Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
मञ्जुश्रीमूलकल्प
- Thông tin
- GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
आर्यमञ्जुश्रीमूलकल्पान्महायानवैपुल्यसूत्रात् चतुर्दशमः गाथापटलनिर्देशविसरः परिसमाप्तमिति / अथ सप्तदशः पटलविसरः / अथ खलु भगवान् शाक्यमुनिः सर्वतथागतविकुर्वितं नाम समाधिं समापद्यते स्म / समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः ऊर्णाकोशाद् रश्मयो निश्चरति स्म / नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णः / सर्वं चेदं बुधक्षेत्रमवभास्य, सर्वलोकधात्वन्तराणि चालोकयित्वा, सर्वग्रहनक्षत्रांश्च मुहूर्तमात्रेण जिह्मीकृत्याकृष्टवा / आकृष्टा च स्वकस्वका स्थानानि सन्नियोज्य तत् पर्षन्मण्डलं बुद्धाधिष्ठानेनाकृष्य च, तत्रैव भगवतः शाक्यमुनेरूर्णाकोशान्तर्धीयते स्म / सर्वं च ग्रहनक्षत्रतारकाः ज्योतिषोरुपरुध्यमाना आर्ता भीता भगवन्तं शाक्यमुनिं प्रजग्मुः / कृताञ्जलयश्च तस्थुरे प्रकम्पयमाना मुहुर्मुहुश्च धरणितले प्रपतनमानाः //
अथ भगवान् शाक्यमुनिः सर्वेषां ग्रहनक्षत्रतारकाज्योतिषाणां च बालिशोपजनितबुद्धीनां च देहिनामनुग्रहार्थं वाचमुदीरयते स्म / शृण्वन्तु भवन्तो मार्षाः देवसङ्घा समानुषाः कर्म एव सत्त्वानां विभजते लोकवैचित्र्यम् / यश्च बुधानां भगवतां वज्रकायशरीरतामभिनिष्पत्तिर्यश्च ससुरासुरस्य लोकस्य भ्रमत्संसाराटवीकान्तारप्रविष्टस्य लोकस्य विचित्रशरीरतामभिनिष्पत्तिः सर्वेदं कर्मजं शुभाशुभं निबन्धनम् / न तत्र कर्ता कारकः ईश्वरः प्रधानो वा पुरुषा साङ्ख्यापसृष्टो वा प्रवर्तते किञ्चिद् वर्जयित्वा तु कर्मजं सर्वकर्मप्रत्ययजनितो हेतुमपेक्षते / स च हेतुप्रत्ययमपेक्षते / एवं प्रतीत्यसमुत्पत्तिप्रत्ययान्तो ऽन्यमुपश्लिष्यते श्लेष्माणां च भूताभिनिष्पत्तिमहाभूतां जनयते / ते च महाभूता स्कन्धान्तरमनादिगतिकात् प्रतिपद्यन्ते / प्रपन्नाश्च गतिदेशान्तरं विस्तरविभागशो ऽभ्युपपद्यन्ते / कालान्तरोपरोधविलोमताज्ञानवह्निमीरिता कर्मोपरचितवासना अशेषमपि निर्दहन्ते / त्रिधायानसमता निःप्रपञ्चतां समतिनिर्हरन्ते / महायानदीर्घकालोपरचितकर्म स्वकं मध्यकालप्रत्येकखड्गिनां स्वयम्भु ज्ञानं प्रवर्तते / परघोषानुप्रवृत्तिश्रवश्रावकानां ह्रस्वकालाचिराधिराज्यं तेनात्यप्रवृत्तिधर्मान्तरं बुद्धिरेव प्रवर्तते बालिशानां विमोहितानाम् / अथ च पुनर्विचित्रकर्मजनितो ऽयं लोकसन्निवेशदेशवेषोपरतः शिवं निर्जरसम्पदमशोकविरजकर्मलोकसिद्धिमपेक्षते / विमलं मार्गविनिर्मुक्तमष्टाङ्गोपेतसुशीतलं कर्म एव कुरुते कर्म नान्यं कर्मापेक्षते //
कर्माकर्मविनिर्मुक्तो निःप्रपञ्चः स तिष्ठति / त्रिधा यानप्रवृत्तस्तु नान्यं शान्तिमजायते // mmk_17.1 //
त्रिविधैव भवेन्मन्त्रं त्रिधा कर्म प्रकीर्त्तिता / त्रिविधः फलनिष्पत्तिस्त्रिविधैव विचारणा // mmk_17.2 //
विपरीतं त्रिधा कर्म त्रिविधैव प्रदृश्यते / कुशलं तत् त्रिविधं प्रोक्तं पुनस्तन्त्रे प्रदृश्यते // mmk_17.3 //
पुनरेव विधं गोत्रं मन्त्राणामास्पदं शान्तम् / शान्तं निर्वाणगोत्रं तु बुद्धानां शुद्धमानसाम् // mmk_17.4 //
तदेव कर्म प्रत्यंशं मन्त्राङ्गे प्रकीर्तितः / ज्योतिषाङ्गं तथा लोके सिधिहेतोः प्रकल्पितम् / तदेव अंशं कर्मं वै प्रत्ययांशे प्रवर्तते // mmk_17.5 //
यथा हि शाली व्रीहीणामङ्कुरेण विभाव्यते / तथा हि सिद्धद्रव्याणां लक्षणेन विभाव्यते // mmk_17.6 //
यथा हि शुक्लो वर्णस्तु व्यवहारेण प्रकल्प्यते / तथाहि ज्योतिषयुक्तीनां व्यवहार्थं प्रकल्प्यते / सर्वतः सर्वयुक्तीनां कर्म एवं प्रशंसितम् // mmk_17.7 //
न तत् कर्म विना चिह्नैः क्वचिद् देहः संस्थितः / चिह्नैश्च चरितैश्चापि जातकैर्गोत्रमाशृतैः // mmk_17.8 //
विविधैः शकुनैर्नित्यं तत् कर्मं चोपलभ्यते / न क्वचिद् विग्रही कर्म अन्तलीनो ऽन्यलक्ष्यते // mmk_17.9 //
ज्वरितः सर्वतो जन्तुर्विकारैश्चोपलक्ष्यते / एवं देहे समासृत्य कर्म दृश्यति देहिनाम् // mmk_17.10 //
शुभाशुभफलाचिह्नजातकास्तु प्रकीर्त्तिताः / विविधा शकुनयः सत्त्वा विविधा कर्ममुद्भवा // mmk_17.11 //
बलकाल तथा यात्रा विविधा प्राणिनां रुता / शुभाशुभफला + + + + + + + + + + + + सदा // mmk_17.12 //
सिद्ध्यसिद्धिनिमित्तं तु प्रत्ययार्थमवेक्षते / निमित्तं चरितं चिह्नं प्रत्ययेति प्रकल्पितम् // mmk_17.13 //
तस्मात् सर्वप्रयत्नेन प्रत्ययं तु अपेक्षते / यज्जापिना सता मन्त्रे सिधिहेतोरपेक्षयेत् // mmk_17.14 //
कर्मस्वकान्यतानि अव्यङ्गानि लक्षयेत् / अलक्षितं तु सर्वं वै विघ्रकर्मैः सुदारुणैः // mmk_17.15 //
तस्मात् सर्वाण्येतानि अङ्गानीति मुनेर्वचः / सालेन्द्रराजः सर्वज्ञो बोधिमण्डे समाविशेत् // mmk_17.16 //
मन्त्रं उदीरयामास सर्वविघ्नप्रनाशनम् / दुःस्वप्नं दुर्निमितं तु दुःसहं च विनाशनम् // mmk_17.17 //
तस्य बोधिगतं चित्तं सर्वज्ञस्य महात्मने / मारेण दुष्टचित्तेन कृतो विघ्नो महाभयोः // mmk_17.18 //
अनिमित्तं तेन दृष्टं वै तरोर्मूले महाभयम् / अनिमित्तात् तस्य जायन्ते अनेकाकारभीषणाः // mmk_17.19 //
तस्य पुण्यबलाधाना चिरकालाभिलाषिणा / तेन मन्त्रवर्ण तस्य बलासौ भग्नाशौ नमुचिंस्तदा // mmk_17.20 //
ऋद्धिमन्तो महावीर्या संवृतो ऽसौ महाद्युतिः / तस्य मन्त्रप्रभावेन लिप्से बोधिमुत्तमाम् // mmk_17.21 //
स एव वक्ष्यते मन्त्रः दुर्निमित्तोपघातनम् / दुःस्वप्नं दुःसहं चैवं दुष्टसत्त्वनिवारणम् // mmk_17.22 //
शृण्वन्तु देवसङ्घा वै ग्रहनक्षत्रज्योतिषाम् / मन्त्रराट् भाषितः पूर्वं शालेन्द्रेण जिनेन वै // mmk_17.23 //
निग्रहार्थं च दुष्टानां ग्रहनक्षत्रतारकाम् / भूतां चैव सर्वेषां सौम्यचित्तां प्रबोधनाम् // mmk_17.24 //
शृण्वन्तु भूतगणाः सर्वे ये केचित् पृथिवीचराः / अपदा बहुपदा वापि द्विपदा वापि चतुःपदा / सर्वे संक्षेपतः सत्त्वा ये केचित् त्रिषु स्थावराः // mmk_17.25 //
नमः समन्तबुद्धानामप्रतिहतशासनानाम् //
ओम् ख ख खाहि खाहि / हुम् हुम् / ज्वल ज्वल / प्रज्वल प्रज्वल / तिष्ठ तिष्ठ / ष्णीः फट् फट् स्वाहा / एष बुद्धाद्ध्युषितो मन्त्रः ज्वालोष्णीषेति प्रकीर्तितः //
यानि कर्मसहस्राणि अशीति नव पञ्च च / करोति विविधां कर्मां सर्वमङ्गलसम्मतः / दुःस्वप्नान् दुर्निमित्तांस्तु सकृज्जापेन नाशयेत् // mmk_17.26 //
करोति अपरां कर्मां सर्वमन्त्रेषु स्वामिनः / वशिता सर्वसत्त्वानां बुद्धो ऽयं प्रभवो गुरुः // mmk_17.27 //
स्मरणादस्य मन्त्रस्य सर्वे विघ्नाः प्रणश्यिरे / देवातिदेवसम्बुद्ध इत्युक्त्वा मुनिसत्तमः // mmk_17.28 //
मुहूर्तं तस्थुरे तूष्णीं यावत् कालमुदीक्षयेत् / तस्थुरे देवसङ्घाश्च शुद्धावासोपरिस्तदा // mmk_17.29 //
सर्वेषां देवमुख्यानां नक्षत्रग्रहतारकाम् / समयं जग्मु ते भीता उष्णीषो मन्त्रभाषिताः // mmk_17.30 //
तुल्यवीर्यो महावीर्य उष्णीषाख्यो महाप्रभाः / शतपञ्चचतुष्कां वा सप्ताष्टा नवतिस्तथा // mmk_17.31 //
द्विषष्टि पञ्चसप्तान्या उष्णीषेन्द्राः प्रकीर्तिताः / एतत् सङ्ख्यमसङ्ख्येया राजानो मूर्धजा शुभा / तेष तुल्यो अयं मन्त्रः जिनमूर्धजजा इति // mmk_17.32 //
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चदशमः कर्मस्वकप्रत्ययपटलविसरः परिसमाप्त इति / अथाष्टादशः पटलविसरः / अथ भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च पर्षन्मण्डलं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीयमन्त्रचर्याभियुक्तस्य बोधिसत्त्वचर्यापरिपूरणार्थाभिप्रायस्य बोधिसत्त्वस्य महासत्त्वस्य क्रियाकालक्रमणयोगानुकूलयोगचर्यानुकूलनक्षत्रव्यवहारामुवर्तनक्रमं सर्वमन्त्रचर्यार्थसाधनोपयिकपटलविसरम् / भाषिष्ये, तं शृणु, साधु च सुष्ठु च मनसि कुरु //
एवमुक्ते भगवता मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् / आश्चर्यं भगवन् यावद् भाषितं परमेणानुग्रहेणानुगृहीता बोधिसत्त्वा महासत्त्वा सर्वबोधिसत्त्वचर्यानुवर्तिनां सर्वमन्त्रचर्यार्थपरिपूरकाणां सत्त्वानाम् / तद्वदतु भगवानस्माकमनुकम्पार्थम् / एवमुक्तो मञ्जुश्रीः कुमारभूतः कृताञ्जलिपुटो भगवन्तमवलोकयमानः ताः तूष्णीमेवमवस्थितो ऽभूत् //
अथ खलु भगवान् शाक्यमुनिर्लोकानुग्रहकाम्यया / वज्रेन्द्रवचनं श्रेष्ठं हितार्थं सर्वदेहिनाम् // mmk_18.1 //
इदं भोः भद्रमुखाः श्रेष्ठं नक्षत्रं हिताहितं / सर्वमन्त्रार्थचर्यायां युक्तायुक्ताः समाहिताः // mmk_18.2 //
सिद्धमर्थं तथापूर्णमनुकूलं चापि कथ्यते / सिद्धिहेतोस्तथा मन्त्री मन्त्रं तन्त्रोपलक्षयेत् // mmk_18.3 //
शुचे ऽहनि शुचौ देशे शुचाचाररते सदा / प्रशस्ते तिथिनक्षत्रे शुक्लपक्षे सदा शुचिः // mmk_18.4 //
स्नातो ध्यायी व्रती मन्त्री मन्त्रतन्त्रार्थकोविदः / होम जाप तथा सिद्धिं कुर्यात् कर्म सविस्तरम् // mmk_18.5 //
रेवती फल्गुनी चित्रा मघा पुष्यार्थसाधिका / अनूराधा तथा ज्येष्ठा मूला चापि वर्णिता // mmk_18.6 //
आषाढावुभौ भाद्रपदौ सदा सिद्ध्यर्थ श्रवणा / सिद्ध्यर्थं श्रवणा श्रेष्ठा धनिष्ठा चापि वर्णिता // mmk_18.7 //
सिद्धिहेतोस्तथा मन्त्रै रोहिण्या मृगशिरास्तथा / अश्विन्यौ पुनर्वसूयुक्ते नक्षत्रौ स्वातिरेवतौ // mmk_18.8 //
प्रशस्ता गणिता ह्यते विद्यासाधनतत्पराः / एतेषामिन्दुवारं तु विधिरेवमुदाहृतम् // mmk_18.9 //
शैत्यैः शान्तिकं शेषकाले ततो विद्यापुष्ट्यर्थं चापि तत्परम् / मध्याह्ने दिनकरे कर्म चन्द्रे चापि गर्हितम् // mmk_18.10 //
अर्धरात्रे स्थिते चन्द्रे कुर्यात् कर्माभिचारुकम् / तृतीये याममनुप्राप्ते पुष्टिहेतोः समारभेत् // mmk_18.11 //
पुष्ट्यर्थं साधयेन्मन्त्रं भोगहेतोस्तदा नृषु / उदयन्तं भास्करं विद्यात् सर्वकर्मेषु युक्तितः // mmk_18.12 //
रक्ताभावे तथा भानोः कुर्यात् कर्माभिचारुकम् / शेषकाले ततो विद्यात् पूर्वाह्ने रविमण्डले // mmk_18.13 //
युगमात्रोत्थिते तथा नित्यं कुर्याच्छान्तिककर्मणि / ततो द्विहस्तितो ज्ञेयं प्रमाणे चैव गभस्तिने // mmk_18.14 //
कुर्याच्छान्तिककर्माणि शान्तिकेष्वपि योजिते / मन्त्रमुद्रैस्तथाश्रेष्ठैर्जिनाग्रकुलसम्भवैः // mmk_18.15 //
मध्याह्ने सवितरि प्राप्ते कुर्यादाभिचारुकम् / अतःपरेण आकृष्येद् वश्यार्थं च योजितम् // mmk_18.16 //
युगमात्रावनते भानौ अपराहोपगते तथा / कुर्यात् सर्वकर्माणि क्षुद्रार्थे च योजिताः // mmk_18.17 //
ततः परेण काले ते सूर्यं धानमते तदा / वश्याकर्षणसर्वाणि कुर्यात् कर्माणि धीमतः // mmk_18.18 //
अस्तं याते तदा भानौ रक्ताकारसमप्रभे / कुर्यात् तानि कर्माणि रक्ताभाससमोदिताम् // mmk_18.19 //
कान्तकामाः सदा कुर्यात् कर्मैश्चापि रागिभिः / कुलत्रये ऽपि शान्यं कथितं कर्म निन्दितम् // mmk_18.20 //
कन्यार्थी कारयेत् क्षिप्रं कर्मकालसमोदितम् / प्रथमे यामे तदा कर्म साधयेत् सत्त्वयोजितः // mmk_18.21 //
अतः परेण सर्वत्र सर्वकर्माणि कारयेत् / अर्धरात्रे तदा चन्द्रा ग्रहः पश्येद् वसुन्धराम् // mmk_18.22 //
प्रविशेत् पश्चिमां देशां तस्मिन् काले समोदिताम् / ततः परेण ग्रहः पश्ये सूर्यो सनराधिपाम् // mmk_18.23 //
प्रसवे दक्षिणां देशां सिद्ध्यर्थी मन्त्रयोजितः / मर्त्ये ऽपि लभते क्षिप्रं कार्यसिद्धिं तु पुष्कलाम् // mmk_18.24 //
अजापी जापिनश्चापि + + + लभते फलम् / यथेष्टां कुरुते सिद्धिं जापिनस्यापि धीमते // mmk_18.25 //
तृतीये यामे सदा गच्छेद् दिशं चापि यत्नतः / दक्षिणपश्चिमान्मध्ये व्रजेत् तत्र फलोद्भवी // mmk_18.26 //
उदयन्ते तथा भानौ प्रभवोदुत्तरां दिशम् / ततः परेण कालान्ते युगमात्रोत्थिते रवौ // mmk_18.27 //
गच्छद् विदिशं तन्त्रज्ञः सिद्धिकामफलोद्भवाम् / पश्चिमोत्तरयोर्मध्यं स देशः परिकीर्तितः // mmk_18.28 //
अजापी जापिनस्यापि युक्तिरुक्ता तथागतैः / निर्दिष्टां कार्यनिष्पत्तौ सिद्धमन्त्रस्य वा तदा // mmk_18.29 //
मध्याह्ने पूर्वतो गच्छेद् दिशांश्चैव सर्वतः / ततः परेण कर्माणि + + + + + कारयेत् // mmk_18.30 //
अर्धरात्रे तदा चन्द्रो ग्रहः पश्येद् वसुन्धराम् / कालान्ते विदिशान्ते मुनि + + + + बोधिना // mmk_18.31 //
पूर्वमुत्तरयोर्मध्ये सदृशः सिद्धि लिप्सताम् / ततः परेण दिशः प्रोक्ताः पूर्वदक्षिणयोः सदा // mmk_18.32 //
कथितः कालभेदश्च दिशश्चैव विदिक्षु वा / अपराह्ने तथा भानोः प्रविशे दैत्यमालयम् // mmk_18.33 //
सुरङ्गेषु च सर्वेषु सत्त्वेषु कूपवासिषु / सर्वथा श्रीमुखेष्वेव सर्वत्र पातालोद्भववासिनाम् // mmk_18.34 //
ततः परेण यामान्ते रक्ताङ्गे ग्रहमण्डले / प्रविशेद् यक्षयोनीनां निलयांश्चैव सुकश्मलाम् // mmk_18.35 //
व्रजेत् परिगृहां क्षिप्रकालेष्वेव नियोजितम् / उत्तिष्ठन्तं साधयेन्मन्त्रं प्रसादाश्रयसम्भवाम् // mmk_18.36 //
आरुरुक्ष पुराग्रं वै असिद्धिः सिद्धिरेव वा / आरुरोह स्वकावासं प्रासादाग्रं तु मानवी // mmk_18.37 //
सिद्धन्ते चिन्तिता तस्य कालेष्वेव सुयोजिताः / मन्त्रसिद्धिः सदा तस्य मन्त्रतन्त्रविशारदैः // mmk_18.38 //
दिशे गमनेनैव सिद्धिमात्रां समुच्यते / अमन्त्री मानवः क्षिप्रं लभते फलसम्भवाम् // mmk_18.39 //
ईप्सितां साधयेदर्थां ग्राम्यांश्चैव च मानुषाम् / काला निगमतः प्रोक्तं दिशांश्चैव समन्ततः // mmk_18.40 //
प्रसवेत् सर्वतो मन्त्री कालेष्वेह देशेषु च / अश्विनी भरणिसंयुक्ता कृत्तिका मृगशिरास्तथा // mmk_18.41 //
एतेष्वेव हि सर्वत्र नक्षत्रेष्वेव योजिता / शान्तिकं कर्म निर्दिष्टं फलहेतुसमोदयम् // mmk_18.42 //
रोहिण्यां साधयेदर्थां पुष्टिकामः सदा जापी / आर्द्रायां कारयेत् कर्म वश्याकर्षणहेतुभिः // mmk_18.43 //
पुनर्वस्वो तथा पुष्ये साधयेद्धनसम्पदाम् / विचित्राभरणवस्त्रांश्च अञ्जनं समनःशिलाम् // mmk_18.44 //
रोचनां गैरिकांश्चैव आज्यं चैव सुपूजितम् / वश्याकर्षणमेधां च पुष्येषु च नियोजयेत् // mmk_18.45 //
आश्लेषायां तथा कर्मा आकृष्टाप्रहरणादयम् / मघासु कुर्यात् तथा कर्म राज्यमर्थाभिवार्धनम् // mmk_18.46 //
फल्गुन्यावुभौ श्रेष्ठौ आरुरोह स्ववाहनम् / विचित्राणि कर्माणि हस्तेनैव विधीयते // mmk_18.47 //
स्वात्यां विशाखयोः कुर्याद् द्रव्यकर्मसमुद्भवम् / अनुराधा तथा ज्येष्ठा उभौ नक्षत्रयोजितौ // mmk_18.48 //
सिद्धिकामः सदा कुर्याद् राज्यकामस्तथा सदा / भौम्यार्थसम्पदांश्चापि विविधां योनिजां पराम् // mmk_18.49 //
साधयेद् धननिष्पत्तिं नक्षत्रेष्वेव योजिताः / उभौ ह्यषाढौ तथा प्रोक्तौ जन्तुकर्मसु योजयेत् / धातुजेष्वपि सर्वत्र दृश्यते सिद्धिमानवे // mmk_18.50 //
मूले मूलकर्माणि ओषध्यां विविधोद्भवाम् / साधयेन्मन्त्रतन्त्रज्ञो मूलनक्षत्रयोजिताम् // mmk_18.51 //
श्रवणेष्वेव सर्वत्र कुर्याच्छ्रावण्यवर्णिताम् / निर्वाणप्रापकं धर्मं प्रव्रज्यां चापि योजयेत् // mmk_18.52 //
धनिष्ठेषु सदा कुर्याद् धूपपुष्करिसाधनाम् / वृक्षां वाहनां चैव वस्त्रांश्चैव विधानवित् // mmk_18.53 //
कुर्यात् शतभिषक् कर्म हिंसाप्राणिषु निर्दयाम् / प्राणापरोधसत्त्वेषु कुत्सितां तां विवर्जयेत् // mmk_18.54 //
उभौ भद्रपदौ श्रेष्ठौ भूम्यामर्थनिवारकौ / सम्पदा कुरुते क्षिप्रं कर्मेष्वेव हि योजितौ // mmk_18.55 //
सेनापत्यार्थसाधने + + + + + + + + + + + / राज्ये धननिष्पत्तिभूषणाभरणादिषु // mmk_18.56 //
नानाधातुगणांश्चैव + + + + यथेप्सिताम् / साधयेन्मन्त्रतन्त्रज्ञ उभौ नक्षत्रयोजितौ // mmk_18.57 //
रेवत्यां साधयेद् द्रव्यं नानाधातुसमुद्भवाम् / साधयेन्मन्त्रकर्माणि नानारत्नसमुद्भवम् / सर्वोदकानि सर्वाणि साधयेन्मन्त्रवितं सदा // mmk_18.58 //
अश्विन्यश्च भरण्यश्च कृत्तिकानां तथांशकम् / एतदङ्गारके प्रोक्तं क्षेत्रं चैव नभस्तले // mmk_18.59 //
तस्या वार तथा कीर्त्तिं सौम्यां साधये च तदा महीम् / कृत्तिकं त्र्यंशकं विद्यात् रोहिणीमृगशिरो परौ // mmk_18.60 //
एतद् भार्गवे विद्यात् क्षेत्रं चैवं नभस्तले / मृगशिरांशं तथा चैवं आद्रायां च सुयोजिताः // mmk_18.61 //
पुनर्वसुश्च तदा विद्याच्छान्त्यर्थं क्षेत्रमुद्भवम् / पुष्याङ्गं तथाश्लेषं मघं चैव निबोधितम् // mmk_18.62 //
एतद् भानोः सदा क्षेत्रं कुर्यादाभिचारुकम् / फल्गुन्या तु उभौ साङ्गौ ग्रहचिह्नितचिह्नितौ // mmk_18.63 //
इन्दुवारं तथा विद्यात् क्षेत्रं तस्य निशाकरे / हस्तचित्रौ तथा सांशौ कुर्यात् कर्मातिमानितम् // mmk_18.64 //
बुधस्थाने तु उद्दिष्टः सर्वकर्मप्रसाधकः / स्वात्या विशाखसंयुक्ता सांशा वापि कीर्तिता // mmk_18.65 //
द्वितीयं क्षेत्रनिर्दिष्टं दिवाकरस्य न संशयः / अनुराधाज्येष्ठसांशौ तौ निर्दिष्टौ पृथिवीसुतौ // mmk_18.66 //
द्वितीयमङ्गारकक्षेत्रं वृश्चिकातसमुद्भवः / सर्वधर्मार्थसंयुक्तं कर्मयुक्तार्थसाधयेत् // mmk_18.67 //
वर्जयेद् धीमतो हिंसां प्राणहिंसाभिचारुकाम् / साधयेद् विविधानर्थां कर्मांश्चैव सुपुष्कलाम् // mmk_18.68 //
मूलाषाढौ तथा प्रोक्तौ उभौ सांशत्रिकोद्भवौ / एतद् बृहस्पतेः क्षेत्रं नभःस्थं दृश्यते भुवि // mmk_18.69 //
साधयेत् कर्म युक्तात्मा विधानाच्च निवारकाम् / महाभोगार्थसम्पत्ती सफलांश्चैव फलोद्भवाम् // mmk_18.70 //
धन्विनि राशिनिर्दिष्टो कुर्यात् सर्वसम्पदाम् / श्रवणा धनिष्ठनिर्दिष्टा शतभिषां सममोदिता // mmk_18.71 //
एतत् शनिश्चरक्षेत्रं द्वितीयं कथितं पुरा / राश्यमकरनिर्दिष्टा सर्वानर्थनिवारकः // mmk_18.72 //
तत्रस्थो यदि कर्माणि आरभेत विचक्षण / सिध्यत्ययत्नान्मन्त्रज्ञस्तस्मिं काले प्रयोजिता // mmk_18.73 //
राश्यः कुम्भनिर्दिष्टा प्रोक्ता मुनिभिः पुरा / उभौ भद्रपदौ प्रख्यौ रेवती च यशस्विनी // mmk_18.74 //
अङ्गहीना तथा पूर्वा शुभेन्द्रग्रहचिह्निताः / प्रशस्ताः शोभनाः सर्वे तत् क्षेत्रं गुरवे + दा // mmk_18.75 //
मीनराशिसमासेन कथितं लोकचिह्नितैः / ग्रहः प्रधान सर्वत्र तिर्यङ्मुक्ता सर्वकर्मसु // mmk_18.76 //
सप्तैते कथिता ह्यग्रमानुषाणां गणागमे / अनन्ता ग्रहमुख्यास्तु अनन्ता ग्रहकुत्सिताः / मध्यस्था कथिता ह्येते मानुषाणां हिताहिता // mmk_18.77 //
इति / तेषां सत्त्वप्रयोगेषु निर्दिष्टा मन्त्रजापिनाम् / सत्त्वासत्त्वं तथा कालं नियमं चैव कीर्तितम् // mmk_18.78 //
नाग्रहो धर्मसंयुक्तं न कर्मो ग्रहचिह्नितम् / संयोगग्रहनक्षत्रो मन्त्रसिद्धिमुदाहृता // mmk_18.79 //
न सिद्धिः कालमिति ज्ञेया नासिद्धिः कालमुच्यते / सिद्ध्यसिद्धावुभावेतौ सङ्गाकालतः क्रमा / विपरीतरता धर्मा न धर्मा धर्मचारिणः // mmk_18.80 //
धर्मकर्मसमायोगा संयुक्तः साधयिष्यति / न दैवात् कर्ममुक्तस्तु सिद्धिर्न सिद्धिर्देवमुद्भवा // mmk_18.81 //
तत्कर्मश्च सिद्धिश्च दैवमेव नियोजयेत् / न दैवात् कर्ममुक्तस्तु दैवं कर्ममितःपरम् // mmk_18.82 //
कर्मकं तु मतः प्रोक्तं विधिनिर्दिष्टहेतुना / ग्रहा कर्ममुक्तास्तु नक्षत्राश्च सुपूजिताः // mmk_18.83 //
तस्मात् कर्म समं तेषां कर्मार्थं सिद्धिरिष्यते / कथिता गणना ह्येते कर्म एव सदैवतम् // mmk_18.84 //
न ग्रहा राशयो योनिरक्षताश्च सुपूजिताः / कर्म एष सदा विद्यात् विधिमुक्ता समोदिता // mmk_18.85 //
फलोद्भवं च सदा कर्म युक्तिर्मन्त्रेषु भाषिता / तस्माद् युक्तितः कर्म न ग्रहो नापि राश्यजा // mmk_18.86 //
नक्षत्राणां तिथीनां च गतियोनि समासतः / कालप्रमाणनियमश्च न परं कर्मयोः सदा // mmk_18.87 //
तस्मात् तन्त्रवित् सेव धर्म एव नियोजयेत् / अनन्तग्रहाणां लोके राशयो विविधा परे // mmk_18.88 //
तिथयो गणिता सङ्ख्ये क्षेत्रश्चैव नियोक्तृभिः / तस्मात् संक्षेपतो वक्ष्ये कथ्यमानं निबोधताम् // mmk_18.89 //
मेषो वृषो मिथुनश्च कर्कटश्च सुयोजितः / सिंहकन्यतुलं चैव वृश्चिकधन्विनौ परौ // mmk_18.90 //
मकरः कुम्भ इति ज्ञेयौ मीनवानरयो ऽपरे / मानुषो देवराशिश्च अपरो गरुडापरौ // mmk_18.91 //
यक्षराक्षसाराश्यो तिर्यक्प्रेतशुभौ परे / नरका राशिनिर्दिष्टा अनन्ता गतियोनिजा // mmk_18.92 //
निर्दिष्टा राशयः सर्वे नानाधातुसमुद्भवाः / असङ्ख्येया मुनिभिः प्रोक्ता राशयो बहुधा परे // mmk_18.93 //
तेषां गतिचिह्नानि सत्त्वयोनिसमाश्रयम् / कथितं कथयिष्ये ऽह अनन्तां नक्षत्रा ग्रहाम् / क्षेत्रा च बहुधा प्रोक्ता नानाग्रहनिषेविता // mmk_18.94 //
इति /
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् षोडशपटलविसराद् द्वितीयो ग्रहनक्षत्रलक्षणक्षेत्रज्योतिषज्ञानपरिवर्त पटलविसरः / अथ एकोनविंशः पटलविसरः / अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म - अस्ति मञ्जुश्रीः तृतीयमपि ज्योतिषज्ञाननियमपरिवर्तं भाषिष्ये पूर्वकैः सम्यक् सम्बुद्धैर्भाषितं चाभ्यनुमोदितं च त्वदीयमन्त्रतन्त्रार्थकल्पितम् / शृणु साधु च सुष्ठु च मनसि कुरु //
एवमुक्ते भगवता शाक्यमुनिना मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवां, तेनाञ्जलिं प्रगृह्य, भगवन्तमेतदवोचत् / तत् साधु भगवां भाषतु ज्योतिषज्ञानपटलविसरम् / तद् भविष्यति सत्त्वानामर्थाय हिताय सुखाय / देवमनुष्याणां सर्वमन्त्रचर्यानुप्रविष्टानां च सत्त्वानामनुत्तरायां सम्यक् सम्बोधो, अभिप्रस्थितानां च, उपायकौशल्यमन्त्रचर्या सुखेन साधयिष्यन्ति / सर्वसत्त्वानुकूलं योगविधानकर्मानुकूलं कालनियमनिष्यन्दितकर्मस्वकतां नक्षत्रवारग्रहयोनिक्षेत्रराशिसमोदयाम् / तद् भविष्यति सुखसाधनोपायं मन्त्रानुवर्तनं सुखविपाकं तद् भविष्यति ते बोधिसत्त्वानां विष्पन्दितविकुर्वण ऋद्ध्यधिष्ठानम् //
एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवां मञ्जुश्रियं कुमारभूतमेतदवोचत् / साधु साधु मञ्जुश्रीः! यस्तथागतमेतमर्थं परिपृच्छसे / तेन हि शृणु साधु च सुष्ठु च मनसि कुरु / भाषिष्ये सर्वसत्त्वानामर्थाय / एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य, निषण्णो धर्मश्रवणाय //
अथ भगवां सर्वावन्तं शुद्धावासभवनमाभया स्फुरित्वा, सर्वबुद्धावलोकनद्योतनीं नाम समाधिं समापद्यते स्म / समनन्तरसमापन्नस्य भगवतः कायान्नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म / निर्गत्य च सत्त्वानां बुद्धक्षेत्रां अवभास्य, सर्वाणि च ग्रहनक्षत्रयोनिं समाश्रयराशितारां भवनान्यवभास्य, गगनतलगतां नरकतिर्यक्प्रेतदेवभवनमनुष्यसर्वसत्त्वभवनानि चावभास्य सर्वदुःखानि च प्रतिप्रस्रभ्य सर्वसत्त्वानां पुनरेव भगवतः शाक्यमुनेः कार्ये ऽन्तर्द्धीयते स्म //
अथ भगवान् शाक्यमुनिस्तस्मात् समाधेर्व्युत्थाय सर्वां तां नक्षत्रग्रहराशिदेवसङ्घानामन्त्रयते स्म / शृण्वन्तु भवन्तः सर्वनक्षत्रदेवसङ्घाः यो ह्यस्मिन् धर्मविनये मन्त्रचर्यायां समनुप्रविष्ट इह कल्पविसरे तत् साधयेत् सर्वमन्त्राणां सर्वद्रव्यकर्मविधानादिषु, न भवद्भिस्तत्र विघ्नं कर्तव्यं सर्वैरेव सन्निपतितैः रक्षाविधानसान्निध्यं कथयितव्यम् / यो ह्येनं समयमतिक्रमेत्, तस्य यमान्तकः क्रोधराजा सर्वनक्षत्रग्रहाणां तत्क्षणादेवमपर्यन्तलोकधातुस्थितानां ससुतानां सबान्धवां सपार्षदानानयति स्म, सर्वेषां च मूर्धनि स्थित्वा पादेनाक्रम्य विविधानि क्रूरकर्मऋद्धिप्रातिहार्याणि दर्शयति स्म, बुद्धाधिष्ठानेन प्राणैर्वियोजयति स्म, समये च स्थापयति स्म, विकृतरूपमात्मानं दर्शयति स्म, अन्ते सर्वभूतयक्षराक्षसनक्षत्रग्रहराशयो निसत्त्वगरुडमरुतमहोरगगणा (वैद्य 139) सर्वैर्भीतास्त्रस्ताः, थरथरायमानाः, महाविक्रोशं कुर्वाणः भगवतः पादयोर्निपत्य प्रकम्प्यमाना एवमाहुः - परित्रायस्व भगवन् परित्रायस्व / सुगत अनाथाः स्म, अत्राणाः स्म, महाक्रोधराज भयभीता जीवितं नो भगवान् समनुप्रयच्छास्माकम् / इत्येवमुक्त्वा तूष्णीम्भूताः प्रवेपमानगात्राः //
अथ भगवान् शाक्यमुनिः / तां नक्षत्रग्रहसङ्घातांश्च यक्षराक्षसप्रेतपिशाचमातरगणानामन्त्रयते स्म / मा भैष्टथ मार्षाः भो भैष्टथ मार्षाः नास्ति अथागतानामन्तिक उपसङ्क्रान्तानां भयं वा मरणं वा / सर्वदुःखा निवार्यो हि मार्षाः बुद्धं शरणं गच्छेद्, विपदानामग्र्यं धर्मं शरणं गच्छेद्, विरागाणामग्र्यं सङ्घं शरणं गच्छेद्, गणानामग्र्यं न तस्य भवति लोमहर्षम् / वाञ्छन्ति तत्त्वो वाकः पुनर्वादो मृत्युभयं सर्वभयदुःखेभ्यो मुक्त एव द्रष्टव्यः / सर्वसांसारिकं भयं न कदाचिद् विद्यते / दुःखोपशमं शान्तिं निज्वरं सन्नियतं बोधिपरायणं पदमवाप्नुयादिति //
अथ तत्क्षणादेव भगवता तेषां सर्वदुःखानि ऋद्ध्या प्रतिप्रमुग्धानीति यमान्तकश्च क्रोधराजा भगवतश्चरणयोर्निपत्य, मञ्जुश्रियस्य कुमारभूतस्य समीपे सन्निषण्णो धर्मश्रवणाय / सर्वे च ते ग्रहनक्षत्रगणाः सर्वदुःखानि च प्रतिप्रस्रभ्यन्ते स्म / सर्वश्च केतवो प्रशान्ता निषण्णाश्च धर्मश्रवणाय स्वस्थीभूता एकाग्रमनसो भगवन्तं व्यवलोकमाना विस्मयोत्फुल्लनयना + द्विल्पमनसश्च संवृत्ता अभूवं //
अथ भगवता लोकानुकम्पार्थं तथा तथा धर्मदेशना कृता चतुरार्यसत्यसम्प्रयुक्ता यथा यथा तैः सत्त्वैः कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं कृतम्, कैश्चित् प्रत्येकबोधः, कैश्चिदनुत्तरायां सम्यक् सम्बोधौ चित्तान्युत्पादितानि, सर्वं च नियताव्याकृतानुत्तरायां सम्यक् सम्बोधौ, सर्वैश्च पिथितान्यपापदुर्गतिविनिपातानि देवमनुष्योपपत्तौ द्वाराण्युत्पादितानि, स्वर्गार्गलमपावृतम् / सर्वे च समयमधितिष्ठन्ति //
अथ भगवान् शाक्यमुनिस्तेषामनुशयं ज्ञात्वा, विनयकालसमयमनन्तरमेव तेषां विनीतां सत्त्वां ज्ञात्वा, धर्मं भाषते स्म //
अरिदुःखसमाक्रान्तं दोषजं विनिधाश्रयम् / अभावो देवगणाः सर्वे पृज्यन्ते शासने इह // mmk_19.1 //
आरभध्वं परं वीर्यं बोधिसोपानहेतुकम् / प्राप्नुयादेव सङ्घाताः शान्तनिज्वरमालयम् // mmk_19.2 //
अशोकं विरजं क्षेमं निर्वाणं वापि नैष्ठिकम् / निर्मलं गगनतुल्याख्यं अभावं तु स्वभाविकम् // mmk_19.3 //
परं प्राप्स्यथानिन्दितं दिव्यं सुजुष्टमनावृतम् / अनित्यदुःखशून्यार्थमनात्मं तु समोदितम् / भावयन्तो दिवा सर्वं प्राप्स्यन्ते चैव नैष्ठिकमिति // mmk_19.4 //
मन्त्रतन्त्राभिधानेन चर्या चैव सुखोदया / कथिता जिनवरैः श्रेष्ठा मन्त्रसिद्धिरुदाहृता // mmk_19.5 //
उपायं सत्त्वानां अग्रे नियोगेनैव धीमतैः / कथिता मन्त्रसिद्धिस्तु फलकाले समोदये // mmk_19.6 //
विचित्रं कर्मणां जाति विचित्रेव योजिता / विचित्रा कर्मतः सिद्धिर्विचित्रं कर्मयोनिजम् // mmk_19.7 //
विचित्रा चित्ररूपेण मन्त्रैरेभिर्नियोजिता / विचित्रार्थाः कर्मविस्तरा विचित्रं कर्म उच्यते // mmk_19.8 //
कर्म चिन्त्या तथा चित्रं अचिन्त्यं चापि चिन्तितम् / तस्मात् प्रारम्भन्मन्त्री मन्त्रचित्रेषु पुष्कलाम् // mmk_19.9 //
राशयः कथिताश्चित्रा तेषु जाता नरा सदा / सदेवासुरमुख्यास्तु विविधा प्राणिविहङ्गमा // mmk_19.10 //
तेषां च यानि चिह्नानि तानि सिद्धिषु योजयेत् / मेषराशौ तथा जातः मनुजा वा दिवौकसा // mmk_19.11 //
बह्वपत्यो बहुभाष्यो सुरूपश्चापि जायते / वणिक् शीली तथा शूरः मनुजः स्त्रीषु वर्णितः // mmk_19.12 //
वक्रो लुब्धचित्तश्च भूपतिर्गृहसेविनः / तत्रस्थश्चन्द्रमा प्रोक्तः सर्वकर्मे प्रयोजयेत् // mmk_19.13 //
आदित्यो यदि दृश्येत मेपराशिसमाश्रितः / तत्र कर्म सदा सिद्धि क्रूरकर्मसुयोजिताम् // mmk_19.14 //
यानं गमनं चैव आसनं शयनं सदा / न भजेत् तन्त्रमन्त्रज्ञो विरुद्धा सर्वयोगिभिः / तत्र जातः सदा मर्त्यो मन्त्रं देयाभिचारुकम् // mmk_19.15 //
वृषराशौ तदा जातो मनुजो भोगवान्सदा / स्त्रीषु कान्तः सदा लुब्धः धर्माधर्मविचारकः // mmk_19.16 //
ग्राम्यसेवी सदाध्यक्षो देवराङ्गानि बोधताम् / तत्रस्थश्चन्द्रमा जातो धार्मिको ऽसौ सुरेश्वरः // mmk_19.17 //
भवेत् तस्य चित्तं वै राज्यमाश्रयता सदा / तस्य मन्त्रा सदा देया चैत्या जिनभाषितः // mmk_19.18 //
तेन चन्द्रार्थयुक्तेनराश्रयो ऽर्थनिबोधिताः / गमनागमनं कर्म स्मश्रुकर्म च युक्तिमाम् // mmk_19.19 //
आचरेद् ग्रहकर्माणि न कुर्याद्याभिचारुकम् / सर्वकर्मसमुद्योगं मन्त्रसिद्धिसुखोदयम् // mmk_19.20 //
आलिखेन्मण्डलादीनां बुद्धबिम्बांश्च कारयेत् / सिद्धद्रव्यसुराश्रेष्टा साध्यमाना दिवौकसा / सिध्यन्ते मन्त्रिभिर्युक्ता नक्षत्रेष्वेव रिसिषु // mmk_19.21 //
मिथुनायां यदा जातो मानुषो ऽथ दिवौकसः / तेषां च गतिचिह्नानि सिद्धिकालं निबोधताम् // mmk_19.22 //
आढ्यो उद्युक्तचित्तश्च शठो मूर्खो ऽथ जायते / तत्रस्थो यदि विख्यातः नक्षत्रा निशि भूषणम् // mmk_19.23 //
ततः कान्तो कवेन्मर्त्यो बन्धूनां वल्लभः सदा / धनाढ्यो युक्तिमन्तश्च महेशाख्यो ऽथ जायते // mmk_19.24 //
शेषै ग्रहैः क्रूरैस्तु विविधैश्चापि कुत्सितैः / जायते धूर्त्तरागार्त्तः व्याधिभिश्च समाकुलः // mmk_19.25 //
नेदद्युस्तस्य मन्त्रा वै शान्तिकं पौष्टिकं परम् / क्षुद्रां कश्मलांश्चैव क्रव्यादां पिशिताशिनाम् / क्रूरै ग्रहमुख्यैस्तु दर्शनाश्च भवेत् सदा // mmk_19.26 //
एतेषां मन्त्रसिध्यर्थं क्रूरकर्मेषु योजये / निषिअद्धं गमनं तत्र अग्रपञ्चविवर्जितम् // mmk_19.27 //
गमनागमनयोस्तत्र न सिद्धिः सर्वकर्मसु / क्षुद्रकर्म तथा तेषां दद्यः सर्वतो जाना // mmk_19.28 //
सिताख्यौ ग्रहमुख्यौ तौ पातकौ द्वे परे ऽपरौ / चतुर्था ग्रहमुख्यानां दर्शनं श्रेयसोद्भवम् // mmk_19.29 //
उभौ रक्तौ उभौ कृष्णौ दर्शनं क्रूरकर्मिणाम् / सितौ शुक्लेन्दुमुख्यौ तौ पीतकौ बुधबृहस्पतौ // mmk_19.30 //
अर्काङ्गारकश्चैव रक्तौ तौ दिशि भूमिजौ / षण्डो राहो तथा कृष्णौ विचित्रा शेषका ग्रहा // mmk_19.31 //
नानाग्रहगृहा प्रोक्ता विचित्रा धातुसुभूषिताः / विचित्राकृतयः केचिद् विचित्रप्रहरणोद्यता // mmk_19.32 //
नानाधातुगणाध्यक्षा नानाऋषिपुरातनै / शिष्यन्ते ग्रहाणां सर्वं अप्सराभिश्च किन्नरैः // mmk_19.33 //
गगनस्था वर्णतो याता गतियोनिविदिता / अन्तरीक्षचराः सर्वे नक्षत्रैः सहचारिणः // mmk_19.34 //
व्योम्नि धानसमायाता विचित्रा गतिचेष्टिता / महर्द्धिका प्रभावतः गत्या रूपवेषसमाश्रयात् // mmk_19.35 //
कथिता मुनिवरैः सर्वैः कर्मतत्त्वार्थयोजिताः / चतुर्थे ऽहनि संयुक्ताश्चतुःसत्त्वनियोजिताः // mmk_19.36 //
चत्वारो ग्रहवरा प्रोक्ता सितो पीतो ऽर्थसाधकाः / शेषाः क्रूरकर्मसु रक्तौ कृष्णौ च योजितौ // mmk_19.37 //
नाचरेत् सर्वकर्माणि शान्तिकानि विशेषतः / कृष्णरक्तौ ग्रहौ ह्येतौ तिथौ चापि चतुर्दशी // mmk_19.38 //
नाचरेत् सर्वकार्याणि क्षुद्रकर्माणि साधयेत् / मानुषे साधयेदर्थी गणनामे शुभोदयाम् // mmk_19.39 //
तैरेव कारयेत् क्षिप्रं आसनं शयनं सदा / मन्दिरं च विशेद्धीमां सर्वदुर्गाणि कारयेत् // mmk_19.40 //
कर्कटराशिजातस्थो दृश्यते मनुजाः शुभः / शास्ता च भवेत् क्षिप्रं राजानश्चक्रवर्तिनः // mmk_19.41 //
भवन्ते जन्मिनो बोधो पूर्वकर्मसमुद्भवैः / शुक्रेन्द्रग्रहमुख्यानां दर्शनं चैव जायताम् // mmk_19.42 //
शुभे ऽहनि शुभे देशे बोधिसत्त्व अजायत / पुष्यनक्षत्रयोगेन जायन्ते मरुपूजिता // mmk_19.43 //
बुद्धास्त्रैलोक्यगुरवो ऽन्ये ऽपि महर्द्धिकाः / राज्यकर्त्ता निकृन्ता च बहुप्राणिनराधिपाः // mmk_19.44 //
जायन्ते विविधा लोके शन्यर्काङ्गारचिह्निताः / केचिज्जनभूयिष्ठा मर्त्या कर्मपरायणा // mmk_19.45 //
जायन्ते विविधाचारा पुष्ये जातापि ते सदा / तस्मात् कर्मफलं विद्धि गतिमात्मानचेष्टिता // mmk_19.46 //
केवलं तु सदाचारा ग्रहकर्मनियोजिता / लोकधर्मानपेक्षेह निर्दिशन्ति तथा जिनाः // mmk_19.47 //
कर्म लोकवैचित्र्यं लोकधातुसमाधिजम् / भाजनं सर्वलोकनामाश्रयोद्भवसम्भवम् // mmk_19.48 //
विचित्रं कथितं लोके सुराः श्रेष्ठां निबोधताम् / कर्मजं हि पुरा प्यासी कथयामास वत्सलः // mmk_19.49 //
सत्त्वसाधारणा धीमां बोधिसत्त्वो महर्द्धिकः / मञ्जुघोषस्तदा वव्रे सत्त्वानां हितकाम्यया // mmk_19.50 //
कर्मजं कथितं सर्वं मन्त्रतन्त्रसविस्तरम् / एषो वः सुराः सर्वे धर्मो ह्येकेन यः सदा // mmk_19.51 //
कर्कटो राशिजातस्य दद्यान्मन्त्रं तु पौष्टिकम् / ततः परेण सिंहस्य राशिर्दृश्यति मानवाम् // mmk_19.52 //
सिंहजातो भवेन्मर्त्य अशून् लुब्ध एव तु / स्त्रीशठो मांसभोजी स्याद् गिरिकन्दरवासिनः // mmk_19.53 //
सेनापत्य तथा नित्यं कारयेच्च वसुन्धराम् / महीपालो महाध्यक्षः क्रूरकर्मा सदा शुचिः // mmk_19.54 //
कृतघ्नः कृतमन्त्रश्च पापकर्मसदारतः / मित्रद्रोही सदा लुब्धः शठश्चैवमजायत // mmk_19.55 //
ग्रहैश्चापि सदा दृष्टा सितैः पीतैश्च धीमतैः / जायते धार्मिकस्तत्र कृष्णैश्चापि शठः स्मृतः // mmk_19.56 //
तत्र कर्म समुद्दिष्टं पौष्टिकं सिद्धिलिप्सिताम् / उत्तिष्ठं खेचरं चापि अतिमानसमोद्गतम् // mmk_19.57 //
नान्यं कर्म समुद्वेतं समानं चापि वर्जयेत् / ततः परेण सिंहस्य कन्यराशिरिति स्मृतः // mmk_19.58 //
तत्र जातो भवेद्धूर्तस्तस्करः कृपणः शठः / स्त्रीषु कान्तः सदा लुब्धः क्रूरः साहसिकः सदा // mmk_19.59 //
मूर्खः परदारी च स्तब्धो मानोन्नतः सदा / शुभनक्षत्रवारेण शुभदृष्टिग्रहोदितैः // mmk_19.60 //
पीतशुक्लैर्ग्रहैर्दृष्टा जायन्ते च महाधनाः / शुद्धमन्त्रः सदा धीमान् शुचिवृत्तिसमाश्रये // mmk_19.61 //
सम्भूता मन्त्रतन्त्राश्च साधयेत् महीतले / क्षिप्रमर्थकरा ये तु पुष्ट्यर्था ये तु कीर्तिता // mmk_19.62 //
साधयेन्मन्त्रवित् सर्वां जिनाङ्गीकुलयोरपि / जिनेन्द्रमुख्या ये मन्त्रा बहुधा चापि कीर्तिता // mmk_19.63 //
साधयेन्मन्त्रवित् सर्वां राश्यर्थेष्वेव जातिषु / ततः परेण भवेद् राशिः तुलानामनि कीर्तिता // mmk_19.64 //
प्रसिद्धां कर्मभूयिष्ठां तन्नासेवेत् तदाश्रिताम् / तुलायां जायते धीमान्मन्त्रसिद्धिषु योजितः // mmk_19.65 //
न कारयेत् साधनां सर्वां उत्तिष्ठं भूनिबन्धनाम् / सर्वमन्त्रप्रसिद्ध्यर्थं गतियोनिषु आचरेत् // mmk_19.66 //
धूर्तः कृपणो लुब्धः मत्सरी चैव जायते / तुलायां राशिजातस्थो दृश्यते च सदा रतः // mmk_19.67 //
तं कुर्यात् सदा मन्त्री तस्मिं राशौ समासृतः / यं न चाचक्षते लोके भूमिरर्थार्थसम्पदाम् // mmk_19.68 //
ग्रहमुख्ये तदा जातो पीतैः शुक्लैश्च सर्वतः / न भजेन्मन्त्रसिद्धिं च यत्नरक्षार्थसम्पदे // mmk_19.69 //
क्षणमात्रे तथा सर्वं साध्यन्तं नियोजितैः / शुभैर्ग्रहैर्यदा दृष्टः पीतैः शुक्लैश्च सर्वतः // mmk_19.70 //
महात्मा जायते शूरः धार्मिको ऽथ नराधिपः / क्रूरतरैर्ग्रहैर्दृष्टः शन्यर्काङ्गारसिंहजैः // mmk_19.71(="80") //
तुलाया जातराश्यर्थः मत्सरो भवते पुमां / बहुरोगो दरिद्रश्च व्याधिरोगार्तसमुद्भवम् // mmk_19.72(="81") //
प्रचण्डः सर्वकर्मेषु क्रूरः साहसिकः सदा / न भजेच्छान्तिकर्माणि जिनतत्त्वाङ्गभाषितम् // mmk_19.73(="82") //
रौद्रं कुरुते कर्मां वज्रिणे समुदयोदिताम् / आभिचारुककर्माणि नानायुद्धकृतानि तु // mmk_19.74(="83") //
तस्मिं राशौ सदा तत्र कुले तत्र समुद्भवे / कुत्सिता जिनवरैः कर्म सिद्धिमायाति तत्र तु // mmk_19.75(="84") //
प्रधानगुणविस्तारं प्रभावं चापि वर्जयेत् / प्रवासगमनं चैव नाचरेद्दिशि माशुजम् // mmk_19.76(="85") //
मन्दरं वाहनं चापि सत्त्वधातुकृताकृतम् / नाचरेत् सर्वकर्माणि तस्मिं राशौ दिवाकरे // mmk_19.77(="86") //
वृश्चिकात्तु समुत्पादे सत्त्वयोनि समाश्रयेत् / भवते लिङ्गवैचित्र्यं कथ्यमानं निबोधताम् // mmk_19.78(="87") //
तीव्रः साहसिकः क्रूरो दुर्धर्षो मानदर्पितः / वक्रो लुब्धस्तथा मर्त्यो जायते वसुधातले // mmk_19.79(="88") //
प्राज्ञो धार्मिको विद्वान् वक्रश्चैव दुरासदः / स्त्रीषु कान्तो भवेन्मर्त्यः कृतज्ञो दृढपराक्रमः // mmk_19.80(="89") //
तन्त्रमन्त्रसदोद्युक्तः सेवायां गुरुपूजकः / दर्शनं ग्रहमुख्यानां शुक्रचन्द्रबुधो गुरुः // mmk_19.81(="90") //
प्रशस्तं श्रेयसं लक्ष्यं आयुरारोग्यवर्द्धनम् / तेषां दर्शनसिद्ध्यर्थं मन्त्रिणामूर्ध्वसाधने // mmk_19.82(="91") //
शन्यर्काङ्गारकौ राहुः पश्यति तं नरं यदा / क्रूरः साहसिको वक्रो जायते रौद्रकर्मकृत् // mmk_19.83(="92") //
तेषां च वज्रिणे मन्त्राः सिद्ध्यन्ते क्रूरकर्मिणाम् / नागच्छेत् सर्वतो मर्त्यो दिनेष्वेव सुकुत्सितैः // mmk_19.84(="93") //
ततः परेण धन्वाख्यं राशिमुक्तं तथागतैः / जायन्ते बहुधा मर्त्या गतिदेशसमाश्रयात् // mmk_19.85(="94") //
अन्ते च शोभनाः सर्वे बाल्या दुःखभागिनः / यथाविभागनिर्देशा आयुषः परिकीर्तिताः // mmk_19.86(="95") //
तथा धनार्थनिष्पत्तिं वाचिष्ये अर्थसम्पदाम् / स्वयोनिं नाशयेन्नित्यं परयोनिं विवर्द्धयेत् // mmk_19.87(="96") //
वहपत्यो बहुभाष्य बहुरागरतिप्रियः / असंयतो भवेन्मर्त्यः धनूराशिसमाश्रयात् // mmk_19.88(="97") //
प्रभुः श्रीमां सदा दक्षो धार्मिको वापि जायते / दर्शनं यदि मुख्यानां ग्रहाणां सितपीतकाम् // mmk_19.89(="98") //
तेषामाचरेन्मन्त्रा नानाप्रहरणोद्भवाम् / नानाशस्त्रफला वापि वस्त्रभूषणवाहना // mmk_19.90(="99") //
नानाधातुकृतांश्चैव नानाधातुफलोद्भवाम् / सिद्ध्यन्ते तस्य मन्त्रं वै मुनिजुष्टाङ्गसम्भवा // mmk_19.91(="100") //
ततः परेण कर्माणि सर्वद्रव्यैस्तु कारयेत् / प्रसवेत् सर्वतो मन्त्री गतिदेशनिरत्ययाम् // mmk_19.92(="101") //
स्वालयं वाहनम् चापि स्वसुतां च निवेशनम् / भुषजं सर्वमिष्टं तु महार्थं चोर्ध्वगामिनम् // mmk_19.93(="102") //
सिद्धये तस्य मुक्तात्मा क्षिप्रमेव करे स्थिता / ततः परेण राश्यायां मकरस्थो दृश्यते सम // mmk_19.94(="103") //
तेषु जातः सदा मर्त्यः लिङ्गैरेतैर्हि लक्षयेत् / मातृभक्तो पितृभक्तश्च ख्यातो बहुमतः प्रभुः // mmk_19.95(="104") //
दुःसहः सर्वदुःखानामाढ्यो ऽपि धनसञ्चकः / कृपणो लुब्धचित्तश्च शठश्चैवमजायत // mmk_19.96(="105") //
शुक्रेन्द्रग्रहदृष्टानां सर्वसम्पत्ति जायते / कृष्णरक्तग्रहा ये तु क्रूरकर्मा तु पूर्ववत् // mmk_19.97(="106") //
नागच्छेत् तत्र मन्त्रज्ञः विदिशां चैव सर्वतः / दुष्टां साधयेत् कर्मां अनिष्टं चैव वर्जयेत् // mmk_19.98(="107") //
वमनगमनं चैव उत्तरां दिशिमाश्रयेत् / महासमुद्रार्थगतां द्रव्यां नौयानमाविशेत् // mmk_19.99(="108") //
प्राप्नुयात् सम्पदां तत्र निम्नमाध्यक्षदेशजम् / ततः परेण कुम्भेति मकरात् समुदितात् परः // mmk_19.100(="109") //
कुम्भराशिसमाख्येया सत्त्वजाताश्रया सदा / बहुधा बहुलिङ्गास्तु कथिता ते नरोत्तमैः // mmk_19.101(="110") //
विचित्रा चित्ररूपास्तु वर्णजातिसमाश्रयात् / श्यामवर्णो विशालाक्षो जायन्ते बहुमता नराः // mmk_19.102(="111") //
मैथुनाशक्तवस्ते तु ग्राम्यधर्मार्थचिन्तकाः / कृतज्ञा धार्मिका प्रोक्ता मन्त्रजाः कुम्भराशयः // mmk_19.103(="112") //
शुक्लपीता ग्रहा दृष्टा लोके ऽस्मिन् सम्प्रपूजिताः / कृष्णरक्ता ग्रहा ये तु दृष्टजातिसमोदया // mmk_19.104(="113") //
व्यङ्गा कृपणयो मूर्खा चपलाः तस्करावहा / बहुरोगा दरिद्राश्च जायन्ते मानवा सदा // mmk_19.105(="114") //
तेषां न कारयेत् कर्म उत्तमं मुनिपूजितम् / अङ्गार्थसम्भवा येन दद्युः सर्वकर्मसु // mmk_19.106(="115") //
न गच्छेत् प्राप्य तीरान्तं अतो नैवापि वर्णितम् / कुर्यात् वज्रकुले कर्म मन्त्रसिद्धिलिलिप्सया // mmk_19.107(="116") //
क्रूरं क्रूरकर्मान्तं स्फट् हुङ्कारभूषितम् / मन्त्रं साधयेच्चात्र क्रोधराजसुयोजितम् / सिद्ध्यन्ते पापकर्मास्तु रौद्रकर्मासु योजिता // mmk_19.108(="117") //
ततः परेण मीनेति राशिरुक्ता तथागतैः / तत्रस्था मानवाः सर्वे दृश्यन्ते बहुलिङ्गिनः // mmk_19.109(="118") //
मीनराशिसमाजाता रूपाण्येतानि समुद्भवैः / प्रभुर्मानधीः श्रीमां भोगसम्पच्छतान्वितः / प्रभवः सर्वलोकानां जायते ऽसौ महीतले // mmk_19.110(="119") //
क्षिप्रमर्थकरो धीमां नराधिपो ऽथ अजायत / शुक्रेन्दुदर्शनाज्जातः भवेल्लोके नरोत्तमः // mmk_19.111(="120") //
दर्शनाद् बुधजीवानां धनाढ्यो ऽथमजायत / प्रांशुमूर्त्तिर्विशालाक्षः स्त्रीषु कान्तो भवेत् सदा // mmk_19.112(="121") //
बह्वमित्रो नराध्यक्षः कुटिलश्चैवमजायत / बहुमित्रो ऽथ शुक्रश्च जायते मित्रवत्सलः // mmk_19.113(="122") //
ततः परेण क्रूरो वै ग्रहमुख्यो दिवाकरः / पश्यते यद्यसौ मर्त्यान् शनिराहुसु भूमिजा // mmk_19.114(="123") //
तदा कष्टमिति ध्वजः क्रूरश्चैव जायते / पूर्ववत् कथिता ह्येते ग्रहाः कृष्णान्तशुक्लयोः // mmk_19.115(="124") //
कुर्यात् सर्वकर्माणि मीनराशिसमाश्रयाः / तत्रस्थश्चन्द्रमां पश्येत् सर्वांश्चैव साधयेत् // mmk_19.116(="125") //
अतः परेण राशीनां गजमानुषमानुषाम् / गन्धर्वा राक्षसा गरुडाश्चापि पन्नगाः // mmk_19.117(="126") //
तेषां स्वरूपतो जातिगतिदेशमचिह्नितः / मना उद्भवस्तेषां लिङ्गैरेवैस्तु लक्षयेत् // mmk_19.118(="127") //
यथा सत्त्वप्रकृतिश्च तथा लिङ्गं विभाष्यते / स्वमन्त्रा भाषिता ह्येतैः तेषां चैव नियोजयेत् // mmk_19.119(="128") //
राशयः कथिता लोके द्वादशैव गणोद्भवाः / गणिता ग्रहमुख्यैस्तु नक्षत्रैस्तु नियोजिताः // mmk_19.120(="129") //
संक्षेपात् कथिता ह्येते कथ्यमानातिविस्तरा / मानुषाणां तदा चक्रे नक्षत्रे ग्रहमण्डलैः // mmk_19.121(="130") //
अत ऊर्ध्वं तु देवानां ऋषीणां च महर्द्धिकम् / ज्ञानं प्रवर्त्तते तत्र एतन्मानुषचेष्टितम् // mmk_19.122(="131") //
अचिन्त्या बुद्धधर्माणां ज्ञानदृष्टि नरोत्तमाम् / साधयेत् सर्वमन्त्रज्ञः राशिजातौ समुद्भवा // mmk_19.123(="132") //
+ रनक्षत्रां तिथयो नित्यं शुक्लपक्षे समाचरेत् / सिद्धिस्तेषु सदा प्रोक्ता कृष्णे कृष्णकर्मिणाम् // mmk_19.124(="133") //
ग्रहैः सितैः पीतैः दिनैश्चैव समाचरेत् / शुक्लपूर्णगता चन्द्रे पौर्णमास्येषु योजयेत् // mmk_19.125(="134") //
प्रतिपच्छुक्लपक्षे तु तृतीये चैव रोचयेत् / पञ्चमी सप्तमी चैव दशम्येकादशोद्भवाम् // mmk_19.126(="135") //
त्रयोदश्यां तथा शुक्ले सर्वकर्माणि आचरेत् / पुष्ट्यर्थं शान्तियोगं च गमनागमनं शुभाशुभम् // mmk_19.127(="136") //
आलोख्या मन्त्रतन्त्रस्थं नृत्यगीतरतिः सदा / भूषणं यानमावासं क्षुरकर्मं च धीमता // mmk_19.128(="137") //
प्रयोक्ताः सर्वतो विद्वां मर्त्यैश्चापि श्रीमतैः / भोगसम्पत्सदासिद्धिरिष्टसत्त्वसमागमम् // mmk_19.129(="138") //
निर्दिष्टं मुनिमुख्यैस्तु अन्य अन्यकर्माणि अन्यतः / धनार्थिभिः श्रीमतैः क्षिप्रं कुर्यान्मन्त्रार्थसाधनम् // mmk_19.130(="139") //
+ + + + + + + + + चन्द्रशुक्रगुरुर्बुधैः / वारैर्ग्रहवरैर्दिव्यैः सुपूजितैः शुचिमङ्गलैः // mmk_19.131(="140") //
तिथियुक्तैः समासेन निर्दिष्टैश्चापि भावयेत् / घोरैर्घोररूपैस्तु ग्रहैर्मन्त्रैस्तिथिभिः सदा // mmk_19.132(="141") //
आचरेद् रौद्रकर्माणि कृष्णे कृष्णकर्मिणाम् / गतिदेशसमासं च युक्तिमन्त्रार्थसाधने // mmk_19.133(="142//
ग्रहा") राश्यर्थनक्षत्रा तिथयश्च समोदिता / कर्मसिद्धिप्रभावं च नियमं सर्वकर्मसु // mmk_19.134(="143") //
इति /
बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् सप्तदशमः पटलविसरात् तृतीयो ज्योतिषज्ञानपटलविसरः परिसमाप्त इति / अथ विंशः पटलविसरः / अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीस्त्वदीयकल्पविसरे सर्वभयोत्पादनिमित्तनिर्घातगतानि आश्चर्यनिमित्तलिङ्गानि कथयन्ति शुभाशुभं सुभिक्षदुर्भिक्षपरराष्ट्रगमनं अनावृष्टिमतिवृष्टिं सत्त्वानां सूचयन्ति महासाधनादिषु यो विघ्नं कारयन्ति ततो साधकेन च मन्तव्यं साध्यासाध्यानि च तस्मिं देशे कर्तव्यमकर्तव्येति ज्ञातव्यम् / ततो यदि न शोभनानि निमित्तानि भवन्ति तस्माद् देशादपक्रम्य अन्यत्र गत्वा साधयितव्यानि / अथ चेच्छोभनानि निमित्तानि भवन्ति / तस्मिन्नेव देशे साधयितव्यानि / तत्रैव च स्थातव्यम् / एवं ज्ञात्वा साधकेन मन्त्रचर्याभियुक्तेन कर्तव्यमकर्तव्यमिति मन्त्रचर्यायां निमित्तानि ज्ञात्वा शुभाशुभं बोद्धव्यमिति //
अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः पादयोर्निपत्य पुनरप्येवमाह - तत् साधु भगवां देशयतु निमित्तज्ञानपरिवर्तविसरम् / तद् भविष्यति सर्वसत्त्वानां हिताय सुखाय सर्वमन्त्रचर्याभियुक्तानां बोधिसत्त्वानां महासत्त्वानां शुभाशुभफलोदयनिमित्तलिङ्गानि / यस्ते सर्वसत्त्वा मन्त्रचर्यानुप्रविष्टा साध्यासाध्यं कालनिमित्तं ज्ञात्वा स्थातव्यं, प्रक्रमितव्यमिति पश्यन्ते //
एवमुक्ते भगवां शाक्यमुनिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / तेन हि मञ्जुश्रीः शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये ऽहं ते //
आदौ तावद् भवेल्लिङ्गमुत्पातानां समोदयम् / महद् भयमनादिस्थममानुषाणां तु चेष्टितम् // mmk_20.1 //
सर्वे च ग्रहनक्षत्राः कूष्माण्डा ग्रहराक्षसाः / मातरा देवताश्चैव सर्वे प्रेता महर्द्धिकाः // mmk_20.2 //
दर्शयन्ति तदा लिङ्गं महोत्पातानां च सम्भवे / आदिमन्तं ततो मध्यं अशुभं चैव ते तदा // mmk_20.3 //
भूमिस्थितिर्नाशकं च कथयन्ति विविधाश्रयात् / सर्वमानुषसत्त्वेषु भूतले ऽस्मिन्निबोधताम् // mmk_20.4 //
कबन्धा विविधाश्चापि पक्षिणश्च समाकुलाः / दृश्यन्ते सर्वतो लोके तस्माद् देशादपक्रमेत् // mmk_20.5 //
रात्रौ शक्रायुधं दृष्ट्वा धनुश्चापि विशेषतः / शरनाराचपाशाश्च विविधा प्रहरणोद्भवाः / दृश्यन्ते गगनाद् रात्रौ तस्माद् देशादपक्रमेत् // mmk_20.6 //
चन्द्रबिम्बे यदाकाशे दृश्यन्ते विकृतरूपिणः / कबन्धा पुत्तलाश्चैव नृत्यन्ता गगनालये / सुषिरं छिद्रमित्याहुर्दृश्यते शशिमण्डले // mmk_20.7 //
पुरुषा उच्चनीचाश्च युध्यन्तां शशिमण्डले / दृश्येयुर्मानुषे लोके तस्माद् देशादपक्रमेत् // mmk_20.8 //
विविधा प्राणहराश्चापि नानाभूतगणास्तथा / नृत्यमानाश्च युध्येयुस्तस्माद् देशादपक्रमेत् // mmk_20.9 //
मण्डलाकारंसङ्काशं दृश्यस्थः शशिमण्डलम् / तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.10 //
युद्ध्यन्तां सर्वसङ्ख्यांश्च दृश्यन्ते शशिमण्डले / एकस्तत्र पतेत् क्षिप्रं यस्य यो दिशिमाश्रितः / तं देवदिशिमित्याहुः भूपतिर्मृयते ध्रूवम् // mmk_20.11 //
तादृशं दृष्ट्वा सत्त्वाख्यं विविधाकारसम्भवम् / अचिरात् तत्र भयात् क्षिप्रं तस्माद् देशादपक्रमेत् // mmk_20.12 //
शरनाराचशक्तिश्च दृष्ट्वा तत्र निशाकरे / तस्करोपद्रवं क्षिप्रं शस्त्रसम्पातजं भयम् // mmk_20.13 //
दृष्ट्वा विकृतरूपास्तु नानासत्त्वसमाश्रयाम् / रात्रौ भूतले चन्द्रे तस्माद् देशादपक्रमेत् // mmk_20.14 //
कृष्णवर्णा विहङ्गास्तु शुक्ला चैव सपीतलाः / रक्ताश्चैव तथा धूम्राः स्वभावविकृताश्रया // mmk_20.15 //
ते वै विवर्णवर्णास्तु दृश्यन्ते भूतले यदा / तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.16 //
शुक्ला पक्षा भवेत् कृष्णा कृष्णा पक्षा तथा सिता / दृश्यन्ते विकृतरूपास्तु विहङ्गाश्चैव महीतले / तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.17 //
मृगक्रोष्टुकगणाः सर्वे प्रविशेयुर्ग्राममालयम् / श्वापदा व्यालिनो धूर्ता म्लेच्छोपद्रवतस्कराः // mmk_20.18 //
भवेयुर्भयकृतं तेषां दुर्भिक्षं वापि वर्णितम् / विविधा भूतगणाश्चापि दृश्यन्ते तु महीतले // mmk_20.19 //
विकृताविकृतरूपिण्यः यक्षराक्षसकिन्नराः / दिवा रात्रौ तथा नित्यं नृत्यन्ते च महीतले / तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.20 //
नरनारीकुमारांश्च क्रन्देयुर्भृशं भूतले / रात्रौ दिवा तथा नित्यं व्याधिस्तत्र मिहागमः // mmk_20.21 //
उरगा विकृतबीभत्सा दृश्यन्ते वसुधातले / गृहे रथ्ये तथा भिन्ध्या मन्दिरे वृक्षसन्निधौ / सर्वतो व्याप्य तिष्ठन्ते भवेत् तत्र महाभयेम् // mmk_20.22 //
महामार्योपसर्गं च विषविस्फोटमूर्च्छनम् / दुर्भिक्षं राष्ट्रभङ्गं च भवेत् तत्र जनागमे // mmk_20.23 //
विकृताविकृतबीभत्सा पक्षिणश्वानक्रोष्टुका / ऊर्ध्वतुण्डा यदाकाशे रवन्ते विकृतानना // mmk_20.24 //
अर्धरात्रौ तु मध्याह्ने उभे मर्त्ये च कुत्सिता / भवेन्महाभयं क्षिप्रं परचक्रसमागमम् // mmk_20.25 //
दुर्भिक्षमतिवृष्टिश्च भवेत् तत्र समासतः / मासमेकेन सप्ताहान्महादुःखोपपीडिताः // mmk_20.26 //
अन्योन्यं भूतले वासा मानुषा तस्कराग्निना / महाशस्त्रभयं तत्र तस्माद् देशादपक्रमेत् // mmk_20.27 //
गगनस्था सर्वतो मेघा दृश्यन्ते च वक्रसम्भवा / स्फुटाकाराथ रौद्राश्च तीव्रगर्जननादिनः // mmk_20.28 //
सप्तस्फुटा द्विश्चतुर्वा च दृश्यन्ते उरगाश्रयाः / सुघोरा घोरवक्राश्च दृश्यन्ते गगनाश्रया // mmk_20.29 //
तादृशं लक्षणं दृष्ट्वा अचिअरात् तत्र महाभयम् / महामार्योपद्रवं च ज्वरो व्याधिः रोगाश्चैव महाभयाः // mmk_20.30 //
सद्यः प्राणहराः क्षिप्रं विषाः स्थावरजङ्गमाः / उत्सृजन्ति तदा मेघां तदा वृष्टिं च दारुणम् // mmk_20.31 //
नश्यते भूतयस्तत्र अन्योन्या निरपेक्षिणः / तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.32 //
महाप्रपातदुर्भिक्षमुल्कापातां समन्ततः / धूमकेतोश्च निर्घातां दिशादाहां कथयिष्यामि ते // mmk_20.33 //
शृणु प्रपातं दृश्यस्थं उल्किनां चैव जायते / रात्रौ दिवा समन्ता वै उल्कापातो भवेद् यदि / महाभयमनारोग्यं ज्ञात्वा मन्त्री व्रजेत् ततः // mmk_20.34 //
महोल्काज्वलमानाया दिशं गच्छेत् वै सदा / तादृशं नृपतीनां भङ्गः यतो वक्त्रं ततो भयम् // mmk_20.35 //
विदिशां पतते उल्कां समन्ताद्वै निशि सर्वदा / तत्र देशे महाव्याधिः दुर्भिक्षनृपघातनम् // mmk_20.36 //
दिवारात्रौ यदा उल्का पतते वै समन्ततः / तादृशं च भवेन्मृत्युर्नृपतीनां च मन्त्रिणाम् / तं बुद्ध्वा मन्त्रजापी स्याद् ज्ञात्वा तस्माद्देशादपक्रमेत् // mmk_20.37 //
उल्किनः प्रपते युद्धाद् यतो पुच्छस्ततो भयम् / अन्या वा दृश्यते भङ्गो नृपतीनां रणसङ्कटे // mmk_20.38 //
महाक्षोभं तदा चक्रे महोल्का ग्रहचिह्निते / समन्तात् पतते क्षिप्रं तस्माद् देशादपक्रमेत् // mmk_20.39 //
यादृशं उल्कमावेश्य आश्रयात् पतते सदा / तां दिशं व्याधिदुर्भिक्षं राष्ट्रभङ्गं च जायते // mmk_20.40 //
गमनागमनयोर्मृत्युस्तारकाणां तदाश्रयात् / यो ऽयं नक्षत्रजातस्थः तस्य मृत्युभयं भवेत् // mmk_20.41 //
द्विरात्रान्नश्यते जन्तुर्नक्षत्रा पतते भुवि / नराधिपानां च सर्वेषामेष एव विधिर्भवेत् // mmk_20.42 //
यो ऽयं पश्यते देवः इष्टं + ष्वेदमाकुलम् / रात्रौ दर्शने ऽवश्यं प्रतिमायां दिवा तदा / तस्य मृत्युभयं विद्यान्मासैः षट्भिस्तदा स्मृतः // mmk_20.43 //
प्रतिमा चलिता यस्य देवतेष्टस्य जन्तुनः / हसते रुदते चैव तं देशं वर्जयेत् सदा // mmk_20.44 //
प्रतिमा पतते चैव विशीर्यते वा स्वकात्मना / तस्य भङ्गं भवेत् क्षिप्रं गृहाश्चैव नराधिपे / कुर्वन्ति विविधाकारां लिङ्गां विविधरूपिणाम् // mmk_20.45 //
प्रतिमा यदि दृश्यस्था देवायतनमन्दिरे / तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.46 //
समन्तात् सर्वतो मन्त्री पश्येयुः प्रतिमां सदा / विकृतरूपबीभत्सां नानाविकृतमाश्रिताम् // mmk_20.47 //
स्वयं वा पश्यते मन्त्री अन्यैर्वा भुवि / तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत् // mmk_20.48 //
अर्घरात्रे तथा यामे तृतीये ऽर्धे यदि दृश्यते / तारकाणां महावृष्टिं तस्माद् देशादपक्रमेत् // mmk_20.49 //
चतुर्थभागे तथा रात्रौ तारका क्षिप्रगामिनः / खद्योत इव गच्छन्ति तं देशं सर्वतो न भजेत् // mmk_20.50 //
बसुधातलेन गच्छन्ति तस्मिं देशे ततो व्रजेत् / यत्र संशयते वृष्टि यत्र गच्छन्ति तारकाः // mmk_20.51 //
तं देशं मा विशेत् क्षिप्रं यत्र वृष्टि महद् भयम् / तं देशं नश्यते क्षिप्रं परचक्रसमागमम् // mmk_20.52 //
दुर्भिक्षं शस्त्रसम्पातं तं विद्यात् देशमाकुलम् / चोरोरगव्यालानां म्लेच्छधूर्तसमागमम् // mmk_20.53 //
तं देशं नराधिपां नित्यं प्रवसेत् सर्वतो दिशम् / विलुप्तराज्यो विभ्रष्टपरचक्रसमाश्रितः // mmk_20.54 //
वर्षा अष्ट एकं च तं देशं तत्र लेभिरे पुनः / प्राप्नुयात् तदा राज्यं देशादागमनं पुनः // mmk_20.55 //
ज्ञात्वा दुपक्रमात् सर्वां विक्रियां क्रिययोजिताम् / क्रियाकालं समासेन तं जापी आरभेत् सदा // mmk_20.56 //
उल्कापात महान्तो वै दृश्यते यदि मिश्रितम् / समन्तान्नित्यकालं च तस्माद् देशादपक्रमेत् // mmk_20.57 //
उल्किनो बहुधाकारा दृश्यन्ते विविधाश्रया / विचित्रा चित्ररूपिण्यः यक्षिण्यश्च महर्द्धिकाः // mmk_20.58 //
ज्वलन्तां वक्त्रदेशाभ्यां क्रव्यादांश्च पिशाचिकाः / तस्मात् परीक्षयेदुल्कां लिङ्गैरेभिः समोदिताम् // mmk_20.59 //
अतिदीर्घ तथा ह्रस्वो मध्याश्चैव प्रकीर्तिता / चतुर्हस्ता द्विहस्ता वा हस्तमात्रप्रमाणतः // mmk_20.60 //
दृश्यन्ते भूतले मर्त्यैराश्रयन्ते महोदया / महाप्राणा स्वरूपाश्च देवतैषा महर्द्धिका // mmk_20.61 //
विचित्राकाररूपास्तु हूतास्ते च दिवौकसाम् / देवासुरे ऽय सङ्ग्रामे वर्तमाने महद्भये // mmk_20.62 //
शक्रमाज्ञामिह क्षिप्रं गच्छन्ते ऽथ भूतले / जम्बूद्वीपगतां मर्त्यां नराश्यक्षां नराधिपाम् // mmk_20.63 //
पश्यन्ते सर्वलोकांश्च धर्माधर्मविचारकाम् / मातृज्ञा पितृभक्ताश्च कुले ज्येष्ठापचायका // mmk_20.64 //
महामन्त्रधरा सर्वे जापिनो यद्यजाम्बूद्वीपगता नराः / तदा देवा महोत्सवापि जायन्ते तदा दैत्यां कुर्वन्ते च पराभवम् // mmk_20.65 //
धर्मिष्ठा भूलते मर्त्या जाम्बूद्वीपनिवासिनः / महोत्साहं तदा काले तृदशाध्यक्षो ऽथ वासवः // mmk_20.66 //
तदा भग्नवतोत्साहा असुरा भिन्नमानसा / अभिमानं लभेतां येन पाताले तेन ताः // mmk_20.67 //
प्रविशन्ते स्वपुरं तत्र भिन्नमाना कृतव्यथाः / महाप्रमोदं तदा देवा लेभिरे तृदशेश्वराः // mmk_20.68 //
तदा जम्बूद्वीपे ऽथ सर्वत्र सुभिक्षमारोग्यते जनाः / स्वस्था च सर्वतो जग्मुः नरनारी गतव्यथा // mmk_20.69 //
तस्मात् सर्वप्रकारेण बुद्धेः भक्तिः कृथे जनाः / धर्मसङ्घे च भूयिष्ठे गतद्वन्द्वे निरामये // mmk_20.70 //
पूजां कुरुथ मर्त्यातो लालिलिप्सः सर्वसम्पदाम् / मन्त्रचर्यां तदा चक्रे वव्रे वाचां शुभोदया // mmk_20.71 //
दशकर्म यथालोकां सम्प्रतिष्ठा निरोपगाम् / कुरुध्वं जनसम्पातां त्रिधा शुद्धेन मानसाः // mmk_20.72 //
विरतिः प्राणिवधे नित्यं अदत्तं वापि नाचरेत् / न भजेदङ्गनादन्यां अगम्यापरिवर्जिताम् / जपेत् // mmk_20.73 //
सन्तुष्टिः स्वेन धर्मेण सङ्कुरुध्व जनसत्तमाः / मृषावादं न भाषेत विपाकं यद्यदुःखदम् // mmk_20.74 //
नाभाषेत् कर्कशां वाणीं सर्वसत्त्वार्थदुःखदाम् / यत्किञ्चित् क्लेशसंयुक्तां वाचादर्थविवर्जिताम् // mmk_20.75 //
शून्या धर्मार्थसंयुक्तामभिन्नां नाचरेत् सदा / पैशुन्यं वर्जयेन्नित्यं वचनं परभेदने // mmk_20.76 //
क्लिष्टचित्तस्य सर्वत्र निषिद्धं मुनिपुङ्गवैः / अभिध्यं नाचरेत् कर्म परसत्त्वोपकारिणः // mmk_20.77 //
यो यस्य सदा सृतं न कुर्याद् द्वेषसमुत्थितम् / व्यापादं वर्जयेत् कर्म सत्त्वद्वेषमनास्पदम् // mmk_20.78 //
उपघातं परसत्त्वस्य न कुर्यात् सर्वतो जनाः / मिथ्यादृष्टिं न कुर्यान्तां सर्वधर्मविनाशिनीम् // mmk_20.79 //
नास्ति दत्तं हुतं चैव न चेष्टमन्त्रसाधने / न सिध्यन्ते तथा मन्त्राः सर्वतन्त्रार्थकल्पिताः // mmk_20.80 //
न बुद्धानां सुखोत्पत्तिः न शान्तं निर्वाणमिष्यते / न चापि चर्या तथा बोधो प्रत्येकार्थसम्भवाम् // mmk_20.81 //
न चार्हत्वं भुवि लोके ऽस्मिं नापि धर्मेषु जायते / स्वभावैषा विविधा लोके अर्थादर्थतथातथा // mmk_20.82 //
एवमाद्यां अनेकांश्च विविधाकारचिह्निता / न तां भजेत् सदा मन्त्री पापदृष्टिसमुद्भवाम् // mmk_20.83 //
दशकर्म यथा प्रोक्ता विरत्या स्वर्गोपगा स्मृताः / भावना चैव फलं तेषां निर्वाणामर्थसम्भवाम् // mmk_20.84 //
अनिष्टा तु भवे लोके तदा सुराणां पराजयम् / दैत्यानां वर्धते मानः अतिदर्पार्थसम्भवाम् // mmk_20.85 //
जनालये तदा सर्वं जम्बूद्वीपनिवासिनः / बाध्यन्ते व्याधिभिः क्षिप्रं अन्योन्यां ते ऽपि मूर्छिता // mmk_20.86 //
जनाध्यक्षास्तदा सर्वे अन्योन्यापराधिनः / क्षिप्रं नश्यन्ति ते सर्वे मुनिधर्मार्थवर्जिताः // mmk_20.87 //
समरे क्रुद्धचित्तानां शस्त्रसम्पातमृत्यवः / न ते भेजे देवमुख्यानां तर्जन्यापद्यनालये // mmk_20.88 //
बुद्धं धर्म तथा सङ्घं न पूजेदशुभा नृपा / न मन्त्रां जप्तु ते क्षिप्रं ते नृपा तस्थुरे सदा // mmk_20.89 //
विनश्यन्ते तदा लोका विविधायासमूर्छिताः / ततस्ते दैत्यवराः क्षिप्रं सुसंरब्धा रुरोह तम् // mmk_20.90 //
सुमेरुपर्वतमूर्धानमाविशन्ते जनसत्तमाः / परिषण्डो तदा मेरो विभजेन्मन्दिरा शुभौ // mmk_20.91 //
समन्ताद्वनविध्वस्तं दिवौकसां कारयन्ति ते / विविधा रथवरै रूढा नानाभरणभूषिता // mmk_20.92 //
नानाप्रहरणा दद्युः पुरः श्रेष्ठां पराजयाम् / ततस्ते खरं भेजे अप्सराणां भज जग्रहे // mmk_20.93 //
ईश्वराः प्रभवः सर्वे असुरास्ते वलदर्पिताः / जग्राह सुरकन्यां वै सुधा चैव च भोजनम् // mmk_20.94 //
ततस्ते सुरवराः श्रेष्ठाः प्रविष्टाः नगरोत्तमम् / मेरुमूर्ध्नि ततो गत्वा नगरं दर्शनाश्रयम् // mmk_20.95 //
शक्रानुयाता सर्वे वै पिशिता द्वारपुरोत्तमे / न तु माया पुरी भीतिः उपजग्मु मुदाश्रयम् // mmk_20.96 //
निवर्त्य तत्र वै सर्वे स्वालयं जग्मु ते सुरा / यदेका मन्त्रसिद्धिस्तु निवशेर्जन्युमाश्रयम् // mmk_20.97 //
जप्तमन्त्रो ऽपि वा मर्त्यः निवसं तत्र आलये / तत्र देशे न चार्तीनि न दुर्भिक्षं न शत्रवः // mmk_20.98 //
न रोगा नापि भयं विद्याज्जप्तमन्त्रे स्थिते भुवि / न चास्या दस्यवः सर्वे शक्नुवन्तीह हिंसितुम् // mmk_20.99 //
न चार्तिमृत्यवस्तत्र अमर्यादा प्रवर्तते / न रुजा व्याधिसम्मूर्छा ज्वररोगापहारिणः // mmk_20.100 //
बिभ्यन्ते भूतले तस्मिं जप्तमन्त्रो यदाश्रयः / ये ऽत्र मन्त्रवरा ह्युक्ता जिनेन्द्रकुल + द्भवा // mmk_20.101 //
अब्जाके तु तथा मन्त्रा मन्त्रिणं मन्त्रपूजिताः / तत्र मन्त्रवरां मन्त्री जह्नुजोपमहर्द्धिकाम् // mmk_20.102 //
तदा ते सुरवरा श्रेष्ठा असुराणां तु पराजयः / एवमुक्ता गुणा ह्यत्र दृश्यते भूतले कदा // mmk_20.103 //
तार्किका विविधाकारा कथयन्तीह महीतले / ग्रहमेषो इति श्र्त्या अवतारार्थविस्तरा // mmk_20.104 //
गीतं ऋषिवरैर्ज्ञानमुल्किनां ग्रहचिह्निताम् / निर्दिष्टं तत्र निर्देशः निघातस्य प्रवक्ष्यते // mmk_20.105 //
उल्कापाते यदां लोका निर्घातो भुवि मण्डले / प्रद्युन्नागर्जना कस्माच्छ्रूयते च महीतले // mmk_20.106 //
भृशं चुचुक्षुत्र तद्देशं तिथिरेभि समायुतैः / अतुल्यशब्दनिर्घोष रौद्रां वापि तमाह्वयाम् // mmk_20.107 //
श्रूयते गर्ज च क्षिप्रं महामेघवचः श्रूयते / षष्ठ्यचमथमष्टम्यां त्रयोदश्यामथ श्रूयते // mmk_20.108 //
कृष्णपक्षे तथा नित्यं द्वादश्यां तु चतुर्दशी / नक्षत्रैरेभि संयुक्ता वारैश्चापि ग्रहोत्तमैः // mmk_20.109 //
अश्विन्यां कृत्तिकानां च भरण्यां यातं निबोधताम् / पूर्वभद्रपदे चैव आर्द्रामघाश्लेषसंयुक्ते // mmk_20.110 //
+ + + + + + + + + ग्रहैश्चापि सुपूजिते / शन्यर्काङ्गारकैः क्रूरैः भूम्या निपतते यदा // mmk_20.111 //
अवर्षोदकर्मा क्रूरं शब्दो निघात उच्यते / महद् भयं तत्र देशे वै दुर्भिक्षं राष्ट्रमर्दनम् // mmk_20.112 //
परचक्रभयं विद्यान्नानाव्याधिमहद्भयम् / निर्घातं पतते चोर्व्यां नक्षत्रैरेभि कीर्तितैः // mmk_20.113 //
वारैरशुभैश्चापि ग्रहैः कृष्णरक्तकैः / तत्र देशे नृपो भृशं हन्यते शस्त्रिभिः सदा // mmk_20.114 //
तस्मिं काले रौद्रे च कर्माणि तत्र देशे तदा जपेत् / विविधा व्याधयस्तत्र अर्थनाशश्च दृश्यते // mmk_20.115 //
मृत्युस्तत्र भवेद् व्याधिर्दुर्भिक्षैश्चापि निन्दितैः / अनावृष्टि सदाकाले द्वादशाब्दानि निर्दिशेत् // mmk_20.116 //
पश्चिमां दिशमाश्रित्य प्रपते भूतले नभात् / निर्घातं मृत्युसङ्कीर्णं दृश्यते मृत्युतस्करैः // mmk_20.117 //
मध्याह्ने तु तदा काले युवाप्यस्तमिते ऽपि वा / उदयन्तं भास्करं रक्ते सुशब्दैः श्रावकैरेवम् // mmk_20.118 //
त्रिःसन्ध्यात् कुत्सितः शब्दः शेषकाले तु तुष्टये / अर्धरात्रे यदा शब्दः निर्घातस्य महद् भयम् // mmk_20.119 //
गुप्तां पुरवरां तत्र कारयन्तु नृपोत्तमा / नानाम्लेच्छगणा धूर्ता तस्कराधिष्ठितापि ते // mmk_20.120 //
परद्रव्योपकारार्थं कुर्वन्तीह महीतले / शेषकाले भवेच्छब्दः निर्घातस्य सुपुष्कलम् // mmk_20.121 //
मन्त्रिमुख्यो भवेत् तत्र बहुव्याधिसमाकुलम् / बहुव्याधितत्वं च नृपास्तस्य विधीयते // mmk_20.122 //
पत्नी वा हन्यते तस्य मन्त्रिमुख्यस्य हन्यतः / सर्वे सौल्किकास्तत्र नानाजातिसमाश्रिताः // mmk_20.123 //
हन्यन्ते मृत्युना ते ऽपि तथा जीवकसेवका / प्रकृष्टा वणिजा मुख्या नियुक्ता सर्वतो नृपाः // mmk_20.124 //
मध्याह्नपरिमित्याहुः ऋषिभूतो रवे तदा / निर्घातमतुले शब्दं यदा शुश्रावते जनाः // mmk_20.125 //
व्याधिभिर्व्यस्तसर्वत्र भवतीह महीतले / अन्यथा तुमुलं शब्दो यदि शुश्राव मानवा // mmk_20.126 //
अकस्मात् सर्वतो नित्यं नृपस्तत्र न जीवते / दक्षिणां दिशमाशृत्य निर्घातो पततेच्छुभः // mmk_20.127 //
विद्युच्चोर्ध्वं तथा वृष्टिरचिरात् तं विनिर्दिशेत् / पूर्वायां दिशिमाश्रित्य शुश्रुवः यदि नादिते // mmk_20.128 //
निर्घातस्य भवेत् तत्र प्राच्याध्यक्षो विनश्यति / हिमाद्रिकुक्षिसन्निविष्टा जनास्तत्र निवासिनः // mmk_20.129 //
शुश्राव शब्दं महाभैरवे ग्रहे चिह्निते / तस्मिं देशे जनाध्यक्षो विनश्यन्ते म्लेच्छतस्कराः // mmk_20.130 //
वत्से वत्साश्च ये मुख्या नेपालाधिपतिस्तदा / हन्यन्ते शत्रुभिः क्षिप्रं नानाद्वीपनिवासिनः // mmk_20.131 //
विदिक्षु भैरवंं नादे ऊर्ध्वमुत्तरतो भवेत् / कामरूपेश्वरो हन्या गौडाध्यक्षेण सर्वदा // mmk_20.132 //
लौहित्यात् परतो ये वै जराध्यक्षाथ जीविना / कलशाह्वा चर्मरङ्गाश्च समोतद्याश्च वङ्गकाः // mmk_20.133 //
नृपांश्च विविधां हन्या सशब्दे भैरवा ग्रहे / पूर्वदक्षिणतो भागे यदि शब्दो महद् भयम् // mmk_20.134 //
कलिङ्गा कोसलाश्चैव सामुद्रा म्लेच्छवासिनः / हन्यन्ते शस्त्रिभिः क्रूरैः तदाध्यक्षाश्च नृपा चराः // mmk_20.135 //
पूर्वपश्चिमतो भागे यदा शब्दो महान् भवेत् / मेघगर्जनवत् क्रूरो दिवारात्रौ महाम्बुदे // mmk_20.136 //
तं निर्घातमिति वेद्मि देवसङ्घा निबोधताम् / शुभाशुभं तदा चक्रे मानुषाणां जनोत्तमाः // mmk_20.137 //
यदा शुभे च नक्षत्रे लग्ने चापि शुभोत्तमे / तिथिश्रेष्ठे सिते चापि शब्दो शुश्राव मेदिनीम् // mmk_20.138 //
शुभो सुभिक्षमारोग्यं सम्पत् क्रीडाय साधनम् / सिद्धमन्त्रस्तु जायेत् वरदा जापिनां सदा // mmk_20.139 //
तदा काले भवेत् सिद्धिः सर्वकर्मसु योजिता / क्रूरैर्ग्रहैश्चापि विद्यात् शुभैश्चापि फलोदया // mmk_20.140 //
कर्मसिद्धिर्भवेत् तत्र सर्वकर्मसु योजिता / निर्घाता बहुधा प्रोक्ता क्ष्मातले ऽस्मिन निबोधता // mmk_20.141 //
केचित् प्राणहराः सद्यः केचित् सत्यफलोदया / सर्वार्थसाधना केचिच्छब्दा गम्भीरनादिनः // mmk_20.142 //
तं च शब्दं श्रुयात् क्षिप्रं देवसङ्घा निबोधताम् / धीरो गम्भीरयुक्तश्च स्तनितं चापि गर्जिते // mmk_20.143 //
दीर्घदुन्दुभयो यद्वत् तच्छब्दसम्मुखावहम् / स शब्दो भैरवः क्रूरो यथानिर्दिष्टकारकः // mmk_20.144 //
उल्कापातसमे काले भूमिकम्पान्न जायते / शब्दं क्रूरनिर्घोषं निर्दिशं चापि योजयेत् // mmk_20.145 //
महद् भयं तदा विद्यात् सर्वनिर्देशभामिमाम् / सत्त्वाघातं ततो विद्यात् दुर्भिक्षं व्याधिसम्भवम् // mmk_20.146 //
अमानुषं च तदा चक्रे मायोपद्रवादिकम् / भूपालां तदा मृत्युर्दिवसैस्त्रिंशविंशतिः / यथोद्दिष्टकराः सर्वे शब्दा रौद्रनिनादिते // mmk_20.147 //
भूमिकम्पं तु निर्दिक्ष्ये कथ्यमानं निबोधत / नक्षत्रेष्वेव कम्पा ये + + + + + + + + + + + + + // mmk_20.148 //
तिथिभिः सर्वत्र योज्यं स्यान्नक्षत्रं चापि युक्तवाम् / निर्घाते यथा सर्वं कर्मेष्वेव योजयेत् // mmk_20.149 //
अश्विन्यां चलिता भूमिर्दुर्भिक्षं चापि निर्दिशेत् / भरण्यां कृत्तिकां चैव उभौ कम्पौ सुखौदयौ / रोहिण्यां मृगशिरः कम्पो जायते अर्थसम्पदः // mmk_20.150 //
आर्द्रः पुनर्वसुश्चैव नक्षत्रा परिचिह्नितौ / एषु कम्पेद् यथा पृथ्वी तत्र देशे महद्भयम् // mmk_20.151 //
मध्यदेशा विनश्यन्ते तद्देशाश्च नराधिपाः / पुष्ये यदि कम्प्येत मूर्वी भूतलवासिनीम् / तत्र देशे शिवं शान्तिं सुभिक्षमारोग्यं विनिर्दिशेत् // mmk_20.152 //
आश्लेषायां चलते क्षिप्रं कृत्स्ना चैव वसुन्धरा / तत्र देशे समाकीर्णं म्लेच्छतस्कररौद्रिभिः // mmk_20.153 //
मघासु चलिता भूमिः सर्वेष्वेव न सर्वतः / अङ्गदेशे विनश्यन्ते मागघो नृपतिस्तथा / मागधा जनपदाः सर्वे पीड्यन्ते व्याधितस्करैः // mmk_20.154 //
उभौ फल्गुननक्षत्रे क्ष्माकम्पो यदि जायते / हिमाद्रिकुक्षिसन्निविष्टा गङ्गामुत्तरतस्तदा // mmk_20.155 //
हन्यन्ते व्याधिभिः क्षिप्रं वृजिमैथिलवासिना / वैशाल्यामधिपाः सर्वे हन्यन्ते अर्तिभिस्तदा // mmk_20.156 //
विविधा म्लेच्छमुख्यास्तु हिमाद्रेः सानुसम्भवाः / निवस्ताः कुक्षिमध्ये वै नितम्बेष्वेव द्रोणयः / म्लेच्छाध्यक्षवरा मुख्या हन्यन्ते ऽस्त्रिभिः सदा // mmk_20.157 //
हस्तचित्रौ यदा भूमिश्चलते सन्ध्ययोर्यदा / म्लेच्छतस्करनराध्यक्षा हन्यन्ते शस्त्रिभिः सदा // mmk_20.158 //
स्वात्या विशाखयुक्त्या वै नक्षत्रेष्वेव योजिता / चलते मेदिनी कृत्स्ना दृश्यन्ते वणिजा परे // mmk_20.159 //
वणिजाध्यक्षवराः श्रेष्ठा मुख्याश्चैव शुक्लिनः / व्याधिभिः शस्त्रसम्पातैर्विनश्यन्ते जलचारिणः / अनुराधे ज्येष्ठविख्याते नक्षत्रेष्वेव सर्वदा // mmk_20.160 //
भ्रमते वसुमती कृत्स्ना नमते चापि दारुणम् / यदा उन्नतनिम्नस्था पर्वता निम्नगा वरा // mmk_20.161 //
क्ष्मातलं कम्पते क्रूरं उभे सङ्घ्ये तदा परे / भवेत् तत्र भयं क्षिप्रं दुर्भिक्षं चापि निन्दितम् // mmk_20.162 //
मरणं दिवसैः षड्भिर्महानृपस्य भवेत् तदा / नश्यन्ते पुरवरा क्षिप्रं मध्यदेशेषु ते जनाः // mmk_20.163 //
ईषच्च चलिता भूमिरनुराधायां शुभोदया / सस्यनिष्पत्ति सर्वत्र मध्या यदि जायते // mmk_20.164 //
मूलाषाढामिति ज्ञेयं नक्षत्रेष्वेव कम्पते / पूर्व उत्तराषाढे तृधा दुःखसमोदये // mmk_20.165 //
व्याधिदुर्भिक्ष सर्वत्र तस्करादिभि पीड्यते / मेदिनी सर्वतो ज्ञेया यदि कम्पो भवेद् दिवा // mmk_20.166 //
श्रवणासु चलिता भूमिर्धनिष्ठेष्वेव सर्वतः / सुभिक्षमायुरारोग्यं दुर्भिक्षैश्चापि वर्जिता // mmk_20.167 //
मेदिनी सस्यसम्पन्ना यदि कम्पो भवेन्निशम् / शतभिषे भद्रपदे चापि यदि कम्पेत मेदिनी // mmk_20.168 //
दुर्भिक्षं राष्ट्रभङ्गं वै दृश्यते तत्र आस्पदे / हन्यते तस्करे मर्त्या दुर्भिक्षं चापि कुत्सितम् // mmk_20.169 //
भवन्ति भूतले मर्त्या अर्धरात्रे निशि कम्पते / उत्तरासु च सर्वासु रेवत्यासु च कीर्त्तिता // mmk_20.170 //
उभौ नक्षत्रौ सर्वत्र रेवती भद्रपदस्तथा / एतेष्वेव हि सर्वत्र यदा कम्प अजायत // mmk_20.171 //
नक्षत्रेष्वेव पूर्वोक्तकम्पो दृष्टः सुखावहः / एते कम्पा समाख्याता निर्घाता वरचिह्निता // mmk_20.172 //
उल्कापातसमे काले त्रिदोषा जन्तुपीडना / निर्याते च यदा पूर्विं निर्दिष्टं विस्तरान्वितम् // mmk_20.173 //
गुहास्तत्रैव कर्तव्या सर्वं चैव दिशाह्वये / सरवः कम्पनिर्दिष्टः सालोकश्चापि सुखान्वितम् // mmk_20.174 //
सिद्धिकाले तदा सर्वे दृश्यन्ते मन्त्रजापिनाम् / योगिनां च तथा सिद्धि अभिक्षां तु सम्भवे // mmk_20.175 //
बोधिसत्त्वानां तथा जाते बुद्धबोधिं च प्राप्तये / प्रभावा ऋषिमुख्यानां ऋद्ध्या वर्जितचेतसाम् // mmk_20.176 //
सुरश्रेष्ठस्तदा काले आगमं चापि कीर्तयेत् / सालोका सरवा मूरी घोषनिःस्वनगर्जनम् / कम्पमुत्पद्यते क्षिप्रं एतेष्वेव च कारणैः // mmk_20.177 //
निःशब्दा च निरालोका यदा कम्पेत मेदिनी / नारकाणां तु सत्त्वानां चलितानां तु निर्दिशेत् / दुःखं बहुविधैः खिन्ना मया कायाति भीषणा // mmk_20.178 //
तेषां च कर्मजं दुःखं पश्यमावृत्ति दृश्यते / कथितां कर्मनिर्घोषां तं जनानृषिसत्तमा // mmk_20.179 //
निबोध्यमखिलं सर्वं धारयध्व सुखेच्छया / केतुना दृश्यते सर्वं गगनस्थं तु कीर्तयेत् // mmk_20.180 //
रात्रौ दिवा च कथ्येते दृश्यन्ते चोत्तरा नभे / मध्याह्नि सर्वत्र दृश्यते दीर्घतो ध्रुवा // mmk_20.181 //
धूम्रवर्णा महारश्मा धूमायन्तं महद् भयम् / यदेव देशमाशृत्य धूमयेत नभस्तलम् // mmk_20.182 //
तदेव देशे नृपो ह्यग्रो हन्यते व्याधिभिर्ध्रुवम् / यदेव ग्रहमाशृत्य वारं नक्षत्रमुज्ज्वला // mmk_20.183 //
दृश्यते धूम्ररेखायाः गगने चापि उज्ज्वलम् / तदेव राशिनक्षत्रं ग्रहं चैव सुलक्षयेत् // mmk_20.184 //
तदेव हन्यते जन्तुः शस्त्रिभिर्व्याधिभिस्तदा / यस्मात् तु दृश्यते रेखा धूम्रवर्णा महद्भया // mmk_20.185 //
तं देशं नाशयेत् क्षिप्रं ग्रहः क्रूरो न संशयः / स्निग्धा च नीलसङ्काशा धूम्ररेखामजायत // mmk_20.186 //
तच्छिवं शान्तिकं विद्यादायुरारोग्यवर्धनम् / रूक्षवर्णा विवर्णा वा धूम्रवर्णा तु निन्दिता // mmk_20.187 //
प्रशस्ता शुक्लसङ्काशा चतुरश्मिसमुद्भवा / सौम्या कीर्तिता नित्यं शुभवर्णफलप्रदा // mmk_20.188 //
कीर्तिता पुष्पलक्ष्मीकं तं विद्याद्यत्र मा तिथाः / हिमपुञ्जनिभा शुभ्रा स्निग्धस्फटिकसन्निभा // mmk_20.189 //
सोमसौम्य विज्ञेया रूक्षवर्णसमप्रभा / कल्याणं चार्थनिष्पत्तिं दुःखनिर्वाणते दृशम् // mmk_20.190 //
+ + + + + + + + + + + यस्मिन् देशे समोदिता / नक्षत्रे वापि युक्ते ऽग्रे तले तारकमण्डले // mmk_20.191 //
निर्गते नभसि विख्याते दृश्यते यं महीतले / सर्वा समन्तादायुरारोग्यं जाता ये तारकाश्रयाः // mmk_20.192 //
प्रभविष्णु भवेत् तत्र सुखी धर्मचरः प्रभुः / श्रेष्ठो जायते मर्त्यः तस्मैः नक्षत्रमाश्रयेत् // mmk_20.193 //
ग्रहे वा शुचिते प्रोक्ता सर्वदुःखनिवारणी / रेखा च दृश्यते यत्र तं विद्यात् सुखसमर्पितम् // mmk_20.194 //
प्रहृष्टरूपसम्पन्नस्निग्धाकारभूषितम् / रेखा नभस्तले याता धूमायन्ती महद्भया // mmk_20.195 //
ततो ऽन्यश्रेयसि युक्ता प्रशस्ता वापि नभस्तले / शिवं सुभिक्षमारोग्यं तं देशं विदुर्बुधाः // mmk_20.196 //
धार्मिकं तत्र भूयिष्ठं धूमकेतोरजायते / सिता स्फटिकसङ्काशा प्रभाः सञ्चेयु सर्वतः // mmk_20.197 //
एकशः श्रीमतो ख्याताः तारके ऽस्मिं नभस्तले / ततः स्फटिकसङ्काशा रश्म्या चापि मूर्तिजः // mmk_20.198 //
प्रभवः श्रीमतः ख्यातः तस्मिन् नक्षत्रमाश्रयेत् / केतवो बहुधा हुक्ता सहस्रौ द्वौ त्रयो ऽथ वा // mmk_20.199 //
त्रिंशमेकं च बहुधा नानाकर्मफलोदया / केचिच्छ्रेष्ठा तथा मध्या केचिद्धर्मपरान्मुखाः // mmk_20.200 //
उदयन्तं तदा केचिन्महद्भयसुदारुणा / स्निग्धाकारसमा ज्ञेया स्फटिकाकारसमप्रभा // mmk_20.201 //
स्निग्धा शोभना ज्ञेया स्फटिकाकारसमप्रभा / स्निग्धा शोभना ज्ञेया चारुवर्णाल्पभोगता // mmk_20.202 //
केचित् तिर्यगः क्रूरा उत्तरा दक्षिणा परा / श्रेयसा चैव भूतानां उदयन्ते शशिसमप्रभा // mmk_20.203 //
महाप्राणा विकृतास्तु अतिदीर्घा नृपनाशना / मध्ये उदिता ह्येते प्राच्यावस्थितरश्मिजाः // mmk_20.204 //
पूर्वपश्चिमतो याता पूर्वदेशाधिपतिं हनेत् / पूर्वपश्चिमतो याता पश्चाद् देशा नृपतिं हनेत् // mmk_20.205 //
समन्ताद् रश्मिजातायाः समन्ताद् दुर्भिक्षमादिशेत् / विदिक्षा ह्युदिता ह्येते म्लेच्छप्रत्यन्तगणधिका // mmk_20.206 //
निहनेत् सर्वतो याता तस्मिं स्थाने समादिशेत् / धूम्रवर्णा विवर्णास्तु रूक्षवर्णा महाभयाः // mmk_20.207 //
प्रभवः सर्वतो याता सर्वप्राणिषु आदिशेत् / दिवा सर्वतो नित्यं मध्याह्ने यदि दृश्यते यदा / महद् दुःखं महोत्पातं नृपतीनां तदा विशेत् // mmk_20.208 //
यत्र तिर्यग्गता रेखा यत्र स्थिते समोदिता / तत्रस्था नृपतिं हन्ति यस्मिं देशे समागता // mmk_20.209 //
दिवा विदिक्षु निर्दिष्टा महाव्याधिसमागमम् / तस्करोपद्रवां मृत्युं तस्मिं स्थाने समादिशेत् // mmk_20.210 //
नीलवर्णं यदाकाशे दिवा पश्येत केतवम् / विविधायासदुःखैस्तु विविधोपद्रवभूमिपा // mmk_20.211 //
समन्तात् कथिता ह्येते महादुःखभयानकाः / यातिरौद्रा विदाह्युक्ता रात्रौ केचित् शुभोदया // mmk_20.212 //
रक्तवर्णं यदा पश्येत् केतुश्चन्द्रसमाश्रितम् / रुधिराक्तां महीं क्षिप्रं शस्त्रसम्पातितं तदा // mmk_20.213 //
पृथिव्यां क्षिप्रमसृक्र + + रात्र्यवसुन्धराम् / बहुसत्त्वोपघाताय बहुदुःखनिराश्रयम् // mmk_20.214 //
जायन्ते जनपदास्तत्र यस्मिं स्थाने समादिशेत् / पीता च पीतनिर्भासा दृश्यते व्योम्नि मूर्तिना // mmk_20.215 //
हरिद्राकारसङ्काशा हरितालसमप्रभा / हेमवर्णा यदाकाशे केतवो उदयन्ति वै / तत्र विद्यान्महद् दुःखं सर्वसत्त्वेषु लक्षणम् // mmk_20.216 //
महामारिगताध्यक्षो जनास्वेव निबोधिता / द्वादशाब्दं तथा हन्ति अनावृष्ट्योपद्रवादिषु // mmk_20.217 //
अतिकृष्णा रौद्रमित्याहुरतिधूम्रास्तु वर्जिता / अतसीपुष्पसङ्काशा पावकोच्छिष्टवर्जिता // mmk_20.218 //
महामेघसमाकारा नीलकज्जलवर्णिता / वराहाकार तथा केचित् परपुष्टसमप्रभा / दृश्यन्ते गगना घोरा तस्माद् देशादपक्रमेत् // mmk_20.219 //
महाक्रूरा तथा रौद्रा दृश्यन्ते क्रूरकर्मिणः / महादुःखं महाघोरं मार्योपसृष्टिरेव वा / महादुर्भिक्षमित्याहुस्तस्मिं देशे भयानकम् // mmk_20.220 //
ओड्रपुष्पसमाकारं रक्तभास्करविद्विषम् / असृग्वर्णं यदा पश्येदुदितं केतुनभस्तलम् // mmk_20.221 //
सर्वत्र व्याधितद्वेगं बहुसत्त्वोपरोधिनम् / नृपतीनां तदा मृत्युस्तत्क्षणादेवमादिशेत् // mmk_20.222 //
अकस्मात् पश्यते यो हि नरो वा यदि वा स्त्रियः / तस्य मृत्यु समादिष्टं सप्ताहाभ्यन्तरेण तु // mmk_20.223 //
द्विरात्रैस्त्रिभिर्वापि दिवसैः शस्त्रिभिर्हन्यते / तदा दिवा वा यदि वा पश्येदकस्मान्निशिरेव वा // mmk_20.224 //
तस्य मृत्यु समादिष्टा तत्क्षणादेव भूतले / विषेण हन्यते जन्तुः शस्त्रिभिर्वा न संशयः // mmk_20.225 //
शुक्ला स्निग्धवर्णाश्च निशिरेव सुखोदया / अन्यथा दर्शनं नेष्टं विविधाकाररूपिणाम् // mmk_20.226 //
स्वकायपरकाये वा यदि केतुसमाश्रिता / रात्रौ चापि दिवा चापि सद्यः प्राणहराः स्मृता // mmk_20.227 //
शुक्लवर्णां यदा पश्ये शशिगोक्षीरसमप्रभाम् / हिमकुन्दसमाकारां नानारत्नसमप्रभाम् / तस्य राज्यं समाख्यातं सिद्धिर्वा मन्त्रजापिने // mmk_20.228 //
एते केतवो इष्टा शरीरे मन्दिरे ऽपि वा / स्वसैन्यपरसैन्ये वा यत्रस्थं तत्र फलप्रदम् / तमाहुः कीर्तितां श्रेष्ठां नानाचित्रसमप्रभाम् // mmk_20.229 //
दृश्यन्ते सर्वतो मर्त्यैः बह्वानर्थावहाः स्मृताः / सर्वतः कथिता मर्त्यैर्विग्रहे मन्दिरे ऽपि वा // mmk_20.230 //
केतवः सिद्धकायानां सर्वेष्टाः सफलाः स्मृताः / अन्यथा कुत्सिताः सर्वे बहुदुःखभयप्रदाः // mmk_20.231 //
सर्वे वै कथिता ह्येते केतवो ग्रहचिह्निताः / पूर्ववत् कथितं सर्वं तिथिनक्षत्रराशिजाः // mmk_20.232 //
विविधैर्वारयोगैस्तु ग्रहैश्चापि महर्द्धिकाः / पूर्ववत् सर्वमित्येषां कथिताः सर्वतः लोके // mmk_20.233 //
तदा सर्वे ते संज्ञिनो केचिच्चारुसमप्रभा / चित्रा क्वचित्ततः शुभ्रः स्निग्धो वर्णतः शुभः // mmk_20.234 //
सुनेत्रो नेत्रनामः शुशिकुन्दसमप्रभः / सुभ्रू सुनयनश्चैव रुग्मवर्णः सहेमजः // mmk_20.235 //
सर्वे सिता विचित्राश्च नानानामसमोदिताः / षड्वर्णानामपि तेषां केतूनां निबोधिता // mmk_20.236 //
नानावर्णरूपाणां तत्संज्ञाश्च प्रयोजयेत् / नानाविकृतिनो ये ऽपि घोराः सुदारुणाः // mmk_20.237 //
ये मया कथिता पूर्वं तत्संज्ञाश्च सर्वतः / एवमाद्याधिका प्रोक्ता केतवो बहुरूपिणः // mmk_20.238 //
मानुषाणां तदा चक्रे शुभाशुभफलोदयाः / विग्रहा ग्रहमुख्यानां दृश्यते च समन्ततः // mmk_20.239 //
देवासुरे च युद्धे वै दर्शयन्ति तदात्मनाम् / महाप्रभावा महेशाख्या दिव्या दिव्ययोनयः // mmk_20.240 //
सिताः शुभोदयाः सर्वे देवपर्षत्समाश्रिताः / विकृताविकृतरूपास्तु कुत्सिता विकृतवर्णिनः / सर्वे वै असुरपक्षे तु क्रूरकर्मान्तचारिणा // mmk_20.241 //
यदा देवासुरे युद्धे वर्तमाने महद्भये / असुराः पराजिता देवैः केतवः सूचयन्ति ते / दर्शने भू(त)ले मर्त्यं प्रदद्युः सर्वतो नभः // mmk_20.242 //
सिताः शुभफला नित्यमिष्टाश्चैव सुरप्रिया / दर्शयन्ति तदात्मानं देवपक्षसमाश्रिताः / मर्त्यानां तदा क्षिप्रं सुभिक्षमारोग्यविनिर्दिशेत् // mmk_20.243 //
असुरैर्निर्जिता देवा यदा काले भवन्ति वै / तदा विकृवर्णास्तु क्रूरकर्मनियोजिता / असुराणां तदा पक्षे केतव उदयन्ति वै // mmk_20.244 //
तदा सर्वतः क्रूरा वाता वायन्ति जन्तुनाम् / महावृष्टिमनावृष्टिनागाश्चैव क्रूरिणः // mmk_20.245 //
मुमोच विषजां तोयं बहुव्याधिसमाकुलम् / मानुषाणां तदा चक्रे विषविस्फोटमूर्च्छनम् // mmk_20.246 //
विविधा राक्षसा चैव दैत्ययक्षसमाश्रिता / कुर्वन्ति मानुषां हिंसामतिदारुणविघ्नकाम् // mmk_20.247 //
प्राणोपरोधिनं दुःखं कुर्वन्तीह महीतले / अश्मवृष्टिं तदाकाशे प्रपतेद् भूतले तदा // mmk_20.248 //
महावाताः प्रवायन्ति तस्मिं काले तु भीषणाः / प्रचण्डा वायवो वान्ति बहुसत्त्वापकारिणः // mmk_20.249 //
नानातिर्यगता प्राणा सस्यनाशं प्रचक्रिरे / बहुभूतगणाः क्रूरा कुर्वन्तीह च भूतले / मानुषाणां तदा विघ्नं चक्रिरे प्राणोपरोधिनाम् // mmk_20.250 //
एवंप्रकारा ह्यनेकाश्च बहुविघ्नसमाश्रया / नानातिर्यग्गताश्चैव चण्डाः श्वापदमौरगाः // mmk_20.251 //
विविधा नागयोनिस्था सत्त्वानामपकारका / प्राणोपरोधिनं कुर्वन्ति विविधा म्लेच्छतस्करा // mmk_20.252 //
कपिला भासतो वर्णा वाता क्रूराश्च अग्निजाः / वायन्ति विविधा लोके यदा देवपराजयेत् // mmk_20.253 //
अधर्मिष्ठा तदा मर्त्या जाम्बूद्वीपगता सदा / तदा ते देवपक्षास्तु हीयन्ते दैत्ययोनिभिः // mmk_20.254 //
यदा धर्मवतः सत्त्वा भूतले ऽस्मिं समागता / बुद्धधर्मरताः श्रेष्ठा सङ्घे चैव सदा वरा // mmk_20.255 //
मातृपितृभक्ताश्च सत्यसत्त्वा जपे रता / तदा ते सर्वतो देवा निर्जिजे दैत्ययोनिजम् // mmk_20.256 //
तदा सस्यफलसम्पन्ना बहुपूर्णा वसुन्धरा// दीर्घकालायुषो मर्त्या बहुसङ्ख्यपरायणा // mmk_20.257 // धार्मिका नृपतयः सर्वे सुखदाः सौख्यपरायणाः / तदा तासु सुखा दैत्या ह्लादिनो व्याधिनाशकाः / भवेयुः सर्वे ते लोके सुखकारणशीतलाः // mmk_20.258 //
नातिशीता न चोष्णा वै ऋतवः सुखदा सदा / नानापक्षिगणाश्चैव कूजयेन्मधुरं सदा // mmk_20.259 //
बहुपुष्पफलाढ्या तु तरवः सर्वतो शुभा / सर्वे व्याधिविनिर्मुक्ता जन्तवो भूनिवासिनः // mmk_20.260 //
न चोद्वेगं तदा चक्रे नृपतिर्धार्मिको भवेत् / बहुधान्यसुखाश्चैव नानारत्नथ मन्दिरम् // mmk_20.261 //
पश्यते सर्वयोन्यांस्तु जम्बूद्वीपगता नराः / फलाढ्या तरवो नित्यं बहुक्षीराश्च धेनवः // mmk_20.262 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
