Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

महाप्रतिसराविद्याधारणी

Thông tin
GRETIL — "Mahāpratisarāvidyādhāraṇī". In: Dhīḥ Journal 28 (1999), eds. S. Rinpoche and Janardan Pandey, pp. 127-139.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

महाप्रतिसराविद्याधारणी

महाप्रतिसराविद्याधारणी

आर्यमहाप्रतिसराविद्याधारणी

ओम् नमो भगवत्यै आर्यमहाप्रतिसरायै ।

नमो बुद्धाय नमो धर्माय नमः संघाय । नमः सर्वतथागतेभ्यो नमः सर्वबुद्धबोधिसत्त्वेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यो नमः ।

ओम् विपुलगर्भ विपुलविमले विमलगर्भे विमले जयगर्भे वज्रज्वालागर्भे गतिगहने गगनविशोधनि सर्वपापविशोधनि । ओम् गुणवति गगनविचारिणि-गगनविचारिणि गिरि-गिरि गिरिणि-गिरिणि गभरि-गर्द्धभरि गमरि-गमरि गभरि-गभरि गह-गह गर्गारि-गर्गारि गगरि-गगरि गंभरि-गंभरि गभि-गभि गहि-गहि गमनि-गमनि गुह-गुह गुरु-गुरु (म्प्व्-dh_131) गुरुणि चले मुचले समुचले गुहणि-गुहणि गुरुणि-गुरुणि चुलु-चुलु चले-चले मुचले जयविजये जयवति अपराजिते सर्वभयविगते सर्वगर्भसंरक्षणि सिरि-सिरि भिरि-भिरि मिरि-मिरि गिरि-गिरि पिरि-पिरि समन्ताकर्षणि सर्वशत्रून् प्रमथनि रक्ष-रक्ष मां सर्वसत्त्वांश्च सर्वदा भयेभ्यः सर्वोपद्रवेभ्यः सर्वव्याधिभ्यः चिलि-चिलि विरि-विरि धिरि-धिरि विगतावरणविशोधनि विविधावरणविनाशिनि । मुचि-मुचि मुरि-मुरि मुलि-मुलि किलि-किलि मिलि-मिलि कमले विमले-विमले जयविजयावहे जयवति विशेषवति भगवति रत्नमकुटमालाधरि बहुविविधविचित्रवेशधारिणि । भगवति महाविद्या देवि रक्ष रक्ष मां सर्वसत्त्वांश्च समन्तात्सर्वपापविशोधनि । हुलु-हुलु मुलु-मुलु रक्ष-रक्ष मां सर्वसत्त्वानाञ्चा(त्त्वांश्चा)नाथानत्राणान(न्नि)रयनानशरणानपरायणान् परिमोचय सर्वदुःखेभ्यः । चण्डि-चण्डि चण्डिनि-चण्डिनि वेगवति सर्वदुष्टनिवारिणि विजयवाहिनि । हुरु-हुरु चुरु-चुरु तुरु-तुरु आयुःपाल(लि)नि सुरवरप्रमथनि सर्वदेवगणपूजिते । चिरि-चिरि विरि-विरि समन्तावलोकिते प्रभे-प्रभे सुप्रभे सुप्रभविशुद्धे सर्वपापविशुद्धे सर्वपापविशोधनि धुरु-धुरु धरणिधरे धर-धर सुमुज सुमुरु-सुमुरु रु

रु चले चालय सर्वदुष्टान् पूरयाशान् (म्प्व्-dh_132) मात्तङ्गिनि श्रीवपुधरे जयकमले क्षिणि-क्षिणि वरदाङ्कुशे । ओम् पद्मविशुद्धे शोधय-शोधय शुद्धे-शुद्धे भर-भर भिरि-भिरि भुरु-भुरु मङ्गलविशुद्धे । पवित्रमुखि खड्गिनि-खड्गिनि खर-खर ज्वलितशिखरे-ज्वलितशिखरे समन्तावलोकितप्रभे सुप्रभविशुद्धे समंतात् प्रसारितावभासितविशुद्धे ज्वल-ज्वल सर्वदेवगणसमाकर्षणि सत्यव्रते । ओम् ह्रींं त्रं तर-तर तारय मां भगवति सर्वसत्त्वांश्च नागविलोकिते लघु-लघु लहु-लहु हुलु-हुलु हुतु-हुतु तुरु-तुरु तुहु-तुहु किणि-किणि क्षिणि-क्षिणि सर्वग्रहभक्षणि पिंगरि-पिंगरि मुचु-4 सुमु-सुमु सुविचले तर-तर नागविलोकिनि तारय मां भगवति सर्वसत्त्वांश्च संसारार्णवात् भगवति अष्टमहादारुणभयेभ्यः । सर्वत्र समन्तेन दिशाबन्धेन वज्रपाशबन्धने वज्रज्वालिनि वज्रज्वालाविशुद्धे । भुरि-भुरि भर-भर भिरि-भिरि भुरु-भुरु भगवति गर्भविशुद्धे गर्वसंशोधनि कुक्षिसंपूरणि रक्ष-रक्षणि । ज्वल-ज्वल चर-चर । ओम् ज्वालिनि वर्षन्तु(तु) देवः समन्तेन दिव्योदकेन अमृतवर्षणि देवतावतारिणि । अभिषिञ्चतु मां सुगतवरवचनामृतवपुषे । रक्ष-रक्ष मां सर्वसत्त्वांश्च सर्वत्र सर्वदासर्वभयेभ्यः सर्वोपसर्गेभ्यः सर्वदुष्टभयभीतेभ्यः सर्वकलिकलहविवादसर्वभयविशोधनि दुःस्वप्न-दुर्निमित्ता-मङ्गलपापविशोधनि कुक्षिसंपूरणि सर्वयक्षराक्षसनागविदारिणि बल-बल बलवति जय-जय विजय-विजय जयतु सर्वत्र सर्वकालं सिद्धयन्तु(तु) मे इयं महाविद्या साधय मण्डलं (म्प्व्-dh_133) घाटय विध्नान् जय-जय

सिध्य-सिध्य बुध्य-बुध्य पूरय-पूरय पूरणि-पूरणि पूरय मे आशां विधोद्गतमूर्ते जयोत्तरि जयकरि जयवति तिष्ठ-तिष्ठ भगवति समयमनुपालय सर्वतथागतहृदयविशुद्धे व्यवलोकय मां सर्वसत्त्वांश्च सर्वाशां परिपूरय सर्वसत्त्वानाञ्च त्रायस्व मामष्टमहादारुणभयेभ्यः सर-सर प्रसर-प्रसर सर्वावरणविशोधनि समन्ताकार - विशुद्धे विगते-विगते विगतमले सर्वमलविशोधनि सर्वमङ्गलविशुद्धे । क्षिणि-क्षिणि सर्वपापविशुद्धे । मलविगते जयवति तेजोवति वज्रवति । वज्रे वज्रवति । ओम् त्रैलोक्याधिष्ठिते स्वाहा । सर्वतथागतमूर्धाभिषिक्ते स्वाहा । सर्वतथागतहृदयाधिष्ठिते हृदय स्वाहा । सर्वतथागतसमये सिद्धे स्वाहा । इन्द्रे इन्द्रवति इन्द्रव्यवलोकिते स्वाहा । ब्रह्मे ब्रह्माध्युषिते स्वाहा । सर्वतथागताधिष्ठिते स्वाहा । विष्णुनमस्कृते स्वाहा । महेश्वरवंदित-पूजिताय स्वाहा । वज्रधरवज्रपाणिबलवीर्याधिष्ठिते स्वाहा । धृतराष्ट्राय स्वाहा । विरुढकाय स्वाहा । विरुपाक्षाय स्वाहा । वैश्रवणाय स्वाहा । चतुर्महाराजनमस्कृताय स्वाहा । यमाय स्वाहा । यमपूजितनमस्कृताय स्वाहा । वरुणाय स्वाहा । वारुणाय स्वाहा । मारुताय स्वाहा । महामारुताय स्वाहा । अग्नये स्वाहा । वायव्ये(वे) स्वाहा । नागविलोकिताय स्वाहा । देवगणेभ्यः स्वाहा । नागगणेभ्यः स्वाहा । यक्षगणेभ्यः स्वाहा । राक्षसगणेभ्यः स्वाहा । गन्धर्वगणेभ्यः स्वाहा । अपस्मारगणेभ्यः स्वाहा । असुरगणेभ्यः स्वाहा । गरुडगणेभ्यः स्वाहा । किन्नरगणेभ्यः स्वाहा । महोरगगणेभ्यः स्वाहा । मनुष्यगणेभ्यः स्वाहा । अमनुष्यगणेभ्यः स्वाहा । सर्वग्रहेभ्यः स्वाहा ।

सर्वनक्षत्रेभ्यः स्वाहा । सर्वभूतेभ्येः स्वाहा । (म्प्व्-dh_134) सर्वप्रेतेभ्यः स्वाहा । सर्वपिशाचेभ्यः स्वाहा । सर्वापस्मारेभ्यः स्वाहा । सर्वकुभाण्डेभ्यः स्वाहा । सर्वपूतनेभ्यः स्वाहा । सर्वकठपूतनेभ्यः स्वाहा । सर्वदुष्टप्रदुष्टेभ्यः स्वाहा । ओम् धुरु-धुरु स्वाहा । ओम् तुरु-तुरु स्वाहा । ओम् कुरु-कुरु स्वाहा । ओम् चुरु-चुरु स्वाहा । ओम् मुरु-मुरु स्वाहा । ओम् हन-हन सर्वशत्रून् स्वाहा । ओम् दह-दह सर्वदुष्टान् स्वाहा । ओम् पच-पच प्रत्यर्थिकान् प्रत्यमित्रान् स्वाहा । ये ममाहितैषिणस्तेषां सर्वेषां शरीरंज्वालय-ज्वालय सर्वदुष्टचित्तानां स्वाहा । वज्रज्वालाय स्वाहा । समंतज्वालाय स्वाहा । मणिभद्राय स्वाहा । पूर्णभद्राय स्वाहा । समन्तभद्राय स्वाहा । महासमन्तभद्राय स्वाहा । आकाशमातॄणां स्वाहा । समुद्रगामिनीनां स्वाहा । रात्रिचराणां स्वाहा । दिवाचराणां स्वाहा । त्रिसन्ध्याचराणां स्वाहा । वेलाचराणां स्वाहा । अवेलाचराणां स्वाहा । गर्भहरेभ्यः स्वाहा । गर्भधरेभ्यः स्वाहा । गर्भहारिणीभ्यः स्वाहा । गर्भसंधारिणीभ्यः स्वाहा । चलु-चलु स्वाहा । हुलु-हुलु स्वाहा । ओम् स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भुर्भुव ः[स्व] स्वाहा । चिलि-चिलि स्वाहा । धरणी स्वाहा । धारणी स्वाहा । अग्नेः स्वाहा । तेजोवायू स्वाहा । चिलि-चिलि स्वाहा । सिलि-सिलि स्वाहा । मिलि-मिलि स्वाहा । बुध्य-बुध्य स्वाहा । मण्डलबन्धे स्वाहा । सीमाबन्धे स्वाहा । सर्वशत्रून् भंजय स्वाहा । जम्भय-जम्भय स्वाहा । स्तम्भय-स्तम्भय स्वाहा । च्छिन्द-च्छिन्द स्वाहा । भिन्द-भिन्द स्वाहा । भंजय-भंजय स्वाहा । बन्ध-बन्ध स्वाहा । मोहय-मोहय स्वाहा । मणिविशुद्धे स्वाहा । सूर्ये

सूर्यविशुद्धे स्वाहा । शोधनि स्वाहा । विशोधनि स्वाहा । चन्द्रे-चन्द्रे पूर्णचन्द्रे (म्प्व्-dh_135) स्वाहा । ग्रहेभ्यः स्वाहा । नक्षत्रेभ्यः स्वाहा । पिशाचेभ्यः स्वाहा । शिवेभ्यः स्वाहा । विश्वेभ्यः स्वाहा । शान्तिभ्यः स्वाहा । पुष्टिभ्यः स्वाहा । स्वस्त्ययनेभ्यः स्वाहा । गर्भहरेभ्यः स्वाहा । शिवंकरि स्वाहा । शान्तिकरि स्वाहा । पुष्टिकरि स्वाहा । बलवर्द्धनि स्वाहा । श्रीकरि स्वाहा । श्रीवर्द्धनि स्वाहा । बलवर्द्धनकरि स्वाहा । श्रीज्वालिनि स्वाहा । मुचि स्वाहा । नमुचि स्वाहा । वेगवति स्वाहा । ओम् स्वाहा । सर्वतथागतमूर्ते प्रवरविगते विगतभयस्व मे भगवति सर्वपापस्वस्तिर्भवतु मम सर्वसत्त्वानाञ्च स्वाहा । ओम् मुनि-मुनि विमुनि-विमुनि धरि-धरि चरि-चरि वलने भगवति भयहरणि-भयहरणि बोधि-बोधि बोधय-बोधय बुधिरि-बुधिरि चुंबिलि-चुंबिलि स्वाहा । सर्वतथागतहृदयजुष्टे स्वाहा । ओम् मुनि-मुनि मुनिवरे अभिषिञ्च मां सपरिवारं सर्वसत्त्वानाञ्च सर्वतथागताः सर्वविद्याभिषेकैर्महाकवचमुद्रामुद्रितैः सर्वतथागतहृदयाधिष्ठितशुद्धे मुद्रे वज्रे स्वाहा । समन्तज्वालामालाविशुद्धिस्फुरितचिन्तामणिर्महामुद्राहृदयापराजितामहाधारणी ।

पुनरेवमपरमन्त्राः सिद्धाः सर्वकर्मकराः शुभाः । सर्वकामंददा भद्रास्यंप्रभाषे शृणुष्व च ॥

तद्यथा ओम् अमृतवरे वर-वर प्रवर विशुद्धे हूं-हूं फट्-फट् स्वाहा । ओम् अमृतविलोकिनि गर्भ संरक्षणि आकर्षणि हूं हूं फट्फट् स्वाहा । अपराजिताहृदयम् ।

ओम् विमले विपुले जयवरे जयवाहिनि अमृतविरजे हूं हूं फट्फट् स्वाहा । ओम् भर-भर संभर-संभर इन्द्रिये बलविशोधनि हूं हूं फट्फट्रु रु चले स्वाहा । ओम् मणिधरि वज्रिणि महाप्रतिसरे हूं हूं फट्फट् स्वाहा । उपहृदयविद्या ।

अस्याः श्रवणमात्रेण सर्वपापक्षयंगता । यया युक्तो वज्रकायो नमस्तस्यै नमो नमः ॥

यांस्मरन् राहुलो रक्ष मातरंकुक्षिसंस्थितः । प्रक्षिप्ते यो विषनद्यां नमस्तस्यै नमो नमः ॥

यो रक्षेद्वणिजः पुत्रं क्रूरसर्पवधोद्यतम् । विषदाहमु .... षश्च नमस्तस्यै नमो नमः ॥

ब्रह्मदत्तो महाराजो यया रक्षितमष्टकः । रिपुंजित्वाविराजो ऽभून्नमस्तस्यै मनस्सदा ॥

भिक्षुदुःशीलको रोगी यया कण्ठे प्रबन्धितः । प्राणामुक्तो ययै स्वर्गं नमस्तस्यै नमो नमः ॥

समुद्रे पोतसंक्षुब्धे वणिजान्प्राणरक्षकः । यां स्मरन्सार्थवाहो ऽभून्नमस्तस्यै नमो नमः ॥

यया प्रतिबद्धायां भार्यायां सुतमाप्तवान् । प्रसारितभुजो राजा नमस्तस्यै नमो नमः ॥

दरिद्रांयां प्रतिस्मृत्वा दीनारं प्रददौ जिने । राजाजिष्ट प्रदाताभून्नमस्तस्यै नमो नमः ॥

यां प्रबुद्धासुरैर्बद्धो .... चूडामणौ प्रभुः । लब्धवान्विजयं वज्री नमस्तस्यै नमो नमः ॥

यस्यावन्तबलेनैव पूर्य पारमिताषट् । माराञ्जित्वा जिना बुद्धा नमस्तस्यै नमो नमः ॥

अपराधी वधार्होऽपि प्रक्षिप्तः सर्वसंकटे । यां स्मृतः परिमुक्तोभून्नमस्तस्यै नमो नमः ॥

यया बन्धितकण्ठश्च मुक्तोपायसंकटात् । नगरे नायकोभून्नमस्तस्यै नमो नमः ॥

या चापराजिताविज्या(द्या)सर्वबुद्धैश्च धारिता । मुद्रिता भाषिता नित्यं पठिता परदेशिता ॥

लिखिता मोदिता सत्त्वहिताय पूजिता सदा । स्मृत्वा कायगतां कृत्वा नमस्तस्यै नमो नमः ॥

यस्याः श्रवणमात्रंच दुर्लभ भुवनत्रये । पाठस्वाध्ययनं वापि नमस्तस्यै नमो नमः ॥

या विद्या दुर्लभा बुद्धैर्व्याकृता संप्रशंसिता । महती धारणी ख्याता सर्वपापक्षयंकरी ॥

महाबला महासर्प्पा महातेजा महत्प्रभा । महागुणवती विद्यासर्वमारविदारिणी ॥

पापसंधिसमुद्घाटी मारमदप्रमोचनी । जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी ॥

रक्षिणी पोषिणी धात्रीपरमन्त्रविघाटिनी । काखोर्द्दविषयोगानां विध्वंसनकरीशिवा ॥

महायानरतानाञ्च गृह्णतां लिखतां तथा । पाठाध्ययनकृतां नित्यं दधतां श्रूयतां तथा ॥

परेभ्यो दिशतां चैव नित्यं मनसि भाविताम् । सपुस्तकगतां कृत्वा पूज्यमान्यनमस्कृतम् ॥

सर्वपापहरी भद्रा बोधिसंभारपूरणी । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

यस्या मन्त्रप्रभावेण सर्वभय उपद्रवाः । दुष्टासुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः ॥

ग्रहाः स्कंदा अपस्माराः पिशाचा यक्षकिन्नराः । डाकिन्यः शाकिनीसंघा नागाः काषोर्द्द तु व्याधयः । ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा ॥

विषाग्निशस्त्रमन्त्राणि विद्युतः कालबाधयः । अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च ॥

तथान्ये ऽप्युपसर्गा वा विनश्यन्ति न संशयः । सर्वकार्याणि सिद्धयन्ति नमस्तस्यै नमो नमः ॥

यश्च तां धारयेत् विद्यां कण्ठे वाहौ च मस्तके । नित्यं रक्षन्ति देवास्तंदैत्या नागाश्च मानुषाः ॥

गन्धर्वा किन्नरा यक्षा भूतप्रेतपिशाचकाः । डाकिन्यो राक्षसादूत्यः कुम्भाण्डाः कटपूतनाः ॥

त्रिसन्ध्यं यः पठेत् नित्यं बुद्धारक्षन्ति तं सदा । प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वामहर्द्धिकाः ॥

योगिनः सिद्धमन्त्राश्च महावीर्यमहर्षयः । वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह ॥

चत्वारश्च महाराजा ब्रह्मा विष्णुर्महेश्वर । नन्दिकेशो महाकालः कार्तिकेयो गणेश्वरः ॥

भैरवा मातृका दुर्गास्तथान्ये मारकायिकाः । विद्यादेव्यो महावीर्या महाबलपराक्रमाः ॥

मामकी भृकुटीतारा चाङ्कुशी वज्रशृखला । महाश्वेता महाकाली वज्रदूतीमुपाशिका ॥

वज्रमाला महाविद्या सुवीर्याऽमृतकुण्डली । वज्रापराजिता चण्डी कालकर्णा महाबला । तथा धन्या महाभागा पद्मकुण्डलिरेव च ॥

मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिंगला । एकजटा महादेवी धन्या विद्युत्सुमालिनी ॥

कपालिनी च रं(लं)केशी क्षुद्राक्षीत्येकनायिका । हारीति पाञ्चिका चैव शंखिनीकूटदन्तिनी । श्री सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा ॥

तमेवान्ये ऽपि रक्षन्ति यस्य विद्या करे स्थिता । स भवेत् सर्वसत्त्वानां मोक्षणार्थं समुद्यतः ॥

राजानो वशगास्तस्य पुण्यराशिंविवर्धयेत् । सिद्धयन्ते सर्वकल्पाश्च प्रविष्टो जिनमन्दिरे ॥

अन्ते बौद्धपदं यायाज्जिनस्य वचनं यथा । या स्त्री धारयेद् विद्यां प्रसूयेद्गुर्विणी सुखम् ॥

अपुत्रा लभते पुत्रं व्याधिमुक्ता सुखाशिनी । धनधान्यैर्वरैर्युक्ता माननीया प्रियंवदा ॥

सुस्वप्नानां सत्यकरी जिनक्षेत्रं समाप्नुयात् । इत्यवोचद् भगवान् सा च सर्वावती पर्षदभ्यनन्दन् ॥ इति ॥

आर्यमहाप्रतिसराविद्याधारणी समाप्ता ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.