Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
महासंनिपातरत्नकेतुधारणीसूत्र or रत्नकेतुपरिवर्त (=र्क्प्)
- Thông tin
- GRETIL — Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महासंनिपातरत्नकेतुधारणीसूत्र or रत्नकेतुपरिवर्त (=र्क्प्)
folios 1-4 are missing
i.
पापिकां दृष्टिं ग्राहयेयं //
अथ तेन क्षणेन मारः पापीमाञ् छीघ्रम् एव स्वभवनाद् अन्तर्हायायुष्मतो ऽश्वजितो वेषलिंगेर्यापथेन तयोः सत्पुरुषयोः पुरतो ऽन्तर्मार्गे स्थित्वैवम् आह //
उक्तं पूर्वम् इदं मया हि वितथं हेतूपमं कारणं युवयोर् एव मनःप्रचारनियमं विज्ञायतुं किं युवां / सर्वं चैतद् अपार्थकं हि कथितं नास्त्य् अत्र हेतुः पुनः कृष्णस्यास्य शुभस्य कर्मण इह प्राप्तिः फलं वा कुतः // rkp_1.9 क्षिप्रं कामगुणेष्व् अतीव चरतं क्रीडां युवां विन्दतं मृत्युर् नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वा / पुण्यापुण्यफलं च कर्मजनितं नास्त्य् अत्र हेतुक्रिया लाभाये वदतीह शाक्यतनयो मा श्रद्धया गच्छथः // rkp_1.10
अथोपतिष्यकौलितयोर् एतद् अभूत् / मारो वतायं पापीमान् उपसंक्रान्त आवयोः प्रव्रज्याविच्छन्दनार्थं / अथोपतिष्यः पराङ्मुखः स्वपरिषदम् आहूयैवम् आह / श्रुणत यूयं माणवकाः स्मरत संसारदोषान् /
जरया पीडितो लोको मृत्युना परिवारितः / उभयोस् तत्प्रहाणाय प्रव्रज्यां साधु गृह्णथ // rkp_1.11
अथ कौलितो मारं प्रोवाच //
आज्ञातः प्रवरः सतां मतिधरो धर्मस् त्रिदुःखान्तकृत् कश्चिन् नास्ति यदावयोर् मतिम् इमां व्युच्चालयेत् सर्वथा / तृष्णायाः प्रशमाय धीरमनसाव् आवां सदा व्युत्थितौ मा सिंहाकृतिना सृगालवचनैर् आवां मतेर् भ्रामय // rkp_1.12
याश् च देवता दृष्टसत्यास् ता गगनस्थितास् ताभ्यां सत्पुरुषाभ्यां साधुकारं (कुरुमिय 3) प्रददुः / साधु साधु सत्पुरुषौ सर्वलोकविशिष्ट एष मार्गो यद् उत प्रव्रज्यानिष्क्रमः / सर्वदुःखोपशान्त एष मार्गः / सर्वतथागतगोचरावतार एष मार्गः / सर्वबुद्धैर् भगवद्भिर् वर्णितः प्रशस्त एष मार्गो यद् उत प्रव्रज्यानिष्क्रम इति / अथ खलु मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धानं जगमा //
अथ खलूपतिष्यकौलितौ परिव्राजकौ स्वपरिषदम् अवलोकयैवैवम् ऊचतुः / यत् खलु माणवका यूयं जानीध्वम् आवां जरामरणसागरपारंगमाय तथागतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ / यः पुनर् युष्माकं नेच्छति भगवतः शासने प्रव्रजितुम् इहैव निवर्ततां / सर्वाणि च तानि पंचमाणवकानां शतान्य् एवम् आहुः / यत् किंचिद् वयं जानीमस् तत् सर्वं युवयोर् अनुभावेन / नूनं युवाम् उदारस्थाने प्रव्रजितौ / यम् उद्दिश्य प्रव्रजितौ युवां तम् उद्दिश्य वयम् अपि प्रव्रजिष्यामः //
अथोपतिष्यकौलितौ परिव्राजकौ पंचशतपरिवारौ भगवंतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ विदित्वाथ मारः पापीमान् बहिराजगृहस्य महानगरस्य महाप्रपातम् अभिनिर्मितवान् योजनशतम् अधस्ताद् (कुरुमिय 4) यथा तौ न शक्ष्यतः श्रवणस्य गौतमस्यान्तिकम् उपसंक्रमितुम् इति / भगवांश् च पुनः तादृशम् ऋद्ध्यभिसंस्कारम् अभिसंश्चकार यथा ताव् उपतिष्यकौलितौ परिव्राजकौ तं महाप्रपातं न ददृशतुः / ऋजुना मार्गेण गच्छतः / पुनर् अपि मारः पापीमांस् तयोः पुरतः पर्वतम् अभिनिर्मिमीते दृ ..... सुषिरं योजनसहस्रम् उच्चत्वेन सहस्रं च सिंहानाम् अभिनिर्मिमीते चण्डानां दुष्टानां घोराणां / तौ च सत्पुरुषौ भगवतस् तेजसार्द्ध्यनुभावेन च तं पर्वतम् अपि न ददृशतुः न च सिंहान् न च सिंहनादञ् छुश्रुवतुः / ऋजुना च मार्गेण येन भगवांस् तेनोपसंक्रामतुः / भगवांश् चानेकशतसहस्रया परिषदा परिवृतः पुरस्कृतो धर्मं देशयति स्म //
अथ खलु भगवान् भिक्षून् आमन्त्रयते स्म / पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ / आहुः / पश्यामो वयं भगवन् // भगवान् आह / एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावताम् अग्रो (कुरुमिय 5) भविष्यति द्वितीयो ऋद्धिमताम् //
अथान्यतरो भिक्षुस् तस्यां वेलायाम् इमा गाथा अभाषत //
एतौ च विज्ञपुरुषौ परिवारवन्तौ यौ व्याकृतौ हितकरेण नरोत्तमेन / समन्विताव् ऋद्धिधिया विशारदाव् उपेम्य् अहं गौरवजात एतौ // rkp_1.13
अथ खलु स भिक्षुर् उत्थायासनाद् बहुभिर् भिक्षुभिः सार्धं बहुभिश् च गृहस्थप्रव्रजितैर् अभ्युद्गम्य तौ सत्पुरुषौ पर्युपासते स्म / अथ तौ सत्पुरुषौ येन भगवांस् तेनोपजग्मतुः / उपेत्य भगवतः पादौ शिरसाभिवन्द्य तृप्रदक्षिणं कृत्वा भगवतः पुरतः स्थित्वा भगवंतम् एतद् ऊचुः / लभेवह्य् आवां वा भगवतो ऽन्तिके प्रव्रज्योपसंपद्भिक्षुभावम् / चरेयम् आवां भगवतो ऽन्तिके ब्रह्मचर्यं // भगवान् आह / किंनाम युवां कुलपुत्रौ / उपतिष्य आह / तिष्यस्य ब्राह्मणस्याहं पुत्र उपतिष्यो नाम / माता मे शारिका नाम / ततो मे जन्म / तेन मे शारिपुत्र इति नामधेयं कृतं / अभ्यनुज्ञातो ऽहं (कुरुमिय 6) पूर्वं मातापितृभ्यां प्रव्रज्यायै // कोलित आह / पिता मे कौण्डिण्यो नाम / तेन मे कौलितो नाम / माता मे मुद्गला नाम / तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतं / कश्चिन् मे जनो कौलित-म्-इति संजानाति / कश्चिन् मौद्गल्यायन इति // अभ्यनुज्ञातो ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै // भगवान् आह / चरतां शारिपुत्रमौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यम् इति / सैव तयोः प्रव्रज्या उपसंपद् भिक्षुभावश् च / अचिरप्रव्रजितौ च शारिपुत्रमौद्गल्यायनौ सपरिवारौ //
अथ मारः पापीमान् महेश्वररूपेण भगवतः पुरतः स्थित्वैवम् आह //
ये शास्त्रार्थपरिचरियासु निपुणा विद्यासु पारंगताः ते सर्वे प्रणमंति मत्सुचरणौ तेषाम् अहं नायकः / क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाद्य भो गौतम स्फीतं निर्वृति + + + + + तं वक्ष्यामि मार्गं तव // rkp_1.14
भगवान् आह /
त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः / किं भूयो लपसि प्रगल्भमुखरो धृष्टं सृगालस्वरः व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः // rkp_1.15
अथ मारः पापीमान् महेश्वररूपम् अंतर्धाय ब्रह्मवेषेण पुनर् भगवतः पुरतः स्थित्वैवम् आह //
कर्मक्लेशभवांकुरप्रमथनं यत् ते कृतं प्रज्ञया दुःखान्य् उत्सहसीह किं पुनर् इतस् सत्त्वार्थम् एवं मुने / नास्त्य् अस्मिं जगति प्रभो क्वचिद् अपि त्वत्पात्रभूतो जनः कस्मात् त्वं विगतामयो न त्वरितं निर्वासि कालो ह्य् अयम् // rkp_1.16
भगवान् आह /
गंगावालुकसन्निभान् असदृशान् सत्त्वान् प्रपश्याम्य् अहं ये मे वैनयिकाः स्थिताः करुणया ते संप्रमोक्ष्या मया / मध्योत्कृष्टजघन्यताम् उपगतो निर्मोक्ष्य निष्ठा जगत् निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते // rkp_1.17
अथ पुनर् अपि मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धाय स्वभवनं गत्वा शोकागारं प्रविश्य निषण्णः / तत्क्षणम् एव च सर्वमारभवननिवासिनश् च सत्त्वाः परस्परं पृच्छंति स्म / को हेतुर् यद् अयम् अस्माकं महाराजः शोकागारं प्रविश्य निषण्णो न च कश्चिज् जानीते //
अथ पंच मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर् वस्त्राभरणैर् आत्मानम् अलंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयंत्यः परममनोज्ञस्वरेण नृत्यंत्यो गायंत्यो वादयंत्यो महता दिव्येन पंचांगिकेन तूर्येण रतिक्रीडायुक्तेन मारस्य पापीमतः पुरतः स्थिताः / स च मारः पापीमान् बाहून् प्रगृह्य प्रक्रोशितुम् आरब्धः / मा शब्दं कुरुत मा शब्दं कुरुतेति / एवम् उक्ताश् च मुहूर्तं ता अप्सरसस् तूष्णीं तस्थुः / पुनर् अपि प्रगायंत्यस् तूर्याणि पराजघ्नुः / मारश् च पापीमान् पुनर् अपि बाहुद्वयम् उत्क्षिप्य प्रक्रोशितुम् आरब्धो यावत् सप्तकृत्वस् ता अप्सरसस् तां रतिनिबद्धनृत्तवा .......... पुनर् मारः पापीमान् तथैव (कुरुमिय 9) बाहुद्वयम् उन्नाम्योत्क्रोशं चकार / मा शब्दं कृध्वं मा शब्दं कृध्वम् इति / एवम् उक्ताश् च ता अप्सरसस् तूष्णीं तस्थुः //
अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा येन मारः पापीमांस् तेनांजलिं प्रणाम्यैवम् आह /
किं ते विभो च्युतिनिमित्तम् इहाद्य दृष्टं किं वा जगद् धुतवहाकुलम् अद्य जातं / शत्रुस् तवाधिकबलः किम् इहास्ति कश्चित् + + + + + + समाश्रयसे सशोकः // rkp_1.18
मारः प्राह //
शत्रुर् ममास्ति बलवान् निगृहीतचेता मायासु शिक्षितमतिर् भुवि शाक्यपुत्रः / तत्प्रक्षयो यदि न चास्ति कथंचिद् एवं शून्यं करिष्यति ममेह स कामधातुम् // rkp_1.19
सा अप्सरा प्रोवाच /
स्वामिन्न् उपायबलवीर्यपराक्रमैः कैः कर्तुं क्षयं परम् अशेषम् इहाद्य तस्य / कः शक्नुयात् त्रिभवबन्धनदीर्घतीरं तृष्णार्णवं क्षपयितुं वलसा + युक्तः // rkp_1.20
मारः प्राह /
दानव्रताशयदयाप्रणिधानपाशः शून्यानिमित्तपरमास्त्रगृहीतचापः / निःशेषतो भवनिवृत्त्युपदेशकर्ता संसारनिःसृतपथप्रशमानुकूलः // rkp_1.21 शून्येषु ग्रामनगरेषु वनान्तरेषु गिरिकन्दरेष्व् अपि वसंति तस्य शिष्याः / ध्यानाभियुक्तमनसः प्रविविक्तचारा दोषक्षयाय सततं विधिवत् प्रयुक्ताः // rkp_1.22 ऋद्ध्या बलैः करुणया च सहायवन्ताव् उपतिष्यकौलितव् अनौ मुनिना विनीतौ / त्रैलोक्यसर्वविधिना सुविनीतधर्मा शून्यं करिष्यति स मे किल कामधातुं // rkp_1.23
अथ तैः पंचभिर् मारकन्याशतैर् मारस्य पापीमतो ऽन्तिकाद् भगवतो गुणवर्णं श्रुत्वा सर्वैर् आकारविगतविद्युन् नाम बोधिसत्त्वसमाधिः प्रतिलब्धा / अथ तानि पंच मारकन्याशतानि दिव्यानि तूर्याणि तांश् च (कुरुमिय 11) दिव्यपुष्पगन्धमाल्यविलेपनाभरणविभूषणालंकारान् येन भगवांस् तेनाक्षिपन् भगवतः पूजाकर्मणे / तानि च दिव्यानि तूर्याणि ते च यावद् अलंकारा भगवत ऋद्ध्यनुभावेन वेणुवने ववर्षुः / ताश् च मारकन्याः स्वयम् अद्राक्षुः सपरिवारः / दृष्त्वा च पुनर् अपि ताः प्रसादप्रमोद्यजाता बभूवुर् यद् वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टम् इति // ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः / यद् भगवन्न् अनयोः शारिपुत्रमौद्गल्यायनोः सपरिवारयोर् इदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टम् / को न्व् अत्र भगवन् हेतुः / कः प्रत्ययः / भगवान् आह / नानयोः कुलपुत्रयोर् अनुभावः / मारस्य तु पापीमतः पंचमात्रैः परिचारिकाशतैस् ततो मारभवनाद् इदम् एवंरूपं महापुष्पवर्षं यावद् अलंकारवर्षम् उत्सृष्टं मम पूजाकर्मणे / अचिरात् ता अत्रागता ममान्तिकाद् व्याकरणं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधौ //
अथ तानि पंचमात्राणि मारकन्याशतानि स्वयम् एव भगवतो वाक्श्रुतघोषव्याहारम् अभिश्रुत्य भूयस्य मात्रया च भगवतो ऽन्तिके प्रसादजातास् तास् तेन प्रसादप्रमोद्येन बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलेभिरे //
अथ खलु ता मारकन्यास् तत्र मारभवने एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्यांजलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवम् ऊचुः //
तृष्णासरिन्निखिलशोषक सर्वलोकम् आलोक्य नेत्रविकलं जगद् एकचक्षुः / त्वं तारको ऽद्य जगतः सनरामरस्य बुद्धा वयं कथम् इहाशु मुने भवेम // rkp_1.24
नरदेवपूज्य भगवन् परमार्थवादिन् स्त्रीत्वं जुगुप्सितम् अपोह्य वयं समग्राः / ऋद्ध्या तवोत्तममते त्वरितं समीपे गत्वा मुनीन्द्रवचनं श्रुणुयाम एवं // rkp_1.25 नैरात्म्यवादि भगवन् परमार्थदर्शिन् बोध्यंगरत्नधर निर्मलवाक्प्रदीप / आक्रम्य मारबलम् अप्रतिम त्वम् अस्मान् बोधाय शीघ्रम् अधुना समं व्याकुरुष्व // rkp_1.26
अथ खलु मारकन्या उत्थायासनाद् एककण्ठेन मारं पापीमन्तम् एतद् ऊचुः //
त्वं नाम दुष्कृतमते भगवत्सकाशे दुष्टः कथं शृयम् अवाप्य चलाम् असाराम् / जात्यादिदुःखसमुपद्रुतसर्वमूर्तिः घोरां दशाम् उपगतो ऽसि मदावलिप्तः // rkp_1.27 श्रद्धां जिने कुरु तथा व्यपनीय रोषं संसारदोषमदपंकसमुद्धृतात्मा / एष स्वयं विदितसर्वजगस्वभाव आगच्छ कारुणिकम् आशु गतिं प्रयामः // rkp_1.28
अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतद् अभूत् / यन् न्व् अहं तादृशं मारबलविषयवेगं समनुस्मरेयं यद् एतानि पंच परिचारिकाशतानि पंचपाशबन्धनबद्धाम् आत्मान संपश्येयुर् इहैव निवर्तेरन् न पुनर् गन्तुं शक्नुयुः / स च मारस् तानि बन्द्धुं न शक्तः / तत् कुतस् तथा हि तानि पंच परिचारिकाशतानि तथागताधिष्ठानानि //
अथ खलु ताः पंचशतपरिचारिका मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः / (कुरुमिय 14) अथ मारः पापीमान् भूयस्या मात्रया रुष्टः / तस्यैतद् अभवत् / यन् न्व् अहं पुनर् अपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वम् इदम् आकाशवैरंभसंघातैर् महाकालमेघैर् महाकालवायुभिश् चावृतं यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणं गौतमं न पश्येयुः / पुनर् एव मे भवनम् आगच्छेयुः / तथापि बुद्धाधिष्टानबलेन कियन्तम् अपि वायुं न शक्नोत्य् उत्पादयितुं यो ऽन्ततो बालाग्रम् अपि कंपयेत् प्राग् एव बहुतरम् /
अथ मारः पापीमान् भूयस्य मात्रया दुष्टदुःखितो दुर्मना विप्रतिसारी रुदन् महास्वरेण स्वपुत्रगणपारिषद्यान् विक्रोशन् सर्वं मारभवनं शब्देन पूरयाम् आस /
आगच्छथ प्रियसुता गणपारिषद्या भ्रष्टा वयं स्वविषयात् स्वबलाच् च रिद्धेः / जातो ऽत्र एष विषवृक्ष इवान्तरात्मा मायाशठो मधुरवाग् इह शाक्यपुत्रः // rkp_1.29
अथ तेन शब्देन सर्वास् ता मारकन्याः मारदुहितराश् च सर्वे च मारपुत्रा (कुरुमिय 15) गणपार्षद्याश् च त्वरितमानरूपाः शीघ्रम् उपगम्य मारस्य पापीमतः पुरतस् तस्थुः / तस्यां च परिषदि जयमतिर् नाम मारपुत्रः / स प्रांजलिर् भूत्वैवम् आह /
किं दुर्मनाः परमकोपविदुष्टचेता नो कल्पदाह इह न च्युतिर् अद्य ते ऽस्मात् / शत्रुर् न चास्ति तव कश्चिद् इह प्रवृद्धो मोहं गतो ऽसि किम् इवान्यमतिर् व कस्मात् // rkp_1.30
मारः प्राह /
न त्वं पश्यसि शाक्यपुत्रविषलञ् छायानिषण्णं द्रुमे यद् वाक्यं वदसीह नास्ति बलवाञ् छत्रुस् तवेत्य् अग्रतः / सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो अङ्गारेण वयं सुताश् च चमवः यद्वद् विदह्यामहे // rkp_1.31 विद्वांसो बहुशास्त्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् / एतं शाक्यसुतं गता द्य शरमं धर्माङ्कुशेनोद्धृता तत्व् एष प्रियविग्रहः शठमतिः शत्रुर् ममात्युद्धतः // rkp_1.32 एता वै परिचारिकाः प्रियतमाः प्रोत्सृज्य मां निष्कृपाः भो भोस् तं श्रमणं गता द्य शरणं कृत्वापि मां साक्षिणम् / कुर्यात् कृत्स्नम् इदं भवत्रयम् अतः शून्यं शठो मायया भस्मीकुर्म इहाद्य यद्य् अतिबलं नाशु प्रयत्नाद् वयं // rkp_1.33
अथ ते सर्वे मारपुत्राः सगणपार्षद्याः प्राञ्जलयो भूत्वैवम् आहुः / एवम् अस्तु यद् अस्माकम् ऋद्धिबलविषयानुभावविकुर्वितं सर्वं दर्शयिष्यामः / यदि शक्ष्याम एतं शाक्यपुत्रं भस्मीकर्तुम् इत्य् एवं कुशलम् / यद्य् एवं न शक्ष्यामस् तं शरणं गमिष्यामः / स्वयम् एव तात प्रत्यक्षो ऽसि यद् वयं महासैन्यपरिवृताः प्राग् एव एकाकिनाद्वितीयेनानेन शाक्यपुत्रेणर्द्धिबलेन पराजिताः किं पुनर् एतर्ह्य् अनेकपरिवारपरिवृतेन / मारः पापीमान् एवम् आह / गच्छत तावद् भद्रमुखाः / यदि शक्नुतैनं श्रमणं गौतमं घातयितुं पुनर् आगच्छत // अथ न शक्तास् तथाप्य् आगच्छत / स्वभवनं पुनः परिपालयिष्यामः //
अथ मारपर्षद्द्वादशबिंबराणि ततो ऽतिक्रम्य इत ऊर्ध्वं यावच् (कुरुमिय 17) चतुराशीतिं योजनसहस्राणि स्फरित्वा तादृशं मारबलरिद्धिवेगं दर्शयाम् आसुः / सर्वचातुर्द्वीपिकायाम् आकाशं महाकालमेघैर् आपूरयाम् आसुः / महाकालवायुभिश् चोल्कापातैश् च सुमेरुं पर्वतराजानं पाणिभिः पराजघ्नुः / सर्वं चातुर्द्वीपिकां प्रकम्पयाम् आसुः / परमभैरवांश् च शब्दान् समुत्ससर्जुः / यतो नागा महानागाः यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्याः सगिरिशैलपर्वतायाः सुमेरोश् च पर्वतराज्ञः कंपं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणां च संक्षोभं ज्ञात्वा गगनतले तस्थुः / सा च मारपर्षत् सुमेरुमूर्धनि स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मिमीयांगमगधेषु समुत्ससर्ज / महान्तं चासिमुसलपाषाणतोमरभिण्डिपालनाराचक्षुरप्रक्षुरमुखक्षुरकल्पवासिमुखवासिधारकरालचक्रविकरालचक्रदृढखरपरुषरूक्षवर्षं निर्मायोत्ससर्ज //
अथ भगवांश् तस्मिन् समये मारमण्डलविध्वंसनं नाम समाधिं समापदे / यत् सर्वां शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवपुष्पवृष्टिम् अध्यतिष्ठत् / (कुरुमिय 18) तांश् च शब्दान् नानावाद्यान् अध्यतिष्ठत् / यद् उत बुद्धशब्दं धर्मशब्दं संघशब्दं पारमिताशब्दं अभिज्ञाशब्दं अवैवर्तिकशब्दं अभिषेकशब्दं चतुर्मारपराजयशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत् सोपादाननिरुपादानशब्दान् अध्यतिष्ठत् // सर्वा रजोन्धकारवायवः प्रशेमुः / ये केचिद् इह चातुर्द्वीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास् तान् सर्वान् सप्तरत्नमयान् अध्यतिष्ठत् //
अनवलोक्यमूर्ध्नो भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयाम् आस / एकैकस्माच् च लक्षणाद् भगवतस् तादृशी प्रभा निश्चचार यया प्रभया तृसाहस्रमहासाहस्री लोकधातुर् उदारेणावभासेन स्फुटो ऽभूत् / ये चास्यां त्रिसाहस्रमहासाहस्र्यां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डमनुष्यामनुष्या नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवंतम् अद्राक्षुः / बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्पैर् अवकीर्य प्रदक्षिणं चक्रुः स्तुवंतो नमश् चक्रुः / बहूनि च नैरयिकतैर्यग्योनिकयामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे / पूर्वावरोपितकुशलमूलम् अनुस्मृत्य नमो बुद्धायेति कृत्वा तेभ्यो (कुरुमिय 19) ऽपायेभ्यश् चवित्वा देवेषूपपन्नाः //
ततश् च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि सगणपार्षद्यानि भगवत एवंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके ऽतीव प्रसादं प्रतिलब्ध्वा येन भगवांस् तेनोपजग्मुः / उपेत्य सार्धं तैः पंचभिर् मारकन्याशतैर् भगवतः पादौ शिरसाभिवन्द्यांजलीन् प्रगृह्याभिर् गाथाभिर् अधिभाषंते स्म //
विशुद्धमूर्ते परमाभिरूप ज्ञानोदधे कांचनमेरुतुल्य / वितत्य लोकं यशसा विभासि त्वाम् एव नाथं शरणं व्रजामः // rkp_1.34
प्रणष्टमार्गे विनिमीलिताक्षे उल्कायसे त्वं जगतीव सूर्यः / अपराजितप्राणभृद् एकबन्धो त्वां सार्थवाहं शरणं व्रजामः // rkp_1.35 सुसंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त / करुणाशय स्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः // rkp_1.36 संसारकान्तारविमोक्षक्स् त्वं सामग्रितो हेतुफलप्रदर्शकः / मैत्राविहारी परमविधिज्ञ करुणाविहारींश् छरणम् व्रजामः // rkp_1.37 मायामरीचिदगचन्द्रसन्निभे भवे ऽप्रसक्ताविषयाश्रयेण / अज्ञानरुग्नाशक लोकनाथ त्वां वैद्यराजं शरणं व्रजामः // rkp_1.38 त्वं सेतुभूतश् चतुरौघमध्याद् उत्तारकः सप्तधनार्यवृत्तैः / सन्मार्गसन्दर्शक लोकबन्धो कृपान्वितं त्वाम् इह पूजयामः // rkp_1.39 क्षम्यामहे त्वां वयम् अग्रबुद्द्धिम् आसं प्रदुष्टास् त्वयि यद् वयं तु / तम् अत्ययं वीर गृहाण नाथ त्वम् एकबन्धुर् जगति प्रधानः // rkp_1.40 वयं समुत्सृज्य हि मारपक्षम् उत्पादयामो वरबोधिचित्तम् निमंत्रयामः किल सर्वसत्त्वान् (कुरुमिय 21) बोधिं लभेमो वयम् उत्तमातु // rkp_1.41 निदर्शयास्माकम् उदारचर्यां यथा वयं पारमिताश् चरेम / अनन्यवादैः कतिभिस् तु धर्मैः समन्विता बोधिम् अवाप्नुवंति // rkp_1.42 पुष्पाणि यत् ते ऽभिमुखं क्षिपामश् छत्राणि तान्य् एव तु सर्वदिक्षु / तिष्ठंतु मूर्ध्नि द्विपदोत्तमानां क्षेत्रेषु सर्वर्तुसुखाकरेषु // rkp_1.43
अथ खलु ते सर्वे मारपुत्रा मारकन्याः सगणपार्षद्या भगवन्तं मुक्तकुसुमैर् अभ्यवाकिरन् / तानि च मुक्तकुसुमानि भगवत रिद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गंगानदीवालुकाधिकानि पुष्पच्छत्राणि संतिष्ठंते स्म / तानि पुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धाव् उपर्य् अन्तरीक्षे तस्थुः / स्वयं च ता मारकन्याः सगणपार्षद्याः अद्राक्षुः / दशसु दिक्षु सर्वबुद्धक्षेत्रेष्व् असंख्येयेष्व् (कुरुमिय 22) अप्रमेयेषु बुद्धानां भगवतां तिष्ठतां यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपतां विरोचतां सन्निषण्णानां तानि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे मूर्धसन्धौ संस्थितानि / ते च बुद्धा भगवन्तः समवर्णाः समलिंगाः समरूपाः समदर्शनाः / केवलं तेषां बुद्धानां भगवतां सिंहासननानात्वं परिषदानानात्वं बुद्धक्षेत्रगुणव्यूहनानात्वं ददृशुः / ते च तेषां बुद्धानां भगवतां स्वरमण्डलपादव्याहारम् अश्रौषुः / सा च मारपर्षद् भगवतो ऽनुभावेनैवंरूपं प्रातिहार्यं दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर् वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय //
अथ खलु तेषां मारपुत्राणां सगणपार्षद्यानां दशबिंबराणि प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते विस्तरेणावोचन्न् इति / एकरोमकूपम् अपि वयं तस्य श्रवणस्य गौतमस्य न शक्ता विध्वंसयितुम् इति // भूयश् च विंशतिसहस्राणि तम् एव शरणं जग्मुः तस्यैव चाग्रतो निषण्णा धर्मश्रवणाय //
अथ खलु मारः पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मना विप्रतिसार्य् एवम् आह //
लक्ष्मी गता मम पुनर् न परैति तावद् यावत् कृतो ऽस्य न + शाक्यसुतस्य नाशः तूष्णीं स्थिता वयम् अनन्यमनःप्रतर्काः शाक्यात्मजं कथं इम्ऽ; अद्य तु घातयेम // rkp_1.44
अथ मारः पापीमान् दुर्मनस्क एव शोकागारे निषण्णः //
महायानसूत्राद् रत्नकेतुमारजिह्मीकरणपरिवर्तो नाम प्रथमः // //
ii.
अथ ता मारकन्या मारपुत्राश् च सगणपारिषद्या भगवन्तम् एवम् आहुः / अर्थिका वयं भगवन्न् अनेनैवंरूपेण यानेन च ज्ञानेन च रिद्ध्या कृपयोपायेन प्रतिभानेन च आश्चर्यं भगवन् यावद् उपायज्ञानसमन्वागतस् तथागतः / कतमैर् भगवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति / क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते // भगवान् आह / चतुर्भिर् धर्मैः समन्वागतः कुलपुत्रा इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति / क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते /
कतमैश् चतुर्भिः / इह भद्रमुखाः कुलपुत्रः सर्वधर्मान् न परामार्ष्टि / न च क्वचिद् धर्मम् उद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यद् उत दानपारमितायां चरन् न दानफलं रिञ्चति नोद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायाम् अपि चरन् यावन् न कल्पयति न विकल्पयति // पुनर् अपरं भद्रमुखाः स कुलपुत्रो न सत्त्ववादी भवति न जीववादी न पोषवादी (कुरुमिय 25) न पुद्गलवादी न सत्त्वधातुं मनसा परामार्ष्टि यावन् न कल्पयति न विकल्पयति //
पुनर् अपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन् न कल्पयति न विकल्पयति //
पुनर् अपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्यालंबनफलविपाकसमुत्थानाश्रयोत्पादान् न परामार्ष्टि यावन् न कल्पयति न विकल्पयति //
तत् कुतः / सर्वज्ञज्ञानं सर्वचर्याधिष्ठानविषयकल्पविकल्परहितम् अनुपलम्भयोगेन च कर्तव्यं // अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावद् अघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगानुपलंभनादर्शना विविक्ता निरात्मा अलक्षणापगताक्षणव्युपशान्ता अतमानालोकास्थानाविषयानीश्वरापक्षाप्रतिपक्षा अचिन्त्यानाहारामत्सराप्रपञ्चारजाविरजनिरवयवा निष्किंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः सर्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामार्शयोगेनाकल्पाविकल्पयोगेन (कुरुमिय 26) चर्तव्याः // एभिर् भद्रमुखाश् चतुर्भिर् धर्मैः समन्वागतः पुरुषपुद्गलो न पापमित्रहस्तं गच्छति / क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते //
यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रयलक्षणाधिष्ठानव्यवचारेण सर्वज्ञज्ञानं पर्येषते स द्वयसक्तो भवति / द्वयसक्तमनःसंकल्पो विसंवादयति सर्वज्ञताः / तत्र कतमद् द्वयम् / यत् स्कन्धधात्वायतनानि लक्षणव्यवचारेणाधितिष्ठति परामार्ष्टि द्वयम् एतद् विसंवादयति सर्वज्ञताः / चर्याधिष्ठानफलकल्पना द्वयम् एतत् / जातिभवोपादानसत्त्वाधिष्ठानकल्पना द्वयम् एतत् / देशनाप्रकाशनाप्रज्ञापनवाक्पथरुतव्याहाराधिष्ठानकल्पना द्वयम् एतत् / उच्छेदशाश्वतव्यवलोकनज्ञानज्ञेयाधिष्ठानकल्पना द्वयम् एतत् / सत्त्वजीवपोषपुरुषपुद्गलकारककारापकसंज्ञाधिष्ठानकल्पना द्वयम् एतत् / यो ऽपि पारापारोहापोहान् अधितिष्ठति कल्पयति द्वयम् एतत् / यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञानं पर्येषते पुरुषपुद्गलः स त्र्यध्वाहंकारममकारसमुदयनिरोधव्यवचारम् अधितिष्ठति कल्पयति विकल्पयति परामार्ष्टि तस्य द्वयम् एतत् सर्वज्ञज्ञाने // तद्यथा कश्चित् पुरुषः (कुरुमिय 27) अग्न्यर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः पाषाणं पुष्पार्थिकश् चीवरं गन्धार्थिको मनुष्यकुणपं वस्त्रार्थिको ऽश्मानं विलेपनार्थिक आकाशं परामृशेत् / एवम् एव भद्रमुखाः यश् चर्याधिष्ठानसंगव्यवचारसमुच्छ्रयद्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस् तस्य व्यायामः //
अथ खलु तस्याम् एव परिषदि धारणमतिर् नाम बोधिसत्त्वः सन्निपतितो ऽभूत् सन्निषण्णः / स येन भगवांस् तेनांजलिं प्रणाम्यैवम् आह / यद् अनभिलप्यं तच् छक्यम् अभिसंबोद्धुम् //
भगवान् आह / एष एवाभिसंबोधो यद् अनभिलप्यं जानीते / तेन हि कुलपुत्र त्वाम् एव प्रवक्ष्यामि / यथा ते क्षमं तथा व्याकुरु / अस्ति द्रव्यलक्षणभावो यः सर्वज्ञतानाम लभते / आह यद्य् अस्तीति वक्ष्यामि शाश्वतो भविष्यति / अथ नास्तीति वक्ष्याम्य् उच्छेदो भविष्यति / मध्यमा च प्रतिपन् नोपलभ्यते // नासाव् अस्ति नापि नास्तीति / यद् एष्व् असंगानुत्पादाव्ययाप्रमाणासंख्यातमानालोकेषु ज्ञानम् एष एवाभिसंबोधः //
विद्युन्मतिर् बोधिसत्त्व आह / यत्र भगवन् नागतिर् न गतिर् इत्य् एवं ज्ञानावतारकौशलम् एष एवाभिसंबोधः //
वैरोचनो बोधिसत्त्व आह / यत्र भगवन् न प्राप्तिलक्षणं नाप्राप्तिलक्षणं नाभिसमयो न साक्षात्कृया न शमो न प्रशमो न त्र्यध्वं न (कुरुमिय 28) त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः //
धारणमतिर् बोधिसत्त्व आह / यो भगवन् न त्रैधातुकं न त्रीणि संयोजनानि न त्रैविद्यतां न तृयानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीकरोत्य् एष एवाभिसंबोधः //
वज्रमतिर् बोधिसत्त्व आह / यः पृथग्जनधर्मान् आर्यधर्माञ् छैक्षधर्मान् अशैक्षधर्माञ् च श्रावकधर्माञ् च प्रत्येकबुद्धधर्मान् न कल्पयति न विकल्पयति न सामीचीकरोत्य् एष एवाभिसंबोधः //
दृढमतिर् बोधिसत्त्व आह / यो विवेकनयेन तथतां व्यवचारयति एष एवाभिसंबोधः //
रत्नपाणिर् बोधिसत्त्व आह / यो ऽनुत्पादलक्षनं सर्वधर्माणां च प्राप्तये चाभिसमयाय न कल्पयत्य् एष एवाभिसंबोधः //
अचिन्त्यमतिर् बोधिसत्त्व आह / यस् त्रैधातुकव्यवचारः चित्तम् एव चित्ते प्रवेशयत्य् उभे चित्ते चित्तेन व्यवचार्य नोपलभते एष एवाभिसंबोधः //
अरिविजयो बोधिसत्त्व आह / यः सर्वधर्मेषु न सज्यते नानुनीयते (कुरुमिय 29) नोपेक्षते न प्रतिहन्यते न स्पृहयते न मुह्यते न गृह्णाति न मुच्यत्य् एष एवाभिसंबोधः //
पद्मगर्भो बोधिसत्त्व आह / यः पुण्यपापयोर् न सज्जते गंभीरक्षांतिनयावतारेणाहंकारममकारान् न कल्पयत्य् एष एवाभिसंबोधः //
चन्द्रप्रभः कुमारभूत आह / यो दगचन्द्रसमान् सर्वधर्मान् न प्रजानीते न च धर्माणां स्वभावम् आचयं चापचयं वा पश्यत्य् एष एवाभिसंबोधः //
खगमतिः कुमारभूत आह / यस्य सर्वतमालोकोत्पादव्ययोत्कर्षापचयश् चित्तचैतसिकेषु न प्रवर्तंत एष एवाभिसंबोधः // मैत्रेयो बोधिसत्त्व आह / ..... एष एवाभिसंबोधः // अक्षयमतिर् बोधिसत्त्व आह / यस् त्रिमण्डलपरिशुद्ध्या पारमितास्व् अभ्यासं करोत्य् अनुपलंभयोगेन न रज्यते न विरज्यत एष एवाभिसंबोधः //
मंजुश्रीः कुमारभूत आह / यो भगवन् सर्वधर्मेषु न रज्यते न विरज्यते गंभीरधर्मनयं च प्रजानाति / यच् च प्रजानाति तन् नायूहति न निर्यूहति नाकर्षति न विकर्षति न च कस्यचिद् धर्मस्योपचयं (कुरुमिय 30) वापचयं वा विद्यां वा विमुक्तिं वोत्पादयति व्ययं वा हानिं वा वृद्धिं वा वस्तुषु न संक्लिष्यते ऽविकल्पनतः एष एवाभिसंबोधः //
अनेनैकनयेन सर्वज्ञज्ञानाभिसंबोधः //
अथ कौतूहलिको बोधिसत्त्व आह / किं मंजुश्रीर् आयोगप्रयोगेन प्रयोजनं यद् अनेनैकनयतथथाप्रवेशेनैवं गंभीरशून्यताभावनानयेन सर्वज्ञञानपरिज्ञानं //
मंजुश्रीर् आह / विषमदृष्टिरहितः सम्यग्दृष्ट्यसमारोपः / अशाठ्यरिजुकतासमारोपः / पापरहितो गुरुगौरवासमारोपः / सुवचनासमारोपः / सम्यगाजीवासमारोपः / सर्वसंयोजनरहितासमारोपः / समाक्रोशसर्वसत्त्वकृपासमारोपः / तृसंवरासमारोपः / अविसंवादनकुशलधर्मासमारोपः / अव्युपशान्तासमारोपः / सद्धर्मारक्षासमारोपः / सर्वसत्त्वापरित्यागासमारोपः / सर्ववस्तुपरित्यागासमारोपः / दुर्बलसत्त्वबलप्रतिष्ठापनासमारोपः / भीतशरणाभयासमारोपः / कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनासमारोपः / क्षान्तिसौरत्यासमारोपः / सर्वग्राहसंगलक्षणासमारोपः / सर्वरजस्तमस्कन्धवर्जनासमारोपः / (कुरुमिय 31) सर्वपरिणामनाफलविपाकवर्जनासमारोपः / इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य / सर्वाक्षररुतघोषवाग्व्याहारपदप्रभेदतथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगाः / सर्वतथागतवचनान्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यप्रज्ञापारमिताप्रयोगततथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वतृविमोक्षाश्रयहेतुकर्मधर्मतथताप्रवेशेन च ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति //
कौतूहलिको बोधिसत्त्व आह / एवम् एतन् मंजुश्रीर् यदा इमं गंभीरं धर्मनयम् अवबुध्यते तदा न कंचिद् धर्मं समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यैर् वार्थपदव्यंजनैर् देश्येत प्रकाश्येत / यं वा पुनः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् / सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति यः सर्वज्ञज्ञानम् अवबुध्यते //
भगवान् आह / साधु साधु कुलपुत्र सुभाषितस् ते ऽयम् एकनयेन सर्वज्ञज्ञानप्रतिलाभः / तत् कुतः सर्वधर्मा ह्य् असमारोपाः अनुत्पादाविनाशकोटीकाः / अविद्यानिर्वाणानुत्पादभूतकोटीका आकाशनिर्वाणकोटीकाः / अनभिलाप्यकोटीकाः सर्वधर्माः / एवं सर्वसत्त्वाः / (कुरुमिय 32) सर्वधर्मनिद्रव्यकोटीकाः सर्वसंगवस्तुतः परिकीर्तिताः / सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्किंचनकोटीकाः / तृसंस्कारशून्यताकोटीकाः / धर्मस्कन्धविपाकस्कन्धापचयोपचयस्कन्धनिद्रव्यकोटीकाः / शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वज्ञज्ञानम् अवतरति //
अस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर् मारकन्यामारपुत्रगणपार्षद्यसहस्रैर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलाब्धा / औदारिकं च कायं विजह्य मनमयं कायं प्रतिलेभिरे / अपरेषाम् अप्य् अष्टाविंशतीनाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् / द्विनवतीनां च देवमनुष्यबिंबराणां विचित्रविचित्राणां च बोधिसत्त्वक्षान्तिसमाधिधारणीनां प्रतिलाभो ऽभूत् //
अथ तानि विंशतिसहस्राण्य् अनुत्पत्तिकधर्मक्षांतिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानां भगवन्तं दिव्यैः पुष्पैर् अभ्यवकिरंत्य् अभिप्रकिरंति स्म / भगवतश् च पादौ शिरोभिर् अभिवन्द्यैवम् आहुः / पश्य भगवन्न् अकल्याणमित्रसंसर्गवशेन सत्त्वानां सर्वपुण्योपचयकुशलमूलान्य् (कुरुमिय 33) अमनसिकाराणि भवन्ति / भगवान् आह / कर्मप्रत्यय एष द्रष्टव्यः / कौतूहलप्राप्तानां च सत्त्वानां भगवान् संशयछित्त्यर्थम् इमं पूर्वयोगम् उदाजहार // //
भूतपूर्वं कुलपुत्रातिते ऽध्वन्य् अपरिमाणेषु महाकल्पेष्व् अतिक्रान्तेष्व् अस्याम् एव चातुर्द्वीपिकायां लोकधातौ यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टाषष्टिवर्षसहस्रायुष्कायां प्रजायां तेन च कालेन तेन समयेन ज्योतिःसोम्यगन्धावभासश्रीर् नाम तथागतो ऽभूत् विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् / क्लिष्टे पंचकषाये लोके वर्तमाने चतसृणां पर्षदां त्रियानप्रतिसंयुक्तं धर्मं देशयति स्म /
तेन खलु पुनः समयेन राजाभूद् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरः चक्रवर्ती / अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानापुष्पैर् अभ्यवकिरट् / नानावाद्यैर् नानागन्धैर् नानाधूपैश् च पूजां कृत्वा त्रिप्रदक्षिणीकृत्वा भगवतः भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावित् // //
भुजगामरादिभिर् अतीव गुणैः समभिष्टुतः प्रचुरदोषहरः / धनसप्तकेन हितकृज् जगतो वद केन सूक्ष्ममतिमान् भवति // rkp_2.1 जगतस् तमोघ्न शमदीपकर च्युतिजन्मरुङ्मरणशोकदम / जगतस् त्व् अपायपथवारयिता वद केन मुच्यत्ऽ; इह मारपथा // rkp_2.2
अथ खलु कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतो राजानम् उत्पलवक्त्रम् एतद् अवोचत् // तृभिः सत्पुरुष धर्मैः समन्वागतो बोधिसत्त्वः सूक्ष्ममतिर् भवति / कतमैस् त्रिभिः / अध्याशयेन सर्वसत्त्वेषु करुणायते / सर्वसत्त्वानां दुःखप्रशमायोद्युक्तो भवति मातृवत् / सर्वधर्मान् निर्जीवनिष्पोषनिष्पुद्गलान् अनानाकरणसमान् व्युपपरीक्षते / एभिस् त्रिभिर् धर्मैः समन्वागतः सत्पुरुष बोधिसत्त्वः सूक्ष्ममतिर् भवति / अपरैस् त्रिभिर् महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु स सज्जते / कतमैस् त्रिभिर् यद् उत सर्वसत्त्वेषु (कुरुमिय 36) अक्रोधनो भवति / अनवतारप्रेक्षी / सर्वसत्त्वसमदक्षिणीयसंज्ञो भवति / सर्वधर्मान् एकनयेन व्युपपरीक्षते / यदुताकाशसमान् सर्वधर्मान् निष्प्रतिकारानानात्वान् अजातानुत्पन्नान् अनिरुद्धान् / सर्वान् आकाशवद् द्रव्यलक्षणविगतान् अनुपलंभयोगेन प्रत्यवेक्षते / एभिर् महाराज त्रिभिर् धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु न सज्यते मारपथाच् च निर्मुच्यते //
अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुराशीतिभिः स्त्रिसहस्रैः परिवृता पुरस्कृता येन ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तेनोपजगामोपेत्य तं भगवंतं ज्योतिःसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैर् अभ्यवकीर्याभिर् गाथाभिर् अध्यभाषत //
असदृशगुणधर वितिमिरकरण च्युतिहर वद कथम् इहा युवति / भवत्ऽ; इह पुरुषो व्यपगतकुगति लघु विनय मनः प्रवरहितकर // rkp_2.3
परमगतिगत सुगत प्रशमरतिकर भगवन् त्यजति युवति तां कथम् इह पुरुष / वद लघु सुविनय परहितकर शामय मतितिमिरं मम गगनात् // rkp_2.4 असमसम जगति श्रमण परम प्रथितगुणगणस्मृतिविनयधर / मम यदि पुन्ऽ; इह भवति हि नरता लघु वद वितिमिर सुगतिपथम् अमृतं // rkp_2.5
एवम् उक्ते कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तां सुरसुन्दरीम् अग्रमहिषीम् एतद् अवोचत् //
अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्व् एव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्व् अशेषं क्षीयते न च भूयो मातृग्रामेषूपपत्तिं प्रतिगृह्णाति यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र स्वप्रणिधानात् / तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्व् अशेषं क्षपयति / इह भगिनीयं रत्नकेतुर् नाम धारणी महार्थिका महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाक्चित्तदुःखविपाकदौष्ठुल्यं निरवशेषं क्षपयति / अस्याश् च रत्नकेतुधारण्याः सहश्रवणेन मातृग्रामस्य मातृग्रामभवो निरवशेषो गच्छति / स्त्रीन्द्रियं अन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति / पुरुषश् चापि रूपवान् सर्वांगपरिपूर्णो (कुरुमिय 38) भवति / ऋजुः सूक्ष्मज्ञानकुशलो भवति / कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशत्रुनिर्जेता भवति / यश् चास्य दृष्टधर्मसांपरायिकः कायवाङ्मनोदुःखप्रतिसंवेदनीयो दुष्कृतानां कर्मणां फलविपाकः स परिक्षयं गच्छति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकम् आर्यापवादकं च / तेषां पुनस् तेनैवात्मभावेन परिक्षयं गछति / परिशेषः स्त्रीभावः कायवाङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावबीजनिर्वर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरणबीजनिष्यन्दो निरवशेषः परिक्षयं गच्छति / तत् कुतः / यथा नामेयं रत्नकेतुधारणी सर्वैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषिता चाधिष्ठितान्योन्यम् अनुमोदिता स्तुताभिष्टुता वर्णिता प्रशस्ता सत्त्वानाम् दुःखविपाककर्मपरिक्षयाय (कुरुमिय 39)
कुशलमूलविवृद्धितायै / ये ऽपि केचिद् एतर्हि दशसु दिक्षु प्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु सर्वे ते बुद्धा भगवंतः इमां रत्नकेतुधारणीं भाषंते यावत् प्रशंसन्ति सत्त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये / ये ऽपि ते भविष्यंत्य् अनागते ऽध्वनि दशसु दिक्ष्व् अन्योन्येषु तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमां रत्नकेतुधारणीं भाषिष्यंति यावत् प्रशंसिष्यंति सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये / अहम् अप्य् एतर्हि रत्नकेतुधारणीं भाषिष्यामि / अनुमोदित्य च दशसु दिक्षु प्रत्युत्पन्नानां तथागतानां भाषमाणानाम् अहम् इमां रत्नकेतुधारणीं वर्णयिष्यामि प्रशंसिष्यामि / यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्त इमां रत्नकेतुधारणीं पुस्तके लिखित्वा धारयिष्यति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षूदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति यावद् सर्वं रूपधातुम् उदारैः कीर्तिशब्दैर् आपूरयिष्यति / अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य राज्ञः क्षत्रियस्य पृष्ठतः समनुबद्धा राक्षानुगुप्तये स्थास्यंति / सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः (कुरुमिय 40) प्रशमं यास्यंति / सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनवराधिनो भविष्यंति / सर्वे विषतिक्तकटुकरूक्षविरसपरुषदुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यंति / सर्वाणि चास्य धनधान्यौषधिवनस्पत्यः फलपुष्पाणि प्ररोहिष्यन्ति विवर्धिष्यंति स्निग्धानि सुरसानि च भविष्यंति / सचेद् राजा क्षत्रियो मूर्धाभिषिक्तः
संग्रामे प्रत्युपस्थिते इमं रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति / सचेद् उभयो राज्ञोः क्षत्रिययोर् मूर्धाभिषिक्तयोः संग्रामाभिरूढयोर् अयं रत्नकेतुधारणीपुस्तको ध्वजाग्रावरोपितो भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्यतः / इत्य् एवं बहुगुणानुशंसेयं रत्नकेतुधारणी / यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां चतुष्पदानां व्याधिता-म्-अकालमरणं विहेठा वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः / प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः / सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यंति / सर्वाणि (कुरुमिय 41) च तत्र भयरोमहर्षदुर्निमित्तान्य् अंतर्धास्यंति / यः कश्चिन् मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवरं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैर् इमं पुस्तकम् अर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या / पुत्रप्रतिलाभी भविष्यति / एष एव पश्चिमो मातृग्रामभावो यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र स्वप्रणिधानात् सत्त्वपरिपाचनहेतोः
@folio 20 is missing; text according to dutt:@@ tasmin kāle tathāgato jyotiprabhaśrīr imāṃ ratnaketudhāraṇim udāharat / jaloke jaloke / moke jali / jala jalimi / jalavrate jahile / varapuruṣalakṣaṇasamāruhya / amame vamame vamame / navame mahāse / jahame jahame jahame jahame / varame varame / vavave / vavave / vahave / vaṃgave / vajave / vāra vāraśe / jalamekha / parakha / alajahili / jana tule / jana tubhukhe / vahara vahara / siṃha vrate / nana tilā / nana tina dālā / sūryavihaga / candravihaga / cakṣu rajyati śavihaga / sarvakṣayastritvasuravihaga / jakhaga jakhaga / surakhagha / vahama / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha / amrikha amrikha / mrikha mrikha mrikha / vyavadeta karma / dune dune / upata vyavaccheda jñānakṛta / anuda padākhaga / neruka / aṅgule bhaṅgule vibhaṅgule / kulaha / indraparivibhaha / vyavaccheda karabha / vavrati / vavrati / ca prati / ca prati / amoha daraśane / parivarta bhaṣyu / khasama / krimajyotikhaga / jahi jahi jyoti / niṣka bhirasa / bhirasa / bhiraja / matikrama / bhivakriva / mahākriva / hile hihile / aruṇavarte / samayaniṣke / damadānadhyāna aparāmṛśe / phalakuṇḍalalakhe (kurumiya 42) nivarta istribhāva karmakṣaya prādurbhava puruṣatvam / asamasama / samaya vidijña tathāgata svāhā //
समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनर् अपि महापृथिवी चकंपे / तासाम् अपि पञ्चशतमारकन्यानां सहश्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यंजनम् अन्तर्धाय पुरुषव्यंजनं प्रादुरभवत् / अप्रमेयासंख्येयानां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुंभाण्डकन्यानां सहश्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यञ्जनान्य् अंतर्धाय पुरुषव्यञ्जनानि प्रादुर्भूतानि / ताश् च सर्वा अवैवर्त्या अभूवन्न् अनुत्तरायां सम्यक्संबोधौ / सर्वासां चानागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं निरोधं च / ताः स्त्रियः प्राञ्जलियो वन्दित्वा तं शाक्यमुनिं तथागतम् एवं मघाघोषैर् आहुः // नमो नमः आश्चर्यकारकाय (कुरुमिय 43) शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय // ब्रूहि महाकारुणिक विस्तरेणेमं पूर्वयोगं कथम् अस्माकं स्त्रीभावम् अन्तर्हितं सर्वाकारपरिपूर्णं च पुरुषभावं संप्राप्तम् / तेनाश्चर्यप्रातिहार्यसंवेगेन वयम् अनुत्तरायां सम्यक्संबोधौ चित्तं जनयम / ब्रूहि भगवन्न् इमं पूर्वयोगम् / तत्साक्षिणो भविष्यत्य् अप्रमेयस्य देवमनुष्यस्य //
अथ खलु भगवां छाक्यमुनिस् तथागत इमं पूर्वयोगं देशयति / भद्रमुखाः ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या सुरसुन्दर्या देव्या सार्धं चतुराशीतिभिः स्त्रीसहस्रैर् इयं रत्नकेतुधारणी श्रुता सहश्रवणाच् च तस्याः सुरसुन्दर्या (कुरुमिय 44) अग्रमहिष्याः तेषां चतुराशीतीनां स्त्रीसहस्राणां स्त्रीव्यंजननान्य् अन्तर्धाय पुरुषव्यञ्जनानि प्रादुरभवन् / तदैवम् अप्रमेयासंख्येयानां देवकन्यानां यावन् मनुष्यामनुष्यकन्यानां सहश्रवणाद् एवास्या रत्नकेतुधारण्याः स्त्रीन्द्रियम् अन्तर्हितं पुरुषेन्द्रियं प्रादुर्भूतं / सर्वासां तासां स्त्रीणाम् अनागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं संनिरोधम् //
यदा च राज्ञः उत्पलवक्त्रस्याग्रमहिष्याः सुरसुन्दर्याः सान्तःपुरपरिवारायाः पुरुषत्वन् संवृत्तं तदा स राजा उत्पलवक्त्रश् चतुर्द्वीपेश्वरश् चक्रवर्ती ज्येष्ठकुमारं राजाभिषेकेनाभिषिंच्य सार्धम् एकोनेन पुत्रसहस्रेण महापुरुषेण च सुरसुन्दरेण सार्धं च चतुराशीतिभिः सुरसुन्दरो महापुरुषसहस्रैः सार्धं चापरैर् द्विनवतिभिः प्राणसहस्रैर् अभिनिष्क्रम्य तस्य ज्योतिःसोम्यगन्धावभासश्रियस् (कुरुमिय 45) तथागतस्यान्तिके केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राणि परिधाय सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः / प्रव्रजित्वा स्वाध्यायाभिरतो योनिशमनसिकाराभियुक्तो ऽभूत् //
अथ तत्र बहूनां प्राणकोटीनाम् एतद् अभवत् / कस्माद् राजा चक्रवर्ती प्रव्रजितः / ते परस्परा एवम् आहुः / मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम् इमं धर्मन् देशयति / केषांचित् स्त्रीव्यंजनम् अपनाययति / केषांचित् पुरुषव्यंजनं / केषांचित् केशश्मश्रूण्य् अवतारयति / केषांचिद् रक्तानि वासांसि प्रयच्छति केषांचित् पाण्डराणि / केषांचिद् देवोपपत्तये धर्मन् देशयति / केषांचिन् मनुष्योपपत्तये केषांचित् तिर्यग्योन्युपपत्तये केषांचिद् अच्युत्युपपत्तये धर्मन् देशयति / मारकर्मपथाभियुक्तः स्त्रीकरणमायया समन्वागतः स श्रवणो ज्योतिःसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः / यन् नून वयम् इतः प्रक्रमेम / न चास्य रूपलिंगग्रहणं पश्येम / न चास्य किंचिद् वचनं शृणुयाम //
अथ तत्रैव कुमारभृतो नाम भटः / स एवम् आह / या मम भार्यान्तःपुरिका दुहितरश् चाभूवन् सर्वासाम् अनेन श्रमणकोरण्डकेन (कुरुमिय 46) स्त्रीव्यंजनान्य् अपनीय पुरुषेन्द्रियाण्य् अभिनिर्मितानि / सर्वासां शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांस्य् अनुप्रदत्तानि / अहं चैकाकी शोकार्तो मुक्तः / एते सर्वे वयं समग्रा भूत्वा विषमं महागहनपर्वतं प्रविशामः / यत्र वयम् अस्य मारपाशाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषम् अपि न शृणुयामः प्राग् एव पश्याम इति / ते सर्वे तुष्टा एवम् आहुः / एवम् अस्त्व् इति //
अथ कुमारभृतो भटः तैर् विचिकित्साप्राप्तैर् बहुभिः प्राणकोटीभिः सार्धं ततः प्राक्रामत् प्रत्यन्तिमे जनपदे विषमपर्वतगहनेषु रिषिवेषेण चर्यां चचार / तेभ्यश् च सत्त्वेभ्य एवं धर्मन् देशयाम् आस / नास्ति संसारान् मोक्षो नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः / उच्छेदवाद्य् अद्य श्रमण उत्पन्नो मारकर्माभियुक्तो विसंवादकः / ये च तं दर्शनायोपसंक्रमंति ये च तम् अभिवादयंति ये चास्य धर्मं शृण्वंति ते विक्षिप्तचित्ता भवन्ति / शिरांसि चैषां मुण्डयति / गृहान् निर्वापयति / रक्तानि वासांसि प्रयच्छति / श्मशानचर्यां चारयति / भैक्षचर्यासु निवेशयति / एकाहारिणः करोति / विषमदृष्टिमनसो नित्योद्विग्नान् विवेकवासाभिरताल् लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषणमैथुनधर्मसुरामद्यपानरहितान् (कुरुमिय 47) अल्पभाष्याङ् करोति / एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः सत्त्वानां शत्रुभूत उत्पन्नः / अदृष्टाश्रुतपूर्वम् एतस्य श्रमणगौतमस्य क्रिया मयोपलक्षितेति तेन बहूनि प्राणकोटीनयुतशतसहस्राण्य् एवंरूपाम् इमां पापिकां दृष्टिं ग्राहितान्य् अभूवन् //
यावापरेण समयेनोत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परान् अप्य् एताण् विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानाम् अवर्णं चारयन्तीति श्रुत्वा चास्यैतद् अभवत् / यद्य् अहं तावत् सत्त्वांस् ततः पापकाद् दृष्टिगतान् न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापयेयं निरर्थकं मे श्रामण्यं भवेत् / कथं चाहम् अनागते ऽध्वन्य् अन्धभूते लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं कथं च व्यसनगतांश् चतुर्मारपाशबन्धनबद्धान् सत्त्वाञ् छक्ष्यामि परिमोचयितुम् इति //
अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस् तं ज्योतिःसोम्यगन्धावभासश्रियं तथागतम् अवलोक्यानेकप्राणशतसहस्रपरिवृतः पुरस्कृतः तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरंस् तत्र तत्र तेभ्यः सत्त्वेभ्यो धर्मन् देशयाम् आस / तान् सत्त्वान् पापकाद् दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस / कांश्चिद् अपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चिच् छ्रावकयाने कांश्चित् फले प्रतिष्ठापयाम् आस / कांश्चित् प्रव्रजयाम् आस / कांश्चिद् उपासकसंवरे कांश्चिद् उपवासे कांश्चित् तृशरणगमने प्रतिष्ठापयाम् आस / स्त्रीभ्यश् (कुरुमिय 48) चेमां रत्नकेतुधारणीन् देशयाम् आस / स्त्रीभावान् निवर्तयित्वा प्रतिष्ठापयाम् आस पुरुषत्वे / याश् च ता बह्वः प्राणकोट्यस् तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस् तान् सर्वांस् ततः पापकाद् दृष्टिगतान् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस / तस्यैव च ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकम् उपनीय प्रव्राजयाम् आस स्थाप्य कुमारभृतं भटं / तेन चैवं प्रणिधानं कृतम् अभूत् / यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षद् विलोप्य नीता तथाहम् अप्य् अस्यानुत्तरां सम्यक्संबोधिम् अभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेयं यद् उत गर्भस्थानात् प्रभृत्य् एनं विहेठयेयं / ततः पश्चाज् जातमात्रं कुमारक्रीडापनं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डनिषण्णं संत्रासयेयं विघ्नानि च कुर्यां बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् //
अथ स उत्पलवक्त्रो महाश्रमणस् तं कुमारभृतं भटम् एवं प्रणिधिकृतव्यवसायं महता कृच्छ्रोद्योगपराक्रमैः प्रसादयित्वा (कुरुमिय 49) ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म //
अथ कुमारभृतो भटो विनीतप्रसाद इदं प्रणिधानं चकार / यदा त्वं महाकारुणिकानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेत् तदा बोधिप्राप्तो मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ //
स्यात् खलु पुनर् भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्यः स तेन कालेन तेन समयेनासीद् उत्पलवक्त्रो नाम येन तस्य ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थानं कृतम् अनेकैश् च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशतसहस्राणि ततः पापकाद् दृष्टिगतान् निवारयित्वा तृषु यानेषु निवेशितान्य् अप्रमेयाः सत्त्वाः फलेषु प्रतिष्ठापिता अप्रमाणाश् च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभः कृत इति / न खलु युष्माभिर् एवं द्रष्टव्यम् / अहं स तेन कालेन तेन समयेन राजाभूच् चतुर्द्वीपेश्वरश् चक्रवर्ती उत्पलवक्त्रो नाम / मया स एवंरूपः पुरुषाधिकारः कृतः / स्यात् खलु पुनर् युष्माकं भद्रमुखाः कांक्षा वा विमतिर् वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्रामण्यम् अवाप्तम् / मैत्रेयः स बोधिसत्त्वो महासत्त्वस् तेन कालेन तेन समयेनाभूत् / स्यात् खलु भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्यः स तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् सार्धं प्राणकोटीभिः / (कुरुमिय 50) न खलु पुनर् युष्माभिर् एवं द्रष्टव्यम् / अयं स मारः पापीमांस् तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् / यन् मया तत्कालम् तस्य परिषद् प्रव्रजिता तेन मयि प्रदोषम् उत्पाद्यैवं प्रणिधानं कृतम् / यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यात् तदा त्वं मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ //
तस्यैव यूयं कुलपुत्रा ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिके ऽप्रसादं कृत्वा असंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूयं ततः पापदृष्टिगतात् परिमोच्य प्रव्रजिताः / ततो ऽर्वाग् युष्माभिर् बहूनि बुद्धसहस्राणि पर्युपासितानि / तेषां च पूजोपस्थानं कृतं / तेभ्यश् च धर्मं श्रुत्वा प्रणिधानं कृतं षट्सु पारमितासु चरितं इति // तेन यूयं कायवाङ्मनोदुश्चरितेन कर्मणा पूर्वं तृष्व् अपायेष्व् अनेके कल्पाः दुःखान्य् अनुभूतवन्तः / तेनैव कर्मावरणेनैतर्हि मारस्य पापीमतो भवने उपपन्ना इति // अस्मिं खलु पुना रत्नकेतुधारणीपूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पंचानां मारकन्याशतानां स्त्रीभावम् अन्तर्धाय पुरुषभावः संवृत्तो ऽनुत्पत्तिकधर्मक्षान्तिप्रतिलंभाश् चाभूवन् / अप्रमाणानाम् असंख्येयानां सत्त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः (कुरुमिय 51) प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नान्य् अवैवर्त्याश् चाभूवन्न् अनुत्तरायां सम्यक्संबोधौ / एवम् अप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने ऽवैवर्त्य अभूवन् / अप्रमेयासंख्येयानां देवमानुष्यकन्यानां मातृग्रामभावो विनिवृत्तः पुरुषभावाश्रयप्रतिलाभश् चाभूत् // //
रत्नकेतुपरिवर्ताद् द्वितीयः पूर्वयोगपरिवर्तः समाप्तः // //
iii.
अथ खल्व् अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनैतर्हि सर्वावतीयं सहालोकधातुर् उदारेणावभासेन स्फुटाभूत् / यच् चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयंति / ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयंति स्म / कुतो ऽयम् अवभास उत्पन्नः / नूनं पापीमान् नाम मारो यस् तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः सो ऽस्मत्तो बलवत्तर ईश्वरतरो महौजस्कतरश् च / अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं शोकागारे निषण्णं परमदुर्मनस्थं //
अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगामोपेत्य मारं पापीमन्तम् एवम् आह / किं भो कामेश्वर सर्वावतीयं लोकधातुर् अवभासिता त्वं च शोकागारं प्रविश्य निषण्णः //
अथ कामेश्वरो मारस् तेषां मारकोटीशतानां विस्तरेणारोचयति स्म / यत् खलु मार्षा जानीयुर् इह भो श्रमण उत्पन्नः शाक्यवंशात् परमशठः मायावी / तेनोत्पन्नमात्रेण सर्वावतीयं सहालोकधातुर् अवभासिता प्रकंपिता क्षोभिता / ये केचिद् इह कृत्स्नलोकधातुविद्वांसो ब्रह्मेन्द्रा वा नागेन्द्र वा यक्षेन्द्रा वासुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा किन्नरेन्द्रा वा यावद् अन्ये ऽपि केचिन् मनुष्यामनुष्या विद्वांसस् ते सर्वे तम् उपागताः पूजाकर्मणे यावत् षड्वर्षाण्य् एकाक्यद्वितीया निषद्यालक्षणां मायं साधितवान् / अहं च स्वबलसंदर्शनं चिकीर्षुर् एवं षट्त्रिंशत्कोटीसैन्यपरिवार उपसंक्रम्य समंततो ऽनुपरिवार्य सर्वमारबलविकुर्वणर्द्धिवीर्यपराक्रमं संदर्शितवान् एकरोमकूपम् अप्य् अहम् अशक्तो ऽस्य संत्रासयितुं वा भीषयितुं वा किम् अंग पुनस् तस्माद् आसनात् कंपयितुं किं वा पुनर् अन्यं विघातं कर्तुम् इत्य् अथ चेत् तेन वृषलेन तादृशी माया प्रदर्शिता पृथिवीकंपश् च कृतः / यत् ससैन्यो ऽहं पराजितः छिन्नवृक्ष इव धरणीतले निपतितः / तेन च तत्रैव (कुरुमिय 54) निषण्णेन तादृशी अलक्षणा माया साधिता यत् सर्वमारविषयम् अभिभूय साधितविद्यस् तस्माद् उत्थाय सत्त्वेभ्यः संप्रकाशयाम् आस / ये च केचिद् इह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञाः सत्त्वास् तथा माययावर्जिता यथा चित्तम् अप्य् अहं तेषां न प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु / ये च तच्छरणगतास् तेषाम् एकरोमकूपम् अपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं वा किम् अंग पुनस् तस्माद् विसंवादयितुं वा कंपयितुं वा शक्नुयाम् / अद्यैव च मे पंच परिचारिकाशतानि विंशतिश् च पुत्रसहस्राणि सगणपार्षद्यानि वृषलं गौतमं तं श्रमणं शरणं गतास् तस्य पुरतो निषण्णाः / न चाहं भूयस् तानि शक्तस् तस्माद् विवेचयितुं / तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः सुहृदो भवत / तं शाक्यपुत्रं वृषलं जीविताद् व्यवरोपयिष्यामः / ये च सत्त्वास् तच्छरणगतास् तां सर्वां विध्वंसयिष्यामः / (कुरुमिय 55) कृष्णं मायाशठं श्रमणपक्षं पराजेष्यामः / शुक्लं मारपक्षम् उद्द्योतयिष्यामः / ततः पश्चात् सुखं फाषं विहरिष्यामः //
अथ ज्योतिष्प्रभो मारः इमं जंबुद्वीपं व्यवलोकयाम् आस यत्र तथागतो निषण्णो धर्मं देशयति / अथ ज्योतिष्प्रभो मारो भगवतः कायम् अद्राक्षीत् / स्वरघोषयुक्तां धर्मदेशनाम् अश्रौषीत् / अथ तावद् एव तस्य रोमहर्षणः संत्रास उत्पन्नः / अथ स मारं पापीमन्तम् एवम् आह //
कृत्स्ने क्षेत्रे ह्य् एष विशिष्टो वररूपः पुण्यज्ञानैर् आश्रयशुद्धश् चिरकालं / क्लेशान् मुक्तो मार्गसुयुक्तश् चिररात्रं क्षीणाः सर्वे तस्य भवा शोकविमुक्तः // rkp_3.1 मा त्वं भूयः क्रोधवशं गच्छ न युक्तम् अग्रो ह्य् एष श्रेष्ठ शरण्यस् त्रिभवेस्मिं / यस्यास्मि विद्वेषलवो ऽपि प्रतिभाति व्यामूढो ऽसौ सौख्यविनष्टो भवतीह // rkp_3.2
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तम् एवम् आह /
महर्द्धिको ऽसौ वरपुण्यलक्षणो ह्य् अनाशृतः सर्वगतिप्रमुक्तः / अशेषदुःखक्षयमार्गदेशको विहिंसितुं मारशतैर् न शक्यम् // rkp_3.3
पापीमान् आह /
वशं मदीया जनता कृता हि युष्मज्जनस् तस्य वशानुगो ऽयं / न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुनर् भविष्यति // rkp_3.4
अथ नवरजो नाम मारः स मारं पापीमन्तम् एवम् आह /
यदा तवासीत् परमा समृद्धिस् तदा त्वया दर्शितम् आत्मशौर्यं / बलप्रनष्टो ऽस्य् अधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य // rkp_3.5
खड्गसोमो मारः प्राह /
क्वचिन् न तस्यास्ति मनःप्रदोषं भावेन शुद्धो हि निराश्रयो ऽसौ / त्रैधातुकान् मुक्तगतिप्रचारो नासौ परैर् घातयितुं हि शक्यम् // rkp_3.6
पापीमान् आह /
ये सन्तिसत्त्वा इह कामधातौ कामप्रसक्ता मदमानमूर्च्छिताः / सदानुवृत्ता मम किंकरास् ते कथं न शक्यं हनितुं समग्रैः // rkp_3.7
क्षितितोयो नाम मारः स एवम् आह /
मायामरीचिप्रतिमान् असारान् भावान् परिज्ञाय विनीततृष्णः / भवेष्व् असक्तो गगनस्वभावः शक्यं विघातः कथम् अस्य कर्तुम् // rkp_3.8
पापीमान् आह /
इहैव तस्यास्ति वशो त्रिलोके मृष्टान्नपानासनवस्त्रसेवितः / तृवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं स कथं न शक्यम् // rkp_3.9
तृष्णाजहो नाम मारः स एवम् आह /
या ऋद्धिर् अस्मद्विषये ऽस्ति काचित् पापीमतां चैव महोरगाणां / सिद्धार्थ-ऋद्धेर् न कलां स्पृशंति क्षयं प्रणेतुं स कथं हि शक्यम् // rkp_3.10
पापीमान् आह /
भक्तच्छेदो मयास्मै हि कारितस् तच्छिला पुनः / क्षिप्ता दत्तास् तथाक्रोशा आश्रमात् कंपितो ऽपि न // rkp_3.11
बोधाक्षो नाम मारः स एवम् आह /
यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन / संदर्शितस् ते भृकुटी मुखे वा किं तस्य साक्षाद् अवचः श्रुतं ते // rkp_3.12
पापीयान् आह /
प्रतिसंख्यया सो क्षमते च नित्यं प्रहीणरागो गतदोषमोहः / सर्वेषु सत्त्वेषु स मैत्रचित्तः संसर्गचर्या पुनर् अस्य नित्यम् // rkp_3.13
दुर्धर्षो नाम मारः स एवम् आह /
ये च त्रिसंयोजनपाशबद्धास् तेषां विघाताय वयं यतेम / स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं स कथं हि शक्यम् // rkp_3.14
पापीमान् आह /
यूयं मम प्राप्तबलाः सहायाः सद्यो भवन्तो भवथाप्रमत्ताः / अपो ऽधितिष्ठामि महीम् अशेषां सर्वा दिशः पर्वतमालिनी च // rkp_3.15 गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्य् आयसचूर्णराशिम् / नाराचशक्तिक्षुरतोमरांश् च क्षिपामि काये ऽस्य विचूर्णनार्थं // rkp_3.16 एभिः प्रयोगैर् अभिघातदीप्तैस् तं शाक्यसिंहं प्रकरोमि भस्म // rkp_3.17
पेयालम् / यावन् मारकोटीभिर् गाथाकोटी भाषिता इति /
अथ सर्वे मारा एककण्ठेनैवम् आहुः / एवम् अस्तु / गमिष्यामः / स्वकस्वकेभ्यो भवनेभ्यः सन्नाहं बद्ध्वा ससैन्यपरिवारा आगमिष्यामो (कुरुमिय 60) यद् अस्माकम् ऋद्धिबलविषयं तत् सर्वम् आदर्शयिष्यामः / अथ त्वं स्वयम् एव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस् तत्क्षणे प्रदर्शयिष्यति / अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारः कोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य ते नानाप्रहरणयुक्ता विविधसन्नाहसन्नद्धाः / तस्याम् एव रात्र्याम् अत्ययेनेमं जंबुद्वीपम् अनुप्राप्तः अङ्गमगधसन्धौ गगने तस्थुः यावद् ये चास्मिंश् चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास् ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधायोद्योजिताः / ते ऽपि नानाप्रहरणवर्मप्रावृताः तत्रैव तस्थुः / मारो ऽपि पापीमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरसो ऋषिः प्रतिवसति महेश्वरभक्तिको अष्टादशसु विद्यास्थानेष्व् ऋद्धिविषयपारमिप्राप्तः पंचशतपरिवारः तस्य महेश्वररूपेण पुरतः स्थित्वैवम् आह /
नित्यं गौतमगोत्रजो ऋषिवरो विज्ञान्ऽ; अभिज्ञाश्रितो मगधे संवसतीह सो ऽद्य चरते पिण्डाय राज्ञोगृहम् / तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः तत्रैवे त्वम् अतीव पंच नियतं प्राप्स्यस्य् अभिज्ञावशिम् // rkp_3.18
अथ मारः पापीमान् इमां गाथां भाषित्वा तत्रैवान्तर्हितः / स्वभवनं च गत्वा स्वपार्षद्यानां माराणाम् आरोचयति स्म //
मत्तो भो शृणुताद्य यादृग् अतुला बुद्धिर् मया चिन्तिता स्वैरं शाक्यसुतं समालपत ये-द्-ऋद्धिप्रभावान्विताः / तां मायां न विदर्शयेत् स्वविषयीं मारोरुदर्पापहां नित्यं स्निग्धवचाः स शिष्यनिरतो मातेव पुत्रेष्व् इव // rkp_3.19 शिष्यास् तस्य हि ये प्रहीणमदनाश् चर्यां चरंति ध्रुवं पूर्वाह्णे नगरं क्रमेण निभृताः स्वैरेण तावद् वयं / गृह्णीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर् यथा श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः // rkp_3.20
अपरो मार एवम् आह /
सिंहव्याघ्रगजोष्ट्रचण्डमहोषीङ् क्षिप्रं पुरस्यास्य हि प्रावृङ्मेघनिनादिनः खररवान् निर्माय नैकां बहिः / तिष्ठेमो वयम् आयुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान् भ्रान्तो ऋद्धिम् अपास्य यास्यति ततो नानादिशो विस्मृतः // rkp_3.21
अपरो मारः प्राह /
वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर् मुखैर् नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः / आकाशाद् घनरावसुप्रहरणैर् मेघासनिं मुंचत क्षिप्रं स प्रलयं प्रयास्यति ततो भूकंपभीतो ऽवशः // rkp_3.22
विस्तरेण यथासौ माराणां मारबलविषयविकुर्वां तां सर्वां तथैव चक्रुः //
भगवांश् च पुनः सर्वावतीम् इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीम् अध्यतिष्ठत् / न च पुनर् भूयो माराः रावांश् चक्रुर् न चतुर्दिशम् अग्निपर्वतास् तस्थुः न कृष्णाभ्रा नाकालवायवो न च कश्चिन् नागो ऽभिप्रवर्षति स्मान्तशः एकबिन्दुर् अपि बुद्धबलाधिष्ठानेन //
तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं महानगरं पिण्डाय प्रविविशुः / आयुष्माञ् छारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश / (कुरुमिय 63) तत्र च नगरे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेशसदृशा नृत्यंतो गायन्तः संचेरुः / त आयुष्मन्तं शारिपुत्रम् उभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म / नृत्यन्तो गायन्तः शारिपुत्रम् एवम् आहुः / नर्तस्व श्रमण गायस्व श्रमण / शारिपुत्र आह / शृणुत यूयं मार्षाः स्वयम् / अश्रुतपूर्वां गीतिकां श्रावयिष्यामि / ते च सर्वे मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवम् आहुः /
अलम् एव हि आयतनेहि वंचिते आ वयम् आयतनेहि / आघतनानि हि आयतनानि अन्तु करोम्य् अहु आयतनानाम् // rkp_3.23
अलम् एव हि स्कन्धकृतेहि वंचिते आ वय स्कन्धकृतेहि / आघतनानि हि स्कन्धकृतानि अन्तु करोम्य् अहु स्कन्धकृतानाम् // rkp_3.24
तद्यथा
बहर 2 बहर 3 भार 4 बह 5 मरीचिबह 6 सत्यबह 7 आमबह 8 स्वाहा 9 //
स्थविरः शारिपुत्रो धावन् गीतस्वरेणेमे गाथे इमानि च मन्त्रपदानि भाषते स्म /
अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः /
क्षमापयामो वयम् अद्य नाथं त्वाम् एव बन्धुं जगतः सुदेशकं / स्कन्धा यथा ते सभयाः प्रदिष्ठास् तथा वयं साक्षिण एणु नित्यम् // rkp_3.25
सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो न्यषेदुर् धर्मश्रवणाय //
अथ खल्व् आयुष्मान् महामौद्गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् / तथापि पंचाशन् मारकुमारकाः यावद् गीतस्वरेणैवम् आहुः /
अलम् एव हि धातुमयेहि वंचिते आ वय धातुमयेहि / आघतनानि हि धातुमयानि अन्तु करोम्य् अहु धातुमयानाम् // rkp_3.26
अलम् एव हि वेदयितेभि वंचिते आ वय वेदयितेभि / आघतनानि हि वेदयितानि अन्तु करोम्य् अहु वेदयितानाम् // rkp_3.27 अलम् एव हि चेतयितेहि वंचिते आ वय चेतयितेहि / आघतनानि हि चेतयितानि अन्तु करोम्य् अहु चेतयितानाम् // rkp_3.28 अलम् एव हि संज्ञकृतेहि वंचिते या वय संज्ञकृतेहि / आघतनानि हि संज्ञकृतानि अन्तु करोम्य् अहु संज्ञकृतानाम् // rkp_3.29 अलम् एव हि संसरितेहि वंचिते या वय संसरितेहि / आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् // rkp_3.30
तद्यथा
आमव 2 आमव 3 आमव 4 आमव 5 / आरज 6 रनजह 7 / शम्यथ 8 शम्यथ 9 शम्यथ 10 / गगनवम 11 स्वाहा 12 //
धावन् गीतस्वरेणायुष्मान् महामौद्गल्यायनो मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः /
ऋद्ध्यान्वितार्यपथगुप्त मुनीन्द्रसूनो संसारदोषसमदर्शक धर्मदीप / पापं प्रहाय वयम् आदरभक्तिजाता बुद्धं गता द्य शरणं वरधर्मसंघं // rkp_3.31
सर्वे ते पंचाशन् मारकुमारका वीथीमध्ये आयुष्मतो मौदल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो न्यषेदुर् धर्मश्रवणाय //
अथायुष्मान् पूर्णो मैत्रायणिपुत्र उत्तरेण नगरद्वारेण पिण्डाय (कुरुमिय 66) प्राविशत् / यावद् गीतस्वरेणैवम् आहुः /
अलम् एव हि स्पर्शकृतेहि वंचिते या वय स्पर्शकृतेहि / आघतनानि हि स्पर्शकृतानि अन्तु करोम्य् अहु स्पर्शकृतानाम् // rkp_3.32
अलम् एव हि आधिपतेहि वंचिते या वयम् आधिपतेहि / आघतनानि हि आधिपतीनि अन्तु करोम्य् अहु आधिपतीनाम् // rkp_3.33
अलम् एव हि संसरितेहि वंचिते या वय संसरितेहि / आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् // rkp_3.34
अलम् एव हि सर्वभवेहि वंचिते या वय सर्वभवेहि / आघतनानि हि सर्वभवानि अन्तु करोम्य् अहु सर्वभवानाम् // rkp_3.35
लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी / न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः // rkp_3.36 पेयालम् / अबुधः शब्दमदेन मत्तकः // rkp_3.37 अबुधो गन्धमदेन मत्तकः // rkp_3.38 अबुधो रसमदेन मत्तकः // rkp_3.39 अबुधः स्पर्शमदेन मत्तकः // rkp_3.40 लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी / न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः // rkp_3.41 अबुधः स्कन्धमदेन मत्तकः // rkp_3.42 अबुधो धातुमदेन मत्तकः // rkp_3.43 अबुधो भोगमदेन मत्तकः // rkp_3.44 अबुधः सौख्यमदेन मत्तकः // rkp_3.45 अबुधो जातिमदेन मत्तकः // rkp_3.46 अबुधः काममदेन मत्तकः // rkp_3.47 लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी / न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः // rkp_3.48
तद्यथा
खर्गव 2 खर्गव 3 खर्गव 4 मुज्ञिनि 5 / आवर्त 6 विवर्त 7 / खवर्त 8 ब्रमार्थ 9 ज्योतिवर्त 10 / स्वाहा 11 //
अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः /
त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश् च धातवः / संकल्पमात्रजनितो वत जीवलोको रत्नत्रयं हि शरणं वरदं व्रजामः // rkp_3.49
सर्वे ते पंचाशन् मारकुमारकाः आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय //
तेन च समयेनायुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् / तत्र च नगरद्वारे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यंतो गायन्तो विचेरुः / त आयुष्मन्तं सुभूतिम् उभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्त आयुष्मन्तं सुभूतिम् एवम् आहुः / नर्तस्व श्रमण गायस्व श्रमण / सुभूतिर् आह / शृणुत मार्षा यूयम् अश्रुतपूर्वां गीतिकां श्रावयिष्यामि / सर्वे चाल्पशब्दा अभूवन् / धावन् गीतस्वरेणायुष्मान् सुभूतिर् एवम् आहुः /
अनित्य सर्वभाव मायबुद्बुदोपम अनित्यम् अस्ति संस्कृते क्वचिच् चलात्मके / यथा मरीचि दृष्टनष्ट नास्ति तत्र शाश्वतं लघुव्यया हि सर्वधर्म बुद्धिमान् प्रजानते // rkp_3.50
सर्वस्पर्श दुःखभार वेदना निरात्मिका यत्र प्रसक्त सर्वबाल दुःखधर्मपीडिता / मित्रं न कश्चिद् अस्ति सर्वदुःखमोचक यथा हि श्रद्ध बोधिमार्ग भावना च सेविता // rkp_3.51
एकलक्ष सर्वधर्म संज्ञवर्जिताः शुभा निरात्मयोग सर्वचर्य ऽद्रव्यलक्षणात्मिका / न जीवपोष पुद्गलो ऽपि कारको न विद्यते त्यजित्व मारशाठ्य बोधि चित्त नामये // rkp_3.52
विज्ञानु वर्तते ऽन्द्रियेषु विद्युता यथा नभे अनात्मकाश् च सर्वस्पर्शवेदना पि चेतना / योनिशो निरीक्ष किंचिद् अस्ति नैव द्रव्यतः संमोहितो हि बालवर्गु यंत्रवत् प्रवर्तते // rkp_3.53
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते भूतकोटि शान्त शून्य सर्व-अन्तवर्जिता / अमोहधर्मतैष उक्त बोधिमार्गचारिका नयाहि नायकेन बोधि प्राप्त तायिन // rkp_3.54
तद्यथा /
सुमुन्दे 2 विमुन्दे 3 मुन्द 4 जहि 5 / सिलि 6 सिलि 7 सिलि 8 / अवसिलि 9 तथात्वसिलि 11 भूतकोटिसिलि 12 स्वाहा 13 //
अथायुष्मान् सुभूतिर् धावन् गीतस्वरेणेमा गाथा इमानि च मन्त्रपदानि भाषते स्म / अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः प्रसन्नमनसः एवम् आहुः /
अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः / यत् कृतं पापकं कर्ममोहाविद्यान्वितेन्द्रियैः // rkp_3.55 प्रतिदेश्य तद् अद्यैव वयं साक्षाज् जिनात्मजा / प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिताः // rkp_3.56
सर्वे ते पंचाशन् मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसाभिवन्द्य तस्यैव पुरतो वीथीमध्ये न्यषीदुर् धर्मश्रवणाय //
तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म / तत्र च वीथीमध्ये स्थविरः शारिपुत्र उत्तरामुखो (कुरुमिय 71) निषण्णः / महामौद्गल्यायनः पश्चामुखो निषण्णः / पूर्णो दक्षिणामुखः / सुभूतिः पूर्वामुखः / परस्परम् अर्धयोजनप्रमाणेन तस्थुः / तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशस्य पद्मं प्रादुर् अभवत् पंचाशद् धस्तविस्तारं जांबूनदमयेन दण्डेन नीलवैडूर्यमयैः पर्तैः श्रीगर्भमयेन केसरेण मुक्तामय्या कर्णिकया / ततश् च पद्मान् महान् अवभासो ऽभवत् / तस्यां च वीथ्यां तत् पद्मं तृपौरुषम् उच्चत्वेन संदृश्यते स्म यावच् चतुर्महाराजकायिकेषु देवेषु तत् पद्मं दिव्यानि पंचाशद् योजनान्य् उच्चत्वेन संदृश्यते स्म / त्रयस्त्रिंशत्सु तत् पद्मं योजनशतम् उच्चत्वेन संदृश्यते स्म यावद् अकनिष्ठेषु देवेषु तत् पद्मम् अर्धयोजनम् उच्चत्वेन संदृश्यते स्म / तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः / ये सत्त्वा इह भूमौ स्थितास् ता इमां छ्लोकाञ् छुश्रुवुः //
एकपुद्गल उत्पन्नो बुद्धक्षेत्र इहानघः / निहतो मार एकेन ससैन्यबलवाहनः // rkp_3.57
एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितं / एकाकीह जगद्धेतोर् आयास्यति न संशयः // rkp_3.58
विद्वांसौ बहुनीतिशास्त्रकुशलौ धर्मार्थमोक्षार्थिकौ नीतिज्ञाव् उपतिष्यकौलितवरौ शास्त्रा विनीताव् इह / विद्वां सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान् नेष्यत्य् अद्य स सर्वलोकमहितो वादिप्रधानो मुनिः // rkp_3.59
त्र्यध्वज्ञानसुदेशकः श्रमणराट् छिक्षात्रयोद्भावकस् त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् / लोकस्यार्थहितप्रचारकुशलो ज्ञानप्रदीपो महान् सद्वादी तृमलप्रहीण इह सो अद्यैव संगास्यति // rkp_3.60 लोकार्थम् अश्रान्तमतिश् चचार दुःखार्दितं सर्वजगद् विमोचयन् / अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् // rkp_3.61 सर्वावतीयं परिषत् समागता न चिराद् इहायास्यति वादिसिंहः / परमार्थदर्शी परमं सुरूपो बलैर् उपेतो हि परापरज्ञः // rkp_3.62 दृष्ट्वा जगद् दुःखमहार्णवस्थम् आहंतुम् आयास्यति धर्मदुन्दुभिम् / षडिन्द्रियैर् उत्तमसंवरस्थः षडाश्रयश् च षडभिज्ञकोविदः // rkp_3.63 षट्सारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः / षडिन्द्रियग्रामविहेटनाय षडुत्तमार्थस्मृतिसारथीन्द्रः // rkp_3.64
यावत् षट्सु कामावचरेषु देवेषु ततः पद्माद् इमा गाथा निश्चेरुः /
यूयं समग्रा रतिम् अद्य भुंजथ प्रमत्तचित्ताः मदतृष्णसंवृताः / सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगतं प्रमादात् // rkp_3.65 कामा अनित्या दगचन्द्रसन्निभाः संसारपाशो ऽतिदृढः प्रजायाः / अनिःसृतानां रतिषु प्रमादिनां न निर्वृतिर् जातु पुनर् भविष्यति // rkp_3.66 सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभं / जरारुजामृत्युभयैः परीता अपायभूमिप्रसृताश् च यूयं // rkp_3.67 दानं दमं संयमम् अप्रमादं निषेवत प्राक्सुकृतं च रक्षत / उत्सृज्य कामान् अशुचीन् दुरन्तान् उपसंक्रमध्वं सुगतं शरण्यं // rkp_3.68 गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद् धि महार्थिकं च / प्रज्ञाविमुक्तिप्रशमाय हेतुः सद्धर्मयुक्तं श्रवणे महार्थं // rkp_3.69
यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरुः //
धर्मं प्रयत्नेन विभावयध्वं समाहितध्यानरता अनङ्गनाः / अभ्रान्तचित्ताश् च विमोक्षकांक्षिणो द्वेषप्रहाणाय मतिं च कृध्वं // rkp_3.70 त्रयोदशाकारनिमित्तदीपिकां विभावयध्वं परंआं हि क्षान्तिम् / तयैव चात्यन्तविमोक्षम् आशु संप्राप्स्यथ व्याधिजरावियुक्तम् // rkp_3.71 श्रद्धास् तु ये रूपविकल्पसंचये नित्यं ध्रुवात्मस्थिरभावदृष्टयः / तेषां न जन्मप्रवहस्य हानिर् अपायभूमिप्रवणा हि ते वै // rkp_3.72 त्रैधातुकं वीक्ष्य सदा निरात्मम् निर्द्रव्यम् अस्वंवशिकं निरीहं / क्षान्तिं विभावेन्ति य आनुलोमिकीं भवंति ते सर्वि गतिप्रमुक्ताः // rkp_3.73 तेषां न मृत्युर् न जरा न रोगो न दुर्गतिर् नाप्रियसंप्रयोगः / आकाशतुल्यान् इह सर्वधर्मान् ये भावयंते व्ययभावयुक्तान् // rkp_3.74 अत्यन्तशुद्धो हि वरः स मार्गो येषाम् असंगं मन इन्द्रियेषु / मारान् विधुन्वन्ति चतुष्प्रकारान् यथा ह्य् अयं संप्रति शाक्यसिम्ःअः // rkp_3.75 एकं नयं ये तु विभावयंति निष्किंचनं सर्वनिमित्तवर्जितं / द्वयप्रहाणाय विनीतचेष्टास् तेषाम् अयं मार्गवरः प्रणीतः // rkp_3.76 विभाव्य शून्यान् इह सर्वधर्मान् अस्वामिकाङ् कारकजातिवृत्तान् / स्पृशंति बोधिं गगनस्वभावान् निरुत्तमां प्रार्थनया विवर्जिताम् // rkp_3.77
एभिर् एवंरूपैर् अर्थपदधर्मशब्दैर् निश्चरद्भिर् य इह लोकधातौ मनुष्यामनुष्यास् ते समागम्य वीथीमध्ये समन्ततस् तस्य पद्मस्य न्यषेदुः / यावद् अप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठभवनाद् अवतीर्य तस्य पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय / अश्रौषीन् मारः पापीमान् एतञ् छ्लोकान् / समन्ततं च व्यवलोक्याद्राक्षीत् राजगृहे महानगरे वीथीमध्ये पद्मं / ततश् चेमे श्लोका निश्चेरुः / (कुरुमिय 77) तदा पद्मं परिवार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतस्हस्राणि सन्निषण्णानि धर्मश्रवणाय / अथ खलु मारः पापीमान् ऊर्ध्वं व्यवलोकितवान् अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत् पद्मं / तद् एव चानुपरिवार्याप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय /
अथ भूयस्या मत्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रस्विन्नगात्रः संप्रकंपितशरीरो गगने प्रधावन् महता स्वरेणापरान् मारान् प्रक्रोशन्न् एवम् आह /
शृणु गिरिम् असमां समवहितमना न मे वशो स्वविषये न च बलम् इह मे / इदम् इह मुनिबलम् अतिगुणविशदं प्रसरति जगति स्थिरजनकरणम् // rkp_3.78
कमलम् इह पुनर् उदयति नर्ऽअमरु दयितुम् उपगत निखिलतो सुजनत नियता / परितृषितसुगतसुवचननिरता व्रजति शमथपथम् अतिगुणपरमा // rkp_3.79
मायेयं श्रमणेन वर्तित इह त्रैलोक्यसंमोहनी सर्वे ऽनन्यमना नरामरगणाः पद्मं वितन्य स्थिताः / क्षिप्रं मुंचथ शैलवृष्टिम् अभुना भीष्मस्वरं राविणो गच्छेन् नाशम् अयं यथाद्य निहतो मारोग्रसैन्यायुधैः // rkp_3.80
अथापरो मारः पापीमंतम् एवम् आह /
शृण्व् अस्माकम् इदं वचो हितकरं विज्ञातधर्मो ऽसि किं यत् पश्यन्न् अपि मारसैन्यविलयं नायासि शान्तिं ततः / भ्रान्ताः स्मः प्रसमीक्ष्य सौगतम् इदं तेजोवपुः श्रीधनं रूपं नान्यद् इहोत्तमं सुशरणं बुद्धाद् ऋते नायकात् // rkp_3.81
अथापरो मारः प्ररुदन् परमक्रोधाविष्टवदनो मारं पापीमन्तम् एव आह /
कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिं / न लज्जसे ऽपत्रपसे न चैव यत् त्वं सह स्पर्धसि नायकेन // rkp_3.82
अस्मद्बलं यद् विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् / उपागमत् पद्मसमीपम् आशु धर्मश्रवाप्यायितशुद्धदेहं // rkp_3.83
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
