Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

महासंनिपातरत्नकेतुधारणीसूत्र, 1-6, 10-11

Thông tin
GRETIL — Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म / तत्र च वीथीमध्ये स्थविर शारिपुत्रः उत्तरामुखो निषण्णः / महामौद्गल्यायनः पञ्चिमामुखो निषण्णः / पूर्णो दक्षिणामुखः / सुभूतिः पूर्वामुखः / परस्परमर्धयोजनप्रमाणेन तस्थुः / तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशे पद्मं प्रादुरभूत् पञ्चाशद्धस्तविस्तारं (dutt 69) जाम्बूनदमयेन दण्डेन नीलवैडूर्यमयैः पत्रैः श्रीगर्भमयेन केसरेण मुखामयया कर्णीकया / ततश्च पद्मान्महानवभासो ऽभवत् / तस्यां च वीथ्यां तत्पद्मं त्रिपौरुषम् उच्चत्वेन संदृश्यते स्म यावच्चातुर्महाराजकायिकेषु देवेषु तत्पद्मं दिव्यानि पञ्चाशद् योजनानि उच्चत्वेन संदृश्यते स्म / त्रायस्त्रिंशत्सु तत्पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्पद्मम् अर्धयोजनमुच्चत्वेन संदृश्यते स्म / तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः / ये सत्त्वा इह भूमिस्थितास्ते इमान् श्लोकान् शुश्रुवः /

एकः पुद्गल उत्पन्नो बुद्धक्षेत्रे इहानघः / निहतो मार एकेन ससैन्यबलवाहनः // rkp_3.56 //

एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम् / एकाकीह जगद्धेतोराया[तो हि] न संशयः // rkp_3.57 //

विद्वांसौ बहुनीतिशस्त्रकुशलौ धर्मार्थमोक्षार्थिकौ नीतिज्ञौ उपतिष्यकौलितवरौ शास्त्रे विनीताविह / विद्वान् सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान् नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः // rkp_3.58 //

त्रयध्वज्ञानसुदेशकः श्रमणराट् शिक्षात्रयोद्भावक- स्त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् / लोकस्याथ हितप्रचारकुशलो ज्ञानप्रदीपो महान् सद्वादी त्रिमलप्रहीण इह सो अद्यैव संगास्यति // rkp_3.59 //

लोकार्थमभ्रान्तमतिश्चचार दुःखार्दितं सर्व जगद् विमोचयन् / अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् // rkp_3.60 //

सर्वावतीयं परिषत् समागता न चिरादिहायास्यति वादिसिंहः / परमार्थदर्शी परमं सुरूपो बलैरुपेतो हि परापरज्ञः // rkp_3.61 //

दृष्ट्वा जगद्दुःखमहार्णवस्थम् आहन्तुमायास्यति धर्म[भेरीम्] / षडिण्द्रियैरुत्तमसंवरस्थः [षडाश्रयश्च षड]भिज्ञकोविदः // rkp_3.62 //

षट्पारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः / षडिन्द्रियग्रा[मविहेठनाय] षडुत्तमार्थ स्मृति सारथेन्द्रः // rkp_3.63 //

यावत् षट्सु कामावचरेषु देवेषु ततः पद्मादिमा गाथा निश्चेरुः /

यूयं समग्रा रतिमद्य भुंजथ प्रमत्तचित्ता मदतृष्ण[सं]रताः / सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगतं प्रमादात् // rkp_3.64(="63") //

कामाननित्यो दकचन्द्रसन्निभः संसारपाशो ऽतिदृढः प्रजायाः / अनिःसृतानां रतिषु प्रमादिनां न निर्वृतो वा तु पुनर्भविष्यति // rkp_3.65(="64") //

सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभम् / जरा-रुजा-मृत्युभयैः परीता अपायभूमिप्रसृताश्च यूयम // rkp_3.66(="65") //

दानं दमं संयममप्रमादं निषेवत प्राक्सुकृतं च रक्षत / उत्सृज्य कामानशूचिननन्ता- नुपसंक्रमध्वं सुगतं शरण्यम् // rkp_3.67(="66") //

गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद्धि महार्थिकं वचः / प्रज्ञा-विमुक्तिः प्रशमाय हेतुः सद्धर्मयुक्तं श्रवणं महार्थम् // rkp_3.68(="67") //

यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरुः /

धर्मं प्रयत्नेन विभावयध्वं समाहित-ध्यानरता अनङ्गनाः / अभ्रान्तचित्ताश्च विमोक्षकाङ्क्षिणो द्वेषप्रहाणाय मतिं कुरुध्वम् // rkp_3.69(="68") //

त्रयोदशाकार-निमित्त-दीपिकां विभावयध्वं परमां हि क्षान्तिम् / अथैव चाप्यत्र विमोक्षमाशु संप्राप्स्यथ व्याधिजरावियुक्तम् // rkp_3.70(="69") //

शाश्वत ये रूपविकल्पसंज्ञके नित्यं ध्रुवात्मस्थिरभावदृष्टयः / तेषां च जन्म[जरयोर]हानि- रपायभूमिप्रवणा हि ते वै // rkp_3.71(="70") //

त्रैधातुकं वीक्ष्य सदा निरात्म- मद्रव्यमस्वंवशकं निरीहम् / क्षान्तिं विभावेन्ति य आनुलोमिकीं भवन्ति ते सर्वि गतिप्रमुक्ताः // rkp_3.72(="71") //

तेषां न मृत्युर्न जरा न रोगो न दुर्गतिर्नाप्रियसंप्रयोगः / आकाशतुल्यानिह सर्वधर्मान् ये भावयन्ते व्ययभावयुक्तान् // rkp_3.73(="72") //

अत्यन्तशुद्धो हि वरः स मार्गो येषामसङ्गं मन-इन्द्रियेषु / मारान् विधुन्वन्ति चतुष्प्रकारान् यथाह्ययं संप्रति शाक्यसिंहः // rkp_3.74(="73") //

एकं नयं ये तु विभावयन्ति निष्किञ्चनं सर्वनिमित्तवर्जितम् / द्वयप्रहाणाय विनीतचेष्टा तेषामयं मार्गवरः प्रणीतः // rkp_3.75(="74") //

विभाव्य शून्यानिह सर्वधर्मान् अस्वामिकानकारकजातिवृत्तान् / स्पृशन्ति बोधिं गगनस्वभावां निरुत्तमां प्रार्थनया विवर्जिताम् // rkp_3.76(="75") //

एभिरेवंरूपैरर्थपदधर्मशब्दैर्निश्चरद्भिर्य इह लोकधातौ मनुष्यामनुष्यास्ते समागम्य वीथीमध्ये समन्तास्तस्य पद्मस्य निषेदुः / यावदप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठाभवनादवतीर्य ते पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय / अश्रौषीन्मारः पापीमानेतान् श्लोकान् / समन्ततश्च व्यवलोक्य अद्राक्षीत् राजगृहे महानगरे वीथिमध्ये पद्मम् / ततश्चेमे श्लोकाः निश्चेरुः / तदा पद्मं परिचार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय /

अथ खलु मारः पापीमान् ऊर्द्ध्वं व्यवलोकितवान् / अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत्पद्मम् / तदेव चानुपरिवार्य अप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि [सन्निषण्णानि] धर्मश्रवणाय /

अथ भूयस्या मात्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रखिन्नगात्रः संप्रकम्पितशरीरो गगने प्रधावन् महता स्वरेण परान् मारान् प्रक्रोशन्नेवमाह / शृणु गिरि मम इमा समवहितमना न मे वशो स्वविषये न च बलमिह मे / इदमिह मुनिबलमतिगुणविशदं प्रसरति जगति स्थिरजनकरणम् // rkp_3.77(="76") //

कमलमिहोदयति नरमरु ल्हादयितुमुपगत निखिउलतो सुजननियता / परितृषित सुगतसुवचननिरता व्रजति हि शमथपथमतिगुणपरमा // rkp_3.78(="77") //

मायेयं श्रमण प्रवर्तत इह त्रैलोक्यसंमोहने सर्वे ऽनन्यमना नरामरगणाः पद्मं वितत्य स्थिताः / क्षिप्रं मुञ्चत शैलवृष्टिमधुना भीष्मस्वरं राविणो गच्छेन्नाशमयं यथाद्य निहतो मारो ऽग्रसिन्यायुधैः // rkp_3.79(="78") //

अथापरो मारः पापीमन्तमेवमाह /

शृण्वस्माकमिदं वचो हितकरं विज्ञातधर्मो ऽसि किं यत् पश्यन्निह मरसैन्यविलयं नायासि शान्ति ततः / भ्रान्ताः स्म असमीक्ष्य सौगतमिदं तेजोवपुः श्रीघनं रूपं नान्यदिहोत्तमं सुशरणं बुद्धादृते नायकम् // rkp_3.80(="79") //

अथापरो मारः प्ररुदन् परमक्रोधाविष्टवचनो मारं पापीमन्तमेवमाह /

कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिम् / न लज्जसे ऽपत्रपसे न चैव यस्त्वं सह स्पर्धसि नायकेन // rkp_3.81(="80") //

अस्मब्दलैर्यद्विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् / उपागमत् पद्मसमीपमाशु धर्मश्रवाप्यायितशुद्धदेहः // rkp_3.82(="81") //

वयं तु वीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः / यावन्न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् // rkp_3.83(="82") //

अथापरे माराः कृताञ्जलय एवमाहुः /

पापीमंस्त्वमपेतधर्मचरणः पापक्रियायां रतो नाथो ह्येष जगद्धितार्थकुशलो बुद्धः सतामग्रणीः / आयामो नगरं द्रुतं वयमिह प्रीतिप्रसन्नेक्षणाः गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनाम् // rkp_3.84(="83") //

अथ तत्रैव गगनघोषवतिर्नाम मारः स उच्चस्वरेणैवमाह /

सव यूयं समग्राः शृणुत मम वचो भक्तितः प्रीतियुक्ताः पापाद् दृष्टिं निवार्य प्रणततनुमनोवाक्समाचारचेष्टाः / त्यक्तक्रोधाः प्रहृष्टमुनिवरवचनाः स्फीतभक्तिप्रसादा गत्वा बुद्धं समक्षं शरणमसुलभं पूजयामो ऽद्य भक्तया // rkp_3.85(="84") //

अथ तत्क्षणमेव सर्वे मारा गगनतलादवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः / केचिन्मारचक्रवर्तिराजवेषमात्मानमभिनिर्मीय भगवतः पूजापरास्तस्थुः / केचिद् ब्रह्मवेषं केचिद्वशवर्तिवेषं केचिन्महेश्वरवेषं केचिन्नारायणवेषं केचित्तुषितवेषं केचिद् यमवेषं केचिच्छक्रवेषं केचित्त्रयस्त्रिंशद्वेषं केचित् कुमारवेषं केचिद् वैश्रवणवेषं केचिद् विरूढकवेषं केचिद् विरूपाक्षवेषं केचिद् धृतराष्ट्रवेषं केचित् प्राकृतचतुर्महाराजवेषं केचित् सूर्यवेषं केचिच्चन्द्रवेषं केचित्तारकवेषं केचिदसुरवेषं केचिद् गरुडवेषं केचित् किन्नरवेषं केचिन्महोरगवेषं केचिद् रत्नपर्वतवेषं केचित् निष्कवेषं केचिन्नानारत्नवेषं केचिद् रत्नवृक्षवेषं केचित् क्षत्रियवेषं केचिदन्यतीर्थिकवेषं केचिच्चक्ररत्नवेषं केचिन्मणिरत्नवेषं केचिदैरावणवेषं केचिद्वलाहकराजवेषं (dutt 78) केचित् स्त्रीरत्नवेषं केचित् श्रेष्ठिमहारत्नवेषम् आत्मानमभिनिर्मीय तस्थुर्भगवतः पूजाकर्मणे / केचिन्नीला नीलवर्णाः श्वेतवर्णालङ्कारालंकृतमात्मानमभिनिर्मीय भगवतः पूजाकर्मणे लोहितान् छत्रध्वजपताकामुक्ताहारान् धारयन्तस्तालप्रमाणामात्रमुच्चत्वेन गगनतले तस्थुः / केचिदवदाता अवदातवर्णा मञ्जिष्ठवर्णाभरणविभूषणाः पीतान् छत्रध्वजपताकान धारयन्तस्तस्थुः / केचिन्मञ्जिष्ठा मञ्जिष्ठवर्णाः सुवर्णाभरणविभूषणा नीलान् छत्रध्वजपताकान् धारयन्तस्तस्थुः / केचिल्लोहिता लोहितवर्णाः श्वेतमुक्तवर्षं ववर्षुः / केचित् श्वेताः श्वेतवर्णाः लोहितमुक्तवर्षं ववर्षुः / केचिद्देवर्षिवर्णमात्मानमभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्रवर्षुः /

केचिद् भगवतः श्रावकवेषमात्मानमभिनिर्मीय नानादिव्यगन्धवर्षं गगनाद्ववर्षुः / केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः / केचित् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयन्तः पृथिवीं सिषिञ्चुः / केचित् कालकृष्णवर्णाः गन्धान् प्रधूपयामासुः / केचिद्देवपुत्ररूपेण नृत्यगीतस्वरान् मुमुचुः / केचिन्नानावर्णा येन भगवांस्तेन प्राञ्जलयो भगवन्तं तुष्टुवुः / केचिन्माराः मारपार्षद्या अपि यस्यां दिशि भगवांस्तदभिमुखा नानाविधानि मणिरत्नानि दधिरे भगवतः पूजाकर्मणे / केचिद् वीथीगृहशरणगवाक्षोरणहर्म्य-चत्वरशृङ्गाटककूटागार-द्वार-वृक्षविमानेषु (dutt 79) स्थित्वा प्राञ्जलयो निषेदुः भगवत पूजाकर्मणे /

अथ स मारो यदा अद्राक्षीत् सर्वांस्तान् मारान् सपरिवारान् श्रमणगौतमं शरणं गतान् तदा भूयस्या मात्रया क्षूब्धस्त्रस्तो भ्रान्तः प्ररुदन्नेवमाह /

न भूयो मे सहायो ऽस्ति नष्टा श्रीर्मे ऽद्य सर्वतः / भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् // rkp_3.86(="85") //

मूलं छिन्द्यामहं पद्मं सत्त्वा येन दिशो ऽव्रजन् / छेदात् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलम् // rkp_3.87(="86") //

इति संचिन्त्य मारः पापीमान् वायुवदवतीर्य गगनाद् येन तत्पद्मं वीथीगतं तेन प्रसृत्य तत्पद्ममादण्डादिच्छति ऊद्धर्तुं स्प्रष्टुमपि न शशाक / पत्राणि छेत्तुमिच्छति न च तानि ददर्शुः / पद्मकर्णिकामपि पाणिना पराहन्तुमिच्छति तामपि नैव लेभे / तद् यथा विद्युद् दृश्यते न चोपलभ्यते / तद् यथा वा छाया दृश्यते न चोपलभ्यते / एवमेव तत् पद्मं दृश्यते न चोपलभ्यते /

यदा च मारः पापीमान् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श अथ पुनः सर्वपर्षत् संत्रासनार्थम् उच्चैः महाभैरवं स्वरं मोक्तुमिच्छति तदपि न शशाक / न पुनर्महाबलवेगेन उभाभ्यां पाणिभ्यामिच्छति महापृथिवीं पराहन्तुं कम्पयितुं तदपि स्प्रष्टुं न शशाक नैवोपलेभे / तद् यथापि नाम कश्चित् (dutt 80) आकाशमिच्छेत् परामर्ष्टुं न च उपलभते / एवमेव मारः पापीमान् ददर्श पृथिवीं न च पस्पर्श नोपलेभे / तस्यैतदभवत् / यत्त्वहं यथा संनिपतितानां सत्त्वानां प्रहारं दद्यां चित्तविक्षेपं वा कुर्याम् इति / ददर्श तान् सत्त्वान् न चैकसत्त्वमपि उपलेभे न च पस्पर्श /

अथ भूयस्या मात्रया मारः पापीमान् रुरोद / बुद्धनुभावेन चास्य सर्वं शरीरं वृक्षवत् चकम्पे / साश्रुमुखश्चतुर्दिशं च व्यवलोकयन्नेवमाह /

मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता येनाहं पुरतो विमोहित इद भ्रान्तिं गतो ऽस्मि क्षणात् / भ्रष्टो ऽहं विषयात् स्वपुण्यबलतः क्षीणं च मे जीवितं शीघ्रं यामि निराकृतः स्वभवनं यावन्न यामि क्षयम् // rkp_3.88(="87") //

स्वभवनमपि गन्तुमिच्छति न तत्रापि शशाक गन्तुम् / स भूयस्या मात्रया त्रस्तो रुरोद / एवं चास्योदपादि / परिक्षीणो ऽहम् ऋद्धिबलात् माह्यैवाहं श्रमणस्य वशमागच्छेयम् / मा वा मे ऽस्य शत्रोर्वा अग्रतो जीवितक्षयः स्यात् यत् त्वहमतो ऽन्तर्धायेयं सहाबुद्धक्षेत्रस्य बहिर्धा कालं क्रुयां यथैकसत्त्वो (dutt 81) ऽपि मे सहाबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् / तथापि न शक्नोति अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा तत्रैव कण्ठे पंचबन्धनबद्धमात्मानं ददर्श / भूयस्या मात्रया कुपितस्त्रस्तः उच्चै रुदन्नेवमाह / हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति /

अथ घोषवतिर्नाम मारश्चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तमेवमाह /

किं भोः शोकमनास्त्वमद्य रुदिषि व्याकोषवक्त्रस्वरः क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भीः शरण्यं व्रज / त्राणं लोकगतिश्च दीपशरणं नाथस्त्रिदुःखापहो न त्वेतं समुपास्यसि सुखशमं सौख्यं न संप्राप्स्यसि // rkp_3.89(="88") //

अथ मारस्य पापीमत एतदभवत् / यत्त्वहं सन्तोषवचनेन श्रमणगौतमं शरणं व्रजेयं यदहमेभ्यो बन्धनेभ्यः परिमुच्येयम् /

अथ् मारः पापीमान् यस्यां दिशि भगवान् विजहार तेनाञ्जलिं प्रणम्यैवमाह / नमस्तस्मै वरपुद्गलाय जराव्याधिपरिमोचकाय / एवमहं त्सं बुद्धं भगवन्तं शरणं गच्छामि / एवं चाह /

अस्मान्नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर्बन्धनात् मुच्येयं शरणागतो ऽस्मि सुगतस्याद्यप्रभृत्यग्रणीः / मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोषः कृतः तत् सर्वं प्रतिदेशयामि पुरतस्त्वां साक्षिणं स्थाप्य तु // rkp_3.90(="89") //

यदा च मारः पापीमान् सन्तोषवचनेन बुद्धं भगवन्तं शरणं गतस्तदा मुक्तमात्मानं संजानीते / यदा पुनरस्यैवं भवति प्रक्रमेयमिति पर्षद इति पुनरेव कण्ठे पञ्चबन्धनबद्धमात्मानं संजानीते / यदा पुनर्न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तमुत्पादयामास / पुनर्मुक्तमत्मानं संजानीते यवत् सप्तकृत्वो बद्धमुक्तमात्मानं संजानीते स्म तत्रैव निषण्णः / इति महासन्निपातरत्नकेतुसूत्रे तृतीयो मारदमन-परिवर्तः समाप्तः // 3 // स्तर्त् र्क्प् 4

चतुर्थः परिवर्तः

यावत् पूर्वोक्तम् / ते चत्वारो महाश्रावकस्तद्राजगृहं महानगरं पिण्डाय प्रविशन्तस्तैर्मारकुमारकैरनाचारेणाध्यतिष्ठन् नर्तस्व श्रमण गायस्व श्रमणेति / तैश्च महाश्रावकैर्वीथिमध्ये प्रधावद्भिर्निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा चेमा गाथा भाषिता तदा महापृथिवी प्रचकम्पे / तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि साश्रुमुखान्येवमाहुः /

तिष्ठत्वशोको वरधर्मसारथिर् एषा ह्यवस्था जिनवरशासनस्य / तच्छ्रावकाणां जनतामद्य दृष्ट्वा विजृम्भितं केन मनः प्रसादयेत् // rkp_4.1 //

अथ तानि बहूनि देवनागयक्षराक्षकोटीनयुतशतसहस्राणि साश्रुमुखानि येन भगवास्तेन उपजग्मुः / उपेत्य भगवतः पुरतः स्थित्वा एवमाहुः /

अवस्थां शासनस्यास्य भगवन् प्रेक्ष्य सांप्रतम् / मो[पेक्षां]कुरु सर्वज्ञ शासनाचारगुप्तये // rkp_4.2 //

भगवानाह /

एष गत्वा स्वयं तत्र मारं जित्वा सवाहनम् / करोमि जनतां सर्वां निर्वाणपुरगामिनीम् // rkp_4.3 //

अथ ते सर्व एवैककण्ठेनैवमाहुः / मा भगवन् गच्छ / ननूक्तं भगवता अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयः अचिन्त्यः कर्मणां कर्मविषय इति सर्वविषयाणां बुद्धविषय एव विशिष्टतरः / शक्तो भगवानिहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरमुच्छोषयितुं दृष्टिजालं समुद्धर्त्तुं सत्त्वकोटीनयुतानि ज्ञानसागरे ऽवतारयितुम् / नाद्य भगवतो गमनकालो युक्तः / भगवानाह / यावन्तः सत्त्वधातौ सत्त्वास्ते सर्वे मारा भवेयुः यावन्ति च पृथिवीपरमाणुरजांसि तावन्त्येकैकस्य मारबलाधिष्ठानानि भवेयुः / ते सर्वे मम वधाय पराक्रमेयुः / रोमकूपमपि मे न शक्ता विघातयितुम् / शक्तश्च अहमिहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारम् / गमिष्यामि पुनरहं यन्मम पूजाकर्मणे [ए]भिर्मारैः सर्वराजगृहं महानगरं मारबलर्धि[वि]कुर्वणाधिष्ठानव्यूहैरलंकृतं तदनुकम्पायै परिमोक्षाय यत्ते माराः परमप्रीतिप्रसादजाताः कुशलमूलबीजमवरोपयिष्यन्ति अनुत्तरायां सम्यक्संबोधौ /

यदा च भगवान् आसनादुत्थातुकामः अथ तावदेव प्रभावशोभना नाम वेणुवन-परिपालिका देवता सा भगवतः पुरतो ऽश्रुमुखी स्थित्वैवमाह /

नैवाद्य कालो भगवन् प्रवेष्टुं पुरं समन्तादिह मार-पूर्णम् / एकैक एवं परमप्रचण्डः कोटीवृतस्तिष्ठति वादिसिंहः // rkp_4.4 //

द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते ऽद्याकुलचेतसः स्थिताः / मा सर्वथाद्य प्रविशस्व नाथ मा संक्षयं यास्यसि लोकबन्धो // rkp_4.5 //

यदा च भगवानासनादभ्युत्थितस्तदा द्युतिमतिर्नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह /

पापीमतां सहस्राणि पञ्च तिष्ठन्ति सायुधाः / त्वां प्रतीक्षन्ति निस्त्रिंशा व्रज माद्य महामुने // rkp_4.6 //

यदा भगवान् विहाराद् विनिश्चक्रमे तदा सिद्धमतिर्नामौषधि] देवता सा भगवताः पादौ शिरसाभिवन्द्यैवमाह /

हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते / धर्मनौर्याति संभेदं लोकदीपे क्षयं गते // rkp_4.7 //

धर्मरस उदारो हीयते सर्वलोके जगदिदमतिपूर्णं क्लेशधूर्तैः प्रचण्डैः / ननु मम भुवि शक्तिः काचिदस्ति प्रलोपं सुगतमुनिवराणां संप्रधर्तुं कथंचित् // rkp_4.8 //

अतिबहव इहास्मिन् त्वद्विनाशाय रौद्रा निशितपरुषखड्गाः संस्थिताः पापधर्माः / कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं प्रविश दशबलाद्य मा पुरं सिद्ध्यात्र // rkp_4.9 //

अथ भगवान् विहाराङ्गनादभिप्रतस्थे / द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह /

सर्वं नाथ भविष्यति त्रिभुवनं नष्टेक्षणं साम्प्रतं नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ / एतस्मिन् गगने भुजङ्गरसनास्तीक्ष्णासिबाणायुधास् त्वन्नाशाय चरन्ति वन्हिवदना मा गच्छ तत्राधुना // rkp_4.10 //

यदा च भगवान् द्वारकोष्ठके अवततार अथ ज्योतिवरणा (dutt 87) नाम द्वारकोष्ठकदेवता सा उच्चैःस्वरेण रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह /

एते ब्राह्मणसंज्ञिनां पुरवरे विंशत्सहस्राण्यथो दिप्तास्यक्षुरसायकप्रहरणाः प्रेक्षन्ति ते निर्दयाः / अन्योन्यामतिरौद्रनिर्दयवतां विंशत्सहस्राण्यतस् तिष्ठन्त्येह विनाशनाय तव हे मा गच्छ शुद्धानन // rkp_4.11 //

अथ भगवान् द्वारशालां प्रविवेश / तत्र च तमालसारा नाम राजगृहनगरपरिपालिका देवता / सा च तस्योच्चस्वरेण रुदन्ती भगवतः सकाशं त्वरयोपजगाम / उपेत्य पादौ शिरसाभिवन्द्य एवमाह /

मार्गो ऽयं भगवन् पुनः परिवृतः सिंहोष्ट्रमत्तद्विपैर् भिक्षूणां च विहेठनाय बहुधा मारैर्विघातः कृतः / उद्युक्तास्तव चान्यतीर्थचरणाः शास्तुर्वधार्थं भुवि त्व मेघस्वन देवनागकृपया मा गच्छ दीप्तप्रभ // rkp_4.12 //

दृष्ट्वा नरामरभुजङ्गमकिन्नरेन्द्रास् त्वच्छाशनस्य विलयं विहितं समेत्य / भीता द्रवन्ति भगवन् जितमार मारान् मायावृतानतिविकूलमुखांश्च भूयः // rkp_4.13 //

सद्धर्मस्य विलोपनां च महतीं लोकस्य चोपप्लवं नक्षत्रद्युतिनाशितं च गगनं चन्द्रार्कयोर्विभ्रमम् / संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस्ताडितो हा कष्टं कथयत्यतीव स्वगतभ्रंशं समाशङ्कयन् // rkp_4.14 //

नश्यते दृष्टसूर्यो ऽयं धर्मोल्का याति संक्षयम् / मृग्दाति मृत्यु संबुद्धं धर्मतोयं विशुष्यते // rkp_4.15 //

सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते / प्रादुर्भावो ऽसतामेव माराणां भवति ह्यतः // rkp_4.16 //

अथ सा देवता भगवतः प्रतिनिवर्तनमदृष्ट्वा साश्रुमुखीभूय एवमाह /

लोकं निरीक्षस्व मुनेः समग्रं न गच्छ वादिप्रवराद्य संक्षयम् / म मत्पुरे नाशमुपागते त्वयि त्रिलोकनिन्द्या सततं भवेयम् // rkp_4.17 //

शृणु मे वचो नायक सत्त्वसार मा मत्पुरे गच्छ विनाशमद्य / सत्त्वानुकम्पार्थमिह प्रतीक्ष्य सत्त्वांश्च जन्मर्तिभयद्विमोक्षय // rkp_4.18 //

स्मर प्रतिज्ञां हि पुरा तथागता प्राप्योत्तमं तारयिता भवेयम् / सत्त्वाननेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ // rkp_4.19 //

तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः / तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् // rkp_4.20 //

ततो भगवान् द्वारशालायामवततार / अथ तावदेव दृढा नाम पृथिवी देवता दशभिर्महौजस्कमहौजस्काभिर्देवतासहस्रैः सार्धम् अश्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्राञ्जलिः स्थित्वैवमाह /

स्मर प्रधानं रुधिरप्रपूर्णा यत्ते प्रदत्ताश्चतुराः समुद्राः / शिरांसि चास्थीनि च चक्रवाडवं नेत्राणि गङ्गासिकतासमानि // rkp_4.21 //

रत्नानि चैवं विविधानि पूर्वं पुत्राश्च दाराश्च द्विरदास्तथाश्वाः / आवासवस्त्रशयनान्नपानं भैषज्यमिष्टं च तथातुराणाम् // rkp_4.22 //

कृता च पूजा प्रवरा स्वयम्भुवां शीलं त्वया रक्षितमप्रमादिना / क्षान्तिश्रुतं सेवितमेव नित्यं मातृज्ञता चैव पितृज्ञता च // rkp_4.23 //

जीर्णान्यनन्तानि च दुष्कराणि सत्त्वा ह्यनेकव्यसनात् प्रमोचिताः / यत्पूर्वमादौ प्रणिधिः कृत्तस्ते बुद्धो भवेयं परमार्थदेशकः // rkp_4.24 //

उत्तारयेयं जनतां महौघात् लोकाय धर्मं वत देशयेयम् / तृष्णाधिमूलानि महाभयानि दुःखान्यशेषाणि च शोषयेयम् // rkp_4.25 //

अभये पुरे सत्त्वगणं प्रवेशये निवेश्य तान् वै वरबोधिमार्गे / विमोचयेयं बहुदुःखपीडितान् तां सत्त्वधातुं परिपूर्ण कुर्याम् // rkp_4.26 //

मार्गन्धुराणामिह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनाम् / निस्तारयैतां समयप्रतिज्ञां वदस्व धर्मं बहु कल्पकोट्यः // rkp_4.27 //

ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टाङ्गजलेन चैनम् / नेहास्ति सत्त्वाः सदृशास्त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् // rkp_4.28 //

मुक्तः स्वयं लोकमिमं च मोचय उत्तारय [त्वं] त्रिभवार्णवाज्जगत् / त्वमेकबन्धो जगदेकबान्धव- स्तिष्ठस्व नित्यं विभजस्व धर्मम् // rkp_4.29 //

अथ भगवान् द्वारशालायामवततार / तत्क्षणादेव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि साश्रुमुखान्येवमाहुः /

अस्माभिरादौ सुगता हि दृष्टा प्रशान्तकाले सुविनीतशिष्याः / धर्मोपदेशं विपुलं च कुर्वतां तेषां विघातो न स ईदृशो ऽभूत् // rkp_4.30 //

एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयम्भूत्वमुदारबुद्धिः / क्लेशादि धर्मं समुवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः // rkp_4.31 //

अस्मिन् पुनस्तिष्ठ हि वादिसिंह पापीमतां नैकसहस्रकोट्यः / कुर्वन्ति धर्मस्य विनाशमेवं मा बुद्धवीराद्य पुरे विश्वस्व // rkp_4.32 //

अथापरा देवता एवमाह /

चक्रं जिनैर्वर्तितमेकदेशे तैः पूर्वकैर्लोकहितप्रयुक्तैः / अयं पुनर्गच्छतु यत्र तत्र मा खल्ववस्थां समवाप्स्यते ऽद्य // rkp_4.33 //

अथापरापि देवता एवमाह /

कारुण्यहेतोरिह सार्थवाह चचार सत्त्वार्थमतीव कुर्वन् स केवलं त्वद्य पुरे ऽत्र मा वै नाशं प्रयायादिति मे वितर्कः // rkp_4.34 //

तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि साश्रुदिनवदनानि (dutt 92) गगनतलपथादवतिर्य भगवतः पुरतः स्थित्वा अनेकप्रकारान् आत्मनो विप्रकारांश्चक्रुः / केचित् केशान् विलुम्पन्ति स्म / केचिदाभरणानि मुमुचुः / केचिच्छत्रध्वजपताकाः प्रपातयामासुः / केचित् स्वशरीरेण भूमौ निपेतुः / केचिद् भगवतश्चरणौ जगृहुः / केचिदतिकष्टं रुरुदुः / केचिदुरसि पाणिभिः पराजघ्नुः / केचिद् भगवतः पदमूले स्थित्व मद्गुवत् परावर्तन्ते स्म / केचिद् भगवतः पुरतः प्राञ्जलयो भूत्वा स्तुतिनमस्कारान् चक्रुः / केचिद् भगवन्तं पुष्पधूगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारपुष्पैरवकिरन्ति स्म /

अथापरा बव्हयो देवकोट्यः उच्चैरेककण्ठेनैवमाहुः /

त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थमितो बहूनि / क्षीणे त्वमुत्पन्न इहाद्य काले उपेक्षकस्तिष्ठ च मा त्यजस्व // rkp_4.35 //

अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश्चाल्पतरास्त्रिअदेवाः / त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मात् त्रिभवार्णवाज् जगत् // rkp_4.36 //

सत्त्वा ह्यनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः / करुणां जनस्य प्रतिदर्शयाथ ओघेभ्य उत्तारय लोकनाथ // rkp_4.37 //

ये ऽत्रा टवीमध्यगता भ्रमन्ति संसारकान्तारविनष्टमार्गाः / तेषां स्वमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः // rkp_4.38 //

एतत्तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद्वरधर्मचक्रम् / चिरं हि तिष्ठ त्वमुदारबुद्धे मा खल्वनाथा जनता भवेत् // rkp_4.39 //

अथापरापि देवता एवमाह /

नाशं प्रयास्यत्यथ यद्विनायको लोकस्तथान्धो निखिलो भविष्यति / अष्टाङ्गमार्गस्त्रिविमोक्षहेतोः सर्वेण सर्वं न भविष्यतीह // rkp_4.40 //

अस्माभिरस्मिञ्छुभबीजमुप्तं वः कायचेतोद्धरमप्रमत्तैः / ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः // rkp_4.41 //

तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्यभूवन् / तान्यप्येवमाहुः /

मा भैष्टं यूयं न मुनेरवस्था भविष्यति काचिदुदारबुद्धेः / प्रत्यक्षपूर्वा वयमस्य साधोरूपागता यद्भुवि मारकोट्यः // rkp_4.42 //

षट्त्रिंशद्योजनानि प्लुतरभसपरा यत् समन्ताद् वितत्य प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना / संप्राप्ता बोधिमण्डे विलयमुपगता तत्क्षणादेव भीता प्राप्तार्थस्याद्य किं तत्प्रसृतयशसो विघ्नमेव प्रकुर्यात् // rkp_4.43 //

अथापरा देवता प्ररुदन्ती एवमाह /

मारस्यैकस्य सा सेना प्रागासिन्न महाबला / मारकोटीसहस्राणामियं सेना महाबला // rkp_4.44 //

निःसंशयमिह प्राप्तो नाशं लोकविनायकः / यद्विनाशदयं लोको निरालोको भ्रमिष्यति // rkp_4.45 //

अथ खलु ते शक्रब्रह्मलोकपाला भगवतः [पादौ परिवज्यैव]माहुः /

तिष्ठेह साधु कुरु मन्दधीनामस्मद्वचः कारुणिकप्रधान / बहुदेवकोट्यो महाशोक तप्तास्ताः सांप्रतं धर्मरसेन सिञ्च // rkp_4.46 //

अथ खलु भगवांस्तां सर्वावतीं पर्षदं मैत्र्या विशालभ्यां नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्नेवमाह /

मा भैष्ट यूयं भवताद्य निर्भयाः सर्वे ऽपि माराः सगणाः सवाहनाः / शक्ता न मे भीषयितुं समग्राः रोमाप्यथैकं किमु सर्वदेहम् // rkp_4.47 //

आश्वासयाम्यद्य तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये / मार्गच्युतानामहमेव सम्यग् मार्गोपदेशं विशदं करिष्ये // rkp_4.48 //

कृतानि पूर्वं बहु दुष्कराणि मयान्नपानं विपुलं प्रदत्तम् / आवासभैषज्यमनल्पकं च कर्तुं विघातं मम को ऽद्य शक्यते // rkp_4.49 //

त्यक्ता मय ह्यश्वरथा गजाश्च विभूषणान्याभरणानि चैव / दासाश्च दास्यो निगमाश्च राष्ट्राः कर्तुं विघातं मम कः समर्थः // rkp_4.50 //

भार्या सुता दुहितृ कलत्रवर्गमैश्वर्यमिष्टं भुवि राजवंशः / दत्तो मया सत्त्वहिताय कस्माच्छरीरनाशो ऽद्य भविष्यति मे // rkp_4.51 //

शिरश्च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनु चर्म लोहितम् / स्वजीवितं त्यक्तमपीह देहिनां कर्तुं विहिंसां मम कः समर्थः // rkp_4.52 //

बव्हयो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता सहस्तम् / शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं ममः समर्थः // rkp_4.53 //

पूर्वं मया वै बहु दुष्कराणि कृतानि मे ऽतीव समाहितेन / संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः // rkp_4.54 //

क्लेशा जिता मे नितयो ऽस्मि बुद्धः सर्वेषु सत्त्वेषु च मैत्रचित्तः / ईर्ष्या च मे नास्ति खिलं न रोषो न मे समर्थः पुरतो ऽद्य कश्चित् // rkp_4.55 //

जितं मया मारबलं समग्रं पराजिता मे बहु मारकोट्यः / युष्मद्विमोक्ष नियतं करिष्ये मा भैष्ट कस्मान्न पुरं प्रवेक्षेप // rkp_4.56 //

ये केचि दिशासु दशश्वपीह बुद्धा हि तिष्ठन्ति तु सत्त्वहेतोः / तान् सर्वबुद्धानिहैकिकरिष्ये महर्धिकांश्चाप्यथ बोधिसत्त्वान् // rkp_4.57 //

क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये / तैरेव बुद्धैः सह नेतृसंस्थितः करिष्ये बुद्धानुमतं च कार्यम् // rkp_4.58 //

तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुर-गरुड-किन्नर-महोरग-मनुष्यामनुष्य-कोटीनयुत-शतसहस्राणि भगवते साधुकारं प्रददुः / एवं चाहुः / नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय / नमो नमो महाश्चर्यसमन्वागताय बुद्धाय भगवते / आश्वासितो भगवता सदेवको लोकः पराजितो भगवता मारपक्षः विधूतं सत्त्वानां सन्धिक्लेशकालुष्यम् / प्रहाणः सत्त्वानां मानपर्वतः / छिन्नो जन्मवृक्षः / विचूर्णितो (dutt 98) मृत्युसूर्यः / विधूतो ऽविद्यान्धकारः / प्रसादिता अन्यतीर्थ्याः / संशोषिताश्चत्वार ओघाः / प्रज्वालिता[नि] धर्मोल्कानि / दर्शितो बोधिमार्गः / नियोजितः क्षान्तिसौरत्ये / क्रीडापितो ध्यानसौख्ये / अवबोधितानि चत्त्वार्यार्यसत्यानि / समुत्तारितो भगवता महाकारुणिकेन शास्त्रा जन्मसमुद्रात् सदेवको लोकः / प्रवेशिताः सत्त्वा अभयपुरम् /

अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालंकारविभूषणैर्भगवन्तमभ्यर्चयित्वा भगवतो ऽर्थाय ते मार्गं शोभयामासुः / दिव्यवस्त्रपुष्पदुष्यैश्च भगवन्तं संच्छादयन्ति स्म / दिव्यैश्च मान्दारव-माहामान्दारव-पारूषक-महापारूषक-मञ्जूषक-रोच-महारोचोत्पलकुमुदपुण्डरीकैः संच्छादयामासुः / यत्र भगवान् तौ चरणौ निश्चिक्षेप तस्मिंश्च मार्गे उभयोः पार्श्वयोः दिव्यान् सप्तरत्नमयान् वृक्षान् अभिनिर्मीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैरलंचक्रुः / तेषु च वृक्षान्तरेषु दिव्यां पुष्करिणीं मापयन्ति स्म / शीतस्वादूदकविप्रसन्ना अनाविला अष्टाङ्गोपेतवारिपरिपूर्णा समन्तात् सप्तरत्नालंकारालंकृता / अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दधिरे / ध्वजपताकासुवर्णसूत्रमुक्ताहारांश्च सुवर्णचूर्णवर्षाश्च ववर्षुः / रूप्यवैडूर्यचूर्णागरुतगर-चन्दन-कालानुसारि-तमालपत्रवर्षाणि समुत्ससर्जुः / गोशीर्षोरगसारचन्दनचूर्णं (dutt 99) च तस्मिन् मार्गे ववर्षुः / सुवर्णसूत्रमुक्ताहारमणिमुक्ताभिश्च सर्वं गगनतलं नानादिव्यालंकारैरलञ्चक्रुः / ततस्तस्य नगरस्य च बहिर्धा देवमनुष्या भगवतः पूजाकर्मणे मार्गशोभां चक्रिरे / अन्तर्नगर च मारा मारपार्षदश्च शोभाव्यूहैर्व्यूहमायासुर्भगवतः पूजाकर्मणे /

अथ खलु भगवान् तस्मिन् समये शूरंगमं नाम समाधिं समापेदे / तेन च समाधिना यथा समापन्न एव मार्गं जगाम / तेन खलु पुनः समयेन नानाविधैः कायरूपलिङ्गेर्यापथैर्भगवांस्तं मार्गमभिप्रतस्थे / तत्र ये सत्त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास्ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तमद्राक्षुः / यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चातुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिकाः शशवैनयिकाः शशरूपलिङ्गेर्यापथेन भगवन्तं मार्गं व्रजन्तमद्राक्षुः / ये सत्त्वा बुद्धवैनयिकास्ते बुद्धरूपलिङ्गेर्यापथेनैव भगवन्तं मार्गं व्रजन्तमद्राक्षुः / सर्वे च ते सत्त्वाः प्राञ्जलयो भूत्वा समभिष्टुवन्तः नमस्कुर्वन्तः पृष्ठतः पृष्ठत समनुबद्धा जग्मुः /

तेन खलु पुनः समयेन यो ऽसावनुहिमवन्निवासी ज्योतीरसो नाम ऋषिर्मारेण पापीमता उद्योजितः स पञ्चशतपरिवारो (dutt 100) राजगृहस्य महानगरद्वारसमीपे प्रतीक्ष्य भगवतो रूपलिङ्गेर्यापथमपश्यत् तथा मार्गे चासंख्येया वृक्षदेवताः पूजाकर्मणे उद्युक्ताः / दृष्ट्वेदं तस्यैतदभवत् / सत्यवादी महर्षिरयं महानुभावः पूजार्हः] / ..... ..... ..... ..... ..... ..... .....

अथ ज्योतीरस ऋषीः सपरिवारो बुद्धरूपलिङ्गेर्यापथा[न्वि]तं भगवन्तं [दृष्ट्वा पूर्वकुशलमूल-सम्मुखीभूतः]..... / स रत्नकेतुं नाम बोधिसत्त्वसमाधिं प्रतिलेभे / यः समाधिः भवत्यसंहार्यः सर्वसमापत्तिभिः /

अथ ज्योतीरसो महर्षिर्भगवतः [पुरतः प्राञ्जलिभूतः पुष्पं दत्त्वा स्तुत्वा च] अब्रवित् /

अनन्तवर्णलोकनाथः सत्यवादी सुस्थितः भासितस्ते सर्व [लोक ज्ञाननेत्रज्योतिषा] / [सदा सत्त्वहिताय ते वीर्य मैत्र्यभ्युद्गता नमस्ते ऽ]द्य सत्त्वसारक्षीणासंगनायक // rkp_4.[59] //

स्वर्णवर्णकाञ्चनाभ शीतला[स्ते अंशवः सर्वसत्त्व बोधिलाभ हेतुगुण-योजक] / [धर्मचक्रवर्तनेन ध्वस्त] क्लेशपर्वत पश्चिमा ते चर्यनिष्ठा बोधिज्ञानकारणम् // rkp_4.[60] //

महाभि[षक् सत्त्वसार लक्षणैरलङ्कृतः देशनाय बुद्ध भूत्वा नायकाद्य याचितः] / छिन्धि मे त्वं दृष्टिजालं तीर्णो जगत् तारये कियच्चिरेण बुद्धो भेष्ये [देशय नरोत्तम] // rkp_4.[61] //

[सत्त्व-दुःख-ओघ-भव-सागराद्धि तारय निर्वाण क्षेमे च] मार्गे स्थापय निरास्रवे / दशदिशासु ये ऽपि बुद्ध सागरोपमागुणैः [तेभ्य अहु अध्येषमि बोधिचित्तपरायणे] // rkp_4.[62] //

[सर्व सत्त्व दुःखस्पृष्ट रौद्र शुभ] कर्कशैस् त्र्यध्विकञ्च पुण्यमद्य कायवाङ्मानसं मे / भवेच्च तेन [सत्त्व शीतीभूतचित्तकः नित्य-क्षेम-बुद्धक्षेत्रे प्राप्नुयाच्च निर्वाणम्] // rkp_4.[63] //

यान्तु सर्व सत्त्वव्याधि क्लेशतोय शुष्यतु लभन्तु ज्ञानमिन्द्रियाणि सारवन्ति [स्वभावतः] / [ये च सत्त्व बधबन्धदुःखेन उपद्रुताः ते ऽपि क्षिप्रं सन्तु मुक्ता मे च] पुण्यतेजसा // rkp_4.[64] //

एकक सत्त्वो सर्वे सागरगुणान् लभे प्रज्ञैव पुण्या[प्रमेय सुखैः सर्व तर्पये] / [सम्यग् दृष्टिमाप्नुवन्तु धूतपापास्ते द्रुतं] जातिस्मराः सर्वे सन्तु सत्त्व धर्मचारिणः // rkp_4.[65] //

पारं भवार्णवस्य ते तरन्तु धर्मसिद्धये / [सर्वधर्मपारंगमं बुद्धञ्चापि प्रसादये] // rkp_4.[66] //

[तिष्ठ] कल्पानप्रमेय धर्मवृष्टि वर्षयन् / स्नापयन्तु सर्वसत्त्व धर्ममेघवारिणा // rkp_4.[67] //

कायेन [मनसा वाचा मया यदत्ययं कृतम्] / [प्रतिदेश्ये बुद्धसंघमध्येष्ये] सत्त्वगौरवात् // rkp_4.[68] //

नाहं च भूयः पापदृष्टिकर्म समाचरे / अचिन्तियान् सदा[दृष्ट्वा]पुद्गलान् [पुरतः स्थितान्] // rkp_4.[69] //

[यत्किञ्चिन्मे पुण्यमस्ति तद्बोधि नामये] पुनः / सर्व चर्यां सत्त्वहेतोः सर्वदुःखं समुत्सहे // rkp_4.[70] //

नियोजये सर्वसत्त्व बोधिमार्गे [उत्तमे] / [प्रज्ञाभूत सागरं च कल्पक्षेत्रं विचरये] // rkp_4.[71] //

प्रापणीयो यतो बोधिस्पर्शो भवेद्विशुद्ध हि / सर्वसत्त्वक्षान्तिभूमौ स्थितो [नूनं भवेच्च सः] // rkp_4.[72] //

प्राप्नुयामभिज्ञा पञ्च वादिसिंह[स्य अन्तिके] / [दृष्ट्वानासङ्ग नायक शास्त्रं सर्वत्र देशय] / स चे भविष्ये बुद्धो लोके सर्वेषां धर्मसारथिः / निक्षिपीय मुक्तपुष्पच्छत्राम्बरे स्थितेयु ये // rkp_4.[73] //

[ते भवन्तु देवनागयक्षादीनां वशानुगाः / त्वत्पादवन्दने]शिरेण कम्पतां च वसुन्धराः // rkp_4.[74] //

अथ खलु ज्योतीरस ऋषिस्तानि पुष्पाणि येन भगवांस्तेनोपरि प्र[क्षप्तानि / तानि च] एकच्छत्रस्तस्थौ / यं दृष्ट्वा ज्योतीरसः ऋषिर्भूयस्या मात्रया निरामिषेण प्रीति-सौमनस्येन उद्वेल्यमानो भगवतः पादयोः निपपात / समनन्तरनिपतितश्च ज्योतीरस ऋषीर्भगवतश्चरणयोः / अथ तावदेव [त्रिसाहस्रमहासाहस्रलोक]धातुः षड्विकारं प्रचकम्पे / यानि च तत्राप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि [निरुद्वेगचित्तानि] प्राप्तान्यभूवन् / ये च गजवैनयिकाः सत्त्वास्ते गजरूपेण सुगतं दृष्ट्वा संतृप्ताः येन महर्षिस्तेनोपरि पुष्पाणि प्रक्षिप्य तानि च आकाशे संस्थितानि / तं च पृथिवीकम्पं दृष्ट्वा भूयस्या मात्रया आश्चर्यप्राप्ता भगवतश्चरणयोर्निपेतुः / ये ऽपि बुद्धवैनयिकाः सत्त्वास्ते सर्वे भगवतो बुद्धवेशं दृष्ट्वा आश्चर्यप्राप्ता अभूवन् /

अथ भगवान् शूरङ्गमात् समाधेर्व्युदतिष्ठत् / तस्माच्च समाधेर्व्युथितं [दृष्ट्वा बुद्धवैनयिकाः सत्त्वाः अतीव] प्रीतिप्रामोद्यजाता (dutt 104) भगवन्तं यथालब्धैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालंकारैरभ्यवकिरन् च इमा गाथा अभाषन्त /

उत्तिष्ठ शिघ्रं शृणु व्याकरिष्ये महर्षे बोधायेति नायको ऽब्रवीत् / [महानुभावेन] धरा चकम्पे कुसुमा[नि च च्छत्रभूतानि नभ]सि // rkp_4.[75] //

[त्वं नो ऽसि बुद्धो] द्विपदप्रधानो विभो [तथा] लोकहिताय शास्ता / अनन्तपुण्यो गगनप्रमाणस् त्रैलोक्यसारो जगतः [प्रदीपः] // rkp_4.[76] //

[अथ ज्योतीरसो बोधिसत्त्वो महा]सत्त्वो भगवन्तमेतदवोचत् / कीदृशं भगवन् तद्बुद्धक्षेत्रं भविष्यति यत्त्राहं धर्मचक्रं प्रवर्त्तिष्ये / भगवानाह..... ..... / ..... ..... ..... ..... ..... ..... ..... ..... [ऋषिज्योतीरसप्रसादपरिवर्तो नाम चतुर्थः // 4 //]

स्तर्त् र्क्प् 5

पञ्चमः परिवर्तः

[अथ तस्मिन् समये बुद्ध्]क्षेत्रे कोटीशतमारास्ते [सर्वे] सपरिवारा येन भगवान् शाक्यमुनि[स्तथागतस्तेनोपसंक्रम्याग्रतो न्यषीदन् /]

[अथ मारः पापीमान्] येन भगवांस्तेनाञ्जलिं प्रणम्यैवमाह /

भगवन् शरणं यामि विप्र[कृष्टेन चेतसा / शीघ्रं मोचय बन्धान्मां धर्मचर्यां च सन्दिश // rkp_5.[1] //

भगवानाह /

न चाहं त्वाञ्च] वारेमि गच्छन्तं चागतं पुनः / मार्गं त्वं यत् प्रजानीषे गच्छ येन [यथेच्छसि] // rkp_5.[2] //

[पापीमानाह /

यदाहं गन्तुमिच्छामि सानन्दं विषयं स्वकम् / पचभिर्बन्धनैर्बद्धमात्मानमीक्षे गौतम] // rkp_5.[3] //

भगवानाह /

सर्व कल्प प्रही[णा मे मुक्तो ऽहमिह बन्धनात् / हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच्च मोचये // rkp_5.[4] //

अथ भगवान् बुद्ध]चक्षुषा सर्वमिदं बुद्धक्षेत्रं क्षितिगगनस्थैः सत्वैः परिपूर्णमव[लोक्य एवमाह /

प्रहाय संशयान्] सर्वान् तूष्णीं भूत्वा तदन्तरम् / [शृणु हि वचनं मे ऽद्य सर्वं त्वं सुसमाहितः // rkp_5.[5] //

] दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः / दुर्लभा श्रद्धाधिमुक्तिर्बोधिचर्या सुदुर्लभा // rkp_5.[6] //

दुर्लभं लोकनाथास्याद् धर्मस्य श्रवणं तथा / दुर्लभः[स]मयो ह्येकः क्षान्तिर्यत्र निषेव्यते // rkp_5.[7] // [लोके हि दुर्लभं पापसङ्कल्पस्य प्रहाणकम् // rkp_5.[8] // दुरलभं चित्तदमनं दुर्लभा शून्यभावना / दुर्लभा बो]धिचर्या वै यथा चीर्णा मया पुरा // rkp_5.[9] //

देशयिष्यामि युष्माकं पुष्पमात्र[मिदं ततः / युष्माकं भाषयिष्यामि येन बो]धिः समृध्यते // rkp_5.[10] //

कुमलांस्त्रीन् प्रहायेह शास्तुः शृणुत भाषितम् / [ओघानां पारवादी त्वं तृष्णाजालं परित्यज // rkp_5.[11] //

त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव / त्रै]धातुकाश्च ये क्लेशास्तानशेषान् विधुनीहि // rkp_5.[12] //

त्रिरत्नवंशपूजार्थं यूयं..... ..... ..... / ..... ..... ..... प्रहास्यति विशेषतः // rkp_5.[13] //

त्रैधातुकविनिर्मुक्तां क्षान्तिं लप्स्यति शामिकीम् / चतुर्दिशि..... ..... ..... ..... // rkp_5.[14] //

चक्षूरूपप्रसङ्गेन कायवाक् चेतनावृतैः / चतुर्ध्यानविहीनैश्च..... ..... ..... // rkp_5.[15] //

..... ..... .....विपर्यासचतुष्टयात् / मोचयन्ति च ते सत्त्वांश्चतुरोघेभ्य ईश्वरः // rkp_5.[16] //

..... ..... ..... ..... ..... ..... ..... [बोधिसत्त्व] विशारदः // rkp_5.[17] //

सम्प्रज्ञानेन छिन्दन्ति सत्त्वानां भवबन्धनम् / पञ्चस्कन्धपरि[ज्ञान]..... ..... ..... // rkp_5.[18] //

..... ..... .....देशयेत् क्षिप्रं बुद्धानां यूयमग्रतः / प्रहाय पापं निःशेषं पारं यास्यकु[तोभयम्] // rkp_5.[19] //

..... ..... ..... वशेन हि / पापमित्रप्रहीणास्तु पापदृष्टिविवर्जिताः // rkp_5.[20] //

स्मृत्वा संसार [दुःखं]..... ..... ..... / .......[निःस्वभा]वो ऽस्ति न द्रव्यं नापि लक्षणम् // rkp_5.[21] //

षडिन्द्रियं यथा शून्यं कारको ऽत्र न विद्यते / षट् स्पर्शायतनान्येवं शून्यान्यपि विजानथ // rkp_5.[22] //

भावमेतं निरीक्षध्वं य..... [निरीह]काः / यैर्ज्ञाता निर्जरास्ते वै एष मार्गो ह्यनुत्तरः // rkp_5.[23] //

..... ..... ..... ..... ..... ..... ..... ..... त्रयोदशाकार ..... ..... ..... / ..... ..... ..... ..... // rkp_5.[24] //

[तस्मिन् समये भग]वतः अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द..... / अप्रमेयासंख्येयाक्षोभ्यगङ्गानदीवालुकोपमा अशून्याः शून्यासु पञ्च कषायेषु.....अप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि अतीव निरा[मिष]..... [वि]चित्रां समाधिक्षान्तिधारणीं प्रतिलेभिरे / इह बुद्धक्षेत्रसंनिपतितः ..... प्रतिलाभो ऽभूत् / त्रिभिर्यानैरप्रमेयासंख्येयाः सत्त्वा निर्याणमवाप्ताः..... / [अथ बोधिसत्त्वो महासत्त्वः ज्योतीरस ऋषीः संहृष्टः पद्मास]नं पुष्पसंच्छन्नमभिनिर्मीय तस्य पद्मस्यारोपणार्थं येन भगवान् [तेन प्राञ्जलिं कृत्वेदमवोचत् /

सर्वलोकं] समीक्ष्य धर्मसेतुं सृजस्व सचराचरलोके / क्षेत्रं समीक्ष्य पूर्णं कृत ..... ..... // rkp_5.[25] //

[क्ले]शहतानां प्रज्ञोपायौ प्रतिदर्शयाप्रतिमपद्मे / अभिरुह्य नाथ प्र[वर्ष धर्मवृष्टिम्]....... ..... ..... ..... ..... ..... ..... ..... ..... लक्षणपरिवर्तो नाम पञ्चमः // 5 //

स्तर्त् र्क्प् 6

षष्ठः परिवर्तः

तेषांश्च बुद्धानां भगवतां समादर्शनेनैव बुद्धक्षेत्रान्तर्गतानां [सत्त्वानां रागद्वेषमोहादीनि]..... सर्वेषां चित्तचैत्येषु प्रशेमुः / एकैकश्च सत्त्व एवं संजानीते.....मामेकैकस्तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनधर्मं देशय[ति]..... /

तेन खलु पुनः समयेन ये अस्मिन् कृत्स्ने बुद्धक्षेत्रे अन्तर्गताः सर्वसत्त्वाः सर्वन्द्रियोपस्तब्धाः .....यत्त्वस्माकं बुद्धा भगवन्तो धर्मं देशयन्तु / अस्माकं भदन्त स्वगतं धर्म वयं बुद्धानां भगवतां धर्मेषु प्रतिप[त्स्यामहे]..... /

[तेन खलु पुनः समयेन अपरेषां बुद्धानां भगवतां पूजाकर्मणे] स शाक्यमुनिस्तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेन उदारेण गन्धेन सर्वमिदं बुद्धक्षेत्रं स्फुटमकरोत्.......... /

[बुद्धानां भगवतां पूजा]कर्मणे सर्वबुद्धक्षेत्रान्तर्गताश्च सर्वसत्त्वा नानारत्नपुष्पमाल्यविलेपनेर्नानाच्छत्रध्वजपताकालङ्कारैः .....बुद्धानां भगवतां पूजाकर्मणे एवमाह / समन्वाहरन्तु बुद्धा भगवन्तो ये केचित् एतर्हि दशसु दिक्षु लोकधातौ..... /

[अ]हं पूर्वप्रणिधानेनैवं प्रतिकूले पञ्चकषाये लोके अनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धो नष्टाशयानां प्रनष्टमार्गाणाम् (dutt 111) [अविद्यान्धानां तमिस्रभूतानां क्लेशा]क्षिप्तानां त्रयपायसंप्रस्थितानामकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परि[वर्जितानामानन्तर्यकृतानां सद्धर्मवर्जितानां] चर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमना[य ग्रामनगरनिगमजनपदान्] पदभयामुपसंक्रमामि / सत्त्वहितार्थं स्वल्परूक्षविरसपरमजगुप्सितं प्रतिकूलमाहारं [भक्षयिष्यामि / तेषां कुशलमूलजननार्थं] कर्पासभङ्गचीवरपांसुकुलानि प्रावृणोमि / पर्वतगिरिकन्दरवनषण्ड-[शून्यागार-श्मशान-] शय्यासनं परिभुनज्मि / उपायकौशल्यमहाकरुणा

..... ..... ..... ..... ..... ..... ..... .....

[वीर्यसन्नहनेन विविधां कथां] कथयामि / क्षत्रियेभ्यो राजैश्वर्यकथां कथयामि / ब्राह्मणेभ्यो वेद-नक्षत्र-कथां कथयामि / अमात्येभ्यो जनपदकर्मान्तकथां कथयामि / वणिग्भ्य क्रयविक्रयकथां कुटुम्बेभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालङ्कारपुत्रैश्वर्यसपत्नकथां श्रमणेभ्यः [क्षान्तिसौरत्यत्रिकर्मवीर्य]कथां कथयामि / सत्त्वपरिपाकाय अप्राप्तस्य प्राप्तये नियुनज्मि / अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै [अमुक्तानां (dutt 112) मोचनाय] नानाविधानि दुःखान्युत्सहामि / सत्त्वपरिपाकाय जनपदचर्यां चरामि /

अथ च पुनर्ये इमे सत्त्वास्तत्र मामाक्रोशन्ति परिभाषन्ति [ईर्ष्यान्वितेन] धर्मेणाभूतेनाभ्याख्यान्ति कुहन-लपन-मायाशाठ्य-मृषावाद-पारुष्यैः स्त्रीवचनैरभ्याख्यान्ति पांसुभिर्मामवकिरन्ति / शस्त्रविषाग्नि[चक्रतोमरशरखड्गशक्ति]परश्वधशूलायुधवृष्टिभिर्मम वधाय पराक्रामन्ति / हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश्च मद्वधायोत्सृजन्ति / [ममावासविहारकूटागारान्] अशुचिना दुर्गन्धेनापूरयन्ति / मच्छ्रावकाणां चान्तर्नगरमनुप्रविष्टानामिमे अनार्याः सत्त्वाः अनाचारेण नृत्यगीतेनानुविचरिष्यन्ति / [शतसहस्रो]पायैर्मद्वधायोद्युक्ताः शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनेत्रीप्रभेदाय [मम धर्मचारिणां] मारणायोद्युक्ताः / तत् खल्वेतर्हि सर्वे बुद्धा भगवन्तस्तेषां बुद्धानां भगवतां [धर्म]नेत्रीम् अवलोकयत /

यथा ते बुद्धैर्भगवद्भिरस्मिन् क्लिष्टे पञ्च[कषाययुक्ते काले] महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना[र्थं] सर्वत्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूल[वर्धनार्थं सर्व]परप्रवादसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि [कायवाङ्मनःक्लेश]प्रशमनार्थं (dutt 113) सर्वगृहग्रामनगरराष्ट्ररक्षणार्थं सर्वशाठ्यविष[काखोर्दमोहनदुःस्वप्नदुर्दर्श]नार्थं सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यर्थं क्षत्रियब्राह्मणविट्शूद्रकुशलचर्यानियोजनार्थं बोधिसत्त्व[चित्तोत्पादपारमितापूर]णार्थं बोधिसत्त्वानां महासत्त्वानामुपायज्ञानकौशल्यस्मृतिमतिगति-शौर्यप्रतिभाणविवृद्ध्यर्थमभिषेक-भूमि-समाश्वासावतारज्ञानपारङ्गमार्थं तैः पूर्वकैस्तथागतैरर्हद्भिः संबुद्धैरयं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनी-धरणी-मुद्रापद-प्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यमनुमोदितः / तत् साधु /

एवमेवैतर्हि ये दशसु दिक्षु बुद्ध भगवन्तस्तिष्ठन्तो यापयन्त इह मम बुद्धक्षेत्रे पञ्चकषाये पृच्छा[यै] समागताः संनिषण्णाः सन्निपतितास्ते सर्वे अस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भासध्वमधितिष्ठतन्योन्यं भाषध्वमनुमोदध्वं सर्द्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावदनावरणज्ञानपारङ्गमार्थमनुकंपायै ममध्येषणाय च यदिह बुद्धक्षेत्रे धर्मनेत्री चिरं तिष्ठेत् / अनतिक्रमणी सर्वपरप्रवादिभिरविप्रलोपधर्मिणी स्यात् / त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः स्यात् /

अथ ते बुद्धा भगवन्त एवमाहुः / एवमेतत् अवश्यमेवास्माभिर्बुद्धकार्यै करणीयम् / इह बुद्धक्षेत्रे धर्मनेत्रीमधिष्ठा (dutt 114) स्यामः चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावदनावरणज्ञानपारङ्गमाय यानिमान् वज्रधर्मसमताप्रतीत्य-धर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणधर्मपर्यायन् भाषिष्यामः / शृण्वन्तु सर्वसत्त्वाः ये केचिदिह बुद्धक्षेत्रे ऽन्तर्गताः / तद्यथा / अङ्कर अङ्कर / भङ्कर प्रभङ्कर / भयविह / मित्र भसे / अखे अख संवरे / दोमे दोमन्ते / केवटे केयूरे / समवहने समन्तभद्रे / धर्मे धर्मे धर्मके / जफले मित्रानुफले फलवते / गणे गणपरन्ते / हिलि हिलि / हिलि हिलिके / जम्भवते / टकटे टकन्ते टकवरन्ते / घनवहन्ते / हिरिन्ते शिरिन्ते / विंद्रुवते / गोवाहे / जुरे मित्र / जुरे जुषे / अग्रे अवमे / सत्य तथता / हुलि हिले चन्द्रे / समधर्मे धर्मे / कुचुरु मुचुरु / अचिद्र / चिलि चिलिलि / चवह / चुलु चुलु / मित्रवह / कुलु कुलु / सर सर / कुटु कुटु / महासरसर / तुटु तुटु / महासत्यहृदय / पुष्पे सुपुष्पे / धूमपरिहरे / अभये / रुचिरे / करक्षे / अभयमस्तु / विवह तितिले ममले पश्वख / शिशिर शिशिर / लोकविनायक वज्रे वज्रधरे वज्रवते / वज्रमते वज्रददे / चक्रवज्रे / चक्रे चवते / धरे धरे / भरे भरे / पूरे टर / हुहुरे / भंगवंवरे / (dutt 115) शर शच चिलि चुरु पूरे / मण्डने मण्डने / गगरणे / मुहूर्ते सर्वमुहूर्तके / धिधिरयनि मखिश्वरलयणि रिषिनिजनि धरवचि / चण्डाली मे मे सर्वसस्याधिष्ठिता / आच्छिद्यन्तु वाहनाम् /

मिनि फलवति ओजाग्रे विचिनि / वनरह / वुवुरे / गुरु गुरु / मुरु मुरु / हिलि हिलि / हल हल / काकण्डवह हिहितां / आयुहन / कुण्डज्वाल / भसे गर्दने / आदहति / मार्गाभिरोहणि / फलसत्ये आरोहवति / हिलि हिलि / यथा वज्राय स्वाग्र यथापरं च हृदयवाह / सत्यपरिभाव मार्गाभिरोहणे अचलबुद्धि दद प्रचल पचय / पिण्डहृदय चन्द्रचरण / अचले शोधने प्रक्रिनिमार्गे / इल्[इलि]ले / प्रभे सारव्रते / सर्वतथता सत्यानुगते / अनावरणव्रते / अलथ अङ्गुरे शमिनि विब्रह्मवयोहि / अहिते अवाणि / निरवयव अचिरमार्ग / लन लघुंसरे / त्रिरत्नवंशे धर्मकाय ज्वलचन्द्रे / समुद्रवति / महद्भूतव्यय / समुद्रवेगवधार्णिमुद्रेण मखिमुद्र / सुरप्रतिसंविद्धमुद्र / आवर्तनि / संमोह / स्करविद्युतरसे क्षिति / मुद्रितो ऽसि / ये केचित् पृथिवी वह वह वह वह / कीटकपट / शैल प्रतीत्य हृदयेन मुद्रिता धारणी / धर [धर धर] / दन्तिला दन्तिन्दाला हुस्क सर्वहृदय मुद्रितो ऽसि / जड जवट्ट जखवट सुमतिवति महद्भूत मुद्रित / ये केचित् षडायतननिसृताद्भुता (dutt 116) इनि मिने / सचके घोषसचने / मुद्रितचर्याधिष्ठानवाक्पथानन्यथा / महापुण्यसमुच्चयावतार / महाकरुणया मुद्रित / सर्वसम्यक् प्रतिपत् चिरभद्रं ज्वलतु धर्मनेत्री / सर्वे मुनिवृषभाः महाकरुणसमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा /

अथ तावदेव ते सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास्त्रीष्कृत्यैवमाहुः / नमः सर्वबुद्धेभ्यः / नमो नमः सर्वबुद्धेभ्य इति / एवं चाहुः / अहो महाश्चर्यो मुनिसंनिपातः / अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च संनिपातः / अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मस्मता-प्रतीत्य-धर्महृदय-सर्वधर्म-समुच्छ्रय-विध्वंसनी-धारणी-मुद्रापदप्रभेद-प्रवेशव्याकरणो धर्मपर्यायः / सर्व-शास्तृशासन-धर्मनेत्री-त्रिरत्न-वंशाधिष्ठान-निर्देशो मारविषय-बलविध्वंसनो मारपाशसंच्छेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रापणः धर्मपक्षरक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् / एतर्हि सर्वबुद्धैर्भगवद्भिरयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः / सर्वसत्त्वहृदयमुद्रा सर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानामानुत्तरपरिनिर्वाणप्रतिलाभाय / अस्मिन् खलु पुनर्धारणीव्याकरणे भाष्यमाणे त्रिंशद्गङ्गानदीवालुकासमानां बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् /

तेन खलु पुनः समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर्भूत्वा समन्ततो ऽवलोक्य बुद्धाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वमिदं बुद्धक्षेत्रं स्वरेणपूर्य एवमाह /

दुर्लभा जिनचन्द्राणामीदृशी परिषत् पुनः / विद्वांसो दुर्लभाश्चै[व] बोधिसत्त्वा महाव्रताः // rkp_6.[1] //

ईदृशायाश्च मुद्रायाः श्रवणं परमदुर्लभम् / येयं कारुणिकैर्नाथैर्धमनेत्री स्वधिष्ठिता // rkp_6.[2] //

सर्वेषां मारपक्षाणां शत्रूणां च पराजयः / रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः // rkp_6.[3] //

सर्वावरणनाशाय क्षान्ति-सौरतवर्धिनी / सत्त्वानामावर्जनी चेह राज्यराष्ट्रस्य पालनी // rkp_6.[4] //

वारणी दुष्कृतस्येह कुदृष्टि-प्रतिषेधनी / आश्वासो बोधिसत्त्वानां बोधिमार्ग-प्रदर्शनी // rkp_6.[5] //

पारमितावर्धनी चैव भद्रचर्या-प्रपूरणी / उपायज्ञान-प्रतिभान-वृद्ध्यै अप्यधिष्ठिता // rkp_6.[6] //

संग्रहः शुक्लपक्षस्य धारणीष्वपराजिता / निरञ्जना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् // rkp_6.[7] //

सर्वा विनीय विमतिर्धरणीष्वधिमुच्यते / एष वै सकलो मार्गो येन बोधिः प्रवर्तते // rkp_6.[8] //

वयं भूयः प्रवक्ष्यामो धारणीमपराजिताम् / धर्मभाणकरक्षायै श्रोत्राणामभिवृद्धये // rkp_6.[9] //

छन्दं ददाति को न्वर्थो बोधिसत्त्वो महायशाः / अनावरणाभावाय सत्त्वानां हितवृद्धये // rkp_6.[10] //

तेन खलु पुनः समयेन गङ्गानदीबालुकासमाः कुमारभूता बोधिसत्त्वा महासत्त्वा एककण्ठेनैवमाहुः / वयमप्यस्यां धारण्यां छन्दं ददामो ऽधितिष्ठामः / यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंच्छन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते छत्रध्वजपताकोच्छ्रापिते स्वलंकृते मण्डलमाले मृदुसुखसंस्पर्शे सिंहासने अभिरुह्य इमां धारणीं संप्रकाशयेत् न चास्य कश्चित् चित्तसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति / न चास्य कश्चित् काये श्वासं मोक्ष्यति शीर्षरोगं च कर्तुं शक्ष्यति / नेदं स्थानं विद्यते / न कायरोगं वा न जिव्हारोगं वा न दन्तरोगं (dutt 119) नाक्षिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठरोगं न अन्त्ररोगं नोदररोगं न श्रोणीरोगं न ऊरुरोगं न जङ्घारोगं कश्चित् कर्तुं शक्ष्यति / न चास्य स्वरसंक्षोभो भविष्यति / यश्च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमां धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति / कर्मपरिक्षयात् स्वस्ति भविष्यति / ये ऽपि तत्र धर्मश्रावणिकाः संनिपतिष्यन्ति तेषामपि न कश्चित् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा / ये च तत्र इमां धारणीं श्रोष्यन्ति तेषां यदशुभेन कर्मणा दीर्घग्लानिः धातुसंक्षोभो वा स्वरसंक्षोभो वा स्यात् तत् सर्वं परिक्षयं यास्यति /

अथ खलु चन्द्रप्रभः कुमारभूतो येन ते बुद्धा भगवन्तो गङ्गानदीवालुकासमा बोधिसत्त्वपरिवारास्तेनाञ्जलिं प्रणम्यैवमाह / समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददतु / तद् यथा / क्षान्ते असमारूपे / मैत्रे सोमवते / एहि नव कुंजवे / नव कुंजवे नव कुंजवे / मूलशोधने / वढख वढख / मारतथता-परिच्छेद / वहस वहस / अमूले अचले दद / प्रचले विधिले एकनयपरिच्छेद / चण्डिनवोरसतृणे भूलरे भूसरतृणे खगसुरतृणे स्नवसुरतृणे भूतकोटे परिच्छेदे / जलख जलखवये / जलनामशख ककख / हह हह / हुहु हुहु / स्पर्शवेदनपरिच्छेद / (dutt 120) अममा नुमम ख्यम-मस मुद्रव / मुद्र खसंस्काराणामंपरिच्छेद / बोधिसत्त्वाक्षतिविम महाविम भूतकोटि आकाशश्वासपरिच्छेद / स्वाहा /

तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिसत्त्वा महासत्त्वास्ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रास्ते च महौजस्कमहौजस्काः सत्त्वाः सर्वे साधुकारं प्रददुः / ते च बुद्धा भगवन्त एवमाहुः / महाबलवेगवती सर्वशत्रुनिवारिणी वत इयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमित्तमोक्षणी यावदनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्दा इयं धारणी भाषिता /

तेन खलु पुनः समयेन भुतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायुः पुरतो निषसाद परमवर्णपुष्कलतया समन्वागतो दिव्याभिक्रान्तैः परमोदारैर्वस्त्रालङ्कारैः पुष्पगन्धमाल्यविलेपनैश्चाभ्यलंकृतः / अथ भूतेश्वरो महाब्रह्मा उत्थायासनादञ्जलिं प्रणम्यैवमाह / अधितिष्ठन्तु / मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यदहम् इदं कृत्स्रं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयम् / न च मे अत्र कश्चिद् विघ्नो भवेत् / यत् इदमेतर्हि धर्मभाणकानां धर्मश्रावणिकानां चार्थाय तादृशीं मन्त्रपदरक्षां भाषेत यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो वा नागी वा नागमहल्लको वा नागमहल्लिका (dutt 121) वा नागपार्षदो वा नागपार्षदी वा नागपुत्रको वा नागपुत्रिका वा विस्तरेण कर्तव्यं यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो वा पिशाचपार्षदी वा पिशाचपुत्रको वा पिशाचपुत्रिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धर्मश्रावणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतान्तशो धर्मभाणकानां धर्मश्रावणिकानां वा एकरोमकूपमपि विहेठयेद् विहिंसयेद् विलोपयेत् ओजो वा हरेत् श्वासं वा काये प्रक्षिपेत् दुष्टचित्तो वा प्रेक्षेत अन्तशः एकक्षणमपि तेषामहं यावत् माराणां मनुष्या-मनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्याम् / जृम्भणं मोहनं शपथं दद्याम् / अभितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यदहमिदं कृत्स्नं बुद्धक्षेत्रं स्वरेणापूरयेयम् / कश्चात्र मे सहायो भविष्यतीति / अथ खलु ते बुद्धा भगवन्तस्तूष्णींभावेनाधिवासयामासुः /

तत्र च शिखिन्धरी नाम शक्रो जाम्बूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः / अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवमाह / मा भगिनि अमितायुषस्तथागतस्य पुरतो निषीदस्व / मा भगिनी अत्र प्रमाद्यस्व / मा भगवन्तं विहेठय / तत् कस्य हेतोः /

प्रपंचाभिरता बाला निष्प्रपञ्चास्तथागताः / संस्कारं दर्शयिष्यन्ति चोत्पादव्ययलक्षणम् // rkp_6.[11] //

सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तास्तथागताः / न भगिनि तथागतस्तथतां विरोधयति एकसमतया तथतया यदुताकाशसमतया / आकाशमप्यसमारोप-त्रिसंस्कारव्ययलक्षणम् / यथाकाशमकल्पमविकल्पं संस्कारेषु एवमेव तथागतः / कामगुणान् न प्रपञ्चयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति / एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धायतनानि प्रपञ्चयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति / कथं नाम त्वं भगिनि तथागतकायं प्रपञ्चयसि /

अमितायुस्तथागत आह / समीक्ष्य देवानामिन्द्र वाचं भाषस्व / मा ते स्याद्दीर्घरात्रमनिष्टं फलम् / महासत्पुरुषो ह्येष बहुबुद्धकृताधिकारो ऽवरोपितकुशलमूलो बुद्धानां भगवतामन्तिके / अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपमभिनिर्मितम् / मा त्वमेनं स्त्रीभावेन समुदाचर /

अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणमेवमाह / क्षमस्व कुलपुत्र ममानुकम्पामुपादाय / मा चाहमस्य भाषितस्यानिष्टं फलं प्राप्नुयामिति / अथ कौतूहलिको बोधिसत्त्वा आह / यदि भगवन् शक्रणेदं वचनमप्रतिदेशितमभविष्यत् कियांस्तस्य (dutt 123) फलविपाकः / अमितायुस्तथागत आह / यदि कुलपुत्र अनेन न प्रतिदेशितमभिष्यत् चतुरशीतिजन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीतः स्यात् / तस्मात्तर्हि रक्षितव्यं वाक्कर्म / प्रतिभा[तु] ते कुलपुत्राधिष्ठितस्तथागतैस्तव स्वरमण्डलवाग्व्याहारः /

अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्राञ्जलिदशदिशो व्यवलोक्यैवमाह / समन्वाहरन्तु मां बुद्धा भगवन्तो बोधिसत्त्वाश्च महासत्त्वा महाश्रावकाश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश्चात्र च्छन्दं ददतु यस्यायमभिप्रायः स्यात् / इयं धर्मनेत्री चिरस्थितिका भवेत् / धर्मभाणकानां धर्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठो भवेदिति / स च मे च्छन्दं ददातु यच्च पश्चिमे काले न मारा[न] मनुष्यामनुष्यास्तेषां विहेठं कुर्युः /

अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय शप[थग्रह]णायोच्चस्वरशब्दं मुमोच / तेन च शब्देन सर्वामिमां लोकधातुमापूरयामास / तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवमाहुः / वयमस्यां धारण्यां छन्दं ददामः / स्वयं च पश्चिमे काले इमां धारणीं धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामः तांश्च धर्मभाणकान् धर्मश्रावणिकांश्च प्रतिपत्तियुक्तान् रक्षिष्यामः / वद त्वं सत्पुरुष / वयं बुद्धानां भगवतां (dutt 124) बोधिसत्त्वानां महासत्त्वानां च महाश्रावकाणां च पुरतो ऽस्यां धारण्यां छन्दं ददामः /

अथ खलु भूतेश्वरो ब्रह्मा एवमाह / अधितिष्ठन्तु मे बुद्धा भगवन्तो बोधिसत्त्वा महासत्त्वा महाश्रावकाश्च / तद् यथा /

अमले विमले गणषण्डे / महारे चण्डे महाचण्डे / चमे महाचमे / सोमे स्थामे / अवह विवह / अङ्गनी नेत्रखवे मूलपरिच्छेदे / यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि / संकारणि जम्भनि मोहनि उच्चाटनि / हमह मह मह मह / आकुञ्चने खगशव / अमले अमूल परिवर्ते असारखव स्वाहा /

य इमानतिक्रमेन्मन्त्रान् न चरेद् गणसन्निधिम् / अक्षि मुद्रेत् स्फालेत् शीर्षमङ्गभेदो भवेदपि // rkp_6.[12] //

तद् यथा / अचच अवह / चचचु क्रक्ष चचट चचान / खग चच चचचच न च / अमूल चच अमूल चचह मामूल चचह मूल मूपड महा स्वाहा /

अथ तावदेव सर्वे ब्रह्मेन्द्रा यावत् पि[शा]चेन्द्राः साधुकारं ददुः / एवं चाहुः / अतीव महासहस्रबलवेगप्रमर्दनानि एतानि मन्त्रपदानि / पाशो ऽयं सक्तः सर्वाहितैषिणां भूतानां कुतः पुनस्तेषां जीवितम् / भूतेश्वरो ब्रह्मा एवमाह / ये दुष्टाश्रया अकृपा अकृतज्ञा भूताः सत्त्वानां विहेठकामा वा मारपार्षद्या वा (dutt 125) अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानामबतारप्रेक्षिण उपसंक्रमेयुः / अग्रमहिषीणां पुत्रदुहितॄणां चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानामन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषधारकधारिकाणासुपासकोपासिकानां वा धर्मभाणकानां धर्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां वैयावृत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः / अन्तशः एक[मुहूर्तमपि सत्त्वानाम्] एकरोमकूपमपि विहेठयेयुः विहिंसयेयुर्विप्रलोपयेयुः / ओजो वा अपहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षेरन् क्लिन्नदुर्गन्धकायानां तेषां माराणां यावन्मनुष्यामनुष्याणां सप्तधा मूर्धा स्फालेत् अक्षीणी चैषां विपरिवर्तेरन् हृदयान्युच्छुष्येरन् श्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीना भूमिश्च तेषां विवरमनुप्रयच्छेत् / वायवश्च तान् चतुर्दिशं विक्षेपेयुः / पांसुभिरवकीर्णास्तत्रैव विक्षिप्तचित्ता पर्यटेयुः / ये भूमिचरास्ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतियोजनसहस्राणि अधस्तत्रैव तेषामायुःपरिक्षयः स्यात् / ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्नाः स्युः राज्ञां क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद्वैयावृत्याभियुक्तानां भिक्षूणां विहेठं कुर्युस्तेषामपि तथैव सप्तधा मूर्धा स्फालेत् / यावत्तत्रैव तेषामायुःपरिक्षयः स्यात् य इमान् मन्त्रानतिक्रमेयुः / अपि च यस्मिन् (dutt 126) विषये इयं मारमण्डलापराजितधारणीधर्मपर्यायः प्रचरिष्यति तत्र वयं रक्षावरणगुप्तये औत्सुक्यमापत्स्यामहे सवांश्च तत्र धर्मकामान् सत्त्वान् परिपालयिष्यामः / महासन्निपातरत्नकेतुसूत्रे षष्ठः धारणीपरिवर्तः // 6 //

chapter 7 is missing in the original text "gilgit manuscripts vol iv"

chapter 8 is missing in the original text "gilgit manuscripts vol iv"

chapter 9 is missing in the original text "gilgit manuscripts vol iv"

स्तर्त् र्क्प् 10

दशमः परिवर्तः

सर्वो ऽब्घातुः सर्वस्तेजोधातुः सर्वो वायुधातुः सर्व आकाशधातुरधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वसत्त्वपरिपाकार्थं यावत् संसारपारङ्गमनार्थम् /

अथ खलु सर्वे ते बुद्धा भगवन्तो ये तद्बुद्धक्षेत्रनिवासिनो बोधिसत्त्वा महासत्त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः सत्त्वा ये च चातुर्द्वीपिकायां लोकधातौ नैवासिकास्तान् सर्वानामंत्र्यैवमाहुः / युष्माकं मार्षा हस्ते भूयिष्ठतरामिमां सद्धर्मनेत्रीमधिष्ठाय परिन्दामि सर्वसत्त्वपरिपाकार्थम् / तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या उज्ज्वालयितव्या रक्षितव्या / यथा न क्षिप्रमिहायं सद्धर्मः प्रलुज्येत नान्तर्धीयेत / ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं महासन्निपातधर्मपर्यायं धारयिष्यन्ति यावल्लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः सद्धर्मधारकाः पुद्गलास्तान् सर्वान् [परिपालनार्थं] युष्माकं हस्ते न्यासतः परिन्दामः आरक्ष-परिपालनतायै / धर्मभाणकाः (dutt 128) पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रावणिकाः सद्धर्मधारकाः युष्माभिः रक्षितव्याः / तत् कस्य हेतोः / ये इह भूतास्तथागता अर्हन्तः सम्यक् संबुद्धाः सर्वैस्तैस्तथागतैः क्लिष्टे पञ्चकषाये बुद्धक्षेत्रे सनिपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परि[द]त्ता रक्षायै यावत् सर्वसत्त्वपरिपाकाय / एवमेव ये भविष्यन्ति अनागते ऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः ते ऽपि सर्वे क्लिष्टेषु पञ्चकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य सत्त्वहितार्थम् एताहि धारणीमन्त्रपदानि भाषिष्यन्ते / इमां च धर्मनेत्रीमधिष्ठास्यन्ति / सर्वेषां शक्त्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीमनुपरिन्दास्यन्ति रक्षापरिपालनार्थम् /

वयमप्येतर्हि युष्माकमिह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकनिवासिनां च शक्रब्रह्मालोकपालदेव-नागयक्ष-गन्धर्वासुरगरुडकिन्नर-महोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै सत्त्वपरिपाकार्थम् / तथा युष्माभिरियं सद्धर्मनेत्री मनसि कर्तव्या प्रोज्ज्वालयितव्या यथा न क्षिप्रमेव प्रलुज्येत नान्तर्धीयेत / ये च श्राद्धाः कुलपुत्राः कुलदुहितरश्च सद्धर्मधारकाश्च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका ये इमं महासन्निपातं धर्मपर्यायं धारयन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयन्ति धर्मभाणका धर्मश्रावणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस्ते रक्षितव्याः पूजयितव्याः / तत् कस्य हेतोः / सर्वबुद्धाधिष्ठितो ऽयं धर्मपर्यायो (dutt 129) यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येत उद्दिश्येत पर्यवाप्येत वा अन्तशः पुस्तकलिखितमपि कृत्वा भाष्येत तेन धर्मरसेन पृथिवीरससत्त्वौजांसि विवर्धिष्यन्ते / तेन यूयमोजोवन्तस्तेजोबलवीर्यपराक्रमवन्तो भविष्यथ / परिवार-विमान-वृद्धिश्च युष्माकं भविष्यति / मनुष्यराजा अप्यारक्षिता भविष्यन्ति / राजैश्वर्येण ते विवर्धिष्यन्ते सर्वराष्ट्रं च तेषां सुरक्षितं भविष्यति / तेन च धर्मरसेन सन्तर्पिता जम्बुद्वीपे राजानः परस्परहितचित्ता भविष्यन्ति / कर्मविपाकं श्रद्धास्यन्ति / कुशलचित्ता भविष्यन्ति / अमत्सरचित्ता हितवस्तुचित्ताः सर्वसत्त्वदयाचित्ता यावत् सम्यग्दृष्टिका राजानो भविष्यन्ति / प्रति प्रति स्वविषये ऽभिरंस्यन्ते /

अयं च जम्बुद्वीपः स्फीत उदारो जनाकीर्णो भविष्यति / सुभीक्षतरो रमणी[य]तरश्च भविष्यति / बहुजनमनुष्याकीर्णा ओजोवती च पृथिवी भविष्यति स्निग्धतरा च / मृदुतरफलानि च / यत्रौषध्i-dhana-dhआन्य-समृद्धतरा च आरोग्य-सुखस्पर्शविहार-संजननी च भविष्यति / सर्वकli-kalaha-durbhikष-रोग-परचक्र-दंश-मशक-शलभाशिविष-दुष्टयक्ष-राक्षस-मृग-पक्षि-वृका अकालवातवृष्टयः प्रशमिष्यन्ति / सम्यग् नक्षत्र-रात्रि-दिवसार्धमास-ऋतु-संवत्सराणि (dutt 130) प्रवहिष्यन्ति / सत्त्वाश्च प्रायो दशकुशलकर्मपथचारिणो भविष्यन्ति / इतश्च्युताः सुगतिस्वर्गगामिनो भविष्यन्ति / ते ऽपि युष्मत्परिवारा भविष्यन्ति / एवं बहुगुणमहानुशंसो ऽयं धारणीधर्मपर्यायः सर्वबुद्धाधिष्ठितो महासंनिपातः सत्त्वानां संस्कारपारङ्गमाय यशोविवृद्धिपारिपूर्यै भविष्यति / निरवशेषं मातृग्रामभावपरिक्षयाय उपपत्तिवेदनीयो ऽपरपर्यायवेदनीयः संक्षेपाद् दृष्टधर्मवेदनीयो ऽपि स मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यनन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वा आर्यापवादकं वा / यदन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति /

य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितमपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशवरणानि परिक्षयं यास्यन्ति / सर्वकुशलमूलालम्बनानि च विवृद्धिं पारिपूरिं यास्यन्ति / सर्वाङ्गपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि च विवर्धिष्यन्ते / सर्वकुदृष्टिप्रहाणं सर्वशत्रुः सहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति /

अस्य सर्वबुद्धाधिष्ठितस्य महासंनिपातधारणीधर्मपर्यायस्य प्रभावेण यत्र च विषये पुनरयं धर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति / ओजोवती मृदुफलरसा भविष्यति / (dutt 131) तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति / पुष्पफलसमृद्धतरा धनधान्यकोषकोष्ठागारकुम्भकलशवृद्धिर्भविष्यति वस्त्रान्नपानौषधोपकरणा भूयिष्ठतरा / ये च तत्र अन्नपानोपजीवितसत्त्वास्ते नीरोगतरा भविष्यन्ति वर्णवन्तो बलवन्तः स्मृतिमन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिताः / ते ततश्च्यवित्वा युष्माकं सहभाव्यतायोपपत्स्यन्ते / तथा यूयं परिवारवृद्धा बलवन्तो ऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यथ / सत्त्वान् धर्मार्थेषु नियोक्ष्यथ / एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति /

अथ खलु मान्दारवगन्धरोचस्तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नमिदं बुद्धक्षेत्रमापूर्य सर्वे च बोधिसत्त्वा महासत्त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां च वचनेन चास्य संनिपातसूत्रस्य धर्मनेत्रया धारणाय प्रकाशना[य] रक्षणायोत्साहयामास /

तेन खलु पुनः समयेन मैत्रेयपूर्वङ्गमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां महासत्त्वानामिह बुद्धक्षेत्रे निवासीनि तानि सर्वाणि एककण्ठेनैवमाहुः / वयमपि सर्वबुद्धानां भगवतां वचनेन सर्वत्र्यध्वानुगतानां तथागतानां (dutt 132) पूजार्थमिमं धर्मपर्यायं न्यायतः शास्त्रसंम[त]तो गुरुगौरवेण प्रतिगृण्हीमः / कारुण्येन सत्त्वपरिपाकार्थं यावदनुत्तरे मार्गे प्रतिष्ठापनार्थं वयमिमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण उद्दयोतयिष्यामः / सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् / तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस्तब्दुद्धक्षेत्रान्तर्गताः साधुकारं प्रददुः / साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् /

अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चेह बुद्धक्षेत्रे [अ]पराणी चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां सत्त्वानां ते सर्वे एककण्ठेनैवमाहुः / वयमप्येतं महासन्निपातं धर्मपर्यायम् उद्ग्रहीष्यामः / यावद् विस्तरेण संप्रकाशयिष्यामः समुद्दयोतयिष्यामः सत्त्वांश्च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थम् / सद्धर्मधारकान् धर्मश्रावणिकांश्च रक्षिष्यामः परिपालयिष्यामः / यत्र चायं धर्मपर्यायः प्रचरिष्याति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्ष-रोगपरचक्राकालवातवृष्टिशीतोष्णानि च दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः / क्षेमरमणीयतां सुभिक्षसामग्रीं संपादयिष्यामः / सद्धर्मनेत्री-चिर-स्थित्यर्थमुद्योगमापत्स्यामः / भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः / ध्यानाभिरतांश्च सत्त्वान् रक्षिष्यामः / अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः / साधु साधु भद्रमुखाः / एवं युष्माभिः करणीयम् / आत्मोभयपरार्थमुद्योगमापत्तव्यम् / (dutt 133) एवं च युष्माभिः त्रयध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति / यत्र हि नाम यूयं सत्त्वपरिपाकार्थं सद्धर्मनेत्रया उज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्युक्ता न चिरेण यूयं क्षिप्रमनुत्तरां सम्यक् संबोधिमभिसंभोत्स्यथ /

अथ खलु ये अस्यां मध्यमायां चार्तुद्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महोजस्कमहौजस्काः सत्त्वास्ते सर्वे उत्थायासनात् प्राञ्जलयः स्थित्वैवमाहुः / वयमपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीमुद्द्योतयिष्यामो रक्षिष्यामः / इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्मपर्यायं न्यायतः प्रतिग्रहीष्यामः / यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण संप्रकाशयिष्यामः / सद्धर्मधारकांश्च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः / ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धर्मश्रावणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्राद्धाः कुलपुत्राः कुलदुहितरश्चेमं धर्मपर्यायमुद्ग्रहीष्यन्ति यावत् पुस्तकलिखितमपि कृत्वा धारयिष्यन्ति ध्यानाभियुक्तास्तान् वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामः मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर्यावत् सर्वभैषज्यपरिष्कारैः सत्करिष्यामः / अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयमुपसंक्रमिष्यामः श्रवणाय शास्तृसंज्ञया (dutt 134) वयमिमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामश्छत्रध्वजपताकाभिः / तत् कस्य हेतोः / अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेन ओजोवन्तो भविष्यामः / बलवन्तो वीर्यवन्तः स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः /

एवं वयं सर्वविषये सर्वान् कलिकलहविवाददुर्भिक्ष-रोगपरचक्रा-कालवातवृष्ट्यति-शीतोष्णानावृष्टि-दुःस्वप्नदुर्निमित्त-दुष्टरूक्षपरुषतिक्त-कटुकविरसाकुशलपक्षान्तकरान भावान् प्रशमयिष्यामः / भूयस्या मात्रया क्षेमसुभिक्षान्त-रमणीया-रोग्यसामग्रीं सम्पादयिष्यामः / कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः / सम्यग्ग्रहरात्रिदिवस-मासार्धमासर्तु-संवत्सरानावाहयिष्यामः / सम्यग् ग्रहनक्षत्रसूर्याचन्द्रमसौ वाहयिष्यामः / नद्युतस्-सरस्तडागपुष्करिणीः प्रपूरयिष्यामः / यत्र सत्त्वानामुदकौघेन पीडा भविष्यति तद्वयं प्रतिनिवारयिष्यामः / भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु सत्त्वहितार्थं पत्रशाखापुष्पफलगन्धधान्यौषधशस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः / धनधान्यौषधवस्त्राभरणैः सत्त्वानामवैकल्यं संपादयिष्यामः / तेषां च सत्त्वानां कुशलपर्येष्टितो धराणीमुद्राधर्मपर्यायः प्रकाश्येत / अन्तशः पुस्तकलिखितमपि कृत्वा धार्येत वा वाच्येत वा पूजासत्कारेण वा धार्येत / तेषु ये राजानो भविष्यन्ति तान् वयं क्षत्रियान् मूर्धाभिषिक्तान् रक्षिष्यामः (dutt 135) परिपालयिष्यामः / अहितं चैषामपनेष्यामः / अहित चैषामुपसंहरिष्यामः / सर्वकौतुकमङ्गलकुदृष्टिकुकार्य-क्वधिष्ठान-कुप्रणिधि-कुशरण-कुहनलपनमायाषठ्यमृषावादेर्यारोषमात्स]र्याणि प्रशमयिष्यामः / सम्यग्दृष्टिमार्गे ऋजुके श्रद्धा-दम-संयम ह्र्यपत्राप्येषु संनियोक्ष्यामः /

एवमग्रमहिषीनामन्तःपुरकाणा[म]मात्यगणमहामात्र-नैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुषदारकदारिकाणामपि रक्षां करिष्यामः परिपालनं यावत् ह्यपत्राप्ये सन्नियोक्ष्यामः / अन्तशश्चतुष्पदानपि तेषु विषयेषु रक्षिष्यामः / एषु अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल्लिखितमपि पुस्तके स्थास्यति / एवंरूपैर्वयं महद्भिरुद्योगपराक्रमैस्तान् सत्त्वान् परिपालयिष्यामो धर्मनेत्रीसमुद् द्योतनार्थम् अनन्तर्धानाय उद्योगमापत्स्यामः /

अथ ते सर्वे बुद्धा भगवन्तस्तेभ्यः सत्पुरुषेभ्यः साधुकारं प्रददुः / साधु साधु भद्रमुखाः / एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास्त्रिरत्नवंशस्य च अनन्तर्धानाय उद्युक्ताः एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति /

इति रत्नकेतुसूत्रे दशमः आरक्षपरिवर्तः समाप्तः //

स्तर्त् र्क्प् 11

एकादशः परिवर्तः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.