Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
महासंनिपातरत्नकेतुधारणीसूत्र, 1-6, 10-11
- Thông tin
- GRETIL — Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महासंनिपातरत्नकेतुधारणीसूत्र, 1-6, 10-11
महासन्निपातरत्नकेतुधारणी सूत्रं
स्तर्त् र्क्प् 1
प्रथमः परिवर्तः
नमस्तथागताय गन्धप्रभश्रिये / नमो महाब्रह्मघोषाय / एतेषां नमस्कर्तासंप्राप्तः मारव्यूहेन /
एषा धारणी उद्ग्रहणीया / मया अस्यां विद्यायां सिद्धिः प्राप्ता / अवामे अवामे अवामे / ओम् वरे ओम् वरे / परिकुञ्ज नट नट पुस्कर वहज लुख / खम खम / इलि मिलि / किलि मिलि / कीर्तिवर / मुद्रे मुद्रे मुखे स्वाहा / एवं मया श्रुतम् / एकस्मिन् समये भगवान् राजगृहे महानगरे विहरति व्याकलन्तकनिवापे सार्धं महता भिक्षुसंघेन सार्धं भिक्षुसहस्रैः सर्वैरर्हद्भिः क्षीणास्रवैर्निष्क्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैः महानागैः कृतकृत्यैः कृतकरणीयैः अपहृतभारैः अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरेकान्ते निषण्णैः सार्धं बोधिसत्त्वनियुतैः महता बोधिसत्त्वसंघेन तद्यथा मेरुशिखरधरकुमारभूतेन वरूणमतिकुमारभूतेन सुमतिकुमारभूतेन जिनमतिकुमारभूतेन रश्मिमतिकुमारभूतेन आकाशमतिकुमारभूतेन विद्युन्मतिकुमारभूतेन मञ्जुश्रिया कुमारभूतेन शाक्यकुमारभूतेन वरूणकुमारभूतेन विमलकुमारभूतेन मैत्रेयेण बोधिसत्त्वेन महासत्त्वेन / ते सर्वे बोधिसत्त्वनियुताः क्षान्तिधारण-समाधि-प्रतिलब्धाः सर्वधर्मानावरणज्ञाः सर्वसत्त्वसमचित्ताः सर्वमारविषयसमतिक्रान्ताः सर्वतथागतविषयावतारज्ञानकुशला महामैत्री महाकरुणासमन्वागता उपायज्ञानकुशलाः /
तस्मिन् समये राजगृहे महानगरे द्वौ प्राज्ञौ परिव्राजकौ प्रतिवसतः मेधाविनौ अष्टादशविद्यास्थानपारंगतौ पञ्चशतपरिवारौ / तत्र एक उपतिष्य अपरश्च कोलितः / एतौ द्वौ गणमुखयौ परिव्राजकौ परस्परं संस्थापनं कृतवन्तौ / यदावयोश्चैकः प्रथमममृतमधिगच्छेत् तदपरस्यारोचयितव्यम् /
अथ खलु आयुष्मानश्वजित् पूर्वाण्हकालसमे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविशत् / अद्राक्षीदुपतिष्यः परिव्राजको गोचराय प्रस्थितमायुष्मन्तमश्वजितं राजगृहे महानगरे पिण्डाय चरन्तरम् / दृष्ट्वास्यैतदभवत् / न मे कस्यचित् पूर्वं श्रमणस्य वा ब्राह्मणस्य वान्येषां वा केषांचिन् मनुष्यभूतानामयमेवंरूपः प्रासादिकः ईर्याप[थः]यथास्य भिक्षोर्यत्त्वहमेतमुपसंक्रम्य परिपृच्छेयम् / कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते /
अथोपतिष्यः येनायुष्मानश्वजित् तेनोपसंक्रामदुपसंक्रम्याभ्युपेत्यायुष्मताश्वजिता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंसृत्य [कान्ते न्यषीदत् / एकान्ते निषण्ण उपतिष्यः] परिव्राजक आयुष्मन्तश्वजितमेतदवोचत् / कस्ते आयुष्मन् शास्ता कं बोद्दिश्य प्रव्रजितः कस्य वा धर्मो रोचते / अथायुष्मानश्वजि[दुपतिष्यं परिव्राज]कमेतदवोचत् /
शाक्य[स्या]स्ति सुतो महाव्रततपाः सर्वोत्तमो ऽस्मिन् वशी संसारार्णवपारगो ऽपि जगतो मुक्तस्तथा मोचकः / बुद्धो नाम [विबुद्धो ऽनुत्तर इह दुः]खार्णवोच्छोषकः तं यातः शरणं सदाहममलो धर्मस्ततो रोचते // rkp_1.1 //
उपतिष्य आह / किंवादी तव शास्ता किमाख्यायी / (dutt 3) आयुष्मानश्व[जिदाह / तस्मात् आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये /
कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः / यस्मिन् जन्म-जरा-विपत्तिनियतं दुःखं न सन्तिष्ठते तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते // rkp_1.2 //
अथोपतिष्यस्य परिव्राजकस्येमं धर्मपर्यायं श्रुत्वा विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धम् / स स्रोतआपत्तिफलं प्राप्तस्तस्यां वेलायामिमा गाथा अभाषत /
..... ..... ..... जन्मसरितां संशोषणी सर्वदा यद् बुद्धेन् सुदुर्लभं श्रुत मया धर्मामृतं देशितम् / यद्दुःखव्युपशान्तये च जगतः प्रज्ञाविभावातुलो ..... ..... ..... मार्गो ह्ययं निष्ठितः // rkp_1.3 //
अथोपतिष्यः परिव्राजकः आयुष्मन्तमश्वजितमेतदवोचत् / कुत्रायुष्मा[न विह]रत्यर्हन् सम्यक् संबुद्धः / आयुष्मानश्वजिदाह / (dutt 4) इहैवायुष्मन् भगवान् राजगृहे विहरति स्म वेणुवने कलन्दकनि [वापे महाभिक्षुसंघे]न सार्धं यदुत जटिलसहस्रेण प्रव्रजितेन / उपतिष्य आह / एषो ऽहं सखायं सशिष्यवर्गमवलोक्य प्रव्रजिष्यामि /
अथोपतिष्यः परिव्राजकः आयुष्मतो ऽश्वजितः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणं कृत्वा प्राक्रामत् / य[त्र कोलितः] तेनोपजगाम / अद्राक्षीत् कोलितः परिव्राजकः उपतिष्यं परिव्राजकं दूरत एवागच्छन्तम् / दृष्ट्वा च पुनः उपतिष्यं परि[व्राजकमाह] / विप्रसन्नानि ते आयुष्मन्निन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातश्छविवर्णः / आह / अमृतं ते आयुष्मन्नधिगतम् / उपतिष्य [आह / आयुष्म]न्नधिगतममृतमिति / आयुष्मन् शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं ते यन्मयाधिगतम् /
अथ कोलितः परि[व्राजक ए]कांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनोपतिष्यः परिव्राजकस्तेनाञ्जलिं प्रणम्यै[तदवोचत्] /
येनोत्तरेयं त्रिभवात् जलौघोत् स्कन्धान्महारींश्च [विनाशयेयम् / वद मार्गमेकं शिव शोकहीनं यमत्र जानेयं ह्यपुनर्भवाय] // rkp_1.4 //
अथोपति[ष्यः आ]ह /
कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः / यस्मिन् जन्म[जराविपत्तिनियतं दुःखं न सन्तिष्ठते तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते // rkp_1.5 //
कोलितो ऽप्याह /
दुःखस्य प्रशमाय शान्त .... .... [सर्वक्लेशकषाय]दृष्टिदोषशमनं चाज्ञानसंच्छेदकम् / तुच्छं संस्कृतमात्रं रिक्तकमतः शून्यं विसंवादकं भूयो ब्रूहि पदं हि येन विमलं श्रुत्वा [शमं लप्स्यते] // rkp_1.6 //
उपतिष्य आह /
कर्मक्लेश-सहेतुकारणवती लोकप्रवृत्तिर्यथा कर्मक्लेशनिवृत्तिकारणमपि प्रोवाच तं नायकः / यस्मिन् जन्मजराविपत्तिनियतं दुःखं न सन्तिष्ठते / तं मोक्षप्रवरं स वादिवृषभो ज्ञात्वा स्वयं भाषते // rkp_1.7 //
अथ तत्रैव कोलितेन परिव्राजकेन विरजोविगतमलं विगतोपक्लेशं धर्मेषु धर्मचक्षुर्विशुद्धं स श्रोतआपत्तिफलं संप्राप्तः / एवमाह /
ओघोत्तारण एष भूतचरणः शान्तः प्लवो वेगवान् नैतज्ज्ञानवरं त्रिदुःखशमनं संसारपारगमम् / स्कन्धक्लेशविघात-मारदमनो ह्येषा परिज्ञा सती मोक्षो ह्येष विधौतवैरकलहो दुःखार्णवोच्छोषकः // rkp_1.8 //
कोलित आह / कुत्र स भगवानेतर्हि बुद्धो विहरति / उपतिष्य आह / श्रुतं मे आयुष्मन्निहैव च स भगवान् राजगृहे विहरति वेणुवने कलन्दकनि[वापे] भिक्षुसंघेन सार्धं बोधिसत्त्वसंघेन सार्धम् / एवं श्रुत्वा उपसंक्रम्य एकान्ते न्यषीदत् / आवां भगवतो ऽन्तिके प्रव्रज्यां ग्रहीष्यावः /
कोलित आह / एवम् आयुष्मन् प्रव्रज्यैवास्तु सहावयोः परिवारेण / उपतिष्य-कोलितौ परिव्राजकौ परिवारसंघेन सार्धं येन भगवान् तेनोपजग्मतुः /
अथ तेन क्षणलवमुहूर्तेन मारः पापीयानश्रौषित् / यावङ्गमगधेषु जनपदेषु विख्यातयशस्कीर्त्तिसमन्वागतौ सत्पुरुषा वुपतिष्यकोलितौ सपरिवाराविच्छतः श्रमणस्य गौतमस्य शासने प्रव्रज्यां [ग्रहीतुम्] / एवं श्रुत्वा सो ऽचिन्तयत् / (dutt 7) स चेत्तौ श्रमणस्य गौतमस्य शिष्यौ भविष्यतः शून्यं मे मारविषयं करिष्यतः / साङ्कथ्यतः सत्पुरुषौ प्रव्रज्याया विच्छेदयेयम् / अथ पापी[यान् अचिन्तयत् / वेषान्तरं परिगृह्य उपसंक्रमेयम्] /
अथ तेन क्षणेन मारः पापीयान् शीघ्रमेव स्वभवनादन्तर्धायायुष्मतो ऽश्वजितो वेषलिङ्गेन च पथेन तयोः सत्पुरुषयोः [पुरतः उपसंक्रान्तः / उपसंक्रम्य एतदवोचत् /
उक्तं] सर्वमिदं मया हि वितथं हेतूपमं कारणं युवयोरेव मनः प्रचारनियमं विज्ञातुमेवं मया / सर्वं चैतदपार्थकं हि कथितं नास्त्यत्र हेतुः पुनः कृष्णस्यास्य शुभस्य [कर्मण इह प्रा]प्तिः फलं वा कुतः // rkp_1.9 //
क्षिप्रं कामगुणेष्वतीव चरतं क्रिडां युवां विन्दतं मृत्युर्नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वः / पुण्यापुण्यफलं च कर्मजनितं नास्त्यत्र हेतुः क्रिया लाभाय वदतीह शाक्यतनयो मा श्रद्धया गच्छतम् // rkp_1.10 //
अथोपतिष्य-कोलितयोरेतदभूत् / मारो वतायं पापीयानुप[संक्रान्त आवयोः प्रव्रज्याभिच्छेदनार्थम् / अथोपतिष्यः पराङ्मुखः [स्वप]रिषदमाहूयैवमाह / शृणुत यूयं माणवकाः / स्मरत संसारदोषान् /
जरया पीडितो लोको मृत्युना परिवारितः / उभयोस्तत्प्रहाणाय प्रव्रज्यां साधु गृण्हत // rkp_1.11 //
[अथ] कोलितो मारं प्रोवाच /
ते ज्ञातः प्रवरः सतां मतिधरो धर्मस्त्रिदुःखान्तकृत् कश्चिन्नास्ति यदावयोर्मतिमिमां व्यु[च्चा]लयेत् सर्वथा / तृष्णायाः प्रशमाय धीरमनसा वाचां [सदा] व्युत्थितौ मा सिंहाकृतिना शृगालवचनैरावां मतेर्भ्रामय // rkp_1.12 //
याश्च देवता दृष्टसत्यास्ता गगनस्थितास्ताभ्यां सत्पुरुषाभ्यं साधुकारं प्रददुः / साधु साधु सत्पुरुषाः सर्वलोकविश्रु[त] एष मार्गो यदुत प्रव्रज्यानिष्क्रमः / सर्वदुःखोपशान्त एष मार्गः / सर्वतथागतगोचरावतार एष मार्गः सर्वबुद्धैर्भगवद्भिर्वर्णितः / प्रशस्त एष मार्गः /
अथ खलु मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्जगाम / अथ खलु उपतिष्यकोलितौ परिव्राजकौ स्वपरिषदमवलोक्यैतद् वचनम् ऊचतुः / यत् खलु माणवका यूयं जानीध्वमावां जरामरणसागरपारंगमाय तथागतमुद्दिश्य (dutt 9) प्रव्रज्यां संप्रस्थितौ / यः पुनर्युष्माकं नेच्छति भगवतः शासने प्रव्रजितुम् इहैव निवर्तताम् / सर्वाणि च तानि पञ्च माणवकशतान्येवमाहुः / यत् किञ्चिद् वयं जानीमस्तत् सर्व युवयोरनुभावेन / नूनं युवामुदारे स्थाने प्र[व्रजितौ / यम् उद्दिश्य प्रव्रजितौ युवां तमुद्दिश्य] वयमपि प्रव्रजिष्यामः /
अथोपतिष्यकोलितौ परिव्राजकौ पञ्चशतपरिवारौ भगवन्तमुद्दिश्य प्रव्रज्यायां संप्रस्थितौ विदित्वा मारः पापीयान् बहिर्देशे राजगृहस्य महानगरस्य महाप्रपातमभिनिर्मितवान् योजनशतानामधस्तात् यथा तौ न शक्ष्यतः श्रमणस्य गौतमस्यान्तिकमुपसंक्रमितुमिति / भगवांश्च पुनस्तादृशी[मृद्धिमभिनिर्मिमीते येन]तावुपतिष्यकोलितौ परिव्राजकौ तं महाप्रपातं न ददर्शतुः ऋजुना मार्गेण गच्छन्तौ / पुनरपि मारः पापीयांस्तयोः पुरतः पर्वतमभिनिर्मिमीते [कठिनमेकघनमभेद्यं] सुषिरं योजनसहस्रमुच्चैस्त्वेन सहस्रं च सिंहानामभिनिर्मिमीते चण्डानां दुष्टानां घोराणाम् / तौ च सत्पुरुषौ भगवतस्तेजसाप्यनुभावेन न च ददर्शतुः सिंहम् / न च सिंहनादं शुश्रुवतुः / ऋजुना च मार्गेण येन भगवांस्तेनोपचक्रमतुः / भगवांश्चानेकशतसहस्रया परिषदा परिवृतः [पुरस्कृतो धर्मं] देशयति स्म /
अथ खलु भगवान् भिक्षूनामन्त्रयते स्म / पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ / अनुपश्यामो (dutt 10) वयं भगवन् / भगवानाह / अभ्यनुज्ञातौ एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके [प्रव्रजिष्यतः /] प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावतामग्रे भविष्यति द्वितीय ऋद्धिमताम् / अथान्यतरो भिक्षुस्तस्यां वेलायामिमा गाथा अभाषत /
एतौ च विज्ञपुरुषौ परिचार[य]न्तौ यौ व्याकृतो हितकरेण नरोत्तमेन / समन्वितऋद्धियौ धी-विशारदौ उपेन्तीह गौरवादत्र एतौ // rkp_1.13 //
अथ खलु स भिक्षुरुत्थायासनाद् बहुभिर्भिक्षुभिः साधं बहुभिश्च गृहस्थप्रव्रजितैरभ्युद्गम्य तौ सत्पुरुषौ पर्युपास्ते स्म / अथ [तौ सत्पुरुषौ] येन भगवांस्तेनोपजग्मतुः / उपेत्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य भगवतः पुरतः स्थित्वा भगवन्तमेतदूचतुः / लभेवहि आवां वो भगवतो ऽन्तिके प्रव्रज्यामुपसम्पदां भिक्षुभावेन / चरेव आवां भगवतो ऽन्तिके ब्रह्मचर्यम् / भगवानाह / किंनामा[नौ] युवां कुलपुत्रौ / उपतिष्य (dutt 11) आह / तिष्यस्य ब्राह्मणस्याहं पुत्रः / [मा]ता मे शारिका नाम / ततो मे जन्म / तेन मे शारिपुत्र इति नामधेयं कृतम् / अभ्यनुज्ञातो ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै / कोलित आह / पिता मे कोलितो नाम / माता मे मुद्गला नाम / तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतम् / कश्चि[त्]मे जनः कोलित इति संजानाति / कश्चिन्मौद्गल्यायन इति / [अभ्यनुज्ञातो ऽ]हं पूर्वं मातापितृभ्यां प्रव्रज्यायै / भगवानाह / चरतं शारिपुत्र-मौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यमिति / सैवानयोः प्रव्रज्योपसम्पदा च / अचिरप्रव्रजितौ च शारिपुत्र-मौद्गल्यायनौ सपरिवारौ /
अथ मारः पापीयान् महेश्वररूपेण भगवतः पुरतः स्थित्वैवमाह /
ये शास्त्रार्थ-परिचरियासु निपुणा विद्यासु पारंगताः ते सर्वे प्रणमन्ति मत्सुचरणौ तेषामहं नायकः / क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाहि भो गौतम ईप्सितनिर्वृति[प्रापणाय] विशदं वक्ष्यामि मार्गं तव // rkp_1.14 //
भगवानाह /
त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः / किं भूयो [लपसि] प्रगल्भमुखरो दुष्टशृगालस्वरः व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः // rkp_1.15 //
अथ मारः पापीयान् महेश्वररूपमन्तर्धाय ब्रह्मवेषेन पुनर्भगवन्तं पुरतः स्थित्वैवमाह /
कर्मक्लेशभवाङ्कुरप्रशमनं यत्ते कृतं प्रज्ञया दुःखान्युत्सहसे इह पुनर्यतः सत्त्वार्थमेवं मुने / नास्त्यस्मिन् जगति प्रभो क्वचिदपि त्वत्पात्रभूतो जनः कस्मात्त्वं विगतामयो न त्वरितं निर्वास्य कालो हि सः // rkp_1.16 //
भगवानाह /
गङ्गावालुकसन्निभानुसदृशान् सत्त्वान् प्रपश्याम्यहं ये वैनयिकाः स्थिताः करुणया ते संप्रमोच्या मया / मध्योत्कृष्टजघन्यतामुपगता निर्मोक्षनिष्ठा जगत् निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते // rkp_1.17 //
अथ पुनरपि मारः पापीयान् दुःखितो दुर्मना विप्रतिसारी ततश्चान्तर्धाय स्वभुवनं गत्वा शोकागारं प्रविश्य निषण्णः / तत्क्षणमेव च सर्वमारभुवननिवासिनश्च सत्त्वाः परस्परं पृच्छन्ति स्म / को हेतुर्यदस्माकं म[हाराजः शोका]गारं प्रविश्य निषण्णो न च कश्चिज्जानीते /
अथ पञ्च मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर्वस्त्राभरणै[र]लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयन्त्यः परममनोज्ञस्वरेण (dutt 13) नृत्यन्त्यो गायन्त्यो वादयन्त्यो महता दिव्येन पञ्चाङ्गिकेन तूर्येण [रतिक्रिडायु]क्तेन मारस्य पापीमतः पुरतः स्थिताः / स च मारः पापीयान् बाहून् प्रगृह्य प्रकोशितुमारब्धः / मा शब्दं कुरुत मा शब्दं कुरुतेति / एवमुक्तास्ताः पुनरपि प्रगायन्त्यस्तूर्याणि पराजघ्नुः / मारश्च पापीयान् पुनरपि बाहुद्वयमुत्क्षिप्य प्रक्रोशितुमारब्धो यावत् सप्तकृत्वः / अप्सरसस्ता रति[क्रीडायुक्तेन मारस्य पापीमतः पुरतः स्थितास्त]थैव बहुद्वयम् उन्नाम्योत्क्रोशं [च]कार / मा शब्दं कुरुध्वं मा शब्दं कुरुध्वमिति / एवमुक्ताश्च ताः अप्सरसस्तूष्णीं तस्थुः /
अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा येन [मारः पापीयां]स्तेनाञ्जलिं प्रणम्यैवमाह /
किं ते विभो च्युतिनिमित्तमिहाद्य दृष्टं किं वा जगद्धुतवहाकुलमद्य जातम् / शत्रुस्तवाधिकबलः किमिहास्ति कश्चित् [किं वा न नन्दसि स]माश्रयसे च शोकम् // rkp_1.18 //
मारः प्राह /
शत्रुर्ममास्ति बलवान् निगृहीतचेता मायासुशिक्षित भुवि नर शाक्यपुत्रः / तल्लक्षणं यदि न हस्ति च कश्चिदेवं शून्यं करिष्य [ति] ममैष स कामधातुम् // rkp_1.19 //
सा अप्सराः प्रोवाच /
स्वामिन्नुपायबलवीर्यपराक्रमैः कः कर्तुं क्षयं पर[म]मीश इहाद्य तस्य / कः शक्नुयात् त्रिभव[बन्ध]न-दीर्घतीरं तृष्णार्णवं क्षपयितुं बलशक्तियुक्तः // rkp_1.20 //
मारः प्राह /
दानव्रताशयदया-प्रणिधान-पाशः शून्यानिमित्त-परमास्र-गृहीतचापः / निःशेषतो भवनिवृत्त्युपदेशकर्ता संसार-निःसृत-पथ-प्रशमानुकूलः // rkp_1.21 //
शून्येषु ग्रामनगरेषु वनान्तरेषु गिरिकन्दरेष्वपि च सन्ति तस्य शिष्याः / ध्यानाभियुक्तमनसः प्रविविक्तचाराः दोषक्षयाय सततं विधिवत् प्रयुक्ताः // rkp_1.22 //
ऋद्ध्याः बलैः करुणया च सहायवन्तौ उपतिष्य-कौलित उभौ मुनिना विनीतौ / त्रैलोक्यसर्वविधिना सुविनीतधर्मा शून्यं करिष्यति च मे किल कामधातुम् // rkp_1.23 //
अथ तैः पञ्चभिर्मारकन्याशतैर्मारस्य पापीमतो ऽन्तिकाद् भगवतो गुणवर्णं श्रुत्वा सर्वैराकारविगतविद्युन्नाम बोधिसत्त्वसमाधिः प्रतिलब्धा /
अथ तानि पञ्च मारकन्याशतानि दिव्यानि तूर्याणि तानि च दिव्यापुष्पगन्धमाल्यविलेपनाभरणविभूषणीकराणि येन भगवांस्तेनाक्षि[पन्] भगवतः [समीपे] / तानि च दिव्यानि (dutt 16) [पुष्पाणि तानि च दिव्यानि] तूर्याणि ते च यावदलंकारा भगवतो ऽनुभावेन वेणुवने ववर्षुः / ताश्च मारकन्याः स्वयमद्राक्षुः सपरिवारम् / दृष्ट्वा च पुनः स्वयमेव प्रसादजाता बभूवुः / येन वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टमिति ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः / यद्भगवन्नूनं [शारिपुत्रमौद्ग]ल्यायनयोः सपरिवारयोरिदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टाम् / को न्वत्र भगवन् हेतुः कः प्रत्ययः / भगवानाह / नायं [कुलपुत्रयोरनुभावः] हन्त पापीमतः पञ्चमात्रैः परिचारिकाशतैस्ततो मारभवनादिदमेवंरूपं महापुष्पवर्षं यावदलङ्कारवर्षमुत्सृष्टं मम पूजाकर्मणे / चिर [मेता मे अनुकूलाः / ता म]मान्तिकाद् व्याकरणं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधौ /
अथ तानि पञ्चमात्राणि मारकन्याशतानि स्वयमेव भगवतः श्रुतघोषव्याहारमभि[शृण्वन्ति] / एताश्च भगवन्तो ऽन्तिके प्रसादजातास्तेन प्रसादप्रामोद्येन बोधिचित्तम् असंप्रमोषं नाम समाधिं प्रतिलेभिरे /
अथ खलु ता मारकन्याः [तत्रैव वेणु]वने एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्याञ्जलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवमूचुः /
तृष्णा नदी निखिलशोषकसर्वलोकम् आलोक्य नेत्रविकलं जगदेकचक्षुः / त्वं तारको ऽस्य जगतः सनरामरस्य बुद्धा वयं कथमिहाशु मुने भवेम // rkp_1.24 //
नरदेवपूज्य भगवन् परमार्थवादिन् स्त्रीत्वं जुगुप्सितमपास्य वयं समग्रम् / ऋद्ध्या तवोत्तमगतिं [त्वरितं लभेम] गत्वा मुनीन्द्रवचनं शृणुयाम एवम् // rkp_1.25 //
[नैरात्म्यवादि] भगवन् परमार्थदर्शिन् बोध्यङ्गरत्न दरनिर्मल-वाक्-प्रदीप / आकृष्य मारबलमप्रतिम त्वमस्योद्बोधाय शीघ्रमधुना मम व्याकुरुष्व // rkp_1.26 //
अथ खलु मारकन्या उत्थायासनादेककण्ठेन मारं पापी मन्तमेतदूचुः /
त्वं नाम दुष्कृतमतिभगवत्सकाशे दुष्टः कथं श्रियमवाप्य चलामसाराम् / जात्यादिदुःख[स]मुपद्रुत-सर्वमूर्तिं घोरां दशामुपगतो ऽसि मदावलिप्तः // rkp_1.27 //
श्रद्धां जिने कुरु तथा व्यपनीय रोषं संसार-दोष-मदपङ्क-समुद्धृतात्मा / एषो [ऽस्तु ते विदित] सर्वजगस्वभावः आगच्छ कारुणिकमाशुगतिं प्रयामः // rkp_1.28 //
अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतदभूत् / यत्त्वहं तादृशं मारबलविषयवेगं समनुस्मरेयं यदेतानि पञ्च परिचारिकाशतानि पञ्चपाशबन्धनवद्धमात्मानं संपश्येयुर्यथेहैव निवृत्य वने न पुनर्गन्तुं शक्नुयुः / [मारस्ताश्च बन्धुं न शक्तः /] तत् कुतः / तथाहि तानि पञ्च परिचारिकाशतानि तथागताधिष्ठानानि /
अथ खलु तानि पञ्च परिचारिका [शतानि] मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः / [अथ मारस्य पापीमतः] दुष्टस्यैतदभवत् / यत्त्वहं पुनरपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वमिदम् आकशवैरम्भ्यसंघातैर्महाकालमेघैर्महाकालवायु [भिः आवृतं] यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणगौतमं न पश्येयुः / पुनरेव मे भवनमागच्छेयुः / तथापि बुद्धाधिष्ठानबलेन किय[न्तमपि वायुं] न शक्नोत्युत्पादयितुं यो ऽन्ततो बालाग्रमपि कम्पयेत् प्रागेव बहुतरम् /
अथ मारः पापीमान् भूयस्या मात्रया दुष्टो दुःखितो दुर्मना विप्रतिसारी [उच्चैः]स्वरेण स्वपुत्रगणपारिषद्यान् व्याक्रोशत् / सर्वं मारभवनं शब्देन पूरयामास /
आगच्छत प्रियसुता गणपारिषद्या भ्रष्टा वयं स्वविषयात् स्वबालाच्च ऋद्धेः / [जातो ऽत्र] एष विषवृक्ष इवान्तरात् स मायाशठो मधुरवादी स शाक्यपुत्रः // rkp_1.29 //
अथ तेन शब्देन सर्वास्ता मारकन्या मारदुहितरश्च सर्वे च मारपुत्रा गणपार्षद्या [दूरतः] ऋतमानरूपाः शीघ्रमुपगम्य पापीमतः पुरतस्तस्थुः / तस्यां च परिषदि जयमतिर्नाम मार पुत्रः स प्राञ्जलिर्भूत्वैवमाह /
किं दुर्मनाः परमकोपविदुष्टचेता नो कल्पदाह इह न च्युतिरस्ति ते ऽस्मात् / शत्रुर्न चास्ति तव कश्चिदिह प्रवृद्धो मोहं गतो ऽसि किमुतान्यमति[र]कस्मात् // rkp_1.30 //
मारः प्राह /
न त्वं पश्यसि शाक्यपुत्र वृषलं यत् सन्निषण्णं द्रुमे यद्वाक्यं वदसीह नास्ति बलवान् शत्रुस्तवेत्यग्रतः / सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो ...... वयम् ससुतपार्षद व[....................] // rkp_1.31 //
ये ऽप्यस्मिन् जगति प्रधानपुरुषा विख्यातकीर्तिश्रियो विद्वांसो बहुशास्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् / ये तं शाक्यसुतं गताधि[श]रणं ध[र्माङ्कुशैस्ताडिताः] स त्वेष प्रियविग्रहः शठमतिः शत्रुर्मया युद्यते // rkp_1.32 //
एता वै परिचारिकाः प्रियतमाः प्रोत्सृज्य मां निष्कृपाः [तूर्ण]तं श्रमणं गताद्य शरणं हित्वा [हि मे राज्यकम्] / [कर्ता] कृत्स्नमिदं भवत्रयमतः शून्यं शठो मायया भस्मीकुर्म इहाद्य यद्यतिबलेनाशु प्रयत्नाद्वयम् // rkp_1.33 //
अथ ते सर्वे मारपुत्राः सपार्षद्याः [प्राञ्जलयः एतदूचुः] / एवमस्तु यदस्माकम् ऋद्धिबलविषानुभावविकुर्वितं सर्वं दर्शयिस्यामः / यदि शक्नुमः एतं शाक्यपुत्रं भस्मीकर्तुमित्येवं कु[शलम् / यदि न शक्नुमः तस्य शरणं गमिष्यामः /] स्वयमेव पितस्त्वं प्रत्यक्षो ऽसि / यद् वयं महासैन्यपरिवृताः प्रागेव एकाकिना अद्वितीयेन अनेन शाक्यपुत्रेणाधिकबलेन पराजिताः किं पुनरेतर्ह्यनेकपरिचारिका दृष्टिविव्हलाः / मारः पापीयानेवमाह / गच्छत तावद् भद्रमुखाः / यदि शक्नुत एवनं श्रमणगौतमं घातयितुं पुनरागच्छत / अथ न शक्तास्तथाप्यागच्छत / स्व[भवनं वयं पालयिष्यामः /
अथ मारपर्षद्द्वादशबिम्बराणि ततो ऽतिक्रम्य इत ऊर्ध्वंयावच्चतुरशीतिं योजनसहस्राणि स्फुरित्वा तादृशं मारबलऋद्धिवेगं (dutt 21) दर्शयामासुः / [स]र्वं चतुर्द्वीपिकायामाकाशं महाकालमेघैरापूरयामासुः / महाकालवायुभिश्च उल्कापातैश्च सुमेरुं पर्वतराजानं पाणिभिः पराजघ्नुः / सर्वं चातुर्द्वीपं प्रकम्पयामासुः / परमभैरवांश्च शब्दान् समुत्ससर्जुः / यतो नागा महानागा यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्या सगिरिशैलपर्वतायाः सुमेरुश्च पर्वतराजः कम्पं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणाञ्च संक्षोभं ज्ञात्वा गगनतले तस्थुः / सा च मारपर्षत् सुमेरुमवनीं स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मीय अङ्गमगधेषु समुत्ससर्जुः / महान्तं चास्य मुसल-पाश-तोमर-भिण्डिपाल-नाराच-क्षुरप्र-क्षुरमुख-क्षुर-नाराच-क्षुरप्रक्षुरमुख-क्षुरवासि-क्षुरदन्तमुख-क्षुरदन्त-करालवज्रवासिक्षुरदन्त-मुख-क्षुरदन्त-करालवक्त्र-विकरालवक्त्र-दृढ-खरपरुषरूक्षवर्षं निर्माय उत्ससर्जुः /
अथ भगवान् तस्मिन् समये मारमण्डलविध्वंसनं नाम समाधिं समापेदे / [येन सर्वां] शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीक-मान्दारवमहामान्दारव-पुष्पवृष्टिमधितिष्ठत् / (dutt 22) तांश्च शब्दान् नानावाद्यानध्यतिष्ठत् / यदुत [धर्मशब्दं बुद्धश]ब्दं संघशब्दं पारमिताशब्दम् अभिज्ञाशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत्सोपा[दाननिरुपादानशब्दा] नध्यतिष्ठत् / सर्वा रजो ऽन्धकारवायवः प्रशेमुः / ये केचिदिह चातुर्दीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास्तान् सर्वान् सप्त महारत्नानध्यतिष्ठत् / अनव लोक]नतः मूर्ध्ना भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयामास / एकैकस्माच्च लक्षणाद्भगवतस्तादृशी प्रभा निश्चचार यया प्रभया त्रि[साहस्रमहासाहस्रलोकधातू]दारेणाभासेन स्फुटो ऽभूत् / ये चास्यां त्रिसाहस्रमहासाहस्रयां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरगप्रेतपिशाच-कुमाभाण्ड [मनुष्यामनुष्या] नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवन्तमद्राक्षुः बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्पैरवाकिरन् [प्र]दक्षिणं चक्रुः स्तुवन्तो नमश्चक्रुः / बहूनि नैरयिका तैर्यग्योनिका यामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे / पूर्वावरोपितकुशलमूलमनुस्मृत्य नमो बुद्धाय इति कृत्वा तेभ्यो ऽपायेभ्यश्च्यवित्वा देवेषूपपन्नः / ततश्च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि सपार्षद्यानि भगवत एवंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके अतीव प्रसादं प्रतिलब्ध्वा येन भगवांस्तेनोपजग्मतुः / उपेत्य तैः सार्धं पञ्चभिर्मारकन्याशतैर्भगवतः पादौ शिरसाभिवन्द्य अञ्जलीन् प्रगृह्य आभिर्गाथभिरधिभाषन्ते स्म /
विशुद्धमूर्ते परमाभिरूपज्ञानोदधे काञ्चनमेरुतुल्यम् / वितत्य लोकं यशसा विभासि त्वामेव नाथं शरणं ब्रजामः // rkp_1.34 //
प्रनष्टमार्गे विनिमीलिताक्षे उल्कायसे [त्वं] जगतीव सूर्यः / अपराजित प्राणिनस्त्वेकबन्धुं त्वां सार्थवाहं शरणं व्रजामः // rkp_1.35 //
असंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त / करुणाशयस्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः // rkp_1.36 //
संसारकान्तारविमोक्षकस्त्वं सामग्रितो हेतु[फल]प्रदर्शकः / मैत्रविहारी परमविधिज्ञः करुणाविहारी शरणं व्रजामः // rkp_1.37 //
मायामरीचिदकचन्द्रस्न्निभे भवे प्रसक्तो विषयाश्रयेण / अज्ञानरुग्नाशक [लोकनाथ] तं बैद्यराजं शरणं व्रजामः // rkp_1.38 //
त्वं सेतुभूतश्चतुरौघमध्यादुत्तारकः सप्तधनार्थवृत्तैः / सन्मार्गसन्दर्शक लोकबन्धुः कृपान्वितं त्वामिह पूजयामः // rkp_1.39 //
[क्षमापयास्मांश्च त्व]समग्रबुद्धि-आसं प्रदुष्टास्त्वयि यद्वयं तु / तमत्ययं वीर गृहाण नाथ त्वमेकबन्धुर्जगति प्रधानः // rkp_1.40 //
वयं समुत्सृज्य हि मारपक्षं [जनयाम श्रेष्ठमिह बोधिचित्तम्] / निमन्त्रयामः किल सर्वसत्त्वान् बोधिं लभेमो वयमुत्तमात्तु // rkp_1.41 //
निदर्शयास्माकमुदारचर्यां यथा वयं परामिताश्चरेम / अनन्यवादैः कतिभिस्तु [धर्मैः सत्त्वा युता बोधिमवाप्नुवन्ति] // rkp_1.42 //
पुष्पाणि यत्ते ऽभिमुखं क्षिपामः छत्राणि तानि भवन्तु सर्वदिक्षु / तिष्ठन्तु मुर्ध्नि द्विपदोत्तामानां क्षेत्रेषु सर्वर्तुसुखाकरेषु // rkp_1.43 //
अथ खलु मार[पुत्र मार]कन्याश्च सगणपार्षद्या भगवन्तं मुक्तकुसुमैरभ्यवाकिरन् / तानि च भुक्तकुसुमानि भगवतः ऋद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गङ्गानदीवालुका[समानि] पुष्पच्छत्राणि सन्तिष्ठन्ते स्म / तानि नानापुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धीनामुपर्यन्तरिक्षे तस्थुः स्वयं च ता मारकन्याः सगणपार्षद्या अद्राक्षुः / दशसु दिक्षु सर्वबुद्धक्षेत्रेष्वसंख्येयेष्वप्रमेयेषु बुद्धानां भगवतां तिष्ठतां यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपतां विरोचतां सन्निषण्णानां तानि पुष्पच्छत्राणि उपर्यन्तरिक्षे मूर्धसन्धौ संस्थितानि / ते च बुद्धा भगवन्तः समवर्णाः समलिङ्गाः समरूपाः समदर्शनाः / केवलं तेषां बुद्धानां भगवतां सिंहासन-नानात्वं परिषदो-[नानात्वं] बुद्धक्षेत्रगुणव्यूह-नानात्वं ददृशुः / न च तेषां बुद्धानां भगवतां स्वरमण्डलं [शुश्रुवुः / सा] च मारपर्षत् भगवतो ऽनुभावेनैवंरूपं प्रातिहार्य दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर्वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय /
अथ खलु तानि मारपुत्राणां सगणपार्षद्यानां दशबिम्बराणां प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते (dutt 26) विस्तरेणारोचयन्ति / एकरोमकूपमपि चायं तस्य श्रमणस्य गौतमस्य न शक्तो विध्वंसयितुमिति / भूयश्च विंशतिसहस्राणि तमेव शरणं जग्मुः तस्यैव चाग्रतो निषण्णा धर्मश्रवणाय /
अथ खलु मारः पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मनाः विप्रतिसार्य एवमाह /
लक्ष्मीर्गता मम पुनर्न परैति तावद् याव[न्न मम राज्य शाक्यसुत]स्य नाशः / तूष्णीं स्थिता वयमनन्यमनःप्रतर्काः शाक्यात्मजं कथमिममद्य तु घातयेम // rkp_1.44 //
अथ मारः पापीमान् दुर्मनस्कः एव शोका[गारं प्राविशत् /] महायानसूत्राद्रत्नकेतु-मारजिह्मीकरणः परिवर्तो नाम प्रथमः // 1 // स्तर्त् र्क्प् 2
द्वितीयः परिवर्तः
अथ ता मारकन्या मारपुत्राश्च सगनपारिषद्या भगवन्तं [तत्क्षणं प्रार्थयामासुः / अ]र्थिका वयं भगवन्ननेनैवंरूपेण यानेन च ज्ञानेन च ऋद्धया कृपयोपायेन प्रतिभानेन च / आश्चर्यं भगवन् यावदुपाय[ज्ञान]समन्वागतस्तथागतः / [कतमैर्भ]गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते / भगवानाह / चतुर्भिर्धर्मैः समन्वागतः [कुलपुत्र]इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते / कतमैश्चतुर्भिः / इह भद्रमुखाः कुलपुत्रः सर्वधर्मान्न परामार्ष्टि न च क्वचिद् धर्ममुद्गृण्हाति नोपैति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यदुत दानपारमितायां चरन् न दानफलं परिचरति नोद्गृण्हाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायामपि चरन् यावन्न कल्पयति न विकल्पयति /
पुनरपरं भद्रमुखाः स कुलपुत्रो न सत्त्ववादी भवति न जीववादी न पोषवादी न पुरुषवादी न पुद्गलवादी न सत्त्वधातुं मनसा परामार्ष्टि यावन्न कल्पयति न विकल्पयति /
पुनरपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन्न कल्पयति न विकल्पयति /
पुनरपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्ययालम्बनफलविपाकसमुत्थानाश्रयोत्पादान्न परामार्ष्टि यावन्न कल्पयति न विकल्पयति /
तत् कुतः / सर्व[ज्ञताज्ञान]चर्याधिष्ठानं [सर्वविषयकल्पनाविकल्पनाविरहेण अनालम्बनयोगचर्यया] च कर्तव्यम् / अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावदघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा अनालम्बनादर्शना विविक्ता निरात्मा अलक्षणीया क्षणव्यूपशान्ता अतमानालोकास्थानाविषया[वशा]पक्ष्याप्रतिपक्ष्या अचिन्त्याहेयामत्सराप्रपञ्चा[रजोविरजो]निरवयवा अकिंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः [स]र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामर्शयोगेन (dutt 29) अकल्पविकल्पयोगेन कर्तव्यम् /
एभिर्भद्रमुखाश्चतुर्भिर्धर्मैः समन्वागतः [पुरुषपु]ग्दलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते / यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय[ल]क्षणाधिष्ठान[परिचर्यया सर्वज्ञतां प्रार्थयते] स द्वयसक्तो भवति / द्वय [सक्त]मनःसंकल्पो विसंवादयति सर्वज्ञताम् / तत्र कतमद् द्वयम् / यत् स्कन्धधात्वायतनानि लक्षणव्यवचारेणाधितिष्ठति [उद्गृण्हाति / द्वय]मेतद् विसंवादयति सर्वज्ञताम् / चर्याधिष्ठानफलकल्पना द्वयमेतत् / जाटिभवोपादानसत्त्वाधिष्ठानकल्पना द्वयमेतत् / देशनाप्रकाशनप्रज्ञापन-वाक्पथरुतव्या[हारा]धिष्ठानकल्पना द्वयमेतत् / उच्छेद-शाश्वतव्यवलोकन-ज्ञान-ज्ञेयाधिष्ठानकल्पना द्वयमेतत् / सत्त्वजीवपोषपुरुषपुद्गल-कारककारापकसंज्ञाधिष्ठानकल्पना द्वयमेतत् / यः पारापारोहापोहानधितिष्ठति कल्पयति द्वयमेतत् / यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञानं पर्येषते पुरुषपुद्गलः स त्र्यध्वाहंकारममकारसमुदयनिरोधव्यवचारानधितिष्ठति संकल्पयति [उद्गृण्हाति] तस्य द्वयमेतत् सर्वज्ञज्ञाने / तद् यथा कश्चित् पुरुषः अग्नयर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः [पाषाणं] (dutt 30) पुष्पार्थिकः चीवरं गन्धार्थिको मनुष्यकुणपं चीवरार्थिकः श्मशानं वस्त्रार्थिको ऽश्मानं विलेपनार्थिकः आकाशं परामृशेत् एवमेव भद्रमुखाः यश्चर्याधिष्ठानसंगव्यवचारसमुच्छ्रय-द्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस्तस्य व्यायामः /
अथ खलु तस्यामेव परिषदि धारणमतिर्नाम बोधिसत्त्वः सन्निपतितो ऽभूत् सन्निषण्णः / स येन भगवांस्तेनाञ्जलिं प्रणमैयवमाह / यद् भगवन् अनभिलाप्यधर्मः शक्यमभिसम्बोद्धुम् / भगवानाह / एष एवाभिसंबोधो यदनभिलाप्यं जानीते / तेन हि कुलपुत्र त्वामेव प्रवक्ष्यामि / यदि ते क्षमं तथा व्याकुरु /
अस्ति द्वयलक्षणभावो यः सर्वज्ञता नाम लभते / आह / यद्यस्तीति वक्ष्यामि शाश्वतो भविष्यति / अथ नास्ति चेद वक्ष्याम्युच्छेदो भविष्यति / मध्यमा च प्रतिपन्नोपलभ्यते / नासावस्ति नापि नास्तीति / यदेष्वसंगानुत्पादाव्ययाप्रमाणासंख्यो ऽतमानालोकेषु ज्ञानम् एष एवाभिसंबोधः /
विद्युन्मतिर्बोधिसत्त्व आह / यत्र भगवन् नागतिर्न गतिरित्येव ज्ञानावतारकौशलम् एष एवाभिसंबोधः /
वैरोचनो बोधिसत्त्व आह / यत्र भगवन् न प्राप्तिलक्षणं नाभिसमयो न साक्षात्क्रिया न शमो न प्रशमो न त्रयध्वं न त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः /
धारणमतिर्बोधिसत्त्व आह / यो भगवन् न त्रधातुकं न त्रीणी संयोजनानि न त्रैविद्यतां न त्रियानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीं करोति एष एवाभिसंबोधः /
वज्रमतिर्बोधिसत्त्व आह / यः पृथग्जनधर्मः वार्यधर्मो वा शैक्षधर्मः वाशैक्षधर्मः वा श्रावकधर्मः वा प्रत्येकबुद्धधर्मः न कल्पयति न विकल्पयति न सामीचीं करोति एष एवाभिसंबोधः /
दृढमतिर्बोधिसत्त्व आह / [यो विवेकनयेन] तथतां व्यवचारयति एष एवाभिसंबोधः /
रत्नपाणिर्बोधिसत्त्व आह / यो ऽनुत्पादलक्षणं सर्वधर्माणां न प्राप्तये नाभिसमयाय न [कल्पयति एष एवाभिसंबोधः] /
अचिन्त्यमतिर्बोधिसत्त्व आह / यस्त्रैधातुकव्यवचारचित्तमेव चित्ते प्रवेशयति उभे चित्ते न व्यवचार्येणोपलभते एष एवाभिसंबोधः /
अरिविजयो बोधिसत्त्व आह / [यः] सर्वधर्मेषु न सज्यते नानुनीयते नोपेक्षते न प्रतिमन्यते न स्पृहयते न मुह्यते न गृण्हाति न मुच्यते एष एवाभिसंबोधः /
पद्मगर्भो बोधिसत्त्व आह / यः पुण्यपापयोः न सज्जते गम्भीरक्षान्तिनयावताराहङ्कारममकारान्न कल्पयति एष एवाभिसंबोधः /
चन्द्रप्रभः कुमारभूत आह / यो भगवान् प्रशमात् सर्वधर्मान्न प्रजानीते न च धर्माणां स्वभावमाचयं वोपचयं वा पश्यति एष एवाभिसंबोधः /
खगमतिः कुमारभूत आह / यस्य सर्व तम-आलोकोत्पादव्ययः [वृद्धिहानिः] चित्तचैतसिकेषु न प्रवर्तन्ते एष एवाभिसंबोधः /
अक्षयमतिर्बोधिसत्त्व आह / यस्त्रिपरिशुद्धः पारमितासु अभ्यासं करोति अनुपलम्भयोगेन न रज्यते न विरज्यते एष एवाभिसंबोधः /
मञ्जुश्रीः कुमारभूत आह / यो भगवन् [सर्व]धर्मेषु न रज्यते न विरज्यते गम्भिरधर्मनयं च प्रजानाति / यश्च प्रजानाति तन्नायूहति[न]निर्यूहति नाकर्षति न व्याकर्षति न च कस्यचिद्धर्मस्यापचयं वाविद्यां [वा]विमुक्तिं चोत्पादयति व्ययं वा हानीं वा वृद्धिं वा वस्तुषु न संकल्पनतो [न] विकल्पनतः एष एवाभिसंबोधः / अनेनैव नयेन सर्वाभिसंबोधः /
अथ कौतूहलिको बोधिसत्त्व आह / किं मञ्जुश्रीरायोगप्रयोगेन प्रयोजनम् / यदनेनैकनयतथताप्रवेशेनैव गम्भीरभावनानयेन सर्वज्ञज्ञानपरिज्ञानम् / मञ्जुश्रीराह / विषमदृष्टिरहितः सम्यग्दृष्टि[र]समारोपः / अशाठ्य-ऋजुकतासमारोपः / पापरहितो गुरुगौरवासमारोपः / सुवचनास 0 सम्यगाजीवास 0 सर्वसंयोजनरहितास 0 समाक्रोश-सर्वसत्त्वकृपास 0 (dutt 33) त्रिसंवरास 0 अविसंवादनकुशलधर्मास 0 अव्युपशान्तास 0 सद्धर्मारक्षास 0 सर्वसत्त्वापरित्यागास 0 सर्ववस्तुपरित्यागास 0 दुर्बलसत्त्व-बलप्रतिष्ठापनास 0 भीतशरणाभयास 0 / कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनास 0 क्षान्तिसौरत्यास 0 सर्वग्राहसं[ग]लक्षणास 0 सर्वरजस्तमस्कन्धवर्जनास 0 सर्वपरिणामना-फलविपाकवर्जनासमारोपः 0 / इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य / सर्वाक्षररुतघो[षवचनव्याहारवाक्य-] प्रभेद तथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगः / सर्वतथागतवचनानि अन्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यो[पेत]प्रज्ञापारमिताप्रयोगतथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वत्रिविमोक्षाश्रयहेतुकर्मधर्म[तथता]प्रवेशेन व ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति /
कौतूहलिको बोधिसत्त्व आह / यावदेतत् मञ्जुश्रीर्यदा इमं गम्भीरं धर्मनयमवबुध्यते तदा न कश्चिद्धर्म समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यैर्वार्थपदव्यञ्जनैर्देश्येत प्रकाश्येत / यं वा पुनः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति सः सर्वज्ञज्ञानमवबुध्यते /
भगवानाह / साधु साधु कुलपुत्र सुभाषितस्ते ऽयमेकनयेन (dutt 34) सर्वज्ञज्ञानप्रतिलाभः / तत् कुतः सर्वधर्मा ह्यसमारोपः / अनुत्पादाविनाशकोटीकः अविद्यानिर्वाणानुत्पादभूतकोटीकः आकाशनिर्वाणा[नुत्पादभूत] कोटीकः अनभिलाप्यकोटीकः सर्वधर्माः / एवं सर्वसत्त्वाः / सर्वधर्मा न द्रव्यकोटीकः सर्वासंगवस्तुतः परिकीर्तितः / सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्किञ्चनकोटीकः त्रिसंस्कारशून्यताकोटीकः धर्मस्कन्धविपाकस्कन्धादयः अपचयस्कन्धा न द्रव्यकोटीकः [परिकीर्तितः] / शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वज्ञज्ञानमवतरति /
तस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर्मारकन्यामारपुत्रगणपार्षद्यसहस्रैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा / औदारिकं च कायं विजह्य मनोमयं कायं प्रतिलेभिरे / अपरेषामप्येषां विंशतीनामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो (dutt 35) ऽभूत् / द्विनवतीनां च देवमनुष्यबिम्बराणां विचित्रविचित्राणां च बोधिसत्त्वक्षान्तिध्यानधारणीनां प्रतिलाभो ऽभूत् /
अथ तानि विंशतिसहस्राणि अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानां भगवन्तं दिव्यैः पुष्पैरभिकिरन्ति अभिप्रकिरन्ति स्म / भगवतश्च पादौ शिरोभिरभिवन्द्यैवमाहुः / पश्य भगवन् कल्याणमित्रसंसर्गवशेन सत्त्वानां सर्वपुण्योपायकुशलमूलानि मनसिकाराणि भवन्ति / भगवानाह / कर्मप्रत्यय एष द्रष्टव्यः कौतूहलप्राप्तानां च सत्त्वानां भगवान् संशयछित्त्यर्थमिमं पूर्वयोगमुदाजहार /
भूतपूर्वं कुलपुत्रा अतीते ऽध्वनि अपरिमाणेषु महाकल्पेषु अतिक्रान्तेसु अस्यामेव चातुर्द्वीपिकायां यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टषष्टिवर्षसहस्रायुष्कायां प्रजायां तेन च कालेन तेन समयेन ज्योतिसोम्यगन्धावभासश्रीर्नाम तथागतो ऽभूत् विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् / क्लिष्टे पञ्चकषाये लोके वर्तमाने च चतुर्णां पर्षदां त्रियानप्रतिसंयुक्तां सन्देशयति स्म / तेन खलु पुनः समयेन राजाभूत् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरश्चक्रवर्ती / अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन (dutt 36) ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपसंक्रामत् / उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानपुष्पैरभ्यवाकिरत् नानागन्धैर्नानाधूपैश्च पूजां कृत्वा भगवतो भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावीत् /
भुजंगामरादिभिरतीव गुणैः समभिष्टुतः प्रचुरदोषहरः / धनसप्तकेन च हितो जगतो वद केन सूक्ष्ममतिमान् भवति // rkp_2.1 //
जगतस्तमोघ्नः शमदीपकर च्युतिजन्मजरोभ्दवनशोकदमः / जगतस्त्वपायपथवारयता वद केन मुच्यति ह मारपथा // rkp_2.2 //
अथ खलु मारपुत्राः स ज्योतिसोम्यगन्धवभासश्रीस्तथागतो राजानमुत्पलवक्त्रमेतदवोचत् / त्रिभिः सत्पुरुषधर्मैः समन्वागतो बोधिसत्त्वः सूक्ष्ममतिर्भवति / कतमैस्त्रिभिः / अध्याशयेन सर्वसत्त्वेषु करुणायते / सर्वसत्त्वानां दुःखप्रशमाय उद्यतो भवति (dutt 37) मातृवत् / सर्वधर्मादीन् निर्जीवनिष्पोषनिष्पुद्गलानानाकरण-समान् व्युपपरीक्षते / एभिस्त्रिभिर्धर्मैः समन्वागतः सत्पुरुषो बोधिसत्त्वः सूक्ष्ममतिर्भवति / अपरैस्त्रिभिः महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु न सज्जते / कतमैस्त्रिभिः / यदुत सर्वसत्त्वेष्वक्रोधनो भवति अनवतारप्रेक्षी सर्वसत्त्वसमदक्षिणीयः समसंज्ञामयो भवति / सर्वधर्मानेकनयेन व्युपपरीक्षते यदुत आकाशसमान् निःसंस्काराननानात्वानजाताननुत्पन्नाननिरुद्धान् / सर्वानाकाशवद् द्रव्यलक्षणविगताननुपलम्भयोगेन प्रत्यवेक्षते / एभिर्महाराज त्रिभिर्धर्मैः समन्वागतः पुरुषो मारपाशेषु न सज्जते मारपथाच्च निर्मुच्यते /
अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुरशीतिभिः स्त्रीसहस्रैः परिवृता पुरस्कृता येन ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपजगाम / उपेत्य तं भगवन्तं ज्योतिसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैरभ्यवकीर्य आभिर्गाथाभिरध्यभाषत /
असदृगुणधर वितिमिरकरण च्युतिहर वद कथमिहा युवति / भवतिह पुरुषो व्यपगतकुगति (dutt 38) श्रियु विनयमन द्रुतहितकर // rkp_2.3 //
परमगतिगत सुगत प्रशमरतिकर भगवन् त्यजति युवति तां कथमिह पुरुषः / वद मम लघु सुविनय परहितकर शमयातितिमिरा मम नयगगनात् // rkp_2.4 //
असमसम जगति श्रमण परम प्रथित गुणगण स्मृतिविनयधर / मम यदि पुरिषेह भवति हि धरता लघु वद वितिमिर सुगतपथामृतम् // rkp_2.5 //
एवमुक्ते कुलपुत्र स ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तां सुरसुन्दरीमग्रमहिषीमेतदवोचत् / अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्वेव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्वशेषं क्षीयते न च भूयो मातृग्रामेषु उपपत्तिं प्रतिगृण्हाति यावदनुत्तरपरिनिर्वाणे हान्या [ह्यनत्र स्व]प्रणिधानात् / तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्वशेषं क्षेपयति / इह भगिनि इयं रत्नकेतुर्नाम धारणी महार्थिकी महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाङ्मनोदुःखविपाकदौष्ठुल्यं (dutt 39) निरवशेषं क्षेपयति / अस्याश्च रत्नकेतुधारण्याः समाश्रयणेन मातृग्रामस्य मातृग्रामभावो निरवशेषो गच्छति / स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति / पुरुषश्चापि रूप[वान् सर्वाङ्ग]परिपूर्णो भवति ऋजुः सूक्ष्मज्ञानकुशलो भवति कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशतुर्निर्जेता भवति / यश्चास्य दृष्टधर्मसांपरायिकः काय[वाङ्म]नोदुःखप्रतिसंवेदनीयो दुष्कृतानां वाङ्मनःकर्मणां फलविपाकः स परिक्षयं गच्छति / स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकमार्यापवादकं च तेषां पुनस्तेनैव भावेन परिक्षयं गच्छति [अ]परिशेषः स्त्रीभावः / कायवाङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावेनापि निवर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरण-पापनिष्यन्दनिरवशेषः परिक्षयं गच्छति / तत् कुतः /
[तद्] यथा नाम इयं रत्नकेतुधारणी सर्वैरतीतैस्तथागतैरर्हद्भिः सम्यक्सम्बुद्धैर्भाषिताश्चाधिष्ठिता अन्योन्यमनुमोदिताः स्तुता अभिष्टुता वर्णिताः सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलबिवृद्धितायै / एभिः केचिदेतर्हि दशसु दिक्षु प्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु / सर्वे ते बुद्ध भगवन्त इमां रत्नकेतुधारणीं भाषन्ते यावत् प्रशंसन्ति सत्त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये / ये ऽपि ते भविष्यन्ति अनागते ऽध्वनि दशसु दिक्षु अन्योन्येषु तथागता अर्हन्तः सम्यक्संबुद्धास्ते ऽपीमां रत्नकेतुं धारणीं भाषिष्यन्ति (dutt 40) यावत् प्रशंसिष्यन्ति सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये / ते ऽहमप्येतर्हि रत्नकेतुं धारणीं भाषिष्यामि / अनुमोदिष्यन्ति च दशसु दिक्षु प्रत्युत्पन्नानं तथागतानां भाषमाणानामहमिमां रत्नकेतुधारणीं वर्णयिष्यामि प्रशंसिष्यामि / यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्तः इमां रत्नकेतुं धारणीं पुस्तके लिखित्वा धारयिष्यन्ति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षू उदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति / यावत् परं रूपधातुमुदारैः किर्तिशब्दैरापूरयिष्यति / अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य क्षत्रियस्य पृष्ठतः समनुबद्धा रक्षानुगुप्तये स्थास्यन्ति / सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः प्रशमं यास्यन्ति / सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनपबाधिनो भविष्यन्ति /
सर्वे विषतिक्तकटुकरूक्षविरसपरुष दुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यन्ति / सर्वाणि चास्य धनधान्यौषधिवनस्पतयः फलपुष्पाणि प्ररोहिष्यन्ति विवर्धिष्यन्ति स्त्रिग्धानि सुरसानि च भविष्यन्ति / स चेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुं धारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति / स चेदुभयो राज्ञोः क्षत्रिययोर्मूर्धाभिषिक्तयोः संग्रामाभिरूढयोर्ययो रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य[तः] / (dutt 41) इत्येवं बहुगुणान्वया रत्नकेतुधारणी यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां वा चतुष्पदानां व्याधितानामकालमरणं विहेठं वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः / प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः / सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यति / सर्वाणि च तत्र भयरोमहर्षदुर्निमित्तानि अन्तर्धास्यन्ति / यः कश्चिन्मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवरं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैरिमं पुस्तकमर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या / पुत्रप्रतिलाभी भविष्यति /
एषः [अस्य भवति अन्तिमो] मातृग्रामभावो यावदनुत्तरपरिनिर्वाणादन्यत्र स्वप्रणिधानात् सत्त्वपरिपाचनहेतो /
[तस्मिन् काले तथागतो ज्योतिप्रभश्रीरिमां रत्नकेतुधारणीम् उदाहरत् / जलोके जलोके / मोके जलि / जल (dutt 42) जलिमि / जलव्रते जहिले / वर-पुरुष-लक्षणसमारुह्य / अममे वममे वममे / नवमे महासे / जहमे जहमे जहमे जहमे / वरमे वरमे / वववे / वववे / वहवे / वंगवे / वजवे / वार वारशे / जमलेख / परख / अल जहिलि / जन तुले / जन तुभुखे / वहर वहर / सिंह व्रते / नन तिला / नन तिन दाला / सूर्यविहग / चन्द्रविहग / चक्षु रज्यति शविहग / सर्वक्षयस्त्रित्वसुरविहग / जखग जखग / सुरखघ वहम / अम्रिख / अम्रिख / अम्रिख / अम्रिख / अम्रिख / अम्रिख / अम्रिख अम्रिख / म्रिख म्रिख म्रिख / व्यवदेत कर्म / दुने दुने / उपत व्यवच्छेद् ज्ञानकृत / अनुद पदाखग / नेरुक / अङ्गुले भङ्गुले विभङ्गुले / कुलह / इन्द्रपरिविभह / व्यवच्छेद करभ / वव्रति / वव्रति / च प्रति / च प्रति / अमोह दरशने / परिवर्त भष्यु / खसम / क्रिमज्योतिखग / जहि जहि ज्योति / निष्क भिरस / भिरस / भिरस / भिरज / मतिक्रम / भिवक्रिव / महाक्रिव / हिले हिहिले / अरुणवते / समनिष्के / दमदानध्यान अपरामृशे / फलकुण्डललेख / निवर्त इस्त्रिभाव / कर्मक्षय [प्रादुर्भव पुरुषत्वम् / असमसम / समयविभिदधि]ज्ञ तथागत स्वाहा /
समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनरपि महापृथिवी कम्पि[ता / पञ्चशतमारकन्यानां (dutt 43) सहश्रवने]न अस्या रत्नकेतुधरण्याः स्त्रीव्यञ्जनमन्तर्धाय पुरुषव्यञ्जनं प्रादुरभवत् / अप्रमेयासंख्येयानां देवनागयक्षग[न्धर्वासुरगरुडकिन्नरमहोरगराक्षस]कुम्भाण्ड-कन्यानां सहस्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि प्रादुर्भूतानि / [तासां सर्वासामनुत्तरायां सम्यक्सम्बोधौ अनिवर्तनचित्तमभूत्] / सर्वासां चानागत-स्त्रीभाव-प्रतिलाभसंवर्तनीयं कर्मावरमशेसमनिरुद्वं च / ताः स्त्रियः प्राञ्जलय[स्तथागतं शाक्यमुनिं महास्वरेण प्रार्थयन्त्य] आहुः / नमो नम आश्चर्यकारकाय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय / ब्रूहि महाकृपया [विस्तरेण कथमस्माकं] स्त्रीभावमन्तर्हितं सर्वाकारपरिपूर्णं पुरुषभावं सम्भूतम् / तेनाश्चर्यप्रातिहार्यसंवेगेन [वयमनुत्तरायं सम्यक्संबोधौ चित्तं जनयेम / भगवन् ब्रूहि] इमं पूर्वयोगप्रमेयासंख्येयदेवमनुष्याणामभिभवाय /
अथ खलु भगवान् शाक्यमुनिस्तथागतः [पूर्वयोगमवोचत् / भद्रमुखामुष्मिन् काले यस्मिन् समये] ज्योतिसौम्यगन्धावभासश्रियस्तथगतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या (dutt 44) सुरसुन्दर्या देव्या सार्धं च[तुरशीतिस्त्रीसाहस्रेण सा रत्नकेतुधारणी श्रुता श्रवणमात्रेणैव] तस्याः सुरसुन्दर्याः अग्रमहिष्यास्तेषां चतुरशीतिनां स्त्रीसहस्राणां स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि [प्रादुर्भूतानि / तथैवासंख्येयाप्रमेयाणां] देवकन्यानां यावन्मनुष्यामनुष्यकन्यानां[श्रवणमात्रेणैव] अस्या रत्नकेतुधारण्याः स्त्रीन्द्रियमन्तर्हितं पु[रुषेन्द्रियं प्रादुर्भूतम् / सर्वासां तासां स्त्री] सहस्राणामनागत-स्त्रीभाव-प्रतिलाभ-संवर्तनीयं कर्मावरणमशेषं संनिरुद्धम् / यदा च राज्ञः उत्पलवक्त्रस्याग्रमहिष्याः [सुरसुन्दर्याः सपारिषद्यायः पुरुषत्वं संजातं] तदा स राजा उत्पलवक्त्रश्चातुर्द्वीपेश्वरश्चक्रवर्ती ज्येष्ठकुमारं राज्याभिषेकेणाभिषिच्य सार्धमेकोनेन पुत्रसहस्रेण [सार्धं सुरसुन्दरेण] सार्धं चतुरशीतिभिः सुरसुन्दरमहापुरुषसहस्रैः सार्धमपरिर्द्विनवतिभिः प्राणसहस्रैरभिनिष्क्रम्य तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेवागारादनागारिकां प्रव्रजितः / प्रव्रजित्वा स्वाध्यायभिरतो योनिशं मनसिकाराभियुक्तो ऽभूत् /
अथ तत्र बहूनां प्राणकोटीनामेतदभवत् / कस्माद् राजा चक्रवर्ती प्रव्रजितः / ते परस्परमेवमाहुः / मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम इमं (dutt 45) धर्मं देशयति / केषांचित् स्त्रीव्यञ्जनमुपनामयति / केषांचित् पुरुषव्यञ्जनम् / केषाञ्चित् केशश्मश्रूण्यवतारयति / केषाञ्चिद् रक्तानि वासांसि प्रयच्छति केषाञ्चित् पाण्डुराणि / केषांचिद् देवोपपत्तये धर्मं देशयति / केषाञ्चिन्मनुष्योपपत्तये केषाञ्चित्तिर्यग्योन्युपपत्तये केषाञ्चिद् च्युत्युपपत्तये धर्मं देशयति / मारकर्मपथाभियुक्तः स्त्रीकरणमायया समन्वागतः स श्रमणो ज्योतिसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः यन्नूनं वयमितः प्रक्रमेन न चास्य रूपलिङ्गग्रहणं पश्येम न चास्य किञ्चिद् वचनं शृणुयाम /
अथ तत्रैव कुमारभृतो नाम भटः / स एवमाह / या मम भार्या अन्तःपुरिका दुहितरश्चाभूवन् सर्वासामनेन श्रमणकोरण्डकेन स्त्रीव्यञ्जनान्यपनीय पुरुषेन्द्रियाण्यभिनिर्मितानि / सर्वासां शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांसि अनुप्रदत्तानि / अहं चैकाकी शोकार्तो भूतः / एते सर्वे वयं समग्रा भूत्वा विषमं महागहनपर्वतं प्रविशामः / यत्र वयमस्य मारपाशाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषमपि (dutt 46) न शृणुयाम प्रागेव पश्याम इति / ते सर्वे तुष्टा एवमाहुः / एवमस्त्विति /
अथ कुमारभृतो भटस्तैर्विचिकित्साप्राप्तैर्बहुभिः प्राणकोटीभिः सार्धं प्राक्रामत् प्रत्यन्तिमे जनपदे विषमपर्वतगहने स्व-ऋषिवेषेण चर्यां चचार / तेभ्यश्च सत्त्वेभ्यः एवं धर्मं देशयामास / नास्ति संसारान्मीक्षो नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः / उच्छेदवादी [अयं] श्रमणः उत्पन्नो मारकर्माभियुक्तो विसंवादकः / ये च तं दर्शनायोपसंक्रमन्ति ये च तमभिवादयन्ति ये चास्य धर्मं शृण्वन्ति ते विक्षिप्तचित्ता भवन्ति / शिरांसि चैषां मुण्डयति / गृहान्निर्वासयति / रक्तानि वासांसि प्रयच्छति / श्मशानचर्यां चारयति / भैक्ष्यचर्यासु निवेशयति / एकाहारिणः करोति / विषमदृष्टिमनसो ऽनित्योद्विग्नान् विवेकवासाभिरतान्लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषण-मैथुनधर्म-सुरामद्यपान-रहितानल्प-भाषिणः करोति / एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः सत्त्वानां शत्रुभूत उत्पन्नः अदृष्टश्रुतपूर्वमेतस्य श्रमणगौतमस्य क्रियोपलक्षित इति / तेन बहूनि प्राणकोटीनयुतशतसहस्राण्येवंरूपामिमां पापिकां दृष्टिं ग्राहितान्यभूवन् /
यो वापरेण समयेन उत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परानप्येतां विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानामवर्णं चारयन्तीति श्रुत्वा चास्यैतदभवत् / यावदहं तावत् सत्त्वांस्ततः पापकात् दृष्टिगतान्न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापयेयं निरर्थकं मे श्रामण्यं भवेत् / कथं चाहम् अनागताध्वनि अन्धभूते लोके अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् / कथं च व्यसनगतांश्चतुर्मारपाशबन्धनबद्धान् सत्त्वान् शक्ष्यामि परिमोचयितुमिति /
अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस्तं ज्योतिसोम्यगन्धवभासश्रियं तथागतमवलोक्यानेकप्राणि-शत-सहस्रपरिवृतः पुरस्कृतस्तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरन् तत्र वा अत्र तेभ्यः सत्त्वेभ्यो धर्मं देशयामास / तान् सत्त्वान् पापकान् दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायं सम्यक्संबोधौ प्रतिष्ठापयामास / कांश्चिदपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चित् श्रावकयाने कांश्चित् फले प्रतिष्ठापयामास / कांश्चित् प्रव्रजयामास / कांश्चिदुपासकसंवरे कांश्चिदुपवासे कांश्चित् त्रिशरणगमने प्रतिष्ठापयामास / स्त्रीभ्यश्च इमां रत्नकेतुधारणीं देशयामास / स्त्रीभावान्निवर्तयित्वा प्रतिष्ठापयामास पुरुषत्वे / याश्च तावत् ह्यश्रामण्यस्तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस्ताः सर्वस्ततः पापकदृष्टिगतात् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां (dutt 48) सम्यक्संबोधौ प्रतिष्ठापयामास / तस्यैव च ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकमुपनीय प्रव्रजयामास स्थाप्य कुमारभृतं भटम् / तेन चैवं प्रणिधानं कृतमभूत् / यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षदं विलोप्य नीता तथा ऽहमप्यस्यानुत्तरां सम्यक्संबोधिमभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेय यदुत गर्भस्थानात् प्रभृति एनं विहेठयेयम् / ततः पश्चाज्जातमात्रं कुमारक्रीडापरं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डसंनिषण्णं संत्रासयेयम् / विघ्नानि च कुर्याम् / बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् /
अथ स उत्पलवक्त्रो महाश्रमणस्तं कुमारभृतं भटमेवं प्रणिधिकृतावसायं महता कृच्छोद्योगपराक्रमैः प्रसादयित्वा ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म /
अथ कुमारभृतभटो विनीतप्रसादः इदं प्रणिधानं चकार / यदा त्वं महाकारुणिक अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेस्तदा बोधिप्राप्तो मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ /
स्यात् खलु पुनर्भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेनासीदुत्पलवक्त्रो नाम येन तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थानं कृतमनेकैश्च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशसहस्राणि (dutt 49) ततः [पापकदृष्टि]गतान्निवारयित्वा त्रिषु यानेषु निवेशितानि / अप्रमेयः सत्त्वः फलषु प्रतिष्ठापितः / अप्रमाणश्च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभः कृत इति / न खलु युष्माभिरेवं द्रष्टव्यम् / अहं स तेन कालेन तेन समयेन राजाभूत् चातुर्द्वीपेश्वरश्चक्रवर्ती उत्पलवक्त्रो नाम / मया स एवंरूपः मनसिकारः कृतः / यत् खलु पुनर्युष्माकं भद्रमुखाः काङ्क्षा [वा] विमतिर्वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्रामण्यमवाप्तम् / मैत्रेयः स बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेनाभूत् / स्यात् खलु भद्रमुखाः युष्माकं काङ्क्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् सार्धं प्राणकोटीभिः / न खलु पुनर्युष्माभिरेवं द्रष्टव्यम् / अयं स मारः पापीमांस्तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् / यन्मया तत्कालं [तस्य पार्षदः] प्रव्राजितः तेन मयि प्रदोषमुत्पाद्यैवं प्रणिधानं कृतम् / यदा त्वमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः स्यास्तदा त्वं मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ / तस्यैव यू[यं कुल]पुत्रा ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके[ऽ]प्रसादं कृत्वासंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूयं ततः
पापदृष्टिगतात् परिमोच्य प्रव्राजिताः / ततः अनु[पू]र्वेण (dutt 50) युष्माभिर्बहूनि बुद्धसहस्राणि पर्युपासितानि / तेषां च पूजोपस्थानं कृतम् / तेभ्यश्च धर्मं श्रुत्वा प्रणिधानं कृतम् / षट्सु पारमितासु [चर्या कृता] इति / तेन यूयं कायवाङ्मनोदुश्चरिकर्मणा पूर्वं त्रिष्वपायेषु अनेककल्पदुःखान्यनुभूतवन्तः / तेनैव कर्मावरणेन एतर्हि मारस्य पापीमतो भवने उपपन्न इति / अस्मिन् खलु पुना रत्नकेतुधारणी-पूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पञ्चानां मारकन्याशतानां स्त्रीभावमन्तर्धाय पुरुषभावः संवृत्तो ऽनुपत्तिकधर्मक्षान्तिप्रतिलम्भश्चाभूत् / अप्रमाणानाम् असंख्येयानां सत्त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः प्रजायाश्च अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि / [ते] अवैवर्त्याश्चाभूवन् अनुत्तरायां सम्यक्संबोधौ / एवमप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने [ऽ]वैवर्त्यानि अभूवन् / अप्रमेयासंख्येयानां देवमानुषकन्यानां मातृग्रामभावो ऽभिनिवृत्तः पुरुषभावाश्रयप्रतिलभश्चाभूत् / महायानसूत्राद्रत्नकेतु-पूर्वयोगपरिवर्तो नाम द्वितीयः //
2 // स्तर्त् र्क्प् 3
तृतीयः परिवर्तः
अथ खलु अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनार्हता सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत् / ये चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयन्ति ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयन्ति स्म / कुतो ऽयमवभासः उत्पन्नः / नूनं पापीमान् नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः यो ऽस्मत्तो बलवन्तः ईश्वरतरो महौजस्कश्च / अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं कोषागारे निषण्णं परमदुर्मनस्थम् / अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगाम / उपेत्य मारं पापीमन्तमेवमाह / किं भोः कामेश्वर ! सर्वावतीयं लोकधातुरवभासिता त्वं च शोकागारं प्रविश्य निषण्णः / अथ कामेश्वरो मारः तेषां मारकोटीशतानां विस्तरेणारोचयति स्म / यत् खलु मार्षाः जानीयु[रि]हैकः श्रमण उत्पन्नः शाक्यवंशात् परमशठो मायावी / तेनोत्पन्नमात्रेण सर्वावतीयमिह लोकधातुरवभासिता प्रकम्पिता क्षोभिता / ये केचिदिह कृत्स्नलोकधातौ विद्वांसो महेन्द्रा वा नागेन्द्रा वा यक्षेन्द्रा वा सुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा (dutt 52) किन्नरेन्द्रा वा यावदन्ये ऽपि केचिन्म[नु]ष्या विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत् षड्वर्षाणि एकाक्यद्वितीयं निषद्या लक्षणां मायां साधितवान् / अहमपि स्वबलदर्शनं चिकीर्षुः एवं षट्त्रिंशत्कोटीसैन्यपरिवारः उपसंक्रम्य समन्ततो ऽनुपरिवार्य सर्वमारबलविकुर्वण-ऋद्धिबलपराक्रमं संदर्शित[वान् /
पश्यैकं रोमकू]पमप्यहम् अशक्तो ऽस्मि संत्रासयितुं वा भीषयितुं वा किमङ्ग पुनस्तस्मादासनात् कम्पयितुं किंवा पुनरन्यं विघातं कर्तुमिति / अथ चैतेन वृषलेन तादृशी माया प्रदर्शिता [प्रकं]पश्च कृतः यत् ससैन्यो ऽहं पराजितश्छिन्नवृक्ष इव धरणीतले निपतितः / तेन च तत्रैव निषण्णेन तादृशी अलक्षणा माया सा[धिता ययासौ सर्वमारविषय]मेवा[भि]भूतं साधितविद्यां तस्मादुत्थाय सत्त्वेभ्यः संप्रकाशयामास / ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञास्तथा मा[यायां छन्दकृतस्तेषां चित्तं] प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु / ये च तच्छरणगतास्तेषाम् एकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं (dutt 53) वा [कम्पयितुं वा] लोके पुनस्तस्माद् विसंवादयितुं वा कम्पयितुं वा शक्नुयाम् / अद्यैव च मे पञ्च परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपर्षद्यानि वृषलं गौतमं [श्र]मणं शरणं गतास्तस्य पुरतो निषण्णाः / न चाहं भूयस्तानि शक्तस्तस्माद् विवेचयितुम् / तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः [सुहृदो भ]वत / तं शाक्यपुत्रं वृषलं जीविताद् व्यपरोपयिष्यामः / ये च सत्त्वास्तच्छरणगतास्तान् सर्वान् विध्वंसयिष्यामः / कृष्णं मायाशाठ्यं श्रमणपक्षं पराजेष्यामः / [शुक्लं मारप]क्षम् उद्द्योतयिष्यामः / ततः पश्चात् सुखस्पर्शं विहरिष्यामः /
अथ ज्योतिष्प्रभो मारः इमं जम्बुद्वीपं व्यवलोकयामास यत्र तथागतः [संनिषण्णो] धर्मं देशयति / अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् स्वरघोषयुक्त[स्तस्य धर्मदे]शनामश्रौषीत् / अथ तावदेव तस्य रोम[हर्षणः] संत्रा[सः] उत्पन्नः / अथ स मारं पापीमन्तमेवमाह /
कृत्स्ने क्षेत्रे ह्येष विशिष्टो वररूपः पुण्यज्ञानी [चिरस्थितिकश्च] शुद्धः / चिरकालं क्लेशान्मुक्तो मार्गसुयुक्तः सर्वे तस्य भव[क्षय] शोकविमुक्तः // rkp_3.1 //
मा त्वं भूयः क्रोधवशं गच्छानययुक्तम् अग्रो ह्येष श्रेष्ठः शरण्यस्त्रिभवे ऽस्मिन् / यस्यास्मिन्न द्वेषलवो ऽपि प्रतिभाति व्यामूढो ऽसौ सौख्यविनष्टो भवतीह // rkp_3.2 //
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह /
महर्धिको ऽसौ वरपुण्यलक्षणो ह्यनाश्रितः सर्वगतिप्रमुक्तः / अशेष[दुःख]क्षयमार्गदेशको विहिंसितुं मारशतैर्न शक्यम् // rkp_3.3 //
पापीमानाह /
वशं मदीयां जनतां कृताहि युष्मज्जनस्तस्य वशानुगो ऽयम् / न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुनर्भविष्यति // rkp_3.4 //
अथ वनराजो नाम मारः स मारं पापीमन्तमेवमाह /
यदा तवासीत् परम समृद्धिस्तदा त्वया दर्शितमात्मसौर्यम् / बलप्रनष्टो ऽस्यधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य // rkp_3.5 //
खड्गसोमो मारः प्राह /
क्वचिन्न तस्यास्ति मनःप्रदोष वा न विशुद्ध [तिष्ठति चित्ता]शयेन / त्रैधातुकान्मुक्तगतिप्रचारो नासौ [परै]र्घातयितुं हि शक्यम् // rkp_3.6 //
पापीमानाह /
ये सन्निषण्णा इह लोकधातौ कामप्रसक्ता मदमानमूर्च्छिताः / [सदा]नुवृत्ता मम किंकरास्ते कथं न शक्यं तैर्विघातयितुं समग्रैः // rkp_3.7 //
क्षितितोयो नाम मारः स एवमाह /
मायामरीचिप्रतिमानसारान् भावान् परिज्ञाय विनीततृष्णः / भवेष्वसक्तो गगनस्वभावः शक्यं विघतः कथमस्य कर्तुम् // rkp_3.8 //
पापीमानाह /
इहैव तस्यास्ति वशो त्रिलोके मिष्टान्नपानासनवस्त्रसेविनः / त्रिवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं न कथं हि शक्यम् // rkp_3.9 //
तृष्णञ्जहो नाम मारः स एवमाह /
या ऋद्धिरस्मिन् विषये ऽस्ति काचित् पापीमतां चैव महोरगाणाम् / सिद्धार्थ-ऋद्धेर्न कलां स्पृशन्ति क्षयं प्रणेतुं च कथं हि शक्यम् // rkp_3.10 //
पापीमानाह /
भक्तच्छेदो मयास्य हि कारितस्तच्छिला पुनः क्षिप्ता / उक्तास्तथा क्रोशा आश्रमात् कम्पितो ऽपि सः // rkp_3.11 //
बोधाक्षो नाम मारः स एवमाह /
यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन / संदर्शितस्ते भृकुटीमुखे वा किं तस्य साक्षात् [कु]वचः श्रुतं ते // rkp_3.12 //
पापीमानाह /
प्रतिसंख्यया सो क्रमते च नित्यं प्रहीणरागो गतदोषमोहः / सर्वेषु सत्त्वेषु स मैत्रचित्तः संसर्गचर्या पुनरस्य नित्यम् // rkp_3.13 //
दुर्धषो नाम मारः स एवमाह /
ये च त्रिसंयोजनपाशबद्धास्तेषां विघाताय वयं यतेम / स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं च कथं हि शक्यम् // rkp_3.14 //
पापीमानाह /
यूयं मम प्राप्तबलाः सहायाः सद्यो भवन्तो भवताप्रमत्ताः / अपो ऽधितिष्ठामि महीमशेषां सर्वा दिशः पर्वतमालिनी च // rkp_3.15 //
गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्यायसचूर्णराशिम् / नाराचशक्तिक्षुरतोमरांश्च क्षिपामि काये ऽस्य विचूर्णनार्थम् / एभिः प्रयोगैरभिघातदीप्तैस्तं स्थाक्यसिंहं प्रकरोमि भस्म // rkp_3.16 //
पेयालम् / यावन्मारकोटीभिर्गाथाकोटी भाषिंता इति /
अथ सर्वे माराः एककण्ठेनैवमाहुः / एवमस्तु / गमिष्यामः स्वकस्वकेभ्यो भवनेभ्यः / सन्नाहं बद्ध्वा ससैन्यसपरिवाराः आगमिष्यामो यदस्माकम् ऋद्धिबलविषयं तत्सर्वमादर्शयिष्यामः / अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्क्षणे प्रदर्शयति /
अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारकोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य नानाप्रहरणयुक्तो विविधसन्नाहसंनद्धस्तस्यामेव रात्रया[म]त्ययेनेमं जम्बुद्विपमनुप्राप्तः / अङ्गमगधसन्धौ गगनस्था यावदेवास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरग-प्रेत-पिशाच-कुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधाय उद्योजिताः / ते ऽपि नानाप्रहरणवर्मप्रावृतास्तत्रैव तस्थुः / मारो ऽपि पापिमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरस (dutt 59) ऋषिः प्रतिवसति महेश्वरभक्तिकः अष्टादशसु विद्यास्थानेषु ऋद्धिविषयपारमिप्राप्तः पञ्चशतपरिवारस्तस्य महेश्वररूपेण पुरतः स्थित्वैवमाह /
नियतं गौतमगोत्रजो ऋषिवरो विज्ञातो ऽभिज्ञाश्रितो मगधे संवसतीह सो ऽद्य चरती पिण्डाय राज्ञोर्गृहम् / तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः तत्रैव त्वमप्येव पञ्च नियतं प्राप्स्यस्यभिज्ञावशिम् // rkp_3.17 //
अथ मारः पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः / स्वभवनञ्च गत्वा स्वपार्षद्यानां माराणामारोचयति स्म /
मत्तो भोः शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता स्वैरं शाक्यसुतं समालपयत ऋद्धिप्रभावान्वितम् / तां मायां न विदर्शयेत् स्वविषयां मारोरुदर्पो महान् नित्यं स्निग्धवचः स शिष्यनियतो मातेव पुत्रेषु च // rkp_3.18 //
शिष्यास्तस्य हि ये प्रहीण[प्र]मदाश्चर्यां चरन्ति ध्रुवं पूर्वाण्हे नगरं क्रमेण निभृतं स्वैरेण तावद्वयम् / गृण्हीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः // rkp_3.19 //
अपरो मार एवमाह /
सिंहव्याघ्रगजोष्ट्रचण्डमहिषाः क्षिप्रं पुरस्यास्य हि प्रावृण्मेघनिनादिनः खररवान्निर्मीय नैकान् बहिः / तिष्ठेमो वयमायुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान् भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः // rkp_3.20 //
अपरो मारः प्राह /
वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखैर् नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः / आकाशाद् घनरावसुप्रहरणैर्मेघाशनिं मुञ्चतः क्षिप्रं स सभयं प्रयास्यति ततो भूकम्पहेतोर्वशम् // rkp_3.21 //
विस्तरेण यथासौ माराणां मारबलविषयविकुर्वतां सर्वे तथैवाचक्षुः /
भगवांश्च पुनः सर्वावतीमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीमध्यतिष्ठत् / न च पुनर्भूयो मारा रावांश्चक्रुर्न चातुर्दिशमग्निपर्वतास्तस्थुः / न कृ[ष्णा]भ्रा नाकालवायवो न च कश्चिन्नागो ऽभिप्रवर्षति स्म अन्तशः एकबिन्दुरपि बुद्धबलाधिष्ठानेन /
तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाण्हे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः / आयुष्मान् शारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश / तत्र च नगरे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महत्मवेषसदृशा नृत्यन्तो गायन्तः संचेरुः / ते आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः / नर्तस्व श्रमण गायस्व श्रमण / शारिपुत्र आह / शृणुत यूयं मार्षाः स्वयम् / अश्रुतपूर्वां गीतिकां श्रावयिष्यामि / ते च सव मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहुः /
अलमेव हि आयतनेहि वञ्चिता वयमायतनेहि / आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम् // rkp_3.22 //
अलमेव हि स्कन्धकृतेहि वञ्चिता वयं स्कन्धकृतेहि / आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम् // rkp_3.23 //
तद्यथा / वहर वहर / भारवह मरीचिवह / सद्यवह अमवह / स्वाहा //
स्थविरः शारिपुत्रो धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः /
क्षमापयामो वयमद्य नाथं त्वामेव बन्धुं जगतः सुदेशिकम् / स्कन्धा यथा ते सभयाः प्रदिष्टाः तव वयं साक्षिण एषु नित्यम् // rkp_3.24 //
सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो निषेदुर्धर्मश्रवणाय /
अथ खल्वायुष्मान् महामौद्गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् / तथापि पञ्चाशन्मारकुमारका यावद् गीतस्वरेणैवाहुः /
अलमेव हि धातुमयेहि वाञ्चिता वयं धातुमयेहि / आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम् // rkp_3.25 //
अलमेव हि वेदयितेहि वञ्चिता वयं वेदयितेहि / आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम् // rkp_3.26 //
अलमेव हि चेतयितेहि वञ्चिता वयं चेतयितेहि / आघतनानि हि चेतयितानाम् अन्तु करोम्यहु चेतयितानाम् // rkp_3.27 //
अलमेव हि संज्ञाकृतेहि वञ्चिता वयं संज्ञाकृतेहि / आघतनानि हि संज्ञाकृतानि अन्तु करोम्यहु संज्ञाकृतानाम् // rkp_3.28 //
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि / आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् // rkp_3.29 //
तद् यथा / आमव आमव आमव / आरज रणजह / शम्यथ शम्यथ शम्यथ / गगनपम स्वाहा //
धावन् गीतस्वरेण आयुष्मान् महामौद्गल्यायनो मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः /
ऋद्ध्यान्वितेर्यापथगुप्तमुनीन्द्रसूनुः संसारदोषसमदर्शक-धर्मदीपः / पापं प्रहाय वयमादरभक्तिजाता बुद्धं गताद्य शरणं वरधर्मसंघम् // rkp_3.30 //
सर्वे ते पञ्चाशान्मारकुमारका वीथीमध्ये आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो निषेदुर्धर्मश्रवणाय /
अथायुष्मान् पूर्णो मैत्रायणीपुत्रः उत्तरेण नगरद्वारेण पिण्डाय प्राविशत् / यावद् वीथ्यां धावमानो गीतस्वरेणैवमाह / अलमेव हि स्पर्शकृतेहि वञ्चिता वयं स्पर्शकृतेहि आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम् // rkp_3.31 //
अलमेव हि आघिपतेहि वञ्चिता वयम् आधिपतेहि आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतोनाम् // rkp_3.32 //
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि / आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम् // rkp_3.33 //
अलमेव हि सर्वभवेहि वञ्चिता वयं सर्वभवेहि / आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम् // rkp_3.34 //
लघु गच्छति आयु मार्षा सलिला शीघ्रजवेन वेगिनी / न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः // rkp_3.35 //
पेयालाम् / अबुधः शब्दमदेन मत्तकः // rkp_3.36 // अबुधो गन्धमदेन मत्तकः // rkp_3.37 //अबुधो रसमदेन मत्तकः // rkp_3.38 //अबुधः स्पर्शमदेन मत्तकः // rkp_3.39 // लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी / न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः // rkp_3.40 // अबुधः स्कन्धमदेन मत्तकः // rkp_3.41 //अबुधो धातुमदेन मत्तकः // rkp_3.42 //अबुधो भोगमदेन मत्तकः // rkp_3.43 //अबुधः सौख्यमदेन मत्तकः // rkp_3.44 //अबुधो जातिमदेन मत्तकः // rkp_3.45 //अबुधः काममदेन मत्तकः // rkp_3.46 // लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी / न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः // rkp_3.47 //
तद्यथा / खर्गव खर्गव खर्गव / मुन विज्ञानि / आवर्त विवर्त खबर्त / ब्रह्मार्थ ज्योतिवर्त स्वाहा //
अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः / त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश्च धातवः / संकल्पमात्र-जनितो वत जिवलोको रत्नत्रयं हि शरणं वरदं व्रजामः // rkp_3.48 //
सर्वे ते पञ्चाशन्मारकुमारका आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय /
तेन च समयेन आयुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् / तत्र च नगरद्वारे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यन्तो गायन्तो विचेरुः / ते आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्तः आयुष्मन्तं सुभूतिमेवमाहुः / नर्तस्व श्रमण गायस्व श्रमण / सुभूतिराह / शृणुत मार्षा यूयम् / अश्रुतपूर्वां गीतिकां श्रावयिष्यामि / सर्वे चाल्पशब्दा अभूवन् / धावन् गीतस्वरेण आयुष्मान् सुभूतिरेवमाह /
अनित्य सर्वभाव माय-बुद्बुदोपमा न नित्यमस्ति संस्कृते क्वचिच्चलात्मके यथा / मरीचि दृष्टमेव यथा नास्ति तत्र शाश्वतं लघु व्ययो हि सर्व धर्म बुद्धिमान् प्रजानते // rkp_3.49 //
सर्वे स्पर्शदुःखभारवेदना निरात्मिका यत्र प्रसक्त सर्वे बाल दुःखधर्मपिडिताः / मित्रं न कश्चिदस्ति सर्वदुःखमोचका यथा हि श्रद्धा बोधिमार्ग भावना च सेविता // rkp_3.50 //
एकपक्ष सर्वधर्म संज्ञा वर्जिता शुभा निरात्मयोग सर्वचर्य द्रव्यलक्षणात्मिका / न जीवपोषपुद्गलो ऽपि कारको न विद्यते विज्ञात्व मायाशाठ्य बोधिचित्त नामय // rkp_3.51 //
विज्ञान वर्ततेन्द्रियेषु विद्युता यथा नभे अनात्मकाश्च सर्वे स्पर्शवेदनापि चेतना / योनिशो निरीक्ष्य किंचिदस्ति नैव द्रव्यता संमोहितो हि बालवर्गो यन्त्रवत् प्रवर्तते // rkp_3.52 //
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते भूतकोटि शान्त शून्य सर्व अन्तवर्जिता / अमोहधर्मतैष उक्त बोधिमार्गचारिका- नयेहि नायकेन बोधिप्राप्ततायिना // rkp_3.53 //
तद्यथा / सुमुन्दे विमुन्दे सुन्दजहि / सिलि सिलि / सिलि सिलि / अवहसिलि [अवह]सिलि / तथात्वसिलि भूतकोटिसिलि स्वाहा //
अथायुष्मान् सुभूतिर्धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नसनसः एवमाहुः /
अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः / यत् कृतं पापकं कर्म [मोहेनाज्ञानतस्तथा] // rkp_3.54 //
प्रतिदेशय तच्चैव वयं साक्षाज् जिनात्मजाः प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिते // rkp_3.55 //
सर्व ते पञ्चाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा वन्दित्वा तस्यैव पुरतो वीथीमध्ये निषेदुर्धर्मश्रवणाय /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
