Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
मञ्जुश्रीमूलकल्प
- Thông tin
- GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्धोर्णामणि स्वाहा / भगन्मन्त्रा सर्वोर्णामणिमुद्राणां सर्वकर्मिकाणि भवन्ति / एषा तथागतोर्णामुद्रा अप्रतिहता सर्वकर्मसु सर्वप्रयोक्तव्या / गोरोचनेन तिलकं कृत्वा मन्त्रं जपता तथागतोर्णा सङ्ग्राममवतरे / सर्वशत्रवः स्तम्भिता भवन्ति / दृष्ट्वा तं प्रपलायन्ते / विगतक्रोधाश्च भवन्ति / मैत्रचित्ता हितचित्ता सर्वसत्त्वा समाश्वस्ताश्च भवन्ति / दृष्ट्वा तं रोचनतिलकं कृत्वा सर्वक्रव्यादादयो न शक्यन्ते / दृष्ट्वा तं महाराजमहासत्त्वमहेशाख्यमहोत्साहं ज्वलन्तमिव पश्यन्ते / सर्वदुष्टप्रदुष्टानां सर्वयक्षराक्षसप्रेतपिशाचसर्वग्रहभूतकश्मला रौद्रचित्ता मैत्रचित्ता भवन्ति / अपक्रमन्ते तस्माद् देशात् / सर्वोपद्रवचर्येभ्यश्च मुच्यते / सर्वग्रहगृहीतेषु सर्वमातरबालग्रहेषु ब्रह्मराक्षसादिषु गोरोचनमभिमन्त्र्य ललाटे तिलकं कृत्वा दर्शयेत् / सर्वे दृष्टमात्रा प्रमुञ्चन्ते विद्रवन्ति च प्रपलायन्ते / सर्वेण सर्वं तस्मै न भवन्ति न भूयो गृह्णन्ते / यदि गृह्णन्ति, सर्वेण सर्वं विनश्यन्ति / एवं सर्वग्रहेषु प्रयोक्तव्यः सर्वतः मन्त्रतन्त्राणां कल्पेषु यान्युक्तानि विविधानि साधयति लौकिकलोकोत्तरेषु यानि विधानमण्डलपटसाधनानि तन्यनेनैव साध्यानि क्षिप्रतरं सिध्यन्ते / गोरोचनमभिमन्त्र्य तिलकं कृत्वा शत्रुमध्ये प्रविशेत् / विगतक्रोधा भवन्ति / न शक्यन्ते अभिभवितुम् / महाजनमध्ये जपता प्रविशेत् / सर्वे मैत्रचित्रा भवन्ति / आदेयवाक्यश्च भवन्ति / परैरनभिभवनीयश्च अधृष्यश्च सर्वत्र सर्वभूतानाम् /
गोरोचनेनाभिमन्त्र्य सप्तवाराननेन मन्त्रेण तिलकं कृत्वा महाश्मशानं प्रविशेत् / सर्वक्रव्यादाशिनः प्रपलायन्ते / सर्वग्रहमातराश्च नश्यन्ते / अधृष्यो भवति / सर्वमनुष्याणां तेजसा तस्य ज्वलन्तमिव दृष्ट्वा ओजोहारा अपक्रमन्ते / तस्माद् देशा दर्शनमपि न समनुप्रयच्छन्ति / कः पुनर्वादो ओजो हर्तुम् / क्षणमपि नाप्रतिष्ठन्ते / महाश्मशानं परित्यज्य सर्वभूतगणा ये तत्र निवासिनः ते प्रक्रमन्ते / इतश्चा + तश्च न शक्यन्ते प्रेक्षितमपि / कः पुनर्वादो ओजो हर्तुम् हिंसयितुम् वा / एवमपीयं महाप्रभावा सर्वविद्या महर्द्धिका उपपरिवर्तते महाविद्या तथागतोर्णो नाम / असङ्ख्यैश्च बुद्धैर्भगवद्भिः भाषिता गङ्गासिकतप्रख्यैः भाषिता चाभ्यनुमोदिता च / एतर्हि शाक्यमुनिना सम्यक् सम्बुद्धेन भाषिता चाभ्यनुमोदिता च / ये ऽपि ते भविष्यन्त्यनागते ऽध्वनि सम्यक् सम्बुद्धाः ते ऽपि भाषिष्यन्ते / एवमतीतानागतैर्बुद्धैर्भगवद्भिः संवर्णिता सम्प्रशस्ता अनुमोदिता मयाष्येतर्हि शाक्यमुनिना संवर्णिता सम्प्रशस्ता कृताभ्यनुज्ञाता सर्वसत्त्वानां सर्वासां विधितः साधयिष्यन्तीति / यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति / वर्जयित्वाभिचारुकम् कामोपसंहितं चेति ।
तदेव हस्तौ सम्पुटाकारौ कृत्वा अन्योन्यावावेष्ट्य चित्रीकृतौ यात्मोरसि मध्ये स्थापयेत् / एतद् भगवतः समाधिवज्रस्य महामुद्रा / यां बध्वा अवैवर्त्तिको भवत्यनुत्तरायां सम्यक् सम्बोधो (वैद्य 312) नियतस्थम् / भवति चात्र मन्त्रः - नमः समन्तबुद्धानाम् / ओम् विभिदे चूर्णय चूर्णय वज्रधिक् वज्रधिक् हुं हुं जः जः समाधिजः हुं फट् स्वाहा / अल्पमस्य विस्तरेण सर्वं तं प्रयोक्तव्यम् / अपरिमितानुशंशंश्चायम् / भगवां समाधिवज्रः सर्वबुद्धानाम् / तदेव मुद्रां कण्ठदेशे न्यसेत् / इयं सर्वबुद्धानां पद्मपद्ममुद्रा / एतदेव वामपार्श्वे न्यसेत् / उत्पलमुद्रा / एतदेव दक्षिणभुजे न्यसेत् / इयं भगवतो बुद्धस्य कृपालम्बनमैत्रीमुद्रा / एतदेव हस्तौ उभयाङ्गुल्यवेष्टितौ मध्यमाङ्गुलिसम्प्रसारितौ आभोगमण्डलाकारौ हृदयमध्ये न्यस्ता / इयं द्वितीया मैत्रीमुद्रा / सर्वतथागतानां सर्वकर्मिकम् / अप्रतिहता / एवमनेनैव विधिना ललाटे तृतीया, ऊर्ध्वविन्यस्ता चतुर्थ्या, समन्तात् परिभ्रामिता पञ्चमा भवति मैत्रीमुद्रा / ध्यानालम्बनकाले च प्रयोक्तव्या / न सर्वे मानुषा विहेठयन्ति / न चास्य काये किञ्चिदाबाधमुत्पादयन्ति मानुषामानुषा वा सर्वयक्षराक्षसप्रेतपिशाचकटपूतनादयः / सर्वे च मारा मारकर्माणि कुर्वन्ति / सर्वे च विघ्ना अविध्ना भवन्ति / भवति चात्र मन्त्रः - ओम् प्रस्फुर प्रस्फुर कृतालम्बनमन्त्रात्मक हां / एष भगवतो मैत्री प्रयोक्तव्यः / तदेव हस्तावन्योन्यावावेष्ट्य वेणिकाकारौ कृत्वा मण्डलाद् व्यवस्थापयेत् / ज्येष्ठाङ्गुलीयकावूर्ध्वस्थितौ ललाटदेशे न्यसेत् / एष भगवतो बुद्धस्य महाकरुणामुद्रा /
मन्त्रं चात्र भवति - ओम् विश्वे स्वाहा / सर्वकर्मिका / सत्त्वानां प्रयोक्तव्या / करुणात्मका भवन्ति / तदेव हस्ताबुद्धेष्ट्य चित्रीकृतावभयावस्थितौ / एषा बुद्धस्य भगवतो महामुद्रिता मुद्रा / मन्त्रं चात्र भवति - - ओम् मुनिमुनिगगन स्वाहा / एषा भगवती सर्वकर्मिका सर्वासां परिपूरयति प्रमुदितेन चेतसा प्रयोक्तव्या / सर्वं करोति / सर्वमन्त्रकल्पेषु यानि कर्माणि सर्वलौकिकलोकोत्तरेषु तान्यशेषतो साधयतीति / तदेव हस्तावुभयाङ्गुष्टविन्यस्तौ चित्रीकृतौ ललाटे दर्शयेदेषा भगवतस्तथागतप्रेक्षामुद्रा सर्वकर्मिका सर्वार्थसाधिका / मन्त्रं चात्र भवति - ओम् महद्गते उपेक्षय सर्वधर्मां विश्वात्मने विश्वमूर्त्ति ज्वल ज्वलय सर्वबुद्धधर्मां हुं फट् स्वाहा / षट्पारमितासु च षण्मुद्रा भवन्ति / तदेव हस्तौ वरप्रदानौ / इयं दानपारमिता महामुद्रा / तदेव हस्तौ अन्योन्यसङ्कुचितौ नाभिदेशे स्थापितौ / इयं शीलपारमिता महामुद्रा / तदेव हस्तौ अधः कृत्वा कक्षाभ्यां सन्नियोज्य स्थापयेदियं क्षान्तिपारमिता महामुद्रा / तदेव हस्तौ भुजोपरि स्थापयेत् / परामृश्यमाना विपर्यस्ताकारेण / इयं वीर्यपारमिता महामुद्रा / तदेव हस्तौ पर्यङ्कं बध्वा मुपरि स्थापये वामदक्षिणमुपरि निबध्य च पर्यङ्कासने सर्वसत्त्वानां करुणाया माना ध्यानालम्बनगतदृष्टि / इयं भगवत्या ध्यानपारमिताया महामुद्रा / तदेव ध्यानपारमितामुद्रं पर्यङ्कमभिन्द्य धर्मदेशनाकारा / इयं भगवत्या प्रज्ञापारमिताया महामुद्रा / तदेव पर्यङ्कमभिन्द्यात् / वामहस्त पर्यङ्के न्यस्य दक्षिणहस्तमवलम्ब्य भूमौ स्पृशेत् वज्रासनाकारेण /
इयं भगवती सर्वबुद्धानामनुत्तरायां सम्यक् सम्बुद्धौ महामुद्रा सर्वबुद्धधर्माणामेषा एव महामुद्रा / सर्वेषां मन्त्राणि भवन्ति - ओम् दाने दद दद ददापय ज्वल ज्वल सर्वबुद्धाधिष्ठिते हुं हुं जः स्वाहा / एषा दानपारमिताया महामुद्रा / ओम् शील शीलाढ्ये शान्तिकरणि शिवे प्रशस्ते सर्वबुद्धाधिष्ठिते स्वाहा / शीलपारमिताया महामुद्रा - ओम् शान्ते श्रीकरि क्षान्ते क्षान्तिकरि स्वाहा / इयं (वैद्य 313) क्षान्तिपारमितायाः / ओम् वीर्ये वीर्यमिति सर्वबुद्धाधिष्ठिते स्वाहा / अभावस्वभावे स्वाहा / वज्राक्रमणि स्वाहा / इयं वीर्यपारमितायाः / ओम् शान्तिकरि धूधूधूर्धरि धैर्ये वीर्ये गगने रमणे ध्यानवति स्वाहा / इयं ध्यानपारमितायाः / ओम् धीः धूः इयं प्रज्ञापारमिता / ओम् त्रायाहि भगवति सर्वबुद्धजुष्टे अनालम्बने गगनस्वभावे धर्मधातुमनुप्रविष्टे आलोककरि विधमय विधमय सर्वक्लेशान्धकारम् / च्छोषय तारय माम् / अमूर्त्तिजे हुं हुं दालय सर्वकर्मां हुं फट् स्वाहा / एषा भगवती बुद्धानां भगवतां महाबोधिमन्त्रा सर्वकर्मिक सर्वार्थसम्पादिकाः सर्वानर्थप्रतिघातिकाः सर्वबुद्धधर्मां पारिपूरिका सर्वक्लेशां निषूदिनी सर्वमन्त्रां परकर्मकृतां विनाशनी सर्वमारविद्रापणी सर्वलौकिकलोकोत्तराणां मन्त्राणां प्रसाधनी सर्वपापां विधमनी सर्वदुर्गतिशोषिका सर्वदेवमनुष्येषु सर्वबुद्धधर्मेषु प्रतिष्ठापनीति / संक्षेपतो यथा यथा प्रयुज्यते, तथा तथा कर्माणि करोति / न शक्यमस्याः कल्पकोटीभिर्गुणमाहात्म्यं संवर्णनं असङ्ख्येयैश्च बुद्धैर्भगवद्भिः प्रभावविकुर्वणचर्याधिष्ठानऋद्धिबलाधान भाषितुं वर्णयितुं वा /
एवमस्या भगवत्या अपर्यन्तगुणविस्तारमाहात्म्यस्य विकुर्वण इति षट्पारमितामपि विस्तरेण कर्त्तुम् / समासतो निर्देशप्रभावचर्या ऋद्धि च गुणगोत्रमधिष्ठितचर्या सर्वतो ज्ञेया विशेषाधिगमो ऽपि वा ।
गगनस्वभावा धर्माख्यां भावाभावविचारताम् / कल्पकल्पाक्षरं प्रयोक्त + + कर्मसिद्धिषु // mmk_36.68(="63") //
पुष्कलां कथिता ज्ञेभिः क्षिप्रं फलाकारसमुद्भवम् / गगनस्वभावमन्त्रार्थं मक्षरव्यक्तिभूषितम् // mmk_36.69(="64") //
फलन्ति बहुधा काले युक्तिमात्रि दभिमूक्षिता / मुद्रातं वै सविस्तरं कथितं तत्त्वचेष्टिभिः // mmk_36.70(="65") //
मन्त्रतन्त्रगतिं कालो नियमश्चैव सुयोजिता / जपो होमादिभिर्ज्ञेयं फले तत्त्वसमुद्भवे // mmk_36.71(="66") //
आश्रयाय न द्रव्याणां गतिर्लक्षणसुलक्षितम् / मन्त्रबोध स्वमन्त्रं च कुलयोनिसमोदयाः // mmk_36.72(="67") //
लक्ष्यते सिद्धिकालो हि मुद्राचिह्नसमुद्भवम् / तत्त्वनिष्ठागतो मन्त्री जपेन्मन्त्रं समाहितः / सिद्धयः सिद्धहेतुत्वं दर्शयेत् कुलदेवताम् // mmk_36.73(="68") //
एता मुद्रा वराः प्रोक्ता मन्त्राश्चैव महायशाः / सिध्यन्ते विधिना युक्ता यथेच्छा मानसोद्भवे // mmk_36.74(="69") //
इति //
तदेव हस्तौ परिवेष्टिताङ्गुलीयकौ दक्षिणाङ्गुष्ठावनामितौ वामाङ्गुष्ठाधस्थितौ / एषा सर्वबुद्धानां हृदयमुद्रा सम्यक्सम्बुद्धैस्तु भाषिता सर्वकर्मिकास्तु / भवति चात्र मन्त्रः - ओम् त्रैलोक्यपूजिताय हूं फट् स्वाहा / सर्वकर्मकरा भवन्ति / सर्वमण्डलविधानेषु प्रयोक्तव्या सर्वैः सत्त्वानां महारक्षादिषु / तदेव हस्तावुभयाग्रौ सङ्कोचितावूर्ध्वमेतमध्यमाङ्गुलीयकौ / इयं भगवतां (वैद्य 314) सर्वबुद्धानां मूलमुद्रा / भवति चात्र मन्त्रः - ओम् द ददातु दण्ड हुं / ओम् सर्वसत्त्वामृतप्रदेशिकंकराय स्वाहा / दण्डकमण्डलू उभौ मूलमन्त्रौ / अनेन सर्वकर्माणि कारयेत् / सर्वत्र च सर्वमन्त्रेषु प्रयोक्तव्यः सर्वसिद्धददः सर्वरक्षाविधानेषु प्रयोजितव्यौ / तदेव हस्तौ उभयकराबलग्रौ / अन्योन्यावसक्तवेणिकौ शिरस्स्थाने स्थापयेत् / विशेषेषु प्रयोक्तव्यः / भवति चात्र मन्त्रः - ओम् ज्वल ज्वल सर्वबुद्धाधिष्ठिते स्वाहा / अनेन तथागतकुले सर्वकर्माणि कारयेत् / आर्यमञ्जुश्रियो मन्त्रेण वा रक्तेन करवीरेण मालतीकुसुमेन वा द्रव्यस्योत्तेजनं कार्यम् / मञ्जुश्रीमूलमन्त्रेण सर्वतो योज्यम् / सर्वतश्च प्रयोजयितव्यः सर्वकर्मसु / तदेव हस्तौ उभयवेणिकाकारौ शिरःस्थाने स्थापयेत् / सर्वबुद्धानामुष्णीषमहामुद्रा / मन्त्रं चात्र भवति - ज्रीं / सर्वकर्मिको ऽयमुष्णीषराजा / तदेव हस्तौ पद्माकारं कृत्वा हृदये स्थापयेत् / इयं पद्मकुले ऽवलोकितमहामुद्रा सर्वकर्मिका / मन्त्रं चात्र भवति - ज्रीः / तदेव हस्तौ कुड्मलपद्माकारौ नाभिमध्ये स्थापयेत् / इयमपरा अवलोकितस्य सर्वविघ्नप्रशमनी नाम महामुद्रा / मन्त्रं चात्र भवति - जिः /
अयं सर्वकर्मिको ऽवलोकितसर्वभयेभ्यः प्रयोक्तव्यः / तदेव हस्तौ सुशिराकारौ कृत्वान्योन्यप्रतिकूलाङ्गुलिभिर्ललाटदेशे न्यशेदियं सर्वबुद्धानां प्रभावमानसोद्भवं नाम महामुद्रा / मन्त्राणि चात्र प्रयोक्तव्यानि / एकाक्षराणि चतस्रः - ताः / वाः / द्रोः / हाः / एत मन्त्रा एकाक्षरा चतश्रश्चतुर्भिर्बुद्धकोटिभिर्भाषिता सर्वबुद्धानामुष्णीषराजानः सर्वेषां विद्यामहर्द्धिकानां प्रभावा सर्वधर्माश्रयाच्चतुऋद्धि पञ्चचरणाश्चतुरार्यसत्यमास्था बोधिप्राग्भारशिरा चतुर्विमोक्षचतुर्ध्यानसमाधिभिः सर्वैरासेवनीया अप्रकम्प्या सर्वलौकिकलोकोत्तरादिभिर्मन्त्रतन्त्रः परमेश्वराः सर्वविद्याराजा चक्रवर्तीनां ज्येष्ठा सर्वमन्त्राणाम् अचिन्त्या सर्वसमाधिविशेषाणां बोधिप्राप्तामिति महासत्त्वैस्त्रैलोक्याधिपतयो सर्वकुलमन्त्रतन्त्रादिषु अगम्यां सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः / एवमचिन्त्या अश्वभावा अलङ्घ्या गगनस्वभावभूतकोटिधर्मधातुमनाविलप्रतिष्ठा इति संक्षेपतः सर्वकर्मसु प्रयोक्तव्या इति / अनेनैव सर्वकर्माणि कारयेत् / विशेषतः आर्यमञ्जुश्रियः मूलकल्पविधानेष्विति / तदेव हस्तौ सम्पुटाकारौ शिरःस्थाने मुपदर्शयेत् / इयं सर्वतथागतकुले सर्वविषनाशिनी नाम महामुद्रा सर्वविषकर्मसु प्रयोक्तव्या / ट्रों /
अनेन मुद्रया युक्त मन्त्रो ऽयं बुद्धभाषितः / निर्विषां कुरुते क्षिप्रं सत्त्वां स्थावरजङ्गमाम् // mmk_36.75(="70") //
निर्विषां कुरुते नागां उद्युक्तां विषदर्पिताम् / सर्वदोषां तथा हन्ति + + + रागद्वेषजा // mmk_36.76(="71") //
परा मोहजाश्चैव मन्त्रो ऽयं मुद्रेण योजितः / विविधां कुरुते कर्मां विषसत्त्वसमुद्भवाम् // mmk_36.77(="72") //
संक्षेपत इयं मुद्रा /
विन्यस्ता मन्त्रयानेन विविधां च विषोद्भवाम् / कर्मां करोति विषं चास्य वशो भवति यदृच्छया // mmk_36.78(="73") //
इति लक्षजप्तेन / तदेव हस्तौ समयवज्राकारौ उभयत्रिसूचिकौ वामहस्तादधःस्थितः दक्षिणहस्तादूर्ध्वविपर्यस्तं कृत्वा शिरःस्थाने न्यसे / तदेव वज्राधिपतेर्हृदयमुद्रा सर्वकर्मिका / मन्त्रं चात्र भवति - हूं / सर्वकर्मिको ऽयं सर्वार्थसाधकः सर्वक्रूरग्रहेषु प्रयोक्तव्यः नान्यथा विचिकित्सा कार्या / ओम् भद्रे भद्रवति करटे रत्न विरत्न स्वाहा / अस्य जापः प्रथमं कार्यः अष्टशतम् / ततो मञ्जुश्रीः सिद्ध्यतीति / तदेव हस्तौ उभयकुञ्चिताग्राङ्गुलीयकौ मूर्ध्नि स्थापयोदियं समन्तभद्रस्य बोधिसत्त्वस्य महामुद्रा / सर्वकर्मेसु प्रयोक्तव्या सर्वरक्षेषु प्रतिकृता सर्वार्थसाधनी मञ्जुश्रियसाधनेषु च पूर्वमारभेत् पश्चात् कर्मं कुर्यात् कुलत्रयसामान्यमिति / तदेव मुद्रं आर्यसमन्तभद्रस्य ललाटे न्यसेत् / आकाशगर्भस्य महामुद्रा / मन्त्रं चात्र भवति सर्वकर्मिकम् - स्वं / तदेव मुद्रं गलदेशे स्थापयेत् / इयं विमतेलगते महामुद्रा / मन्त्रं चात्र भवति सर्वकर्मिकम् - लं / तदेव मुद्रां उरभि मध्ये स्थापयेत् / मैत्रेयस्य महामुद्रा / मन्त्रं चात्र भवति - मं / तदेव हस्तौ पूर्ववन्नाभिदेशे स्थापयेत् / क्षितिगर्भस्य महामुद्रा / मन्त्रं चात्र भवति सर्वंकर्मिकम् - क्षिं / तदेव मुद्रा कटिदेशे नियोज्या ऊर्ध्वं क्षिपेत् / इयं गगनगञ्जस्य मुद्रा / मन्त्रं चात्र भवति सर्वकर्मिकम् - गं / तदेव मुद्रां उभौ भुजे न्यस्य शिरसि भ्रामयेत् नृत्तयोगेन / इयं सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानाम् / भवति चात्र मन्त्रः - घ्रुः / एषोपरिमितानुशंसकर्मप्रभावविस्तारा सर्वतः द्रष्टव्यगुणमहात्म्ययोगेन /
तदेव मुद्रं ऊर्ध्वमवलोक्यावनामयित्वा ऊर्ध्वं क्षिपेत् नृत्तयोगेन / इयं सर्वदेवानां त्रिधातुस्थितानां अनन्तलोकधातुपर्यापन्नानां ऊर्ध्वमधस्तिर्यक् सर्वतः सर्वसत्त्वानां यक्षयक्षीराक्षसराक्षसी विस्तरेण सर्वेषां इयं महामुद्रा सर्वत्रतालल्या नाम सर्वकर्मसु प्रयोक्तव्यः / आह्वाननविसर्जनमण्डलपटलविधानसर्वसाधनेष्वपि कर्मसु प्रयोक्तव्यः / मन्त्रं चात्र भवति - ओष्ट्रै / तदेव हस्तौ अञ्जलिकृताकारौ मूर्ध्नि न्यसेदेषा सर्वमन्त्रेषु महाबन्धनान्तरावणमहामुद्रा / कटिदेशे च भ्रामयितव्या / भवति चात्र मन्त्रः - ग्यं जये कुमारि शुक्लबन्धनि स्वाहा / अष्टशतजप्तं सूत्रकं कन्याकर्तितकं कट्यां बन्धयेत् / शुक्रबन्धः कृतो भवति / सर्वदिशांश्च व्यवलोकयेत् / सर्वविघ्नाः स्तम्भिता भवन्ति / सर्वतश्च रक्षा मुद्राबन्धमतः साधकेन सर्वकर्मसु / अयं प्रथमतः प्रयोगः कार्यः / पश्चात् कर्माणि कर्तव्यानीति / एवमष्टाविंशकं शतं भवति मुद्राणाम् / साधकेन यथेच्छयान्यतरं प्रयोक्तव्यं सर्वकर्मसु सर्वाणि वा / एवमसङ्ख्येयानि अनेन प्रयोगेण मुद्राणि भवन्ति / असङ्ख्येयाश्च मन्त्रा / तदेव हस्तौ करसम्पुटाकारौ स्थितौ अन्योन्याङ्गुलिभिः समस्तव्यस्ताभिरुभयाङ्गुष्ठोपशोभिताभिः पञ्चसूचिकाकारेण उभौ मुष्टीकृतौ शिरःस्थाने मूर्धनि न्यसेत् / इयमार्यमञ्जुश्रियः पञ्चशिखा नाम महामुद्रा सर्वकर्माणि करोति / अङ्गुष्ठाक्षेपविक्षेपां सङ्कुचितैराह्वाननं विक्षिप्तैर्विसर्जनम् / एवं मनसा सर्वप्रयोगैः सर्वकर्माणिः करोति / मञ्जुश्रीमूलमन्त्रहृदय उपहृदय सर्वमन्त्रेषु वा संयुक्तः सर्वार्थकरा भवति /
तदेव मुद्रां त्रिसूच्याकारम् / एषा मञ्जुश्रियस्य त्रिशिखेति कथ्यते / तदेक कन्यसाङ्गुलिभिः सूच्याकारं एकचीरेति अवगन्तव्यम् / उभौ करसम्पुटावस्थितौ सर्वतो नामितौ अङ्गुलिभिः सुरचितविन्यस्ता (वैद्य 316) गाढावसक्तं मूर्ध्ना स्थापितम् / एषा मञ्जुश्रियस्य सर्वशिरोभ्युद्गतं नाम महामुद्रा / तदेव हस्तौ ततोच्चवाग्र उत्तानकावस्थितौ वक्त्रमध्ये धारयेदियं मञ्जुश्रियः महावक्त्रमुद्रा / तदेवावतार्य हृदयमध्ये न्यसेत् / इयमपरा मञ्जुश्रियः हृदयमुद्रा / तदेव हस्तौ अर्धावस्थितौ किञ्चिन्नामितललाटस्थौ / इयमपरा हृदयमुद्रा / तदेव हस्तौ उद्धृत्य मध्यमाङ्गुलिमवनामितौ अनामिका अवनामितदर्शिताग्रौ तर्जन्या कृतवेष्टितौ अङ्गुष्ठपार्श्वासु प्रसारितौ / इयमपरा वक्रदंष्ट्रमहामूलमुद्रा सर्वमहाभयेषु प्रयोक्तव्या / द्वौ मृसृतौ तदेव / इयमपरा मञ्जुश्रियः उत्पलमुद्रा / तदेव बद्धौ अवनाम्य संवेष्टितौ / मञ्जुश्रियः मयूरासनमुद्रा / तदेव तर्जन्या कन्यसावष्टब्धौ उभयपार्श्वयोः तिर्येकं पीठाकारेण / इयमपरा भद्रपीठमुद्रा / तदेवाङ्गुलिमुष्टीकृतौ तर्जन्येकोच्छ्रिता / इयमपरा यष्टिमुद्रा / द्विरुच्छ्रितौ ध्वजमुद्रा / त्रिरुच्छ्रितौ पताकामुद्रा / चतुरुच्छ्रितौ घण्टा / तदेव हस्तं तर्जन्योपरिस्थितौ तं छत्रमुद्रा / सर्वेष्ववनतेषु फलमुद्रा / हुं / अङ्कुशाग्राङ्गुले तर्जन्यां वस्थितं अङ्कुशमुद्रा / तदेव तर्जनीं दृढमुष्टावस्थितं मुष्टिमुद्रा / तदेव सूच्याग्रस्थितौ तिर्यक् शूलमुद्रा / उभयतर्जन्योपेतं महाशूलमुद्रा / एकाङ्गुष्ठोच्छ्रितं एकलिङ्गमुद्रा / तदेव मुद्रा हृदये स्थापयेत् / मनोरथमुद्रा भवति /
तदेव हस्तौ सम्पुटाकारे यमलं कृत्वा उपर्युपरि यमलमुद्रा / तदेव कुड्मलाकारं विकाश्य मूर्ध्नं क्षिपेत् उत्पलमुद्रा / तदेव पूर्णमाकाशाकारं पूर्णमुद्रा / मूर्ध्नि स्थिता तदेवाध मुष्ट्योपरचितं मञ्जुश्रियः यष्टिमद्रा / पुनः चित्रीकृतौ करौ स्वस्तिकं मञ्जुश्रियस्योर्ध्वगं मालतीकुसुमानरक्तं सर्वं बन्धितव्यम् / तदेव हस्तौ विपरीतवेष्ट्य मध्यमाङ्गुलिप्रसारिताग्रम् / इयमपरा कार्त्तिकेयस्य मञ्जुश्रियः शक्तिमुद्राः / घण्टा पताका च पूर्ववद् ज्ञेया / तदेव हस्तौ सम्पुटीकृत्य विकासयेत् / इयमपरा पद्ममुद्रा मञ्जुश्रियः / तदेव हस्तौ तिर्यगवस्थितौ सुनेत्रीकृतौ स्वस्तिकाकारं कारयेत् / अङ्गुलीभिश्चतुर्भिश्चतुर्दिश्यवस्थितौ सुप्रसारितौ मध्यसुविन्यस्तैः / इयमपरा मञ्जुश्रियः स्वस्तीकमुद्रा / तदेव हस्तौ करपल्लवाकारौ अन्योन्यविश्लिष्टौ अङ्गुलीभिः / इयमपरा पल्लवमुद्रा / तदेव मुष्ट्यौ कृतौ / इयमपरा सर्वबुद्धास्पदमुद्रा / मञ्जुश्रियः तदेव धर्मभेरीमुद्रा / तदेव हस्तौ सम्पुटीकृतौ मध्ये सुषिरौ तर्जन्या परिवेष्ट्य मूलाङ्गुष्ठतलविन्यस्तौ अङ्गुष्ठावनतौ शङ्खाकारकृतचिह्नौ / इयमपरा मञ्जुश्रियः धर्मशङ्खमुद्रा / चक्रं पूर्ववत् / धर्मचक्राकारं इयमपरा मञ्जुश्रियः धर्मचक्रमुद्रा / तदेव मुद्रं ललाटे न्यस्तं नृत्ययोगं कृत्वा क्षिपेदवसव्ययोगेन / इयमपरा महाक्रीडाविकुर्वाणमुद्रा / मूलमन्त्रेणैव महाभयेभ्यो प्रयोक्तव्या नश्यन्ते अविकल्पत इति ।
एवमनेन प्रयोगेणासङ्ख्येयानि मुद्राणि भवन्ति / असङ्ख्येयाश्च मुद्राकल्पमन्त्रतन्त्राश्च / असङ्ख्येयानि च द्रष्टव्यानि / महाप्रभावोद्गतस्वयम्भुवोद्भवाः / तानि च सर्व प्रयोक्तव्यानि / इह कल्पविसरे सर्वाणि च शुचिवस्त्रान्तरावनद्धेन प्रयोक्तव्यानि / यथा असमयज्ञैः सत्त्वैर्न दृश्यन्ते / एवं महाप्रभावानि / अन्यथा समयव्यतिक्रम इति / एता साधनोपयिकानि करमुद्राणि हस्तविन्यस्ता नृत्तगीतप्रयोगैश्चानेकानि भवन्ति / रुतविशेषैश्च सत्त्वानां क्रमशः कथित एवमधुना मण्डलसाधनोपयिकानि महामुद्राणि भवन्ति ।
सर्वबुद्धानां तथा स्तूपा भुवि धातुपरं पटे / बोधिसत्त्वानां तथा पद्म श्रावकाणां परिमण्डलम् // mmk_36.79(="74") //
चतुरस्रः प्रत्येकबुद्धानां कथिता त्रिमण्डलो / नानावाहननाना विविधाभरणविभूषणा // mmk_36.80(="75") //
नानाप्रहरणाश्चैव देवयक्षग्रहापराम् / नृपां पुरुषमतः स्यात् ऋषीणां दण्डमकण्डलुः // mmk_36.81(="76") //
यस्य यो प्रहरणं नित्यं यो वा वाहनभूषणा / तस्य कुर्यान्मुद्रा संक्षेपान्मण्डलेष्विह // mmk_36.82(="77") //
आदित्यचन्द्रौ तदा कुर्यान्मण्डलोपरिमण्डलौ / संक्षेपाद् यस्य यो भूमि तदेव मनसाह्वये / विविधाः प्राणिनो प्रोक्ता तेषां तेषां तदा न्यसेत् // mmk_36.83(="78") //
बहुप्रकारा सत्त्वाख्या बहुमुद्राश्च प्रकीर्त्तिता / तेषां कर्मतो कुर्याद् विधानेन मण्डले // mmk_36.84(="79") //
ब्रह्मस्य पद्मं शक्रस्य वज्रं वरुणस्य पाशं रुद्रस्यं शूलं दुर्गस्य पट्टिशं ऋषिस्य कमण्डलु यमस्य दण्डं धनदस्य गदा कुबेरस्य खड्गं हुताशनस्याग्निकुण्डं पृथिव्या कलशः एवमादयो यथा यस्य प्रहरणानि आभरणानि च लोके ऽद्य दृष्टानि तानि सर्वत्र यथानुस्मरतः विधिना तानि सर्वाणि सर्वमण्डलेषु प्रयोक्तव्यानि कल्पोक्तेन वा विधानेनालिखितव्यानि सर्वमण्डलानि सर्वसत्त्वानां अर्थाय हिताध्याशयेन चेतसा सर्वसत्त्वानां करुणायमानेन उत्पादितबोधिचित्तेन सर्वसत्त्वानुकम्पयमानेन सर्वमण्डलान्यभिलिखितव्यानि सर्वमण्डलाभिषेकाभिषिक्तैः महामण्डलाभिषिक्तैर्वा / आर्यमञ्जुश्रियः दृष्टमण्डलाभिषिक्तेन / अन्यवश्यं सर्वमण्डलां लिखेत / आर्यमञ्जुश्रीः मनसि कर्तव्यः / यत् कारणम् / अभिषिक्तो मया सर्वबुद्धैश्च गङ्गासिकताप्रख्यैः सर्वमन्त्राणां गम्भीरतत्त्वार्थनयधर्मदेशना कुमारबालरूपिणा मन्त्ररूपेण सत्त्वानामर्थं करिष्यसीति //
न मन्त्रमुद्रसंयुक्तं न कुर्याद् धर्मसमाहितम् / अहितं कुर्यान्नात्र नाहितं हितमीप्सितम् // mmk_36.85(="80") //
मुद्रामन्त्रसमायुक्तो अहितं चैव निवारयेत् / हिताहितं सदा सर्वं अहितं चैव निवारणम् // mmk_36.86(="81") //
हितैव सर्वमन्त्रो कुर्यान्मन्त्रमुद्रितो / न मुद्रमन्त्र तत्कुर्यान्न मन्त्रं मुद्रितं तथा // mmk_36.87(="82") //
मुद्रार्थसंयुक्तो सफलार्था साधयिष्यते / सफलं मुद्रसंयुक्तो मन्त्रो मुद्रफलोदयः // mmk_36.88(="83") //
साधयेत् कर्मविस्तारं मुद्रसमं चिन्ता / शान्तिका ये तु मुद्रा ये मन्त्रा चैव शान्तिके // mmk_36.89(="84") //
मन्त्रमुद्रसमायोगा शान्तिकं कर्ममारभे / पौष्टिकेषु च मन्त्रेषु बध्नीयान्मुद्रसम्भवम् // mmk_36.90(="85") //
पौष्टिकं मुद्रमित्याहुः कथिता मन्त्रयोजिता / शान्तिके शान्तिकं कुर्यात् मुद्रमन्त्रेष्विहोदितैः // mmk_36.91(="86") //
जिनैः जिनमन्त्रमुख्यैस्तु मुद्रैश्चापि विभागतः / शीतलेषु च सर्वर्तुसर्वकर्मांश्च साधयेत् // mmk_36.92(="87") //
पुष्ट्यर्थं कथिता मन्त्राः अब्जकुले तु समुद्भवा / मन्त्रतन्त्रानि तीक्ष्णैः मुद्रैश्चापि तवोदितैः // mmk_36.93(="88") //
विख्यातैः कथितैर्मन्त्रैः मुद्रैश्चापि महर्द्धिकैः / अब्जके तु समादिष्टैः शुचिभिश्चैव दीपितैः // mmk_36.94(="89") //
प्रशस्तैः मङ्गलैश्चापि आरोग्यार्थसुपुष्कलैः / क्रोधयुक्तैस्तथा मन्त्रः मुद्रैश्चापि वर्णितैः // mmk_36.95(="90") //
भोगार्थसम्पदोद्दिष्टैः निर्मलैश्चापि शोभनैः / शुक्लैः सितमुद्रैस्तु मन्त्रमुद्रसमोदितैः // mmk_36.96(="91") //
साधयेत् सम्पदां मन्त्रां भोगकारा जन्मनि / तथाविधैः मन्त्रमुद्रैस्तु साधिता सफलोदया // mmk_36.97(="92") //
क्रोधमन्त्रा तथा प्रोक्ता मन्त्राद्या प्राणोपरोधिका / कथिता वज्रिणे तन्त्रे जिनाब्जे च समुद्भवे // mmk_36.98(="93") //
तेजिनो बहुधा उग्रा दुष्टसत्त्वदमापहा / नियुक्ता प्राणहिंसायां न कुर्यात् तां तु धीमता // mmk_36.99(="94") //
मुद्रा च दण्डदमनवज्रशूलाभिपट्टिशा / विविधा प्रहरणांश्चैव महाशूलास्तु यमान्तके // mmk_36.100(="95") //
संयुक्ता मन्त्रिभिः क्षिप्रं कृत्वा प्राणापहं ध्रुवम् / तन्न कुर्याच्च तं धीमां सर्वप्राणोपरोधिनम् // mmk_36.101(="96") //
भजेन्मन्त्रतन्त्रज्ञः क्रूरं क्रूरसमुद्रितम् / मुद्रा क्रूरतरः प्रोक्ता क्रूरमन्त्रेषु योजिता // mmk_36.102(="97") //
क्रूरसत्त्वैः यथा सिद्धा क्रूरकर्मान्तचारिभिः / विविधां नारकां दुःखां प्राप्नोतीह स दुर्मतिः // mmk_36.103(="98") //
न कुर्यात् क्रूरमन्त्रेभ्यो दुःशीलानां चाभिचारुकम् / क्रूरमन्त्र तथा मुद्रं न दद्युः सर्वतो जनाः // mmk_36.104(="99") //
यस्मात् फलमनिष्टं वै रनुभूये पुनः पुनः / न विद्या सुखं तदा मन्त्री क्रूरक + + // mmk_36.105(="100") //
+ + + + + + + + + + + + + + + + + + समोदिता / त्रिधा + + + + + + + + + + + + सिद्धिषु दृश्यते // mmk_36.106(="101") //
इष्टं इष्टफलायत्तं + + + + + + + + + + / होमं क्रूरकर्मेषु तस्माद्धर्मां विवर्जयेत् // mmk_36.107(="102") //
मुनिश्रेष्ठो स योगा + + + + + + + + + + + + + / + + + + + अब्जिनो गीता हीना क्रूरकर्मभिः // mmk_36.108(="103") //
गीता वज्रकुले मन्त्रा त्रिधा ते परिकीर्त्तिता / हीनोत्कृष्टम + + + + + + + + + + + + + + // mmk_36.109(="104") //
+ + मुद्रसमुद्देशं बहुमन्त्रार्थविस्तरम् / कथिता जिनवरैः पूर्वं अधुना ये इहोदिता इति // mmk_36.110(="105") //
बोधिसत्त्वपिटकावतसंकात् आर्यमञ्जुश्रियमूलकल्पात् चतुस्त्रिंशतिमःमहामुद्रापतलविसरः परिसमाप्त इति // अथ सप्तत्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीये मूलकल्पे अपरमपि मुद्रा परमगुह्यतमम् / सर्वेषां मुद्रातन्त्रविधानं सर्वमन्त्राणां सम्मतं सर्वमन्त्रैश्च सह संयोज्य सर्वकर्मप्रसाधकं सम्यक् सम्बोधिमार्गविशोधकं सर्वभवमार्गविनाशकं सर्वसत्त्वोपजीव्यं आयुरारोग्यैश्वर्यसर्वाशापारिपूरकं सर्वबोधिपक्षधर्मपरिपूरकं सर्वसत्त्वसन्तोषणकरं सर्वसत्त्वमनाशाभिरुचितसफलाभिकरणं सर्वकर्मकरं सर्वमन्त्रानुप्रसाधकं सर्वमुद्रामन्त्रसमेतम् / शृणु कुमार मञ्जुश्रीः /
आदावेवोष्णीषलक्षणं भवति / प्रसृतसमोहानोभयपाणिना जिह्वा आनामिकाङ्गुल्यौ करमध्ये नखे नखं परिधाय अङ्गुष्ठाग्रेणोपगूढाः कन्यसौ सूच्याकारेण संहताग्रा तथैव मध्यमा समनखशिखासंसक्तमध्यगौ प्रदेशिन्यौ सूच्याकारसमन्तावभासोष्णीषमहालक्षणं नाम महामुद्रा / भवति चात्र मन्त्रः - आः मः हं / तदेव प्रदेशिन्यौ सञ्चार्य नखेन नखमालभेत् / मण्डलाकारसूच्याभिः कुदृष्टिशल्यविपर्यासदाहनं नाम महाधर्मचक्रमुद्रा / मन्त्रं चात्र भवति - ओम् धुन पातय छिन्द चक्रे वज्रिणि हूं समयिरवो भागे प्रदेशिन्यो निर्गुगुगुल्याकातृकं चतुर्मारारिशयनी / वज्रवीरा चलाचलमहा महीक्लेशासनी नाम महामुद्रा / मन्त्रं चात्र भवति - ओम् वज्राननि हूं फट् /
पर्यक् तु मुद्रा मन्त्रा च संयुक्ता सर्वकर्मसु / नश्यन्ते सर्वविघ्ना वै शरदैव यथाम्बुदा // mmk_37.1 //
चतुर्मारकृता ये च ये च विघ्ना ससुरासुराः / नश्यन्ते दृष्टमात्रं वै मुद्रं पर्यमुत्तमम् // mmk_37.2 //
परतस्तुल्यमुद्दिश्य तृतीया मुक्तप्रदेशिनी / सङ्कुचिताग्र्या शुभा चैव मुष्टिस्तथागती स्मृता // mmk_37.3 //
त्रैलोक्येन महामहेश्वरगभस्तिमालिनी नाम महामुद्रा / मन्त्रं चात्र भवति - ओम् विजये हः / तथागतमुष्टिमुद्रा च / एभिरन्यतमैर्मुद्रै हस्तद्वयेनावबध्वा साधनकाले पूर्वसेवाकाले वा सकृदुच्चार्य यावदिच्छं जपेत् निषण्णो स्थितो वा / एवं सर्वविघ्नविनायकाः अवतारं न लभन्ते / सिद्धिश्चाभिमुखीभवति //
ता एव प्रदेशिन्यः सञ्चार्य मध्यमयोपरि संसक्ताग्रां कारयेत् / उद्गतोष्णीषमुद्रा / मन्त्रं चात्र भवति - ओम् ज्वलोज्ज्वल दीप्तोद्गतोष्णीष धुन धुन हूं //
ता एव प्रदेशिन्यो सञ्चार्य मध्यमसूच्या सदा नखशिखरसंसक्ता निर्भुग्नगुल्फकुण्डलाकारमुद्रा सितातपत्रोष्णीष / मन्त्रं चात्र भवति - ओं म म म म हूं निः //
ता एव प्रदेशिन्यौ परतस्तुल्यमुद्यम्य आश्लेष्य मध्यमसूच्ये तेजोराशिमुद्रा / मन्त्रं चात्र भवति - ओं तथागतोष्णीष अनवलोकितमूर्ध्नि तेजोराशि हूं ज्वल ज्वल एक एक दर विदर च्छिन्द भिन्द हूं हूं स्फट् स्फट् स्वाहा //
ता एव प्रदेशिन्याग्रसंसक्तमध्यमसूच्ये मण्डलाकारो जयोष्णीषमुद्रा / मन्त्रं चात्र भवति - ओं जयोष्णीष ज्वल ज्वल बन्ध बन्ध दम दम ङ्रं ङ्रं ङ्रं हः हन हूं जयोष्णीषमन्त्रा //
तयैव प्रदेशिन्याग्रा सञ्चार्य मध्यमध्यमसूच्या नखस्योपरि तृतीयभागे श्लिष्टा चक्रवर्तिमुद्रा / ओं नमो अप्रतिहततथागतोष्णीषाय अनवलोकितमूर्ध्नि चक्रवर्ति हूं ज्वल ज्वल धक धक धुन धुन विधुन त्रासय मारयोत्सादय हन हन अं अं अः अः कः कः प्रोंखिनि प्रोंखिनि कुण्डलिनि अपरोजितास्त्रधारिणि हूं फट् / चक्रवर्ति ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखस्याधस्तात् तृतीयभागे संयुक्ता मन्त्राधिपस्य चक्रवर्त्तिने मुद्रा / ता एव प्रदेशिन्याग्रा सञ्चार्य सूच्या नखस्याधस्तात् संसक्ता मन्त्राधिपस्य मुद्रा / ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखपर्वयोरन्तरे संसक्ता महाचक्रवर्त्तिने मुद्रा / ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्य तृतीये पर्वे अधस्तात् संसक्ता कुण्डलाकारेण महाचक्रवर्तिने मुद्रा / ता एव प्रदेशिन्याग्रा सञ्चार्य तृतीये पर्वे मध्यमसूच्या पर्वयोरन्तरे संसक्ता मन्त्राधिपस्य महाचक्रवर्तिने मुद्रा / ता एव प्रदेशिन्याग्रा निर्भुग्नगुल्फसत्रिकं मध्यमसूच्या मध्यमपर्वयोरधस्तात् संसक्ता पर्वतृतीयेन अपराजितोष्णीषचक्रवर्त्तिन हृदयमुद्रा / मन्त्रं चात्र भवति - ओम् अपराजिता धिक् //
ता एवोष्णीषमूलमुद्रायान्यतमेन वा सोपचारविन्यास सर्वकर्माणि कारयेदङ्गुष्ठाग्रैश्चलितैरनामिका परामृज्योत्कर्षयेदावाहनम् / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एहि एहि भगवं धर्मराज प्रतीच्छेयं अर्ध्यं गन्धं पुष्पं धूपं बल्यं दीपं च / मां चाभिरक्षाप्रतिहतबलपराक्रमाय स्वाहा / आवाहनं शुक्लपुष्पैः स्वरूपेणार्ध्यपाद्यमाचमनीयमासनोपविशने तदानेनैव दिशि विदिशि अध ऊर्ध्वं च बन्धयेत् //
ता एवानामिकौ अङ्गुष्ठाग्रैरपमृज्याथ नामयेत् / मध्यमे पर्वे स्पृश्योत्क्षिपेत् / विसर्जनार्घेण स्वदेवताया अपसव्येन भ्रामयेत् / मुद्रा दिशाबन्धा मुक्ता भवन्ति / मन्त्रं चात्र भवति - नमो ऽप्रतिहतोष्णीषाय गच्छ गच्छ भगवं धर्मराज प्रतीच्छ मयार्ध्यं गन्धं पुष्पं धूपं मां च रक्षाप्रतिहतबलपराक्रमाय / मुद्रा मन्त्रविसर्जनार्घेण //
ता एव प्रदेशिन्यौ अधस्तात् तृतीये पर्वे मध्यमसूच्ये संसक्तावन्योन्य अङ्गुष्टौ सह कन्यसैः निःपीडितमुष्टिः मध्यमसूच्यौ / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओम् ओम् ह्रौं बन्ध हूं फट् / अप्रतिहतोष्णीष तेजोराशे / मुद्रामन्त्रा सर्वबन्धादिषूपयुज्यते सर्वकर्मिकः //
ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीयपर्वे दीषिदसंसक्ता विकरणोष्णीषमुद्रा / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय विकरण धुन धुन हूं विकरणोष्णीषः भगवतो विद्याधिपते महाविद्याराजा उष्णीषतन्त्रे सर्वविघ्नविनायकोपघोतष्वभिषेकमात्मरक्षादिशाबन्धमण्डलबन्धादिषु सर्वकर्मेषु प्रयुज्यते //
ता एव प्रदेशिन्यौ विकसिताकुञ्चिताग्रा चलिताकृष्टौ अग्नेरावाहनं पश्चाद्धोमयामीति / (वैद्य 322) एष एव विसर्जनं विक्षिप्तैः प्रदेशिन्यौ ज्वालामालिन्योष्णीषमुद्रा / अप्रतिहतः सर्वकर्मसु / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एह्येहि तेजोमालिने अग्नये स्वाहा //
ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीये पर्वे मध्यमपर्वयोरन्तरे संसक्ता बलोत्कटोष्णीषमुद्रा / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय इमं गन्धं पुष्पं धूपं बलिं दीपं च प्रतीच्छ हर हर सर्वबुद्धाधिष्ठिते धर्मराजाप्रतिहताय स्वाहा //
गन्धादिषु मन्त्रः - विपर्यस्तानामिके तृतीये तृर्वाङ्गुष्ठे संसक्ता प्रदेशिन्यः सूच्याकारः वज्रतेजोष्णीषमुद्रा / अप्रतिहतः सर्वविनायकानाम् / अनेन निग्रहं कुर्यात् सहायानां दिक्कालानां च / एवमेभिर्मन्त्रमुद्रैः रक्षा जपकाले साधनकाले मण्डले ऽपि सर्वकर्माणि कर्तव्यानि / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वविघ्नविध्वंसनकराय त्रोटय स्वाहा //
अनामिकयोरङ्गुष्ठमूले कुण्डलाकारस्तथैव च प्रदेशिन्यौ सूच्याकारः सर्वत्राप्रतिहतो ऽपराजितोष्णीषमुद्रा / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वत्रापराजिताय समये शान्ते दान्ते धर्मराजभाषिते महाविद्ये सर्वार्थसाधनि स्वाहा / घृतहोमादिषु शान्तिकपौष्टिकानि कर्माणि कुर्यात् //
एतावनामिकायाः कुण्डलयोः प्रदेशिन्यौ कुञ्चिताग्रा प्रतिहतेत शङ्करोष्णीषमुद्रा / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीष ओं शङ्करे स्वाहा / रक्षा सर्वकर्मसु //
अङ्गुष्ठाग्रौ अनामिकयोस्तृतीये पर्वेनाक्रान्ता तथैव प्रदेशिन्यौ सूच्या वज्राप्रतिहतसमयोष्णीषमुद्रा सर्वत्र समयसाधारणः / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय / ओम् सङ्करे समयं स्वाहा //
अङ्गुष्ठाग्रौ अनामिकयोर्मध्ये पर्वेणाक्रान्ता प्रदेशिन्यौ कुञ्चिताग्रा मध्यमसूच्या मध्यमपर्वसंसक्ताप्रतिहतमहासमयोष्णीषमुद्रा देवासुरेषु युज्यते समये स्थापिता / मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओम् शङ्करे महासमयं स्वाहा / अनया मण्डलबन्धं कृत्वा जपेच्चक्रवर्त्तिनमपि समये तिष्ठ तिष्ठ / अन्यांश्चक्रवर्तिनांश्चाभिभवति / तत्रैव स्थाने जपं कुर्वं सर्वलौकिकलोकोत्तराणां गन्त्राणां असक्तादन्योन्यं विद्याप्रभावबलविघातं कर्त्तुम् / एकस्मिं स्थाने सर्वजापिनाम् / एवमाद्या उष्णीषराजानः असङ्ख्येयानि भवन्ति / विस्तरेण कर्त्तव्यं सर्वतथागतकुलम् //
इह हि मञ्जुश्रीः कल्पराजे अपरिमाणानि मन्त्राणि भवन्ति / मुद्राश्चैव विविधाकारा / संक्षेपतो ऽहं वक्ष्ये / यदि विस्तरशो कथेयम् अशक्यं सर्वमानुष्यैः आमानुषैश्च कल्पसहस्रेणापि कालप्रमाणेनोद्गृहीतुं धारयितुं वा / तस्मात् तर्हि मञ्जुश्रीः संक्षेपतः कथयिष्यामि समासेनोपधारय //
हृदयस्य मुने मुद्रा कथ्यते प्रवरा इह / ततो देवातिदेवस्य मुद्रा वै श्चक्रवर्त्तिनः // mmk_37.4 //
अवलोकितचन्द्रस्य बोधिसत्त्वस्य धीमतः / वज्रपाणेस्ततो मुद्रा यक्षेन्द्रस्य प्रकीर्त्तितः // mmk_37.5 //
ततो ऽन्येषां तु मुद्राणां महताममितौजसाम् / दूतदूतीगणां सर्वां चेटश्चेटी तथा पराम् // mmk_37.6 //
यक्षा यक्षीस्तथा देवां नागनागी तथापराम् / किङ्करः किङ्करीणां च पिशाच पिशाचीनां च // mmk_37.7 //
महर्द्धिका राक्षसीनां तथान्यां सुरयोषित् / दैत्यमङ्गनां सिद्धविद्याधराणां च सर्वेषां च // mmk_37.8 //
अमानुषाणां नामानुष्यांश्चापि सर्वेषां त्रिभवे जन्मनिःसृताम् / सर्वेषां तु जन्तूनां मुद्रा ह्युक्ता पृथक् पृथक् // mmk_37.9 //
मन्त्रास्तु विविधाकारा नानाकर्मसमाधिका / राजकुले मानिकुले चापि तेषां मुद्रा पृथक् पृथक् // mmk_37.10 //
अर्हप्रत्येकबुद्धानां उभौ मुद्रौ शुभोदयौ / सर्वेषां बोधिसत्त्वानां दशभूमिप्रतिष्ठिताम् // mmk_37.11 //
मुद्रा हृदयमन्त्रा च एकैकः परिकीर्त्तिता / दिव्ययक्षकुले चापि ऋषिगन्धर्वपूजिते // mmk_37.12 //
कुले सप्तमके प्रोक्ता मुद्रा गन्धर्वमाश्रिता / तथाष्टमके मुद्रा कुलेभ्यो परिकीर्तिता // mmk_37.13 //
सर्वे मुद्रा समाख्याता अपराश्च सुगताह्वया / पृथक् पृथक् मन्त्रेषु लौकिकेषु ससौगते // mmk_37.14 //
मुद्रासहितो मन्त्रः दीप्रो भवति कर्मसु / मुद्राक्षेपादिकुशलं नानुयान्ति विनायकाः // mmk_37.15 //
अथ खल्वेषां महामुद्रादीनां लक्षणं भवति / बुद्धानां भगवतां हृदयमुद्रालक्षणं भवति / हस्तद्वयेनान्योन्यमङ्गुलीः सन्नियम्याङ्गुष्ठौ दर्शयेत् / सैषा तथागतानां हृदयमुद्रा / एषैव दक्षिणेनाङ्गुष्ठेन एकैकदर्शितेन पद्मधरस्य मुद्रा भवति / वामेतरस्य पूर्वमुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुञ्च प्रसृतं कृत्वैकतः वज्राकारम् / एषा वज्रधरस्य मुद्रा / एकसूचीमवनाम्य एषा गन्धहस्तिने बोधिसत्त्वस्य मुद्रा पुनरेवोत्क्षिप्य मण्डलाकारं कुर्यात् / एष गजगन्धस्य मुद्रा / उभयोरप्येकं पर्वं कुञ्चयेत् / एषा मणिकुले मुद्रा / सर्वेषां मणिचराणां जम्भले जलेन्द्रादीनां मन्त्रैः तैरेव योजयेत् / तर्जनीयुगलं द्विपर्वं कुञ्चितान्योन्यनखसंयुक्तम् / एषा यक्षकुले मुद्रा पञ्चकादीनां यक्षमहर्द्धिकानाम् / अन्योन्यनखसंयुक्तं अङ्गुष्ठं नखोपरि धारयेत् / तथैव हस्तौ पूर्ववत् कारयित्वा मध्यमाङ्गुलियुगलं उत्थाय सूचिकाकारं कारयित्वा एषा सर्वदेवानां मुद्रा (वैद्य 324) दिव्यकुले अकनिष्ठादीनां दिवौकसाम् / भूयस्तथैव हस्तौ संयम्य मुष्टिं बध्वा अङ्गुष्ठौ दर्शयेत् / सौषा प्रत्येकबुद्धार्यश्रावकानां मुद्रा //
इत्येतामष्टौ मुद्रासु कुला चाष्टसमावृता / सर्वेषां जिनपुत्राणां मुद्रामेकं तु वक्ष्यते // mmk_37.16 //
प्रसृताञ्जलिविन्यस्तं ईषित्सङ्कुचितं पुनः / स एषा कथिता मुद्रा बोधिसत्त्वां महीयसाम् // mmk_37.17 //
चिन्तामणिः खखरकं सङ्घाटी पात्रचीवरम् / दंष्ट्राभयहस्तं च मुद्रैताः सप्तकं मुनेः // mmk_37.18 //
दृष्टिमैत्रीप्रभाजालदशनतोर्ण सुगतः स्थितिः / इमाप्यसा परा मुद्रा जिनस्यात्मशरीरजा // mmk_37.19 //
द्वौ सप्तकौ गणावेतौ मुद्रा पञ्च मया स्मृता / हृदयस्य मुनेः सहितानि विंशत्युक्तादिस्वयम्भुवैः // mmk_37.20 //
पुरा कथिता ह्येते मुद्रा आदिजिनैः तदा / परिवारः समाख्यातो विंशकश्चक्रवर्त्तिनः / परमं परसङ्ख्याता मुद्रा मन्त्राश्च निश्रिता // mmk_37.21 //
उद्गतं कुण्डलीकृत्य चिन्तामणिमुद्रा / पर्यङ्के वामदक्षिणे मुष्टिमंसदेशे धारये / खखरकमुद्रा भवति / हस्तसम्पुटेनान्योन्यमभिमुखं सङ्घाटीमुद्रा भवति / पात्रं सम्पुटाधारः चीवरं वामहस्तेन दंष्ट्रा हृदयमुद्राया वाममेकमङ्गुष्ठमुन्नतम् / अभयहस्तमभयावनतः वामचीवरावलम्बतः अभयहस्तः सम्पुटे मध्यमाङ्गुलियुगले तर्जन्यौ बहिः कुञ्चितौ निवेशयेत् मध्याङ्गुष्ठौ / एषा बुद्धलोचनमुद्रा भवति / एषैव एवा पर्वकुञ्चिते तर्जनी एकतः कुर्याद् बुद्धमैत्री / अञ्जलि विरलाङ्गुलिं कृत्वा तर्जन्यनामिका गोपयेत् सूचीत्रयेण / मामकी मुद्रा भवति / अञ्जलिं कृत्वा तर्जनीमध्यमाङ्गुलिबहिः तृतीयपर्वे कुञ्चिते सन्दध्यादङ्गुष्ठौ पृथक् अङ्गुल्याकारेण भोगवतीमुद्रा / वामहस्तेन तर्जन्या मध्यमया च विजया / दक्षिणया त्र्यङ्गुले वज्रं कटिदेशे धारयेत् //
एवमेवाष्टौ महामुद्रा आत्मना शिरसि विद्याराजमुद्रा बध्वा सर्वकर्माणि कारयेत् / समये वा मण्डले पुष्पाणि क्षिपेत् / पूर्वनिर्दिष्टेन वा विधिनानेन वा कुर्यात् / यथेप्सतः सर्वकर्माणि कारयेत् / विद्यामन्त्राभिहितानि समयानि भवन्ति मुद्रैः समुद्रितानि मुद्राप्रभावानि / यन्मुद्रं सहसा अस्थाने बध्नीयात् स एवास्य समयभङ्गो भवति / यद् वज्रं तच्छूलम् / त्रिशूलवज्रयोर्विशेषो नास्ति / यदूर्ध्वं तद् वज्रधरस्य मुद्रा भवति / अधरस्ताच्च महेश्वरस्य / मध्ये आचार्यगुरुदक्षिणीयां सर्वेषा च मनुष्याणां एकाङ्गुलिमुच्छ्रिते सर्वेषा मनुष्याणां द्विपदचतुष्पदबहुपदापदविभवसंस्थितानां सत्त्वानां मुद्रा भवति / द्विरुच्छ्रितै सर्वेषां यक्षयक्षीणां मुद्रा भवति / त्रिमुच्छ्रितैः सर्वविद्याधरविद्याधरीणां मुद्रा भवति / चतुरुच्छ्रितैः समपाणितलविन्यस्तैः ससुरासुराङ्गनानां मुद्रा भवति / कृताञ्जलिविधिन्यस्तौ हस्तौ शोभनाकारसंस्थितौ सर्वेषां रूपाधचराणां (वैद्य 325) देवानां मुद्रा भवति / तदेव हस्तौ आरुप्याधचराणां देवानां मुद्रा भवति / तदेव हस्तौ सुषिरसम्पुटाकारौ मुष्टिनिबन्धनौ कामधात्वेश्वरप्रभृतीनां सर्वेषां कामधातुस्थितानां सनरतिर्यक्प्रेतयामलौकिकानां सत्त्वानां मुद्रा भवति / तामेव मुद्रामेकमङ्गुलिमुत्सृज्य सर्वेषां पिशाचपिशाचीनां मुद्रा भवति / द्विमुत्सृतै राक्षसराक्षसीनां / त्रिमुत्सृतैः सर्वक्रव्यादादीनां ग्रहमातरकूष्माण्डादीनां पिशिताशिनां सर्वेषां च डाकिनीनां व्यन्तरादीनां च सकश्मलां चतुर्भिरङ्गुलीभिः सङ्कुचितैः सर्वकश्मलां मुद्रा भवति / मुद्रैराकृष्टैराकर्षणं मुद्रैरुत्क्षिप्तैर्विसर्जनम् / स्वचित्तेन सर्वकर्माणि कारयेत् //
एभिरेव मुद्रैः यथेष्टतः स्वकं स्वकं मन्त्रं नियोजयेत् / नान्येषां नान्यकर्माणि कारयेत् / तस्मिं तस्मिं नियुञ्ज्याद् यस्मिं यस्मिं मन्त्रा भवन्ति /
अनुल्लङ्घ्या ह्येते मुद्रा सर्वबुद्धैरधिष्ठिता / अशक्ता सर्वसत्त्वा वै मुद्रां दृष्ट्वापि कोपितुम् // mmk_37.22 //
मुद्रोलङ्घनाद् विनाशमाप्नुवन्ति / मुद्राणां विनाशात् समयभ्रंशः सर्वविद्याव्यतिक्रमश्च निष्ठायां रौरवे गतिः अवीच्यायां वा महानरकोपपत्तिः गाढतरमेवाप्नुवन्ति विघ्नकर्तारो / ये च मुद्रासमयमधितिष्ठन्ते तेषां चिरसौख्यमनल्पकं भवति महादिवौकसोपपत्तिश्च गतिनिष्ठायां नियतं बोधिपरायणो भवति / संक्षेपतो मुद्रा बहुप्रकारा प्रकाशिता आदिबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः / न शक्यमस्य पर्यन्तं गन्तुं सङ्ख्यागणनां वा कर्तुम् / सर्वसत्त्वैश्च उद्ग्रहीतुम् / संक्षेपतः जिनकुले विद्याराजचक्रवर्ति एकमक्षरं रक्षार्थं तस्य मुद्रा भवति //
वामेतरस्य पूर्वं मुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुचे प्रसृतं कृत्वैकतः / उभयोरप्येकं पर्व कुञ्चये / तर्जनीयुगलं द्विपर्व कुञ्चितः अन्योन्यनखसंयुक्तं अङ्गुष्ठनखोपरि धारयेत् / एष चक्रवर्त्तिमुद्रा सर्वकर्मिका प्रवरा सर्वमन्त्राणां निर्दिष्टा लोकतायिभिः / पूर्वनिर्दिष्टेन एकाक्षरचक्रवर्त्तिना संयुक्ता सर्वकर्मिका भवति / अनेन साधितेन सर्वं तथागतकुलं सर्वाश्च लौकिकलोकोत्तराः मन्त्राः सिद्धा भवन्ति / अनेन जप्यमानेन सर्वमन्त्रा जप्ता भवन्ति //
अन्यदवश्यं साधकेन पूर्वतः अस्मिं कल्पराजे प्रचोदिते मन्त्रवरे अष्टसहस्रं जापः कर्तव्यः / एवमेते सर्वविद्याः आमुखीभवन्ति आशु सिद्धिं प्रयच्छन्ति / क्षिप्रं च वरदा भवन्ति / नियतं बोधिपरायणः पद्मधरमुद्रायाः एकाक्षरावलोकितेश्वरहृदयेन संयुक्तः सर्वकर्मां करोति / पण्डरवासिन्या वा विद्यामुद्रेण वा संयुक्ता तथैव सर्वकर्मां करोति / वज्रधरस्य मुद्रया तस्यैव एकाक्षरहृदयेन संयुक्तः तथैव सर्वकर्मां करोति / मामक्या वा महाविद्यया //
एवं राजकुले एकाक्षरराजगन्धबोधिसत्त्वहृदयेन एवं तेनैव मुद्रया मणिकुले यक्षकुले दिव्ये आर्ये तेष्विह एकाक्षरहृदयैः तेष्वेव मुद्रैः सर्वकर्माणि कर्तव्यानि / एवं सर्वत्र सर्वमुद्रैः सर्वमन्त्रैश्च सर्वकर्माणि कर्तव्यानि / यथायुक्तितः विद्यामन्त्रबलाधाना न्यसेत् / नान्यतः कर्माणि कर्तव्यानि //
एवं दक्षिणकरविन्यस्तं स्वस्त्योद्यतः ब्राह्मणस्य सहाम्पतेः एकलिङ्गमुद्राया महेश्वरस्य चक्रमुद्राया विष्णोः अञ्जलिराकोशविरलविन्यस्तः गरुत्मनः एवं ऋषीणां शापोद्यतहस्तमुद्रं एवं गन्धर्वाणां ससुरासुराणां वामहस्तमङ्गुष्ठसभ्यन्तरीकृतमुखमुपदर्शनमष्टिस्थितं चतुःकुमार्यमुद्रा तेनैव मन्त्रेण एवं कार्तिकेयस्य शक्तिमुद्रया एवं यमवरुणकुबेरयक्षराक्षसपिशाचमहोरगादीनां सर्वेषां त्रिभवसंस्थितानां सत्त्वानां सर्वगतिपर्यापन्नानां सत्त्वधातुसन्निःश्रितानां सर्वेषां ग्रहमातरक्रव्यादकश्मलादीनां सत्त्वानां सर्वतः सर्वेषां मुद्रान्युक्तानि / मन्त्राश्चैव सर्वतः नियुज्यानुपूर्वशः क्रमशः सर्वतः सर्वं भवति नान्यतः //
आदौ तावत् साधकेन अस्मिन् कल्पराजे तथागतगतिः शुभा महामुद्रा मन्त्राश्च तदङ्गा निश्रिता आर्यसमन्तभद्रमहास्थानप्राप्तविमलगतेः त्वदीया मञ्जुश्री उत्पलमुद्रा एतेषां च बोधिसत्त्वानां च मुद्रा अवश्यं साधकेन पूर्वाभिमुखस्थितेन आदित्याभिमुखेन प्रातरुत्थाय शुचिना शुचिस्थानस्थितेन एतेषां मुद्राणामन्यतरं बध्वा आत्मशिरस्योपरि क्षिपेदूर्ध्वम् / एतेषामन्यतमं च मन्त्रं जपेदष्टशतम् / सर्वव्याधिविनिर्मुक्तो भवति / दीर्घायुषः सर्वविघ्नैश्च नाभिभूयते / सर्वसत्त्वानामधृष्यो भवति / सर्वमन्त्राश्चाभिमुखीभवन्ति / आशु सिद्धिं प्रयछन्ति / सर्वबुद्धैश्चाधिष्ठितां भवति / नियतं बोधिपरायणो भवति / मञ्जुश्री कुमारभूतश्चास्य कल्याणमित्रो भवति यावद्राबोधिमण्डात् / कतमा च ते मुद्रा मन्त्राश्च भवन्ति //
आदौ तावन्महावीरमुद्रा वक्ष्यते / हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिमङ्गुष्ठमुन्नतौ पर्वतृतीयभागाकुञ्चितौ एषा महावीरमुद्रा सर्वतथागतैर्भाषिता / मन्त्रं चात्र भवति - आः वीरं हूं खं / अनेन मन्त्रेण संयुक्तः मुद्रो ऽयं सर्वकर्मकृत् //
तदेव हस्तद्वयं सम्पुटं कृत्वा भूयो विकसितमङ्गुलीभिः समन्ततो विकसितां वज्राकारम् एषा विकासिनी नाम मुद्रा वरा आदिबुद्धैः प्रकाशिता / मन्त्रं चात्र भवति - ओम् गगनसम्भवे दीप्त दीप्त ज्वालय ज्वालय बुद्धाधिष्ठिते विकाशय विकाशय सर्वबुद्धान् / हूं हूं विकासिनि फट् फट् स्वाहा / एषा विकासिनी मुद्रा / अनेन मुद्रेण संयुक्ता सर्वकर्मिका भवति / ग्रहाविष्टानां प्रज्ञापयति / जल्पापयति ग्रहगृहीतां क्रव्यादकश्मलगृहीतानां विषमूर्छितानां वा यथा यथा प्रयुज्यते, तथा तथा तत् सर्वं करोति / एष संक्षेपतः सर्वार्थसंसाधनी विद्याविकासिन्या मुद्रया युक्ता असिद्धा च क्षिप्रमर्थं करोति /
हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिसमं कारयद् हृदयमुद्रा / हृदयं सप्तवारां हृदयमभिमन्त्र्य मोक्तव्या / एवं सर्वत्र / मन्त्रं चात्र भवति - ओम् गोदरे वीर स्वाहा / तथागतहृदय //
तदेव हस्त सम्पुटं विच्छुरिताङ्गुलिमन्योन्यसर्वाग्राङ्गुलिमध्ये सुषिरा उष्णीषमुद्रा / मन्त्रं चात्र भवति - ओम् द्रों बन्ध स्वाहा / एष सर्वकर्मिकः //
दक्षिणहस्तेनाङ्गुष्ठं मुक्तं मुष्टिं बध्वा खखरकमुद्रा / मन्त्रं चात्र भवति - ओम् धुनाजितरण हूं / खखरकमन्त्रा सर्वकर्मिकः //
अनेनैव मुद्रया संयुक्त वामं चीवरसंसक्तं कृत्वा चीवरमुद्रा / मन्त्रं चात्र भवति - ओम् रक्ष रक्ष सर्वबुद्धाधिष्ठितात्मचीवर स्वाहा / तथागतचीवरः / अनेनैव मुद्रेण सर्वकर्मां करोति / चीवरं चास्याभिमन्त्र्य प्रावरेत्, सुभगो भवति / महारक्षा कृता भवति / सर्वग्रहमातरपिशिताशिनक्रव्यादसकश्मला सर्वविघ्नाश्च दृष्टमात्रा प्रपलायन्ते //
वामाङ्गुष्ठदक्षिणकनिष्ठिकान्योन्यासक्तौ कृत्वाधः हस्तसम्पुटाधारः पात्रमुद्रा / मन्त्रं चात्र भवति - ओम् लोकपालाधिष्ठित धर धारय महानुभाव बुद्धपात्र स्वाहा / अनेनैव मुद्रेणायं मन्त्रः संयुक्ता सर्वकर्मिकाः भोजनकाले स्मर्तव्यः / सर्वगरविषा न प्रभवन्ति //
करयुगावनद्धमुष्टौ तर्जन्यौ मध्यकुञ्चितौ / एषा सा चिन्तामणिमुद्रा / मन्त्रं चात्र भवति - ओम् तेजो ज्वल सर्वार्थसाधक सिध्य सिध्य चिन्तामणिरत्न हूं / चिन्तामणिरत्नम् / अनेनैव मुद्रेण संयुक्तो सर्वकर्मकरं शुभम् / अनेन चाभिमन्त्र्य सर्वाभरणालङ्कारविशेषां आबन्धीत चात्मनो महारक्षा कृता भवति / परमसुभगश्च भवति / स्वयमलङ्कृत्य धर्मं चाभिमन्त्र्य सङ्ग्राममवतरेन्न चास्य काये शस्त्रं निपतति / अधृष्यो भवति सर्वशत्रूणाम् / स्वसैन्यं पालयते / परसैन्यं चाक्रामति //
एवमादीनि कर्माणि अपरिमाणानि असिद्ध एव करोति / पद्मरागमरकतादीनामन्यतम रत्नविशेषं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा ध्वजाग्रे आत्मनो शिरसि वा हस्तिस्कन्धे वा शङ्ग्रामशीर्षेणावतीर्णोनाबन्धयितव्यम् / नियतं परसैन्यमयुद्धेनैव दृष्ट्वा भङ्गमुपजायते / महांस्तम्भितत्वं वा भवति / भग्नसैन्या वा प्रपलायन्ते ऽधिपतिस्तेषाम् //
अन्योन्यासक्ताङ्गुलिमुष्टिं कृत्वा मध्यमाङ्गुलिस्थाने तयोस्तृतीयपर्वभागे मध्यकुञ्चिते तर्जन्योन्य स एषा धर्मचक्रमुद्रा / मन्त्रं चात्र भवति - ओम् छिन्द भिन्द हन दह दीप्त चक्र हूं / धर्मचक्र //
वामपादमुक्तट्कदक्षिणजानुभूमिस्थं वामेन पृष्ठतः प्रसारिते प्रहारहस्तेन दक्षिणेनाहुङ्कृतेन सावष्टम्भः / एषा अपराजितमुद्रा / मन्त्रं चात्र भवति - ओम् हुलु हुलु चण्डालि मातङ्गि स्वाहा / अपराजिता धर्मचक्रापराजितमन्त्रः / एभिरेव मुद्रैः संयुक्तैः सर्वकर्मिका भवति / संक्षेपतः सर्वदुःखानि छिन्दति / यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि कुर्वन्ति //
वेण्योत्सङ्गे तथैव हस्तं कृत्वा दक्षिणेन धर्मदेशनाहस्तेन तथागतशक्तिमुद्रा भवति / मन्त्रं चात्र भवति - ओम् विजये महाशक्ति दुर्धरि हूं फट् विजयिनि फट् मङ्गले फट् / तथागतशक्तिः / अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति / सर्वविघ्नां सर्वदुष्टां सर्वशत्रूं सर्वदेवांश्च स्तम्भयति / एषा अपर्यन्तगुणा यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति //
तथैव हस्तौ परस्पराङ्गुलिरुत्तानौ करौ तर्जन्याग्रौ सूच्याकारेण मीलितौ विपर्यस्तमधोमुखं ललाटे न्यसेत् / एषा ऊर्णामुद्रा बुद्धानां भगवतामादिबुद्धैः प्रकाशिता / मन्त्रं चात्र भवति - नमः सर्वतथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यः / हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय (वैद्य 328) धारय निरुन्ध निरुन्ध ऊर्णामणि स्वाहा / तथागतोर्णामन्त्रः / अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति / गोरोचनया ललाटे तिलकं कृत्वा जपता शत्रुमध्ये ऽवतरेत् / अधृष्यो भवति / सर्वदुष्टैश्च न हिंसते / सङ्ग्राममध्यं वा अवतरेत् / परसेनाभङ्गं दृष्ट्वा करोति / नादृष्ट्वा अपरिमाणां कर्मां करोति / अपरिमाणैश्च बुद्धैर्भगवद्भिर्भाषिता //
अञ्जलि निरन्तरमन्योन्यासक्तां कृत्वा तर्जन्यान्योन्यमध्यकुञ्चितौ अङ्गुष्ठोङ्गुष्ठौ / एषा तथागतलोचना मुद्रा / मन्त्रं चात्र भवति - ओम् रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा / एषा तथागतलोचना मन्त्रा अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति / अक्षीण्यभिमन्त्र्य शत्रुमध्यमवतरेत् / दृष्टमात्रा विगतरोषा भवन्ति / मैत्रचित्ता हितैषिणो भवन्ति / मित्रत्वमधिगच्छन्ति / सङ्ग्रामशीर्षो वा अक्षिणी मभिमन्त्र्य परसेनां निरीक्षयेत् सौम्यचित्ता भवन्ति / न प्रतिप्रहरसमर्था अयुद्धेनैव निवर्तन्ति / साहाय्यं तावत् प्रतिपद्यन्ते //
उभौ हस्तौ तथैव पुस्तकाकाराङ्गुलिरचितौ अन्योन्याग्राश्लिष्टौ तिर्यक् स्थितौ / एषा प्रज्ञापारमिता मुद्रा / मन्त्रं चात्र भवति - नमो भगवति चारुदर्शने ओम् थ / एषा भगवती प्रज्ञापारमिता अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति / मन्त्रं जपता हृदयं परामृशेत् स्मृतिमां भवति / दुष्टारिमध्ये जपं कुर्वन् तेषां चित्तमपहरति / सङ्ग्राममध्ये वा द्विपदचतुष्पदादीं सत्त्वां प्रत्यर्थिकां विमोहयति / चित्तविक्षेपं वा करोति संक्षेपतः / एषा भगवती यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति / संक्षेपतः अपर्यन्तगुणा अपर्यन्तं चास्य कल्पं भवति / अपर्यन्तास्तथागतानां मुद्रा मन्त्राश्च भवन्ति / यथा सन्निपातपरिवर्ती चोक्तं तथागतानां परिवाराः ते ऽत्र सर्वे मुद्रा मन्त्राश्च प्रयोक्तव्या / अन्यत्र चासङ्ख्येयानि कल्पानि भवन्ति / मुद्रा मन्त्राश्च ते ऽस्मिं कल्पराजे नियोक्तव्या //
एवं पद्मकुले पद्ममुद्रेण सहिता / मन्त्रं भवति - ओम् जिः जिः जिनाङ्गभृद्भयभेदिने स्वाहा / एष मन्त्र अवलोकितेश्वरस्य बोधिसत्त्वस्य पद्ममुद्रया संयुक्तं सर्वकर्मिकं भवति / अनेन जप्तेन सर्वं पद्मकुलं जप्तं भवति / अनेन सिद्धेन सर्वं पद्मकुलं सिद्धं भवति / पण्डरवासिन्या वा महाविद्यया / मन्त्रं चात्र भवति - ओम् कटे विकटे निकटे कटङ्कटे कटविकटकटङ्कटे स्वाहा / मुद्रेणैव योजयेत् पद्ममुद्रेण वा सर्वकर्मिका भवति / रक्षा च कर्तव्या सर्वश्मशानगतेन //
एवं तारा भ्रुकुटी चन्द्रा हयग्रीवस्येति विद्याराजसन्निपातपरिवर्ते वा ये कथिताः सर्वमसङ्ख्यं चा पद्मकुलं प्रयोक्तव्यम् मुद्रा मन्त्रैश्च कल्पविस्तरैः //
एवं ध्वजकुल उभयवज्रमुद्रसहितम् / मन्त्रं चात्र भवति - हूं / एष वज्रपाणेः साक्षादनेन साधितेन सर्वं वज्रकुलं सिद्धं भवति / अनेन जप्तेन सर्वं जप्तं भवति / उभयवज्रमुद्रासंयुक्तेन पूर्वनिर्दिष्टेन साधकेच्छया सर्वकर्माणि करोति / विरुद्धान्यपि जिनवरैः सत्त्ववैनेयवशात् / अतिक्रूरतरो ऽयं महायक्षं मामक्या वा कुलन्धर्या महाविद्यायाः सर्वकर्माणि करोति / (वैद्य 329) मन्त्रं चात्र भवति - ओम् कुलन्धरि बन्ध बन्ध हुं फट् / एषा सर्वकर्मिका मामकी नाम महाविद्या सर्वबुद्धैर्निर्दिष्टा पूर्वप्रयुक्तेन मुद्रेण मामक्याया महाविद्यया संयुक्ता सर्वकर्मिका भवति / साधकेच्छाया निदानपरिवर्ति पूर्वनिर्दिष्टे वज्रपाणिपरिवारेण सर्वं वाशेषं वज्रिकुलं मुद्रामन्त्रमन्त्रसंयोगैश्चात्र प्रयोक्तव्यम् //
एवं राजकुले गजगन्धस्य बोधिसत्त्वस्य मन्त्रं भवति - ओम् गजाह्वये हूं खचरे स्वाहा / पूर्वनिर्दिष्टेन मुद्रेण संयुक्तः सर्वकर्मिकः / एवं पूर्ववत् सर्वं गजकुलः सिद्धो भवति //
एवं समन्तभद्रस्य मन्त्रः - ओम् समासमजिनसुत मा विलम्ब हूं फट् //
महास्थानप्राप्तस्य मन्त्रः - तिष्ठ तिष्ठ महास्थाने गतबोधः समयमनुस्मर हूं फट् फट् स्वाहा //
विमलगते मन्त्रः - ओम् विमले विमले विमल मुहूर्तं धक धक समयमनुस्मर स्वाहा //
गगनगञ्जस्य मन्त्रः सर्वबोधिसत्त्वस्य मुद्रसंयुक्तः सर्वकर्मिको भवति / एषमपायजहसदाप्ररुदितक्षितिगर्भरत्नपाणिमैत्रेयप्रभृतीनां दशभूमिमनुप्राप्तानां सर्वमहाबोधिसत्त्वानामसङ्ख्येयानां मुद्रा मन्त्राश्चासङ्ख्येया भवन्ति / तस्मिं कल्पराजे नियोक्तव्यानि भवन्ति / सविस्तरता सर्वलौकिकलोकोत्तरोत्तरता सर्वलौकिकाश्च सर्वमन्त्रमुद्राकल्पविस्तरो महासमयासमयमनुप्रविष्टा सर्वकल्पविकल्पा त इह कथितानि साध्याश्च ते इह सर्वमन्त्राः //
एवंमणिकुलयक्षकुलदिव्यार्यकुलेष्वपि प्रयोक्तव्यानि / सर्वतन्त्रमन्त्रमुद्राश्च त्र्यध्वाश्रिता एक एव कुलं भवति नान्यं यदुत तथागतकुलम् / त्वं च मञ्जुश्रीः कुमार तथागतकुले द्रष्टव्यः / सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धाः सर्वाश्च लौकिकलोकोत्तराः साश्रवानाश्रवमन्त्रा मुद्राविकल्पास्तथागतकुलानि प्रविष्टा इति धारय / न तद् विद्यते मञ्जुश्रीः सर्वविमुद्रातन्त्रमन्त्ररहस्यं यस्तथागतकुले तथागतसमये अनुप्रविष्टः / प्रविष्टमेव मञ्जुश्रीः कुमार धारय / यस्मात् तथागत अग्रमाख्यायते तस्मात् तथागतकुलं अग्रमाख्यायते / एवं तर्हि मञ्जुश्रीः अयं कल्पराजा अयं च कुलाग्ररत्नः आदिमद्भिर्बुद्धैः प्रकाशितं देशितं प्रस्थापितं विवृण्वीकृतम् भगवां संकुसुमितराजेन भगवता शालराजेन्द्रेण भगवता सङ्कुसुमितगन्धोत्तमराजेन भगवता रत्नकेतुना भगवता अमिताभेन भगवता पुण्याभेन कुसुमोत्तमेन सङ्कुसुमेन सुपुष्पेण अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण कनकमुनिना काश्यपेन क्रकुत्सन्देन शिखिनाविश्वभुवा भगवता कोनाकमुनिना / मयाप्योतर्हि शाक्यमुनिना प्रकाशितवां प्रकाशिष्यन्ते च //
एवमेतद् बुद्धपरम्परायातं अयं तव मञ्जुश्रीः कुमार कल्पराजा तथागतकुलाग्ररत्नभूतं महानुशंसं नियतं धर्मधातुनिश्रितं न शक्यमस्यानुशंसं कल्पसहस्रेणापि कथयितुं महागुणविस्तारा विस्तरशः कथयितुम् / दृष्टधर्मवेदनीयाः साम्परायिकबोधिपरायणाश्च वक्तुं सर्वसत्त्वैर्वा श्रोतुम् / त्वत्सदृशैरेवमस्यापरिमाणा महागुणविस्तारफलोदया दृष्टधार्मिकसाम्परायिकाश्च भवन्ति / यः कश्चित् श्राद्धे अविचिकित्सः धारयेद् वाचये स्मिं तन्त्रे ऽभियुक्तो विकल्पतः (वैद्य 330) मन्त्रं साधये जपेद् वापि मुद्रां वापि बध्नीयात् सतताभियुक्तश्च भवेत् / स दृष्ट एव धर्मैरष्टौ गुणानुशंसां प्रतिलभते / अस्खलितश्च भवति सर्वप्रत्यर्थिकैः / अपितु भयं चास्य न भवति / विषं चास्य काये नाक्रामति / शस्त्रं चास्य काये न पतति / बुद्धबोधिसत्त्वैश्चाधिष्ठितो भवति / दीर्घायुः सुखमेधावी भवति / मञ्जुश्रियश्चास्य कुमारभूतः कल्याणमित्रो भवति / रात्रौ वास्य प्रत्ययं स्वप्ने दर्शनं ददाति / सर्वमन्त्राश्चैनं रक्षन्ते / मुद्रां चास्य स्वप्ने कथयन्ति / दुष्टराष्ट्रं दुष्टसत्त्वानां चाहितैषिणामवध्यो भवति / नियतं बोधिपरायणः //
इमे ऽष्टानुशंसा श्राद्धस्याविचिकित्सतो ऽभियुक्तस्य द्रष्टव्याः / गृहेणो वा प्रव्रजितस्य वा स्त्रियस्य वा पुरुषस्य वा महासत्त्वानां शासनोपकारिणाम् / नान्येषां पापकर्मप्रवृत्तानां विपर्यस्तमधस्ताद् भवति रौरवादिषु / यदुक्तं पूर्वाह्ने मुद्राबन्धः दीर्घायुष्यता जयेति / तथागतमन्त्रपरिवारेण हृदयोष्णीषाद्यालोचनाद्याः मुद्राः सत्कर्तव्यम् / मञ्जुश्रियः कुमार त्वदीयमुद्रामन्त्रैर्वा तुल्यवीर्या ह्येते तुल्यप्रभावा / यदुक्तं शुचिना शुचिवस्थानस्थितेनेति / स्थानं मध्यं भूप्रदेशं अशल्योपरुद्धं अपतितगोमयोपलिप्तं सुगन्धशुक्लपुष्पाभिकीर्णम् / तत्र स्थितः मन्त्रं जपे / मुद्रां बध्नीयात् / नान्यत्र नान्येषामन्यतरमेकं जपेन्मुद्रसहितम् //
यदुक्तं शुचिनेति अस्तं गते भानोः स्नायीत शुचिना जलेन निःप्राणकेन
प्रत्यग्राम्बरनिवासी उष्णीषकृतरक्षः / ग्राम्यधर्मविवर्जी शुचिचौक्षरक्षरतः शुभ // mmk_37.23 //
उष्णीषकृतरक्षा वै श्चक्रबन्धानुवर्तिनः / ध्यात्वा तथागतां तत्र स्वप्ने यामविनिर्गते // mmk_37.24 //
कन्याकर्तितसुत्रेण ब्राह्मण्या वा अरतिसम्भवाया गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा अनेन मन्त्रेण - ओम् हर हर बन्ध बन्ध शुक्रधारणि सिद्धार्थे स्वाहा - मामक्यया मुद्रासंयुक्ता मन्त्रं जपेत् / ततः सूत्रकं कट्यां बन्धयेत् / त्रिगुणपरिवेष्टितं कृत्वा शुक्रबन्धः कृतो भवति / कामधात्वेश्वरो ऽपि शक्तः स्वप्ने मनोविघातमुत्पादयितुम् / किं पुनः स्वप्नविनायकाः / विधिना नाविधिना सरागस्य न वीतरागस्य कामधात्वेश्वरस्यापि ऋषिणो दुहितरश्च अशक्ता मनोविघातमुत्पादयितुं विविधरूपधारिण्यः रागिणाम् / किं पुनः तदन्यः स्त्रियः मानुषामानुषोद्भवाः //
एवं विधिना प्रातरुत्थाय विसर्ज्य दन्तधावन मुखं प्रक्षाल्य शुचिना जलेन स्नात्वा निष्प्राणके विमलोदकेन पूर्ववद् विधिना पूर्वाभिमुखस्थितेन मुद्रां बन्धीयात् / मन्त्रांश्च जपेत् / दीर्घायुषो भवति सर्वकर्मसमर्थः / महाव्याधिभिर्मुच्यते / सर्वजनप्रियो भवति / अमित्राणां प्रत्यङ्गिरमुपजायते / दृष्टमात्राश्च सर्वग्रहक्रव्यादकश्मलादयः प्रपलायन्ते / परबलं स्तम्भयति / दर्शनमात्रेणैव सर्वकर्मां करोति शुचिनाशुचिना विधानेनाविधानेन //
एवमस्य असङ्ख्येया मुद्रामन्त्रगणपरिवृतो ऽयं कल्पराजा / असङ्ख्येयैश्च बुद्धैर्भगवद्भिर्भाषिता भाषिष्यन्ते च / मयाप्येतर्हि शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितो (वैद्य 331) महता पर्षन्मण्डलमध्ये / न्वमपि कुमार मञ्जुश्रीः सन्नियुक्तो ऽयं शासनपरिसंरक्षणार्थं धर्मधातुचिरसंरक्षणार्थं च मयि परिनिर्वृते धर्मकोटिनिश्रिते भूतकोटिपर्यवसाने शान्तीभूते महाकरुणावर्जितमानसेन सत्त्वानां हितार्थाय भाषितो ऽयं मया युगान्ते महाभैरवे काले वर्तमाने रत्नत्रयापकारिणां दुष्टराज्ञां दुष्टसत्त्वानां च निवारणार्थाय विनयनार्थाय च भाषितो ऽयं कल्पराजा विस्तरविभागशः सर्वसत्त्वानामर्थायेति //
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चत्रिंशतिमः मन्त्रमुद्रानियमकर्मविधिपटलविसरः परिसमाप्त इति // अथाष्टात्रिंशः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / शृणु मञ्जुश्रीः
संक्षेपतः मुद्राणां लक्षणं मन्त्राणां च सविस्तरम् / संक्षेपतश्च मण्डलानां विधिः समयानुवर्तनम् // mmk_38.1 //
+ + + + + + + + + + मुद्रास्थानं च तेषु वै / सरहस्यं सर्वमन्त्राणां सर्वमन्त्रेषु मण्डलम् // mmk_38.2 //
एतत् सर्वं पुरा प्रोक्तं सर्वबुद्धैर्महर्द्धिकैः / मन्त्राणां गतिमाहात्म्यं कथितं सर्वकुलेष्वपि // mmk_38.3 //
आदिमद्भिः पुरा बुद्धैः सत्त्वानां हितकारणात् / प्रवर्त्य मन्त्रचक्रश्च धर्मचक्रमनुत्तरम् // mmk_38.4 //
शान्तिचक्रानुगा याता भूतकोटिं समाशृताः / शान्तिं जगाम सर्वे ते बुद्धा लोकमहर्द्धिका // mmk_38.5 //
एतत् सर्वं पुरा ख्यातमादिमद्भिस्तथागतैः / अहमप्यपश्चिमे लोके देशेयं त्वयि मञ्जुश्रधीः // mmk_38.6 //
एतत् कृत्वा तदा वाच्यं बुद्धस्येदं महाद्युतेः / कुमारो मञ्जुघोषो वै प्राञ्जलिं कृतमग्रतः // mmk_38.7 //
उवाच वदतां श्रेष्ठं सम्बुद्धं द्विपदोत्तमम् / वदस्व धर्मं महाप्राज्ञ लोकानां हितकारणम् // mmk_38.8 //
संक्षेपार्थमविस्तारं गुणमाहात्म्यफलोदयम् / एवमुक्तस्तु मञ्जुश्रीस्तूष्णीम्भूतस्तस्थुरे // mmk_38.9 //
अथ ब्रह्मेश्वरः श्रीमां कलविङ्करुतस्वनः / कथयामास तत् सर्वं मुद्रामण्डलसंस्थितम् // mmk_38.10 //
मन्त्रं तन्त्रं तदा काले शुद्धावासोपरि स्थितो / कथयामास सम्बुद्धः शाक्यसिंहो नरोत्तमः // mmk_38.11 //
शृणु त्वं कुमार मञ्जुश्रीः मुद्राणां विधिसम्भवम् / मन्त्राणां तन्त्रयुक्तीनां गुणमाहात्म्यविस्तरम् // mmk_38.12 //
आदौ सर्वतथाचिह्नं सत्त्वासत्त्व यथा च तम् / आकारं चरितं चेष्टा सर्वमिङ्गितभाषितम् // mmk_38.13 //
द्विहस्तपादयोर्मूर्ध्ना एकहस्ताङ्गुलयोजना / सर्वं तं मुद्रमिति प्रोक्तं आदिबुद्धैः पुरातनैः // mmk_38.14 //
कलशं छत्रं तथा पद्मं ध्वज पताकं तथैव च / मत्स्य वज्र तथा शङ्खः कुम्भश्चक्रस्तथैव च // mmk_38.15 //
विविधा प्रहरणा लोके यावन्तस्ते परिकीर्तिता / उत्पलाकारमुद्रं च सर्वे ते मुद्रानुमण्डले // mmk_38.16 //
अनुपूर्वमिह स्थिता तथैते विधियुक्तमुदाहृता / सदृशाकारस्वरूपेण सर्वासां चैव लिखेत् सदा // mmk_38.17 //
मण्डले मुद्रमित्युक्त्वा सामान्येष्वेव सर्वतः / यथास्थानसुविन्यस्तं मुद्रास्ते परिकीर्तिताः // mmk_38.18 //
मण्डलेष्वेव सर्वेषु स्वाकारं चैव योजयेत् / चक्रवर्ती तथा चक्रं उष्णीषे सितमुद्भवे // mmk_38.19 //
सितातपत्रं मुख्येन मण्डले तु समालिखेत् / बुद्धानां धर्मचक्रं वै पद्मं पद्मकुले तथा // mmk_38.20 //
वज्रं वज्रकुले प्रोक्तं गजं गजकुलोद्भवे / तथा मणिकुले कुम्भं नियुज्यात् सर्वमण्डले // mmk_38.21 //
दिव्यार्यौ च कुलौ मुख्यौ श्रीवत्सस्वस्तिकौ लिखेत् / आलिखेद् यक्षकुले श्रेष्ठे फलं फलजसम्भवम् // mmk_38.22 //
महाब्रह्मे हंसमालिख्य शक्रस्यापि सवज्रकम् / महेश्वरस्य लिखेच्छूलं वृषं चापि समालिखेत् // mmk_38.23 //
त्रिशूलं पट्टिशं चापि स्कन्दस्यापि सशक्तिकम् / विष्णोश्चक्रमालिख्य गदांश्चापि सदानवाम् // mmk_38.24 //
नानाप्रहरणा देवा विविधासनसम्भवाम् / याना च विविधाश्चापि तेषां मध्यं लिखेत् सदा // mmk_38.25 //
सरूपसंक्रान्तिप्रतिबिम्बं यथास्थितम् / एषामन्यतरं ह्येकं लिखेत् सर्वत्र मण्डले // mmk_38.26 //
एकद्विकसमायुक्ता तृप्रभृत्यमसङ्ख्यका / मण्डला जिनवरैः प्रोक्ता वेदिकापङ्क्तितत्समा // mmk_38.27 //
यदोद्दिश्य मण्डलं प्रोक्तं तं मध्ये तु निवेशयेत् / आलिखेज्जिनकुले गर्भे बुद्धं वापि सुमध्यमे // mmk_38.28 //
अभ्यन्तरस्थं तदा बिम्बं शास्तुनो चापि मालिखेत् / द्वितीयं पद्मकुले न्यस्तं तृतीयं वज्रकुलं लिखेत् // mmk_38.29 //
एवं सर्व तदालिख्य अनुपूर्व्या सुरासुराम् / सर्वभूम्यां ततः पश्चाद् यक्षराक्षसमानुषाम् // mmk_38.30 //
तीर्थिकानां ततो लिख्य अनुपूर्व्या यथास्थितम् / दिक्पालां च तथालिख्य सर्वांश्चैव विविधागताम् // mmk_38.31 //
संक्षेपादेकबिन्दुस्तु द्विप्रभृत्यमसङ्ख्यकाम् / आलिखेन्मण्डलं यावदुपर्यन्तं दिशमाशृतम् // mmk_38.32 //
अप्रमेय तदा प्रोक्ता क्ष्मातलो मण्डले ऽस्य वै / एकबिन्दुप्रभृत्यादि अपर्यन्ते वसुधातले // mmk_38.33 //
मण्डलस्य विधिः प्रोक्तो निर्दिष्टं त्रिविधस्य तु / उत्तमं मध्यमं चैव कन्यसं चैव कीर्तितम् // mmk_38.34 //
उत्तमे उत्तमा सिद्धिर्मध्यमे मध्य उदाहृतम् / कन्यसे क्षुद्रसिद्धिस्तु कथितं जिनवरैः पुरा // mmk_38.35 //
त्रिधा सर्वे मनोभिश्च सिद्धिरुक्ता जिनोत्तमैः / महासत्त्वैर्महासिद्धिर्मध्यसत्त्वे तु मध्यमा // mmk_38.36 //
तृतीया क्षुद्रजन्तूनां क्षुद्रकर्म उदाहृतम् / चित्तं प्रसादे बुद्धत्वं उत्तमे सफलोदयम् // mmk_38.37 //
नियतं प्राप्यते सत्त्वो मण्डलादर्शनेन वै / मध्यचित्तस्तदा काले प्रत्येकं बोधिमाप्नुयात् // mmk_38.38 //
इतरे नियतं प्रोक्तां श्रावकत्वमनादरात् / अबन्ध्यं फलमाहात्म्यं गतिशान्ति उदाहृतम् // mmk_38.39 //
मण्डलादर्शनस्वर्गं नियतं तस्य भविष्यति / एव मुद्रवरां सर्वां मन्त्राश्चैव सविस्तराम् // mmk_38.40 //
नियुक्तास्त्रिविधाश्चैव त्रिःप्रकारा सुखावहा / मुद्रा मण्डला प्रोक्ता मन्त्राणां कथ्यते हितम् // mmk_38.41 //
एकाक्षरप्रभृत्यादि यावत्सङ्ख्यं प्रमाणतः / कथिता वचना मन्त्रे यावन्त्यस्ता प्रकीर्तिताः // mmk_38.42 //
वाक्प्रलापां रुदितं हसितं क्रन्दितं तथा / सर्वजल्पप्रजल्पं वा सर्वमन्त्रहितं भवेत् // mmk_38.43 //
त्रिविधा ते च मन्त्राश्च त्रिप्रकारा समोदिता / यथैव मण्डले ख्यातः मुद्रामन्त्रेषु वै तथा // mmk_38.44 //
विधिरेषा समायुक्ता निर्दिष्टा लोकनायकैः / तथैव तत् त्रिधा याति अनेकधा चापि सहस्रधा // mmk_38.45 //
त्रिविधं त्रिःप्रकारं तु त्रिधा चैवमसङ्ख्यकाः / चित्तायतं हि मन्त्रं वै न मन्त्रं चित्तवर्जितम् // mmk_38.46 //
चित्तमन्त्रसमायुक्तः संयुक्तः साधयिष्यति / तथागतकुले ये मन्त्रा ये च पद्मकुले तथा // mmk_38.47 //
ये च पद्मकुले गीता कुलेष्वेव च मापरैः / सलौकिका सर्वमन्त्रा वै सर्वे त इह निःसृताः // mmk_38.48 //
जिने जिनसुतैर्यो मन्त्रो भाषितः सत्त्वकारणात् / तां जपेद् यो ऽभियुक्तश्च नियतं बुद्धो हि सो भवेत् // mmk_38.49 //
मध्यस्था ये तु मन्त्रा वै तं जपेद् यो ऽभिजापिनः / प्रत्येकबुद्ध आख्यातो नियतं तस्य गोत्रतः // mmk_38.50 //
ये ऽन्यमन्त्रे प्रवृत्ता वै प्रत्येकार्हभाषितैः / सलौकिकैश्च सत्त्वे वै अभियुक्तो मन्त्रजापिनः // mmk_38.51 //
स भवेन्नियतं गोत्रस्थो श्रावकाणां महर्द्धिकाम् / तत्रापि कर्म प्रयोक्तव्यः उत्कृष्टे ऽधममध्यमे // mmk_38.52 //
शान्तिके बुद्धबोधिः स्यात् पौष्टिके वापि खड्गिनाम् / इतरैः क्षुद्रमन्त्रैस्तु श्रावको बोधिमुच्यते // mmk_38.53 //
तत्रापि चित्तं द्रष्टव्यं तत् त्रिधा परिभिद्यते / पुनश्च भिद्यते बहुधा असङ्ख्यं चापि भेदत इति // mmk_38.54 //
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्त्रिंशतिमः मुद्रामण्डलतन्त्रसर्वकर्मविधिपटलविसरः परिसमाप्त इति // अथैकोनचत्वारिंशः पटलविसरः / अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वांश्च लोकधातुं बुद्धचक्षुषा सर्वसत्त्वानामवलोक्य पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रमुद्रापटलविसरे सर्वलौकिकलोकोत्तरसमयमण्डलानुप्रविष्टे सामान्याविधानचर्यानिर्हारे समनुप्रवेशसत्त्वामाश्रये अचिन्त्याचेष्टित सर्वमन्त्राणां सर्वमुद्राणां सर्वमण्डलानां सर्वसत्त्वानां सर्वमन्त्रानुप्रविष्टानां निधाननिर्देशचर्या समासतो व्याचक्षते तच्छ्रूयताम् //
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः भगवतश्चरणयोर्निपत्य अध्येषयति स्म / अध्येषयतु मे सुगतः अस्माकमनुकम्पायै लोकस्यानुग्रहाय / तद् भविष्यति महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै / तद् वदतु मे सुगत सर्वमन्त्राणां जपहोमआप्यायनपूजननियमसर्वतन्त्रमुद्रेषु समयप्रवेशानुनिगमसाधनोपयिकविधानं सर्वमण्डलेषु सर्वलौकिकलोकोत्तरविधिविशेषणोपयिकपटलविसरम् //
एवमुक्ते भगवां मञ्जुभाणी तदन्तरमभूत् सर्वज्ञ वान्यं तूष्णीं तस्थौ तदन्तरम् //
तुष्टः मञ्जुरवो धीरः सुगतज्ञ प्रतीच्छयम् / सर्वबुद्धाश्च सर्वत्र सर्वधातुसमागता // mmk_39.1 //
बोधिसत्त्वास्तु सर्वे वै सर्वश्रावकखड्गिणः / सर्वसत्त्वा त्रिधा ये च अनादिभवचक्रके // mmk_39.2 //
निबद्धा योनिजा ये च गतिपञ्चसुयोजिता / सर्वभूतगणाध्यक्षा राक्षसोरगमानुषा // mmk_39.3 //
दैत्यदानवयक्षाश्च कूष्माण्डकटपूतना / देवमुख्या गणाध्यक्षा मातराश्च महर्द्धिकाः // mmk_39.4 //
सर्वे ग्रहगणा लोके चन्द्रसूर्या परेस्तथा / ब्रह्मेन्द्रधनदा रुद्रा विष्णुस्कन्दविरूढका // mmk_39.5 //
धृतराष्ट्रकुबेराश्च सर्वे वै वसवस्तथा / सर्वभूताश्च सर्वत्र सत्त्वधातुसमाश्रिताः // mmk_39.6 //
शुभाशुभफलै कर्मैः निबद्धा गतिसूत्रके / मुक्तामुक्तश्च सर्वत्र आगता समये स्थिताः // mmk_39.7 //
बुद्धाधिष्ठानबला ऋद्ध्या शृण्वन्तेह त्रिधा स्थिताः / शुभयोनिजसम्भूता अशुभैश्चैव स्वकर्मभिः // mmk_39.8 //
शृण्वन्ते सर्वबुद्धा वै शुद्धावासपुरे तदा / तदा धर्मं सौगतं चार्यं अग्रधर्मशुभोदयम् // mmk_39.9 //
मन्त्रमुद्रत्रिधायुक्तं नियतं चापि कीर्तितम् / क्षेमं शिवतमं मार्गं आर्याष्टाङ्गिकं तदा // mmk_39.10 //
त्रिधा कर्मपथं श्रेष्ठं निर्वाणपुरगामिनम् / दानशील तदा ध्यानं तृधा मार्गोपदेशितम् // mmk_39.11 //
भगवानुवाच सर्वज्ञ मन्त्रमार्गाङ्गप्रवर्तनम् / ईषस्मितमुखो धीर मञ्जुघोषं निरीक्ष च // mmk_39.12 //
वाक्यं च शुभया युक्तं इदं ब्रह्मरवो तदा / शृण्वन्तो भूतगणाः सर्वे स्थिता सौम्या विशारदाः // mmk_39.13 //
मा वो समयाद् भ्रंशो भविष्यति अनर्थकम् / अहितं दीर्घरात्रं वो बुद्धवाक्यमजानकाः // mmk_39.14 //
प्रतिष्यथ तमस्यन्धे वत्स दूरीभविष्यथ / इदं वः श्रेयसे युक्ता मन्त्रमुद्रा समीरिताः // mmk_39.15 //
करिष्यथा सदा लोका सदानुग्रहनिग्रहम् / मन्यथा मत्क्रियायुक्तं क्रोधो वै च यमान्तकः // mmk_39.16 //
करिष्यति न सन्देहः सदा निग्रहतां युगे / आदौ पुष्पाभिकीर्णे वै विविक्ते विजने सदा // mmk_39.17 //
कर्तव्ये मण्डले बुद्ध्या ध्यानेनावर्ज्य सर्वतः / आदौ च सर्वबुद्धानां पद्मं ध्यायीत बुद्धिमाम् // mmk_39.18 //
द्वितीयं पद्ममुद्यन्तं अर्कस्यैव महाद्युतिम् / तत्रस्थो मञ्जुवरः श्रीमां कुमाराकारचिह्नितः // mmk_39.19 //
पञ्चचीरकमूर्धानो जानुकर्णककोर्परः / फलितः कृताञ्जलिपुटो बालो पृच्छन्तं सुगतं विदुम् // mmk_39.20 //
वाचं च शुभया युक्तां वदन्तो सुगतालये / यो वै सर्वबुद्धानां महापद्मं स्फटिकोद्भवम् // mmk_39.21 //
वैदूर्यमयं पद्मं किञ्जल्कं हेमजोद्भवम् / महामरकतीनालां कर्णिकां सह हेमजम् // mmk_39.22 //
महाविटपसंघातं महारत्नविभूषितम् / पद्मरागमयैः कलिकैः अनेकाकारसुभूषितैः // mmk_39.23 //
अश्मगर्भमयैर्दिव्यैः अङ्कुरैश्च विभूषितम् / पद्मं मुनिवरे ध्यात्वा महोच्चं गगनाश्रितम् // mmk_39.24 //
तस्मान्न्यूनतरं पद्मं समचिह्नं सुशोभनम् / तन्मनः धामतो ध्यायेन्मन्त्री प्रत्येकार्हश्रावकाम् // mmk_39.25 //
तस्मान्न्यूनतरं पद्म तृतीयं चित्तेन यत्नधीः / चतुर्थं पद्ममावर्तं तस्माद्ध्रस्वतमं विदुः // mmk_39.26 //
ध्यायीत पञ्चमं पद्मं ह्रस्वाह्रस्वतमं सदा / समाकारसमोद्योतं व्योमं संस्थितसर्वतम् // mmk_39.27 //
कुर्यात् तस्य विदो पद्मं चित्तया सप्तगे स्थितम् / वज्रपाणेः तथा पद्मं उदयन्तं रवेर्यथा // mmk_39.28 //
दक्षिणेन विदोः पद्मे तथा मञ्जुरवः सदा / ततो ह्रस्वतरं पद्मं लोकीशस्य महात्मनः // mmk_39.29 //
तृतीयं पद्ममित्येव समन्तद्योतिलाभिने / चतुर्थं पद्ममित्येव अक्षयप्रतिभानता // mmk_39.30 //
ईषिद् विमलगते ह्रस्वं कमलं पञ्चमतत्त्विते / तस्मात् षष्ठतमो यो पद्मः आर्यं चाधर्मसंज्ञितम् // mmk_39.31 //
अधश्चैव समन्ताद् वै उदधिं चापि चिन्तयेत् / महानागे ऽर्धनिर्यान्तो ऽनन्तः नन्दोपनन्दकौ // mmk_39.32 //
सर्वश्वेता महानागाः सर्वालङ्कारभूषिताः / अब्धोर्जाता स्मितमुखो गगनालम्बनदृष्टयः // mmk_39.33 //
सप्तशीर्षमहाभोगो मणिकुण्डलभूषिता / पुरुषाकारदिव्यास्तु अर्धभोगोरगस्तथा // mmk_39.34 //
सप्तस्फटा ससौम्यास्तु अर्धचक्षुर्गतोर्ध्वार्मा / वामतो मुनिवरा पद्मे पञ्चमुष्णीषसंस्थिताम् // mmk_39.35 //
चक्रवर्ति तथाद्यन्तां शक्रायुधसुतेजिताम् / एकाक्षरश्चक्रवर्तिस्तेजोराशिः सितोन्नतः // mmk_39.36 //
अभ्युन्नतो जयोष्णीषविद्याराजमहर्द्धिकः / वज्रपाणिश्च यक्षेशः अधश्चैव सुचिन्तयेत् // mmk_39.37 //
एतेषु चित्तं धीमां रूपिभिः सर्वदा सदा / आत्मनश्च धियो युक्तो मन्त्रविन्मन्त्रराड् जमे // mmk_39.38 //
तत्रस्थं नियमस्थं वै पद्मपत्रोपविष्ट वै / ध्यायीत अधश्चात्मानं पर्यङ्केनोपविष्ट वै // mmk_39.39 //
सर्वपापांश्च देशी मुनिनामन्तिके सदा / तत्रस्थो नियमजो रूषी अध्येष्य मुनिवरां वराम् // mmk_39.40 //
धर्मचक्रानुवर्तन्तां तिष्ठन्तां सुगतात्मजाम् / तेषां पुण्यमतुलम् अनुमोद्येव जापधीः // mmk_39.41 //
सुशुक्लमालतीकुसुमां पुन्नागं नागकेसराम् / चम्पकाशोकतिलकां तगर्यांश्चैव समल्लिकाम् // mmk_39.42 //
क्षिपेत् पुष्पाञ्जलिं दिव्यां सव्यांश्चैव सुशोभनाम् / सभूतामप्यभूतां वा धिया युक्तां सुशोभनाम् // mmk_39.43 //
विविधां पूजावरां कुर्युर्विद्या च इव मनोरमाम् / विविधां धूपवरांश्चैव तथा गन्धानुलेपनाम् // mmk_39.44 //
चित्तेनेव तु तत् कुर्यात् सभूता मध्यभावतः / निवेद्य वलिमन्त्रैर्वै प्रदीपांश्चैव तदा न्यसेत् // mmk_39.45 //
विविधाकारसम्पन्ना विचित्रश्चित्रभोजनाम् / अनेकाकारसम्पन्नां दध्योदनमशालिकाम् // mmk_39.46 //
यबगोधूममुद्गैश्च खाद्यभोज्यसुभूषितैः / निवेद्य सुगते भवत्या दद्याच्चात्मानमेव तु // mmk_39.47 //
तथ्येन नान्यथा चापि चित्त येनापि शिष्यते / एषा श्रद्धा मया पूजा सर्वपूजेषु शिष्यते // mmk_39.48 //
मं ध्यात्वा जापिनः सर्वे नियतं बोधिमवाप्नुयात् / सफला मन्त्रसिद्धिश्च जायते च न संशयः // mmk_39.49 //
इहैव जन्म निःसत्त्वा सिध्यन्ते मन्त्रदेवता / अन्यजन्मान्तरे वापि केचित् सिद्ध्यन्ति मानवाः // mmk_39.50 //
विचित्रां भोगसम्पत्तिं विशेषांश्चापि पुष्कलाम् / विविधा कालमनोवाग् ध्यानं चापि त्रिधा पुरा // mmk_39.51 //
बुद्धैर्बुद्धशतैश्चापि प्रत्येकार्हश्रावकैः / त्रिःप्रकारा तथा बोधिः प्राप्नुवन्तो यशस्विनः // mmk_39.52 //
एतैस्त्रिप्रकारैस्तु मन्त्रसिद्धिरिहोदिता / त्रिप्रकारैस्तु सत्त्वाख्यै उत्तमाधममध्यमे // mmk_39.53 //
त्रिधा कर्म समुद्दिष्टम् .......... / प्रणीतं ध्यानतां प्रोक्तं मध्यमं शीलजं स्मृतम् // mmk_39.54 //
कन्यसं दानजं मुख्यं तच्चैव तु पुनस्त्रिधा / प्रणीतं धर्मदानं तु मध्यमं तु गतं तथा // mmk_39.55 //
वाक्यमामिपदानं तु कन्यसे व तु कीर्त्यते / शीलं चापि त्रिधा प्रोक्तमित्युवाच मुनिः पुरा // mmk_39.56 //
बुद्धत्वपरिणामाख्यं अग्र्यं शीलमिति स्मृतम् / प्रत्येकबोधो मध्यं तु कन्यसं श्रावकोद्भवम् // mmk_39.57 //
एतल्लोकोत्तरं शीलं लौकिकं तु प्रकथ्यते / तच्चापि त्रिविधा ज्ञेयं सास्रवोत्पत्तिकारणम् // mmk_39.58 //
मुमुक्षुबुद्धिभिर्भक्त्याधिज्ञप्त्या अभिज्ञसम्भवा / श्रेष्ठा ज्येष्ठतमा लोके कथ्यन्ते ऋषिवरैः सदा // mmk_39.59 //
एतदग्रमयं लोके शीलमाहुर्मनीषिणः / मध्यमं देवज ज्ञेयं कन्यसं तु नृपद्वराम् // mmk_39.60 //
तच्चापि त्रिप्रकारैस्तु त्रिधा कर्मेषु योजितैः / त्रिधा च त्रिविधैश्चैव पुनर्मुक्तं त्रिद्विसप्तपञ्चशः // mmk_39.61 //
त्रिसप्तं सप्ततिं तच्चापि त्रिधा भिन्नम् / प्रादुर्भूतो ऽङ्कुरो ऽङ्कुराः ध्यानजं चैवमत्यन्तो // mmk_39.62 //
सुरेश्वरौ पुनः त्रीणि पुनरष्टाष्टभूषितम् / यथैव पूर्वनिर्दिष्टं ध्यानेष्वेव च कथ्यते // mmk_39.63 //
एवं तरङ्गवद् भिन्नं पुनर्ज्वालेव गच्छति / बुद्बुदाकारवद् ज्ञेयं क्षणोत्पत्तिप्रभङ्गुरम् // mmk_39.64 //
एवमेवाद्यप्रयोगेन शतधा भिद्यते पुनः / सहस्रशश्च सदा ज्ञेयमसंख्येयाद्यलक्षितम् // mmk_39.65 //
साध्यते ध्यानजं कर्म अग्र्यं मानसोद्भवम् / तस्माद् ध्यानवतं मन्त्रं चित्तं बोधाय नामितम् // mmk_39.66 //
अयनेनैव ते सिद्धिं लप्स्यन्ते मन्त्रदेवताम् / तस्मात् सर्वप्रयत्नेन जापिभिः सिद्धिलिप्सुभिः // mmk_39.67 //
कर्तव्या मानसी पूजा बुद्धानां सर्वतः सदा / इहैव जन्मनि सिद्धिं नित्यं ध्यानरतस्य तु // mmk_39.68 //
सर्वत्राप्रतिहतो ह्येष ध्यानजो शीलसंवरः / दानतो विभवो धर्मः शीलतो सुरवरोदयम् // mmk_39.69 //
उत्पत्तिध्यानादाना श्रवे .......... / एतत् संक्षेपतो ह्युक्तं जापिनां मन्त्रसिद्धयै // mmk_39.70 //
यं बुध्वा मन्त्रिणः सर्वे क्षिप्रमन्त्रेषु सिद्धये / क्षिप्रं चानुत्तरां बोधिं प्राप्नुवन्ति न संशयमिति // mmk_39.71 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
