Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Gopadatta)
- Tác giả
- गोपदत्त
- Thông tin
- GRETIL — Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśvarajātakam = GoKī: edition by Michael Hahn. "Gopadatta's Kapīśvarajātaka ḥ Re-edited and translated", Bukkyḥ Bunka Kenkyūjo Kiyḥ [= Bulletin of Research Institute for Buddhist Culture, Ryukoku
तं बोधिसत्त्वं विनिबध्य गाढं पश्चाद्भुजं चौरम् इव द्विजातिः । समाचकर्ष प्रकृतिप्रगल्भो निवार्यमाणो वनदेवताभिः ॥ gosd_57 ॥
साक्षाद् अयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः । द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः ॥ gosd_58 ॥
अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः । चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा ॥ gosd_59 ॥
सुदुर्लभम् दर्शनम् अस्य सर्वथा विलोचनप्रीतिकरस्य देहिनाम् । विलेपुर् इत्य् उद्गतशोककातराः प्रगाढशोका मुनयो वनौकसः ॥ gosd_60 ॥
आदाय विप्रो ऽथ तम् आर्यसत्त्वं निःसाध्वसानाकुलधीरचेष्टम् । प्रवेशयाम् आस पुरं स यस्मिन् महीपतिस् त्ष्ठति तत्सपत्नः ॥ gosd_61 ॥
यम् अद्राक्षुर् नेत्रैः पुरयुवतयः स्नेहविकचैर् गजस्कन्धारूढं पतिम् इव सुराणां नरपतिम् । तम् एवापश्यंस् ताः परवशगतं वल्कलधरं मुखैः शोकायासस्तिमितगुरुपक्ष्मान्तनयनैः ॥ gosd_62 ॥
तं मत्तवारणगतिं कनकावदातं प्रांशुं सुमेरुम् इव लक्षणरत्नचित्रम् । चीराम्बरं वृजिनदीर्घजटाकलापं दृष्ट्वा नृपो रिपुर् अधीरतया चकम्पे ॥ gosd_63 ॥
तथाभूतं चैनम् अवेक्ष्य साध्वसाकुलितमतिश् चिन्तयाम् आस ।
को न्व् एष काञ्चनशिलातलचारुवक्षाः क्षामोदरो भुजगभोगविलम्बिबाहुः । प्रत्यादिशन्न् इव कुकार्यसमाकुलं मां प्राप्तो युवापि विनयप्रतिपत्तिधीरः ॥ gosd_64 ॥
धर्मो ऽवतीर्ण इव विग्रहवान् कुतो ऽयम् आलम्बवल्कलधरो नयनाभिरामः । बद्धश् च नाम च न दैन्यविषादवश्यस् तेजोनिधिः प्रशमम् उद्गिरतीव चायम् ॥ gosd_65 ॥
अथ स ब्राह्मणाधमस् तं राजानम् अब्रवीत् । जयतु जयतु महाराजो दिष्ट्या वर्धसे । यो ऽसौ तव प्रत्यनीको राजा केनापि प्रयोजनेनारण्यम् अनुप्रविश्य तापसनेपथ्यावच्छादितो दौरात्म्यं किम् अप्य् आरेभे । स एष मया बलात्कारं त्वत्प्रियचिकीर्षया बद्ध्वा मीन इव स्फुरन्न् आनीतस् तद् अत्र देवः प्रमाणम् इति । अथ स राजा तत् तस्य पापकर्मणः कर्मासंभावयन्न् अवोचद् एनम् । मा तावद् भोः ।
जेतुं सागरमेखलां वसुमतीं बाहुद्वितीयो ऽप्य् अयं शक्तः शक्तिमतां वरः करिकरव्यालम्बिबाहुद्रुमः । त्वं शक्तो ऽस्य पराभवं कथम् अरे कर्तुं बृहद्वक्षसः तत् त्वं ब्रूहि पराभवन्ति न मृगाः सिंहं स्फुरत्केसरम् ॥ gosd_66 ॥
स तस्मै राज्ञे यथाभूतम् आविश्चकार । धिक् त्वाम् इति च निर्भर्त्सितः कोपकलुषया दृष्ट्या तेन राज्ञा परां व्रीडाम् आपन्नः । स्वयम् एव विमुच्य बन्धनानि क्षितिपः सो ऽथ यथासुखं नृपर्षिम् उपवेश्य तम् आसने महार्हे बहुमानानतविग्रहो जगाद ।
गुणभक्तितयातिमानुषं ते नृप कर्मातिशयावदानम् एतत् । प्रथयन्ति सुरासुरप्रधाना बहुमानश्लथम् आनतैः शिरोभिः ॥ gosd_67 ॥
यदि रञ्जयितुं प्रजाः समर्थो नृप राजेत्य् अभिधानसंनिवेशः । गुणरत्ननिधे त्वम् एव राजा विगुणो रञ्जयितुं जगन् न शक्तः ॥ gosd_68 ॥
अनुशाधि यथा पुरा पुरं स्वं वयम् आज्ञाप्रवणा भवद्विधानाम् । विनयाद् व्यसनं च नः क्षमेथाः स्खलति प्रोषितलोचनः समे ऽपि ॥ gosd_69 ॥
जातप्रसादम् अथ तं नृपतिं विदित्वा पात्रीकृतं सुचरितस्य स बोधिसत्त्वः । शिष्यं विनीतम् इव गौरवभारनम्रं प्रोवाच नीलजलदस्तनयित्नुघोषः ॥ gosd_70 ॥
आयुर् नृणाम् अचिरकालविनाशि तावत् तप्तोपलोदरनिषिक्त इवाम्बुबिन्दुः । सङ्गाः प्रियैः सह सदैव वियोगतिक्ताः संपत्तयो विपरिणामविषाविषह्याः ॥ gosd_71 ॥
कामा मुहूर्तवितथाभिनिवेशरामाः किंपाकपादपफलप्रतिमोपभोगाः । नैकान्तरायविरसं सभयं सवैरं राज्यं प्रमादवधबन्धनिमित्तभूतम् ॥ gosd_72 ॥
तस्माद् विपाकमधुराणि कुरुष्व नित्यं कर्माणि सज्जनमनोविनिबन्धनानि । शोकाश्रुकातरमुखास् तु विपाककाले येषां भवन्ति पुरुषाः प्रजहीहि तानि ॥ gosd_73 ॥
नार्थो राज्यसुखैः पुनर् मम चलै रिक्तैर् अनाश्वासिकैर् वैरायासविषाददैन्यकलहद्वारैः परप्रत्ययैः । उत्कण्ठां जनयन्ति मे क्षितिधराः संसक्तधाराधराः पुष्पालम्बकदम्बपादपवनश्यामोपकण्ठाः शिवाः ॥ gosd_74 ॥
हरिणकुलविलुप्तस्निग्धशष्पोत्तरीया निपतितसितपुष्पा द्यौर् इवालक्ष्यतारा । अपहरति बलान् मे मानसं काननान्तक्षितिर् उपरतराज्यप्रार्थनाविप्रलम्भम् ॥ gosd_75 ॥
स्थिरवनगमनाशयं विदित्वा नृपतिर् असाव् अथ तं विशुद्धसत्त्वम् । अपहृतहृदयो गुणैस् तदियैर् वनगमनाभिमुखः किलावतस्थे ॥ gosd_76 ॥
अवगमितमनाश् च बोधिसत्त्वः क्षितिपतिना विनयानतेन तेन । उपरतविषयस्पृहो ऽपि चेतो वनगमनाद् विनिवर्तयां बभूव ॥ gosd_77 ॥
वन इव भवने ऽपि बोधिसत्त्वा विषयसुखव्यसनापरीतसत्त्वाः । मुनय इव वनान्तवासनिम्नाः प्रशमरसैकविहारिणो भवन्ति ॥ gosd_78 ॥
भवन इव वने ऽपि साधवस् ते जगदुदयैकनिबन्धनप्रयोगाः । स्वतनुम् अपि परार्थम् उत्सृजन्ति प्रणयिजनप्रणयं न खण्डयन्ति ॥ gosd_79 ॥
अत इह भवनं वनं च तुल्यं जगदुपजीव्यविभूतिविस्तराणाम् । अविकलभुवनोपकारपारप्रणयकृतव्यवसायमानसानाम् ॥ gosd_80 ॥
तेन दत्तं समादाय स्वराज्यं लोकसारथिः । धनं राजा स विप्राय वाञ्छितात्यधिकं ददौ ॥ gosd_81 ॥
तस्याश्चर्यम् उदारधर्मसुरतिं चाकर्ण्य विप्रोदितं त्यक्त्वा वैरविकारदुःसहतरं क्रोधाभिधानं विषम् । धृत्वा मौलिम् इवोन्नते ⏑ ⏑ ⏑ - - - ⏑ राजा स्वयं चक्रे तच्चरणाम्बुजप्रणयिनीम् उष्णीषमालां क्षणात् ॥ gosd_82 ॥
तस्मिन् गते निजपुरं विनयप्रपन्ने संप्राप्य राज्यम् अरिहीनम् उदारपुण्यः । धर्मेण कीर्तिधवलाम्बुधिफेनमालावेलादुकूलललितां पृथिवीं शशास ॥ gosd_83 ॥
चरितम् अतिगतोपमानशोभं न हि विभवो ऽस्त्य् अनुगन्तुम् ईश्वराणाम् । मम कृपणमतेस् तथापि चैतत् कृतम् अतिसाहसम् आत्मनो हिताय ॥ gosd_84 ॥
कुशलम् उपचितं कृपात्मकानां चरितम् इदं विनिबध्य यन् मयाद्य । भवतु भुवनशान्तये तद् आशु ज्वलतु तथागतशासनं ततश् च ॥ gosd_85 ॥
इति सर्वंददजातकम् ॥
श्वन् = गोश्व्
ed. michael hahn. cf. michael hahn. der grosse legendenkranz mahajjātakamālā. wiesbaden 195 (asiatische forschungen, 88). no. 8: somajātakāvadāna
16. श्वन्
(247ब्6) परदुःखकातरा देवराज्यम् अप्य् अवधीरयन्ति साधवः ॥
तद्यथानुश्रूयते
बोधिसत्त्वभूतः (248अ) किल भगवान् स्वपुण्यपरिपाकविशेषोपनतम् अमरपुराधिपत्यम् कारयाम् आस । नपरिद्यूतहृदयेन सर्वलोकातिशयिनापि महिम्ना केवलं पुण्यानाम् अवन्ध्यफलम् आविष्कुर्वन्न् अमरपुरनिवासिनां चानुग्रहाय ॥
जगद् दृष्ट्वानन्तव्यसनकुलिशापातविहतं न स स्वर्गे रेमे प्रकृतिरमणीये ऽपि भगवान् । तदा ह्य् एनं सा धीर् हृदि तुदति निःसङ्गम् अनिशं परार्थप्राग्भारा परमविधुरा स्वादुविधुरा ॥ गोश्v_1 ॥
अकृतकुशलव्यापारानां स्वभूतिनिबन्धनं कृपणमनसां - - यद् वा मनो बहु मन्यते । स्वचरितपरिप्राप्तैश्वर्यं जगद्धितकारिणा न विषयसुखेष्व् आस्थं चेतो महत्य् अपि रक्ष्यते ॥ गोश्v_2 ॥
स कदा चिज् जम्बूद्वीपम् अवलोकयन् ददर्श [!] एवं लोकम् अशक्यप्रतीकारव्याधिदुःखोपप्लुतं विषमविरसकृतवैद्यसामर्थ्यं समरणम् आवर्ज्ज(?)व्यवसायविक्लवं रोमन्थमानम् इव पिशिताशनैर् इहैव नरकदुःखान्य् अनुभवन्तं विस्मृतस्नेहबन्धुमित्रसुहृच्छौचाचारप्रयोजनम् ॥
कृतान्तकर्मान्त इव प्रवृत्तस् तदा स रोगान्तरकल्पतुल्यः । अशक्यरूपप्रतिकारभीमो महात्ययो व्याधिकृतो विकारः ॥ गोश्v_3 ॥
क्षुत्तृष्णाचेतनपरिगताः सानुबन्धं स्तनन्तो विक्षिप्ताङ्गाः क्षितितलरजोगुण्ठितोद्धस्तकेशाः । स्मारं स्मारं जलकणमुचां मल्लिकामालुतानां - - - - मधुकरगणैर् मार्ग आसन्नपाताः ॥ गोश्v_4 ॥
श्वासाध्मातबृहत्कठोरजठरव्याभिन्ननासापुटाः सृक्कान्तप्रतिबद्धशुष्कविरसश्लेष्मानना भीषणाः । रूक्षस्थूलशिराप्रतानजटिलत्वक्स्नायुशेषाश्रयाः के चित् पूर्वकृतं निनिन्दुर् अशुभं कर्माभिसंधिस्थिरम् ॥ गोश्v_5 ॥
क्वथितपिशितरन्ध्रप्रोद्वमत्पूयधारा मलिनविकृतदेहाः के चिद् अप्रेक्षणीयाः । क्रिमिकुलपरिलुप्तप्रायबाहूदरोरुश्रवणनयननासाः प्रार्थयन्ते स्म कालम् ॥ गोश्v_6 ॥
संशुष्काधरकण्ठतालुविवरास् तृष्णाग्निना दाहिना रूक्षक्षामविदारिताननपुटाः प्रेता इवायासिनः । आमत्तालिकुलोद्धतोत्पलवनच्छन्नाम्बुविष्यन्दिनां वीक्षन्तः सरसां पयांसि विविशुः के चित् कृतान्तालयम् ॥ गोश्v_7 ॥
दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्राः । अन्ये तु क्लमशिथिलाश्रया रुजानाम् आजग्मुर् निलयनतां प्रबन्धिनीनाम् ॥ गोश्v_8 ॥
के चिल् लालासलिलविसरक्लिन्नसंसक्तदीर्घ- श्मश्रुव्राताः पथिषु कृपणाः क्लान्तकायाः शयानाः । क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्यावृत्तास्या विपदम् अवशाः प्रत्यपद्यन्त तीव्राम् ॥ गोश्v_9 ॥
तस्य तद् अतिदारुणम् आलोक्य लोकव्यसनं महत् कारुण्यम् उदपादि । अथ स महासत्त्वस् तेन सत्त्वोपद्रवेण व्यथितमनाः सुतराम् अभिवर्धितानुकम्पाकम्पितः पितेवैकपुत्रव्यसनम् असहमानश् चिन्ताम् अपेदे ॥
इत्थं गतानां क इवाभ्युपायः स्याद् आमयोच्छित्तिसुखः प्रजानाम् । अपीह लोकत्रयबान्धवानां तथागतानाम् अनृणो भवेयम् ॥ गोश्v_10 ॥
अपि नाम भवेन् मम प्रतिज्ञा सकला लोकहितप्रयोगसिद्ध्यै । अपि मानुषजन्मदुःखभाजो व्यसनेभ्यः परिमोक्षम् अश्नुवीरन् ॥ गोश्v_11 ॥
अपि नाम न बोधिसत्त्वनामव्यपदेशं वितथं समुद्वहेयम् । अपि सर्वविदाम् अगर्हणीयां दधद् आज्ञाम् अनिमित्तवत्सलानाम् ॥ गोश्v_12 ॥
भवदुःखशिलीमुखक्षतानाम् अपि मतेव पितेव च प्रजानाम् । अहम् एव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः ॥ गोश्v_13 ॥
यावद् दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं कालाहेर् आस्यकोशं सकलजगदनुग्राससंभोगभीमम् । तावद् द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि ॥ गोश्v_14 ॥
व्यवसायम् इति ज्ञात्वा तस्यात्यद्भुतकर्मणः । तद्वियोगाभिशङ्कार्ता विचुक्रुशुर् अथामराः ॥ गोश्v_15 ॥
कृपालो दुःखितान् अस्मान् परित्यज्य क्व यास्यसि । विषमस्थान् इव पिता वत्सलो बालपुत्रकान् ॥ गोश्v_16 ॥
सद्धर्मसलिलोत्सेकैर् वर्धयन् पादपान् इव । अस्मान् अनागसस् त्यक्त्वा मा यासीः प्रियदर्शन ॥ गोश्v_17 ॥
विषयास्वादचपलैर् हृतान् इन्द्रियवाजिभीः । स्वामिन् मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः ॥ गोश्v_18 ॥
प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् । अथामरान् अश्रुपरिप्लुतेक्षणान् स सान्त्वयन्न् इत्य् अवदन् मरुत्पतिः ॥ गोश्v_19 ॥
न मे न युष्मास्व् अनुरागपेशलं मनो न चायं स्वहितोदयादरः । विकासिनीनां विपदां मुखे स्थितं जगत् परित्रातुम् अयं तु निश्चयः ॥ गोश्v_20 ॥
तद् अप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनताम् उपेष्यति । विसंवदन्त्य् एव समागमाः प्रियैर् निपातरम्याः परिणामदारुणाः ॥ गोश्v_21 ॥
स्थित्वापि कालम् अतुलं विविधोपभोगसंभोगविस्तरसुखैस् त्रिदशाधिवासे । कर्मक्षयाद् विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः ॥ गोश्v_22 ॥
मन्दाकिनीम् अपि विगाह्य सहाप्सरोभिर् उन्निद्रहेमकमलोच्छुरितोपकण्ठाम् । क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर् यदि च वैतरणीं भजन्ते ॥ गोश्v_23 ॥
को नाम तेषु मतिमान् स्वमनो निदध्याद् उत्क्षेपणीयकुसुमावयवोपमेषु । स्वर्गोपभोगजनितेषु सुखेषु येषाम् अन्तेष्व् अपायवडवामुखसंनिवेशः ॥ गोश्v_24 ॥
कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु । साकं प्रियाभिर् अनुभूय सुखानि भूयस् तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति ॥ गोश्v_25 ॥
संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः । यद् धीन्द्रियार्थपरिभोगसुखानि तस्माद् यत्नं सुराः कुरुत पुण्यपरिग्रहाय ॥ गोश्v_26 ॥
एधोभिर् अग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर् विषपानकल्पैः । तस्माद् उपाद्ध्वम् अनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै ॥ गोश्v_27 ॥
अनाथानां दैन्यग्लपितमनसां दुःखाशीविष- गणोपघ्रातानां परशुभिर् इवोत्कृत्तवपुषाम् । प्रशान्त्यै भूतानां वयम् अपि तिरश्चाम् अनुकृतिं करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम् ॥ गोश्v_28 ॥
अविचलप्रतिबन्धो दीर्घकालानुषङ्गी मम जगदुपकारप्रार्थनासंनिवेशः । सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं न खलु कुशलविघ्नं कर्तुम् अर्हन्ति सन्तः ॥ गोश्v_29 ॥
अतिमानुषम् अप्य् अपास्य चित्रं महिमानं कृपया विकृष्यमाणः । स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा ॥ गोश्v_30 ॥
करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् । प्रभवा इव कल्पपादपानाम् उदया लोकहिताय सज्जनानाम् ॥ गोश्v_31 ॥
विनयानतरत्नमौलिरश्मिच्छुरितास् तं न मरुद्गणप्रणामाः । मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः ॥ गोश्v_32 ॥
विरहव्यसनोपतापदीनैर् नयनैर् बाष्पतरङ्गधूसरान्तैः । दयिताः करुणं तम् ईक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः ॥ गोश्v_33 ॥
स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या । अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः ॥ गोश्v_34 ॥
स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर् गुरुः प्रजानाम् । पुरुषातिशयो गुणप्रकर्षान् नियतं दूरतरं समुत्पपात ॥ गोश्v_35 ॥
तपोभिर् यां दीर्घैर् यमनियमसंस्कारगुरुभिर् व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः । विभूतिं ताम् ऐन्द्रीं तृणम् इव परित्यज्य कृपया तिरश्चां साभाग्यं स जगदुपकारार्थम् अगमत् ॥ गोश्v_36 ॥
शुभाभ्यासाद् एव क्षपितकुकृतप्रत्ययतया तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता । यथेच्छं यत्रेच्छं परहितसमाधानविदुषस् तथा ह्य् अभूत् जन्मव्यसनशमनायैव जगताम् ॥ गोश्v_37 ॥
स्वकामकारानुविधायिनीम् श्रियम् पटान्तलग्नाम् हुतभुक्शिखाम् इव । न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः ॥ गोश्v_38 ॥
तस्योपपत्तिसमकालम् अथोच्चचार लोकं स्फुरन् ध्वनिर् इति श्रवणोपकारी । यः पाप्य् अयं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम् ॥ गोश्v_39 ॥
श्रुत्वाथ ध्वनिम् अतिमानुषं मनुष्याः सांहत्यस्वरितम् उपेत्य तं प्रदेशम् । आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणम् अभीयुर् उद्विषाणाः ॥ गोश्v_40 ॥
आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तान् अभिपततो जवेन गत्वा । हाहेति स्फुटविरसं विलेपुर् उच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः ॥ गोश्v_41 ॥
मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् । न कश् चित् प्रतिहतमानसो वसासृग्मोको ऽयं क्षणम् इति सो ऽभवद् विकारी ॥ गोश्v_42 ॥
तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर् या मनसि मनस्विनो जृम्भते । ताम् एव क्षितिधरसारधीः स मेने पर्याप्तं फलम् अतिदुष्करस्य तस्य ॥ गोश्v_43 ॥
लोकानाम् अभिलषितोपकारम्यं मत्वासाव् उपचितमांसम् आत्मभवम् । एकान्तव्यसननिपातलक्ष्यभूते संसारे ऽप्य् अभिरतिम् आबबन्ध साधुः ॥ गोश्v_44 ॥
ये ध्वस्ताः परहितसंविधानशून्यास् तद्देहाः क्षणभिदुरा भवप्रबन्धे । तान् मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुम् उपादधे महात्मा ॥ गोश्v_45 ॥
तं मत्वा विततविकारम् एव धैर्यात् ते तीक्ष्णैस् तरुम् इव चिच्छिदुः कुठारैः । निःशङ्का गलितकृपाशिवैर् मनोभिः सो ऽप्य् आसीत् तरुर् इव चापनीतमन्युः ॥ गोश्v_46 ॥
तद्रक्तव्यतिरेकपाटलाग्रहस्तास् तम् खड्गैर् अरय इवापरे विचक्रुः । सो ऽप्य् आसीद् अभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा ॥ गोश्v_47 ॥
सुस्राव क्षतजम् अथास्य खड्गधाराच् छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् । संप्राप्तघनसमये विचित्रसानोर् विन्ध्याद्रेर् जलम् इव धातुनिर्झरेभ्यः ॥ गोश्v_48 ॥
चक्षार व्रणमुखकन्दरेभ्यो यत् तस्य क्षतजम् इव क्षताशयस्य । तेनोहुर् घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः ॥ गोश्v_49 ॥
तत् तस्य प्रणिधिबलावलम्बिनीनाम् आशानां कथम् अपि पूरणात् सुचेतः । संप्राप्ते ऽप्य् अम्रपुरे शरीरभेदात् प्रामोद्यं निरतिशयोपमं बभार ॥ गोश्v_50 ॥
दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य । प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतम् इव कान्चनं सुमेरोः ॥ गोश्v_51 ॥
तस्योग्रैर् युगपद् इतस् ततश् च शस्त्रैर् निःशङ्कं शकलितकोमलाश्रयाङ्गे । विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः ॥ गोश्v_52 ॥
परिचयकृतमार्गास् तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे । क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर् न च मनसि विषादो नापि खेदो बभूव ॥ गोश्v_53 ॥
अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास् तस्य विस्तारिणीषु । तनुविवरतरेषु व्याडसंघा विचेरुर् न च मनसि विषादो न च खेदो बभूव ॥ गोश्v_54 ॥
यद् अपहृतम् अनार्यैस् तस्य मांसं शरीराद् यदि तद् अपरिशेषं पिण्डितं स्यात् कथं चित् । गिरिम् अपि स सुमेरुं लङ्घयेन् मांसराशिर् न च मनसि विषदो न च खेदो बभूव ॥ गोश्v_55 ॥
क्षयम् उपययुर् अङ्गेष्व् एव शस्त्राणि तस्य प्रकृतिमृदुषु साधोर् अक्षताध्याशयस्य । अभिरुचितपरार्थप्रीतिसंभोगशान्ते न च मनसि विषादो न च खेदो बभूव ॥ गोश्v_56 ॥
ये चास्य रक्तैर् विलिलेपुर् अङ्गा ते रेजिरे रोगविषादमुक्ताः । ये चापि रक्तानि पपुः सरोगास् ते सर्वलोकाः पुपुषुर् विरोगाः ॥ गोश्v_57 ॥
जनम् अपगतरोगं वीक्षमाणस्य हर्षो मनसि भुवनबन्धोर् लब्धगाधो बभूव । पिशितम् अनुपयोगं वीक्षमाणस्य भूयो ऽप्य् अभवद् अरतिदोलं चञ्चलं तस्य चेतः ॥ गोश्v_58 ॥
उत्कृत्तचर्मपटलस्फुटताम्रमांसो रन्ध्रोद्वमद्रुधिरशेषविशेषताम्रः । कायः स तस्य विकृतः कृतनिश्चयस्य रेजे जवाकुसुमराशिर् इवाभ्रचुम्बी ॥ गोश्v_59 ॥
विच्छिद्यमानः सुनिशातशस्त्रैस् तद् दुःखम् एकाश्रयम् ईक्षमाणः । सुखेन दुःखं स निराचकार लब्ध्वा परत्रात्मनि चैकमत्यम् ॥ गोश्v_60 ॥
परिणामखरा बताधमाया गतिर् आत्माभिनिवेशवासनायाः । उपदिग्धधियो यया मनुष्याः पितृभूतेष्व् अपि साधुषु स्खलन्ति ॥ गोश्v_61 ॥
एतस्य मांसं बुभुजे कृपालोर् यो यः स स व्याधिम् अपाचकार । क्रमेण कृच्छ्रं जगद् उत्ततार विपत्समुद्रं तद् अनेन कृत्स्नम् ॥ गोश्v_62 ॥
अथ सर्व एव लोको विगतनिखिलरोगोपसर्गस् तस्मिन् महासत्त्वे समुपजातप्रेमगौरवबहुमानः प्रणम्य श्वानं बोधिसत्त्वम् अब्रवीत् ॥
अहो कृपाभ्यासविशेषभद्रता गुणेष्व् अहो भक्तिर् अपेतकल्मषा । अहो परार्थप्रतिपत्तिपेशलं तवार्य कर्मेदम् अतीतमानुषम् ॥ गोश्v_63 ॥
अहो जगच्छ्रेष्ठमहादयार्द्रता अहो स्वसौख्यव्यवसायनिःस्पृहा । शुभेष्व् अहो निश्चयनिश्चलं मनो मनस्विनां बोधिपथानुपातिनाम् ॥ गोश्v_64 ॥
अहो बताचिन्त्यम् उपायकौशलम् अहो परार्थे ऽभिरतेर् उदात्तता । अचिन्त्यचर्यातिशयाय साधवे नमो ऽस्तु तुभ्यं जगदेकबन्धवे ॥ गोश्v_65 ॥
त्वं नः पिता यदि पिता त्वम् इवार्थकामः शास्ता त्वम् एव यदि धर्मगुरुस् त्वम् एव । त्वम् दैवतं यदि न तज् जनवादमात्रम् आर्तायनं तु जगतः परमं त्वम् एव ॥ गोश्v_66 ॥
तस्माद् आज्ञाभिषेकेण पवित्रयितुम् अर्हसि । उपदिग्धम् इमं लोकं युष्मदायासचेतसा ॥ गोश्v_67 ॥
अथ बोधिसत्त्वः समुपजातप्रसादमानसम् अवगम्य तम् एनम् अब्रवीत् ॥
पीडा ममेयम् इति नैवम् इदं प्रधार्यं सत्त्वार्थम् एव गतिचक्रचलस्य नित्यम् । पीडा ममाभवद् उदीक्ष्य विपत्परीतान् युष्मान् निरामयसुखं त्व् अधुना मनो मे ॥ गोश्v_68 ॥
कृत्यं न मे परहिताद् अपरं गरीयः संसारचारकनिबन्धनम् एतद् एव । तस्मात् कुकार्यमलिनाम् अतिलङ्घ्य चर्यां मत्प्रीतये सततम् आत्महितं कुरुध्वम् ॥ गोश्v_69 ॥
लोकान् इमान् स्वकृतकर्मभुजो विदित्वा मृत्योर् अपर्वपरुषस्य करोदरस्थान् । पापान्य् असह्यपरितापफलोदयानि प्राणात्यये ऽपि परिवर्जयितुं यतध्वम् ॥ गोश्v_70 ॥
स्वन्तान्य् अनाशरमणीयफलप्रदानि जन्माटवीगहनपथ्यदनोपमानि । पुण्यानि संचिनुत मत्प्रतिकारबुद्ध्या कल्याणमित्रवचनं हि न लङ्घनीयम् ॥ गोश्v_71 ॥
इति समनुशिष्य प्राणिनस् तान् महात्मा निशितपरशुधाराजर्जरक्लान्तदेहः । अवसितकरणीयः पर्युदस्यात्मभावं तम् अतिविकृतरूपं स्वर्गम् एवारुरोह ॥ गोश्v_72 ॥
इति जगदुपजीव्या उत्तमश्रीसमुद्रा विपदशनिनिपातव्याहता व्युष्टियोगात् । विगतजलदपङ्कव्योमपर्यन्तदीर्घाः शशिन इव मयूखा लोकम् उत्तारयन्ति ॥ गोश्v_73 ॥
॥ इति श्रीजातकमालायां श्वजातकं त्रिचत्वारिंशत्तमं समाप्तम् ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
