Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Gopadatta)
- Tác giả
- गोपदत्त
- Thông tin
- GRETIL — Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśvarajātakam = GoKī: edition by Michael Hahn. "Gopadatta's Kapīśvarajātaka ḥ Re-edited and translated", Bukkyḥ Bunka Kenkyūjo Kiyḥ [= Bulletin of Research Institute for Buddhist Culture, Ryukoku
मत्वा कर्मस्वकम् अनुशयस्नायुतन्त्रीप्रणेयं लोकैर् दुःखैर् विषयकृपणैर् इन्द्रियैर् विप्रलब्धम् । उत्पद्यन्ते विपदुपशमप्राप्तये ये जनानां मातुं तेषु प्रभवति पुमान् को ऽपकारोपकारौ ॥ gopr_47 ॥
हृत्वा धातुधरान्* स्रजो भगवतः सद्यो ऽभवद् दारको विस्फोटस्फुटितार्द्रमांसगुडको बीभत्ससर्वाश्रयः । सत्कारं प्रविधाय तत्र च पुनः सद्यो ऽभवन् निर्व्रणः तत् को नाम न पूजयेत् सहृदयः पुण्यार्णवं जङ्गमम् ॥ gopr_48 ॥
तस्मात् प्रदुष्टमनसां भगवान् अपुण्यराशिः प्रसन्नमनसां तु स पुण्यराशिः । पर्यायतो विगतसर्वसवासनान्तःसंक्लेशकिल्बिषदशो विषयान्तदर्शी ॥ gopr_49 ॥
कृत्वा भग्नां प्रतिकृतिम् ऋषेर् अङ्गना कन्दुकेन प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् । पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम् ॥ gopr_50 ॥
उद्यन् दर्शनम् उच्छिनत्ति सविता नक्तंचराणां यथा नॄणां ध्वान्तम् अपाकरोत्य् अविरलं रूपोपलब्ध्यै करैः । दोषस् तत्र न भास्करस्य भगवद्द्विष्तप्रसन्नात्मनां बुद्धो ऽप्य् एवम् अपुण्यपुण्यनिचयः सामान्यनाथो ऽपि सन् ॥ gopr_51 ॥
इति ताव् उपासकौ बुद्धगुणमाहात्म्यकीर्तनम् । कृत्वा परस्परं सत्त्वं पवित्रीकृत्य जग्मतुः ॥ gopr_52 ॥
एवं मत्वा महाराज संबुद्धे सद्गुरौ मुदा । श्रद्धया सत्कृतिः कार्या नापकृतिः कथं चन ॥ gopr_53 ॥
शास्तर्य् अवज्ञामलिनाशयानां भूमिर् विदारं न ददाति सद्यः । बुद्धप्रसादद्रवचेतसां वा न जायते रत्नमयी विचित्रं ॥ gopr_54 ॥
को ऽप्य् एष कर्मान्तरसंनिरोधः पुण्यप्रभावातिशयो विचित्रः । कर्माणि यत् पात्रविशेषजानि सद्यो न नॄणां फलम् उद्वमन्ति ॥ gopr_55 ॥
तस्यैव कापीयम् ऋषेर् अचिन्त्या विभूतिर् आवेणिकयोगसाध्वी । येनात्र कृत्वापि मनःप्रदोषं सद्यो न पातालतलं विशन्ति ॥ gopr_56 ॥
तल् लोकानाम् अमृतफलदे जङ्गमे पुण्यवृक्षे कार्या भक्तिर् भगवति जिने निर्जितान्तःसपत्ने । निक्षिप्याशां विषयगहनव्रातविष्वग्विषक्तां यावन् नेदं भवति भुवनं बुद्धकान्तारघोरम् ॥ gopr_57 ॥
उत्पद्यन्ते जगति न सदा नापि सर्वत्र बुद्धाः सर्वाकारापरतवितथग्राहनिद्राप्रसङ्गाः । कश् चित् कल्पः प्रभवति चिरात् पुण्यसंभाररम्यो यत्रोत्पादो भवति भुवनस्वामिनां भूतभूत्यै ॥ gopr_58 ॥
यातस्यापि प्रशान्तिं भवपुरपरिखां जालिनीं शोषयित्वा यावत् संबुद्धभानोः प्रवचनकिरणा लोकम् उद्भावयन्ति । तावत् पश्यन्तु सन्तः समविषमवतां दुर्विभागप्रभेदान् लोके दुर्दृष्टिमेघा विपदशनिमुखा दुर्निवाराः स्फुरन्ति ॥ gopr_59 ॥
एवं मे गुरुणाख्यातं तथा ते कथ्यते मया । तद् एवं हि परिज्ञाय कर्तव्यं भजनं मुनेः ॥ gopr_60 ॥
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् । निःक्लेशाः सबलान् माराञ् जित्वा यान्ति जिनालयम् ॥ gopr_61 ॥
ये च शृण्वन्ति सद्धर्मं ते ऽपि न यान्ति दुर्गतिम् । सर्वदा सत्सुखं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ gopr_62 ॥
ये ऽर्चयन्ति मुदा संघान् न ते ऽपि यान्ति दुर्गतिम् । सर्वसत्त्वहितं कृत्वा संप्रयान्ति शुभालये ॥ gopr_63 ॥
एवं मत्वा महाराज त्रिरत्नशरणं गतः । सर्वसत्त्वहितं कृत्वा संवृतिं संप्रचारय ॥ gopr_64 ॥
तेन ते सर्वदा भद्रम् इहामुत्रापि संभवेत् । क्रमाद् बोधिं समासाद्य निर्वृतिं वा समाप्नुयाः ॥ gopr_65 ॥
इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर् मुदा । तथेति संप्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः ॥ gopr_66 ॥
पुण्यराश्यवदानं तद् इदं ये श्रद्धया मुदा । श्रावयन्त्य् अनुमोदन्ते शृण्वन्ति च समाहिताः ॥ gopr_67 ॥
सर्वे ऽपि ते महासत्त्वाः परिशुद्धत्रिमण्डलाः । सद्धर्मगुणसौख्यानि भुक्त्वा यान्ति जिनालयम् ॥ gopr_68 ॥
॥ श्री ॥ इति पुण्यराश्यवदानं समाप्तम् ॥ 13 ॥
11. ऋषिपञ्चक
मूलं मलानां प्रवदन्ति जातिं जातिप्रपञ्चोपशमप्रवीणाः । तथागताश् चावितथप्रतिज्ञाः संभोधिसत्त्वाश् च विशुद्धसत्त्वाः ॥ गोऋp_1 ॥
तद्यथानुश्रूयते ।
बोधिसत्त्वः किल लोकाभिमतगुणाभिलक्षिते महति ब्राह्मणकुले जन्म प्रतिजग्राह ।
किरणैर् इव शुक्लपक्षचन्द्रः स्वगुणैर् एव सहाभिवर्धमानः । परमां स्वकुलस्य चिह्नशोभां प्रथिमानं गमयां बभूव साधुः ॥ गोऋp_2 ॥
वयसि प्रथमे ऽपि वर्तमानो विषयेष्व् अतिबद्धमानसो ऽसौ । अतिमानुषचेष्टितस्वभावो जगतां स्मयभाजनं बभूव ॥ गोऋp_3 ॥
सो ऽपर्यवसितकुकार्यपर्याकुलम् उपशमविरोधिप्रकृष्टोपायासम् अर्थोपार्जनप्रधानकामरतिव्यवहारासारकर्मधर्मभूयिष्ठम् अविनयकलहवैरविग्रहायतनम् ईर्ष्यामात्सर्यचौर्यादिनिकेतभूतं शोकपरिदेवदुःखदौर्मनस्योपायासबहुलं मायाशाठ्यमदमानगहनं साहसावलेपाधिष्ठितम् अनार्यव्यवहारानुप्रवृत्तिजिह्मसत्त्वभावं प्रमादपदस्थानम् अनेकरूपपरिभवोपसृष्टं संनिहितदैन्यम् अनभिभूतविषादं प्रत्यासन्नविघातभयदौर्गत्यम् अविषह्योपद्रवसमुद्रं कण्टकगर्भादभ्रश्वभ्रप्रतिभयाकरम् अपास्य गार्हस्थ्यम् अन्यतमम् अश्रमपदम् अभ्यलंचकार ।
बहुच्छलं सो ऽथ बहुव्यलीकं बहूपसर्गं बहुदोषदुष्टम् । अपास्य गार्हस्थ्यम् अनर्थमूलं तपोवनं शान्तम् अलंचकार ॥ गोऋp_4 ॥
सरोभिर् उन्निद्रपलाशकोषकुशेशयेन्दीवरचित्रतोयैः । अलंकृतं बालकशेरुनीलप्रतीरसंसुप्तशरारिहंसैः ॥ गोऋp_5 ॥
मीनावलीरशनया सरितोपगूढं स्नेहाद् इव प्रणयिनं प्रियया प्रकामम् । सर्वर्तुपुष्पफलदैः स्वजनैर् इवान्तर् बालप्रवालहरितैस् तरुभिर् निरुद्धम् ॥ गोऋp_6 ॥
व्यालैस् तपस्विभिर् इवाकृतिमात्ररूक्षैः पर्याकुलम् जलतृणाङ्कुरतुष्टचित्तैः । तं काननान्तम् उपगम्य स बोधिसत्त्वो धर्मो ऽवतीर्ण इव विग्रहवान् व्यराजत् ॥ गोऋp_7 ॥
गृहस्थभावे ऽपे स वर्तमानो जन्मान्तराभ्यस्तविवेकवासः । आगारदोषैर् अपरिक्षतात्मा विशेषयाम् आस तपोवनस्थान् ॥ गोऋp_8 ॥
- - ⏑ - - ⏑ ⏑ - ⏑ - - प्रमादिनां कापुरुषाश्रयाणाम् । उत्कण्ठयन्ति प्रविवेकयोग्यास् त एव शान्ताः सततं वनान्ताः ॥ गोऋp_9 ॥
अभ्यस्तनैष्क्रम्यसुखोत्सवानां सतां प्रवासा इव गेहवासाः । मृगाङ्गनाकुञ्चितपल्लवानि वनानि तेषां भवनोत्तमानि ॥ गोऋp_10 ॥
परिग्रहेष्व् एव विघातबुद्धिः संतोष एव स्वधनानुरागः । येषां गृहे चारकवाससंज्ञा तेषां न चित्रो वनसंनिवासः ॥ गोऋp_11 ॥
तस्य पूर्वजन्मपरम्पराभ्यासवासनाघनस्नेहगौरवनिरत्ययाश् चत्वारः सहाया बभूवुः वायसः पारावतो भुजगो मृगश् च । ते तदाज्ञासंपादनैकतानमनसः स्वयोनिविधिना धर्मक्रियासौष्ठवेन जगत्य् अभिलक्षिता बभूवुः ।
छन्दोपघातविहतेष्व् अपरायणेषु तिर्यक्षु मोहबहुलेष्व् अधिकं विह्बान्ति । धर्मानुरागविशदाः प्रतिपत्तिशोभास् तामिस्रपक्षरजनीष्व् इव दीपमालाः ॥ गोऋp_12 ॥
विस्मापयन्ति सुतरां विगुणाश्रयिण्यो धर्मक्रियाः करणपाटवयोगरम्याः । ग्रीष्मोष्मदुर्गमतरासु वनस्थलीषु प्रोद्भिद्यमानकमला इव पङ्कजिन्यः ॥ गोऋp_13 ॥
तेषाम् एकदा स्नेहनिर्यन्त्रणरमणीयावस्थानप्रवृत्तसंकथानाम् अयं विनिश्चयो बभूव । किं नु खलु भवन्तो ऽतिशयेन दुःखं मन्यन्ते । तेषां दक्षताम् इवोद्भावयन् प्रथमतरं वायसः प्रोवाच । नेहास्ति क्षुधो ऽन्यत् परमं दुःखम् । कुतः
न व्याधयो न च जरा न सुःर्द्वियोगो नानिष्टसंगममया व्यसनप्रकाराः । दुःखानि तान्य् उपहरन्ति जनस्य यानि ह्री विप्रवासपरितापकरी जिघत्सोः ॥ गोऋp_14 ॥
दुरुत्तरक्षारतरङ्गमालिनीम् उपागता वैतरणीं प्रमादिनः । बुभुक्षया यन् निगिरन्त्य् अयोगुडान् ततो ऽस्ति न क्षुत्सदृशो ऽपरः कलिः ॥ गोऋp_15 ॥
कडेवरावस्करनिर्झरस्रवन्मलोपलेपाकमनीयदर्शनः । रुजा परीतो ऽपि पिपासति स्तनं यद् अर्भकः क्षुद्व्यसनं ततो महत् ॥ गोऋp_16 ॥
विनाकृतः प्राणसमैर् अपि प्रियैर् गतो ऽपि शोकस्य वशं विदाहिनः । यद् अश्रुमिश्रान् कवडान् निषेवते ततो भयं क्षुत् परमं जिनो ऽब्रवीत् ॥ गोऋp_17 ॥
अपि च भदन्ताः
जातः कुले महति मानमदावलिप्ते क्षुद्विक्षतो ऽभ्युदयकाल इव प्रहर्षात् । उच्छेषपिण्डम् अपि नाम नृपस्य भुङ्क्ते यत् सारमेय इव कष्टतरं किम् अन्यत् ॥ गोऋp_18 ॥
प्रत्यन्तवासरतयस् तृणमात्रतुष्टा यत् तापसा इव परव्यसनानभिज्ञाः । लक्ष्यीभवन्ति हरिणाः परितः शराणां क्षुद्दुःखम् अत्र नियमेन परैमि हेतुम् ॥ गोऋp_19 ॥
मर्मच्छिदापि पवनेन विशस्यमाना हिक्कास्फुरद्गलककण्ठविकारदेहाः । आहारयन्ति पिचुनापि यद् अन्नलेशान् न क्षुत्समं व्यसनम् अस्ति ततः प्रजानाम् ॥ गोऋp_20 ॥
अपि च साधवः
आसन्नान्नभुजो नभस्तलचरा देवा इवाभास्वराः सत्त्वाः प्राथमकल्पिकाः स्वकिरणज्वालावलीमालिनः । आहारप्रणयप्रसङ्गविहतास् ते ताम् अवस्थां गताः यत् प्रेता इव वर्तयन्ति कृपणाः कृच्छ्रोपलब्धाशनाः ॥ गोऋp_21 ॥
क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्य् अपि क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्य् अमेध्यानि च । कक्षैः के चन यापयन्ति परुषैर् लालाजलक्लेदितैर् अन्ये ऽस्थीनि चिरोज्झितान्य् अधृतयः क्षुद्विक्षता भुञ्जते ॥ गोऋp_22 ॥
ते राजान्तररक्षिणाम् अपि शिरस्य् आधाय पादं खगाः क्षुद्दुःखोपनिपातविस्मृतभया हृत्वामिषं भुञ्जते । वेगेनाभिपतन्ति शस्त्रकलिलप्राकारदुःसंचराञ् शूलामांसलवाभिलाषकृपणा गच्छन्ति के चित् क्षयम् ॥ गोऋp_23 ॥
विविधान्य् अपि भोजनानि भुक्त्वा भवने स्वे मणिहेमभाजनेषु । शितकण्टकविक्षताग्रहस्ता बुभुजे सा बदराणि सत्यभामा ॥ गोऋp_24 ॥
शापोत्सर्गानुग्रहान् म्लानशक्तिर् दिक्पर्यन्तख्यातकीर्तिप्रकाशः । विश्वामित्रो यच् चखाद श्वमांसं क्षुद्दुःखानां तेन दत्तो नियोगः ॥ गोऋp_25 ॥
बालः पुत्रः प्रेमसर्वस्वभूतो यत् कान्तारे खादितो दम्पतिभ्याम् । क्षुद्दुःखेभ्यो नास्ति दुःखं ततो ऽन्यज् जन्माटव्यां धावतां क्रूररूपम् ॥ गोऋp_26 ॥
याच्ञादैन्यान् म्लानवक्त्रप्रसादा देहीत्य् एवं व्याहरन्त्य् अप्रगल्भम् । द्वारि स्थित्वा विद्विषां क्षुद्विलोलाः किं मन्यध्वे दुःखम् अस्माद् बलीयः ॥ गोऋp_27 ॥
अथैषां पारावतः प्रोवाच । सत्यं बलवत् क्षुद्दुःखम् । अपि तु ममाभिप्रायः श्रूयताम् ।
राग एव महद् दुःखम् इति मे निश्चिता मतिः । क्षुत् करिष्यति किं यस्माद् भस्मनापि निवार्यते ॥ गोऋp_28 ॥
अपि च
वाय्वम्बुजीर्णतरुपर्णभुजो ऽपि नाम दीर्घोपवासपरिकर्शितगात्रयन्त्राः । अन्धीभवन्ति मुनयः स्खलितप्रभावा रागेन दुःप्रतिविधानसमुद्भवेन ॥ गोऋp_29 ॥
अम्लानचन्द्रकिरणास्व् अपि यामिनीषु प्रोत्फालिताभ्रविवरेष्व् अपि वा दिनेषु । अन्धो ऽधमो भवति रागपराजितात्मा तस्मान् न रागसदृशः कलिर् अस्ति लोके ॥ गोऋp_30 ॥
लज्जां निमीलयति सर्वगुणाग्रभूतां कीर्तिं कलङ्कयति निर्विकलप्रसादाम् । धर्मात्मनाम् अपि च नाम तिरस्करोति श्रेयांसि मेरुशिखरप्रतिमानि रागः ॥ गोऋp_31 ॥
नायं वयस् तुलयति प्रगतं नराणां नापेक्षते कुलविशुद्धिमयीं व्यवस्थाम् । लोकापवादगहनान्य् अपि लङ्घयित्वा संकल्परागतुरगः स्वमतेन याति ॥ गोऋp_32 ॥
संमूर्छितः कुसुमहासिषु मल्लिकानां गुल्मेषु वारिकणकण्टकितो नभस्वान् । संतापयत्य् अनुपशान्तविकल्परागं चेतो नरस्य सुतराम् अपरीक्षकस्य ॥ गोऋp_33 ॥
सूक्ष्माणि संधिगहनान्य् अपि चावगाह्य स्वप्रत्यया बहुविधानि मतान्तराणि । मेधाविनो ऽपि ननु रागपिशाचवश्याः संप्राप्नुवन्ति परमं स्मृतिविप्रलोपम् ॥ गोऋp_34 ॥
हत्वापि रागविषबीजविजृंभितानि स्वभ्यस्तयोगपदवीस्थिरबुद्धयो ऽपि । योषिन्मुखान्य् अलकपल्लवितान्य् उदीक्ष्य भ्रष्टा भवन्ति तपसः पशुभिः समानाः ॥ गोऋp_35 ॥
दृङ्मार्गहेयम् अवहत्य बलं मलानाम् एकावशिष्टभवबन्धनतन्तवो ऽपि । आर्या मनःस्थितिभिदानुगताः स्मरेण लज्जालवो ऽप्य् अनुभवन्ति दशाम् अनार्याम् ॥ गोऋp_36 ॥
उच्चैः शिरो वहति तावद् अयं प्रजासु यावन् न कामकलिदुर्ललितान्य् उपास्ते । आलिङ्गितश् च पुरुषो मदनज्वरेण श्वा संकटस्थित इव प्रखलीकृतश् च ॥ गोऋp_37 ॥
अपि च भद्रमुखाः
कण्ठोपान्तविरोधगद्गदतरं कूजञ् छनैः पृष्ठतो रागाद् रक्ततरेक्षणः सचकितं निर्भर्त्स्यमानो मुहुः । श्येनायातम् असंप्रधार्य दयिताम् अन्वेति पारावतो रागाभ्यासकलङ्कितस्य मनसः का वञ्चना दूरतः ॥ गोऋp_38 ॥
ये नैकाङ्गुलितर्जनाम् अपि गुरोः सोढुं समर्था नराः मानात्युन्नतमानसाश् च सकलं पश्यन्त्य् अधस्ताज् जगत् । ते रागेन कदर्थिता धृतिभिदा पादैर् हता योषिताम् आज्ञा मूर्धभिर् उद्वहन्ति कृपणा मालाम् इवाम्लायिनीम् ॥ गोऋp_39 ॥
जित्वारातीन् समरविजयख्यातशौर्यावलेपान् आयामिन्यो जगति वितताः कीर्तयो यैः समन्तात् । भिन्नास् ते ऽपि प्रकृतिचपलैर् अङ्गनावाक्यबाणैर् निर्मर्यादाः पुनर् अयशसा जीवलोकं स्फुरन्ति ॥ गोऋp_40 ॥
परिचितम् अपि श्रुत्वा वाद्यध्वनिं रजनीक्षये भवति सहसा यासां त्रासो गृहेषु सवेपथुः । मदनविहतास् ता गच्छन्ति क्षपास्व् अभिसारिका बहलतिमिरच्छन्नान् देशाञ् छिवारुतभीषणान् ॥ गोऋp_41 ॥
मन्दं मन्दं सलीलं सकुसुमनिकरे हर्म्यपृष्थे विविक्ते खिद्यन्ते संचरन्त्यः प्रियविधृतकराम्भोरुहा यास् तरुण्यः । रागावेशावतन्त्रा बहुमहिषखुरक्षुण्णपङ्काङ्कदुर्गान् मार्गान् प्रावृड्निशासु द्रुतपदरभसं ता व्यतिक्रम्य यान्ति ॥ गोऋp_42 ॥
वेपन्ते नववारिचूर्णशिशिरैः स्पृष्टाः कदम्बानिलैर् बाला जालगवाक्षपक्षविसृतैर् या रम्यहर्म्याश्रिताः । धारापातविशीर्णपुष्परचनाः सारङ्गपर्याकुलास् ता पङ्काङ्कितमूकनूपुररवा रात्रौ व्रजन्त्य् अध्वना ॥ गोऋp_43 ॥
शस्त्रापाता कुवलयदलस्पर्शकल्पा भवन्ति ज्वालाश् चाग्नेर् गतघनशरच्चन्द्रिकाश्लेषशीताः । कामान् प्राप्य श्वसनचपला मूर्तयः पन्नगानां साम्यं यान्ति भ्रमरविरुतैर् दामभिर् मालतीनाम् ॥ गोऋp_44 ॥
सर्वायतनोन्माथी तस्माद् रागो महद् दुःखम् इत्य् उक्ते भुजगो ऽब्रवीत् । ननु खलु दुःखम् रागश् चित्तविपर्यासकृद् दुराचारः । क्रोधं तु दुःखतरम् इत्य् अवैमि चेतोज्वलं तु मूलम् । कुतः
विक्षिप्ताम्बुदसान्द्रचन्द्रकिरणप्रक्षालिताट्टालके वीणावेणुरवानुबद्धमधुरस्त्रीगितरम्ये गृहे । विद्धः क्रोधशिलीमुखेन पुरुषो नाप्नोति निद्रां यतः क्रोधाद् दुःखतरं न दुःखम् अपरं किं चित् ततो विद्यते ॥ गोऋp_45 ॥
योगाभ्यासविशेषशान्तमतिभिर् वाय्वम्बुमूलाशनैर् विश्रम्भायतनत्वम् अभ्युपगतैः प्रायस् तिरश्चाम् अपि । दग्धाः क्रोधहुताशनैर् जनपदाः क्रूरैर् इवाशीविषैर् यन् मोहाद् ऋषिभिर् न दुःखम् अपरं क्रोधात् ततो विद्यते ॥ गोऋp_46 ॥
त्रासायासविशेषलोलनयनस्त्रीबाष्पपर्याकुलं बालैश् च स्तनचूचुकार्पितमुखैः सावेगम् उन्नादितम् । संरम्भस्फुरितेक्षणत्रयशिखिज्वालापिशङ्गाननो रुद्रो यत् त्रिपुरम् ददाह विघृणः क्रोधस्य तद् वैकृतम् ॥ गोऋp_47 ॥
तीव्रातङ्कविलोलमूलवलया नैवाञ्जलिप्रग्रहाः स्त्रीणां बाष्पकणाः करालतरला नो पक्ष्मला दृष्टयः । कुर्वन्त्य् आवरणं ललाटपटलव्यावर्तमानभ्रुवां राज्ञां क्रोधविषाशिवस्य मनसः किं नाम दुःखं ततः ॥ गोऋp_48 ॥
गर्भाधारणयन्त्रणाम् अविगणय्यापायिकां मातरं सत्कारातिशयक्षमं च पितरं स्नेहद्रवाध्याशयम् । यद् विश्रम्भनिरत्ययांश् च सुहृदो घ्नन्ति क्षताध्याशयाः क्रोधस्यैव विपाकदारुणतरास् ता वृत्तयः साधवः ॥ गोऋp_49 ॥
उत्पद्यन्ते परममतयः शुद्धये ये प्रजानां दुःशोधानाम् अविकलमलालीढगूढाशयानाम् । तान् अप्य् आर्यान् परहितसुखप्रक्रियामात्रहार्यान् क्रोधाविष्टा वचनविशिखैः संमुखं घ्नन्त्य् अनार्याः ॥ गोऋp_50 ॥
क्रोधाघ्रातो भवति पुरुषो दग्धलावण्यवक्त्रो ज्वालाचक्रक्रकचकलिलान् क्रोधनो यात्य् अपायान् । तेभ्यो भ्रष्टो भवति जगतो लोचनातङ्कभूतः श्रीविद्वेषो न रिपुर् अपरः क्रोधतुल्यो ऽस्ति यस्मात् ॥ गोऋp_51 ॥
यस्मिन् रक्तो भवति पुरुषस् तत्र कुर्यात् प्रियाणि द्विष्टो यस्मै तदधिकतराण्य् अप्रियाण्य् एव धत्ते । अल्पावद्ये ऽविगतरजसा तेन रोषः प्रविष्टः क्रोधं क्रोधोपशमकुशला वद्ययोनिं वदन्ति ॥ गोऋp_52 ॥
त्रासोत्फुल्लमुखीं मृगीम् इव वने लज्जालसभ्रूलतां संरम्भापहृतोत्तरीयवसनां विच्छिन्नकण्ठेगुणाम् । चिक्लेश प्रचुराङ्गनाम् इव सतीं दुःशासनो द्रौपदीं स्फीते यत् सदसि प्रकामचपलाः क्रोधस्य ता विप्लुषः ॥ गोऋp_53 ॥
शान्तात्मा विजने वने प्रतिवसन् निक्षिप्तदण्डो ऽपि सन् लोकानाम् अनिमित्तपेशलरसः स्नेहार्थकारी सुहृत् । खड्गेनार्द्र इव द्रुमः शकलितो यत् क्षान्तिवादी मुनी राज्ञा दुर्जनवल्लभस्य निकषं क्रोधस्य तत् प्राहृतम् ॥ गोऋp_54 ॥
अनेकादीनवमयो विनिपाती मनोज्वलः । इत्य् एवं सर्वदुःखानां क्रोधारिर् धुरि वर्तते ॥ गोऋp_55 ॥
मृगो ऽब्रवीत् । सम्यग् वक्तुम् एतद् भुजगपते क्रोधवैशसं तीव्रम् । मरणभयाद् अधिकतरं दुःखम् अहं नावगच्छामि । कुतः
मरणोपनिपातकातराणां कमनीयान्य् अपि मारबन्धनानि । न मनो रमयन्ति यज् जनानां न ⏑ - दुःखम् अतः परं परैमि ॥ गोऋp_56 ॥
सुहृदां वदनानि वीक्षमाणो घनबाष्पाम्बुतरङ्गदुर्दिनानि । लभते व्यसनं यद् अन्तकाले न ततो दुःखम् अवैमि कष्टम् अन्यत् ॥ गोऋp_57 ॥
पवनैर् अविधेयदुःखशीलैः करपत्रैर् इव पाट्यमानदेहाः । परलोकमहाप्रपातशङ्काः कृपणा दुःखम् अवाप्नुवन्ति तीव्रम् ॥ गोऋp_58 ॥
परिपाण्डुकपोलमण्डलानि श्वसनम्लानविपाटलाधराणि । दयितावदनानि नानुकम्पां जनयन्त्य् अन्तकदन्तविक्षतानाम् ॥ गोऋp_59 ॥
जननी मलपङ्कदिग्धवेणी सुतविश्रम्भनिरत्ययोपचारा । उपमृत्युम् उदीक्ष्य शोकपङ्के विनिमज्जत्य् अपरायणा रुदन्ती ॥ गोऋp_60 ॥
चलतां तृणपर्णपल्लवानां ध्वनिम् आकर्ण्य वने मृगा वसन्तः । अनपेक्ष्य परस्परं द्रवामः स्वसुतान् अप्य् अवधूय मृत्युभीताः ॥ गोऋp_61 ॥
कठिनोपलशर्कराकरालेष्व् अनलप्लुष्टतृणाचलद्रुमेषु । मरणाशनिसंनिपातभीताः गिरिदुर्गेष्व् अपरायणा वसामः ॥ गोऋp_62 ॥
रजसापि विरूक्षितात्मभावाः परुषैश् चोपहता गदप्रहारैः । महतीम् अपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः ॥ गोऋp_63 ॥
हरिणो हरिणेव बन्धुमध्याद् अभिभूय प्रसभं विकृष्यमाणः । अविखण्डितपौरुषेण मृत्युद्विषता दुःखम् अयं परैति लोकः ॥ गोऋp_64 ॥
परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्य् उदन्वतीनाम् । अनवाप्तजला मृगारिभीता वयम् उत्प्लुत्य दिशो दिशं व्रजामः ॥ गोऋp_65 ॥
देशे देशे वयम् अशरणा व्याधम् उद्वीक्ष्य हिंस्रं शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् । विन्ध्याटव्याम् अजगरदरीदारुणायाम् अनाथाः शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः ॥ गोऋp_66 ॥
तृणपुरुषकान् अप्य् आलोक्य द्रवन्ति मनांसि नो न निशि न दिवा मृत्योर् भीताः सुखानि लभामहे । विततधनुषं दृष्ट्वा व्याधं कृतान्तम् इवापरं न भवति भयत्रस्ताङ्गानां मनाग् अपि भोजनम् ॥ गोऋp_67 ॥
तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः । हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः ॥ गोऋp_68 ॥
स्थलीवासे तुष्टा नवजलतृणास्वादपटवः सलीलं कान्ताभिः सह गमनविन्यासचतुराः । न लोकद्वेष्टारो न च न चकिता नापि भयदाः प्रयत्नाद् वध्यन्ते तद् अपि हरिणा रौद्रमतिभिः ॥ गोऋp_69 ॥
अटताम् अटवीष्व् अवारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् । वद कं नु समीक्ष्य वैरिभावं हरिणानाम् अपि विद्विषो भवन्ति ॥ गोऋp_70 ॥
ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु । हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः ॥ गोऋp_71 ॥
सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् । अवैमि मरणं तस्माद् उपसर्गदुरुत्तरम् ॥ गोऋp_72 ॥
यतश् च ते महासत्त्वाः स्वं स्वं वादम् अभिनिविष्टा न कथापर्यवसानम् आसादयन्ति ततो बोधिसत्त्वम् उपेत्य न्यायतः प्रणम्येमम् अर्थम् ऊचुः । भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् । कस्य वास्माकं सुभाषितम् इत्य् अथैनान् स मुनिवर्यो ऽब्रवीत् ।
सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् । सर्वाण्य् एतानि दुःखानि रुजन्ति भुवनत्रयम् ॥ गोऋp_73 ॥
अपि च भद्रमुखा ममाप्य् अभिप्रायः श्रूयताम् ।
अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते । आश्रमं मनसो दुःखम् इत्य् अवैमि ब्रवीमि च ॥ गोऋp_74 ॥
स्पर्धमाना इवान्योन्यम् उपघ्नन्ति विदाहिनः । लोकान् एव निरालोकाञ् जन्मसंबन्धिनो मलाः ॥ गोऋp_75 ॥
क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः । अपायफलसंधानदारुणं कर्मवैशसम् ॥ गोऋp_76 ॥
व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः । भवन्ति करुणापात्रं पुरुषास् तत्त्वदर्शिनाम् ॥ गोऋp_77 ॥
स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः । क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा ॥ गोऋp_78 ॥
सर्वसत्त्वैर् विनाभावप्रवासो दीर्घकालिकः । भयम् आत्यन्तिकं हीदं मरणं सर्वदेहिनाम् ॥ गोऋp_79 ॥
एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः । ते जातिम् अनुवर्तन्ते करुणाम् इव साधवः ॥ गोऋp_80 ॥
मातापित्रोर् विप्रतिपत्तिं ................ । ................. किं नाम ततः परं दुःखम् ॥ गोऋp_81 ॥
................. ........................ ॥
................................... । किं नाम ततः परं दुःखम् ॥ गोऋp_82 ॥
रुद्धोच्छ्वासस्य भृशं कृमेर् इवामेध्यपङ्कमग्नस्य । या गर्भस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋp_83 ॥
कायावस्करनिर्झरविवरे निष्पिष्यमाणदेहस्य । या प्रसवस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋp_84 ॥
तस्माज् जातिं दुःखं जातिजराव्याधिमरणनिर्मुक्ताः । कथयन्ति कथिकवरा जिना जितकथंकथाबीजाः ॥ गोऋp_85 ॥
अपि चायुष्मन्तः
रागो ऽनैकविधो जरा परिभवो भोगार्जना रक्षणा प्रध्वंसव्यसनं महात्ययम् असत्संपर्कजं वैकृतम् । इष्टानिष्टवियोगयोगसुलभास् ते ते मनोविप्लवा जातिं प्राप्य यतो भवन्ति जगतः सैवेह दुःखं ततः ॥ गोऋp_86 ॥
आत्मार्थप्रतियोगिनी भगवतां येषां क्रिया सर्वदा सर्वाकारपरोपकारमधुरा येषां समुत्पत्तयः । श्लाघ्या जातिर् अचिन्त्ययोगमहतां तेषां जगच्चक्षुषां जन्म स्वार्थपरस्य तु क्षणिकम् अप्य् आपायिकी विप्लुतिः ॥ गोऋp_87 ॥
तस्माद् ब्रूमहे ।
संबोधये कुरुत वा स्थिरम् अप्रमादं तूर्णं घटध्वम् अथ वा भवसंक्षयाय । एतद् द्वयं तु विरहय्य विशन्त्य् अकामा भीमान्य् अपायवडवामुखगह्वराणि ॥ गोऋp_88 ॥
यत्नेन चेद् उभयम् एतद् अवाप्नुवन्ति यत्नः फले महति युक्ततरो मतो मे । छिद्रं वराटकम् अवाप्य सुधापि किं स्याच् चिन्तामणेर् अधिगमाय वरं श्रमो ऽपि ॥ गोऋp_89 ॥
मां प्रत्य् अतश् च विफलो ऽपि वरं प्रयासः साधोर् महाजनहितावहिताशयस्य । इच्छाविशेषविषयस्य पराक्रमस्य प्रस्थानम् एव महतीं रतिम् आदधाति ॥ गोऋp_90 ॥
साधारणानि दयितैः सह पेलवानि आमोदयन्ति सुतरां हृदयं सुखानि । पीडाकराणि महतां समुपस्थितानि प्राकर्षिकान्य् अपि सुखानि तु यौतकानि ॥ गोऋp_91 ॥
खद्योतानां जनयति यथा देहसद्भावमात्रं दीप्तिर् नासौ स्फुरति जगतां - ⏑ - - ⏑ - - । एवं स्वार्थप्रणयमलिनज्ञानलेशाशयानाम् अर्थावाप्तिर् विनयनकृशा नास्ति सातुल्यरूपा ॥ गोऋp_92 ॥
आज्ञां शिरोभिर् अथ ते प्रतिगृह्य तस्य मानाभिमानमृदुभिर् मुनिसत्तमस्य । धर्मैकतानमनसः प्रथयां बभूवुः कीर्तिं शरत्कुमुदिनीधवलां समन्तात् ॥ गोऋp_93 ॥ इति ऋषिपञ्चकजातकम् ॥ 12. सप्तकुमारिका
ओं नमो रत्नत्रयाय ॥
वैराग्ययुक्तं च सुभाषितं च धर्मार्थकामप्रतिबोधनं च । एकान्तरम्यं बहुसज्जनानां वक्ष्यामि किं चिच् छृणुतावदानम् ॥ gosk_1 ॥
एवम् इदं भ्राजेत् परिपक्वकुशलमूलानां महान्तो ऽपि भोगा यौवनं वा नालम् अन्तरायायेति ।
तद्यथानुश्रूयते ।
नयविनयादिगुणश्रीसमृद्धो राजाभूत् कृकी नाम । स च भगवति काश्यपे सम्यक्संबुद्धे समुपजातप्रसादः । तस्य राज्ञः सप्त कुमार्यः पूर्वबुद्धोत्पादसंनिरोपिताभिवृद्धकुशलमूलबलाधानाः समुपजातसंसारवासनिर्वेदास् ताः सविनयोपचारं मधुरेण वचसा प्रणिपत्य पितरम् अब्रुवन् ।
तोयान्तर्गतचन्द्रबिम्बतरलाम् आलोक्य लोकस्थितिं कामान् क्रुद्धभुजङ्गभोगपटलच्छायोपमान् वीक्ष्य च । दृष्ट्वा दुःखहुताशनैर् जगद् इदं कृत्स्नं च संदीपितं नैष्क्रम्याभिरताशयाः खलु वयं यामः श्मशानं नृप ॥ gosk_2 ॥
राजोवाच ॥
बालाः सुखोचिता यूयम् अकृतार्थमनोरथाः । कथं शक्नोम्य् अहं वक्तुम् आश्रयध्वं तपोवनम् ॥ gosk_3 ॥
कन्यका ऊचुः ।
जानीमहे क्षितिपते भवतो जने ऽपि स्नेहार्द्रपेशलरसाभिनिवेष्टितानि । अस्मासु किं पुनर् अकारणवत्सलस्य स्वाङ्के विवृद्धिम् अनघां समुपागतासु ॥ gosk_4 ॥
युष्मद्विधैर् अपि सहाभिमुखो वियोगो येनैव नो नृप निरत्ययशुद्धभावैः । तेनैव शान्तिपदम् आप्तुम् इयं मनीषा मा भूत् पुनः पुनर् अयं व्यसनोपतापः ॥ gosk_5 ॥
अथ स राजा स्नेहवशाद् वितानीभूतहृदयो निश्चलाभिताम्रनयनयुगलः पुनः पुनस् ताः कन्यकाः समभिवीक्ष्योवाच ॥
आस्तीर्णकोमलविचित्रकुथोदरेषु स्वैरं विहृत्य भवनेषु कथं भवत्यः । स्प्रक्ष्यन्ति दुर्जनमनोविषमां श्मशानभूमिं सितास्थिशकलप्रकरोत्तरीयाम् ॥ gosk_6 ॥
स्नेहोन्मुखं पितरम् एकपदे कथं वा शोकाश्रुदुर्दिनमुखीं जननीं च हित्वा । अम्लानसौहृदनिरन्तरमानसांश् च त्यक्त्वा कथं नु सुहृदस् तपसे रमध्वम् ॥ gosk_7 ॥
अथ ताः कन्यका निरतिशयधैर्यावष्टम्भगल्भं पितरम् ऊचुः ।
माता पिता सुहृद् इति व्यवहारमात्रम् एतत् पुनर्भवनिपातविघातभाजाम् । भूतार्थदर्शनपरोक्षमलीमसानां लोको वृथा नरपते परिखेदम् एति ॥ gosk_8 ॥
केनाप्य् अनर्थरुचिना कपटं प्रयुक्तम् एतत् सुहृत्स्वजनबन्धुमयं विचित्रम् । कस्यात्र कः कथम् इह स्वजनो जनो वा स्वप्नेन्द्रजालसदृशः खलु जीवलोकः ॥ gosk_9 ॥
सालोकं भुवनत्रयं नरपते सद्धर्मवागंशुभिर् यावद् बुद्धदिवाकरस्य विलसत्कीर्तिप्रभामालिनः । निर्यातुं व्यसनान्धकारपटलच्छन्नान्तरालाद् भवात् तावन् न्याय्यम् अतः पुरा ह्य् अतिमहत् पर्येति घोरं तमः ॥ gosk_10 ॥
वातास्फालनचञ्चलानलशिखाज्वालावलीढाद् गृहान् निर्यान्तं न निवारयन्ति पुरुषं तच्छान्तिकामा यथा । एवं दुःखमहाहुताशनशिखाग्रस्तात् समस्ताद् भवान् निष्क्रामन्तम् अनर्थजालपिहितात् सन्तो विवृण्वन्ति न ॥ gosk_11 ॥
अथ स पार्थिवस् तासां तेन सुहृत्स्वजनबन्धुनिरपेक्षरूक्षाक्षरेण स्वकायजीविताशाविधुरेण वचसा सुतरां समुपजातशोकदैन्यमानसः पुनर् व्याह ॥
तपांस्य् अकालेष्व् अभिवाञ्छितानि पुष्णन्ति नार्थान् मनसो ऽनुकूलान् अकालगर्भा इव कन्यकानाम् अजातसारावयवाङ्गशोभाः ॥ gosk_12 ॥
भवन्त्य् अकाले तपसः प्रयोगाश् चन्द्रोपरागा इव सोपसर्गाः । तस्माद् इतो बुद्धिर् इयं कुमार्यो निवर्त्यताम् उत्पथचारिणीव ॥ gosk_13 ॥
सोढुं न दुःखानि वपूंषि शक्तान्य् अदृष्टदुःखानि सुखोचितानि । दन्ताभिघाता द्विरदाधिपानाम् अबद्धमूला इव चूतवृक्षाः ॥ gosk_14 ॥
सवह्निगर्भैर् अशिवैः शिवारुतैर् विनादितं भीषणरावगह्वरम् । भयं भयस्याप्य् उपसंहरेद् भृशं श्मशानम् आक्रन्दविरावदारुणम् ॥ gosk_15 ॥
क्व वो वपुर् बालमृणालकोमलं मतिः क्व चेयं करपत्त्रनिष्ठुरा । परोपकारव्यतिषक्तचेतसो विधेर् अहो मय्य् अनपेक्षरूक्षता ॥ gosk_16 ॥
वैडूर्यनीलमृदुशाद्वलकञ्चुकानि नानाप्रकारकुसुमप्रकरोत्कराणि । एतानि वो मदकलालिकुलाकुलानि क्रीडावनान्य् अभिमतानि भवन्तु कन्याः ॥ gosk_17 ॥
गृहोपवनदीर्घिकास् तटविलम्बिपुष्पद्रुमाः समीरणचलत्तरङ्गरुचकावलीमेखलाः । विबुद्धकमलोत्पलाकरनिलीनहंसस्वना रतेर् उपनिबन्धनं मघवतो ऽप्य् अलं कन्यकाः ॥ gosk_18 ॥
उपवीजिता जलतरङ्गलासकैर् नवमालिकाकुसुमगन्धगन्धिभिः । पवनैर् इहैव गृहकानने रतिं कुरुताङ्गनाः परभृतोपकूजिते ॥ gosk_19 ॥
एते जालगवाक्षपक्षविवरप्रोद्वान्तपुष्पासवा नानामोदविदिग्धवासविकसन्निःश्वासवाता इव । प्रासादा वलभीविटङ्कवलयप्रस्वस्थसुप्ताण्डजा युष्माकं रतये भवन्तु वनिताः संगीततूर्यस्वनाः ॥ gosk_20 ॥
अथ ताः कुमार्यस् तत् पितुर् वचनम् अमृष्यमाणाः पुनर् व्याहुः ॥
न हि तत् सुखम् अस्ति किं चिद् अन्यन् नरलोकाधिपते दिवि क्षितौ वा । शतशश् च सहस्रधा च भुक्तं न यद् अस्माभिर् अनर्थपण्डिताभिः ॥ gosk_21 ॥
विषयैर् न हि तृप्तिर् इन्द्रियाणां विषयाभ्यासविशेषघस्मराणाम् । भवतीति विचिन्त्य बुद्धिमन्तः प्रयतन्ते भवबन्धनक्षयाय ॥ gosk_22 ॥
चपलान्य् अनवस्थितस्वभावान्य् अनिलोद्धूततरङ्गभङ्गुराणि । विनिवृत्तपुनर्भवाभिलाषा विजयन्ते यतयः षडिन्द्रियाणि ॥ gosk_23 ॥
भवचारकसूकरास् तु बालाश् छलिताश् चित्तकलेर् विचेष्टितेन । प्रपतन्ति सुखाभिलाषलुब्धा व्यसनेष्व् एव दुरन्तभैरवेषु ॥ gosk_24 ॥
अहम् इत्य् उपजातविभ्रमेयं जनता प्रज्वलितास्त्रयन्त्रकल्पान् । विषयान् उपसेवते हताशा परिणामायततीव्रदुःखहेतून् ॥ gosk_25 ॥
जगद् अध्रुवम् एतद् अस्वतन्त्रं विषयाशीविषपूगसंनिरुद्धम् । अवगम्य भवेषु ये रमन्ते पशवस् ते नरविग्रहोपनीताः ॥ gosk_26 ॥
चमरा इव वृक्षलग्नवाला निधनं कापुरुषा व्रजन्ति गेहे । विषयैर् उपरुद्धबुद्धिमार्गा वितथस्नेहलतानिबद्धचित्ताः ॥ gosk_27 ॥
रतिकारणम् अत्र जीवलोके व्यसनोद्भेदनिरन्तरान्तराले । वद तात किम् अस्ति येन नः स्याद् भवनेष्व् एव रतिर् बहुच्छलेषु ॥ gosk_28 ॥
भवनेषु नरेन्द्र भागधेयान्य् उपयुज्यानि भवान्तरार्जितानि । मुषिता इव हीनदीनचित्ता भवकान्तारपरायणा भवन्ति ॥ gosk_29 ॥
पुरुषाः प्रसमीक्ष्य कारिणो ऽपि व्यवहारेषु विचक्षणाः प्रकृत्या । गृहचारकम् एत्य यान्ति नाशं नृप मीनाः कुपिनीमुखं यथैव ॥ gosk_30 ॥
बहुभिर् नरलोकपाल यत्नैर् भवनानि द्रविणानि चार्जितानि । अपहाय नरः क्षणेन याति स्वकृतादेशितमार्ग एक एव ॥ gosk_31 ॥
अत एव जगाद लोकनाथो नृप कर्मस्वकम् एव जीवलोकम् । मरणाभिमुखं नरं स्वकर्म स्तनपो वत्स इवानुयाति धेनुम् ॥ gosk_32 ॥
तद् अलं परिणामदारुणैस् तैः प्रियबन्धो प्रियसंगमाभिलाषैः । ध्रुवम् एव हि विप्रयोगदुःखं प्रियसंयोगरताशया लभन्ते ॥ gosk_33 ॥
अपि चापरिनिष्ठितस्वभावे प्रियता का नरवीर जीवलोके । परमार्थविचारपेलवानां प्रिय इत्य् एव हि विभ्रमो मतीनाम् ॥ gosk_34 ॥
यदि तु प्रियतास्ति का चिद् अस्मास्व् अनुजानीष्व महीपते ततो ऽस्मान् । अनवद्यम् अहार्यम् आर्यजुष्टं सुखम् आस्वादयितुं हि नो मनीषा ॥ gosk_35 ॥
अथ स राजा सुगतशासनाभिप्रसन्नो धर्मान्तरायभीरुर् जातस्नेहाक्रान्तहृदयः स्वा दुहितॄः पूर्वजन्मानुस्मरणावगमितप्रयोजना जातिस्मराः खल्व् एता इति परिविचिन्त्य सुचिरं तूष्णीं बभूव ॥
निर्बन्धम् इति विज्ञाय तासां स नरपुङ्गवः । गच्छतेत्य् अपरिव्यक्तं कथं चिद् अनुजज्ञिवान् ॥ gosk_36 ॥
अथ ता दारिका व्यपनीतस्रगनुलेपनाभरणाः विनयनिभृतवपुषः सितसूक्ष्मप्रलम्बाम्बरधराः पवनबलचलितसलिलफेनावलीमालिन्य इव सरितः सान्द्रचन्द्रचन्द्रिकापटावगुण्ठिता इव शरन्निशाः स्वकिरणजालोत्तरीया इव सप्तर्षितारकाः क्रमेण विरचितचिताग्निमध्यविन्यस्तसिमिसिमायमानोच्छूनशवामगन्धबीभत्सं निशितगृध्रतुण्डखण्डितशिरोघटीविवरविनिर्गतविगलितमस्तिष्करसविलिप्तवदननरकरङ्काक्रान्तपर्यन्तभीषणं जीर्णशीर्णविवर्णास्थिकङ्कालशकलनिकरखरभूमिभागदुःसंचरं मूर्तिमन्तम् इव निर्वेदकर्मान्तम् इवान्तकस्यारतिशोकदैन्योपायासास्पदभूतं श्मशानम् अनुप्राप्ताः ॥ भवति चात्र ॥
संप्राप्तास् ताः श्मशानं नररुधिरवसाविस्रगन्धान्धगृध्रं व्यालुप्तान्त्रोदरार्द्रैर् अरतिभयकरैः संनिरुद्धं शवाङ्गैः । कुन्दापीतावदातैर् हसद् इव सततं जर्जराङ्गैः कपालैर् जीर्णन्यग्रोधरन्ध्रव्यवहितविविधोलूकहूङ्कारभीमम् ॥ gosk_37 ॥
सवह्निकवलोद्धतस्फुटशिवारुताभीषणं क्व चित् सितकरङ्कजालपरिणद्धदुःसंचरम् । स्फुरत्कृमिकुलाकुलप्रचलनीलनासादरी- निलीनबहुमक्षिकाशतशवाकुलोपत्यकम् ॥ gosk_38 ॥
सितास्थिशकलारुणप्रबलमारुताभ्याहत- स्फुरत्स्फुटचिताग्निशुष्कतरुमूललीनोरगम् । क्व चिन् निशितशूलभिन्ननरविग्रहोग्राश्रयं महानसम् इवान्तकस्य सततप्रवृत्तोत्सवम् ॥ gosk_39 ॥
क्व चिन् नरशिरोघटीविवरनिर्गतासृग्धरा- वसासवविकारघस्मरपिशाचिपूगाकुलम् । क्व चित् सिमिसिमायमानचितिकानलालिङ्गित- स्फुरन्नरकलेवरोदरविनिर्गतान्त्रोरगम् ॥ gosk_40 ॥
संवेगानद्धहृदया विचेरुस् तत्र ताः स्त्रियः । स्वभावं जीवलोकस्य चिन्तयन्त्यश् चलाचलम् ॥ gosk_41 ॥
विवृतविकृतपूतिगुह्यदेशं धरणिरजोऽरुणरूक्षकेशपाशम् । खगनखमुखखण्डिताक्षिकोशं ददृशुर् अथोज्झितम् अङ्गनायाः ॥ gosk_42 ॥
मुहुर् उपागतसाध्वसचञ्चलैः कुवलयावयवैर् इव लोचनैः । तम् अभिवीक्ष्य कलेवरपञ्जरं बहुविधानि वचांसि बभाषिरे ॥ gosk_43 ॥
इयम् असौ स्फुटचन्द्रकराङ्कुरच्छुरितसौधविमाननिवासिनी । प्रियतमाङ्कपरिष्वजनोचिता स्वपिति या वसुधातलमण्डले ॥ gosk_44 ॥
प्रियभुजान्तरपञ्जरशायिका जलधरस्तनितेष्व् अपि कातरा । सदहनाद् अशिवाच् च शिवारुतात् कथम् इयं न बिभेति तपस्विनी ॥ gosk_45 ॥
गुरुनितम्बभरालसगामिनी ललितहासविलासविलोकिनी । इयम् असौ स्वगृहाङ्गनचन्द्रिका गतघृणैर् विहगैर् अवलुप्यते ॥ gosk_46 ॥
नरकरङ्कशताकुलचत्वरे पितृवने भगिनि त्वम् इहोज्झिता । अकरुणेन कथं दयितेन हे धिग् अनवस्थितहार्दम् इदं जगत् ॥ gosk_47 ॥
स्वजनबन्धुसुहृत्कमलाकरभ्रमरिका दयिताङ्कविवर्तिनी । कथम् इयं क्षणदाचरभैरवे पितृवने रमते ऽद्य वराकिका ॥ gosk_48 ॥
संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा । चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां संत्रासं विहगापनीतनयना कष्टं करोत्य् अङ्गना ॥ gosk_49 ॥
अन्तर्निगूढविविधाशुचिगात्रयष्ट्या रागान्धबुद्धिनयनाश् छलिता मयेति । संरागिणो ऽपहसतीव खगावलुप्तदन्तच्छदेन वदनेन वराङ्गनेयम् ॥ gosk_50 ॥
वीणावेणुध्वनिकलरवैः काकलीगीतकैर् या निद्रां भेजे प्रियतमपरिष्वङ्गविश्रब्धगर्भाम् । सैवाद्येह स्वपिति वनिता भूरजोरूक्षिताङ्गी गोमायूनां ध्वनितमुखरारावरौद्रे श्मशाने ॥ gosk_51 ॥
वालाग्रमात्रम् अपि यत्र विचार्यमाणे नेक्षामहे शुचि निजाशुचिगर्भरन्ध्रे । तस्मिन् रतिं कथम् अमी प्रखला लभन्ते कायाधमे निधनधर्मिणि रोगनीडे ॥ gosk_52 ॥
एवंविधं जगद् इदं सकलं भगिन्यः स्वप्नेन्द्रजालजलचन्द्रचलस्वभावम् । मत्वा विरागम् उपगच्छत यावद् एतत् प्राणावशेषम् उपयाति न वो विनाशम् ॥ gosk_53 ॥
प्राणान्तिकव्यसनकण्टकभिन्नमर्मा कुर्वीत किं नु कुशलं जलविप्लुताक्षः । दष्टः कृतान्तमकरेण जरामुखेन मूर्ध्ना च शुक्लपलितोत्करदन्तुरेण ॥ gosk_54 ॥
घोरान्धकारपरलोकमहाप्रपातसंपातचूर्णिततनोः कुशलाभिलाषम् । आशीविषास्यपुटसंकटसंनिरुद्धमण्डूकवासितसमं प्रवदन्ति सन्तः ॥ gosk_55 ॥
लोकं वाक्यैः कृतकमधुरैर् वञ्चयित्वाद्य मौनं धत्से कस्मात् परुषपिशुनाबद्धवादप्रगल्भैः । इत्य् आक्रोशन्न् इव सरभसं राजदन्ताग्रदष्टां जिह्वापेशीं हरति विहगस् तुण्डसंदंशकेन ॥ gosk_56 ॥
रागान्धानां वितथविषयाभ्यासजिह्माशयानां यद् बालानां नयनविषयं प्राप्य धैर्यं बिभेद । तस्मिन्न् अद्य व्यपगतभयाश् चारुबिम्बे नितम्बे नार्या गृध्रा नखमुखपदन्यासपङ्क्तिं लिखन्ति ॥ gosk_57 ॥
याभ्यां याता प्रियकरतलन्यस्तहस्तारविन्दा भित्तौ साचीपरिणतमुखी चित्रम् उद्वीक्षमाणा । मन्दं मन्दं स्वभवनतले मुक्तपुष्पोत्तरीये ताव् एवाद्य ग्रसति चरणौ जम्बुको ऽयं युवत्याः ॥ gosk_58 ॥
इत्थंभूते सहजविविधामेध्यजम्बालपङ्के कष्टं कष्टं मदनमदिराः क्षीबचित्ताः पतन्ति । कायस्येमां प्रकृतिम् अशिवां वीक्षमाणास् तु यूयं निर्विद्यध्वं प्रचलिततडिद्भङ्गुराज् जीवलोकात् ॥ gosk_59 ॥
यः सत्त्वानाम् अविरतरसक्लेशनाडीव्रणान्तः- संतप्तानाम् अधिगतयथाभूतधर्माधिराजः । ह्लादं चक्रे प्रकृतिशिशिरैर् धर्मवागम्बुकुम्भैः शास्त्रे तस्मै परमभिषजे सर्वकाले नमो ऽस्तु ॥ gosk_60 ॥
दुर्विज्ञेयं कपटम् अशिवं क्लेशकर्मप्रयुक्तं सर्वाकारं विवृतम् अखिलं येन जन्माभिधानम् । यस्मिन् मूढो रथचरणवद् बम्भ्रमीत्य् अस्वतन्त्रो लोकस् तीव्रव्यसनकुलिशाघातनिष्पिष्टमूर्तिः ॥ gosk_61 ॥
माता बाल्ये प्रतिसरवतीं वेणिकां यत्र चक्रे यस्मिन् कान्तो मणिमकरिकां यौवनाग्रे बबन्ध । विप्रैः सिक्तं सुकुसुमलवैर् यच् च शान्त्यम्बुलेशैः कष्टं धृष्टः स्पृशति बलिभुक् तच् छिरो ऽद्याङ्गनायाः ॥ gosk_62 ॥
ये वासिताः सुकुसुमेन विवाहकाले मातुः करेण कृतकौतुकमङ्गलेन । ते ऽद्य प्रचण्डपवनैर् अवधूयमानाः केशाः श्मशानतरुचामरतां प्रयाताः ॥ gosk_63 ॥
प्रकृतिचतुरा दृष्टिः क्वासाव् अपाङ्गविलोकिनी सललितपदन्यासा क्वासौ गतिर् मदविह्वला । क्व नु खलु गता हासास् ते ऽस्या रदच्छदलासकाः सुरचितम् अहो चित्रं मायारहस्यम् इदं कलेः ॥ gosk_64 ॥
हासायासविलोलकुण्डलमणिच्छायोपरागारुणे यस्मिन् प्राणसमश् चकार मुदितः पत्त्राङ्कुरं यत्नतः । बालाम्भोरुहपत्त्रकोमलदले तत्रैव गण्डस्थले वक्त्रं रक्तकलङ्कितं निकषति स्थित्वा ललाटे ऽण्डजः ॥ gosk_65 ॥
मुक्ताहारमरीचिफेनसलिले रोमावलीशैवले विस्तीर्णस्तनचक्रवाकयुगले वक्षस्तडागोदरे । सव्याजस्खलितांशुके व्यसनिनां यत्रैव नेत्रालयः पेतुस् तत्र विपूयके ऽद्य निपतन्त्य् आशातिका मक्षिकाः ॥ gosk_66 ॥
पूर्वं चन्दनवारिशीकरमुचैर् या तालवृन्तानिलैः प्रेष्याभिर् वलयध्वनिव्यतिकरैः संवीजिता सुन्दरी । हर्म्ये चन्द्रकरोपहारधवले बिम्बोपधानाश्रिता ताम् एवाद्य तु वीजयन्ति परुषैः पक्षानिलैर् वायसाः ॥ gosk_67 ॥
येनायं कम्पितः पूर्वं शाखान्तरविचारिणा । क्वेमं कायद्रुमं त्यक्त्वा स गतश् चित्तमर्कटः ॥ gosk_68 ॥
येन निष्क्रियम् अप्य् एतत् क्रियावद् इव लक्ष्यते । कलेवरम् अनात्मीयं क्व स चित्तविदूषकः ॥ gosk_69 ॥
अन्तरात्मानम् इच्छन्ति यम् अविद्यान्धबुद्धयः । विज्ञानधूर्तकः क्वासौ गतस् तीर्थविमोहकः ॥ gosk_70 ॥
चिरं व्यामोहितं येन न तत्त्वेषु प्रतिष्ठितम् । जगत् क्व नु प्रयातो ऽस्माच् चित्तचित्रेन्द्रजालिकः ॥ gosk_71 ॥
न जानन्ति गतिं यस्य कपिलाद्यास् तपोधनाः । चित्तविद्याधरः क्वासौ विषयाम्बरगोचरः ॥ gosk_72 ॥
चचार यो ऽस्मिन्न् अशुचौ नवद्वारे चलाचले । शरीरपञ्जरे सो ऽद्य क्व नु चित्तविहङ्गमः ॥ gosk_73 ॥
येनाविष्टा भवजलनिधौ क्लेशसंसर्पिसर्पे तीव्रच्छिद्रव्यसननिवहक्षारवारिप्रपूर्णे । मज्जन्त्य् अज्ञा मरणमकरक्षोभचञ्चत्तरङ्गे यातस् त्यक्त्वा क्व नु तनुम् इमां चित्तनक्तंचरो ऽसौ ॥ gosk_74 ॥
अदान्तत्वाद् यो ऽसौ क्षिपति नरके व्यार्तम् अवशम् स्फुरद्वह्निज्वालावलयकपिलद्वारविवरे । यमोपायं यस्य व्यपगतमदो वेत्ति भगवान् क्व यातो ऽसाव् अस्मात् प्रकृतिचपलश् चित्ततुरगः ॥ gosk_75 ॥
अथ कुलिशमरीचिश्यामपीनप्रकोष्ठः सविनयम् उपगम्य प्रीतिविस्पन्दिताक्षः । अनुनयरमणीयं साधु साध्व् इत्य् उवाच प्रकृतिसुभगवाचा वासवः कन्यकास् ताः ॥ gosk_76 ॥
नववयसि भगिन्यो मन्मथावासभूते नृपतिकुलविभूतिश्रीसुखं पर्युदस्य । ऋषिभिर् अपि पुराणैर् दुष्करं संप्रपन्ना व्रतम् इदम् इति तुष्टो ऽस्म्य् अद्य वः किं वृणीध्वम् ॥ gosk_77 ॥
करतल इव मन्ये कामधात्वीश्वरत्वं त्रिदशपतिसुखं वा निश्चयस्यास्य वो ऽद्य । लघु वदत भगिन्यः किं करोम्य् एष वश्यः स्फुरति मनसि यद् वो देवराजो ऽस्मि शक्रः ॥ gosk_78 ॥
अथ विषयसुखेभ्यो निःस्पृहास् ताः कुमार्यः प्रकृतिरुचिरभावास् तिर्यग् आलोक्य शक्रम् । जगुर् इदम् अनवद्यं सुष्ठु चित्रार्थवाचः स्वकुशलपरिपाकाङ्गारधीरस्वभावः ॥ gosk_79 ॥
न वयम् अमरबन्धो जन्मदुःखातुरत्वाद् भवसुखलवलोलात् तन्तुसंताननेयाः । (?) व्रतम् इदम् अनुबद्धाः शोकबाष्पाम्बुलेशैः कलुषवदनशोभान् बान्धवान् अप्य् अपास्य ॥ gosk_80 ॥
अपि तु जगद् अशेषं दुर्नयाविद्धतीव्र- व्यसनशतसहस्राघातनिर्भिद्यमानम् । कृपणम् अभिसमीक्ष्य क्षीणदोषानुजातं पदम् अभयम् अशोकं प्राप्तुम् अभ्युद्यताः स्मः ॥ gosk_81 ॥
प्रभवसि शतमन्यो त्वं वरं संप्रदातुं यदि जगदनुकम्पापेशलाध्याशयत्वात् । पदम् अजरम् अहार्यं ब्रह्मशान्तं तदार्यं भवभयपरितप्ताः प्रापयास्मान् विमोक्षम् ॥ gosk_82 ॥
कायावस्करनिर्झरस्रुतमलक्लेदोपदिग्धाश्रयो निर्याणास्थिकटाहकार्पितशिरा मूर्च्छातुरो निष्पतन् । गर्भान् मातुर् अमेध्यपङ्कगहनाद् याम् अप्रहायाश्नुते दुःखं दुःखपरंपरां च परतस् तां छिन्द्धि जातिं हि नः ॥ gosk_83 ॥
जगन् निर्मर्यादा दशति शिरसि व्यावृतमुखी जरा रक्षोयोषित् पलितसितदंष्ट्राङ्कुरवती । नृणां यासौ वीर्यस्मृतिधृतिमतिश्रीप्रमथिनी ततस् त्रायस्वास्मान् प्रभवसि यदि त्वं सुरपते ॥ gosk_84 ॥
श्वासोत्क्षेपचलत्कठोरजठरो व्यापाण्डुरूक्षच्छविः संप्राप्तान् अपि भोक्तुम् अप्रतिबलो भोगान् विचित्रोज्ज्वलान् । येनादष्टवपुः सुरेश्वर ततो रोगाभिधानाद् भयात् त्राता नो भव मृत्युदूतपुरुषाद् दित्सुर् वरं चेद् भवान् ॥ gosk_85 ॥
प्रत्यावृत्तस्तिमितनयनो मर्मविच्छेददुःख- क्षोभायासप्रतिहततनुः शीतविष्टब्धगात्रः । पश्यन् बन्धून् नयनसलिलस्नातगण्डाधरान्तान् येनाघ्रातो व्रजति विलयं पाहि मृत्योस् ततो ऽस्मान् ॥ gosk_86 ॥
येनालिङ्गितमानसः पशुर् इव व्याप्नोति शोच्यां दशां कार्याकार्यविभागपेलवमतिर् निन्दास्पदं जायते । ह्लादं नैति तमालशीकरमुचाप्य् आलिङ्गितो वायुना तन् नो रागहुताशनं वरद हे निर्वापयापायिकम् ॥ gosk_87 ॥
यस्यावेशात् स्फुरितनयना दष्टदन्तच्छदान्ताः पापाः पापं नरकम् अशिवं कुर्वते तत्क्षणेन । नैवोत्खातो मुनिभिर् अपि यः शीर्णपर्णाम्बुभक्षैस् तन् नः शक्र व्यपनय मनःकोटरात् क्रोधसर्पम् ॥ gosk_88 ॥
येनावारितलोचनः कुमतयस् त्यक्त्वा शिवां वर्त्मनीं मिथ्यादृष्टिविषोपदिग्धमनसो मार्गान्तरं संश्रिताः । हेतुं यत् प्रवदन्ति भिन्नतिमिराः सर्वास्रवोत्पत्तये तन् नश् छिन्धि मनोगृहान्तरचरं मोहान्धकारं हरे ॥ gosk_89 ॥
वरम् एवंविधं शक्र भवन्तं प्रार्थयामहे । प्रतिज्ञातार्थविधुरं चेष्टन्ते न हि साधवः ॥ gosk_90 ॥
अथ शक्रस् तेन तासां विषयप्रार्थनाकार्पण्यानपेक्षास्वच्छशोभिना वचसा प्रविजृम्भमाणविस्मयः प्रसादसंहृषिततनूरुहः प्राह ।
अशक्यम् अर्थं खलु याच्यमानो विघातदीनत्वम् उपैति लोकः । वरं वृणीध्वं नरदेवकन्या यद् एव शक्येत मया प्रदातुम् ॥ gosk_91 ॥
अथ ता दारिकास् तेन तस्यान्तर्निगूढशाठ्यविकल्पितेन वचसा समुपजातसंवेगामर्षाः शक्रम् ऊचुः ।
उपलापयसे किमर्थम् अस्मान् उपगम्याद्य सहस्रलोचनैवम् । सुखमात्रकदुर्विदग्धबुद्धे प्रखलास् तेन वयं न चापि गम्याः ॥ gosk_92 ॥
विदितो भवतो न राजवंशः किम् असौ दिक्षु विकीर्णकीर्तिपुञ्जः । धनदो ऽप्य् अयथार्थनामधेयो धनसारं समवेक्ष्य यस्य नूनम् ॥ gosk_93 ॥
यम् अपास्य वयं जरार्तिमृत्युव्यसनायासविघातदैन्यभीताः । सुरनाथ दशाम् इमां प्रपन्ना न भयान् नापि च बालचापलेन ॥ gosk_94 ॥
कृतपुण्य विहेठिताभिर् अर्थस् तव को ऽस्माभिर् अतीव दुःखिताभिः । उपजीव सबन्धुमित्रभृत्यो विभवन् नन्द च शक्र दीर्घरात्रम् ॥ gosk_95 ॥
सुकृतोज्ज्वलभागधेययोगाद् यदि देवाधिपतिर् भवांस् ततः किम् । न हि संपदम् आप्नुवन्ति सन्तः परहेठाकरणाय देवराज ॥ gosk_96 ॥
अथ महेन्द्रस् तासां स्फुटविचित्रमहार्थसारसूचकैर् वचोभिर् आप्यायितविस्मयः प्रसादाभिव्यज्यमानवदनशोभः पुनर् अपि भावजिज्ञासुर् अर्थान्तरातिशयशुश्रूषया वाचात्युवाच । मा तावद् भगिन्यः
नाथन्ते दर्शनस्यापि मम लोके तपोधनाः । किमर्थम् एवं वरदे मयि यूयं तु निष्ठुराः ॥ gosk_97 ॥
अथ ताः कुमार्यः पुनर् अभ्यधिकतरजनितमन्युकोपाः सामर्षं रूक्षाक्षरं त्रिदशपतिम् ऊचुः ।
अन्यथैव सितापाङ्गमुखस्मितविलोकितम् । दृश्यते वदनं शच्या दीयते वरम् अन्यथा ॥ gosk_98 ॥
वरप्रदाने यद्य् अस्ति शक्तिस् तव पुरन्दर । जहीहि प्रखलां तावद् विषयाशापिशाचिकाम् ॥ gosk_99 ॥
अथवा दुस्त्यजाः कामा मिथ्यासंकल्पलोलुपैः । त एव सन्तु ते नित्याः प्रभावो ऽस्ति यदीदृशः ॥ gosk_100 ॥
अध्रुवेषु सहस्राक्ष कामेष्व् आसक्तमानसः । वरं वद कथं नाम त्वम् अन्यस्मै प्रदास्यसि ॥ gosk_101 ॥
उह्यमानः कथं नाम सरिता भीमवेगया । उत्तारयिष्यस्य् अपरान् परिक्षामजडाश्रयः ॥ gosk_102 ॥
पांशुकूलाम्बरधरा व्यपनीतशिरोरुहाः । अरण्याद् ग्रामम् एष्यामः कदा नस् तद् भविष्यति ॥ gosk_103 ॥
युगमात्रविलोकिन्यो मृत्पात्रव्यग्रपाणयः । सावधानं कदा भिक्षां चरिष्यामः कुलात् कुलम् ॥ gosk_104 ॥
असक्ता लाभसत्कारपङ्के संक्लेशसंकटे । कदा विशोधयिष्यामो देयधर्मानुरागिणः ॥ gosk_105 ॥
पलालपुञ्जाद् उत्थाय नीहारगुरुचीवराः । यथेच्छम् अन्नपानार्थे यास्यामो निःस्पृहाः कदा ॥ gosk_106 ॥
तरोर् मूले शुकश्यामे मृदुशाद्वलकञ्चुके । कदा निषद्य प्राप्स्यामो दृष्टधर्मसुखोत्सवम् ॥ gosk_107 ॥
कायजीवितयोस् त्यक्त्वा जरत्तृणलवेष्व् इव । अपेक्षां सुचिराभ्यस्ताः कदा लप्स्यामहे सुखम् ॥ gosk_108 ॥
कदा सरिन्निकुञ्जस्थास् तरङ्गैर् उदयव्ययम् । उज्झामो जीवलोकस्य भिद्यमानैर् मुहुर् मुहुः ॥ gosk_109 ॥
सत्कायदृष्टिम् उत्पाट्य सर्वात्मदृष्टिमात्रिकाम् । निःस्पृहा भवभोगेभ्यो भविष्यामः कदा वयम् ॥ gosk_110 ॥
अवभोत्स्यामहे लोकं कदा नु सचराचरम् । स्वप्नमायामरीच्यभ्रगन्धर्वनगरोपमम् ॥ gosk_111 ॥
इति यासां प्रिया त्रातः स्पृहा हृदि विजृम्भते वरेण तासां को न्व् अर्थः सामिषेण चलेन च ॥ gosk_112 ॥
अपि च सुरेशान वरप्रदानचित्तक ।
मिथ्याविकल्पक्षणमात्ररम्याः स्वभाववामाः सुरनाथ कामाः । विवर्जिताः सद्भिर् उदारचित्तैर् महाप्रपाता इव सान्धकाराः ॥ gosk_113 ॥
सर्वानयोपद्रवहेतुभूताः कामाः खलीकारकरा नराणाम् । जुगुप्सिताश् चैव भयावहाश् च पुरीषदिग्धा इव कृष्णसर्पाः ॥ gosk_114 ॥
यान् सेवमाना निधनं प्रयाताः प्रयान्ति यास्यन्ति च सत्त्वकायाः । तान् वध्यघातप्रतिमान् भजेत को नाम कामान् अघहेतुभूतान् ॥ gosk_115 ॥
शक्रे च ये पांशुपिशाचके च सुरेन्द्र तुल्यं दधति स्वभावम् । असद्विकल्पप्रणयोद्भवत्वात् सेवेद् धि कामान् मनसापि कस् तान् ॥ gosk_116 ॥
वैडूर्यनीलहरितोद्गतशाद्वलानि त्यक्त्वा वनानि कुसुमोन्मिषितद्रुमाणि । तीक्ष्णाङ्कुशोल्लिखितजर्जरकुम्भदेशा भारान् वहन्ति विषयैश् छलिता गजेन्द्राः ॥ gosk_117 ॥
शूलान्तलग्नवपुषः परिवीज्यमानाः पक्षानिलैर् नगरवायसमण्डलानाम् । व्याजेन मित्रनयनैर् अभिवीक्ष्यमाणा नाशं व्रजन्ति पुरुषा विषयाहिदष्टाः ॥ gosk_118 ॥
प्रज्वाल्य कामदहनं स्वयम् एव बाला मिथ्याविकल्पपवनैः स्वमनोगृहेषु । आत्मानम् एव हि दहन्ति शरच्छतानि संघर्षजेन दहनेन यथैव वंशाः ॥ gosk_119 ॥
अपि च कुलिशपाणे वैजयन्ते विहृत्य स्फुरितमणिमरीचिश्रीसमुन्मेषरम्ये । ज्वलदनलकरालां यान्ति भूयो ऽप्य् अवीचिं यदि विषयविषक्ताः स्वस्ति तस्मै सुखाय ॥ gosk_120 ॥
भवतु कुगतिर् अन्ते स्वर्गवासस्य सा वा च्यवनपतनदुःखक्लीबलोलेक्षणस् तु । यद् अनुभवति दुःखं देवलोकाभिनन्दी ननु सुखम् अनुभूतं तेन पूर्वानुभूतम् ॥ gosk_121 ॥
विकचकनकपद्मच्छत्त्रसंसुप्तहंस्यां यदि सुरपुरवाप्यां रत्ननौभिर् विगाह्य । पतति पुनर् अकामः कर्मभिर् वैतरण्यां क्वथितनरकरङ्कव्याकुलान्तर्जलायाम् ॥ gosk_122 ॥
परिणतिविरसेभ्यः स्वप्नमायोपमेभ्यः सुरभवनसुखेभ्यः का स्पृहा शक्र तेभ्यः । कुपितभुजगजिह्वाचञ्चलं जीवलोकं सकलम् इति विदित्वा मोक्षकामाः स्थिताः स्मः ॥ gosk_123 ॥
सुखम् इदम् इति मिथ्याकल्पनामात्रम् एतद् भवगतिगहनान्तर्वर्तिनां बालिशानाम् । भवम् अवितथवादी दुःखम् इत्य् आह बुद्धः सकलम् अपि यतो ऽस्मान् सर्वदुःखप्रसूतिः ॥ gosk_124 ॥
प्रकृतिबहुलदुःखोपप्लुते जीवलोके भवति यद् अपि सौख्यं काकतालीयम् अस्मिन् । व्रजति तद् अपि नाशं दुःखजालाभिभूतं सलिलम् इव नदीनां प्राप्य सामुद्रम् अम्भः ॥ gosk_125 ॥
यस्मात् स्त्रीणां करकिसलयैः पद्मपत्त्रोपमानैः किंचित्स्थानं कलितवलयैश् चन्दनाश्लेषशीतैः । स्पृष्टः स्नेहश्लथमुकुलिताताम्रवृत्ताङ्गुलीयैर् निद्रां प्राप्य व्यजनपवनव्यस्तमालोपहारः ॥ gosk_126 ॥
भूयः शेते क्लमगुरुतनुर् दर्भसूचीकराले मार्गे भस्मव्यतिकरखरैर् वीज्यमानो मरुद्भिः । तस्मान् मत्वा क्षणसुखलवं चञ्चलं जीवलोकं त्यक्त्वा कामान् व्यसनफलदान् ब्रह्मशान्तं भजेत ॥ gosk_127 । दशशतनयनो ऽथ कन्यकानां हृषिततनूरुहकञ्चुको वचोभिः । व्यवसितम् अभिनन्द्य चैव तासां त्रिदशपुराभिमुखो ययौ क्षणेन ॥ gosk_128 ॥
प्रव्रज्याम् अथ समुपेत्य ताः कुमार्यस् तत्त्वार्थप्रविचयशुद्धबुद्धिनेत्राः । उत्तेरुर् मदविरसं चलत्तरङ्गं संसारव्यसनमहार्णवं दुरन्तम् ॥ gosk_129 ॥
सर्वार्थप्रकृतिविभागनिश्चितात्मा सर्वेभ्यो मुनिर् इतिवृत्तकं जगाद । मोहान्धे जगति समन्तचक्षुर् एकं सत्त्वेभ्यो भवभयकण्टकक्षतेभ्यः ॥ gosk_130 ॥
॥ इति श्रीसप्तकुमारिकावदानं समाप्तम् ॥
॥ कृतिर् आचार्यभदन्तगोपदत्तस्य ॥
13. सार्थवाह
जरत्तृणानीव शरीरकाण्य् अपि त्यजन्ति सन्तो न च लीनमानसाः । कृपाजलक्षालितदेहमत्सरा जगद्विपत्तिज्वलनोपशान्तये ॥ gosv_1 ॥
तद्यथानुश्रूयते ।
बोधिसत्त्वभूतः किल भगवान् संतोषाभ्यासाद् अपगतभवोपभोगविशेषाभिलाषः सुपरिज्ञातसंस्कारस्वभावत्वात् स्वदेहे ऽप्य् अस्तमितस्नेहानुबन्धस् तृष्णादोषप्रत्यक्षज्ञानतया तदभिधेयमानसो जन्मान्तराभ्यस्तविविधलाभकुशलत्वाद् उपायान्तरेणापि धनार्जनसमर्थः समुपचितपुण्यसम्भारतया चाभिप्रायमात्रेणापि द्रविणविभूत्याकर्षणप्रभुः प्रभूतवित्तोपकरणो ऽपि सन् केवलम् उदधिगतजगद्व्यसनोपरित्राणायविअ संकेतप्रचारसांयात्रिकपरिवृतो महासमुद्रम् उपजगाम ।
अथावगाढाः पयसां निधानं गम्भीरभीमायतपङ्क्तिरन्ध्रम् । वेलाचलोपघ्नविशीर्णफेनसितान्तलेखं वणिजः क्रमेण ॥ gosv_2 ॥
तत्कर्मभिर् वा परिणामरौद्रैः स्वभावतो वाम्बुनिधिः क्षणेन । पर्याददानो हृदयानि तेषां संवर्तकालाधिकदारुणो ऽभूत् ॥ gosv_3 ॥
खरमकरकराग्रच्छिन्नबालप्रवालद्रुमरसपरिभोगापाटलावर्तचक्रम् । वियद् इव नवसंध्यारञ्जिताम्भोदजालं सलिलनिधिम् उदीक्ष्य त्रासमूकास् त आसन् ॥ gosv_4 ॥
वनम् इव कुमुदानां धौतम् इन्दोर् मयूखैर् विषमितसितफेनच्छेदविन्यासचित्रम् । लवणसलिलराशिं वीक्षमाणाः समन्तान् न रतिम् उपययुस् ते प्राणसंदेहकाले ॥ gosv_5 ॥
विवृतदशनशङ्खध्वानवित्रस्तमीनो भुजगभुवनशृङ्गप्रान्तभिन्नोर्मिजालः । हृदयम् उदधिर् अल्पस्थाम तेषां बिभेद स्फुरितविकृतनक्राक्रान्तविस्तीर्णकुक्षिः ॥ gosv_6 ॥
अनिलबलविभक्तैः शैलतुङ्गैस् तरङ्गैर् नभ इव निगिरन्तं सार्कनक्षत्रचन्द्रम् । तम् उदधिम् अवलोक्य प्राणसंदेहदोलां कृपणकमनसस् ते सर्व एवाधिरूढाः ॥ gosv_7 ॥
भुजगम् इव विषाग्निच्छेदमालाकरालं श्वसनविकचभोगं क्रुद्धम् उद्वीक्षमाणाः । लवणजलनिकेतं तं दुरालोकपारं मरणभयविषण्णास् ते परं मोहम् ईयुः ॥ gosv_8 ॥
निचयम् इव घनानां वारिभारालसानां तिमिरम् इव वमन्तं वीचिचूर्णप्रवेगैः । जलनिधिम् अवगाढास् ते निराक्रन्दभीमं मुषितवदनशोभा बोधिसत्त्वं प्रणेमुः ॥ gosv_9 ॥
अदृष्टपूर्वैर् अथ तन्निमित्तैर् भयंकरैर् आकुलिता विचित्रैः । इत्य् ऊचुर् आगद्गददीनकण्ठास् तं बोधिसत्त्वं समुदीक्षमाणाः ॥ gosv_10 ॥
अयं जनस् त्वत्प्रतिबद्धसर्वप्रयोजनाशाविनिवृत्तचेष्टः । यद् अत्र कृत्यं क्रियतां तद् आशु प्राणात्ययः संप्रति वर्तते नः ॥ gosv_11 ॥
निरीक्षमाणस्य पुरो जनस् ते निरुद्यमो मज्जति तोयराशौ । कालातिपातो ऽत्र न युक्तरूपः पराक्रमस्व स्वबलेन तस्मात् ॥ gosv_12 ॥
त्वत्पादमूलानुचरो न कश् चित् संस्पृष्टपूर्वो व्यसनैः कदा चित् । त्रायस्व तस्माद् विपदां मुखेषु भ्रमन्तम् एनं नरवीर लोकम् ॥ gosv_13 ॥
पितेव पुत्रान् अनुकम्पमानस् तन् नो भयान् मृत्युकरोदरस्थान् । विमोचयास्मान् परमार्यसत्त्व त्वं नः परित्राणम् उपद्रवेभ्यः ॥ gosv_14 ॥
न देवतानाम् अपि भूमयस् तास् तव प्रभावा न चरन्ति यासु । तद् एष कालः कृपणान् अनाथान् अस्मान् परित्रातुम् अवन्ध्यशक्ते ॥ gosv_15 ॥
मन्यामहे त्वं समनुस्मृतो ऽपि त्राणं परं सर्वजगद्भयेभ्यः । प्राग् एव साक्षाद् अभिवीक्ष्यमाणस् तत् पौरुषं दर्शय लोकबन्धो ॥ gosv_16 ॥
अमी दंष्ट्राचक्रक्रकचकलिलव्यात्तवदना जिघांसन्ति क्रूराः पृथुविवरविस्तीर्णजठराः । पुरास्मान् अत्राणांस् तिमिमकरचक्रा भयमयाः परित्रायस्वेमं निकटविनिपातं जनम् अतः ॥ gosv_17 ॥
स्वपुच्छविच्छिन्नतरङ्गसंकला निशातदन्तान्तविलग्नशुक्तयः । अभिद्रवन्त्य् आर्य पुरा तिमिङ्गिला जनान् इमांस् त्वच्चरणाश्रितान् अपि ॥ gosv_18 ॥
विलम्बितुं नाथ न युज्यते ऽधुना विशीर्यते नौर् इयम् अम्बुताडिता । स्फुरन्त्य् अमी वीर समन्ततो झषाः प्रमृष्टगुञ्जाफलरक्तलोचनाः ॥ gosv_19 ॥
अथ स महात्मा तेन दुर्विषहेण परव्यसनेनोपतप्तमानसः स्वप्राणात्ययम् अविगणय्य निष्प्रतिकारदारुणां तां महाजनव्यापत्तिम् अवेत्य कृपापरिगतात्मा प्रकृतिधीरतया तदवस्थो ऽप्य् असंभ्रान्तचेतास् तत्कालातिशयध्यायिना वचसा तान् सहायान् आश्वासयन्न् अब्रवीत् ।
मृतेन सार्धं न वसन्ति सागराः प्रसिद्धिर् एषाम् इयम् एव शाश्वती । अतो ममाश्रित्य मृतं कडेवरं तरन्तु सन्तो ऽम्बुनिधिं सुदुस्तरम् ॥ gosv_20 ॥
संयुक्तसंयोगम् उपेत्य सर्वे निराकुलाः प्रोज्झ्य विषाददैन्यम् । आत्मानम् उत्तारयितुं यतध्वं महार्णवान् मां च परार्तिपङ्कात् ॥ gosv_21 ॥
आपद्गतानां सुहृदां प्रियाणां चिरानुबद्धप्रणयाशयानाम् । को ऽन्यो ऽस्त्य् उपायो रमणीयरूपस् तत् कार्ष्ट मा स्नेहमयं विषादम् ॥ gosv_22 ॥
शत्रोर् अपि व्यापदम् आपतन्तीं स्वप्राणमूल्येन निवारयेयम् । प्राग् एव युष्माकम् अनल्पकालसंवर्धितस्नेहपरिग्रहाणाम् ॥ gosv_23 ॥
ममात्मभावैर् अपवृत्तसौख्यैः स्याच् चेत् सुखी कुन्तपिपीलिको ऽपि । जरत्तृणानीव तथापि जह्याम् अहं शरीराणि निरस्तखेदः ॥ gosv_24 ॥
त्राणाशयायां समुपाश्रितानां गुणैः पवित्रीकृतमानसानाम् । हिताय देहं त्यजतो ममैकं दयापरीतं किम् इवात्र चित्रम् ॥ gosv_25 ॥
परार्थचर्याविगुणं शरीरं वृथा गुरुं भारम् इवोद्वहन्तः । व्रजन्ति खेदं परिशुद्धसत्त्वाः कृपाकलत्रीकृतजीवलोकाः ॥ gosv_26 ॥
एवंविधे यदि न कायम् इमं प्रयोक्ष्ये पुण्यागमे निरुपमानसुखानुबन्धे । को ऽर्थो ऽमुना परिहृतेन कडेवरेण वाताहताम्बुनिधिबुद्बुददुर्बलेन ॥ gosv_27 ॥
त्यक्ष्यामि नेमं यदि पूतिकायं भवद्धिताधानविधानकाले । संत्याजयिष्यत्य् अबलं बलात्मा जगद्विनाशावहितः कृतान्तः ॥ gosv_28 ॥
त्यजामि युष्मान् किम् उदीक्षमाणो यशो ऽथ वा मानगतं च धर्मम् । देहं कलीनां पदबन्धभूतं उतावशो मृत्युकराभिमृष्टम् ॥ gosv_29 ॥
तद् अत्र शोकाय मतिर् न देया भवद्भिर् आसन्नपराभवाय । मम क्रमेणैव समागतो ऽयं महोत्सवः पुण्यविशेषरम्यः ॥ gosv_30 ॥
बहुसुखलवनानातन्तुसंताननेयास् तृणम् इव गतशङ्का देहम् उज्झन्त्य् असन्तः । अतिसृजति परार्थं कायम् आसन्ननाशं यदि सुचरितपूर्वं दुष्करं किं नु तत्र ॥ gosv_31 ॥
अथ ते पुरुषास् तेन तस्याद्भुतेनाभिप्रसारितमानसाः सुतरां तद्वियोगशङ्काव्यथितहृदया विषाददैन्यविधेयाश् चिन्ताविषयातीतगोचरम् अविषह्यम् अतिविस्मयनीयं च तत्कर्म तं महासत्त्वम् अविरताश्रुधाराप्रक्षालितनयनदीनवदनाः पादयोः संपरिष्वज्य प्रणम्य च सर्वाङ्गैर् इत्य् अवदन् ।
कामम् अत्रैव निधनं सर्व एव महोदधौ । यास्यामो न तु शक्यामः कर्तुम् एतद् अनार्यकम् ॥ gosv_32 ॥
एवंविधस्य व्यसनानि दृष्ट्वा सुहृद्विशेषस्य सुदुर्लभस्य । प्राणैर् धनैर् वा किम् इहास्ति कृत्यं तत् साहसाद् वारय धीरचेतः ॥ gosv_33 ॥
उत्तीर्णान् अपि तोयौघाद् अस्मान् अस्माद् दुरुत्तरात् । मग्नान् दुश्चरितावर्ते कः समुत्तारयिष्यति ॥ gosv_34 ॥
नूनं कर्मण एवायं विपाकः प्रत्युपस्थितः । येनापद् इयम् आयाता निष्प्रतीकारदारुणा ॥ gosv_35 ॥
अध्युपेक्ष्य सुहृत्पीडाम् एतां पापानुबन्धिनीम् । दुःखान्तम् उपयास्यामः कैर् उपायैः पुनर् वयम् ॥ gosv_36 ॥
दयामृदुकसंतानं कुर्याद् अन्तावसायिनम् । इदं कर्मावदानं ते प्राग् एवार्य सुहृज्जनम् ॥ gosv_37 ॥
अथ बोधिसत्त्वः सुतरांस् तैस् तेषां सौजन्यसूचकैर् वचोभिः प्रविजृम्भमाणतीव्रप्रसादप्रेमगौरवकारुण्यस् समनुनेष्यंस् तान् सहायकान् अनुकम्पामृतवारिभिः सिञ्चन्न् इव तृप्तिविसर्गैर् इत्य् अब्रवीत् ।
भवद्भिर् अनधीष्टो ऽहं स्वभूत्यै देहसंज्ञकम् । त्यजाम्य् अनर्थं तत्र स्याद् युष्माकं किम् अनार्यकम् ॥ gosv_38 ॥
अकाले कौमुदी ह्य् एषा नैवैतद् व्यसनं मम । प्रतीकारो मया लब्धो विपदाम् एष शाश्वतः ॥ gosv_39 ॥
सौहार्दविश्रम्भनिरत्यया वो यद्य् अस्ति का चिन् मयि चित्तवृत्तिः । न कर्तुम् अर्हन्ति ततो भवन्तो धर्मस्य कीर्त्याभरणस्य विघ्नम् ॥ gosv_40 ॥
चित्तं बलाद् अपि हिते विनियोजनीयम् आर्यैर् अनार्यम् अहिताच् च विवेचनीयम् । तस्मात् प्रवृत्तिम् इह कर्मणि साधुजुष्टे नार्हन्ति विघ्नयितुम् अश्रुमुखा भवन्तः ॥ gosv_41 ॥
अनुपादानम् एवास्य परार्थं चापरिग्रहः । मां संप्रतीक्षते कायकले रन्ध्रप्रहारिणः ॥ gosv_42 ॥
उपात्तो ऽप्य् अयम् अस्माभिर् अनादेयो न नीयते । यदि सत्त्वार्थसाचिव्यं को ऽनेनार्थः प्रणाशिना ॥ gosv_43 ॥
यदि नाभ्युद्धरिष्यामि युष्मान् अस्माद् दुरुत्तरात् । कथम् उत्तारयिष्यामि लोकं संसारसागरात् ॥ gosv_44 ॥
एतानि चान्यानि च बोधिसत्त्वाः कुर्वन्ति कर्माण्य् अविपन्नसत्त्वाः । परार्थचर्याविषये चरन्तः कृपानुभूताः स्वसुखानुरागाः ॥ gosv_45 ॥
अनावृतद्वारम् इदं निकेतनं दुरावहाणां भवदुःखपत्त्रिणां । चिरात् प्रमोदायतनी करिष्यते मया शरीरं सुहृदां हितागमे ॥ gosv_46 ॥
भवत्परित्राणमये सुखोदये नियोज्य कायं नियतं मयाप्स्यते । अभेद्यम् अच्छेद्यम् अहार्यम् अव्ययं निरुत्तरं धर्मशरीरम् अव्रणम् ॥ gosv_47 ॥
अमित्रभूतं यदि मित्रसाद् इमं कलिं करिष्यामि न कायसंज्ञकम् । विधक्ष्यते विप्रतिसारवह्निना मनो विनिश्वासशिखेन मे चिरम् ॥ gosv_48 ॥
गतविक्लवा भवन्तो मदीयम् उद्गतप्राणं शरीरं प्लवम् इवालम्ब्यान्योन्यसंसक्तिकया वारिवेगवशेन येन वातेन वा दिग्भागेन स्थलम् उपगम्य पर्णमूलफलजलादिभिर् यापयन्तः परस्परम् अविपन्नसौहृदाः कर्मस्वकतावलम्बिनो लोकस्वभावम् अवेक्षमाणा विनीतविवादशोकदैन्याः कार्यावसानम् आगमयत । सुखम् अनुभूय दुःखम् अप्य् अनुभूयते । संपत्तिम् अप्य् उपास्य विपत्तिर् उपास्यते । संसारचारकावचराणां हि एतद् एव पर्याप्तं व्यसनम् अतः प्रतिकष्टतराण्य् अप्य् अत्र कृच्छ्राण्य् आसाद्यन्ते श्रुतिमनोविदाहिनी । न ह्य् एनम् अनुपतन् कश् चित् सुखी नाम । प्रबलानिलाकुलानलज्वालाकलापमध्यगतस्यानुक्तसिद्धं दाहदुःखम् । तृष्णाविधेयमनसां चाभिमुखः पराभव उत्सङ्गगतानि सर्वदैन्यान्य् आसन्नवर्ती परिभवो भयम् उपरि व्यवस्थितम् अभितो विप्रलम्भवैकृतानि । संक्षेपतः सर्वम् अशिवजालम् उपगृह्य तृष्णा नरम् उपबध्नाति । स च मद्वियोगदैन्यावकाशो न हृदि करणीयः । ईदृशो हि लोकस्वभावो वियोगदुःखानुगता एव हि प्रियजनसंयोगाः ।
दीर्घकालपरिचयाद् दृढस्नेहनिबद्धान्य् अपि सौहृदानि क्षणेन विश्लिष्यन्ति । प्राणिनां विपर्यासश् चैष चेतसः प्रियो ऽयं ममेति । दृश्यन्ते कारणान्तरविपर्ययात् परिवर्तमानानि प्रियाप्रियाणि जीवलोके । तस्मान् न परतन्त्रेष्व् अपरिनिष्पन्नस्वभावेषु प्रकृतिभेदवर्तिषु विप्रलम्भपदस्थानेषु क्षणविपरिणामलोलशीलेषु शोकायासमयेषु प्रियसमागमेष्व् अभिनिविश्यात्मा खेदयितव्यः । तत्र सुखं धैर्यम् एव परुषाणाम् आपत्स्व् अवलम्बो भवति विषादम् अवधीरयति शोकम् उपरुणद्धि विघ्नयति आपदम् आपतन्तीं प्रज्ञानसहितं च तद् एवाभिमतम् अर्थम् आनयति ।
शोकानिवृत्तिस् तु निष्प्रयोजनम् आश्रयं संतापयति कृत्यम् अन्तरयति कान्तिम् आच्छिनत्ति प्रतिभानम् आयासयत्य् आसन्नस्नेहदुःखं सुहृज्जनं .... धर्मार्थयशःसुखानि चोपहन्ति । मत्कृतम् अनुपश्यद्भिस् तु भवद्भिः पुण्येष्व् आदरः करणीयः । पुण्यम् एव हि प्राणिनाम् इहामुत्र च निरत्ययो बन्धुर् आपत्सु विषादी सहायः पाथेयम् अयत्नवाह्यं प्रदीपस् तमसि प्रपातेषु संक्रमं भयस्थानेष्व् आरक्षा मङ्गलम् अद्वैधसिद्धम् अत्यन्तिकं सिद्धं सूपचरः स्वामी परायणम् आपद्गतानाम् आयतनम् अविपरिणामिनां सुखानां क्षेत्रं दिशाविदिशान्तव्यापिनां यशसां आकरः प्रशंसानाम् अनभिभूतं वैशारद्यम् । पुण्यावष्ठम्भाद् एव च पुरुषो दुरवगाहे ऽपि सुखम् अवगाहते । परलोककान्तारे विषादपदस्थाने ऽपि नाम मरणसमये न विषीदन्ति पुण्यकर्माणः । कण्टकप्रचयकर्कशान्य् अपि जन्मदुर्गाणि प्रायेणाक्षताः संचरन्ति पुण्यबलिनः । पुण्यैर् एव चाखिलजगद्धितसुखाध्याशयप्रवृत्तिविस्तीर्णाम् आकर्षयन्ति सकलभुवनाधिपत्याभिषेकमहतीं सर्वलोकसाधारणां ताथागतीं गुणसमृद्धिं प्राग् एव प्रतनुसुखानवकाशादीनवां प्रचुरजनमनोविकारिणीम् अनन्तदुःखबाणसंनिपातदूषिताम् आयासिनीम् इह परत्र च बालिशानां प्रतिक्षणव्ययानुबन्धादूषिताम् अनेकरूपवैरकृतानुषङ्गदारुणां भवभोगमयीम् अशिवाम् अखिलां विपरीतसुखाभिनिवेशखलां संपत्तिसंज्ञान्तरितां विपत्तिम् अकारणभ्रंशमनोविदाहिनीम् इत्य् अलम् इति प्रसङ्गेनातिपतति । कार्यकालश् चरमसंदेशो ऽयं भद्रमुखा इत्य् उक्त्वा बोधिसत्त्वो मुहूर्तम् एकाग्रमनो बभूव ।
निवार्यमाणो ऽपि शतैः सुहृद्भिर् बाष्पाम्बुविस्यन्दिविलोचनान्तैः । साधुः स्वदेहाश्रयणीम् अपेक्षां तत्याज लोकव्यसनोपतप्तः ॥ gosv_49 ॥
आर्तस्वरैर् अविरतैर् अविभक्तवर्णैस् तेषां विषादपरिलुप्तमनःस्थितीनाम् । आपूर्यमाणसलिलप्रदरान्तरालः संचुक्षुभे भृशतरं लवणाम्बुराशिः ॥ gosv_50 ॥
बोधिसत्त्वो ऽपि महासत्त्व इति प्रणिधिम् उपबृम्हयाम् आस शान्तये सर्वसत्त्वानाम् ।
दिव्या तावत् प्रकृतिचपला सोपसर्गा विभूतिः प्राग् एवान्या परिमितसुखप्रत्ययप्रत्यपाया । तस्मान् नार्थो मम ⏑ ⏑ सुखैः स्वप्नमायोपमानैः पुण्याद् अस्मान् न च शमसुखं प्रार्थये प्रोज्झ्य लोकान् ॥ gosv_51 ॥
मोहावर्ते मरणमकरे मानपाषाणगर्भे तृष्णातोये मदनकलुषे क्रोधसंसर्पिसर्पे । मग्नं लोकं भवजलनिधौ शोकवातावधूते पुण्याद् अस्माद् अहम् अशरणं कृत्स्नम् उत्तारयेयम् ॥ gosv_52 ॥
एवं कृत्वा प्रणिधिम् अचलं साद्रिसारस्थिरात्मा त्यक्तापेक्षः सुचरितशतोपार्जिते ऽपि स्वदेहे । निस्त्रिंशेन प्रमुदितमनाः पाटयाम् आस कुक्षिं स्वां शोकार्तिव्यथितहृदयः प्राणिनां तारणाय ॥ gosv_53 ॥
अथ शुश्रुविरे गिरः शुभाः सुरविद्याधरयक्षरक्षसाम् । इति चित्रमनोहराश्रयाः पतितास् तस्य गुणोपसंहिताः ॥ gosv_54 ॥
सत्त्वार्थप्रतिपत्तिकौशलम् अहो ही धीरता चेतसः पुण्याभ्यासविशेषपुण्यमहताम् आश्चर्यरूपस्थितिः । साधूनां स्वसुखानुरागविगमस्वच्छा बत प्रक्रिया - - - ⏑ ⏑ - ⏑ - बत कृपा नापेक्षते स्वाश्रयम् ॥ gosv_55 ॥
लोको ऽयं विनिमीलितो ऽपि विदुषा प्रोन्मीलितः सर्वतः कीर्त्या चन्द्रमयूखधौतकुमुदच्छाया ⏑ - - ⏑ - । एतेनैव निमज्जतापि भुवनं मग्नं समभ्युद्धृतं जन्मावस्करकर्दमे स्फुरदुरुक्लेशक्रिमिव्याकुले ॥ gosv_56 ॥
तिर्यग् विक्षिप्यमानं नवजलशिशिरैर् मन्दमन्दैर् मरुद्भिर् दिव्योद्यानद्रुमेभ्यः कुसुमम् अविरतं तच्छरीरे पपात । अभ्युद्गम्याम्बुराशेः स्फुटमणिकिरणश्रीकरालैः शिरोभिर् व्याभुग्नोपान्तमध्यैः कुवलयमृदुभिस् तं भुजङ्गाः प्रणेमुः ॥ gosv_57 ॥
लक्ष्म्या समालब्धम् इव प्रकामं प्रमृष्टचामीकरचारुवर्णम् । समुद्गतप्राणम् अपि प्रसन्नं रराज तत् तस्य विभोः शरीरम् ॥ gosv_58 ॥
आलम्ब्य प्लवम् इव ते ऽथ तच्छरीरं बाष्पाम्बुव्यतिकरपाटलान्तनेत्राः । उत्तेरुर् मकरकरक्षतोर्मिचक्रं तस्यैव प्रणिधिबलाश्रयात् समुद्रम् ॥ gosv_59 ॥
तद् एवम् अतिदुष्कराणि भगवान् असौ भूतये चकार जगतां कृपापरिगतामलाध्याशयः । प्रसादयत तत्र मानसम् अतो जगद्बान्धवे समग्रभुवनोपकारकरणैकवीरे जिने ॥ gosv_60 ॥
प्रसाद्य च मनो मुनौ सुचरितैकरत्नाकरे वचो ऽवितथवादिनः श्रुतिरसायनं श्रूयताम् । तदश्रवणवञ्चितं जगद् इदं भ्रमत्य् आतुरं भवाध्वनि निराश्रये व्यसनकण्टकान्धाचिते ॥ gosv_61 ॥
इति श्रीसार्थवाहजातकं समाप्तम् ॥
14. सर्वंदद
परदुःखदुःखिताः स्वजीवितम् अपि नापेक्षन्ते साधवः ।
तद्यथानुश्रूयते ।
बोधिसत्त्वो ऽन्यतमं स्वकुलक्रमागतं महीमण्डलं समनुशशास । तस्यार्थिजनमनोहरैर् अविषमप्रवृत्तिमधुरतरैर् अनतिक्रान्तकालाभिलषितैः फलाशाकार्पण्योपशमस्वच्छशोभैर् विभवविसर्गैर् लोकान् संतर्पयतः सर्वंदद इत्य् एवं यथार्थं नाम प्रथितम् आसीत् ।
जगद्धिताधानसमुत्सुकत्वात् स राज्यभारं बिभरां बभूव । क्षितीश्वरः पूर्वकृतानवद्यपुण्यप्रभावोपनतं क्रमेण ॥ gosd_1 ॥
न तस्य किंपाकफलोपमाश् चला मनो मनोविभ्रममात्रभद्रिकाः । स्वभागधेयोपनता विभूतयो बबन्धुर् आर्यप्रकृतेर् महात्मनः ॥ gosd_2 ॥
परिश्रमस् तस्य बभूव यौतको महाकृपाधीनमतेर् महीपतेः । प्रभुत्वम् आसीज् जगतां त्व् अबाधिथं विभूतिसंभोगसुखेषु भूरिषु ॥ gosd_3 ॥
न तस्य मात्सर्यतमोऽवगुण्ठनं बभूव गात्रेष्व् अपि मानसं यदा । तदा कथैवोपरतासुखागते तृणोपमे शोकनिबन्धने धने ॥ gosd_4 ॥
तं किल महात्मानम् अन्यतमः पार्थिवो ऽतृप्तः स्वराज्यश्रिया परित्यक्तधर्मयशाः सुखसाधनोपायदारुणः स्वराज्याद् उच्चालयितुम् उपचक्रमे ।
संप्राप्य भोगान् महतो ऽप्य् अनार्याः पन्थानम् आर्याचरितं विलङ्घ्य । तृष्णापरीताः करुणात्मकेषु साधुष्व् अपि क्रोधविषं वमन्ति ॥ gosd_5 ॥
भैषज्यवृक्षा इव ये कदा चित् क्व चित् कथं चिज् जगतो हिताय । भवन्ति तान् अप्य् उपतप्तचित्ताः क्रोधाग्निना कापुरुषा दहन्ति ॥ gosd_6 ॥
कुर्वीत को नाम मनुष्य आर्यः सचेतनस् तेषु मनःप्रदोषम् । येषां यशोभिः कुमुदावदातैर् उद्भासितानीव दिगन्तराणि ॥ gosd_7 ॥
अथ धरणिरजोभिः शारिकाकण्ठधूम्रैस् तुरगखुरनिपातप्रोद्गतैश् छादयन् खम् । स नृपतिर् उपतस्थे मत्तमातङ्गसैन्यैर् उपवनतरुपूगान् आरुजन् मेघनीलान् ॥ gosd_8 ॥
उदधिर् इव युगान्ते प्लावयंल् लोकम् अन्तर्लुलितमकरपुच्छच्छिन्नचञ्चत्तरङ्गः । स नृपबलसमूहो नग्ननिस्त्रिंशपत्त्रस्फुरितरविमयूखस् तत्पुरं संरुरोध ॥ gosd_9 ॥
उपनतम् अपि पुण्यैर् विप्रलम्भावसानं धिग् अनुपशमकारि श्रीसुखं पार्थिवानाम् । पिशितम् इव विपूति क्रव्यभुग्मण्डलानां यद् इह भवति पुंसां वैरवैरस्य मूलम् ॥ gosd_10 ॥
अथ बोधिसत्त्वः प्राग् एव विदितविषयदोषवैरवैरः संरम्भविप्रलभाद्यनर्थभूयिष्ठं राज्यम् अतिमन्यमानः स्वसुखसंभोगाभिष्वङ्गदैन्यानुपक्लिष्टमानसश् चिन्तयां बभूव ।
धिग् अस्त्व् अनार्यं विषयाश्रयं सुखं समीरणोद्धूतलतान्तचञ्चलम् । उपासते यत्र निबद्धमानसा नरा दशां बन्धुजनोपतापिनीम् ॥ gosd_11 ॥
वातोद्धूततरङ्गितध्वजशिखाप्रत्याहताम्भोधरं दानप्रस्रुतिसिक्तदन्तमुसलक्रूरद्विपेन्द्राकुलम् । शक्तो ऽरातिबलं विहन्तुम् अखिलं बाहुद्वितीयो ऽप्य् अहं रक्षेद् अक्षतचारिणी यदि कृपा मातेव मां नापदि ॥ gosd_12 ॥
या वा श्रीर् अधिगम्यते परवधव्यासङ्गदग्धात्मना तां वाञ्छेद् भ्रमरोपगीतकुसुमां को वध्यमालाम् इव । यो ऽपि स्वार्हनिबन्धनप्रणयिना संप्रस्थितो वर्त्मना प्राग् एव व्यसनातुरस्य जगतो यो ऽहं हितायोद्यतः ॥ gosd_13 ॥
अपि च
राज्ये ऽपरो यदि मम प्रणयं करोति पूज्यो मया ननु विशेषत एव राजा । राज्याश्रयं खलु परार्थम् अहं बिभर्मि संक्लेशभारम् इमम् आयतदुःखहेतुम् ॥ gosd_14 ॥
अतिथिर् इव यतो ऽयं माननीयो नरेन्द्रो मदुपहितविभूतिप्रार्थनाकृष्टचेताः । उपचितकुशलत्वाच् चानुकम्पाविशेषात् सुत इव विनयार्थं को ऽत्र कोपावकाशः ॥ gosd_15 ॥
उन्मोचयत्य् एव बलाच् च यो मां राज्याभिधानाद् व्यसनप्रतानात् । यद्य् अत्र कुर्यां मनसः प्रकोपं पापो ऽपरः को ऽथ मया समः स्यात् ॥ gosd_16 ॥
राज्यस्य दोषावयवे निवेशं प्रख्यापयन् हन्ति यशःसुखानि । माम् अर्थतः शिक्षयते नरेन्द्रो राज्याभिधाने तमसि भ्रमन्तम् ॥ gosd_17 ॥
त्यक्तव्यम् एतेन च कारणेन क्षितीश्वरश्रीसुखम् आत्मकामैः । यद् अत्र सक्तस्य जनस्य वैरभयप्रसङ्गाः शिरसि स्फुरन्ति ॥ gosd_18 ॥
यो वाहम् उत्सृज्य तपोवनानि निरन्तरायाण्य् अभितः शिवानि । गृहाभिधानं भयम् आवसामि नार्हामि नाहं व्यसनान्य् अमूनि ॥ gosd_19 ॥
तत् स्वस्तिराज्यद्युतिविस्तरेभ्यो नैकव्यलीकाश्रयदारुणेभ्यः । यास्यामि शान्तानि वनान्य् अतो ऽहं विवेकजप्रीतिनिबन्धनानि ॥ gosd_20 ॥
कल्याणमित्रं यत एव राजा ममाद्य नैष्क्रम्यसुखोदयाय । कल्याणम् एवास्त्व् अनयो ऽप्य् अतो ऽस्य सबन्धुमित्रस्य शरच्छतानि ॥ gosd_21 ॥
मा गा गर्वं महिम्नः क्षितिपतिर् अहम् इत्य् उज्झ्यतां विप्रलम्भः प्रत्यासन्नोपतापाम् अनुवहसि वृथा भङ्गिनीं किं नयाज्ञाम् । राज्यं त्यक्तव्यम् एव व्यसनपरिगतं नात्यजस् त्वं किमर्थं शङ्के दौर्जन्यम् इत्थं मम नृपतिर् अयं क्षापयिष्यत्य् अयत्नः ॥ gosd_22 ॥
कदा त्यक्त्वा गेहं कुकृतशतसंबाधविरसं वने वत्स्यामीति प्रशमसुखसंभोगसुभगे । वितर्का ये भूताः सुचिरम् अनुबद्धा मम मतेः प्रसिद्धास् ते दिष्ट्या क्षितिपतिम् इमं प्राप्य न चिरात् ॥ gosd_23 ॥
इति विनिश्चित्य बोधिसत्त्वो जन्मान्तराभ्यस्तनैष्क्रम्यसुखाभ्युदयपरिचयो मृग इव वागुरावरोधनिर्गमोपलम्भोद्भूतप्रमोदः समपनीतराज्यश्रीसूचकालंकारविभ्रमकायभारलघुविविक्तविग्रहः परैर् अपरिज्ञाततपोवनगमनप्रयोजनः संरूढप्रणयविश्रम्भस्नेहबहुमाननिरत्ययं च बन्धुवर्गं स्वपुण्यबलावष्टम्भोपनतसुखोपभोग्यां च राजलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्य्तमद् विविक्तम् आश्रमपदम् अलंचकार ।
आहूयमान इव पल्लविनां द्रुमाणां शाखाकरैः स्वकुसुमाभरणाभिरामैः । शान्तं वनान्तम् उपगम्य स बोधिसत्त्वः प्राप्तो ऽमृतं नृपसुखैर् अनवाप्तपूर्वम् ॥ gosd_24 ॥
यान्य् एव शोकपरिदेवमुखानि लोके कामात्मनाम् अनुचितोपशमोत्सवानाम् । तान्य् एव नाम दधति प्रशमप्रियाणां प्रीतिं निरामिषसुखप्रणयानवद्याम् ॥ gosd_25 ॥
पुष्पाधिवासशुचिभिः स वनान्तवातैः संवीजितः प्रतिविनोद्य शरीरखेदम् । ध्यात्वा प्रमादमलिनां मनुजेन्द्रलक्ष्मीं संवेगम् एव मनसि क्षितिपः पुपोष ॥ gosd_26 ॥
कृत्वा नमः स भुवनत्रयशङ्करेभ्यः सर्वात्मना दशसु दिक्षु तथागतेभ्यः । अम्लानशाद्वलकुथापरिभोगरम्ये मूले तरोः क्षितिपतिर् निषसाद मध्ये ॥ gosd_27 ॥
स खेदितो ऽन्तःपुरसुन्दरीणां संक्लेशपक्षानुगुणैर् विलासैः । विविक्तसंभोगसुखान्य् अरण्यान्य् आलोक्य विश्रान्त इव क्षितीशः ॥ gosd_28 ॥
परिस्रवन्निर्झरवारिधाराप्रक्षालितश्यामशिलातलानि । सानूनि पश्यन् स महीधराणाम् अयत्नरम्याणि मुदं जगाम ॥ gosd_29 ॥
आलिङ्गितान् पुष्पभरालसाभिः स्नेहाद् इव प्राणसमांल् लताभिः । महीरुहान् भूरिपलाशनीलान् आलोक्य रेमे स महीमहेन्द्रः ॥ gosd_30 ॥
अकर्कशश्यामकशेरुकाणि भ्रमद्द्विरेफाहतपुष्कराणि । निरीक्षमाणः स नृपो ऽभिरेमे सरांसि पाठीनकुलाकुलानि ॥ gosd_31 ॥
विवेकजप्रीतिसुखानुकूलां निसर्गरम्यां स वनान्तभूमिम् । निरीक्षमाणः क्षितिपः प्रहर्षं जगाम संशान्तमनोविकारः ॥ gosd_32 ॥
उदीक्ष्य संसक्तशिखण्डिकेकामनोऽभिरामाणि स काननानि । अनेकसंक्लेशविषोपदग्धां नृपश्रियं भूमिपतिर् जगर्हे ॥ gosd_33 ॥
क्वासौ विपर्याससुखाभिमानप्रसङ्गजिह्मा क्षितिपाललक्ष्मीः । क्व चैव चेतोविनिबन्धनानि शान्तान्य् अरण्याश्रयिणां सुखानि ॥ gosd_34 ॥
अनर्थरागाश्रयदूषिताय नमो ऽस्तु तस्मै क्षयिणे सुखाय । विषज्य यस्मिन् मनसः प्रवृत्तिं कृपास्पदत्वं विदुषां व्रजन्ति ॥ gosd_35 ॥
अवनतशिखैर् वानीराणां द्रुमैस् तटरोहिभिः कृतपरिकरश्रीसंभोगाः प्रशान्तरयोद्धवाः । हरितपुलिनाः शष्पोद्भेदैर् झरैः सरितः शिवाः क्षितितलपतिः पश्यंल् लेभे रतिं स निरामिषाम् ॥ gosd_36 ॥
वितथविषयक्रोधाभ्यासप्रयोगमलीमसं हृदयम् असतां शान्ते ऽरण्ये रतिं कथम् एष्यति । स तु नरपतिर् गोत्रोत्कर्षप्रभावपरिग्रहाद् विषयविमुखः प्रीतिं भेजे परां विजने वने ॥ gosd_37 ॥
प्रकृतिचपला नैकापाया निरन्तरदारुणा न खलु हृदयं नो ज्ञानार्थं हरन्ति विभूतयः । अपगतमनःसंक्षोभाणां वनान्तम् उपेयुषां भवति तु सतां पूर्वाभ्यासान् मतिः प्रगुणा शुभे ॥ gosd_38 ॥
हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर् विश्वाखातैस् तरङ्गितपादपाः । मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनराजयः ॥ gosd_39 ॥
प्रशमविधुरे नित्योद्वेगप्रदे गृहचारके विषयमरुता व्याधूतानां हतोपनिषत्सुखम् । उपरतजनक्षोभायासप्रकामसुखे वने व्रजति तु मनः सद्यः शान्तिं कुकार्यसमाकुलम् ॥ gosd_40 ॥
अथान्यतमो ब्राह्मणो दारिद्र्यदुःखाभ्याहतस् तत्प्रतीकारचिकीर्षया मन्दोत्साहो ऽपि बोधिसत्त्वम् एकम् आर्तायनम् अवगम्य तद्विषयान्तम् उपगच्छन् मार्गपरिभ्रंशपर्याकुलात्मा ततस् ततः परिभ्रमन् क्षुद्दुःखोपग्लपिततनुर् अध्वक्लमविक्लवाविधेयगुरुतरचरणविग्रहस् तद् आश्रमपदम् आससाद । दृष्ट्वा चैनं बोधिसत्त्वश् चिराभ्यागतस्निग्धबान्धवस्नेहातिरिक्तवात्सल्यपेशलया पिबन्न् इव दृष्ट्या प्रत्युद्गम्याभिवाद्य च कृतप्रतिसंमोदनम् आगमनप्रयोजनं पर्यपृच्छत् । ब्राह्मणो ऽब्रवीत् ।
यः सर्वदो नाम भुवि प्रसिद्धो यथार्थनामा नरलोकपालः । कीर्त्या समाहूत इवास्मि तस्य प्राप्तस् तम् आर्तायनम् ईक्षमाणः ॥ gosd_41 ॥
त्राता स एव व्यसनातुराणां वनीपकानां स च बन्धुर् एकः । तम् एव चैकं व्यपदिश्य साधुम् अन्यत्र मौनव्रतम् एति वाणी ॥ gosd_42 ॥
तत् तस्य वचनं श्रुत्वा स कृपापेशलाशयः । आचकम्पे महासत्त्वस् तद्दुःखपवनाहतः ॥ gosd_43 ॥
अथ स महात्मा दीर्घम् उष्णं च निश्वस्य तं ब्राह्मणं प्रोवाच ।
उपायश् चिन्त्यताम् अन्यो द्विज दुःखोपशान्तये । भ्रष्टैश्वर्यः स भूपालस् तपसे वनम् आश्रितः ॥ gosd_44 ॥
अथ स ब्राह्मणः समीहितार्थप्रत्याशाप्रणयभङ्गदैन्याक्रान्तमानसः सहसा पृथिव्यां निपपात परं च संमोहम् उपजगाम ।
आशापर्यस्तधैर्याणि हृदयानि प्रसङ्गिनाम् । देहिनां मोहम् आयान्ति हेतुना येन केन चित् ॥ gosd_45 ॥
अथ बोधिसत्त्वस् तं ब्राह्मणं शीताभिर् अद्भिः परिषिञ्च्य प्रतिलब्धसंज्ञं समाश्वासयन्न् अब्रवीत् ।
अस्त्य् अन्यो ऽपि प्रतीकारो भवदाशासमृद्धये । अहं सर्वंददो राजा मा शुचस् त्वम् इह द्विज ॥ gosd_46 ॥
सर्वंददो नाम कथं कदा वा यस्य स्वदेहे ऽपि मनःप्रसङ्गः । यथार्थनामा त्व् अधुना भविष्याम्य् अहं त्वदभ्यागमनोत्सवेन ॥ gosd_47 ॥
मद्राज्यप्रणयी राजा मां समन्वेषते किल । बद्ध्वा मां देह्य् अतस् तस्मै स त्वां सम्तोषयिष्यति ॥ gosd_48 ॥
अनेकदुःखोपनिपातकातरश् चिरस्य तावद् भवदाश्रयाद् अयम् । ममोपयोगं गुणपक्षसिद्धये शरीरसंज्ञः कलिर् अद्य यास्यति ॥ gosd_49 ॥
जरारुजामृत्युखलूरिकाम् इमां तनुं समाश्रित्य स हन्त यो ऽद्य मे । मनोरथो ब्राह्मणमुख्य पूर्यतां तव प्रभावाद् अभिवाञ्छितश् चिरम् ॥ gosd_50 ॥
प्रीतिर् नृपस्य तव चार्थविशेषसिद्धिः संपत्स्यते मम च पारमिताप्रकर्षः । एकं शरीरम् अतिसृज्य विपत्परीतं पश्योत्सवातिशयम् आपतितं क्रमेण ॥ gosd_51 ॥
एवंविधे ऽतिथिजनप्रणयाभिधाने प्रीत्यागमे च मम कार्यसमृद्धिहेतौ । देहे कृतान्तमकरास्यपुटातिथौ च नैकोपसर्गविहिते विधिर् अस्ति को ऽन्यः ॥ gosd_52 ॥
कायाद् असाराद् अहम् अद्य सारं भवन्तम् आसाद्य समुज्जिहीर्षुः । मनोरथं तत् सफलं कुरुष्व त्वम् अद्य मे विप्र चिरानुबद्धम् ॥ gosd_53 ॥
एवम् अस्त्व् इति पापात्मा प्रतिशुश्राव स द्विजः । अतिक्रम्यार्यमर्यादां लोभोपहतमानसः ॥ gosd_54 ॥
कोटरान्तर्गतव्यालविषाद् अप्य् अतिदारुणैः । विषयैर् उपतप्तानां पापं किं नाम दुष्करम् ॥ gosd_55 ॥
एकः परार्थं प्रददौ स्वदेहं समाददे ऽन्यः परम् आत्महेतोः । अहो विकृष्टं चरितं नराणां गुणेषु दोषेषु च सादराणाम् ॥ gosd_56 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
