Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 16/34

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8

Thông tin
GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सुभूतिर् आह: बहु भगवन् बहु सुगत. अप्रमेयम् असंख्येयम् अपरिमाणं भगवन्न् उपमापि न सुकरा कर्तुं तस्य पुण्यक्रियावस्तुनः. सचेद् भगवंस् तत् पुण्यक्रियावस्तु रूपि भवेत्, सर्वं तद् गङ्गानदिवालुकोपमेषु न मायेत्.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् एवं ब्रवीषि. अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य एवं कुशलमूलं निरुपलेपपरिणामनयानुत्तरायै सम्यक्संबोधये परिणामयेद्. एवं सुभूते तस्य कुलपुत्रस्य वा कुलदुहितुर् वा अयं कुशलमुलपरिणामो ऽग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते (psp_2-3:138) प्रणीत आख्यायते उत्तम आख्यायते अनुत्तम आख्याते निरुत्तम आख्यायते. तस्य सुभूते निरुपलेपपरिणामनापुण्यस्कन्धस्यासौ पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीशततमीम् अपि कोटीसहस्रतमीम् अपि कोटीशतसहस्रतमीम् अपि कोटिनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् औपम्यम् अप्य् उपनिशाम् अप्य् उपनिषदम् अपि न क्षमते. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनो ये दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानचतुरप्रमाणचतुरारूप्यसमापत्तिपञ्चाभिज्ञासमन्वागतास्. तत् कस्य हेतोः? तथा हि ते कुलपुत्राः कुलदुहितरश् चोपलम्भसंज्ञिनस् तान् सर्वसत्त्वान् स्रोतआपन्नभूतान् यावद् अर्हत्त्वभूतान् सर्वसत्त्वान् प्रत्येकबुद्धभूतान् सत्कुर्युर् गुरुकुर्युर् मानयेयुः पूजयेयुश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैर् उपतिष्ठेयुस्, तथा हि स तान् औपलम्भिकान् बोधिसत्त्वान् सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत्. इत्य् अधिमात्रपुण्योदयपरिणामः

अथ खलु चत्वारो महाराजानश् चातुर्महाराजकायिकानां च देवानां विंशतिदेवपुत्रसहस्राणि प्राञ्जलीभूतानि भगवन्तं नमस्यन्ति स्म. एवं चाहुर्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा परिणामयति यथा न द्वयम् उपैति नाद्वयम्.

अथ खलु शक्रो देवानाम् इन्द्रस् त्रायस्त्रिंशैर् देवपुत्रैः सार्धं दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर् दिव्यतूर्यताडावचरवाद्यैश् च भगवन्तं पूजयामास. एवं च वाचम् अभाषत: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न द्वयम् उपैति नाद्वयम्.

अथ खलु सुयामो देवपुत्रः संतुषितो निर्माणरतिः परनिर्मितवशवर्ती च देवपुत्रो ऽनेकैर् देवपुत्रशतसहस्रैः सार्धं भगवन्तम् एतद् अवोचत्: महापरिणामो बतायं भगवन् बोधिसत्त्वस्य महासत्त्वस्य यो ऽयम् उपायकौशलेनानुपलम्भयोगेन निरुपलेपयोगेनानिमित्तयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. तथा च परिणामयति यथा न (psp_2-3:139) द्वयम् उपैति नाद्वयम्.

अथ खलु ब्रह्मपार्षद्यानां देवानाम् अनेकानि देवपुत्रकोटीनियुतशतसहस्राणि येन भगवांस् तेनोपसंक्रान्तान्य् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुः: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता उपायकौशल्येन च तेषां पौर्वकाणां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति. एवं ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा वृहत्फलाः शुद्धावासाः सुदृशाः सुदर्शना अवृहा अतपा अकनिष्ठाः, अनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सर्धां येन भगवांस् तेनोपसंक्रामन्न् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य शब्दम् अकार्षुः, घोषम् उदीरयामासुह्: आश्चर्यं भगवन् यथापि नाम बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितया परिगृहीता, उपायकौशलेन च तेषां पौर्वकानां बोधिसत्त्वानां महासत्त्वानां कुलपुत्राणां कुलदुहितृणां च औपलम्भिकानां तानि कुशलमूलान्य् अभिभवन्ति.

अथ खलु भगवांश् चातुर्महाराजकायिकान् देवपुत्रान् यावद् अकनिष्ठान् देवपुत्रान् आमन्त्रयामास: यदि देवपुत्रा ये त्रिसाहरमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिता भवेयुस्, ते सर्वे ऽतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां यानि कुशलमूलानि प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावच् च निरुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां बुद्धानां भगवतां तेषां च श्रावकाणां तेषां च प्रत्येकबुद्धानां ततो ऽन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता निर्जातम् एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितानिर्जातं शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो ऽन्ये चापरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेयुर् उपलम्भयोगेन. यश् च कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ संप्रस्थितो भवेत् सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय (psp_2-3:140) यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे तेषां सर्वेषाम् अन्येषां च सर्वसत्त्वानां यत् कुशलमूलं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता यावद् अपरिमाणा बुद्धधर्मास् तत् सर्वम् अभिसंक्षिप्य

पिण्डयित्वा तुलयित्वा अनुपलम्भयोगेनाद्वययोगेनानिमित्तयोगेन निरुपलेपयोगेन निरीहधर्मयोगेन, अग्रयानुमोदनयानुमोदित अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयेद्, एवं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितृणाम् अन्तिकाद् बहुतरं पुण्यं प्रसवेत्. इदं च कुशलमूलं तस्य पूर्वकस्य कुशलमूलस्य शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. इदं बोधिसत्त्वेन महासत्त्वेनानुपलम्भयोगेन परिणामितम् अग्रम् आख्यायते यावद् निरुत्तरम् आख्यायते. इति परिणामकारित्रम् इत्य् उक्तः परिणाममनस्कारः

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा स च कुशलमूलानुमोदनापरिणामनापुण्यस्कन्ध एकतः पिण्डीकृतो ऽग्रयानुमोदनया नुमोदितः. कथं भगवन्न् अग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति?

भगवान् आह: यदा स कुलपुत्रो वा कुलदुहिता वा अतीतानागतप्रत्युत्पन्नानां तथागतानां अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानाम् अन्येषां च सर्वसत्त्वानां कुशलान् धर्मान् न गृह्णाति न मुञ्चति न मन्यते नावमन्यते नोपलभते. एवं चास्य भवति नैवात्र कश्चिद् धर्म उत्पद्यते न निरुध्यते न संक्लिश्यते न व्यवदायते, न च तेषां धर्माणां हानिर् न वृद्धिर् नागमो न निर्गमो न राशिर् नाभावः, एतेन पर्यायेण यच् चैषाम् अतीतानागतप्रत्युत्पन्नां धर्माणां तथतावितथतानन्यतथता धर्मता धर्मस्थितिता धर्मनियामता तथाहम् अनुमोदे अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयामीति परिणामयेत्. एवम् अनुमोदमानस्य बोधिसत्त्वस्य महासत्त्वस्यग्रानुमोदना भवति यावन् निरुत्तरानुमोदना भवति. अस्याः खलु पुनः सुभूते अनुमोदनाया अन्या या अनुमोदनास् ताः. सर्वा शततमीम् अपि कलां नोपयान्ति यावद् उपनिषदम् अपि न क्षमन्ते. इयं चानुमोदना अन्याभ्यो ऽनुमोदनाभ्यो ऽग्र आख्यायते.

पुनर् अपरं सुभूते नवयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा (psp_2-3:141) वा तेषां अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्रत्येकबुद्धानां प्रथमचित्तोत्पादम् उपादाय यावच् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वृतानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं दानपारमिताप्रतिसंयुक्तम् एवं शिलं क्षान्तिं वीर्यं ध्यानं प्रज्ञापारमिताप्रतिसंयुक्तं यावद् अपरिमाणबुद्धधर्मप्रतिसंयुक्तं, ततो ऽन्येषाम् अपि सर्वसत्त्वानां यानि कुशलमूलानि दानमयानि शिलमयानि भावनामयानि तानि सर्वाण्य् अनुमोदितुकामेन एवम् अनुमोदितव्यम्. यथाधिमुक्तिस् तथा दानम्, एवं शीलं क्षान्तिं वीर्यं ध्यानं यथाधिमुक्तिस् तथा प्रज्ञा, यथाधिमुक्तिस् तथा रूपं वेदनासंज्ञासंस्काराः यथाधिमुक्तिस् तथा विज्ञानं, यथाधिमुक्तिस् तथा धातव आयतनानि यथाधिमुक्तिस् तथा प्रतीत्यसमुत्पादः, यथाधिमुक्तिस् तथाध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावाशून्यता, यथाधिमुक्तिस् तथा सप्तत्रिंशद्बोधिपक्ष्या धर्माः, यथाधिमुक्तिस् तथाप्रमाणध्यानारूप्यसमापत्तयः, यथाधिमुक्तिस् तथार्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः, यथाधिमुक्तिस् तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षडभिज्ञाः, यथाधिमुक्तिस् तथा सर्वसमाधयः सर्वधारणीमुखानि, यथाधिमुक्तिस् तथा दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यथाधिमुक्तिस् तथा विमुक्तिज्ञानदर्शनं, यथाधिमुक्तिस् तथानुमोदना, यथाधिमुक्तिस् तथा ते

ऽतीतानागतप्रत्युत्पन्ना बुद्धधर्माः, यथाधिमुक्तिस् तथा बुद्धा भगवन्तः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवताम् अभिसंबोधिः, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां परिनिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां श्रावकाः प्रत्येकबुद्धाः, यथाधिमुक्तिस् तथा श्रावकप्रत्येकबुद्धपरिर्वाणं, यथाधिमुक्तिस् तथा तेषां बुद्धानां भगवतां धर्मता, यथाधिमुक्तिस् तथा तेषां श्रावकप्रत्येकबुद्धानां धर्मता, यथाधिमुक्तिस् तथा सर्वधर्माणां सर्वसत्त्वानां मुक्तानाम् अशान्तानाम् अक्लिष्टानाम् अविशुद्धानां धर्माणां धर्मता, अजातानाम् असंजातानाम् अनुत्पन्नानाम् अनिरुद्धानां धर्माणां धर्मता, ऽतथानुत्तरायै सम्यक्संबोधये परिणामयत्य् असंक्रान्त्यविनाशिताम् उपादाय. इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानाम् अग्रा अनुमोदना यावन् निरुत्तरा अनुमोदना. अनया च सुभूते अनुमोदनया समन्वागतो बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां (psp_2-3:142) सम्यक्संबोधिम् अभिसंबुध्यते.

पुनर् अपरं सुभूते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ते बुद्धा भगवन्तः. सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् कश्चिद् एव महायानसंप्रस्थितः. कुलपुत्रो वा कुलदुहिता वा तथागतन् अर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् यावज्जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेच् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतानां च तेषां बुद्धां भगवतां रात्रिंदिवम् औत्सुक्यम् आपद्येत सत्करणगुरुकरणमाननपूजनैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः, शीले च तिष्ठेद् उपलम्भयोगेन क्षान्तिं भावयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां च भावयेद् उपलम्भयोगेन, यश् च कुलपुत्रो वा कुलदुहित वा अनुत्तरायां सम्यक्संबोद्ःऔ संप्रस्थितो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अनुपलम्भयोगेन तानि कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति. अस्य पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य चासौ पौर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति यावद् उपनिषदम् अपि न क्षमते. अयं स परिणामः, अग्र आख्यायते यावद् निरुत्तर आख्यायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता उपायकौशलेनानुपलम्भयोगेन तानि कुशलमूलान्य् अनुमोद्यानुत्तरायै सम्यक्संबोधये परिणामयितव्यानि. इत्य् अनुमोदनामनस्कार इत्य् उक्तो ऽनुमोदनामनस्कारः

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: अवभासकरी भगवन् प्रज्ञापारमिता, नमस्करणीया भगवन् प्रज्ञापारमिता, नमस्करोमि भगवन् प्रज्ञापारमितायै, अनुपलिप्ता भगवन् प्रज्ञापारमिता, सर्वत्रैधातुकेन वितिमिरकरी भगवन् प्रज्ञापारमिता, सर्वक्लेशदृष्ट्यन्धकारप्रहाणाय, अग्रकरी भगवन् प्रज्ञापारमिता, सर्वेषां बोधिपक्ष्याणां धर्माणां क्षेमकरी भगवन् प्रज्ञापारमिता, सर्वभयभैरवोपद्रवप्रहाणाय, आलोककरि भगवन् प्रज्ञापारमिता पञ्चचक्षुःपरिग्रहाय, सत्त्वानां मार्गदर्शयित्री भगवन् प्रज्ञापारमिता, कुमार्गप्रयातानाइः सत्त्वानाम् अन्तद्वयविवर्जनतया, सर्वाकारज्ञताकरणी भगवन् प्रज्ञापारमिता सर्ववासनानुसंधिक्लेशप्रहाणताम् उपादाय, माता भगवन् प्रज्ञापारमिता (psp_2-3:143) बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मजननताम् उपादाय, अनुत्पन्ना निरुद्धा भगवन् प्रज्ञापारमिता स्वलक्षणशून्यताम् उपादाय, संसारविमोक्षा भगवन् प्रज्ञापारमिताकूटस्थाविनाशिताम् उपादाय, अनाथानां सत्त्वानां नाथकरी भगवन् प्रज्ञापारमिता सर्वधर्मरत्नदात्रीताम् उपादाय, दशबलकरी भगवन् प्रज्ञापारमिता अनवमर्दनीयताम् उपादाय, त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तयित्री भगवन् प्रज्ञापारमिता अप्रवर्तनानिवर्तनताम् उपादाय, सर्वधर्माणां स्वभावसंदर्शयित्री भगवन् प्रज्ञापारमिता अभावस्वभावशून्यताम् उपादाय. इति स्वभयः.

कथं भगवन् प्रज्ञापारमितायां स्थातव्यम्?

भगवान् आह: यथा शारिपुत्र शास्तरि तथा प्रज्ञापारमितायां स्थातव्यं, यथा शास्ता नमस्कर्तव्यस् तथा प्रज्ञापारमिता नमस्कतव्या. तत् कस्य हेतोर्? एषैव प्रज्ञापारमिता शास्ता, न चान्यः शास्ता अन्या प्रज्ञापारमिता, शास्तैव प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता. अतो हि शरिपुत्र प्रज्ञापारमितायाः सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्ते बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च प्रभाव्यन्ते. अतश् च दशकुशलाः कर्मपथाः प्रभाव्यन्ते. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः प्रभाव्यन्ते. पञ्चाभिज्ञाः, अध्यात्मशून्यता बहिर्धाशूयता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सप्तत्रिंशद्बोधिपक्ष्या धर्माः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वपारमिताः सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रभाव्यन्ते. दशतथागतबलानि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रभाव्यन्ते यावत् सर्वाकारज्ञता प्रभाव्यते

अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वा?

अथ खल्व् आयुष्मान् शरिपुत्रः सक्रस्य देवानाम् इन्द्रस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यत् कौशिकैवं वितर्कयसि, कुत इयम् आयुष्मतः शारिपुत्रस्य पृच्छा जाता किंनिदाना वेति. प्रज्ञापारमितापरिगृहीताः कौशिक बोधिसत्त्वा महासत्त्वा उपायकौशलेन च तेषाम् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धानां यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् किंचित् कुशलं तत् सर्वाकारज्ञतायै परिणामयन्तीत्य् एतन्निदाना मे पृच्छा जाता. इयं प्रज्ञापारमिता कौशिक बोधिसत्त्वानां (psp_2-3:144) महासत्त्वानां दानपारमिताम् अभिभवति. एवं शीलं क्षान्तिं वीर्यं ध्यानपारमिताम् अभिभवति. तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा शतसहस्रं वा परिणायकम् अभव्यं मार्गावताराय कुत एव नगरप्रवेशाय? एवम् एव कौशिक इमा पञ्चपारमिता जात्यन्धभूता भवन्ति प्रज्ञापारमितां विना परिणायका अभव्या मार्गावताराय कुत एव सर्वाकारज्ञतामहानगरम् अनुप्राप्तये? यदा पुनः कौशिक पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता भवन्ति तदा पञ्चपारमिताः सचक्षुस्का भवन्ति पारमितानामधेयं च प्रतिलभन्ते.

शक्र आह: यद् भदन्त शारिपुत्र एवम् आह, प्रज्ञापारमितापरिगृहीताः पञ्चपारमिता पारमितानामधेयं लभन्ते. न च भदन्त शरिपुत्र दानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः पञ्चपारमिताः पारमितानामधेयं लभन्ते.

शारिपुत्र आह: एवम् एतत् कौशिकैवम् एतत्. न दानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. एवं न शीलक्षान्तिवीर्यध्यानपारमितापरिगृहीताः कौशिक पञ्चपारमिताः पारमितानामधेयं लभन्ते. तस्मात् तर्हि कौशिक प्रज्ञापारमितैव पञ्चानां पारमितानाम् अग्रा आख्यायते श्रेष्ठा आख्यायते ज्येष्ठा आख्यायते वरा आख्यायते प्रवरा आख्यायते उत्तमा आख्यायते अनुत्तमा आख्यायते असमा आख्यायते असमसमा आख्यायते. इति श्रेष्ठता

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमिताभिनिर्हर्तव्या?

भगवान् आह: रूपस्य शारिपुत्रानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिर्हाराया प्रज्ञापारमिटाभिनिर्हर्त्व्या. एवं धातूनाम् आयतनानां प्रतीत्यसमुत्पादाङ्गानां दानपारमितानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. एवं शीलक्षान्तिवीर्यध्यानपारमितानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. अध्यात्मशूयतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या यावद् अभावस्वभावशून्यतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सप्तत्रिंशद्बोधिपक्ष्या धर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. दशबलवैशारद्यावेणिकबुद्धधर्मानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या. सर्वधर्मानभिनिर्हाराय प्रज्ञाप्रमिताभिनिर्हर्तव्या. एवं यावात् सर्वाकारज्ञतानभिनिर्हाराय (psp_2-3:145) प्रज्ञापारमिताभिनिर्हर्तव्या.

शरिपुत्र आह: कथं भगवन् रूपस्यानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या? कथं भगवन् यावत् सर्वाकारज्ञतानभिनिर्हाराय प्रज्ञापारमिताभिनिर्हर्तव्या?

भग्वान् आह: रूपस्यानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः, यावत् सर्वाकारज्ञतानभिसंस्कारतो ऽनुत्पादतो ऽभावतो ऽजातितो ऽविनाशतो ऽनुपलब्धितः प्रज्ञापारमिताभिनिर्हर्तव्या. इति सर्वधर्मानभिसंस्कारः

शारिपुत्र आह: एवम् अभिनिर्हृता भगवन् प्रज्ञापारमिता कतमं धर्मम् अर्पयति?

भगवान् आह: एवम् अभिनिर्हृता शारिपुत्र प्रज्ञापारमिता न कंचिद् धर्मम् अर्पयति, यतो न कंचिद् धर्मम् अर्पयति तस्मात् प्रज्ञापारमितेति संख्यां गच्छति.

शारिपुत्र आह: कतमं धर्मं नार्पयति?

भगवान् आह: न कुशलं धर्मम् अर्पयति नाकुशलं धर्मम् अर्पयति. एवं न सावद्यं नानवद्यं न सास्रवं नानास्रवं न संस्कृतं नासंस्कृतं न संक्लेशं न निःक्लेशं न लौकिकं न लोकोत्तरं न संक्लिष्टं न व्यवदानं न संसारं न निर्वाणम् अर्पयति. तत् कस्य हेतोर्? न हि प्रज्ञापारमिता कस्यचिद् धर्मस्योपलम्भयोगेन प्रत्युपस्थिता तेन कारणेन न कंचिद् धर्मम् अर्पयति.

अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: किम् इयं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति?

भगवान् आह: यत् कौशिक एवं वदसि, किम् इयं प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयतीति. एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमिता कौशिक न कंचिद् धर्मम् अर्पयति नोपलभते सर्वाकारज्ञताम् अपि नार्पयति नोपलभते.

देवेन्द्र आह: कथं भगवन् प्रज्ञापारमिता सर्वाकारज्ञताम् अपि नार्पयति नोपलभते?

भगवान् आह: न हि कौशिक प्रज्ञाप्रमिता यथा नाम यथा निमित्तं यथाभिसंस्कारस् तथार्पयति.

देवेन्द्र आह: कथैः पुनर् भगवन्न् अर्पयति?

भगवान् आह: यथा नोपैति नोपाददाति नधितिष्ठति न प्रजहाति नाभिनिविशते (psp_2-3:146) तथार्पयति यथा न कंचिद् धर्मम् अर्पयति मुञ्चति न प्रतिगृह्णाति. एवं हि कौशिक प्रज्ञापारमिता सर्वधर्मान् नार्पयति न मुञ्चति न प्रतिगृह्णाति.

शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय अनुपलब्धये अविनाशाय प्रत्युपस्थिता.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, प्रज्ञापारमिता सर्वधर्मान् नार्पयतीति, रिञ्चिष्यति भगवन् प्रज्ञापारमितां दूरीकरिष्यति भगवन् प्रज्ञापारमिताम्.

भगवान् आह: अस्ति सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वो रिञ्चन् प्रज्ञापारमितां दूरीकुर्यान् प्रज्ञापारमिताम्. सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संज्ञास्यति, रिक्तेयं प्रज्ञापारमितेयं तुच्छा असारा वशिकेयं प्रज्ञापारमितेति, रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्. अयं सुभूते पर्यायो येन पर्यायेण रिञ्चिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां दूरीकरिष्यति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम्.

सुभूतिर् आह: प्रज्ञापारमितया भगवन् प्रत्यर्पितया कतमे धर्माः प्रत्यर्पिता भवन्ति?

भगवान् आह: प्रज्ञापारमितया सुभूते प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति, न वेदना न संज्ञा न संस्काराः न विज्ञानं प्रत्यर्पितं भवति. न चक्षुः प्रत्यर्पितं भवति, न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनः प्रत्यर्पितं भवति. न रूपं प्रत्यर्पितं भवति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः प्रत्यर्पिता भवन्ति. न दानपारमिता प्रत्यर्पिता भवति, न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता प्रत्यर्पिता भवति. नाध्यात्मशून्यता प्रत्यर्पिता भवति. न बहिर्धाशून्यता प्रत्यर्पिता भवति. नाध्यात्मबहिर्धाशून्यता प्रत्यर्पिता भवति यावन् नाभावस्वभावशून्यता प्रत्यर्पिता भवति. न सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यर्पिता भवन्ति. न दशबलवैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिका बुद्धधर्माः प्रत्यर्पिता भवन्ति. न स्रोतआपत्तिफल्ं प्रत्यर्पितं भवति. न सकृदागामिफलं प्रत्यर्पितं भवति. नानागामिफलं प्रत्यर्पितं भवति. नार्हत्त्वं प्रत्यर्पितं भवति. न प्रत्येकबुद्धत्वं प्रत्यर्पितं भवति. नानुत्तरा सम्यक्संबोधिः प्रत्यर्पिता भवति. (psp_2-3:147)

सुभूतिर् आह: कथं भगवन् प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पिता भवति?

भगवान् आह: रूपस्य सुभूते ऽनुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति यावत् सर्वाकारज्ञतानुपलब्ध्या प्रज्ञापारमिता प्रत्यर्पिता भवति. एवं खलु सुभूते प्रज्ञापारमितया प्रत्यर्पितया न रूपं प्रत्यर्पितं भवति यावद् न सर्वाकारज्ञता प्रत्यर्पित भवति. इति सर्वधर्मानुपलम्भाभिसमयार्प्यणा

सुभूतिर् आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता.

भगवान् आह: तत् किं मन्यसे? सुभूते कतमेन पर्यायेण महापारमितेयं यद् उत प्रज्ञापारमिता.

सुभूतिर् आह: न भगवन् रूपं महत्करोति नाल्पीकरोति, वेदनां संज्ञां संस्कारान् न विज्ञानं महत्करोति नाल्पीकरोति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि न महत्करोति नाल्पीकरोति. न दानपारमितां महत्करोति नाल्पीकरोति. एवं शीलं क्षान्तिं वीर्यं ध्यानं न प्रज्ञापारमितां महत्करोति नाल्पीकरोति. नाध्यात्मशून्यतां महत्करोति नाल्पीकतोति यावन् नाभावस्वभावशून्यतां महत्करोति नाल्पीकरोति. न सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् महत्करोति नाल्पीकरोति. नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः न शून्यतानिमित्ताप्रणिहितानि नाभिज्ञा महत्करोति नाल्पीकरोति. न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो नाष्टादशावेणिकान् बुद्धधर्मान् महत्करोति नाल्पीकरोति. न बोधिं महत्करोति नाल्पीकरोति. न बुद्धधर्मं महत्करोति नाल्पीकरोति. यावन् न बुद्धं महत्करोति नाल्पीकरोति. न रूपं विपुलीकरोति न परित्तीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. अनेन भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. सचेत् पुनर् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् आगम्य ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमिताम् आगम्य एवं ज्ञास्यति न प्रज्ञापारमिता रूपं महत्करोति नाल्पीकरोति यावन् न बुद्धधर्मं महत्करोति नाल्पीकरोति. न रूपं बलवत्करोति न दुर्बलीकरोति. एवं संजानन् बोधिसत्त्वो महासत्त्वो न चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? नैष भगवन् निष्यन्दः प्रज्ञापारमितायाः. यद् रूपं महद् अल्पं वा कुर्याद् यावद् बुद्धधर्मं महद् अल्पं वा कुर्यान् नैष

प्रज्ञापारमिताया निष्यन्दः. तत् कस्य हेतोः? न ह्य् उपलम्भसंज्ञिनो बोधिसत्त्वास् तथा सत्त्वाजातितया प्रज्ञापारमिता द्रष्टव्या. रूपाजातितः प्रज्ञापारमिताजातिता (psp_2-3:148) द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या यावद् बुद्धाजातितः प्रज्ञापारमिताजातिता द्रष्टव्या. सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. वेदनासंज्ञासंस्कारा विज्ञानास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टय्या यावद् बुद्धास्वभावतया प्रज्ञापारमितास्वभावता द्रष्टव्या. रूपाभावतया प्रज्ञापारमिताभावता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानाभावतया प्रज्ञापारमिताभावता वेदितव्या यावद् बुद्धाभावतया प्रज्ञापारमिताभावता वेदितव्या. सत्त्वशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. रूपशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानशून्यतया प्रज्ञापारमिता शून्यता वेदितव्या यावद् बुद्धशून्यतया प्रज्ञापारमिता शून्यत वेदितव्या. एवं सत्त्वानिमित्ततया सत्त्वाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. रूपानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. वेदनासंज्ञासंस्कारा विज्ञानानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता यावद् बुद्धानिमित्ततयाप्रणिहिततया प्रज्ञापारमितानिमित्तताप्रणिहितता. एवं सत्त्वासत्तया प्रज्ञापारमितासत्ता वेदितव्या. सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या. सत्त्वाविनाशितया प्रज्ञापारमिताविनाशिता वेदितव्या. सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. रूपानभिसंबोधनतया

प्रज्ञापारमितानभिसंबोधनता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदित्वया यावद् बुद्धानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या. सत्त्वबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. रूपबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या. वेदनासंज्ञासंस्कारा विज्ञानबलासमन्वागतया प्रज्ञापारमिता बलासमन्वागतता वेदितव्या यावद् बुद्धबलासमन्वागततया प्रज्ञापारमिता बलासमन्वागतता वेद्ज्तव्या. अनेनापि भगवन् पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. इति महार्थतेत्य् उक्तो ऽभिनिर्हारः

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो ऽयं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अधिमोक्ष्यते, कुतश् च्युत्वा स इहागतो भविष्यति? कियच्चिरसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा अभूद् अनुत्तरायां सम्यक्संबोधौ? कियन्तो वानेन तथागताः पर्युपासिताः? कियच्चिरं (psp_2-3:149) स दानपारमितायां चरितः? कियच्चिरं शीलपारमितां चरितः? कियच्चिरं क्षान्तिपारमितायां चरितः? कियच्चिरं वीर्यपारमितायां चरितः? कियच्चिरं ध्यानपारमितायां चरितः? कियच्चिरं प्रज्ञापारमितायां चरितो य इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिमोक्ष्यते?

एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो दशसु दिक्षु तथागतान् अर्हतः सम्यक्संबुद्धान् पर्युपास्येहागत इहोपपन्नो भविष्यति. इति बुद्धसेवा

यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽसंख्येयान्य् अप्रमेयाणि कल्पकोटीनियुतशतसहस्राणि समुदागतो ऽभूद् अनुत्तरायां सम्यक्संबोधौ, स प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरितः शीलपारमितायां चरितः क्षान्तिपारमितायां चरितो वीर्यपारमितायां चरितो ध्यानपारमितायां चरितः प्रज्ञापारमितायां चरितः सन्न् इहागतो भविष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया दृष्टया श्रुतया वा शास्ता मया दृष्ट इति चित्तम् उत्पादयिष्यति, शास्ता मया श्रुत इति चित्तम् उत्पादयिष्यति. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमिताम् अर्थतश् च नयतश् चाधिगमिष्यत्य् अनिमित्ताद्वयानुपलम्भयोगेन.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: शक्या पुनर् भगवन् प्रज्ञापारमिता द्रष्टुं वा श्रोतुं वा?

भगवान् आह: नो हीदं सुभूते न हि सुभूते प्रज्ञापारमितायाः श्रोतारो द्रष्टारो न प्रज्ञापारमितां ते पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादय. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां ते न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. स्मृत्युपस्थानानि न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. एवम् आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न पश्यन्ति न शृण्वन्ति. बुद्धबोधिं न पश्यन्ति न शृण्वन्ति धर्मजडताम् उपादाय. इति दानादिपारमितासमुदागमः

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच्चिरं चरितः स भगवन् बोधिसत्त्वो महासत्त्वो भविष्यति य इह गम्भीरायां प्रज्ञापारमितायां योगम् आपत्स्यते? (psp_2-3:150)

भगवान् आह: विभज्यैतत् सुभूते व्याकर्तव्यं, स्यात् सुभूते पर्यायो यो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय गम्भीरायां प्रज्ञापारमितायां योगम् आपद्यते. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां योगम् आपद्यते. तच् चोपायकौशलेन न च कंचिद् धर्मं प्रतिक्षिपति यथा नोपचयं पश्यति नापचयं, न जातु षड्भिः पारमिताभिर् विरहितो भवति न बुद्धैर् भगवद्भिर्, यैश् च पूजाविशेषैर् आकाङ्क्षेत् तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तस्य ते पूजाविशेषाः सहचित्तोत्पादेनैव संऋध्यन्ते. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. न जातु मातुः कुक्षाव् उपपद्यते. न च जातु विरहितो भवति अभिज्ञाभिर्. न च केनचित् क्लेशेन सार्धं संवसति. न श्रावकचित्तेन न प्रत्येकबुद्धचित्तेन सार्धं संवसति. बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्त्वांश् च परिपाचयन् बुद्धक्षेत्रं च परिशोधयन्. अयं सुभूते बोभिसत्त्वो महासत्त्वो यो ऽस्यां गम्भीरायां प्रज्ञापारमितायां प्रथमचित्तोत्पादम् उपादाय योगम् आपत्स्यते. इत्य् उपायकौशलम्

सन्ति पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च यैर् बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बहूनि बुद्धकोटिनियुतशतसहस्राणि दृष्टानि भवन्ति. तेभ्यश् चान्तिके शिक्षमाणैर् दानानि दत्तानि भवन्ति, शीलं रक्षितं क्षान्तिर् भाविता वीर्यम् आरब्धं ध्यानम् आसेवितं प्रज्ञा भाविता भवति सा चोपलम्भयोगेन. ते ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां पर्षड्भ्यो ऽपक्रमिष्यन्ति. ते पुनः कुलपुत्राः कुलदुहितरश् चागौरवतयास्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां बुद्धानां भगवताम् अन्तिकाद् अपक्रमिष्यन्ति. इहैव ते कुलपुत्राः कुलदुहितरश् च महायानिकाः संनिपतिता ये गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रमिष्यन्ति. तत् कस्य हेतोस्? तथा हि ते कुलपुत्राः कुलदुहितरश् च पूर्वान्ते ऽपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रान्ता, एतर्ह्य् अपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायाम् अपक्रामान्ति. न कायेन न चित्तेन समग्रीन् दास्यन्ति दुष्प्रज्ञसंवर्तनीयं कर्मोपचेष्यन्ति. ते तेन दौष्प्रज्ञसंवर्तनीयेन कर्मणा कृतेनोपचितेन इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां प्रत्याख्यास्यन्ति, तैः प्रत्याख्याय अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञताप्रत्याख्याता भवति. ते तेन सर्वज्ञताप्रत्याख्यानेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि (psp_2-3:151) बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरये प्रक्षेप्स्यन्ते. तेषां महानिरयान् महानिरयं संक्रामतां तेजःसंवर्तनी वा अप्संवर्तनी वा वायुसंवर्तनी वा

प्रादुर्भावो भविष्यति. ते तासु संवर्तनीषु प्रादुर्भातास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. ते तत्रोपपन्नाः समानाः, महानिरयान् महानिरयं संक्रमिष्यन्ति. तेषां महानिरयान् महानिरयं संक्रामतां पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. तासु संवर्तनीषु प्रादुर्भूतासु पूर्वस्यां दिशि प्रक्षेप्स्यन्ते, दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधो दिशि यो महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेभ्यो ऽपि पुनः संवर्तनीषु प्रादुर्भूतास्व् अन्येषु लोकधातुषु ये महानिरयास् तेषु प्रक्षेप्स्यन्ते. तेषु पुनर् अपि तेभ्यो लोकधातुभ्यः संवर्तनीषु प्रादुर्भूतासु तेभ्यो महानिरयेभश् च्युतास् तेन धर्मव्यसनसंवर्तनीयेन कर्मणाक्षीणेन पुनर् एव इहोपपत्स्यन्ते. ते पुनर् एव महानिरयान् महानिरयं संक्रमिष्यन्ति. ते तेषु महानिरयेषूपपन्ना बहूनि तीव्राणि महाकटुकानि महानिरयदुःखानि प्रत्यनुभविष्यन्ति. तावद् एव ते तानि निरयदुःखां प्रत्यनुभविष्यन्ति यावत् पुनर् एव संवर्तनीयः प्रादुर्भविष्यन्ति. संवर्तनीषु प्रादुर्भूतास्व् इतश् च्युता अन्येषु लोकधातुषु पुनर् एव महानिरयेषूपपत्स्यन्ते. एवं समन्तात् पुनर् अपि दशसु दिक्षु तिर्यग्योनिषूपपत्स्यन्ते. पुनर् एव दशसु दिक्षु यमलोकेषूपपन्ना महातीव्रां महाकटुकां महादुष्खां वेदनां वेदयन्तस् तत् कर्म क्षेपयिष्यन्ति. ते बहुदुःखवेदनीयं कर्म क्षेपयित्वा कदाचित् कर्हिचित् मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते. ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र जात्यन्धा भविष्यन्ति. जात्यन्धकुलेषूपपत्स्यन्ते. चण्डालकुलेषु वा पुष्कसकुलेषु वा शाकुनिकुलेषु वा सुकरिकुलेषु वा औरभिककुलेषु वा नीचेषु वा कुत्सितेषु वा

कुलेषु वा नीचवृत्तिसु वा उपपत्स्यन्ते. ते तेषूपपन्ना अन्धा वा भविष्यन्ति काणा वा अजिह्वा वा अहस्ता वा अपादा वा अकर्णका वा अनासिका वा यत्र बुद्धशब्दं न श्रोष्यन्ति न धर्मशब्दं न संघशब्दं न बोधिसत्त्वशब्दं न प्रत्येकबुद्धशब्दं श्रोष्यन्ति नार्हच्छब्दं श्रोष्यन्ति ते तेनैव धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन.

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: पञ्च भगवन्न् आनन्तर्याण्य् अस्य धर्मव्यसनसंवर्तनीयस्य कर्मणः कृतस्योपचितस्य प्रतिवर्णिका अपि न भवन्ति?

भगवान् आह: प्रतिवर्णिकेति शारिपुत्र न वक्तव्यास्य धर्मव्यसनसंवर्तनीयकर्मणः कृतस्योपचितस्य. ये प्रज्ञापारमितायां भाष्यमाणायां प्रतिबाधितव्यां मंस्यन्ते, नात्र शिक्षितव्यं नैष धर्मो नैष विनयो नैतच् (psp_2-3:152) छास्तुः शासनं नैतत् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषितम् इति भाष्यन्ते, त आत्मना च प्रतिवहितव्यां मंस्यन्ते, अन्यांश् च सत्त्वान् विवेचयिष्यन्ति. ते स्वसंतानान्य् उपहत्य परसंतानान्य् उपहन्तव्यानि मंस्यन्ते. ते स्वसंतानं सविषं कृत्वा परसंतानान्य् अपि सविषाणि करिष्यन्ति. ते स्वयं नष्टाः. परान् अपि नाशयिष्यन्ति. स्वयं च गम्भीरां प्रज्ञारमिताम् अजानन्तो ऽबुद्ध्यमानाः प्रतिवहितव्यां मंस्यन्ते, परांश् च तथैव ग्राहयिष्यन्ति. नाहं शारिपुत्र तेषां पुद्गलानां श्रवणम् अप्य् अभ्यनुजानामि कः पुनर् वादो दर्शनं कुत एव स्थानं, तत् कस्य हेतोर्? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः कशंबकजातीयाः कृष्णा हि जातयः शारिपुत्र तथारूपाः पुद्गला वेदितव्याः. तेषां खलु पुनः शारिपुत्र तथारूपाणां पुद्गलानां ये श्रोतव्यं श्रद्धातव्यं मंस्यन्ते ते ऽनयेन व्यसनम् आपत्स्यन्ते. यश् चेमां शारिपुत्र प्रज्ञापारमितां दूषयिष्यति धर्मदूषकः स पुद्गलो वेदितव्यः.

शारिपुत्र आह: न खलु पुनर् भगवंस् तस्य धर्मदूषकस्य पुद्गलस्य भगवता तत्रोपपन्नस्यात्मभावस्य प्रमाणम् आख्यातम्.

भगवान् आह: तिष्ठतु शारिपुत्र तस्य धर्मदूषकस्य पुद्गलस्य तत्रोपपन्नस्यात्मभावस्य प्रमाणम्. तत् कस्य हेतोः? मा तस्य धर्मदूषकस्य पुद्गलस्यात्मभावस्य प्रमाणं श्रुत्वा उष्णं रुधिरं मुखाद् आगच्छेत्, मरणं वा निगच्छेत् मरणमात्रकं वा, दुःखं श्रुत्वा शोकशल्पसमर्पितो वा भवेत्. उच्छोष्येद् वा म्लायेद् वा नीलो वा हरितो वा लूनो वा यावद् इदं तस्य धर्मदूषकस्य पुद्गलस्य दृशस्यात्मभावप्रतिलाभस्य प्रमाणम् इति, यस्यायम् ईदृशो दोषः संविद्यत इति. न भगवान् आयुष्मतः शारिपुत्रस्यावकाशं करोतीदं तस्यात्मभावस्य प्रमाणं भविष्यतीति.

शारिपुत्र आह: आख्यातु भगवान् पश्चिमाया जनताया आलोकाः कृतो भविष्यत्य् अनेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन धर्मदूषकाः पुद्गला ईदृशम् आत्मभावं परिग्रहीष्यन्तीति.

भगवान् आह: एवम् एव शारिपुत्र पश्चिमाया जनताया आलोकः कृतो भविष्यत्य् अनेनासौ धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेनोपचितेन महानिरयेषु दुःखम् अनुभविष्यति. या एतस्यैव दुःखस्याप्रमाणता बहुतरं चेयच्चिरं दुःखानि प्रत्यनुभविष्यन्तीति, एष एव शुक्लांशिकस्य कुलपुत्रस्य वा कुलदुहितुर् वा तेभ्यो धर्मव्यसनसंवर्तनीयेभ्यः. कर्मभ्यो निर्वृत्तिर् भविष्यति. ते जिवितहेतोर् अपि धर्मं न प्रतिक्षेप्स्यन्ति. मा भूद् अस्माकम् ईदृशैर् दुःखैः समवधानम् इति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सुसंवृतकायवाग्मनस्कर्मणा (psp_2-3:153) भगवन् कुलपुत्रेण वा कुलदुहिता वा भवितव्यं मा भूद् ईदृशानां दुःखानाम् अनुभवनम् इति तथागतं वा न द्रक्ष्याम इति धर्मं वा न श्रोष्याम इति संघं वा न द्रक्ष्याम इत्य् अपगतबुद्धोत्पादेषु वा बुद्धक्षेत्रेषूपपत्स्यामह इति मनुष्यदरिद्रेषु वा अग्राह्यवचना वा भविष्याम इत्य्. अनेन भगवन् धर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन व्यसनसंवर्तनीयं कर्मकृतम् उपचितं भवति.

भगवान् आह: अनेन सुभूते सर्वधर्मप्रतिक्षेपवाक्कर्मणा कृतेनोपचितेन धर्मव्यसनसंवर्तनीयं कर्म कृतं भवत्य् उपचितम् इहैव ते सुभूते मोहपुरुषाः स्वाख्याते धर्मविनये प्रव्रजिता भविष्यन्ति. य इमां प्रज्ञापारमितां दूषयितव्यां मंस्यन्ते प्रतिबाधितव्यां मंस्यन्ते. प्रज्ञापारमितया सुभूते दूषितया प्रतिबाधितया बुद्धानां भगवतां बोधिर् दूषिता प्रतिबाधिता भवति, बुद्धानां भगवतां बोध्या दूषितया प्रतिबाधितयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता दूषिता भवति प्रतिबाधिता. सर्वज्ञतया दूषितया प्रतिबाधितया धर्मः. प्रतिबाधितो भवति. धर्मेण प्रतिबाधितेन संघः. प्रतिबाधितो भवति. संघेन प्रतिबाधितेन लौकिकी सम्यग्दृष्टिर् लोकोत्तरा च सम्यक्दृष्टिः प्रतिबाधिता भवति. एवं षट्पारमिताः सप्तत्रिंशद्बोधिपक्ष्या धर्मा आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः. प्रतिबाधिता भवन्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः षडभिज्ञाः प्रतिबाधिता भवन्ति. अध्यात्मशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि दशबोधिसत्त्वभूमयः प्रतिबाधिता भवन्ति. दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रतिबाधिता भवन्ति. यावत् सर्वज्ञता प्रतिबाधिता भवति. सर्वज्ञतया प्रतिबाधितयाप्रमेयासंख्येयापरिमाणो ऽपुण्यस्कन्धः परिगृहीतो भवति. तेन वापुण्यस्कन्धेन परिगृहितेनाप्रमेयम् असंख्येयम् अपरिमाणं दुःखदौर्मनस्यं परिगृहीतं भवति. इति धर्मव्यसनसंवर्तनकर्म

सुभूतिर् आह: य इमे भगवन् मोहपुरुषा गम्भिरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति, कतमैर् आकारैर् इमां प्रज्ञापारमितां प्रतिबाधिष्यन्ति?

भगवान् आह: चतुर्भिः सुभूते आकारैस् ते मोहपुरुषा इमां गम्भीरां प्रज्ञापारमितां प्रतिबाधिष्यन्ति. कतमैश् चतुर्भिर्? यद् उत माराधिष्ठिताश् च ते मोहपुरुषा भविष्यन्ति. अनभियुक्ताश् च गम्भीरेषु धर्मेषु भविष्यन्ति (psp_2-3:154) न च प्रसादं प्रतिलप्स्यन्ते. अभिनिविष्टाश् च ते पञ्चस्कन्धेषु भविष्यन्ति पापमित्रहस्तगता. दोषचरिताश् च ते मोहपुरुषा भविष्यन्त्य् आत्मोत्कर्षकाः परपंसकाः. एभिः सुभूते चतुर्भिर् आकारैः समन्वागतास् ते मोहपुरुषा गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्स्यन्ति.

सुभूतिर् आह: दुरधिमोच्या भगवन् गम्भीरा प्रज्ञापारमितानभियुक्तेन कुशलमूलविरहितेन पापमित्रहस्तगतेन.

भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या गम्भीरा प्रज्ञापारमितानभियुक्तैः कुशलमूलविरहितैः पापमित्रहस्तगतैः.

सुभूतिर् आह: कियद् भगवन् गम्भीरा प्रज्ञापारमिता येयं दुरधिमोच्या?

भगवान् आह: रूपं सुभूते ऽबद्धम् अमुक्तं. तत् कस्य हेतो? रूपास्वभावो हि सुभूते रूपं, वेदनास्वभावो हि वेदना, संज्ञास्वभावो हि संज्ञा, संस्कारास्वभावो हि संस्कारा, विज्ञानं सुभूते ऽबद्धम् अमुक्तम्. तत् कस्य हेतोर्? विज्ञानास्वभावो हि विज्ञानम्. दानपारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? दानपारमितास्वभावा हि दानपारमिता. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? प्रज्ञापारमितास्वभावा हि प्रज्ञापारमिता. अध्यात्मशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अध्यात्मशून्यतास्वभावा ह्य् अध्यात्मशून्यता, यावद् अभावस्वभावशून्यता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोर्? अभावस्वभावशून्यतास्वभावा ह्य् अभावस्वभावशून्यता. स्मृत्युपस्थानानि सुभूते ऽबद्धान्य् अमुक्तानि. तत् कस्य हेतोः? स्मृत्युपस्थानास्वभावा हि स्मृत्युपस्थानाम्. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबोध्यङ्गानि मार्गाः सुभूते ऽबद्धा अमुक्तास्. तत् कस्य हेतोर्? मार्गास्वभावा हि मार्गाः. एवं दशबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता सुभूते ऽबद्धामुक्ता. तत् कस्य हेतोः? सर्वाकारज्ञतास्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्काराः विज्ञानस्य सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्ताभावस्वभावो हि सुभूते विज्ञानम्, एवं यावत् सर्वाकारज्ञतायाः सुभूते पूर्वान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोः? पूर्वान्तो ऽभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपस्य सुभूते

ऽपरान्तो ऽबद्धो ऽमुक्तस्. तत् कस्य हेतोर्? अपरान्तो ऽभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा विज्ञानस्य सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो (psp_2-3:155) हि सुभूते विज्ञानम्. एवं यावत् सर्वाकारज्ञतायाः सुभूते ऽपरान्तो ऽबद्धो ऽमुक्तः. तत् कस्य हेतोर्? अपरान्ताभावस्वभावो हि सुभूते सर्वाकारज्ञता. रूपं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते रूपं वेदनासंज्ञासंस्कारा, विज्ञानं सुभूते प्रत्युत्पन्नम् अबद्धम् अमुक्तं. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते विज्ञानं. यावत् सर्वाकारज्ञता प्रत्युत्पन्नाबद्धामुक्ता. तत् कस्य हेतोः? प्रत्युत्पन्नाभावस्वभावो हि सुभूते सर्वाकारज्ञता.

सुभूतिर् आह: दुरधिमोच्या भगवन् प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः.

भगवान् आह: एवम् एतत् सुभूते दुरधिमोच्या सुभूते प्रज्ञापारमितानभियुक्तैर् अनवरोपितकुशलमूलैः पापमित्रहस्तगतैर् मारवशगतैः कुशीदैर् हीनवीर्यैर् मुषितस्मृतिभिर् असंप्रजानैः. इति कर्मावरणस्य चत्वारो हेतवः

या सुभूते रूपस्य विशुद्धिः फलविशुद्धिर् एव सा, वेदनायाः संज्ञायाः संस्काराणां, या विज्ञानस्य विशुद्धिः फलविशुद्धिर् एव सा. या दानपारमिताया विशुद्धिः फलविशुद्धिर् एव सा. एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, या प्रज्ञापारमिताया विशुद्धिः फलविशुद्धिर् एव सा. याध्यात्मशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. यावद् याभावस्वभावशून्यताया विशुद्धिः फलविशुद्धिर् एव सा. एवं या सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां विशुद्धिः फलविशुद्धिर् एव सा. एवम् आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यसमापत्तीनां या विशुद्धिः फलविशुद्धिर् एव सा. या शून्यतानिमित्ताप्रणिहितानां विशुद्धिः फलविशुद्धिर् एव सा. याष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां विशुद्धिः फलविशुद्धिर् एव सा. या षण्णाम् अभिज्ञानां विशुद्धिः फलविशुद्धिर् एव सा. एवं या सर्वसमाधीनां सर्वधारणीमुखानां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां बोधिसत्त्वभूमीनां विशुद्धिः फलविशुद्धिर् एव सा. या दशानां तथागतबलानां विशुद्धिश् चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां विशुद्धिः फलविशुद्धिर् एव सा. या बोधेर् विशुद्धिः फलविशुद्धिर् एव सा.

पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, या फलविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः रापविशुद्धिः. (psp_2-3:156) सा इति हि रूपविशुद्धिश् च फलविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या सर्वाकारज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिः सा, या प्रज्ञापारमिताविशुद्धिः. सर्वाकारज्ञताविशुद्धिः. सा इति हि सर्वाकारज्ञताविशुद्धिश् च प्रज्ञापारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति विशुद्धिसामान्यम्

पुनर् अपरं सुभूते या आत्मविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् आत्मविशुद्धिः सा इति ह्य् आत्मविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधिकारम् अभिन्नम् अच्छिन्नम्. एवं या सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकविशुद्धिः रूपविशुद्धिः सा, या रूपविशुद्धिर् यावत् पश्यकविशुद्धिः सा इति हि यावत् पश्यकविशुद्धिश् च रूपविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावद् या पश्यकविशुद्धिः सर्वज्ञताविशुद्धिः सा, या सर्वज्ञताविशुद्धिः पश्यकविशुद्धिः सा इति हि पश्यकविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.

पुनर् अपरं सुभूते आत्मपरिशुद्ध्या रूपविशुद्धी रूपविशुद्ध्या आत्मपरिशुद्धिर् इति ह्य् आत्मपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकपरिशुद्ध्या रूपविशुद्धिः रूपपरिशुद्ध्या यावत् पश्यकपरिशुद्धिर् इति हि पश्यकपरिशुद्धिश् च रूपपरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं यावत् पश्यकपरिशुद्ध्या सर्वज्ञतापरिशुद्धिः सर्वज्ञताविशुद्ध्या पश्यकपरिशुद्धिर् इति हि पश्यकविशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.

पुनर् अपरं सुभूते रागपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं दोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् यावत् सर्वज्ञतापरिशुद्धिर् इति हि दोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.

पुनर् अपरं सुभूते रागदोषमोहपरिशुद्ध्या रूपपरिशुद्धिर् एवं यावत् सर्वज्ञतापरिशुद्धिर् इति हि रागदोषमोहपरिशुद्धिश् च सर्वज्ञतापरिशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. (psp_2-3:157) इति श्रावकस्य क्लेशावरणविशुद्धिः

पुनर् अपरं सुभूते या रूपविशुद्धिः फलविशुद्धिर् एव सा, एवं वेदनासंज्ञासंस्कारा या विज्ञानविशुद्धिः फलविशुद्धिर् एव सा. एवं यावद् अविद्याविशुद्ध्या संस्कारविशुद्धिः संस्कारविशुद्ध्या विज्ञानविशुद्धिर् विज्ञानविशुद्ध्या नामरूपविशुद्धिर् नामरूपविशुद्ध्या षडायतनविशुद्धिः षडायतनविशुद्ध्या स्पर्शविशुद्धिः स्पर्शविशुद्ध्या वेदनाविशुद्धिः वेदनाविशुद्ध्या तृष्णाविशुद्धिः तृष्णाविशुद्ध्या उपादानविशुद्धिर् उपादानविशुद्ध्या भवविशुद्धिर् भवविशुद्ध्या जातिविशुद्धिर् जातिविशुद्ध्या जरामरनशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिर् जरामरनडोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्ध्या सर्वज्ञताविशुद्धिर् इति हि जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासविशुद्धिश् च सर्वज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति प्रत्येकबुद्धस्य ज्ञेयावरणैकदेशविशुद्धिः

पुनर् अपरं सुभूते दानपारमिताविशुद्धिः दानपारमिताविशुद्ध्या शीलपारमिताविशुद्धिः शीलपारमिताविशुद्ध्या क्षान्तिपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्ध्या वीर्यपारमिताविशुद्धिर् वीर्यपारमिताविशुद्ध्या ध्यानपारमिताविशुद्धिर् ध्यानपारमिताविशुद्ध्या प्रज्ञापारमिताविशुद्धिः प्रज्ञापारमिताविशुद्ध्या अध्यात्मशून्यताविशुद्धिर् अध्यात्मशून्यताविशुद्ध्या बहिर्धाशून्यताविशुद्धिर् बहिर्धाशून्यताविशुद्ध्या अध्यात्मबहिर्धाशून्यताविशुद्धिर् अध्यात्मबहिर्धाशून्यताविशुद्ध्या, एवं यावद् अभावस्वभावशून्यताविशुद्धिर् अभावस्वभावशून्यताविशुद्ध्या स्मृत्युपस्थानविशुद्धिः स्मृत्युपस्थानविशुद्ध्या सम्यक्प्रहाणविशुद्धिः सम्यक्प्रहाणविशुद्ध्या ऋद्धिपाद विशुद्धिर् ऋद्धिपाद विशुद्ध्या इन्द्रिय विशुद्धिर् इन्द्रियविशुद्ध्या बलविशुद्धिर् बलविशुद्ध्या बोध्यङ्गविशुद्धिर् बोध्यङ्गविशुद्ध्या मार्गविशुद्धिर् मार्गविशुद्ध्या आर्यसत्यविशुद्धिर् आर्यसत्यविशुद्ध्या अप्रमाणविशुद्धिर् अप्रमाणविशुद्ध्या ध्यानविशुद्धिर् ध्यानविशुद्ध्या आरूप्यविशुद्धिर् आरूप्यविशुद्ध्या अभिज्ञाविशुद्धिर् अभिज्ञाविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः शून्यतानिमित्ताप्रणिहितविशुद्ध्या अष्टविमोक्षविशुद्धिर् अष्टविमोक्षविशुद्ध्या नवानुपूर्वविहारसमापत्तिविशुद्धिर् नवानुपूर्वविहारसमापत्तिविशुद्ध्या सर्वसमाधिविशुद्धिः सर्वसमाधिविशुद्ध्या सर्वधारणीमुखविशुद्धिः सर्वधारणीमुखविशुद्ध्या दशबलवैशारद्यविशुद्धिर् दशबलवैशारद्यविशुद्ध्या प्रतिसंविद्विशुद्धिः प्रतिसंविद्विशुद्ध्या आवेणिकबुद्धधर्मविशुद्धिर् आवेणिकबुद्धधर्मविशुद्ध्या सर्वज्ञताविशुद्धिर् (psp_2-3:158) इति हि सर्वज्ञताविशुद्धिश् चावेणिकबुद्धधर्मविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति बोधिसत्त्वस्य यानत्रयमार्गविशुद्धिः

पुनर् अपरं सुभूते या प्रज्ञापारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा यावत् सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या प्रज्ञापारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि प्रज्ञापारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. एवं ध्यानपारमिताविशुद्धिर् वीर्यपारमिताविशुद्धिः क्षान्तिपारमिताविशुद्धिः शीलपारमिताविशुद्धिर् या दानपारमिताविशुद्धिः सा रूपविशुद्धिर् या रूपविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च रूपविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नं, वेदनासंज्ञासंस्कारा या दानपारमिताविशुद्धिः सा विज्ञानविशुद्धिर् या विज्ञानविशुद्धिः सा सर्वाकारज्ञताविशुद्धिर् इति हि दानपारमिताविशुद्धिश् च विज्ञानविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमृदुमार्गः

पुनर् अपरम् अध्यात्मशून्यताविशुद्ध्या यावद् अभावस्वभावशून्यताविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति ह्य् अध्यात्मशून्यताविशुद्धिश् च यावद् अभावस्वभावशून्यताविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्ध्या यावद् दशबलवैशारद्यावेणिकबुद्धधर्मविशुद्ध्या सर्वाकारज्ञताविशुद्धिर् इति हि स्कन्धधात्वायतनप्रतीत्यसमुत्पादविशुद्धिश् च पारमिता बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखविशुद्धिर् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्धिश् च सर्वाकारज्ञताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.

पुनर् अपरं सुभूते सर्वाकापज्ञताविशुद्धिश् च प्रज्ञारारमिताविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृदुमध्यमार्गः

पुनर् अपरं सुभूते संस्कृतविशुद्ध्या असंस्कृतविशुद्धिर् असंस्कृतविशुद्ध्या संस्कृतविशुद्धिर् इति हि संस्कृतविशुद्धिश् चासंस्कृतविशुद्धिश् (psp_2-3:159) चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्.

पुनर् अपरं सुभूते ऽतीतविशुद्ध्यानागतविशुद्धिर् अनागतविशुद्ध्यातीतविशुद्धिर् अतीतानागतविशुद्ध्या प्रत्युत्पन्नविशुद्धिः प्रत्युत्पन्नविशुद्ध्यातीतानागतविशुद्धिर् इति ह्य् अतीतानागतविशुद्धिश् च प्रत्युत्पन्नविशुद्धिश् चाद्वयम् एतद् अद्वैधीकारम् अभिन्नम् अच्छिन्नम्. इति मृद्वधिमात्रामार्गः

अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भिरैषा भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शरिपुत्र आह: कस्य विशुद्धत्वात्?

भगवान् आह: रूपस्य विशुद्धत्वाच् छान्पुत्र गम्भीरा विशुद्धिः. वेदना संज्ञासंस्कारा विज्ञानस्य विशुद्धत्वाद् गम्भीरा. एवं पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुविशुद्धत्वाद् गम्भिरा. एवं चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविशुद्धत्वाद् गम्भीरा. रूपशब्दगन्धरसस्पर्शधर्मविशुद्धत्वाद् गम्भीरा. दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताविशुद्धत्वाद् गम्भीरा. अध्यात्मशून्यताविशुद्ध्या गम्भीरा, यावद् अभावस्वभावशून्यताविशुद्ध्या गम्भिरा. स्मृत्युपस्थानविशुद्ध्या गम्भीरा. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गविशुद्ध्या गम्भीरा. शून्यतानिमित्ताप्रणिहितविशुद्ध्या गम्भीरा. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या गम्भीरा. अभिज्ञाविशुद्ध्या गम्भीरा. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या गम्भीरा. दशतथागतबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्म विशुद्ध्या गम्भीरा. बोधिसत्त्वसर्वाकारज्ञताविशुद्ध्या गम्भीरा. इति मध्यामृदुमार्गः

शारिपुत्र आह: आलोकभूता भगवन् प्रज्ञापारमिता.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः.

शारिपुत्र आह: कस्य विशुद्धत्वात्?

भगवान् आह: प्रज्ञापारमिताविशुद्धत्वाच् छारिपुत्रात्यन्तालोकविशुद्धिः. एवं ध्यानपारमिताविशुद्धत्वाद् वीर्यपारमिताविशुद्धत्वात् क्षान्तिपारमिताविशुद्धत्वाच् छीलपारमिताविशुद्धत्वाद् दानपारमिताविशुद्धत्वाद् अत्यन्तालोकविशुद्धिः. अध्यात्मशून्यताविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावद् अभावस्वभावशून्यता विशुद्ध्या अत्यन्तालोकविशुद्धिः. स्मृत्युपस्थानविशुद्ध्या अत्यन्तालोकविशुद्धिः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यण्गमार्गविशुद्ध्या अत्यन्तालोकविशुद्धिः. आर्यसत्याप्रमाणध्यानआरूप्यसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्ध्या अत्यन्तालोकविशुद्धिः. शून्यतानिमित्ताप्रणिहिताभिज्ञाविशुद्ध्या अत्यन्तालोकविशुद्धिः. सर्वसमाधिसर्वधारणीमुखविशुद्ध्या अत्यन्तालोकविशुद्धिः. (psp_2-3:160) दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मविशुद्ध्या अत्यन्तालोकविशुद्धिः, यावत् सर्वाकारज्ञताविशुद्ध्या अत्यन्तालोकविशुद्धिः. इति मध्यमध्यामार्गः

शारिपुत्र आह: अप्रतिसंधिर् भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कस्यासंक्रान्त्या विशुद्धिः?

भगवान् आह: रूपस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः. एवं यावत् सर्वाकारज्ञताया असंक्रान्तिर् अप्रतिसंधिर् विशुद्धिः. इति मध्याधिमात्रामार्गः

शारिपुत्र आह: असंक्लिष्टा भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तासंक्लिष्टत्वाच् छारिपुत्र.

शरिपुत्र आह: कस्य भगवन्न् असंक्लेशतया विशुद्धिः?

भगवान् आह: रूपस्य प्रकृत्यसंक्लिष्टत्वाद् विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य प्रकृत्यसंक्लिष्टतया विशुद्धिः. एवं यावत् सर्वाकारज्ञतायाः प्रकृत्यसंक्लिष्टतया विशुद्धिः. इत्य् अधिमात्रमृदुमार्गः

शारिपुत्र आह: अप्राप्तिर् अनभिसमया भगवन् विशुद्धिः.

भगवान् आह: अत्यन्ताप्राप्त्यनभिसमयत्वाच् छारिपुत्र.

शारिपुत्र आह: कस्य भगवन्न् अप्राप्त्यानभिसमयेन विशुद्धिः?

भगवान् आह: रूपस्याप्राप्त्यानभिसमयेन विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याप्राप्त्यानभिसमयेन विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अप्राप्त्यानभिसमयेन विशुद्धिः. इत्य् अधिमात्रमध्यमार्गः

शारिपुत्र आह: अनभिनिवृत्तिर् भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तानभिनिवृत्तत्वाच् छारिपुत्र.

शारिपुत्र आह: कस्य भगवन्न् अनभिनिवृत्त्या विशुद्धिः?

भगवान् आह: रूपस्य शारिपुत्रानभिनिवृत्त्या विशुद्धिः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानभिनिवृत्त्या विशुद्धिः. एवं यावत् सर्वाकारज्ञताया अनभिनिवृत्त्या विशुद्धिः. इत्य् अधिमात्राधिमात्रामार्गः

शारिपुत्र आह: अनुपपत्तिर् भगवन् कामधातोर् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन् कामधातोर् अनुपपत्तिर् विशुद्धिः?

भगवान् आह: कामधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.

शारिपुत्र आह: अनुपपत्तिर् भगवन् रूपधातोर् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र. (psp_2-3:161)

शारिपुत्र आह: कथं भगवन् रूपधातोर् अनुपपत्तिर् विशुद्धिः?

भगवान् आह: रूपधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः.

शारिपुत्र आह: अनुपपत्तिर् भगवन्न् आरूप्यधातोर् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन्न् आरूप्यधातोर् अनुपपत्तिर् विशुद्धिः?

भगवान् आह: आरूप्यधातुस्वभावानुपपत्त्या शारिपुत्रानुपपत्तिर् विशुद्धिः. इति त्रैधातुकप्रतिपक्षत्वं भावनामार्गस्य

शारिपुत्र आह: न जानीते भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन् न जानीते विशुद्धिः?

भगवान् आह: धर्मजडताम् उपादाय शरिपुत्र न संजानिते विशुद्धिः.

शारिपुत्र आह: रूपं न जानाति भगवन् विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन् रूपं न जानाति विशुद्धिः?

भगवान् आह: स्वलक्षणशून्यताम् उपादाय शरिपुत्र रूपं न जानाति विशुद्धिः.

शारिपुत्र आह: वेदनां संज्ञां संस्कारान् विज्ञानं भगवन् न जानाति विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत.

शारिपुत्र आह: कथं भगवन् वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः?

भगवान् आह: स्वलक्षणशून्यताम् उपादाय शारिपुत्र वेदनां संज्ञां संस्कारान् विज्ञानं न जानाति विशुद्धिः.

शारिपुत्र आह: सर्वधर्मान् भगवन् न जानाति विशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवान् सर्वधर्मान् न जानाति विशुद्धिः?

भगवान् आह: सर्वधर्मानुपलब्ध्या शारिपुत्र सर्वधर्मान् न जानाति. इति ज्ञेयज्ञानाद्वयसमतामार्गस्य

शारिपुत्र आह: सर्वज्ञताया भगवन् प्रज्ञापारमिता नापकारं करोति नोपकारं करोति.

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन् सर्वज्ञतायाः प्रज्ञापारमिता नापकारं करोति नोपकारं करोति? (psp_2-3:162)

भगवान् आह: धर्मस्थितिताम् उपादाय शारिपुत्र प्रज्ञापारमिता सर्वज्ञताया नापकारं करोति नोपकारं करोति.

शारिपुत्र आह: प्रज्ञापारमिताविशुद्धिर् भगवन् न कंचिद् धर्मं परिगृह्णाति?

भगवान् आह: अत्यन्तविशुद्धत्वाच् छारिपुत्र.

शारिपुत्र आह: कथं भगवन् प्रज्ञापारमिताविशुद्धिर् न कंचिद् धर्मं परिगृह्णाति?

भगवान् आह: धर्मधातुपरिगृहीताम् उपादाय.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आत्मविशुद्धितो भगवन् रूपविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या रूपविशुद्धिः?

भगवान् आह: आत्मासद्भूतत्वात् सुभूते रूपासद्भूतत्वाद् अत्यन्तविशुद्धिः.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धिताम् उपादाय.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या वेदनासंज्ञासंस्कारा विज्ञानविशुद्धिः.

भगवान् आह: आत्मासद्भूतत्वात् सुभूते वेदनासंज्ञासंस्कारा विज्ञानासद्भूतत्वाद् अत्यन्तविशुद्धिः.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् दानपारमिताविशुद्धिः. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता आत्मविशुद्ध्या भगवन् प्रज्ञापारमिताविशुद्धिः. आत्मविशुद्ध्या भगवन् स्मृत्युपस्थानविशुद्धिः. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम्, आत्मविशुद्ध्या भगवङ् मार्गविशुद्धिः. आत्मविशुद्ध्या आर्यसत्याप्रमाणध्यानारूप्यसमाःअत्तिविशुद्धिः. आत्मविशुद्ध्या शून्यतानिमित्ताप्रणिहितविशुद्धिः. आत्मविशुद्ध्या अष्टविमोक्षनवानुपूर्वविहारसमापत्तिविशुद्धिः. आत्मविशुद्ध्या अध्यात्मशून्यताविशुद्धिः, यावद् अभावस्वभावशून्यताविशुद्धिः. आत्मविशुद्ध्या समाधिधारणीमुखविशुद्धिः. आत्मविशुद्ध्या दशबलवैशारद्यप्रतिसंविद्विशुद्धिः. आत्मविशुद्ध्या भगवन्न् अष्टादशावेणिकबुद्धधर्मविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वधर्मविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते. (psp_2-3:163)

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वधर्मविशुद्धिः?

भगवान् आह: आत्मासद्भूतत्वात् सुभूते सर्वधर्मासद्भूतत्वाद् विशुद्धिः.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् स्रोतआपत्तिफलविशुद्धिः, एवं सकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिविशुद्धिः.

भगवान् आह: स्वलक्षणशून्यताम् उपादाय.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् बोधिविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या बोधिविशुद्धीः?

भगवान् आह: स्वलक्षणशून्यताम् उपादाय.

सुभूतिर् आह: आत्मविशुद्ध्या भगवन् सर्वज्ञताविशुद्धिः.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मविशुद्ध्या सर्वज्ञताविशुद्धिः?

भगवान् आह: स्वलक्षणशून्यताम् उपादाय.

सुभूतिर् आह: द्वयविशुद्धिर् भगवन् न प्राप्तिर् नाभिसमयः.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन् द्वयविशुद्धिर् न प्राप्तिर् नाभिसमयः.

भगवान् आह: असंक्लेशाव्यवदानधर्मसमताम् उपादाय.

सुभूतिर् आह: आत्मापर्यन्ततया भगवन् रूपापर्यन्तता.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया रूपापर्यन्तता विशुद्धिः?

भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.

सुभूतिर् आह: आत्मापर्यन्ततया भगवन् वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तता.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन्न् आत्मापर्यन्ततया वेदनासंज्ञासंस्कारा विज्ञानापर्यन्तताविशुद्धिः?

भगवान् आह: अत्यन्तशून्यता-अनवराग्रशून्यताम् उपादाय.

सुभूतिर् आह: एवं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. (psp_2-3:164)

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन्न् इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?

भगवान् आह: मार्गाकारज्ञताम् उपादायेयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इति मार्गस्य चोद्यपरिहाराचित्तान्तद्वयविशुद्धिभावनामार्ग इत्य् उक्ता मार्गज्ञता आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अन्तद्वयविशुद्धिपरिवर्तो द्वितीयः (psp_2-3:165)

पञ्ञ्चविंशतिसाहस्रिका प्रज्ञापारमिता इइइ

सुभूतिर् आह: प्रज्ञापारमिता भगवन् बोधिसत्त्वानां महासत्त्वानां नापरे तीरे न परे तीरे नोभयम् अन्तेरेणोपलभ्यते.

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते.

सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता नापरे तीरे न परे तीरे नोभयम् अन्तरेणोपलभ्यते?

भगवान् आह: अत्यन्तविशुद्धत्वात् सुभूते त्र्यध्वसमतां सर्वधर्माणम् उपादाय. इत्य् उक्ता संसारनिर्वाणाप्रतिष्ठा

सुभूतिर् आह: सचेत् पुनर् भगवन् महायानिकः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशल इमां प्रज्ञापारमिताम् एवं ज्ञास्यत्य् उपलम्भयोगेन रिञ्चिष्यति दूरीकरिष्यतीमां प्रज्ञापारमिताम्.

भगवान् आह: साधु साधु सुभूते. एवम् एतत् सुभूते. नामतो ऽपि सुभूते सङ्गो निमित्ततो ऽपि सुभूते सङ्गः. तत् कस्य हेतोर्? अनिमित्ता हि सुभूते सर्वधर्मा अनामकाः.

सुभूतिर् आह: कथं भगवन् नामतो ऽपि सङ्गो निमित्ततो ऽपि सङ्गः?

भगवान् आह: इह सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो वा प्रज्ञापारमितां नामतो ऽपि ग्रहीष्यन्ति निमित्ततो ऽपि ग्रहीष्यन्ति निमित्ततश् च नामतश् च ग्रहीत्वा प्रज्ञापारमितां रिञ्चिष्यन्ति दूरीकरिष्यन्ति. ते प्रज्ञापारमितां मन्यमाना रिञ्चिष्यन्ति दूरीकरिष्यन्ति प्रज्ञापारमिताम्. इत्य् उक्तम् अनुपायेन दूरत्वम्

सुभूतिर् आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां स्वाख्याता च सुपरिनिष्ठिता चामी सङ्गा अमी चासङ्गाः. (psp_2-3:166)

इत्य् उक्तोपायेनापि दुरता

अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्; कतम आयुष्मन् सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां सङ्गः कतमो ऽसङ्गः?

सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशलो रूपं शून्यम् इति संज्ञास्यते सङ्गः, वेदना संज्ञासंस्कारा विज्ञानं शून्यम् इति संज्ञास्यते सङ्गः. एवं व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादाङ्गानि शून्यानीति संज्ञास्यते सङ्गः. दानपारमिता शून्येति संज्ञास्यते सङ्गः, शीलपारमिता शून्येति संज्ञास्यते सङ्गः, क्षान्तिपारमिता शून्येति संज्ञास्यते सङ्गः, वीर्यपारमिता शून्येति संज्ञास्यते सङ्गः, ध्यानपारमिता शून्येति संज्ञास्यते सङ्गः, प्रज्ञापारमिता शून्येति संज्ञास्यते सङ्गः. एवं स्मृत्युपस्थानानि शून्यानीति संज्ञास्यते सङ्गः. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्या इति संज्ञास्यते सङ्गः. आर्यसत्यानि शून्यानीति संज्ञास्यते सङ्गः. अप्रमाणध्यानारूप्यसमापत्तयः शून्या इति संज्ञास्यते सङ्गः. अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि शून्यानीति संज्ञास्यते सङ्गः. एवम् अभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि शून्यानीति संज्ञास्यते सङ्गः. दशतथागतबलानि चत्वारि वैशारद्यां शून्यानीति संज्ञास्यते सङ्गः. चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा शून्या इति संज्ञास्यते सङ्गः. सर्वज्ञता शून्येति संज्ञास्यते सङ्गः.

पुनर् अपरम् आयुष्मन् शरिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलो ऽतीतान् धर्मान् अतीता धर्मा इति संज्ञास्यते सङ्गः. अनागतान् धर्मान् अनागता धर्मा इति संज्ञास्यते सङ्गः. प्रत्युत्पन्नान् धर्मान् प्रत्युत्पन्ना धर्मा इति संज्ञास्यते सङ्गः.

पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व उपलम्भयोगेन प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरतीति सङ्गः. शीलपारमितायां चरतीति सङ्गः, क्षान्तिपारमितायां चरतीति सङ्गः, वीर्यपारमितायां चरतीति सङ्गः, ध्यानपारमितायां चरतीति सङ्गः, प्रज्ञापारमितायां चरतीति सङ्गः. स्मृत्युपस्थानेषु चरतीति सङ्गः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरतीति सङ्गः. एवम् अप्रमाणध्यानारूप्यसमापत्तिसु चरतीति सङ्गः. आर्यसत्येषु शून्यतानिमित्ताप्रणिहितेष्व् अष्टविमोक्षेषु (psp_2-3:167) नवानुपूर्वविहारसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु चरतीति सङ्गः. दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरतीति सङग्ः, यावत् सर्वज्ञतायां चरतीति सङ्गः. इति विपक्षः

यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, कतमो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् असङ्ग इति. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, न रूपं रूपं संजानीते, एवं वेदनासंज्ञासंस्कारा न विज्ञानं विज्ञानं संजानीते. नातीता धर्मा अतीतान् धर्मान् संजानीते. नानागता धर्मा अनागतान् धर्मान् संजानीते. न प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नान् धर्मान् संजानिते. न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यैवं भवति, अहं दानं ददामि, अस्मै दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एभ्यः शीलं रक्षामि, अहं क्षान्तिं भावयामि, इमां क्षान्तिं भावयामि, एषु क्षान्तिं भावयामि, अहं वीर्यं आरभे, इदं वीर्यम् आरभे, एषाम् अर्थाय वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एवं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्मै प्रज्ञां भावयामि, अहं पुण्यं प्रसवामि, एवं पुण्यं प्रसवामि, अहं बोधिसत्त्वनियामम् अवक्रमामि, अहं बुद्धक्षेत्रं परिशोधयिष्यामि, अहं सत्त्वान् परिपाचयिष्यामि, अहं सर्वज्ञताम् अनुप्राप्स्ये, सर्वे त आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरताम् उपायकुशलानां विकल्पा न सन्ति. तत् कस्य हेतोः? अध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादायाध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, इमे त आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकुशलस्यासङ्गः. इति प्रतिपक्षः

अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: कतमेन भदन्त सुभूते पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सङ्गो भवति?

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.