Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
महासंनिपातरत्नकेतुधारणीसूत्र or रत्नकेतुपरिवर्त (=र्क्प्)
- Thông tin
- GRETIL — Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वयं तु बीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः / यावन् न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् // rkp_3.84
अथापरे माराः कृतांजलयः एवम् आहुः /
पापीमंस् त्वम् अपेतधर्मचरणः पापक्रियायां रतो नाथो ह्य् एष जगद्धितार्थकुशलो बुद्धः सताम् अग्रणी / आयामो नगरं द्रुतं वयम् इह प्रीतिप्रसन्नेक्षणाः गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनां // rkp_3.85
अथ तत्रैव गगने घोषवतिर् नाम मारः स उच्चस्वरेणैवम् आह /
सर्वे यूयं समग्राः शृणुत मम वचो भक्तितः प्रीतियुक्ताः पापाद् दृष्टिं निवार्य प्रणततनु मनोवाक्समाचारचेष्टाः / त्यक्तक्रोधाः प्रहृष्टा मुनिवरवचने स्फीतभक्तिप्रसादा गत्वा बुद्धं समक्षं शरणम् असुलभं पूजयामो ऽद्य भक्त्या // rkp_3.86
अथ तत्क्षणम् एव सर्वे मारा गगनतलाद् अवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः / केचिन् माराश् चक्रवर्तिराजवेषम् आत्मानम् अभिनिर्मीय भगवतः पूजापरास् तस्थुः / केचिद् ब्राह्मणवेषं / केचिद् वशवर्तिवेषं / केचिन् महेश्वरवेषं / केचिन् नारायणवेषं / केचित् तुषितवेषं (कुरुमिय 80) केचिद् यामवेषं / केचिच् छक्रवेषं / केचित् त्रयस्त्रिंशवेषं / केचित् कुमारवेषं / केचिद् वैश्रवणवेषं / केचिद् विरूढवेषं / केचिद् विरूपाक्षवेषं / केचिद् धृतराष्ट्रवेषं / केचित् प्राकृतचतुर्महाराजवेषं / केचित् सूर्यवेषं / केचिच् चन्द्रवेषं / केचित् तारकवेषं / केचिद् असुरवेषं / केचिद् गरुडवेषं / केचित् किन्नरवेषं / केचिन् महोरगवेषं / केचिद् रत्नपर्वतवेषं / केचिन् निष्कवेषं / केचिन् नानारत्नवेषं / केचिद् रत्नवृक्षवेषं / केचित् क्षत्रियवेषं / केचिद् अन्यतीर्थिकवेषं / केचिच् चक्ररत्नवेषं / केचिन् मणिरत्नवेषं / केचिद् ऐरावणवेषं / केचिद् बालाहाश्वराजवेषं / केचित् स्त्रीरत्नवेषं / केचिच् छ्रेष्ठिवेषं / केचिद् राजामात्यवेषं आत्मानम् अभिनिर्मीय तस्थुर् भगवतः पूजाकर्मणे / केचिन् नीला नीलवर्णाः श्वेतालंकारालंकृतम् आत्मानम् अभिनिर्मीय भगवतः पूजाकर्मणे लोहितां छत्रध्वजपताकामुक्ताहारान् धारयन्तस् तालप्रमाणमात्रम् उच्चत्वेन गगनतले तस्थुः / केचिद् अवदाता अवदातवर्णाभरणा मंजिष्ठवर्णाभरणविभूषणाः पीतां छत्रद्वजपताकान् (कुरुमिय 81) धारयन्तस् तस्थुः / केचिन् मंजिष्ठा मंजिष्ठवर्णाः सुवर्णाभरणविभूषणा नीलाञ् छत्रध्वजपताकान् धारयन्तस् तस्थुः / केचिल् लोहिता लोहितवर्णाः श्वेतमुक्तवर्षं ववर्षुः /
केचिच् छ्वेताः श्वेतवर्णाः लोहितमुक्तवर्षं ववर्षुः / केचिद् देवर्षिवर्णम् आत्मानम् अभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्रववर्षुः / केचिद् भगवतः श्रावकवेषं आत्मानम् अभिनिर्मीय नानादिव्यगन्धवर्षं गगनाद् ववर्षुः / केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः / केचिद् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयंतः पृथिवीं सिंचिषुः / केचित् काचकृष्णवर्णा नानागन्धान् प्रधूपयाम् आसुः / केचिद् देवपुत्रवेषेण नृत्यगीतस्वरान् मुमुचुः / केचिन् नानावर्णा येन भगवांस् तेन प्राञ्जलयो भगवन्तं तुष्टुवुः / केचिन् मारा मारपार्षद्या अपि यस्यान् दिशि भगवांस् तद् अभिमुखा नानाद्यानि मणिरत्नानि दध्रिरे भगवतः पूजाकर्मणे / केचिद् वीथीगृहशरणगवाक्षतोरणहर्म्यचत्वरशृङ्गाटककूटागारद्वारवृक्षविमानेषु स्थित्वा प्रांजलयो न्यषेदुर् भगवतः पूजाकर्मणे /
अथ स मारो यदाद्राक्षीत् सर्वांस् तान् मारान् सपरिवारां छ्रमणं गौतमं शरणम् गतान् तदा भूयस्या मात्रया क्षुब्धस् त्रस्तो भ्रान्तः प्ररुदन्न् एवम् आह /
न भूयो मे सहायो ऽस्ति नष्टा श्रीर् मे ऽद्य सर्वतः / भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् // rkp_3.87 मूलाच् छिन्द्याम् अहं पद्मं सत्त्वा येन दिशो ऽव्रजन् / छेदात् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलं // rkp_3.88
इति संचिन्त्य मारः पापीमां वायुवद् अवतीर्य गगनाद् येन तत् पद्मं वीथीगतं तेन प्रसृत्य तत् पद्मम् आ दण्डाद् इच्छत्य् उद्धर्तुं स्प्रष्टुम् अपि न शशाक / पत्राणि च्छेतुम् इच्छति न च तानि ददर्श / पद्मकर्णिकाम् अपि पाणिना पराहंतुम् इच्छति ताम् अपि नैवोपलेभे // तद्यथा विद्युद् दृश्यते न चोपलभ्यते / तद्यथा वा च्छाया दृश्यते न चोपलभ्यते / एवम् एव तत् पद्मं दृश्यते न चोपलभ्यते / यदा च मारः पापीमांस् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श / अथ पुनः सर्वपर्षत्संत्रासनार्थम् उच्चैर् महाभैरवं स्वरं मोक्तुम् इच्छति तदापि न शशाक / स पुनर् महाबलवेगेनोभाभ्यां पाणिभ्याम् इच्छति महापृथिवीं पराहंतुं कंपयितुं ताम् अपि स्प्रष्टुम् अपि न शशाक नैवोपलेभे / तद्यथापि नाम कश्चिद् आकाशम् इच्छेत् परामर्ष्टुं न चोपलेभे / एवम् एव मारः पापीमां ददर्श पृथिवीं न च पस्पर्श नोपलेभे / तस्यैतद् अभवत् / यन् न्व् अहं यथा सन्निपतितानां सत्त्वानां प्रहारां दद्यां चित्तविक्षेपं वा कुर्याम् इति ददर्श तान् सत्त्वान् न चैकसत्त्वम् अप्य् उपलेभे न पस्पर्श / अथ भूयस्या मात्रया मारः पापीमान् रुरोद / बुद्धानुभावेन चास्य सर्वं शरीरं वृक्षवच् (कुरुमिय 83) चकंपे / साश्रुमुखश् चतुर्दिशं च व्यवलोकयन्न् एवम् आह /
मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता येनाहं पुरतो विमोहित इव भ्रान्तिं गतो ऽस्मि क्षणात् / भ्रष्टो ऽहं विषयात् स्वपुण्यबलतः क्षीणं च मे जीवितं शीघ्रं यामि निराकृतः स्वभवनं यावन् न यामि क्षयम् // rkp_3.89
स्वभवनम् अपि गंतुम् इच्छति न तत्रापि शशाक गन्तुं / स भूयस्या मात्रया त्रस्तो रुरोद / एवं चास्योदपादि / परिक्षीणो ऽहम् ऋद्धिबलात् / मा हैवाहं श्रमणस्य गौतमस्य वशम् आगच्छेयं / मा वा मे ऽस्य शत्रोर् अग्रतो जीवितक्षयः स्याद् यन् न्व् अहम् अतो ऽन्तर्धायेयं / सहबुद्धक्षेत्रस्य बहिर्धा कालं कुर्यां / यथैकसत्त्वो ऽपि मे सहबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् / तथापि न शक्नोत्य् अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा / तत्रैव कण्ठे पंचबन्धनबद्धम् आत्मानं ददर्श / भूयस्या मात्रया कुपितस् त्रस्त उच्चस्वरेण प्ररुदन्न् एवम् आह / हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति //
अथ घोषवतिर् नाम मारश् चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तम् एवम् आह /
किं भो शोकमनास् त्वम् अद्य रुदिषि व्याक्रोशवक्त्रस्वरः क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भी शरण्यं व्रज / त्राणं लोकगतिश् च दीपशरणं नाथस् त्रिदुःखापहो नन्व् एतं समुपास्यसि ःः ः ःः शमं सौख्यं च संप्राप्स्यसि // rkp_3.90
अथ मारस्य पापीमत एतद् अभवत् / यन् न्व् अहं सन्तोषवचनेन श्रमणं गौतमं शरणं व्रजेयं यद् अहम् एभ्यो बन्धनेभ्यः परिमुच्येयम् //
अथ मारः पापीमान् यस्यां दिशि भगवां विजहार तेनांजलिं प्रणाम्यैवम् आह / नमस् तस्मै वरपुद्गलाय जराव्याधिमरणपरिमोचकाय / एषो ऽहं तं बुद्धं भगवन्तं शरणं गच्छामि / एवम् चाह /
अस्मान् नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर् बन्धनान् मुच्येयं शरणगतो ऽस्मि सुगतस्याद्य प्रभ्र्त्याग्रणी / मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोशः कृतः तत् सर्वं प्रतिदेशयामि पुरतस् त्वां साक्षिणं स्थाप्य तु // rkp_3.91
यदा च मारः पापीमान् संतोषवचनेन बुद्धं भगवन्तं शरणं गतस् तदा मुक्तम् आत्मानं संजानीते / यदा पुनर् अस्यैवं भवति / प्रक्रमेयम् इतः पर्षद इति / पुनर् एव कण्ठे पंचबन्धनबद्धम् (कुरुमिय 85) आत्मानं संजानीते / यदा पुनर् न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तम् उत्पादयाम् आस / पुनर् मुक्तम् आत्मानं संजानीते यावत् सप्तकृत्वो बद्धमुक्तम् आत्मानं संजानीते स्म / तत्रैव निषण्ण इति // //
महासन्निपाताद् रत्नकेतुसूत्रात् तृतीयो मारदमनपरिवर्तः स्माप्तः // //
iv.
यावत् पूर्वोक्तं ते चत्वारो महाश्रावकास् तद् राजगृहं महानगरं पिण्डाय प्रविशन्तस् तैर् मारकुमारकैर् अनाचारेणाधिष्ठाः / नर्तस्व श्रमण गायस्व श्रमणेति / तैश् च महाश्रावकैर् वीथीमध्ये प्रधावद्भिर् निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा गाथा भाषिता तदा महापृथिवी प्रचकंपे / तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि सास्रुमुखान्य् एवम् आहुः //
तिष्ठत्य् अशोके वरधर्मसारथिर् एषा ह्य् अवस्था जिनवरशासनस्य / तच्छ्रावकानां जनता द्य दृष्ट्वा विडम्बितं केन मनः प्रसादयेत् // rkp_4.1
अथ तानि बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि सास्रुमुखानि येन भगवांस् तेनोपजग्मुः / उपेत्य भगवतः पुरतः स्थित्वैवम् आहुः / अवस्थां शासनस्यास्य भगवन् वीक्ष्य सांप्रतं / मोपेक्षां कुरु सर्वज्ञ शासनाचारगुप्तये // rkp_4.2
भगवान् आह /
एवं गत्वा स्वयं तत्र मारं जित्वा सवाहनम् / करोमि जनतां सर्वां निर्वाणपुरगामिनीम् // rkp_4.3
अथ ते सर्वे एवैककण्ठेनैवम् आहुः / मा भगवं गच्छ // ननूक्तं भगवता / अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयो ऽचिन्त्यः कर्मणां कर्मविषयः इति / सर्वविषयाणां बुद्धविषय एष विशिष्टतरः / शक्तो भगवान् इहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरम् उच्छोषयितुं दृष्टिजालं समुद्धर्तुं सत्त्वकोटीनयुतानि ज्ञानसागरेणावतारयितुं / नाद्य भगवतो गमनकालो युक्तः / भगवान् आह / यावन्तः सत्त्वधातौ सत्त्वास् ते सर्वे मारा भवेयुर् यावंति च पृथिवीपरमाणुरजांसि तावन्त्य् एकैकस्य मारबलाधिष्ठानानि भवेयुः / ते सर्वे मम वधाय पराक्रमेयुर् एकरोमकूपस्यापि मे न शक्ता विघातयितुं / शक्तश् चाहम् इहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारं / गमिष्यामि पुनर् अहं यन् मम पूजाकर्मण एभिर् मारैः सर्वं राजग्र्हं महानगरं मारबलर्द्धिविकुर्वणाधिष्ठानव्यूहैर् अलंकृतं तद् अनुकंपायै परिभोक्ष्ये यत् ते माराः परमप्रीतिप्रसादजाताः कुशलमूलबीजम् अवरोपयिष्यंत्य् अनुत्तरायां सम्यक्संबोधौ //
यदा च भगवान् आसनाद् उत्थातुकामो ऽथ तावद् एव प्रभावशोभना नाम वेणुवनपरिपालिका देवता सा भगवतः पुरतो ऽस्रुमुखी स्थित्वैवम् आह /
नैवाद्य कालो भगवन् प्रवेष्तुं पुरं समंताद् इह मारपूर्णं / एकैक एवं परमप्रचण्डः कोटीवृतस् तिष्ठति वदिसिंहः // rkp_4.4 द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते व्याकुलचेतसः स्थिताः / मा सर्वथाद्य प्रविशस्व नाथ मा संक्ष्यं यास्यसि लोकबन्धो // rkp_4.5
यदा च भगवान् आसनाद् अभ्युत्थितस् तदा द्युतिमतिर् नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह /
पापीम्मतां सहस्राणि पंच तिष्ठन्ति सायुधाः / त्वां प्रतीक्षंति निस्त्रिंशा व्रज माद्य महामुने // rkp_4.6
यदा भगवां विहाराद् विनिश्चक्राम तदा सिद्धिमतिर् नामौषधिदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह /
हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते / धर्मनौर् याति संभेदं लोकदीपे क्षयं गते // rkp_4.7
धर्मरस उदारो हीयते सर्वलोके जगद् इदम् अतिपूर्णं क्लेशधूर्तैः प्रचण्डैः / ननु मम भुवि शक्तिः काचिद् अस्ति प्रलोपं सुगतसुतवराणां संप्रधर्तुण् कथंचित् // rkp_4.8 अतिबहव इहास्मिं त्वद्विनाशाय रौद्रा निशितपरशुखड्गाः संस्थिताः पापधर्माः / कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं प्रविश दशबलाद्रे मा पुरं सिद्धयात्र // rkp_4.9
अथ भगवान् विहारांगनाद् अभिप्रतस्थे / द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह /
सर्वन् नाथ भविष्यति त्रिभुवनं नष्टेक्षणं साम्प्रतं नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ / एतस्मिन् गगने भुजंगरसनास् तीक्ष्णासिवाणायुधास् त्वन्नाशाय चरन्ति वह्निवदना मा गच्छ तत्राधुना // rkp_4.10
यदा च भगवां द्वारकोष्ठके-म्-अवतताराथ ज्योतिवरुणा नाम द्वारकोष्ठकदेवता सा उच्चस्वरेण रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह /
एते ब्राह्मणसंज्ञिनां पुरवरे विंशत्सहस्राण्य् अथो दीप्तासिक्षुरसायकप्रहरणाः प्रेक्षंति ते निर्दयाः / अन्योन्याप्य् अतिरौद्रनिर्दयवतां विंशतसहस्राण्य् अतस् तिष्ठन्तीह विनाशनाय तव हे मा गच्छ शुद्धानन // rkp_4.11
अथ भगवां द्वारशालां प्रविवेश / तत्र च तमालसारा नाम राजगृहनगरपरिपालिका (कुरुमिय 90) देवता सा नभस्य् उच्चस्वरेण रुदंती भगवतः सकाशं त्वरयोपजगामोपेत्य भगवतः पादौ शिरसाभिवन्द्यैवम् आह /
मार्गो ऽयं भगवं पुनः परिवृतः सिंहोष्ट्रमत्तद्विपैर् भिक्षूणां च विहेठनाय बहुधा मारैर् विघातः कृतः / उद्युक्तास् तव चान्यतीर्थचरणाः शास्तुर् वधार्थं भुवि त्वं मेघस्वर देवनागकृपया मा गच्छ दीप्तप्रभ // rkp_4.12 दृष्ट्वा नरामरभुजंगमकिन्नरेन्द्रास् त्वच्छासनस्य विलयं व्यथिताः समेत्य / भीता द्रवंति भगवं जितमार मारान् मायाकृतान् अतिविरूपमुखांश् च भूयः // rkp_4.13 सद्धर्मस्य विलोपनां च महतीं लोकस्य चोपप्लवं नक्षत्रद्युतिनाशितं च गगनं चन्द्रार्कयोर् विभ्रमं / संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस् ताडितो हा कष्टं कथयत्य् अतीव सुगतभ्रंशं समाशंकयन् // rkp_4.14 नश्यते दृष्टिसूर्यो ऽयं धर्मोल्का याति संक्षयम् / मृद्नाति मृत्यु संबुद्धं धर्मतोयं विशुष्यते // rkp_4.15 सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते / प्रादुर्भावो ऽसताम् एव माराणां भवतीह तम् // rkp_4.16
अथ सा देवता भगवतः प्रतिनिवर्तनम् अदृष्ट्वा सास्रुमुखी भूय एवम् आह /
लोकन् निरीक्षस्व मुने समग्रं मा गच्छ वादिप्रवराद्य संक्षयं / मा मत्पुरे नाशम् उपागते त्वयि त्रिलोकनिन्द्या सततं भवेयं // rkp_4.17
शृणु मे वचो नायक सत्त्वसार मा मत्पुरे गच्छ विनाशम् अद्य / सत्त्वानुकंपार्थम् इह प्रतीक्ष सत्त्वांश् च जन्मार्तिभयाद् विमोक्षय // rkp_4.18 स्मर प्रतिज्ञां हि पुरा तहागत प्राप्योत्तमं तारयिता भवेतं / सत्त्वान् अनेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ // rkp_4.19 तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः / तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् // rkp_4.20
ततो भगवां द्वारशालायाम् अवततार / अथ तावद् देवता दृढा नाम पृथिवीदेवता दशभिः महौजस्कमहौजस्काभिर् देवतासहस्रैः सार्धम् अस्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्रांजलिः स्थित्वैवम् (कुरुमिय 92) आह /
स्मर प्रदानं रुधिरप्रपूर्णा यत् ते प्रदत्ताश् चतुराः समुद्राः / शिरांसि चास्थीनि च चक्रवाडवन् नेत्राणि गङ्गासिकतासमानि // rkp_4.21
रत्नानि चैवं विविधानि पूर्वं पुत्राश् च दारा द्विरदास् तथाश्वाः / आवासवस्त्रशयनान्नपानं भैषज्यम् इष्टं च तथातुराणाम् // rkp_4.22
कृता च पूजा प्रवरा स्वयंभुवां शीलं त्वया रक्षितम् अप्रमादिना / क्षान्तिश्रुतं सेवितम् एव नित्यं मातृज्ञता चैव पितृज्ञता च // rkp_4.23
चीर्णान्य् अनंतानि च दुष्कराणि सत्त्वा ह्य् अनेकव्यसनात् प्रमोक्षिताः / यत् पूर्वम् आदौ प्रणिधिः कृतस् ते बुद्धो भवेयं परमार्थदेशकः // rkp_4.24 उत्तारयेयं जनतां महौघाल् लोकाय धर्मं वत देशयेयं / तृष्णाविमूलानि महाभयानि दुःखान्य् अशेषाणि च शोषयेयम् // rkp_4.25 अभये पुरे सत्त्वगणं प्रवेशये निवेश्य तान् वै वरबोधिमार्गे / विमोचयेयं बहुदुःखपीडितान् तां सत्त्वधातुं परिपूर्ण कुर्याम् // rkp_4.26 मार्गच्युतानाम् इह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनां / निस्तारयैतां स्मरय प्रतिज्ञां वदस्व धर्मं बहुकल्पकोट्यः // rkp_4.27 ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टांगजलेन चैनं / नेहास्ति सत्त्वः सदृशस् त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् // rkp_4.28 मुक्तः स्वयं लोकम् इमं च मोचय प्रतारयस्व त्रिभवार्णवाज् जगत् / त्वम् एव बुद्धो जगदेकबान्धवो तिष्ठस्व नित्यं विभजस्व धर्मम् // rkp_4.29
अथ बहगवां द्वारशालायाम् अवततार / तत्क्षणाद् एव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि सास्रुमुखान्य् एवम् आहुः /
अस्माभिर् आदौ सुगता हि दृष्टाः प्रशान्तकाले सुविनीतशिष्याः / धर्मोपदेशं विपुलं च कुर्वतस् तेषां विघातो न स ईदृशो ऽभूत् // rkp_4.30
एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयंभूत्वम् उदारबुद्धिः / क्लेशावृते धर्मम् उवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः // rkp_4.31 अस्मिं पुनस् तिष्ठति वादिसिंहे पापीमतां नैकसहस्रकोट्यः / कुरुवंति धर्मस्य विनाशम् एवं मा बुद्धवीराद्य पुरे विशस्व // rkp_4.32
अथापरा देवतैवम् आह /
चक्रं जिनैर् वर्तितम् एकदेशे तैः पूर्वकैर् लोकहितप्रयुक्तैः / अयं पुनर् गच्छति यत्र तत्र मा खल्व् अवस्थां समवाप्स्यते ऽद्य // rkp_4.33
अथापरापि देवतैवम् आह /
कारुण्यहेतोर् इह सार्थवाहश् चचार सत्त्वार्थम् अतीव कुर्वन् / स केवलं त्व् अद्य पुरे ऽत्र मा वै नाशं प्रयायाद् इति मे वितर्कः // rkp_4.34
तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि सास्रुदुर्दिनवदनानि गगनतलपथाद् अवतीर्य भगवतः पुरतः स्थित्वानेकप्रकारान् आत्मनो विप्रकारांश् चक्रुः / केचित् केशान् विलुम्पन्ति स्म / केचिद् आभरणानि मुमुचुः / केचिच् (कुरुमिय 95) छत्रध्वजपताकान् प्रपातयाम् आसुः / केचित् स्वशरीरेण भूमौ निपेतुः / केचिद् भगवतश् चरणौ जगृहुः / केचिद् अतिकष्टं रुरुवुः / केचिद् उरांसि पाणिभिः पराजघ्नुः / केचिद् भगवतः पादमूले स्थित्वा मद्गुवत् परावर्तन्ते स्म / केचिद् भगवतः पुरतः प्रांजलयो भूत्वा स्तुतिनमस्कारांश् चक्रुः / केचिद् भगवन्तं पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारदुष्यैर् अवकिरंति स्म /
अथापरा बह्व्यो देवकोट्य उच्चैर् एकण्ठेनैवम् आहुः /
त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थम् इतो बहूनि / क्षीणे त्वम् उत्पन्न इहाद्य काले उपेक्षकस् तिष्ठ च मा त्यजस्व // rkp_4.35
अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश् चाल्पतरा नृदेवाः / त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मत् त्रिभवार्णवाज् जगत् // rkp_4.36 सत्त्वा ह्य् अनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः / करुणां जनस्व प्रतिदर्शयार्थम् ओघेभ्य उत्तारय लोकम् आर्तम् // rkp_4.37 गत्याटवीमध्यगता भ्रमंति संसारकान्तारविनष्टमार्गाः / तेषां सुमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः // rkp_4.38 एतत् तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद् वरधर्मचक्रं / चिरं हि तिष्ठ त्वम् उदारबुद्धे मा खल्व् अनाथा जनता भवेत // rkp_4.39
अथापरापि देवतैवम् आह /
नाशं प्रयास्यत्य् अथ यद् विनायको लोकस् तथान्धो निखिलो भविष्यति / अष्टांगमार्गस् त्रिविमोक्षहेतुः सर्वेण सर्वं न भविष्यतीह // rkp_4.40 अस्माभिर् अस्मिं छुभबीजम् उप्तं वाक्कायचेतोद्भवम् अप्रमत्त्तैः / ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः // rkp_4.41
तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्य् अभूवन् // तान्य् अप्य् एवम् आहुः /
मा भैष्ट यूयं न मुनेर् अवस्था भविष्यते काचिद् उदारबुद्धेः / प्रत्यक्षपूर्वा वयम् अस्य साधोर् उपागता यद् भुवि मारकोट्यः // rkp_4.42 षट्त्रिंशद्योजनानि द्रुतरभसपरा यत् समन्ताद् वितत्य प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना / संप्राप्ता बोधिमण्डे विलयम् उपगता तत्क्षणाद् एव भीता प्राप्तार्थस्याद्य किं स्वित् प्रसृतयशसो विघ्नम् एष प्रकुर्यात् // rkp_4.43
अथापरा देवता प्ररुदन्ती एवम् आह /
मारस्यैकस्य सा सेना प्राग् आसिन् न महाबला / मारकोटीसहस्राणाम् इयं सेना महाबला // rkp_4.44
निःसंशयम् इह प्राप्तो नाशं लोकविनायकः / यद्विनाशाद् अयं लोको निरालोको भ्रमिष्यति // rkp_4.45
अथ खलु ते शक्रब्रह्मलोकपाला भगवतः पादयोः परिष्वज्यैवम् आहुः /
तिष्ठेह साधो कुरु मन्दधीनाम् अस्मद्वचः कारुणिकप्रधान / बहुदेवकोट्यो घनशोकतप्तास् ताः साम्प्रतं धर्मरसेन सिंच // rkp_4.46
अथ खलु भगवांस् तां सर्वावतीं पर्षदं मैत्राविशालाभ्यां नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्न् एवम् आह /
मा भैष्ट यूयं भवथाद्य निर्भयाः सर्वे ऽपि मारा युगपत् सवाहनाः / शक्ता न मे भीषयितुं समग्रा रोमाप्य् अथैकं किम् उ सर्वदेहम् // rkp_4.47 आश्वासयाम्य् अद्य तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये / मार्गच्युतानाम् अहम् एव सम्यङ् मार्गोपदेशं विशदं करिष्ये // rkp_4.48 कृतानि पूर्वं बहुदुष्कराणि मयान्नपानं विपुलं प्रदत्तं / आवासभैषज्यम् अनल्पकं च कर्तुं विघातं मम को ऽद्य शक्यः // rkp_4.49 त्यक्ता मया ह्य् अश्वरथा गजाश् च विभूषणान्य् आभरणानि चैवम् / दासाश् च दास्यो निगमाश् च राष्ट्राः कर्तुं विघातं मम कः समर्थः // rkp_4.50 भार्यासुतादुहितृकडत्रवर्गम् ऐश्वर्यम् इष्टं भुवि राजवंशः / दत्तो मया सत्त्वहिताय कस्माच् छरीरनाशो ऽद्य भविष्यति मे // rkp_4.51 शिरश् च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनुचर्मलोहितं / स्वजीवितं त्यक्तम् अपीह देहिनां कर्तुं विहिंसां मम कः समर्थः // rkp_4.52 बह्व्यो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता स्वहस्तं / शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं मम कः समर्थः // rkp_4.53 पूर्वं मया वै बहुदुष्कराणि कृतानि मे ऽतीव समाहितेन / संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः // rkp_4.54 क्लेशा जिता मे नियतो ऽस्मि बुद्धः सर्वेषु सत्त्वेषु च मैत्रचित्तः / ईर्ष्या च मे नास्ति खिलं च रोषो न मे समर्थः पुरतो ऽद्य कश्चित् // rkp_4.55 जितं मया मारबलं समग्रं पराजिता मे बहुमारकोट्यः / युष्मद्विमोक्षं नियतं करिष्ये मा भैष्ट कस्मान् न पुरं प्रवेक्ष्ये // rkp_4.56 ये केचि दिशासु दशस्व् अपीह बुद्धा हि तिष्ठंति तु सत्त्वहेतोः / तां सर्वबुद्धान् इह योजयिष्ये महर्द्धिकांश् चाप्य् अथ बोधिसत्त्वान् // rkp_4.57 क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये / तैर् एव बुद्धैः सह नेत्रि संस्थिता करिष्य बुद्धानुमतं च कार्यम् // rkp_4.58
तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यकोटीनयुतशतसहस्राणि भगवते साधुकारं प्रददुः / एवं चाहुः / नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय / नमो नमो महाश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय बुद्धाय भगवते / आश्वासितो भगवता सदेवको लोकः / पराजितो भगवता मारपक्षः / विधूतं सत्त्वानां सन्धिक्लेशकालुष्यं / (कुरुमिय 100) प्रभिन्नः सत्त्वानां मानपर्वतः / छिन्नो जन्मवृक्षः / विचूर्णितो मृत्युसूर्यः / विधूतो ऽविद्यान्धकारः / प्रसादिता अन्यतीर्थ्याः / संशोषिताश् चत्वार ओघाः / प्रज्वालिता धर्मोल्काः / निदर्शितो बोधिमार्गः / नियोजिताः क्षाण्तिसोरत्ये / क्रीडापिता ध्यानसौख्ये / अवबोधितानि चत्वार्य् आर्यसत्यानि / समुत्तारितो भगवता महाकारुणिकेन शास्त्रा जन्मसमुद्रात् सदेवको लोकः / प्रवेशितास् सत्त्वा ऽभयपुरं //
अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालङ्कारविभूषणैर् भगवन्तम् अभ्यर्चयित्वा भगवतो ऽर्थाय ते मार्गं शोभयाम् आसुः / दिव्यवस्त्रपुष्पदुष्यैश् च भगवन्तं संछादयन्ति स्म / दिव्यैश् च मान्दारवमहामान्दारवपारुषकमहापारुषकमंजुषकमहामंजुषकरोचमहारोचोत्पलकुमुदपुण्डरीकैः संछादयाम् आसुः / यत्र भगवांस् तौ चरणौ निश्चिक्षेप तस्मिंश् च मार्गे उभयोः पार्श्वयोर् दिव्यां सप्तरत्नमयान् वृक्षान् अभिनिर्मिमीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैर् अलंचक्रुः / तेषु च वृक्षान्तरेषु दिव्याः पुष्किरिणीर् मापयंति स्म / शीताः स्वादूदका विप्रसन्ना अनाविलाः / अष्टांगोपेतवारिपरिपूर्णाः समन्तात् सप्तरत्नालंकारालंकृताः / अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दध्रिरे / ध्वजपताकासुवर्णसूत्रमुक्ताहारांश् च सुवर्णचूर्णवर्षांश् च ववर्षुः / रूप्यवैडूर्यचूर्णागरुतगरचन्दनकालानुसारितमालपत्रवर्षाणि (कुरुमिय 101) समुत्ससर्जुः / गोशीर्षोरगसारचन्दनचूर्णञ् च तस्मिन् मार्गे ववर्षुः / सुवर्णसूत्रमुक्ताहारमणिमुक्तिभिश् च सर्वं गगनतलं नानादिव्यालङ्कारैर् अलञ्चक्रुः / नगरस्य च बहिर्धा देवमनुष्याः भगवतः पूजाकर्मणे मार्गशोभाञ् चक्रिरे / अन्तर्नगरञ् च मारा मारपार्षद्याश् च शोभाव्यूहैर् व्यूहयाम् आसुर् भगवतः पूजाकर्मणे //
अथ खलु भगवांस् तस्मिं समये शूरंगमन् नाम समाधिं समापेदे / तेन च समाधिना यथा समापन्न एव मार्गं जगाम / तेन खलु पुनस् समयेन नानाद्यैः कायरूपलिङ्गेर्यापथैर् भगवांस् तं मार्गम् अभिप्रतस्थे / तत्र ये सत्त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास् ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः / यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चतुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये कुमारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिकाः शशवैनयिकाः शशरूपलिंगेर्यापथेन भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः / ये सत्त्वा बुद्धवैनयिकास् ते बुद्धरूपलिंगेर्यापथेनैव भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः / सर्वे च ते सत्त्वाः प्रांजलयो भूत्वा समभिष्टुवंतो नमस्कुर्वन्तः पृष्ठतः पृष्ठतः समनुबद्धा जग्मुः //
तेन खलु पुनः समयेन यो ऽसाव् अनुहिमवन्निवासी ज्योतीसरो नामर्षिर् (कुरुमिय 102) मारेण पापीमता उद्योजितः स पंचशतपरिवारो राजगृहस्य महानगरद्वारसमीपे
............................. @folios 44 to 46 are missing; text according to dutt:@@ .............................. pratīkṣya bhagavato rūpaliṅgeryāpatham apaśyat tathā mārge cāsaṃkhyeyā vṛkṣadevatā pūjākarmaṇe udyuktāḥ / dṛṣṭvedaṃ tasyaitad abhavat / satyavādī maharṣir ayaṃ mahānubhāvaḥ pūjārhaḥ / ........................
@folios 47 to 64 are very fragmentary@@ atha jyotīraso ṛṣiḥ saparivāraḥ buddharūpaliṃgeryāpathasthitaṃ bhagavantaṃ dṛṣṭvā ............ si ratnaketuṃ nāma bodhisattvasamādhiṃ pratilebhe / yasya samādheḥ samāpra ............. bhavaty asaṃhāryaḥ sarvasamāpattibhiḥ //
अथ ज्योतीरसो महर्षिर् भगवतः प्रांजलिभूतः पुष्पं दत्त्वा स्तुत्वा च अभ्यस्तावीत् //
अनन्तवर्ण लोकनाथ सत्यवादि सुष्ठित प्रभासितं ते सर्व + + + + + + + + + / + + + + + + + + + + + + + + + + + + + + + द्य सत्त्वसार क्षीणसंग नायक // rkp_4.108 सुवर्णवर्ण कांचनाभाशीतला .इ + + + / + + + + + + + + + + + + + + + + + + + + + + + + + + भिन्नक्लेशपर्वता पश्चिमा + चर्यनिष्ठिताद्य बोधिज्ञानकारणं // rkp_4.109 महाभि + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / छिन्द्याम् अहं तु तृष्णजालु तीर्ण तारये जगत् कियच्चिरेण बुद्धो भेष्ये + + + + + + + + // rkp_4.110 + + + + + + + + + + + + + + + + + + + + + + + मार्गे स्थापये निरास्रवे / दशद्दिशासु ये ऽपि बुद्ध सागरोपमा गुणे + + + + + + + + + + + + + + + + + // rkp_4.111 + + + + + + + + + + + + + कर्कशैस् त्र्i-y-adhvikaं च पुण्यम् अद्य कायवाङ्मनसं मे / भवेच् च तेन दु + + + + + + + + + + + + + + + + + + + + + + + // rkp_4.112 .यंतु सर्वसत्त्वव्याधि क्लेशतोयु शुष्यतु लभंतु ज्ञानम् इन्द्रियाणि सारवंति .... / ............... ........ ह्य पुण्यतेजसा // rkp_4.113 एकैकु सत्त्वो सर्वे सागरे गुणां लभे प्रज्ञैव पुण्य .......... / .............. जातिस्मराश् च सर्वे संतु सत्त्व धर्मचारिणः // rkp_4.114 पारं भवार्णवस्य ते तरंतु सर्वे ........ ................... / .......... मेयान् धर्मवृष्टि वर्षयन् स्नापयंतु सर्वसत्त्व धर्ममेघवारिणा // rkp_4.115 काये .............. ......... त्व गौरवात् / माहं च भूयु पापं दुष्टकर्मम् आचरेत् अचिन्त्यान् सदाग्रपुद् ............. // rkp_4.116 ............... पुनः सर्वे चर्याः सत्त्वहेतु सर्वदुःखम् उत्सहे / नियोजयेय सर्वसत्त्व बोधिमा ............ कल्पक्षेत्रम् ................. // rkp_4.117 .. णेय यत्र बोधिस्पर्शये भवेद् विशुद्ध सर्वसत्त्व क्षान्तिभूमिसुस्थिताः प्राप्नुयाम् / अभिज्ञपंच वादिसिं ............... ............... यक // rkp_4.118 सचेद् भविष्ये बुद्धो लोके सर्वधर्मसारथे क्षिपेय मुक्तपुष्प च्छत्र अंबरे स्थिहेयु ते / भवंतु ............ ......... दते शिरेण कंपता वसुन्धरा // rkp_4.119
अथ खलु ज्योतीरसो ऋषिस् तानि पुष्पाणि येन भगवांस् तेनोपरि प्रक्षिप्तानि / ................ न्धौ एकच्छत्रं तस्थौ / यं दृष्ट्वा ज्योतीरसो ऋषिर् भूयस्या मात्रय निरामिषेण प्रीतिसौमनस्येनोद्विल्य ............. भगवतः पादयोर् निपपात / समनन्तरनिपतितश् च ज्योतीरसो ऋषिर् भगवतश् चरणयोर् अथ तावद् ए ................. धातुः षड्विकारं प्रचकंपे / यानि च तत्राप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि ........... प्राप्तान्य् अभूवन् / ये च गजवैनयिकाः सत्त्वास् ते गजरूपेण सुगतं दृष्ट्वा .......... संस्थितानि / तं च पृथिवीकंपं दृष्ट्वा भूयस्या मात्रयाश्चर्यप्राप्ता भगवतश् चरणयोर् निपेतुः / ये ऽपि ब् ............ दृष्ट्वा सर्वे आश्चर्यप्राप्ता अभूवन् //
अथ भगवां छूरंगमात् समाधेर् व्युदतिष्ठत् / तस्माच् च समाधेर् व्युत्थितं ........... प्रीतिप्रामोद्यजाता भगवन्तं यथालब्ब्धैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालङ्कारैर् अभ्यवकिरन् / ............ गाथा अभाषत //
उत्तिष्ठ शीघ्रं शृणु व्याकरिष्ये महर्षे बोधये नायको ऽब्रवीत् / धरा चकंपे कुसु + + + + + + + + + + + + + + + + + // rkp_4.120
+ + + सि त्वन् द्विपदप्रधानो बुद्धो विभुर् लोकहिताय शास्ता / अनन्तपुण्यो गगनप्रमाणस् त्रैलोक्यसारो जगतः प्रदीपः // rkp_4.121
अथ खलु ज्योतीरसो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् / कीदृशं भगवन् तद् बुद्धक्षेत्रं भविष्यति यत्राहन् धर्मचक्रं प्रवर्तिष्ये / भगवान् आह / ...........................
v.
................................................ अथ तस्मिन् समये बुद्धक्षेत्रे कोटीशतं माराणां ते सपरिवारा येन भगवां छाक्यमुनिस् ..... अथ मारः पापीमान् येन भगवांस् तेनांजलिं प्रणाम्यैवम् आह //
भगवं छरणम् यामि विप्रसन्नेन चेतसा /
शीघ्रं मोचय बन्धान् मां धर्मचर्यां च संदिश // rkp_5.6
भगवान् आह /
नाहं कस्य निवारेमि गच्छन्तं वागतं पुनः / मार्गं त्वं यत् प्रजानीषे येन यथेच्छसि // rkp_5.7
पापीमान् आह / यदाहं गन्तुम् इच्छामि सानन्दं विषयं स्वकम् /+ + + + + म् आत्मानं बद्धं पश्यामि गौतम // rkp_5.8 भगवान् आह /
सर्वकल्पप्रहीणा मे मुक्तो ऽहम् इह बन्धनात् / हिंसा चैव मया त्यक्ता सत्त्वान् बन्धाच् च मोचये // rkp_5.9
अथ खलु भगवान् बुद्धचक्षुषा सर्वम् इदं बुद्धक्षेत्रं क्षितिगगनस्थैः सत्त्वैः परिपूर्णम् अवलोक्येमा गाथा अभाषत / शृणु हि वचनं मे ऽद्य सर्वं त्वं सुसमाहितः / प्रहाय संशयान् सर्वांस् तूष्णीभूतस् तदंतरं // rkp_5.10 दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः / दुर्लभा श्रद्धाधिमुक्तिर् बोधिचर्या सुदुर्लभा // rkp_5.11 दुर्लभं लोकनाथास्याद् धर्मस्य श्रवणं तथा / दुर्लभः समयो ह्य् एकः क्षान्तिर् यत्र निषेव्यते // rkp_5.12 दुर्लभं चित्तदमनं दुर्लभा शून्यभावना / लोके हि दुर्लभं पापसंकल्पस्य प्रहाणकम् // rkp_5.13 दुर्लभा बोधिचर्या वै यथा चीर्णा मया पुरा / देशयिष्यामि युष्माकं पुष्पमात्रम् इदं ततः // rkp_5.14 + + + + + + + + + + + + + + + + / युष्माकं भाषयिष्यामि येन बोधिः समृध्यते // rkp_5.15 कुमलांस् त्रीन् प्रहायेह शास्तुः शृणुत भाषितं / त + + + + + + + + + + + + + + + // rkp_5.16 त्रिविमोक्षे च संस्थाय त्रिसंवरस्थितो भव / त्रैधातुकाश् च ये क्लेशास् तान् अशेषान् विधुन्वत // rkp_5.17 त्रिरत्नवंशपूजार्थं यूयं + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.18 + + + + + + + + प्रहास्यति विशेषतः / त्रैधातुकविनिर्मुक्तां क्षान्तिं लप्स्यति शामिकीम् // rkp_5.19 चतुर्दिशि + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.20 चक्षुरूपप्रसंगेन कायवाक्चेतनाव्र्तैः / चतुर्ध्यानविहीनैश् च + + + + + + + + // rkp_5.21 + + + + + + + + + + + + + + + + / + + + + + + + + विपर्यासचतुष्टयात् // rkp_5.22 मोचयंते च ते सत्त्वांश् चतुरोघेभ्य ईश्वराः / + + + + + + + + + + + + + + + + //
rkp_5.23 + + + + + + + + बोधिसत्त्वविशारदाः / सम्यग्ज्ञानेन च्छिन्दंति सत्त्वानां भवबन्धनम् // rkp_5.24 पंचस्कन्धाः परिज्ञान + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.25 पापान् देशयत क्षिप्रं बुद्धानां यूयम् अग्रतः / प्रहाय पापं निःशेषं पारं यास्यकुतोभयम् // rkp_5.26 + + + + + + + + + + + + + + + + / + + + + + + + + + + + + वशेन हि // rkp_5.27 पापमित्रप्रहीणास् तु पापदृष्टिविवर्जिताः / स्मृत्वा संसारदुःखं + + + + + + + + + // rkp_5.28 + + + + + + + + + + + + + + + + / परमार्थे न भावो ऽस्ति न द्रव्यं नापि लक्षणं // rkp_5.29 षडिन्द्रियं यथा शून्यं कारको ऽत्र न विद्यते / + + + + + + + + + + + + + + + + // rkp_5.30 + + + + + + + + + + + + + + + + / षट् स्पर्शायतनान्य् एवं शून्यान्य् अपि विजानथ // rkp_5.31 भावम् एकं निरीक्षध्वं य + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.32 + + + + + + + + + + + + निरीहकाः / यैर् ज्ञाता निर्ज्वरास् ते वै एष मार्गो ह्य् अनुत्तरः // rkp_5.33 त्रयोदशाक + + + + + + + + + + + / + + + + + + + + + + + + + + + + // rkp_5.34
...................... भगवन्त अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द (कुरुमिय 112) ........................ ख्येयाक्षोभ्यगंगानदीवालुकोपमासु शून्याशून्यासु पंचकषायेषु ........................ अप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि अतीव निर् ........................ विचित्राः समाधिक्षान्तिधारणीः प्रतिलेभिरे / इह बुद्धक्षेत्रसन्निपतिता .............................. प्रतिलाभो ऽभूत् / त्रिभिर् यानैर् अप्रमेयासंख्येयाः सत्त्वा निर्याणम् अवा .........
.......... सोपानं पुष्पसंछन्नम् अभिनिर्मीय तस्य पद्मासनस्यारोहणार्थं येन भगवांस् तेन ........ + + + + + + + + + + + + + + + + / समीक्ष्य धर्मसेतुं सृजस्व सचराचरे लोके // rkp_5.35 क्षेत्रं समीक्ष्य पूर्णम् कृत ............ / + + + + + + + + + + + + + + + + // rkp_5.36 क्लेशहतानां प्रज्ञोपायौ प्रविदर्शयाप्रतिम / पद्मे ऽभिरुह्य नाथ प्र .......... // rkp_5.37
@folios 55 and 56 are missing@@ ......................................................................................................................... pūrvapraṇidhānenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayati sma /
स च तथागत एतर्हि सर्वमारविषय य ................... विषयोच्छ्रेपणां सर्वबुद्धशासनवंशतृरत्नप्रदीपचिरस्थापयित्रीं सर्वकुशलमूलविवृद्धिवीर्याधिष्ठानब .................... कौतुकामंगलविवाददुःस्वप्नदुर्निमित्तदुर्भिक्षोभयचक्रकलिकलहबन्धनविग्रहविवदानावृष्ट्यकालशि ........... सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनीं सर्वक्षत्रियावर्जनकरीं सर्वचातुर्वर्ण्यधमार्थनियोजनीं प्रज्ञोल्का ................ सर्वगृहग्रामनगरनिगमराष्ट्रराजधान्यावर्जनीं सर्वनक्षत्रग्रहरात्रिदिवसमासार्धमाससंवत्सरसमावाहनीं सर्वस .............. सर्वशिल्पकर्मान्तस्थानाधिष्ठानकार्यसंपादयित्रीं सर्वकायवाङ्मनोदोषप्रशमनकरीं (कुरुमिय 114) युक्तिस्मृतिमतिधृतिशौर्यकति ...................... बोधनीं चतुरार्यवंशधर्मनेत्र्यधिष्ठानचरीं महायानोद्योतनीं बोधिसत्त्वविवर्धनीं महासत्त्वानाम् आश्वासनीं ................ समवसरणकरीं अनुत्पत्तिकधर्मक्षान्त्यवबोधनीं अभिषेकधर्मबोधिप्रतिष्ठापनीं वैनेयसत्त्वानुग्राहिकां ................. दिकां पारमितानियोजनीं अनुत्तरमार्गसंस्थापिकां धर्मवृष्टिप्रवर्षणीं धर्मरसेन सत्त्वानां सन्तर्पणकरीं सकल ................. र्णीं अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापनीं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं ... भाषितुं /
सर्वैश् चातीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसणीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषिता अधिष्ठिता ऽन्योन्यम् अनुमोदिताः / ये ऽप्य् एतर्हि दशसु दिक्षु बुद्धा भगवन्तः तिष्हंति धृयंति यापयंति धर्मं देशयन्ति ते सर्वे ऽपि वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषंते ऽधितिष्ठन्त्य् अन्योन्यम् अनुमोदन्ते / ये ऽनागते ऽध्वनि दशसु दिक्षु अन्योन्यासु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति ते ऽपीमां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं (कुरुमिय 115) नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषिष्यंते अधिष्ठास्यन्त्य् अन्योन्यं चानुमोदिष्यंति //
अथ खलु तेषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा महासत्त्वास् ते तान् प्रतिप्रतिबुद्धान् भगवतः परिप्राक्षुः / कतमासौ भगवन्न् अस्माभिर् अश्रुतपूर्वा वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनी धारणीमुद्रापदप्रभेदप्रवेशव्याकरणी यम् एवं बहुगुणाकारी / एवम् अचिन्त्यधर्मगुणसमन्वागता सर्वधर्मानावरणालोककरी यावद् उपशमकरी / देशयतु भगवांस् तां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं सर्वमारबलविषयप्रमर्दनकरीं यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वापणीं बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च //
अथ खलु ते बुद्धा भगवन्तस् तान् बोधिसत्त्वान् एवम् आहुः / वयम् अपि कुलपुत्रास् तां सहां लोकधातुं गमिष्यामो यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः / ये ऽपि दशसु दिक्षु बुद्धा भगवन्त एतर्हि तिष्ठन्ति ध्रियन्ति यापयंत्य् अन्योन्यासु लोकधातुषु ते सर्वे बोधिसत्त्वगणपरिवृताः श्रावकसंघपुरस्कृताः तां सहां लोकधातुं गमिष्यन्ति यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धस् तेन (कुरुमिय 116) शाक्यमुनिना तथागतेन सार्धम् इमां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषिष्यंते ऽधिष्ठास्यंत्य् अन्योन्यं चानुमोदिष्यंति सर्वसत्त्वानां हिताय दुश्चरितकर्मनिवारणाय भद्रचर्याप्रपूरणायानुत्तरज्ञानपरिपूरणाय / ते सर्वे बुद्धा भगवन्तो ऽद्य तां सहां लोकधातुं सन्निपत्य बोधिसत्त्वगणपरिवृताः श्रावकसंघपुरस्कृता इमां वज्रधर्मसमतां प्रतीत्यधर्महृअदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषिष्यन्ति / तद् यो युष्माकम् इच्छति तां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं श्रोतुं तांश् चाप्रमेयासंख्येयां गंगानदीवालुकोपमान् एककल्पैकबुद्धक्षेत्रे बुद्धान् भगवतः तिष्ठतह् पूजयितुं तांश् च धर्मां श्रोतुं तांश् च सर्वबुद्धबोधिसत्त्वदेवविषयसर्वमारविषयबुद्धक्षेत्रालंकारव्यूहान् द्रष्टुं तांश् च बहुबुद्धान् सन्निपतितान् अदृष्टाश्रुतपूर्वान् द्रष्टुं त एतर्ह्य् अस्माभिः सार्धं गच्छतु तां सहां लोकधातुं यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः //
अथ ते बोधिसत्त्वा महासत्त्वास् तां बुद्धान् भगवन्त एवम् आहुः / एवं भदन्त भगवङ् गच्छामो वयं तथागतेन सार्धं तां सहां लोकधातुं यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हां सम्यक्संबुद्धस् ताम् अश्रुतपूर्वां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं (कुरुमिय 117) धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं श्रवणाय / तत्र वयम् एककाले एकसमयैकबुद्धक्षेत्रे-न्-अप्रमेयासंख्येयान् बुद्धान् भगवतः तिष्ठतो ध्रियतो यापयतो पूजयिष्यामः तेभ्यो धर्मम् अपि श्रोष्यामः / तत्र च वयं चतुर्भी ऋद्धिविषयव्यूहैस् तां सहां लोकधातुं समलंकृतां द्रक्ष्यामः / तांश् च महासन्निपातव्यूहान् द्रक्ष्यामः / सचेद् वयं तत्र बुद्धक्षेत्रे तस्यां धाऋअण्यां भाष्यमाणायां स्थानं लप्स्यामहे तांश् च बुद्धां भगवतो वन्दितुं शक्ष्यामः पर्युपासितुं पूजयितुं धर्मं च श्रोतुं तांश् च यथासन्निपतितान् बोधिसत्त्वान् महासत्त्वान् इति //
अथ ते बुद्धा भगवन्तः प्रतिप्रतिबुद्धक्षेत्रे तान् स्वान् बोधिसत्त्वां महासत्त्वांस् तांश् च महाश्रावकान् एवम् आहुः / मा यूयं कुलपुत्रा एवङ् काङ्क्षत मैवं विचिकित्सध्वं चात्र लोकधातौ प्रवेशस्थानावकाशं प्रति / तत् कस्य हेतोः / अनन्तो बुद्धानां भगवतां बुद्धविषयावतारसमताज्ञानकौशल्यसत्त्वपरिपाकः / विस्तीर्णावकाशः स कुलपुत्रा शाक्यमुनिस् तथागतो महोपायकौशल्येन समन्वागतः / ये केचित् कुलपुत्राः सत्त्वाः सत्त्वधातुसंग्रहसंगृहीताः धात्वायतनसंनिशृतास् (कुरुमिय 118) तेषां सत्त्वानां सचेद् एकैकस्य सुमेरुप्रमाण आत्मभावो भवेत् परिकल्पम् उपादाय शक्तः स शाक्यमुनिस् तथागतस् तान् सर्वसत्त्वान् एवंरूपात्मभावान् एकस्मिन् सर्षपफले प्रवेशयितुं / एकैकश् च सत्त्वो विस्तीर्णविषयावकाशः स्यान् न च परस्परं ते चक्षुष आभासम् आगच्छेरन् / न चैकस्यैकस्य सर्षपफलस्य सर्वसत्त्वमहात्मभावप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत / एवंरूपेण कुलपुत्रा उपायकौशल्येन समन्वागतः स शाक्यमुनिस् तथागत इति //
पुनर् अपरं कुलपुत्रा यावत् कर्कशत्वं तत् सर्वं पृथिवीधातु / शक्तः स शाक्यमुनिस् तथागतस् तं सर्वपृथिवीधातुम् एकरजाग्रे प्रवेशयितुं / न च तस्यैकरजाग्रस्य सर्वपृथिवीधातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत / एवंरूपेणोपायकौशल्येन समन्वागतः स शाक्यमुनिस् तथागतः // पुनर् अपरं कुलपुत्रा यत् किंचिद् आर्द्रत्वं वा प्रज्ञायते तत् सर्वं अब्धातु / शक्तः स शाक्यमुनिस् तथागतस् तं सर्वम् अब्धातुम् एकवालाग्रे प्रवेशयितुं / न च तस्यैकस्य वालाग्रस्य सर्वाब्धातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत // पुनर् अपरं कुलपुत्रा यः कश्चिद् वायुधातुः प्रज्ञायते शक्तः स शाक्यमुनिस् तथागतस् तं सर्वं वायुधातुम् एकस्मिन् रोमकूपे प्रक्षेप्तुं / तत्र च सर्वो वायुधातुस् तस्मिन् एकरोमकूपे (कुरुमिय 119) प्रवेशितो ऽपि विस्तीर्णावकाशः स्वविषयवत् संचरेत् // पुनर् अपरं कुलपुत्रा यावद् उष्णत्वं प्रज्ञायते तत् सर्वं तेजोधातु / उत् ............... गतः / स च सर्वस् तेजोधातुस् तस्मिन् परमाणुरजसि विस्तीर्णावकाशः स्वविषयवत् संचरेत् //
पुनर् अपरं कुलपुत्रा यानि कानिचिद् दशसु दिक्षु बुद्धक्षेत्राणि तानि सर्वाणि सार्धं तैः सर्वसत्त्वैस् तैश् चतुभिर् महाभूतैः शक्तः स शाक्यमुनिस् तथागत एकरजाग्रे प्रवेशयितुं / शक्तस् तस्मिंश् च परमाणुरजसि ते सर्वसत्त्वाः सह तैर् महाभूतैः स्वविषयकर्मान्तचारिणो विस्तीर्णावकाशा विचरेयुः / न च परस्परं विहेठा भवेन् न च तस्यैकरजाग्रस्योनत्वं वा पूर्णत्वं वा प्रज्ञायेत / एवंरूपेणोपायकौशल्येन समन्वागतः स शाक्यमुनिस् तथागतः / पुनर् अपरं कुलपुत्रा यावन्ति सर्वत्र्यध्वानुगतानां सत्त्वानां षडायतनचर्योपादानप्रणिधानाधिष्ठानवाक्पथरुताक्षरवाग्व्याहारतृसंस्कारकर्मान्तकृयास्कन्धविचारोपचयनानोपचरणानि या च सर्व ................. क्रान्ता यावन्तश् च सर्वसत्त्वानां त्र्यध्वानुगता उपभोगपरिभोगाः सुखदुःखप्रतिसंवेदनीयाः तान् सर्वान् एकक्षणे स शाक्यमुनिस् तथागतः प्रजानाति / एवंरूपेण लक्षणविकुर्वाज्ञानेन स (कुरुमिय 120) शाक्यमुनिस् तथागतो ऽकल्पो निर्विकल्पो ऽनाभोगः त्र्यध्वकोटीपरिज्ञातावी / एवंरूपेण कुलपुत्रा अप्रमेयेन बुद्धविषयावतारज्ञानकौशल्यसमतासत्त्वपरिपाकोपायैः समन्वागतः स शाक्यमुनिस् तथागत इति // अस्मिं खलु पुनर् लक्षणानि ............... तथागतानां प्रतिप्रतिपर्षदो ऽप्रमेयासंख्येयानि बोधिसत्त्वशतसहस्राणि प्रणिधानर्द्धिविषयज्ञानपारंगतान्य् अभवन् // //
महासन्निपातान् महायानसूत्राद् रत्नकेतुपरिवर्तात् पंचमो लक्षणपरिवर्तः समाप्तः //
vi.
तेन खलु पुनः समयेन पूर्वदिग्भागाद् अभिरत्याः लोकधातोर् अक्षोभ्यो नाम तथागतो ऽप्रमेयासंख्येयैर् बोधिसत्त्वैर् महासत्त्वैः सार्धं बुद्धविषयविकुर्वणाधिष्ठानबलेन संप्रस्थित एकक्षणमात्रेणेदं बुद्धक्षेत्रम् अनुप्राप्तो मध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः / आगत्य च यथाप्रादुर्भूते पद्मासने ऽस्थात् / ते ऽपि बोधिसत्त्वा महासत्त्वाः स्वर्द्धिबलेन यथाप्रादुर्भूतेषु पद्मासनेषु तस्थुः / एवंप्रमुखाप्रमेयासंख्येया बुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः तिष्ठंतो ध्रियन्तो यापयन्तस् तेन क्षणलवमुहूर्तेनेदं बुद्धक्षेत्रं मध्यमां चातुर्द्वीपिकां लोकधातुं संप्राप्ता एकैकस् तथागतो ऽप्रमेयासंख्येयैर् बोधिसत्त्वमहासत्त्वैः श्रावककोटीनयुतशतसहस्रैश् च सार्धं यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः / आगतागताश् च यथाप्रादुर्भूतेषु पद्मासनेषु न्यषेदुः /
तेन खलु पुनः समयेन दक्षिणदिग्भागाद् रत्नध्वजो नाम तथागत आगत्य यावद् विस्तरेण पद्मकेसरे न्यषीदत् / एवम् उत्तरदिग्भागाद् (कुरुमिय 122) दुन्दुभिस्वरो नाम तथागत आगत्य पद्मकेसरे न्यषीदत् / तेन खलु पुनः समयेन पश्चिमदिग्भागाद् अमितायुर् नाम तथागत आगत्य यावत् पद्मकेसरे न्यषीदत् / यावद् अधस्ताद् वैरोचनो नाम तथागत आगत्य यावत् पद्मकेसरे न्यषीदत् / अग्रदिग्भागाञ् ज्ञानरश्मिराजा नाम तथागतो ऽप्रमेयासंख्येयैर् गंगानदीवालुकोपमबुद्धक्षेत्रपरमाणुरजःसमैर् बोधिसत्त्वैर् महासत्त्वैः कोटीनय्तुतशतसहस्रैः सार्धं बुद्धविषयविकुर्विताधिष्ठानेन ततः संप्रस्थित एकचित्तक्षणेनेदं बुद्धक्षेत्रं संप्राप्तो मध्यमां चातुर्द्वीपिकां लोकधातुं यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्दः / आगत्य यथाप्रादुर्भूते पद्मसिंहासने न्यषीदत् / ते ऽपि बोधिसत्त्वा महासत्त्वा यथैकैकपुण्यर्द्धिबलाधिष्ठानेन निर्मितेषु पद्मासनेषु न्यषेदुः / ते च दशदिक्संनिपतिता बोधिसत्त्वाः केचिज् जाम्बूनदसुवर्णवृष्टिं ववर्षुः बुद्धानां भगवतां पूजाकर्मणे / ............. ः कृत्स्नं बुद्धक्षेत्रं प्रदक्षिणं चक्रुः / केचिद् धर्मश्रवणतृषिता बुद्धानां भगवतां पुरतः प्राञ्जलयस् तस्थुः / केचित् ............. उः //
तेन खलु पुनः समयेन सुभूतिः कुमारभूतः प्रांजलिर् भूत्वा स्वर्द्ध्यनुभावेन बुद्धानां भगवतां बलाधानेन चेमं बुद्धक्षेत्रम् अशेषं गीतेन पूरयन्न् एवम् आह /
सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता / अदृष्टाश्रुतपूर्वेयं संघसंपत् प्रदृश्यते // rkp_6.1
+ + + + + + + + + + + + + + + + / चैत्यभूतम् इदं क्षेत्रं सर्वक्षेत्रनमस्कृतं // rkp_6.2
नाहेतुर् अद्य संबुद्धा आगता मुनिभास्कराः / पंचकषाय + + + + + + + + + + + // rkp_6.3
+ + + अद्य माराणां कृष्णपक्षप्रपातनं / संग्रहः शुभचर्याणाम् इत्य् अर्थं हि समागताः // rkp_6.4 शृणुध्वं धर्मतां शान्तिम् + + + + + + + + / + + + + + + + भूत्वा संबुद्धा हि भविष्यत // rkp_6.5 मार्गचर्यं महायानं ज्ञास्यत क्षान्तिवर्मिताः / सर्वक्लेशक्षयार्थं श्रोष्यथाद्य धारणीम् इमाम् // rkp_6.6 + + + + + + + + + + + + + + + कान् / आसनेषु निषण्णा हि रक्षां वै देशयन्त्व् इमाम् // rkp_6.7 संग्रहः सर्वधर्माणां धारणीम् अपराजितां / + + + + + + + + + + + + + + + + // rkp_6.8
अथ खलु तावद् एवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिसत्त्वा महासत्त्वा एककण्ठेनैवम् आहुः / निषीदन्तु बुद्धा भगवन्त एषु पद्मासनेषु देशयन्त्व् अद्य महाकारुणिका उत्तरमहामैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रहणीं भय ............... करणीन् मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक्लेशावमर्दनीं (कुरुमिय 124) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनीं ............... सर्वरक्षाम् अनुत्तरां सर्वबोधिसत्त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञानदर्शनीं सर्वसुखसंपन्नायतनाधिष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणीं यावत् सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ................ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ................ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये / बुद्धा भगवंत इहास्माकम् एतर्हीमां धारणीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै रत्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स .................. ल्पसत्त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणाभावभूतकोट्यसंभेदतायै पृथिव्यप्तेजोवाव्याकाशविज्ञानधात्वसंभेदतायै / सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाषन्तां यद् इह सहश्रवणेनाप्रमेयाणि (कुरुमिय 125) सत्त्वकोटीनयुतशतसहस्राणि त्रिरत्नेषु साक्षिणो भवेयुः /
परस्परं च सत्त्वाः कल्याणमित्रहितकारिणो भवेयुः / अप्रमेयासंख्येयाश् च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयेयुर् अवैवर्तिकाश् च भवेयुर् व्याकरणानि च प्रतिलभेरन् / सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास् तूष्णींभूताः ............ तेषु पद्मकेसरेषु / तादृशं च बुद्धविषयप्रणिधानसमतावतारं समाधिं समापेदिरे / यथा सर्वबुद्धक्षेत्रान्तर्गतानां ............... च बुद्धानां भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गतानां ...................... श् चित्तचैत्तेषु प्रशेमुः / एकैकश् च सत्त्वः एवं संजानीते / ................. c. त्. मामचैकस् तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ................ //
तेन खलु पुनः समयेन ये ऽस्मिं कृत्स्ने बुद्धक्षेत्रे ऽन्तर्गताः (कुरुमिय 126) सर्वसत्त्वाः सर्वेन्द्रियोपस्तब्धाः प्राञ्जलयस् त एककण्ठेनैवम् आहुः / देशयन्त्व् अस्माकं बुद्धा भगवन्तो धर्मं / देशयंत्व् अस्माकं भदन्ताः सुगात धर्मं / वयं बुद्धानां भगवतां धर्मेषु प्रतिपत्त्या ............... //
तेन खलु पुनः समयेन स शाक्यमुनिस् तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वम् इदं बुद्धक्षेत्रं स्फुटम् अध्यतिष्ठद् अपरेषां बुद्धानां भगवतां पूजाकर्मणे / सर्वबुद्धक्षेत्रान्तर्गतांश् च सर्वसत्त्वान् नानारत्नपुष्पमाल्यविलेपनैर् नानाच्छत्रध्वजपताकालंकारविभूषणैः पूर्णहस्तान् अधिष्ठायावशिष्टानां बुद्धानां भगवतां पूजाकर्मणे / एवम् आह / समन्वाहरंतु बुद्धा भगवन्तो ये केचिद् एतर्हि दशसु दिक्ष्व् .......... / अहं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नष्टाशयानां (कुरुमिय 127) प्रनष्टमार्गाणाम् अविद्यान्धकारतिमिरपटलक्लेशान्धकारप्रक्षिप्तानां त्र्यपायसंप्रस्थितानाम् अकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिवर्जितानाम् आनन्तर्यकारिणां सद्धर्मपरिक्षेपकानाम् आर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमनाय ........ / ग्रामनगरनिगमजनपदराजधानीं पद्भ्याम् उपसंक्रमामि / सत्त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलम् आहारं भुनज्मि / ............ कर्पास.ंगचीवरपांसुकूलानि प्रावृणोमि / पर्वतगिरिकन्दरवनषण्ड ....... र्शं शय्यासनं परिभुनज्मि / उपायकौशल्यमहाकरुणावीर्यसंनाहसंनद्धो ऽहं सत्त्वेभ्यो नानाद्यां कथां कथयामि / क्षतृयेभ्यो राजैश्वर्यकथां कथयामि / ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि / अमात्येभ्यो (कुरुमिय 128) जनपदकर्मान्तकथां वैद्येभ्यो धात्वौषधिसाधनकथां वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः क्षान्तिसौरत्यत्रिकर्माभियुक्तां कथां कथयामि / सत्त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि / अनधिगतस्याधिगमाय / असाक्षात्कृतस्य साक्षात्क्रियायै / अमुक्तानां प्रमोचनाय नानाद्यानि दुःखान्य् उत्सहामि / सत्त्वपरिपाकाय जनपदचर्यां चरामि //
अथ च पुनर् इमे सत्त्वास् तत्र माम् आक्रोशंति परिभाषन्ति ............ धर्मेणाभूतेनाभ्याख्यान्ति / कुहनलपनमायाशाठ्यमृषावादपारुष्यैः स्त्रीवचनैर् अभ्याख्यान्ति / पांसुभिर् माम् अवकिरंति / शस्त्रविषाग्निचक्रतोमरशरखड्गशक्तिपरश्वधशिलायुधवृष्टिभिर् मम वधाय पराक्रमंति / हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश् च मद्वधायोत्सृजन्ति / ममावासविहारकूटागारान् आशुचिना दुर्गन्धेनापूरयन्ति / मच्छ्रावकाणां चान्तर्नगरम् (कुरुमिय 129) अनुप्रविष्टानाम् इमे अनार्याः सत्त्वा अनाचारेण नृत्यगीतेनानुविचारिनः / अनेकैः शतसहस्रोपायैर् मद्वधायोद्युक्ताः / शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदाय मद्धर्मयज्ञावकिरणायोद्युक्ताः //
तत् खल्व् एतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां धर्मनेत्रीं व्यवलोकयन्ति / यथा तैर् बुद्धैर् भगवद्भिर् अस्मिं क्लिष्टे पंचकषाये बुद्धक्षेत्रे महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दनार्थं त्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूलवर्धनार्थं सर्वामित्रपरप्रवादिसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टिवायुकायवाङ्मनोदोषकुदृष्टिप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्रामनिगमराष्ट्ररक्षणार्थं सर्वशाठ्यविषकाखोर्दमोहनदुःस्वप्नदुर्निमित्तविनाशनार्थं (कुरुमिय 130) सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधिचित्तोत्पादनार्थं पारमितावतारणार्थं बोधिसत्त्वानां महासत्त्वानाम् उपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थम् अभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यम् अनुमोदितः / ते साध्व् एवम् एवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठंतो ध्रियन्तो यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास् ते सर्वे ऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वम् अधितिष्ठतान्योन्यं भाषितम् अनुमोदध्वं सद्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावद् अनावरणज्ञानपारंगमार्थम् अनुकंपायै ममाध्येषणाय यद् इह बुद्धक्षेत्रे सद्धर्मनेत्री चिरं तिष्ठेद् अनतिक्रमणी सर्वपरप्रवादिभिर् अविप्रलोपधर्मिणी स्यात् / त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः (कुरुमिय 131) स्यात् /
अथ ते बुद्धा भगवंत एवम् आहुः / एवम् एतद् अवश्यम् एवास्माभिर् बुद्धकार्यं करणीयम् / इह बुद्धक्षेत्रे धर्मनेत्रीम् अधिष्ठास्यामश् चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावद् अनावरणज्ञानपारंगमाय यद् इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषिष्यामः / शृण्वन्तु सर्वसत्त्वा ये केचिद् इह बुद्धक्षेत्रे ऽन्तर्गताः // तद्यथा /
अङ्कर अङ्गर / भङ्कर प्रभङ्कर / भयम् इह / मित्रं भसे / अखे अखमंबरे / दोमे दोमन्ते केवट्टे केयूरे / समवहने / समन्तभद्रे / धर्मे धर्मे / धर्मके / जफले / मित्रानुफले / फलवते / गणे गणबरंते / हिलि हिलि / हिला हिलके / जंभवते टकसे टकंते / टकवरान्ते / गणवहन्ते / हिरिन्ते / शिरिन्ते / विन्दुवते / गोवाहे जुरे मित्रजुरे / जुसे अग्रे / अबमे सत्य तथतां / (कुरुमिय 132) हुलु / हिले / चन्द्रे / सम धर्मे / धर्मे / कुचुरु / मुचुरु / अचिट्ट चिलि चिलि / चिचवह / चुलु चुलु / मित्रवह कुलु कुलु / सर सर / कुटु कुटु / महासर / तुटु तुटु / महासत्य हृदय / पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे / करक्षे / अभयम् अस्तु विवाह / तितिले / ममले / पश्वख / शिशिर लोकविनायक / वज्रे वज्रे धरे / वज्रवते / वज्रददे / चक्रवज्रे चक्रे / चवते धरे धरे / भरे भरे पूरे टरे / हुहुरे / भंगविवरे / शरीश / चिलि चुरु / मूले मण्डले / मण्डने / गगरणे / मूडके सर्वमूडके / धिधिरयनि / मखिश्वरलयनि / (कुरुमिय 133) रिषिजनि / धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना / ममिनि / फलरति ओजाग्रे / विचिनि / वनरह / बुबुरे गुरु गुरु मुरु मुरु / हिलि हिलि / हर हर / काकण्डवह हिहितां / आयुहन / कुण्ड ज्वाल भसे / गर्दने / आदहनि / मार्गाभिरोहणि / फलसत्ये / आरोहवति / हिलि हिलि / यथा वजय / स्वाग्र यथापरं च हृदयबाहसत्य / परिभाव / मार्गाभिरोहणे / अचल / बुद्धि / दद प्रचल पचय / पिण्डहृदय चन्द्रचरह / अचले / शोधने /
प्रकृतिमार्गे इलि इलिले प्रभे सारप्रते सर्वत्र तथता सत्यानुगते / (कुरुमिय 134) अनावरणब्रते / अलत / अंगुरे शामिनि / विब्रह्मवयो हि अहित / अवाहि / निरवयव / अचिरमार्ग / लन लघुसरे / त्रिरत्नवंशे धर्मकाय / ज्वलचन्द्रे समुद्रवति / महाद्भूतव्यय समुद्र वेगव / धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविद् अमुद्र / आवर्तनि / संमोह स्कार विद्युतरसेन / क्षिति मुद्रितो सि / ये केचि प्रथिवी वाह / बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर धर धर / दन्तिला दन्तिन्दाला / हुस्क सर्वहृदय मुद्रितो सि / जड जवट्ट जखवट / सुमति मति / महाद्भूत मुद्रिता / ये केचि षडायतननिशृता भूता इनि मिने सचने / घोषसचने / मुद्रिता चर्याधिष्ठान / वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता / सर्वसम्यक्प्रतिपत् (कुरुमिय 135) चिररात्रं ज्वलतु धर्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा //
अथ तावद् एव सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास् त्रिष्कृत्वैवम् आहुः / नमः सर्वबुद्धेभ्यः / नमो नमः सर्वबुद्धेभ्य इति / एवम् चाहुः / अहो महाश्चर्यो मुनिसन्निपातः / अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च सन्निपातः / अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायः सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वंसनो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् एतर्हि सर्वबुद्धैर् भगवद्भिर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वसत्त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानाम् अनुत्तरपरिनिर्वाणप्रतिलाभाय / अस्मिं खलु पुनर् धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां (कुरुमिय 136) बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् //
तेन खलु पुनस् समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर् भूत्वा समन्ततो ऽवलोक्य बुधाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वम् इदं बुद्धक्षेत्रं स्वरेणापूर्यैवम् आह /
दुर्लभा जिनचन्द्राणाम् ईदृशी परिषत् पुनः / विद्वांसो दुर्लभाश् चेमे बोधिसत्त्वा महाव्रताः // rkp_6.19 ईदृशायाश् च मुद्रायाः श्रवणं परमदुर्लभम् / येयं कारुणिकैर् नाथैर् धर्मनेत्री स्वधिष्ठिता // rkp_6.20 सर्वेषां मारपक्षाणां शत्रूणां च पराजयः / रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः // rkp_6.21 सर्वावरणनाशाय क्षान्तिसौरत्यवर्धनी / सत्त्वानाम् आवर्जनी चेह राज्यराष्ट्रस्य पालनी // rkp_6.22 वारणी दुष्कृतस्येह कुदृष्टिप्रतिषेधनी / आश्वासो बोधिसत्त्वानां बोधिमार्गप्रदर्शनी // rkp_6.23 पारमितावर्धनी चैव भद्रचर्याप्रपूरणी / उपायज्ञानप्रतिभानवृद्धये स्वधिष्ठिता // rkp_6.24 संग्रहः शुक्लपक्षस्य धारणी स्वपराजिता / निरञ्जाना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् // rkp_6.25 सर्वां विनीय विमतिन् धारणीम् अधिमुच्यते / एष वै सकलो मार्गो येन बोधिः प्रवर्तते // rkp_6.26 वयं भूयः प्रवक्ष्यामो धारणीम् अपराजितान् / धर्मभाणकरक्षायै श्रोत्रीणाम् अभिवृद्धये // rkp_6.27 छन्दं ददाति को न्व् अत्र बोधिसत्त्वो महायशाः / अनावरणभावाय सत्त्वानां हितवृद्धये // rkp_6.28
तेन खलु पुनः समयेन गंगानदीवलुकासमाः कुमारभूता बोधिसत्त्वा महासत्त्वा एककण्ठेनैवम् आहुः / वयम् अप्य् अस्यान् धारण्यां छन्दं ददामो ऽधिष्ठामः / यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंछन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते च्छत्रध्वजपताकोच्छ्रेपिते स्वलंकृते मण्डलमाडे मृदुसुखसंस्पर्शे सिंहासने ऽभिरुह्येमान् धारणीं संप्रकाशयेत् / न चास्य कश्चिच् चित्तसंक्षोभं धातुसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति / न चास्य कश्चित् काये श्वासं मोक्ष्यति / शीर्षरोगं च कर्तुं शक्ष्यति / नेदं स्थानं विद्यते / न कायरोगं वा न जिह्वारोगं न दन्तरोगं नास्थिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठिरोगं नान्त्ररोगं नोदररोगं न श्रोणीरोगं नोरुरोगं न जंघारोगं कश्चित् कर्तुं शक्ष्यति / न चास्य स्वरसंक्षोभो भविष्यति यश् (कुरुमिय 138) च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमान् धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति / कर्मपरिक्षयात् स्वस्तिर् भविष्यति / ये ऽपि तत्र धार्मश्रावणिकाः सन्निपतिष्यंति तेषाम् अपि न कश्चिद् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा / ये च तत्रेमान् धारणीं श्रोष्यंति तेषां यद् अशुभेन कर्मणा दीर्घगैलान्यं धातुसंक्षोभो वा स्वरसंक्षोभो वा स्यात् तत् सर्वं परिक्षयं यास्यति //
अथ खलु चन्द्रप्रभः कुमारभूतः येन ते बुद्धा भगवन्तो गंगानदीवालुकासमा बोधिसत्त्वपरिवारास् तेनांजलिं प्रणम्यैवम् आह / समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददन्तु // तद्यथा /
क्षन्ते असमारोपे / मेत्रे सोमवते / एहि नवकुंजवे नवकुंजवे नवकुंजवे / मूलशोधने / वढक वढक / मारवतथता परिच्छेद बढसे बढसे / अमूल अचले दद प्रचला / विधिले एकनयपरिच्छेद / चण्डतृणे बोसरे बोसरतृणे / खगसुरतृणे स्नवसुरतृणे भूतकोटी (कुरुमिय 139) परिच्छेद / जलख / जलख / वये जलख / नमक्षख / ककख / ह ह ह ह / फु फु फु फु / स्पर्शवेदनपरिच्छेद / अमम / न्यमम ख्यमम समुद्र मुद्रबख संस्काराणां परिच्छेद बोधिस क्षितिविम / महाविम भूतकोटि आकाशश्वासपरिच्छेदे स्वाहा //
तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिसत्त्वा महासत्त्वास् ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रास् ते च महौजस्कमहौजस्काः सत्त्वाः सर्वे साधुकारं प्रददुः / ते च बुद्धा भगवन्त एवम् आहुः / महाबलवेगवती सर्वशत्रुनिवारणी बतेयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमित्तमोक्षणी यावद् अनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्देयं धारणी भाषिता //
तेन खलु पुनः समयेन भूतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायुषः पुरतो निषसाद / परमवर्णपुष्कलतया समन्वागतः दिव्यातिक्रान्तैः परमोदारैर् वस्त्रालंकारैः पुष्पगन्धमाल्यविलेपनैश् चाभ्यालंकृतः / अथ भूतेश्वरो महाब्रह्मा उत्थायासनाद् अंजलिं प्रणाम्यैवम् आह / अधितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयं / न च मे ऽत्र कश्चिद् विघ्नो (कुरुमिय 140) भवेत् / यावद् अहम् एतर्हि धर्मभाणकानां धार्मश्रवणिकानां चार्थे तादृशीं मन्त्रपदरक्षां भाषेत / यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो व नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो नागपार्षदि वा नागपोतको वा नागपोतिका वा विस्तरेण कर्तव्यम् / यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो पिशाचपार्षदि वा पिशाचपोतको वा पिशाचपोतिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धार्मश्रवणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतांतशो धर्मभाणकानां धार्मश्रवणिकानां वा एकरोमकूपम् अपि विहेठयेद् विहिंसयेद् विप्रलोपयेद् ओजो वाहरेच् छ्वासं वा काये प्रक्षिपेद् दुष्टचित्तो वा प्रेक्षेतान्तशः एकक्षणम् अपि तेषाम् अहं माराणां यावन् मनुष्यामनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्यां जम्भनं मोहनं शपथं दद्यां / अधितिष्ठंतु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणापूरयेयं / कश् चात्र मे साहयो भविष्यतीति //
अथ खलु ते बुद्धा भगवन्तस् तूष्णींभावेनाधिवासयाम् आसुः / तत्र (कुरुमिय 141) च शिखिन्धरो नाम शक्रः जांबूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः / अथ शिखिन्धरश् शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह / मा भगिन्य् अमितायुषस् तथागतस्य पुरतो निषीदस्व / मा भगिन्य् अत्र प्रमद्यस्व / मा भगवन्तं विहेठय / तत् कस्य हेतोः /
प्रपंचाभिरता बाला निष्प्रपंचास् तथागताः / संस्कारं दर्शयन्ते चोत्पादव्यवलक्षणम् // rkp_6.29
सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तस् तथागतः / न भगिनि तथागतस् तथतां विरोधयत्य् एकसमतया तथतया / यदुताकाशसमतया / आकाशम् अप्य् असमारोपतृसंस्कारव्ययलक्षणं / यथाकाशम् अकल्पम् अविकल्पं संस्कारेषु / एवम् एव तथागतः कामगुणान् न प्रपंचयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति / एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धधात्वायतनानि प्रपंचयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति / कथं नाम त्वं भगिनि तथागतकायं प्रपंचयसि / अमितायुस् तथागत आह / समीक्ष्य देवानाम् इन्द्र वाचं भाषस्व / मा ते स्याद् दीर्घरात्रम् अनिष्टं फलं / महासत्पुरुषो ह्य् एष बहुबुद्धकृताधिकारो ऽवरोपितकुशलमूलो बुद्धानां भगवताम् अन्तिके /
अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपम् अभिनिर्मितं / मा त्वम् एनं स्त्रीवादेन समुदाचरे /
अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह / क्षमस्व कुलपुत्र ममानुकंपाम् उपादाय / मा चाहम् अस्याभिभाषितस्यानिष्टं (कुरुमिय 142) फलं प्राप्नुयाम् इति //
अथ कौतूहलिको बोधिसत्त्व आह / यदि भगवञ् छक्रेणेदं वचनम् अप्रतिदेशितम् अभविष्यत् कियांश् तस्य फल्विपाकः / अमितायुषस् तथागत आह / यदि कुलपुत्रानेन न प्रतिदेशितम् अभविष्यच् चतुरशीतिर् जन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीतः स्यात् / तस्मात् तर्हि रक्षितव्यं वाक्कर्म / प्रतिभातु ते कुलपुत्राधिष्ठितस् तथागतैः तव स्वरमण्डलवाग्व्याहारः //
अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्रांजलिर् दशदिशो व्यवलोक्यैवम् आह / समन्वाहरंतु मां बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वा महाश्रावकाश् च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश् चात्र च्छन्दं ददन्तु यस्यायम् अभिप्रायः स्याद् इयं धर्मनेत्री चिरस्थितिका भवेद् धर्मभाणकानां धार्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठा भवेद् इति / स च मे च्छन्दं ददातु यत् पश्चिमे काले न मारा यावन् मनुष्यामनुष्यास् तेषां विहेठां कुर्युः / अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय ..... .आय च स्वरशब्दं मुमोच / तेन च शब्देन सर्वाम् इमां लोकधातुम् आपूरयाम् आस //
तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवम् आहुः / (कुरुमिय 143) वयम् अपि अस्यां धारण्यां छन्दं ददामः / स्वयं च पश्चिमे काले इमान् धारणीं धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामस् तांश् च धर्मभाणाकान् धार्मश्रावणिकांश् च प्रतिपत्तियुक्तान् रक्षिष्यामः / वद त्वं सत्पुरुष / वयं बुद्धानां भगवतां बोधिसत्त्वानां महासत्त्वानां च महाश्रावकानाम् च पुरतो ऽस्यान् धारण्यां छन्दं ददामः //
अथ खलु भूतेश्वरो ब्रह्मा एवम् आह / अधितिष्ठंतु मे बुद्धा भगवंतो बोधिसत्त्वा महासत्त्वा महाश्रावकाश् च // तद्यथा /
अमले विमले गणषण्डे / हारे चण्डे महाचण्डे चमे महाचमे सोमे स्थामे / अबह विबह / अंगजा नेत्रखवे मूलपरिच्छेदे यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि संकारणि जंभनि मोहनि / उच्छाटनि हमह / मह मह मह आकुंचने / खगशव / अमल / मूल मूलपरिवर्तते असारखव स्वाहा //
य इमान् अतिक्रमेन् मन्त्रान् न चरेद् गणसंनिधिं / अक्षि मुष्येत् स्फलेत् शीर्षम् अंगभेदो भवेद् अपि // rkp_6.30
तद्यथा /
अच्च अवह चचचु क्रक्ष चचट कचचा नखग चच / चच चच / न च हमूल चच / चमूल चचह / अमूल चच / हमूल / मू बडबहा स्वाहा //
अथ तावद् एव सर्वे ब्रह्मेन्द्रा यावत् पिशाचेन्द्राः साधुकारं ददुः / एवं चाहुः / अतीव महासहस्रबलवेगप्रमर्दनान्य् एतानि मन्त्रपदानि / पाशो ऽयं सक्तः सर्वाहितैषिणां भूतानां कुतः पुनस् तेषां जीवितं / भूतेश्वरो ब्रह्मा एवम् आह / ये दुष्टाशया अकृपा अकृतज्ञा भूताः सत्त्वानां विहेठकामा वा मारपार्षद्या वा अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां अवतारप्रेक्षिण उपसंक्रमेयुर् अग्रमहिषीणां पुत्रदुहितॄणां चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानाम् अन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषदारकदारिकाणाम् उपासकोपसिकानां वा धर्मभाणाकानां धार्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां (कुरुमिय 145) वैयापत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः अन्तश एकचित्तक्षणं तेषाम् एकरोमकूपम् अपि विहेठयेयुर् विहिंसेयुर् विप्रलोपयेयुर् ओजो वापहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षेरङ् क्लिन्नदुर्गन्धकायानां तेषां माराणां यावन् मनुष्यामनुष्याणां सप्तधा मूर्धं स्फलेद् अक्षीणि चैषां विपरिवर्तेरन् हृदयान्य् उच्छुष्येरञ् छ्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीणा भूमिश् च तेषां विवरम् अनुप्रयच्छेत् / वायवश् च तांश् चतुर्दिशं विक्षिपेयुः / पांसुभिर् अवकीर्णास् तत्रैव विक्षिप्तचित्ताः पर्यटेयुः / ये भूमिचरास् ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतिर् योजनसहस्राण्य् अधस् तत्रैव तेषाम् आयुःपरिक्षयः स्यात् / ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्नाः स्यु राज्ञां क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद् वैयापत्याभियुक्तानां भिक्षूणां विहेठां कुर्युस् तेषाम् अपि तथैव सप्तधा मूर्धं स्फलेत् / यावत् तत्रैव तेषाम् आयुःपरिक्षयः स्याद् य इमान् मन्त्रान् अतिक्रमेयुः / अपि च यस्मिं विषये ऽयं मारमण्डलापराजितो धारणीमुद्राधर्मपर्यायः प्रचरिष्यति तत्र वयं रक्षावरणगुप्तये (कुरुमिय 146) औत्सुक्यम् आपत्स्यामः / सर्वांश् च तत्र धर्मकामान् सत्त्वान् परिपालयिष्यामः / सर्वां
............................. @folio 72 to 87 are missing including chapters vii to ix@@
x.
...................................................................................................................................................... सर्वो ऽब्धातुः सर्वस् तेजोधातुः सर्वो वायुधातुः सर्व आकाशधतुर् अधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वसत्त्वपरिपाकार्थं यावत् संसारपारंगमनार्थं //
अथ खलु सर्वे ते बुद्धा भगवंतो ये तद्बुद्धक्षेत्रनिवासिनो बोधिसत्त्वा महासत्त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः सत्त्वा ये च चातुर्द्वीपिकायां लोकधातौ नेवासिकास् तान् सर्वान् आमन्त्र्यैवम् आह / युष्माकं मार्षा हस्ते भूयिष्ठतरम् इमां सद्धर्मनेत्रीम् अधिष्ठाय परिन्दामः सर्वसत्त्वपरिपाकार्थं / तथा युष्माभिर् इयं सद्धर्मनेत्री मनसिकर्तव्या उज्ज्वालयितव्या रक्षितव्या यथा न क्षिप्रम् इहायं सद्धर्मः प्रलुज्येत नान्तर्धायेत / ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च इमां महासन्निपातधर्मपर्यायं धारयिष्यंति यावल् लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः (कुरुमिय 148) सद्धर्मधारकाः पुद्गलास् तान् सर्वान् युष्माकं हस्ते न्यायतः परिन्दामः आरक्षपरिपालनतायै / धर्मभाणकाः पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रवणिकाः सद्धर्मधारकाः युष्माभि रक्षितव्याः यावत् परिपालयितव्याः / तत् कस्य हेतोः / येह ते भूतास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वैस् तैस् तथागतैः क्लिष्टे पंचकषाये बुद्धक्षेत्रे सन्निपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परीत्तारक्षायै अनन्तर्धानाय सद्धर्मधारकपुद्गलारक्षायै यावत् सर्वसत्त्वपरिपाकाय / एवम् एव ये भविष्यन्त्य् अनागते ऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः ते ऽपि सर्वे क्लिष्टेषु पंचकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य सत्त्वहितार्थम् एतानि धारणीमन्त्रपदानि भाषिष्यंते / इमां च धर्मनेत्रीम् अधिष्ठास्यंते / सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीम् अनुपरिन्दीष्यंति
रक्षापरिपालनार्थं / तथा वयम् अप्य् एतर्हि युष्माकम् इह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकानिवासिनां च शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै सत्त्वपरिपाकार्थं / तथा युष्माभिर् इयं सद्धर्मनेत्री (कुरुमिय 149) मनसिकर्तव्या प्रोज्ज्वालयितव्या यथा न क्षिप्रम् एव प्रलुज्येत नान्तर्धायेत / ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च सद्धर्मधारकाश् च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका य इमं महासन्निपातं धर्मपर्यायं धारयंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयन्ति धर्मभाणका धार्मश्रवणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस् ते रक्षितव्याः पूजयितव्याः / तत् कस्य हेतोः / सर्वबुद्धाधिष्ठितो ऽयं धर्मपर्यायः / यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येतोद्दिश्येत पर्यवाप्येत वान्तशः पुस्तकलिखितम् अपि कृत्वा धार्येत तेन धर्मरसेन पृथिवीरससत्त्वौजांसि विवर्धिष्यन्ति / तेन यूयम् ओजोवन्तस् तेजोबलवीर्यपराक्रमवन्तो भविष्यंति / परिवारविमानवृद्धिश् च युष्माकं भविष्यति / मनुष्यराजा अप्य् आरक्षिता भविष्यंति / राजैश्वर्येण ते विवर्धिष्यन्ति / सर्वराष्ट्रं च तेषाम् आरक्षितं भविष्यति / तेन च धर्मरसेन सन्तर्पिता जंबुद्वीपराजानः परस्परहितचित्ता भविष्यंति / कर्मविपाकं श्रद्दधास्यंति कुशलचित्ता भविष्यन्त्य् अमत्सरचित्ता हितवस्तुचित्ता सर्वसत्त्वदयाचित्ताः यावत् सम्यग्दृष्टिका राजानो भविष्यन्ति / प्रतिप्रतिस्वविषये ऽभिरंस्यन्ते /
(कुरुमिय 150) अयं च जंबुद्वीपः स्फीत उदारजनाकीर्णो भविष्यति सुभिक्षतरो रमणीयतरश् च भविष्यति / बहुजनमनुष्याकीर्णा ओजोवति च पृथिवी भविष्यति स्निग्धतराणि च मृष्टतरफलानि च पत्रौषधिधनधान्यसमृद्धतरा चारोग्यसुखस्पर्शविहारसंजननी च भविष्यति / सर्वकलिकलहदुर्भिक्षरोगपरचक्रदंशमशकशलभाशीविषदुष्टयक्षराक्षसमृगपक्षिवृकाकालवातवृष्टयः प्रशमिष्यन्ति / सम्यङ्नक्षत्ररात्रिदिवसमासार्धमासर्तुसंवत्सराणि प्रवहिष्यंति / सत्त्वाश् च प्रायो दशकुशलकर्मपथचारिणो भविष्यंति / इतश् च्युताः सुगतिस्वर्गगामिनो भविष्यंति / ते ऽपि युष्मत्परिवारो भविष्यति / एवं बहुगुणमहानुशंसो ऽयं धारणीधर्मपर्यायः / सर्वबुद्धाधिष्ठितो महासन्निपातः सत्त्वानां संस्कारपारंगमाय यशोविवृद्धिपारिपूर्यै भविष्यति निरवशेषमातृग्रामभावपरिक्षयायोपपत्तिवेदनीयो ऽपरपर्यायवेदनीयः संक्षेपाद् (कुरुमिय 151) दृष्टधर्मवेदनीयो ऽपि सो मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वार्यापवादकं वा / यद् अन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति / य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितम् अपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशावरणानि परिक्षयं यास्यंति / सर्वकुशलमूलारंबणानि च विवृद्धिं पारिपूरिं यास्यंति / सर्वांगपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि विवर्धिष्यंति / सर्वकुदृष्टिप्रहाणं सर्वशत्रुसहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति / अस्य सर्वबुद्धाधिष्ठितस्य
महासन्निपातधारणीधर्मपर्यायस्य प्रभावेन //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
