Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
महासंनिपातरत्नकेतुधारणीसूत्र or रत्नकेतुपरिवर्त (=र्क्प्)
- Thông tin
- GRETIL — Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यत्र च विषये पुनर् अयं धारणीधर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति / ओजोवती मृष्टफलरसा भविष्यति / तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति / पुष्पफलसमृद्धतरा धनधान्यकोशकोष्ठागारकुंभकलशवृद्धिर् भविष्यति / वस्त्रान्नपानौषधोपकरणभूयिष्ठतराः ये च तत्रान्नपानोपजीविनः सत्त्वास् ते ऽरोगतरा भविष्यंति वर्णवन्तो बलवन्तः स्मृतिवन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिताः / ते ततश् च्यवित्वा युष्माकं सहभाव्यतयोपपत्स्यंते / (कुरुमिय 152) तया यूयं परिवारवृद्ध्या बलवन्तो ऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यत / सत्त्वान् धर्मार्थेषु नियोक्ष्यत / एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति //
अथ खलु मान्दारवगन्धरोचस् तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नम् इदं बुद्धक्षेत्रम् आपूर्य सर्वे च बोधिसत्त्वा महासत्त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां वचनेन चास्य महासन्निपातसूत्रस्य धर्मनेत्र्या धारणाय प्रकाशनाय रक्षणायोत्साहयाम् आस //
तेन खलु पुनः समयेन मैत्रेयपूर्वंगमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानाम् इह बुद्धक्षेत्रे निवासीनि तानि सर्वाण्य् एककण्ठेनैवम् आहुः / वयम् अपि सर्वबुद्धानां भगवतां वचनेन सर्वनेत्र्यध्वानुगतानां तथागतानां पूजार्थम् इमं धर्मपर्यायं न्यायतः शास्तृसंमतं गुरुगौरवेण प्रतिगृह्णीमः / कारुण्येन सत्त्वपरिपाकार्थं यावद् अनुत्तरे मार्गे प्रतिष्ठापनार्थं वयम् इमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेणोद्द्योतयिष्यामः / सत्त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं / तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस् तद्बुद्धक्षेत्रान्तर्गताः साधुकारं प्रददुः / साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् //
अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चैह बुद्धक्षेत्रे ऽपराणि चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां सत्त्वानां ते सर्वे एककण्ठेनैवम् आहुः / वयम् अपीमं महासन्निपातं धर्मपर्यायम् उद्गृहीष्यामो यावद् विस्तरेण संप्रकाशयिष्यामः समुद्द्योतयिष्यामः सत्त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं / सद्धर्मधारकान् धार्मश्रवणिकांश् च रक्षिष्यामः परिपालयिष्यामः / यत्र चायं धर्मपर्यायः प्रचरिष्यति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानि दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः / क्षेमरमणीयतां सुभिक्षसामग्रीं संपादयिष्यामः / सद्धर्मनेत्रीचिरस्थित्यर्थम् उद्योगम् आपत्स्यामः / भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः / ध्यानाभिरतांश् च सत्त्वान् रक्षिष्यामः / अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः / साधु साधु भद्रमुखा एवं युष्माभिः करणीयं / आत्मोभयपरार्थम् उद्योगम् आपत्तव्यं / एवं च युष्माभिस् त्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति / यत्र हि नाम यूयं सत्त्वपरिपाकार्थं सद्धर्मनेत्र्युज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्युक्ता न चिरेण यूयं क्षिप्रम् अनुत्तरां सम्यक्संओधिम् अभिसंभोत्स्यत //
अथ खलु ये ऽस्यां मध्यमायां चातुर्द्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महौजस्कमहौजस्काः सत्त्वास् ते सर्वे (कुरुमिय 154) उत्थायासनात् प्रांजलयः स्थित्वैवम् आहुः / वयम् अपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीम् उद्द्योतयिष्यामः रक्षिष्यामः / इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्पपर्यायं न्यायतः प्रतिग्रहीष्यामः यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण सम्प्रकाशयिष्यामः / सद्धर्मधारकांश् च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः / ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धार्मश्रवणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्रद्धाः कुलपुत्राः कुलदुहितराश् च इमं धर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति ध्यानाभियुक्ताः तां वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर् यावत् सर्वभैषज्यपरिष्कारैः सत्करिष्यामः / अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयम् उपसंक्रमिष्यामः श्रवणाय / शास्तृसंज्ञया वयम् इमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः छत्रध्वजपताकाभिः / तत् कस्य हेतोः / अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेनौजोवन्तो भविष्यामः / बलवन्तो वीर्यवन्तः स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः /
एवं (कुरुमिय 155) वयं सर्वविषये सर्वां कलिकलहविग्रहविवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानाव्र्ष्टिदुःस्वप्नदुर्निमित्तदुष्टरूक्षपरुषतिक्तकटुकविरसाकुशलपक्षकरान् भावान् प्रशमयिष्यामः / भूयस्या मात्रया क्षेमसुभिक्षान्नरमणीयारोग्यसामग्रीं संपादयिष्यामः / कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः / सम्यग् रात्रिदिवसमासार्धमासर्तुसंवत्सरान् आवाहयिष्यामः / सम्यग् ग्रहनक्षत्रसूर्यचन्द्रमस आवाह्यिषामः / नद्युत्ससरस्तडाकपुष्करिणीः प्रपूरयिष्यामः / यत्र सत्त्वानाम् उदकौघेन पीडा भविष्यति तद् वयं प्रतिनिवारयिष्यामः / भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु सत्त्वहितार्थं पत्त्रशाखापुष्पफलकन्दधान्यौषधसस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः / धनधान्यौषधवस्त्राभरणैः सत्त्वानाम् अवैकल्यं संपादयिष्यामः / तेषां च सत्त्वानां कुशलपर्येष्टि .... येषु गृहनगरनिगमजनपदराजधानीष्व् अयं सर्वबुद्धाधिष्ठितो धारणीमुद्राधर्मपर्यायः प्रकाश्येतान्तशः पुस्तकलिखितम् (कुरुमिय 156) अपि कृत्वा धार्येत वाच्येत वा पूजासत्कारेण वा धार्येत / तेषु ये राजानो भविष्यंति तान् वयं क्षत्रियां मूर्धाभिषिक्तान् रक्षिष्यामः परिपालयिष्यामो ऽहितं चैषाम् अपनयिष्यामो हितं चैषाम् उपसंहरिष्यामः / सर्वकौतुकामङ्गलकुदृष्टिकुकार्यक्वधिष्ठानकुप्रणिधकुशरणकुहनलपनमायाशाठ्यमृषावादेर्ष्यारोषमात्सर्याणि प्रशमयिष्यामः / सम्यग्दृष्टिमार्गे ऋजुके श्रद्धादमसंयमह्री-र्-अवत्राप्येषु सन्नियोक्ष्यामः /
एवम् अग्रमहिषीणाम् अन्तःपुरकाणाम् अमात्यगणकमहामात्रनैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुअषदारकदारिकाणाम् अपि रक्षां करिष्यामः परिपालनं यावद् ध्री-र्-अवत्राप्ये सन्नियोक्ष्यामः / अन्तशश् चतुष्पदान् अपि तेषु विषयेषु रक्षिष्यामः / एष्व् अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल् लिखितम् अपि पुस्तके स्थास्यति / एवंरूपैर् वयं महद्भिर् उद्योगपराक्रमैः तां सत्त्वान् परिपालयिष्यामः / धर्मनेत्रीसमुद्द्योतार्थम् अनन्तर्धानायोद्योगम् आपत्स्यामः //
अथ ते सर्वे बुद्धा भगवन्तस् तेभ्यः सत्पुरुषेभ्यः साधुकारं प्रददुः / साधु साधु भद्रमुखाः / एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास् त्रिरत्नवंशस्य चानंतर्धानायोद्युक्ता एवं युष्माभिः (कुरुमिय 157) सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यतीति // //
रत्नकेतुसूत्राद् दशमः आरक्षापरिवर्तस् समाप्तः // //
xi.
अथ खलु भगवाञ् छाक्यमुनिस् तथागतः शक्रब्रह्मविरूढकविरूपाक्षधृतराष्ट्रकुवेरान् आमन्त्रयति स्म / अहं भद्रमुखा इह क्लिष्टे पंचकषाये बुद्धक्षेत्रे सत्त्वानां कारुण्यप्रणिधानेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो धर्मदुर्भिक्षे ऽविद्यान्धकारप्रक्षिप्तानां क्लेशतस्करधूर्तोपद्रुतानां सत्त्वानां क्लेशप्रशमनार्थम् / मारपक्षो मे पराजितः सद्धर्मध्वजोच्छ्रेपितो ऽप्रमाणाः सत्त्वा दुःखाच् च परिमोक्षिताः सद्धर्मवृष्टिर् उत्सृष्टाः मारकोट्यो मे पराजिता / ........ भद्रमुखा युष्माकं हस्ते ऽनुपरिन्दामि / यद् एभिर् अप्रमाणैर् गणनासमतिक्रान्तैर् बुद्धैर् भगवद्भिर् बोधिसत्त्वैर् महासत्त्वैश् च दशदिग्भ्यो लोकधातुभ्यः (कुरुमिय 159) सन्निपतितैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसर्वसमुच्छ्रयविध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो ऽधिष्ठितो बुद्धक्षेत्रपृथिवीरससत्त्वसंवासदोषाणां प्रशमाय सत्त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्नवंशचिरस्थित्यर्थं यावत् सकल बुद्धकार्यपरिनिष्पत्त्यर्थं तथा युष्माभिर् अप्य् अधिष्ठाय रक्षितव्य इति // यश् च मे सद्धर्मनेत्रीसंरक्षाकुशलमूलपुण्याभिसंस्काराणि ..... यश् च ......... स्मरणोच्चारणपरदेशनतृशरणगमनोपासकसंवरब्रह्मचर्यवासेभ्यः कुशलमूलपुण्याभिसंस्कार ......... यश् च प्रथममध्यानभावना ......... यावत् संज्ञावेदयितनिरोधभावनायाः यश् च श्रोतापत्तिफलसाक्षाकृत यावद् अपराणि कुशलमूलपुण्याभिसंस्काराणि एतर्हि कृतानि अनागते करणीयानि वा मम सद्धर्मप्रदीपप्रज्वालनपुण्याभिसंस्काराणि सर्वम् एतद् युष्माकं हस्ते परिन्दामि ...............
@folios 94 to 97 are missing@@ dharmabhāṇakam pudgalaṃ saṃcodayiṣyāmaḥ asya dharmaparyāyasya prakāśaṇasya / dharmabhāṇakadharmaśrāvaṇikānāṃ dhanadhānyasarvabhogasaṃpadvivṛddhīṃ niṣdayiṣyāmaḥ / avipralopadharmaṃ jinaśāsanaṃ saṃdhārayiṣyāmaḥ / atha khalu sarve te buddhā bhagavantaḥ teṣāṃ sarveṣāṃ manuṣyāmanuṣyāṇāṃ sādhukāraṃ pradaduḥ ......... //
अथ कौतूहलिको बोधिसत्त्वो महासत्त्वः तं शाक्यमुनिं तथागतं पप्रच्छ / किं भगवन् मारकोट्यः सपरिवाराः समागताः / भगवान् आह / सर्वे सपरिवाराः / कौतूहलिको बोधिसत्त्व आह / किं सपरिवारा मारा त्रिरत्ने लब्धप्रसादाः / भगवान् आह / न कुलपुत्र अयं खलु मारः पापीमां सहस्रपरिवारो ऽलब्धप्रसादः कुपितो ऽनात्तमना वर्तमाने ऽनागतकाले ऽपि यावत् सद्धर्मनेत्र्य् उज्ज्वलति तावद् एषो ऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थम् (कुरुमिय 161) अन्तर्धानार्थं प्रयतते ... / .............. एकविंशतिपरिवारे एते अलब्धप्रसादाः कुपिता अनात्तमनसो वर्तमानो ऽनागतकाले ऽपि यावत् सद्धर्मनेत्रीप्रविस्तारस् तावद् एते मम शासने अवतारप्रेक्षिणो अवतारगवेषिणः सद्धर्मनेत्रीविप्रलोपार्थम् अन्तर्धनार्थं प्रयतन्ते / तत् कस्य हेतोः / पूर्ववैराधिष्ठितत्वाद् अनवरोपितकुशलमूलत्वाद् अकल्याणमित्रपरिगृहीतत्वात् ..... निर्वाणसुखे अलब्धप्रसादत्वात् प्रणिधानापरिगतत्वात् ....... न चित्तेन चित्तं संदधति न प्रसीदंति न संतिष्ठंति न विप्रमोचयंति / ईदृशां महासन्निपातं बुद्धं दृष्ट्वा ईदृशां च गम्भीरां धारणीं श्रुत्वानेनैव हेतुना पश्चाच् छ्रद्धां प्रतिलप्स्यते ऽनुत्तरायां सम्यक्संबोधौ / कौतूहलिको बोधिसत्त्व आह / ........... मायं धर्मपर्यायो ऽनवरुप्तकुशलमूलानाम् (कुरुमिय 162) अपि सत्त्वानां सचेत् ............ श्रवणपथगत ..... अनुत्तरायां सम्यक्संबोधौ //
तेन खलु पुनः समयेनागस्ति नाम मारः पूर्वजिनेषु कृताधिकारः ............. अनुत्तरायां सम्यक्संबोधौ / स महर्षिवेषेण शाक्यमुनेस् तथागतस्य ........................................
@folio 99 इस् मिस्सिन्ग्@@ हाण्या चित्तसंक्षोभो ऽस्य भवेत् / षडिन्द्रियाणि चास्य गोचरासमर्था स्युः // तद्यथा /
अमले / अहं मले / अहं मले / अजवव / अजवव / मूलसरे व्याखसले / जमसले / हह हह हह घोरसट्ट / जतखग ज्ञेयखग / विज्ञेवासखग / अमूक्षर / क्षक्षक्ष क्षक्षक्ष / मूलबह / खगस्वकज्ञ / स्वपरिवर्तमूर / अज्ञज्ञ / वायुज्ञज्ञ / चन्द्रसूर्यौज्ञज्ञ नावहज्ञज्ञ / खुरक्षज्ञज्ञ / बबज्ञज्ञ / भूतकोटितथताज्ञज्ञ / सर्वज्ञेभिर् (कुरुमिय 163) अधिष्ठज्ञज्ञ वक्रम / त्रिगतक्षव क्षममक्षमज्ञ क्षितामारविषय स्वाहा //
सर्वज्ञानाम् अधिष्ठानेन क्षणिका मारविषया अवक्रान्ता निष्फलीगताः / एवम् एव ये केचिद् अहितकामाः / अत्र तावद् एव सर्वे बुद्धा भगवन्तः साधुकारं प्रददुः / सर्वे च बोधिसत्त्वा महासत्त्वाः मनुष्यामनुष्या देवाश् च साधुकारं प्रददुः / अथ तावद् एव तस्यां वेलायाम् अकंपद् वसुमती चक्षुभुर् जलधराः चकंपिरे शैलराजनः / चक्षोभ तत्र स मारः सपरिवारः स्थाप्य देवकटपूतनां बोधिसत्त्वांश् च क्षान्तिप्रतिलब्धान् //
अथ खलु मारः पापीमां दृढमतिं बोधिसत्त्वम् आमन्त्रयति स्म / कुलपुत्र कुतो ऽस्यागस्तिनो मारस्य बलं / कुतः प्रभावः / यद् अनेनाकृपेण सर्वः स्वपक्षो मम च विषयबलपराक्रमः सर्वो विधूत ........ ना ... पमोच्छेदवादिनः श्रमणस्य गौतमस्य पक्षः समुच्छ्रेपितः / अहं च सहश्रवणाद् एवास्या धारण्या दुर्गन्धक्लिन्नकायो ऽकर्मण्यः संवृत्तः / सर्वदिशो मे ऽन्धीकृताः अदर्शनाभासा / महापरिदाघेन च दह्यामि / दृढमतिर् बोधिसत्त्व आह / सर्वबुद्धानां भगवताम् अधिष्ठानेन पापीमं सर्वमनुष्यामनुष्याणां च बलाधानेनागस्ती मारः इमं सर्वमारबलविषयपराक्रमं विध्वंसयति / इमानि चानेनापराजितानि (कुरुमिय 164) मन्त्रपदानि भाषितानि / प्रसादय त्वं पापीमंस् तथागतानाम् अन्तिके चित्तम् उत्पादयस्व चानुत्तरायां सम्यक्संबोधौ चित्तं यथा त्वम् एभ्यः कायवाङ्मानसेभ्यो दुःखेभ्यः परिमोक्ष्यसि / मारः पापीमान् आह / उत्सहाम्य् अहम् अपरान्तकोट्यो ऽसंख्येयाः अतः पापिष्टतराणि कायवाङ्मनोदुःखानि न त्व् एवाहम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयामि //
महासन्निपातान् महायानसूत्राद् रत्नकेतुपरिवर्ताद् एकदशमः सद्धर्मनेत्र्यारक्षणपरिवर्तः समाप्ताः // //
xii.
अथाटवको महायक्षसेनापतिर् भीषणकयक्षरूपेण संज्ञिको मृगरूपेण ज्ञानोल्को मर्कटरूपेण तृष्णाजहश् छगलरूपेण च्छिन्नस्रोतो हस्तिरूपेण एते पंचमहासत्त्वाः शाक्यमुनेस् तथागतस्य नातिदूरे कौण्डिन्यार्चिषस् तथागतस्य पुरतः पुनर् निषण्णा अभूवन् / सर्वकायाच् चैषां विशुद्धा सौगन्धिका प्रभा निश्चचार / अथ ते पंचमहासत्त्वा उभाभ्यां पाणिभ्यां ज्योतिष्प्रभं नाम महामणिरत्नं भगवतः पूजाकर्माय दध्रिरे //
अथ कौतूहलिको बोधिसत्त्वो महासत्त्वः योनिशस् तेषाम् आशयविशुद्धिम् अवेक्ष्य बोधिसत्त्वा ह्य् एते महासत्त्वा इति तम् आटवकं महायक्षसेनापतिम् आमंत्र्योवाच / किं भो सत्पुरुषा अर्थवशं संपश्यमाना यूयम् एवंरूपैर् ईर्यापथैर् बुद्धानां भगवतां पूजाकर्मायोद्युक्ताः / आटवक आह / भूतपूर्वं कुलपुत्रातीते ऽध्वन्य् एकनवतिमे कल्पे यद् इह बुद्धक्षेत्रे विपश्यिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो ऽभूत् / तेन खलु पुनः समयेन वयं पंच भ्रातरः सहोदरा अभूवन् / तथास्माभिर् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पाद्य सत्त्वपरिपाकायोद्योगः कृतः / ततो .एण शिखिनस् तथागतस्यैवं विश्वभुवः यावद् एव सहप्रविष्टे भद्रके महाकल्पे ककुत्सुन्दस् तथागतो लोक उदपादि (कुरुमिय 166) तत्र वयं तथैव पूर्वप्रणिधानेन सहोदरा एव भ्रातरो ऽभूत् / तस्य चास्माभिस् तथागतस्य बहुविधं पूजोपस्थानं कृतम् अभूत् / अथ तत्र संज्ञिको महासत्त्व उपासको ध्यानाभिरतस् तत्रेदम् एवंरूपं महाप्रणिधानं चकार / अहम् इह नित्यं भद्रके महाकल्पे महायक्षसेनापतिर् भवेयं / ये तत्राटविकान्तारनिवासिनो दुष्टा अकृपा अदयापन्नाः सत्त्वेषु नानाविकृतरूपा यक्षा यावत् कटपूतनास् तेभ्यो ऽहं तादृशीं धर्मदेशनां कुर्याम् /
यत् प्रसादप्रतिलब्धाङ् कृत्वा शिक्षाग्रहणे निवेश्य शिवे मार्गे प्रतिष्ठापयेयं यावत् तत्र तिर्यग्योनिगतेभ्यो ऽपि मृगहरिणसूकरादिभ्यो धर्मं देशयेयं यावद् गंगानदीवलुकासमान् दुष्टयक्षान् यावत् तिर्यग्योनिगतान् अप्य् अनवरोपितकुशलमूलान् धर्मदेशनया परिपाच्य त्रिषु यानेषु प्रतिष्ठापयेयं ततः पश्चाद् अहं व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलभेय / एवं ज्ञानोल्को यक्षो मर्कटरूपेण मर्कटपरिपाकाय प्रणिधानं चकार / तृष्णाजहश् छगलरूपेणाक्षणसंकटप्राप्तानां सत्त्वानां परिपाकाय प्रणिधानं चकार / छिन्नश्रोतो गजरूपेण गजपरिपाकाय प्रणिधानं चकार / एवं द्वादशभिर् महर्द्धिकयक्षसहस्रैश् चातुर्द्वीपिकानिवासिभिः सत्त्वपरिपाकाय नानाविधानि प्रणिधानानि कृतान्य् अभूवन् अनुत्तरां सम्यक्संबोधिं पर्येषमानैः / तस्यैव चाहं ककुत्सुन्दस्य तथागतस्य (कुरुमिय 167) पुरतो ऽनुत्तरां सम्यक्संबोधिं पर्येषमाणो दुष्टयक्षपरिपाकाय प्रणिधानं कृतवान् इह कृत्स्ने भद्रके महाकल्पे /
हंत दुष्टयक्षान् अकृपान् अकृतज्ञान् विषमचारां पापेच्छान्न् अदयापन्नान् यावत् कटपूतनान् सत्त्वविहेठकान् ओजोहराञ् चित्तविक्षोभकान् अकुशलचित्तकारकां प्राणातिपातिकान् यावन् मिथ्यादृष्टिकां क्षत्रियब्राह्मणविट्छूद्रचित्तसंक्षोभकान् राष्ट्रग्रामनगरनिगमजनपदसंक्षोभकाङ् ग्रहनक्षत्रचन्द्रसूर्यरात्रिदिवसमासार्धमासर्तुसंवत्सरसंक्षोभकाङ् कलिकलहदुर्भिक्षरोगपरचक्राकालवातवृष्ट्यतिशीतोष्णनियोजकान् बीजौषधिपत्रपुष्पफलरसविनाशकान् सत्त्वसुखसौमनस्यारोग्यसामग्रीकुशलधर्मच्छन्दपृथिवीरसौजार्थधर्मरसविमुक्तिरसान् अन्तर्धापकाञ् शिक्षाग्रहणे नियोज्यावैवर्तिकत्वे स्थापयेयं ततः पश्चाद् अहम् अनुत्तरायां सम्यक्संबोधौ व्याकरणं प्रतिलभेयं //
ततश् चाहं प्रभृति नित्यं यक्षसेनापतिषूपपद्य पापयक्षान् यावत् पापकटपूतनान् त्रिषु यानेषु परिपाच्यावैवर्तिकत्वे प्रतिष्ठापयामि / ततः प्रभृति हीनमध्योत्कृष्टभूतां दृष्ट्वा नाभिजानामि परिभवितुं / यद्रूपांश् च पश्यामि तेनैव रूपेण तान् अहम् आलपामि संलपामि समुत्तेजयामि संप्रहर्षयामि पापात् प्रतिनिवारयामि मैत्रकरुणाचित्ततायां प्रतिष्ठापयामि / यथाभिप्रायेण त्रिषु रत्नेष्व् अवैवर्तिकां प्रतिष्ठापयामि / यां याम् एव यक्षपर्षदम् उपसंक्रमामि तत्र ते मां यक्ष आटवक-म्-इति स्वागतवाचा आमन्त्रयंति / तेन मे आटवक-म्-इति नाम समाज्ञा उदपादि / ये चैतर्हि मनुष्याः पुराणधर्मरहिता असंवरस्था एकान्तकृष्णकर्मसमाचरास् ते कालं कृत्वा तृष्व् अपायेषूपपद्यंते परित्ता मनुष्येषु / ये व्यामिश्रकर्मसमाचारास् तृषु रत्नेषु अचलप्रसादास् ते कालं कृत्वा यद्भूयसा पापयक्षेषु पापकटपूतनेषूपपद्यंते / तद् एतर्हि भूयिष्ठतरं पापयक्षेषु यावत् पापकटपूतनेषूपपद्यंते / तेनैतर्हि पापयक्षाणां यावत् (कुरुमिय 168) पापकटपूतनानां लोके वृद्धिः / सर्वे च ते शुक्लपक्षस्यान्तर्धानायोद्युक्ताः / तेनैतर्ह्य् अतीव कलियुगे प्रवर्तते न चाहं भगवं छक्तः सर्वकालं तान् दुष्टयक्षान् यावद् दुष्टकटपूतनान् मार्दवशुक्लधर्मेषु विवर्धयितुं / न चाहं शक्तो भूयः सर्वक्षत्रियब्राह्मणविट्छूद्रश्रमणस्त्रीपुरुषदारकदारिकासंक्षोभं प्रशमयितुं / न च गृअमनगरनिगमजनपदराष्ट्रसंक्षोभं प्रशमयितुम् / न च भूयो ऽहं शक्तो भूतानां चित्तचैतसिकेषु विमुक्तिरसं प्रतिष्ठापयितुं / परिज्ञाता मया कुलपुत्र सर्वबुद्धतेजसा सर्वयक्षकटपूतनानां हृदयशाठ्यप्रयोगावक्रमणज्ञानता //
अस्ति कुलपुत्र वज्रखवसरी नाम भूतानां हृदयं महाचण्डदारुणविद्यामन्त्रधारणी यैर् मंत्रपदैः प्रयुक्तैर् न भूयश् कश्चिद् यक्षो वा यक्षिणी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षदारको वा यक्षदारिका वा यक्षपार्षदो यक्षपार्षदि वा राक्षसो वा राक्षसी वा यावन् नागो वा नागी वा कुंभाण्डो वा कुंभाण्डी वा एकाहिको वा यावच् चतुर्थको वा पूतनो वा कटपूतनो वा कटपूतना वा कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतनपोतको वा कटपूतनपोतीका वा कटपूतनपार्षदो वा कटपूतनपार्षदी वा शक्ताः क्षत्रियसंक्षोभं यावज् जनपदसंक्षोभं वा कर्तुम् //
यत्र पुनः कुलपुत्र गृअमे वा नगरे वा निगमे वा यावत् कुटुम्बिकगृहे वा अस्या वज्रखवसर्याः सर्वभूतहृदयायाः महाचण्डदारुणविद्यायाः मन्त्रपदानां प्रकाशनं स्यात् तत्र ते दुष्टयक्षकटपूतनाः तां पूर्ववैरानुबद्धाम् (कुरुमिय 169) अकुशलकर्मकृयां प्रजहुः / मैत्रीकरुणामृदुचित्ताः सर्वभूतदयापन्नाः हितचित्ता भवेयुः / तांश् च सर्वान् राष्ट्रकुटुंबदेवनागयक्षकटपूतनसंक्षोभां सर्वचन्द्रसूर्यग्रहनक्षत्रदण्डविषशस्त्रकाखोर्दसंक्षोभां छारिरांश् च वातपित्तश्लेष्मसन्निपातज्वरैकाहिकद्वैतीयकत्रैतीयकचातुर्थककुष्ठमर्जकण्डुकासवीसर्पोदरशूलांगप्रत्यंगव्याधिसंक्षोभां प्रशमेयुः / तत्र च मनुष्यामनुष्यान् मृगपक्षिणः शुक्लकर्मान्ताभियुक्तां सर्वभयप्रहीणान् सर्वसुखसौख्यसमन्वितान् रात्रिंदिवसातिनामनकुशलां दानदमसम्यमाभिरतान् अक्लान्तकायचित्तां बोधिमार्गपर्येषणाभियुक्तां कुर्युः //
अथ आटवको महायक्षसेनापतिर् एवम् आह / सचेत् मे कुलपुत्राः सर्वे बुद्धा भगवन्त एषु मन्त्रपदेषु कर्मसिद्धिन् दद्युर् अधिष्ठितेषुर् अनुमोदेयुर् यद् अहम् एतानि सर्वसंक्षोभप्रशमनकराणि सर्वप्रसादकराणि सर्वाकुशलपक्षनिवारकाणि सर्वकुशलपक्षविवर्धनानि सर्वभूतखवसरीमंत्रपदानि भाषिता / अधितिष्ठतु मे शाक्यमुनिस् तथागतः स्वरमण्डलवाग्व्याहारं यद् अहं कृत्स्नम् इदं बुद्धक्षेत्रं स्वरमण्डलवाग्व्याहाराक्षररुतेनापूरयित्वा एतां यथासन्निपातां पर्षदं स्वरमण्डलवाग्व्याहारार्थपदव्यंजनैः परितोषयेयम् //
अथ खलु शक्यमुनिस् तथागत आटवकं महायक्षसेनापतिम् आमन्त्रयैवम् आह / अधिष्ठितस् ते कुलपुत्रैर् बुद्धैर् भगवद्भिः स्वरमण्डलवाग्व्याहारः अस्या वज्रखवसर्याः सर्वभूतहृदयाया मंत्रधारण्याः कृष्णपक्षविद्रापणाय शुक्लपक्षज्वालनाय / उत्सह त्वं सत्पुरुष वदस्वेमानि संक्षोभप्रशमनकार्या वज्रखवसर्याः सर्वभूतहृदयमन्त्रधारण्याः सर्वदुष्टनिवारणानि मन्त्रपदानि //
अथाटवको महायक्षसेनापतिर् उत्थायासनाद् येन शाक्यमुनिस् तथागतस् तेनांजलिं प्रणाम्य कृत्स्नम् इदं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयति स्म / इमानि च मन्त्रपदानि भाषते स्म // तद्यथा /
धुम धुम / धम धम / धूम धूम / निलि न नल नोल / मिला कुटनी कुटने / महाकुटने / टट टटो महाटटो / अभष अभि अभि / रिणि रिणि / महारिणि रिणि / रिमि रिमि / रिमि रिमि / दारिमि रिषे / महारिषे / शुलु शुलु / महाशुलु शुलु / शुलुथ महाशुलु शुलु / उगुम / गुम गुमन / रिमि रिमि / हिरि हिरि हिरि हिरि / हिरि हिरि हिरि हिरि हिरि हिरि / निमि निमि / निहि निहि / मुनि मुनि / बुद्धि लि प्रवरा सृष्ठलोक चर्याजिने जिने / जिनर्षभ जिना जिन जिनर्षभ स्वाहा //
यत्र यत्रैव भगवन् ग्रामे वा नगरे वा यावत् कुटुंबिकगृहे वा अस्यां सर्वभूतहृदयवज्रखवसर्यां महामन्त्रपदविद्यायां भाष्यमाणायां ये तत्र दुष्टयक्षा यावद् दुष्टकटपूतनाः न चित्तं प्रसादयिष्यंति न च कायवाङ्मनोभिः शिक्षासंवरं प्रतिग्रहीष्यंति न च तेषां सत्त्वानां (कुरुमिय 171) अन्तिके मैत्रचित्तम् उपस्थापयिष्यंति तेषाम् अर्थायाहं भूयो दारुणतराणि मन्त्रपदानि भाषिष्ये // तद्यथा //
अच्छे अच्छे / मुने मुने / अग्ने हु हु / मुने मुने / मनार्षभ हु हु / अक्रदण्डे / अतदण्डे / अत अति / अट हिनि हिनि / हिरि हिरि हिरि हिरि हिरि हिरि / त्रगुम / गुम गुम गुम / हिलि हिलि / निलि निलि / महानिलि समुद्रमेख / हट हट हट धरणमेख / क्षभख क्षभख / पृथिवी अप तेजो वाय्व् आकाश / ठ ठ ठ गुंभे / भगुम्भे / अक्षि कुम्भे / जिह्वागुगुम्भे / सर्वागुंभे / रजगुम्भे / सभास्तुगुम्भे स्वाहा //
समनन्तरभाषिता चाटवकेन महायक्षसेनापतिना इमानि मन्त्रपदान्य् अथ तावद् एव सर्वे देवनागयक्षकटपूतनाः क्षुब्धास् त्रस्ता इह सकले बुद्धक्षेत्रे क्षितिगगनस्थाः प्रचकंपिरे / अथ तत्क्षणाद् एव सर्वेषां बुद्धानां भगवतां पुरतः प्रांजलयस् त्रिष्कृत्वा एवम् आहुः / नमः सर्वबुद्धेभ्यो नमो नमः सर्वबुद्धेभ्यः / परमदारुणान्य् एतानि अनेनातवकेन महायक्षसेनापतिना सर्वभूतहृदयावक्रान्तिमंत्रपदानि भाषितानि // //
महासन्निपातान् महायानसूत्राद् रत्नकेतुपरिवर्ताद् द्वादशम आटवकपरिवर्तः समाप्ताः // //
xiii.
अथ खलु ते सर्वे बुद्धा भगवन्तः स्वेषु स्वेषु बुद्धक्षेत्रेषु गगननिमित्तानि प्रदर्शयाम् आसुः प्रत्युत्थाननिमित्तानि च / अथ तावद् एव सर्वावतीयं पर्षा क्षितिगगनस्थाश् च सत्त्वाः प्रचकंपिरे / सर्वावती चेयं भूश् चकंपे / नभसि पुष्पवृष्टिर् ववर्ष / अन्तरीक्षाच् च तूर्यकोट्यः पराजघ्नुः / सर्वगन्धधूपां प्रमुमुचुः / सर्वं चेदं बुद्धक्षेत्रम् अवभासेन स्फुटम् अभूत् / प्रांजलिः सर्वा पर्षत् तस्थौ //
अथ खलु ब्रह्मा सहांपतिर् महाचन्दनगन्धं तथागतं पप्रच्छ / कियता भगवं कुशलमूलेन ते समन्वागता भविष्यंति कतिभिर् वा धर्मैर् अधिष्ठितास् ते सत्त्वा भविष्यंति बुद्धैर् भगवद्भिर् ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति धारयिष्यंति //
एवम् उक्ते भगवां स महाचन्दनगन्धस् तथागतस् तं ब्राह्मणं सहांपतिम् एतद् अवोचत् / यथैव ब्रह्मं षड्धातवः सर्वबुद्धैर् अधिष्ठिता मारपक्षविग्रहार्थं सर्वकलियुगप्रशमार्थं सर्वसत्त्वपरिपाकार्थं सद्धर्मनेत्र्याश् चिरस्थित्यर्थं मार्गविशुद्ध्यर्थम् / एवं सर्वबुद्धबोधिसत्त्वैर् दशभिर् धर्मैस् ते सत्त्वा अधिष्ठिता ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति यावल् लिखित्वा धारयिष्यंति / कतमैर् दशभिर् (कुरुमिय 173) यद् उतेह ब्रह्मंस् ते सत्त्वाः सर्वबुद्धबोधिसत्त्वैः सर्वेषां देवनागयक्षगन्धर्वराक्षसकुंभाण्डानां न्यायतः परित्ता नित्यकालं युष्माभि रक्षितव्याः / अनर्थात् प्रतिनिवारयितव्याः कुशले कायवाङ्मनस्कर्मणि नियोजयितव्या उदारान्नपानोपभोगपरिभोगारोग्यकौशल्येनात्मजीवितपरित्यागेनापि ते सत्त्वाः सन्धारयितव्या निर्दोषाणि च तेषां स्मृतिमतिगतिप्रतिभानकौशल्यानि भविष्यंति / न च तैः कामगुणसंसक्तैर् मनःसंकल्पैर् विहरिष्यंति / शून्यताविहारिणश् च ते भविष्यंति / धरणिसमचित्ताः गम्भीरक्षान्तिसमन्वागताः संग्रहवस्तूद्युक्ताश् च ते भविष्यंति / कुशलधर्मावस्थिताः सत्त्वाः परिषत् कायादत्तसाराः त्रिवस्तुपरिशुद्धा बोधिचर्याम् उत्तरिष्यंति / रत्नध्वजं समाधिं प्रतिलप्स्यन्ते येन समाधिना सर्वसमाधिषु व्यवचारज्ञानकुशला भविष्यंति / मरणकालसमये च ते सत्त्वाः पुरस्ताद् अप्रमेयासंख्येयान् बुद्धान् भगवतः भिक्षुगणपरिवृतां बोधिसत्त्वगणपुरस्कृतां तिष्ठतो यापयतो धर्मन् देशयमानान् द्रक्ष्यंति / तेषां च बुद्धानां भगवताम् अन्तिकात् तादृशम् अर्थपदव्यंजनोपेतं धर्मन् देश्यमानं
श्रोष्यंति / यत् सर्वविशिष्टम् आर्यं निरामिषप्रीतिप्रामोद्यं प्रतिलब्धाः सर्वं तत् कर्मावरणम् अकुशलं (कुरुमिय 174) चरिमविज्ञाने समश्. तेषां सहधर्मेणा निरोत्स्यंति / सर्वाभिप्रायेण च परिशुद्धेषु बुद्धक्षेत्रेष्व् औपपादिक उपपत्स्यंते / येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्तो यापयन्तः शुद्धां महायानकथां देशंति तेषु बुद्धक्षेत्रेषु ते सत्त्वास् तैर् महायानसंप्रस्थितैर् अनावरणज्ञानसमन्वागतैर् गगनसमचित्तैः सार्धं संवसिष्यंति / न चिरेणैव तैर् गुणैः समन्वागता भविष्यंति / न च ते सत्त्वा भूयः क्लिष्टे पंचकषाये बुद्धक्षेत्रे उपपत्स्यंते ऽन्यत्र स्वप्रणिधानेन क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यंते / एभिर् दशभिर् धर्मैर् अधिष्ठितास् ते सत्त्वा बुद्धैर् भगवद्भिर् भविष्यंति य एतर्हि ऽनागते ऽप्य् अध्वनीमां सद्धर्मनेत्रीम् उज्ज्वालयिष्यंति इमं च धारणीमुद्राधर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति / सर्वबुद्धबोधिसत्त्वाधिष्ठितास् ते सर्वोपक्लेशविनिर्मुक्ता बोधिसत्त्वा महासत्त्वा भविष्यन्तीति //
अथ भगवां छाक्यमुनिस् तथागतः शक्रब्रह्मलोकपालान् आमन्त्रयति स्म / ये केचिद् इह मार्षा बुद्धा भगवन्तो दशभ्यो दिग्भ्यः समागताः सर्वैर् युष्मत्कारुण्यार्थम् इह लोकधातौ बाह्यभावविशोधनार्थं सत्त्वपरिपाकाय बोधिचर्याप्रदर्शनार्थं मारपक्षपराजयाय धर्मध्वजोच्छ्रेपणाय सकलबुद्धकार्योपदर्शनाय त्रिरत्नवंशानुपच्छेदाय सर्वव्याधिप्रशमनाय सर्वदुष्टनिवारणाय सर्वभयारक्षायै सर्वकुदृष्टिप्रहाणाय (कुरुमिय 175) बोधिमार्गावतारदशतथागतबलपारिपूर्यै सर्वकर्मक्लेशक्षयाय-म् एवंरूप आश्चर्याद्भुतो ऽश्रुतपूर्वो गंभीरधारणीपदप्रवेशव्याकरणो धर्मपर्यायो भाषितः येन गृहग्रामनगरविषयारक्षा यावच् चातुर्द्वीपिकारक्षा देवनागयक्षमनुष्यामनुष्यारक्षा धान्यौषधपत्रपुष्पफलसस्यारक्षा धर्मभाणकानां धर्मश्रावणिकानां चारक्षा भवत्य् असंगधारणीप्रतिलाभाय आकाशसमज्ञानावताराय एकनयसर्वज्ञज्ञानप्रतिलाभाय /
अस्मिं खलु पुनर् मार्षा धर्मपर्याये एभिर् बुद्धैर् भगवद्भिर् इह बुद्धक्षेत्रे एकैको भावो महाकरुणावतारज्ञाननिष्यन्दैर् दशभिः प्रकारैर् अधिष्ठितः / सर्वबुद्धबोधिसत्त्वैर् इदं मार्षा बुद्धक्षेत्रम् अखिलं परिभुक्तं सर्वकुशलधर्माधिष्ठानाय / सर्वबुद्धक्षेत्रोपपन्नानाम् इदं बुद्धक्षेत्रं चैत्यभूतं गुरुस्थानीयं शास्तृसंमतं नमस्करणीयं संवृत्तं यत्र हि नामेह पंचानन्तर्यकारिणाम् अप्य् अकुशलधर्मसमन्वागतानां तत् कर्मावरणम् अनिष्ठफलं निरवशेषं परिक्षयं गच्छति / सर्वे च ते प्रहीणकर्मावरणाः कुशलेषु धर्मेषु प्रतिष्ठन्ते / महापुरुषकारो ऽयं मार्षा बुद्धानां भगवताम् / इह बुद्धक्षेत्रे सत्कृत्य मार्षा युष्माभिर् अयं धर्मः परिगृहीतव्यो रक्षितव्यः / सद्धर्मधारकाश् च गृहस्थप्रव्रजिताः पुद्गलाः धर्मप्रतिपन्नाश् च रक्षितव्याः / एवं युष्माकं हिताय सुखाय भविष्यति //
अथ खलु कुसुमध्वजस् तथागतस् तस्यां वेलायाम् अस्य धर्मपर्यायस्य गुणानुशंसप्ररूपणार्थम् एवम् आह /
सर्वक्षेत्र संप्रपूर्य कांचनेन तायिषु प्रपूजनाय नायकेषु संसृजेद् य एव तद् / इदं तु यः प्रधानसूत्रम् उत्तमं हि धारयेत् स पुण्यम् अप्रमेयम् एवम् आप्नुयाद् विशारदः // rkp_13.1
अथ खलु रत्नच्छत्रश्रीस् तथागतो ऽप्य् एवम् आह / दत्वा स्वर्णनिष्कां गंगानदीसिकतोपमां मुनिवृषभेभ्यः प्राप्नोति पुण्यम् एवं यथा समुद्दिश्य सूत्रम् इदम् //
अथ खलु गिरिकूटस् तथागतो ऽप्य् एवम् आह /
आकाशं छादयित्वा वरकुसुमचयच्छत्रसंघातमेघैर् बुद्धेभ्यः संप्रदद्यात् प्रमुदितसुमनाः पूजनार्थं हि कश्चित् / यः पश्चात् क्षीणकाले प्रतिभयरभसे धारयेत् सूत्रम् एतत् पुण्यस्यास्य प्रमाणं न खलु कथयितुं सर्वसत्त्वो ऽपि शक्तः // rkp_13.2
अथ खलु भगवान् अपि शाक्यमुनिस् तथागत एवम् आह /
वर्तिं मेरुप्रमाणां पुरत इह मुने गन्धतैलावसिक्तां दीपस्योज्ज्वाल्य भक्त्या विकसितवदनो धारयेत् कल्पकोट्यः / यः कश्चित् पुण्यकामो निवरणतनुतां प्रार्थयन् यस् त्व् इहान्यः सूत्रं प्रक्षीणकालेषु सदसि कथयेत् पुण्यम् अस्माद् विशिष्टम् // rkp_13.3
अथ खल्व् अक्षोभ्यस् तथागतो ऽप्य् एवम् आह /
क्षान्तिं यश् च विभावयेत् मतिधरो वीर्यं सदा चारभेन् नित्यं ध्यानपरः समाहिततनुः प्रज्ञां च विस्फारयेत् / क्षीणे यस् त्व् इह धारयेत् कलियुगे सद्धर्ममुद्राम् इमाम् एषा क्षान्तिर् इदं च वीर्यम् असमं प्रज्ञा च तस्यातुला // rkp_13.4
अथ खलु विरजबलविक्रामी तथागतो ऽप्य् एवम् आह /
एतत् सूत्रं प्रकाश्येह धारयित्वाभिलिख्य च / ग्राहयित्वा परान् युक्त्या वाचयित्वा पुनः सदा // rkp_13.5
पूजयित्वाथ धूपैश् च पुष्पमाल्याग्रचीवरैः / यत् पुण्यं समवाप्नोति न तच् छक्यं प्रकीर्तितुम् // rkp_13.6
इति //
अथ खलु ते ऽप्रमेयासंख्येया बुद्धा भगवन्तो ऽस्य सूत्रस्याप्रमेयां वर्णगुणानुशंसान् उदीरयित्वा शक्रब्रह्मलोकपालान् आहूयैवम् ऊचुः // उद्गृह्णीध्वं मार्षा इमं धर्मपर्यायं सर्वकर्मावरणक्लेशक्षयंकरं यस्य पश्चात्काले श्रवणमात्रेणापि सत्त्वानां सर्वकर्मावरणक्लेशक्षयो भविष्यति // इदम् अवोचद् भगवान् / आत्तमना सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दत् // //
महासन्निपातान् महायानसूत्राद् रत्नकेतुनिष्ठागमपरिवर्तस् त्रयोदशमः समाप्ताः // //
[चोलोफोन्] संस्कृत्वा रत्नकेतुं प्रचुरभयहरान् धारणीं यन् मयाग्र्यं पुण्यं किंचित् प्रसूतं प्रमुदितमनसा सर्वभक्त्यादृतेन / सर्वो ऽयं तेन लोको मुनिवचनकथालंकृतां रत्नकेतुं ह्य् एताम् एव स्फुटार्थाम् अतिगुणविशदां प्राप्नुयात् सद्य एव : // //
सद्धर्मसंग्रहो श्रीपटोलषाहि विक्रमादित्यनन्दस्य् श्रीमहादेव्यां सुरेन्द्रमालायां तथा सार्धं उवखी श्रीमहादेव्यां दिल्नितपुण्यां // तथा सार्धं पुस्तकलिखापितम् इदं महादानपतिम् एतलगोर् निक्षिणस्य तथा सार्धं भार्या आश्णाति कसुमो.वल्तायां तथा सार्धं माता अस्पिनशूलायां //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
