Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
मारीचीनामधारणी
- Thông tin
- GRETIL — : Āryamārīcī-nāma-dhāraṇī, Dhīḥ 42 (2006), pp. 157-158. = Mādh.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
मारीचीनामधारणी
मारीचीनामधारणी
ओं नमो भगवत्यै आर्यमारीचीदेवतायै /
एवं मया श्रुतम् एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म / जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धत्रयोदशभिक्षुशतैः संबहुलैश् च महाश्रावकबोधिसत्वमहासत्वैः / तत्र खलु भगवान् भिक्षून् आमन्त्रयते स्म / अस्ति भिक्षवो मारीची नाम देवता सा सूर्यचन्द्रमासोः पुरतो ऽनूपगच्छति / सा न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति / यो ऽपि तस्य भिक्षवो मारीचीनामदेवताया नाम जानाति सो ऽपि न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति / सो ऽहं भिक्षवो मारीचीनामदेवताया नाम जानामि / अहम् अपि @अयम् अपि@@ न दृश्यते न बध्यते न निरुध्यते न विरुध्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति / इमानि मन्त्रपदानि भवन्ति / तद्यथा ः ओं पदाक्रमसि पराक्रमसि उदयमसि नैरमसि अर्कमसि मर्कमसि उर्मसि वनमसि गुल्ममसि चीवरमसि महाचीवरमसि अन्तर्धानमसि स्वाहा /
ओं मारीचीदेवता पथे मां गोपय / उत्पथे मां गोपय / पुरुषभयतो मां गोपय / राजभयतो मां गोपय / हस्तिभयतो मां गोपय / चौरभयतो मां गोपय / नागभयतो मां गोपय / सिंहभयतो मां गोपय / व्याघ्रभयतो मां गोपय / अश्वभयतो मां गोपय / (माध् 158) अग्निभयतो मां गोपय / उदकभयतो मां गोपय / सर्पभयतो मां गोपय / विषभयतो मां गोपय / सर्वप्रत्यर्थिकप्रत्यमित्रभयतो मां गोपय / आकुलेषु मां गोपय / अनाकुलेषु मां गोपय / मूर्च्छितेषु मां गोपय / अमूर्च्छितेषु मां गोपय / नागतो मे रक्ष / चण्डमृगतो मे रक्ष / रक्ष 2 मम सर्वसत्वानां च सर्वदुष्टप्रदुष्टेभ्यः / तद्यथा ः नमो रत्नत्रयाय ओं आलो तालो कालो सच्छलो सत्वमुद्रति रक्ष रक्ष मां सपरिवारस्य सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा /
नमो रत्नत्रयाय / नमो भगवत्यै आर्यमारीचीदेवतायै / तस्या हृदयम् आवर्तयिष्यामि / तद्यथा ः ओं वत्ताली वदाली वराली वराहमुखी / सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध / बन्ध मुखं जम्भय स्तम्भय मोहय स्वाहा / ओं मारीच्यै स्वाहा / ओं वराली वदाली वत्ताली वराहमुखी सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध जम्भय जम्भय स्तम्भय स्तम्भय मोहय मोहय भञ्जय भञ्जय तर्जय तर्जय ह्रीं ह्रीं हूं हूं फट्* स्वाहा / ओं मारीच्यै सर सर मुह्य मुह्य विमुह्य विमुह्य अपक्राम्य अपक्राम्य सर्वदुष्टसत्वान् पथे उत्पथे सर्वविध्नविनायका अपसरन्तु मा तिष्ठन्तु त्रिरत्नसत्येन स्वाहा / ओं चण्ड परमचण्ड स्वाहा / ओं अगलि पगलि पञ्चगलि सर्वदुष्टप्रदुष्टानां कायवाक्चित्तं मुखं चक्षुषि बन्ध बन्ध हूं हूं हूं फट्* फट्* फट्* स्वाहा /
इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति /
// आर्यमारीची नाम धारणी समाप्ता //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
