्ञापारमितास्वभावः प्रज्ञापारमितास्वभावेन शून्यः.

अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं यावद् अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि यो ऽध्यात्मशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तथा हि यो बहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तथा हि यो ऽध्यात्मबहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं यावद् यो ऽभावस्वभावशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतयाशून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता (psp1-2: 107) यावद् अभावस्वभावशून्यतया शून्या.

स्मृत्युपस्थानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि.

सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि.

ऋद्धिपादानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य ऋद्धिपादानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते ऋद्धिपादा ऋद्धिपादैः शून्याः.

इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते इन्द्रियाणि इन्द्रियैः शून्यानि,

बलानां स सुअभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बलानि बलैः शून्यानि.

बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तत् कस्य हेतोः? तथा हि सुभूते बोध्यङ्गानि बोध्यङ्गैः शून्यानि.

मार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते मार्गो मार्गेण शून्यः.

एवम् अप्रमाणध्यानारूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् (psp1-2: 108) यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिस्वभावेन शून्यः.

दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतबलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दशतथागतबलानि दशतथागतबलैः शून्यानि.

चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चत्वारि वैशारद्यानि चतुर्भिर् वैशारद्यैः शून्यानि.

चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चतस्रः प्रतिसंविदश् चतसृभिः प्रतिसंविद्भिः शून्याः.

अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽष्टादशावेणिकबुद्धधर्मस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः.

इति दर्शनमार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः

अर्हतः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अर्हत्स्वभावो ऽर्हतः स्वभावेन शून्यः.

प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः प्रत्येकबुद्धस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां (psp1-2: 109) स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः.

बोधिसत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः.

तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते तथागतस्वभावस् तथागतस्वभावेन शून्यः.

स्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः.

एवं सकृदागामिफलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येकबुद्धत्वस्य यः स्वभावो मार्गज्ञतायायः स्वभावः सर्वाकारज्ञताया यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञतास्वभावेन शून्यः.

इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः

नाम्नः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं निमित्तस्य संकेतस्य व्यवहारस्य प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो नाम्नः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः. एवं संकेतस्ययः स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? (psp1-2: 110) तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः.

अनुत्पादस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः.

एवम् अनिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनभिसंस्कारस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः.

एवं हि सुभूते न महायानं त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, अचलितं तद् यानम्.

इति दर्शनमार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः

यत् पुनः सुभूतिर् एवम् आह, क्व तद् यानं स्थास्यतीति, न तद् यानं क्वचित् स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अस्थिताः सर्वधर्माः, अपि तु सुभूते अस्थानं न स्थानयोगेन तद् यानं स्थास्यति, तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः, एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं, तद्यथापि नाम सुभूते ऽनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न स्थितो नास्थितः, एवम् एव सुभूते तन् महायनं न स्थितं नास्थितं, तथा हि सुभूते धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि सुभूते धर्मधातुस्वभावः स्थितो वा अस्थितो व. तत् कस्य हेतोः? तथा हि सुभूते धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अभिसंस्कारो ऽनभिसंस्कारेण शून्यः. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वा अस्थितो वा. तत् कस्य हेतोः? तथा हि सुभूते अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः, एवं हि सुभूते तद् यानं न क्वचित् स्थास्यति, अस्थितम् अस्थानयोगेन अचाल्ययोगेन.

इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः

यत् पुनः सुभूतिर् एवम् आह, कस् तेन यानेन निर्यास्यतीति, न कश्चित् तेन यानेन निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते यच् च तद् यानं येन च निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते (psp1-2: 111) धर्मा न संविद्यन्ते, एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय, एवं यावत् पश्यकस्यात्यन्तविशुद्धिताम् उपादाय, धर्मधातुर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्कन्धधात्वायतनानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, प्रतीत्यसमुत्पादो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, दानपारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते

अत्यन्तविशुद्धिताम् उपादाय, एवं दश तथागतबलानि नोपलभ्यन्ते चत्वारि वैशारद्यानि नोपलभ्यन्ते चतस्रः प्रतिसंविदो नोपलभ्यन्ते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, सकृदागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अनागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपत्तिफलन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागामिफलन् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय, अनागामिफलन् नोपलभ्यते, अर्हत्त्वन् नोपलभ्यते, प्रत्येकबोधिर् नोपलभ्यते, तथागतत्वन् नोपलभ्यते, सर्वाकारज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रमुदिताभूमिर् नोपलभ्यतेअत्यन्तविशुद्धिताम् उपादाय, एवं विमला प्रभाकरी अर्चिष्मती (psp1-2: 112) सुदुर्जया अभिमुखी दूरङ्गमा अचला साधुमती धर्ममेघा भूमिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, पूर्वान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अपरान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्युत्पन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अगतिर् नोपलभ्यते गतिर् नोपलभ्यते स्थितिर् नोपलभ्यते च्युतिर् नोपलभ्यते उपपत्तिर् नोपलभ्यते हानिर् नोपलभ्यते वृद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.

कस्यानुपलब्ध्या नोपलभ्यते? धर्मधातोर् अनुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते, अनुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते अभिसंस्कारः, स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि, प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः, दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता, अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यातमसून्यता, बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते, अध्यात्मबहिर्धाशून्यता, एवं यावद् अभावस्वभावशून्यतानुपलब्ध्या अभावस्वभावशून्यता नोपलभ्यते, स्मृत्युपस्थानानुपलब्ध्या स्मृत्युपस्थानानि नोपलभ्यन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुपलब्ध्यासम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते, एवं दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मानुपलब्ध्या अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते. इति भावनामार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः

स्रोतआपन्नः स्रोतआपन्नानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते स्रोतआपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागाम्य् अनागाम्य् अर्हन्न् अर्हदनुपलब्ध्या नोपलभ्यते, प्रत्येकबुद्धः प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते, यावत् तथागतस् तथागतानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.

इति भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः

स्रोतआपत्तिफलं स्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते, एवं सकृदागामिफलम् आनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानुपलब्ध्या नोपलभ्यते. एवं प्रमुदिता भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, विमलाभूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, प्रभाकली भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अर्चिष्मती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, सुदुर्जया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अभिमुखी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, दूरङ्गमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अचला भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, साधुमती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, धर्ममेघा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.

पुनर् अपरं सुभूते दश भूमयो भूम्यनुपलब्ध्या नोपलभ्यन्ते. कतमा दश? शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिः वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः.

अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते, बहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् दशमी भूमिर् अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते, बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया दशमी भूमिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.

अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते, बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय.

अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय.

अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, एवं यावद् अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति.

इति भावनामार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः

इत्य् उक्ता संभारप्रतिपत्तिः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महायानं महायानम् इतीदं भगवन्न् उच्यते, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति, आकाशसमं तद् यानं, तद्यथापि नाम भगवन्न् आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. एवं हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं, तद्यथापि नाम भगवन् आकाशस्य नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते, एवम् एवास्य भगवन् महायानस्य नैवागम उपलभ्यते न निर्गमो न स्थानम् उपलभ्यते, तद्यथापि नाम भगवन्न् आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्यवसमताम् उपादाय. एवम् एव भगवन्न् अस्य महायानस्य न पूर्वान्तो नापरान्तो न मध्य उपलभ्यते, अध्वसमताम् उपादाय, एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते.

भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इमाः षट् पारमिता, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि शूरङ्गमः समाधिर् विस्तरेण कार्यः, यावद् असङ्गाकाशविमुक्तिनिरुपलेपः समाधिः, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य महायानम्.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता, यावद् अभावस्वभावशून्यता, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य (psp1-2: 115) महायानम्.

पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टङ्गो मार्गः चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्.

यत् पुनः सुभूतिर् एवम् आह, सदेवमानुषासुरं लोकम् अभिभूय तद् यानं निर्यास्यतीति, कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू रूपधातुर् आरूप्यधातुः

सचेत् सुभूते कामधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,

सचेत् सुभूते रूपधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति,

सचेत् सुभूते आरूप्यधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते रूपं तथताभविष्यद् अवितथता अनन्यतथता (psp1-2: 116) अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं वेदना संज्ञा संस्काराः,

सचेत् सुभूते विज्ञानं तथताभविश्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चक्षुस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुअरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रं घ्राणं जिह्वा कायः,

सचेत् सुभूते मनस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते रूपं तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय (psp1-2: 117) निर्यास्यति, एवं शब्दगन्धरसस्पर्शाः,

सचेत् सुभूते धर्मस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चक्षुर्विज्ञानं तथता सदेवमानुषासुरं भविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं,

सचेत् सुभूते मनोविज्ञानं तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चक्षुःसंस्पर्शस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः संदर्शितो अनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः,

सचेत् सुभूते मनःसंस्पर्शस् तथता अभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो (psp1-2: 118) ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना,

सचेत् सुभूते मनःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मिणी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं तथता भूतकोटिः.

सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्नास्यति.

सचेत् सुभूते दानपारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं शीलपारमिता क्षान्तिपारमिता (psp1-2: 119) वीर्यपारमिता ध्यानपारमिता,

सचेत् सुभूते प्रज्ञापारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते बहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

एवं यावत् सचेत् सुभूते अभावस्वभावशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अभावस्वभावशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चत्वारि स्मृत्युपस्थानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

एवं चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि.

सचेत् सुभूते आर्याष्टाङ्गमार्गो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आर्याष्टाङ्गो मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय (psp1-2: 120) निरयास्यत्, यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

एवं दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः.

सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

इत्य् अग्रतानिर्याणम्

सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

एवं स्रोतआपन्न्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः.

सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते गोत्रभूमिर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूमिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः.

सचेत् सुभूते बुद्धो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

इति प्रहाणनिर्याणम्

सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.