Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35
- Tác giả
- हरिभट्ट
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
हरिभट्ट: जातकमाला, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35
हरिभट्ट: जातकमाला
1. प्रभासजातक
विविधक्लेशभुजङ्गाज् जगद् उद्धर्तुं भवौघपातालात् / बुद्धत्वाय विशालो न भवत्य् अमहात्मनां प्रणिधिः // HJm_1.1*
तद्यथानुश्रूयते ऽतीते ऽध्वनिसदाकुसुमितोपवनरमणीयपर्यन्तापर्यन्तजनसमूहसंबाधवीथीचत्वरापणमणिकनकस्तम्भपङ्क्तिमनोहरभवनान्तराला शरदधिकविमलतारापतितारकागणाभ्यलंकृता द्यौर् इव प्रभावती प्रभावती नाम राजधानी बभूव । तस्यां च सकलवसुधावधूहारयष्टिभूतायां मणिर् इवामलप्रभासः प्रभासो नाम राजा बभूव ।
यस्यामलस्फटिकभित्तिषु मन्दिरान्तः कर्णावतंसतिलकप्रविलोकिनीनाम् / हस्ताः प्रसाधनविधौ मृदवो ऽङ्गनानां नादर्शधारणपरिश्रमदुःखम् ऊहुः // HJm_1.2
विश्राणनाम्बुपरिवर्धितपुण्यबीजं यं बान्धवा ददृशुर् अम्बुधरायमाणम् / यस्यासहन्त बलिनो ऽप्य् अरयो न कोपम् अह्नाय वैद्युतम् इव ज्वलनं पतन्तम् // HJm_1.3
तस्यैवंविधविभूतिपराक्रमोदयस्य कदाचिद् उदयभूधरशिखरम् इव सवितुर् अमलमणिसहस्रविच्छुरितोभयपार्श्वं सिंहासनम् अधितस्थुषः क्षितिपतेर् यथास्थापनम् उपविष्टब्राह्मणराजसामन्तामात्यदूतवर्गां दौवारिकनिषिध्यमानपरिशङ्कितेतरजनां बहिर्निबद्धहस्त्यश्वरथवराम् आस्थानीम् आलोकयतः समुत्पत्यानुज्ञातप्रवेशैर् वनचरकैर् अवनितलविनिहितजानुभिः प्रकृतिलघुमानसत्वाद् आगतसाध्वसगद्गदस्खलितवचनैर् निवेदितम् ।
अस्माभिर् अद्रिगहने करिणां समूहे दृष्टः करी कुमुदराशिर् इवावदातः मूले नवाम्बुधरवृन्दतिरस्कृतस्य प्रालेयशैलशिखरस्य सरूपमूर्तिः // HJm_1.4
इदानीं तु ग्रहणे देवः प्रमाणम् इत्य् अथ स राजा संप्राप्तायां शरदि करिग्रहणाभिवृद्धकुतूहलो हलयोत्रोन्मूल्यमानमुस्तदर्भमूलसंभूततटतटाशब्दां क्वचित् क्षेत्रगोपिकाहस्ततालध्वनिविमिश्रच्छोट्कारशब्दसंत्राससमुत्पतितशुकपक्षाक्षेपविचलितपरिणतकपिशकलमशुङ्कजालां भक्तहारीपरिवेष्यमाणकृषीवलान्तिकनिलीनचकितवायसां कलुषपल्वलजलावस्थितरोमन्थायमानमहिषीयूथसवदनावघूर्णनविनिवारितदंशपातां श्रूयमाणप्रविचरितगोगणचलितकिङ्किणीविक्वणां केदारतामरसनालस्खलितशरारिकादम्बचक्रवाकमिथुनां नगरग्रामसंबद्धां क्षेत्रभुवम् अतिक्रम्य सैन्यसंत्रासविभिद्यमानहरिणकुलाकुलम् अश्वक्षुरच्छिद्यमानशष्पाङ्कुरं रथवराधिरोही सितातपत्रविनिवारितदिवसकरकिरणसंतापस् तद् अचलवनान्तरं प्रविवेश ॥
अथ गजपतिम् आरात् तं स्थितं यूथमध्ये सुरभिविशदगन्धां शल्लकीं खण्डयन्तम् / अवनिपतिर् अपश्यद् दानलेखोपकण्ठभ्रमदलिकुलम् ईषत् कर्णतालैः क्षिपन्तम् // HJm_1.5*
पश्यामस् तावद् अस्य गजपतेर् अस्य चास्मन्मत्तहस्तिनो युद्धम् इति विचिन्त्य प्रभासः संयातं नाम हस्त्यारोहम् उवाच । प्रोत्क्षिप्तमुख पटम् इमं कृत्वा कुञ्जरवरं संचोदयैतेन वनदन्तिना सह युद्धायेति । यद् देव आज्ञापयतीति हस्तास्फालनजनितयुद्धोत्साहं तदभिमुखं तम् आधोरणः परसैन्यनिवारणं वारणम् अकरोत् । अथ परस्परालोकनक्रोधाद् अधिकतरसमभिवृद्धमदकणपङ्क्तिसंसिक्तसुरभीकृतभूरजसोः परिघगुरुविषाणसंघट्टध्वनिभीषणम् अयं भग्नो ऽयं भग्न इति सेनाजनेनावलोक्यमानयोश् चिरम् अभवद् युद्धम् ॥
अन्योन्यप्रतिघातभिन्नमुखयोर् उद्वृत्तपिङ्गाक्षयोर् आक्षेपेण विकल्पितश्रवणयोः श्वेतासिताभ्रत्विषोः / क्रोधाद् उत्क्षिपतोः करौ द्विरदयोः स्थूलौ चलत्पुष्करौ किं चित् पल्लवपाटले गतवती व्यक्तिं तयोस् तालुनी // HJm_1.6
श्वेतद्विपाधिपविषाणविघट्टनेन संभूतवह्निकणिकाशबलीकृतानि तस्याथ राजकरिणो रदनाश्रयाणि जातानि लोहवलयानि परिश्लथानि // HJm_1.7
भग्ने च क्षितिपगजे गजेन तेन व्रीडावान् अभवद् अधोमुखः स यन्ता तद्यूथं पुनर् अधिगम्य कुञ्जरेन्द्रो गम्भीरो ऽप्य् अवनिपतिः सविस्मयो ऽभूत् // HJm_1.8
ततः प्रभासं महामात्राः समुपगम्योचुः । देव दुःसाध्यो ऽयम् एभिः समस्तैर् अपि करिभिर् मन्त्रपरिजप्तैर् ओषधिबलैर् अयम् अनेकपो वशीकर्तव्य इति । तथेति च स राजाभिधाय पुनस् तां राजधानीम् आजगाम । ते ऽपि तेनोपायेन तं गन्धहस्तिनं करिणीभिः परिवृतम् आनीय हस्तिशालां प्रवेश्यालाने निबध्य राज्ञो निवेदयाम् आसुर् आनीतः स गज इति । ततो राजा संयातं हस्तिदमकम् उवाच । भद्र तथायम् इभराजो दमयितव्यो यथा मद्वाहनयोग्यो भवतीति । स च सशिरःप्रणामं गृहीतराजाववादस् तं दन्तिनं दमयाम् आस ॥
स हस्तिदमको यां यां शिक्षां समुपदिष्टवान् स्वशिष्य इव मेधावी तां तां जग्राह कुञ्जरः // HJm_1.9
ततः समानीय महामतङ्गजं मतङ्गजानां मददर्पहारिणम् विनम्रमूर्धा विनयात् कृताञ्जलिः क्षितीशम् आधोरण ऊचिवान् इदम् // HJm_1.10
अयं स दान्तः क्षितिपाल वारणः प्रकामम् अन्यक्षितिपालवारणः गजेन्द्रशिक्षां समुपेत्य सांप्रतं मदो ऽपि नैनं गमयत्य् असांप्रतम् // HJm_1.11
विनाङ्कुशेनापि विनापि वेणुना न विक्रियां याति विनापि सादिना मया गृहाणेति पुनः प्रचोदितो गजो ऽयम् अद्याज् ज्वलितान् अयोगुडान् // HJm_1.12
ततः समारुह्य पराभवन्मदं गजेन्द्रम् एनं तुहिनाचलोपमं ननु स्वयं रत्नपरीक्षणक्षमः परीक्षतां जातकुतूहलो भवान् // HJm_1.13
अथ प्रभासस् तं कुञ्जरवरं शरत्कालधवलम् इव दिवाकरो बलाहकम् अधिरुह्य सान्तःपुरपरिवारः प्रमदवनक्रीडाम् अनुभवितुं प्रातिष्ठत ॥
अथ सरसि सलीलं तोयम् अङ्गे क्षिपन्तीं विशदनिगडभङ्गं खण्डयन्तीं मृणालम् स मृदुगतिर् अपश्यद् दन्तिनीं दन्तिराजः स्फुटितं अभिमृशन्तीं पुष्करं पुष्करेण // HJm_1.14
कमलगहनमध्ये तां स दृष्ट्वा करेणुं गजपतिर् अभिजघ्ने रागशल्येन चित्ते / स्खलितपरुषवाचा वार्यमाणो ऽपि यन्त्रा त्वरिततरम् अधावत् सापि भीता प्रतस्थे // HJm_1.15
करिणम् अनुपतन्तं प्रस्थितां तां करेणुं विदधतम् इव लेखां पाण्डरां विग्रहेण / त्वरितम् अनुपतन्तः सप्तिभिर् वायुनुन्नं वहनम् इव तटस्थाः किं चिद् ऐक्ष्यन्त भृत्याः // HJm_1.16
न कदा चिद् अहं त्वया निरस्ता किम् इदं निष्करुणत्वम् ईदृशं ते / इति षट्चरणावली मुहूर्तं रुदतीवानुजगाम तस्य मार्गम् // HJm_1.17*
गजम् अङ्कुशपातभिन्नकुम्भं स नियन्ता न शशाक तं निरोद्धुम् पुरुषो ऽपि न शक्यते नियन्तुं किम् उ तिर्यग् मदनान्धमन्दबुद्धिः // HJm_1.18
क्षिप्रम् एव च गवलमलिनदावाग्निधूमधूसरगिरिगह्वरान्तम् अतिविषमभूभागम् इभकुलोन्मूलिततरुशिखरपर्यस्तशकुनिकुलायपतितभग्नाण्डकपालशबलितैकदेशं व्याघ्रोपयुक्तोज्झितमृगकडेवरपिशितविघसावलीनगृध्रवायसजंबुकम् अतिपरुषचीरीविरावभीषणम् अरुणसारथिकिरणसंतापितभूधरशिखरोपलजालम् असत्सङ्गतम् इवानभिरामं सा हस्तिनी भीता यत् प्रविवेश सो ऽपि च रागवशात् कण्टकिवंशतरुशाखास्खलनाभिघातक्षतोरुजङ्घभुजवक्षःस्थलप्रसृतशोणितम् अवनिपतिम् उद्वहन्न् अगणयंस् तान् अङ्कुशप्रहारांस् तद् एवारण्यं प्रपेदे ॥
पक्वोदुम्बररागपाटलमुखच्छायैः क्षणं निश्चलैर् घण्टाशब्दकुतूहलात् तरुगतैः शाखामृगैर् वीक्षितः / मातङ्गः पतिताङ्कुशः कुशचयश्यामां विहाय स्थलीम् उद्ग्रीवैश् च गृहीतशष्पकवलैर् दृष्टो मुहूर्तं मृगैः // HJm_1.19
ततः स हस्तिदमकः तं राजानम् उवाच । देव गजपतिर् अयम् इदानीम् अनङ्कुशतया दुर्जन इव लज्जाविरहात् सुतराम् अविधेयः । यदि कथं चिद् अयं दुष्टहस्ती कस्य चित् तरोर् अधस्ताद् यायात् तत् तस्य शाखाम् अवलम्ब्य देवेनात्मा स्थिरयितव्य इति । स राजा पतितकिरीटकेयूरहारांशुकः शुकास्वादितसिन्दूरानुरञ्जितप्रमदाधरानुरूपफलाम् अनिष्फलजीविताशः कथम् अपि न्यग्रोधशाखिनः शाखां चिरविरहपर्युत्सुकाम् इव दयितां घनम् आश्लिक्षत । अवतस्थे च तरुवरस्य स्कन्धे ॥
यातस्य द्विरदपतेर् अनोकहानां शाखाग्रैर् विलुलितकर्णचामरस्य दूरत्वान् नयनपथातिगस्य तारं तं घण्टाध्वनिम् अशृणोन् न भूमिपालः // HJm_1.20
अथ तस्य नृपतेः शुद्धान्तसीमन्तिन्यो बाष्पपरिप्लुतेक्षणाः प्रविश्य भवनं भुवनपतिशोकवशाद् अवनितलगताः पुनः पुनर् इति परिदेवनां कर्तुम् आरेभिरे ।
पतितः क्व चित् क्षितिरजःपरुषे गिरिगह्वरे पृथुशिलाविषमे स निरायुधो ऽद्य वसुधाधिपतिः कथम् आगमिष्यति वनात् सभयात् // HJm_1.21
विनिपातभग्नशिथिलांसभुजः स तृषाथवा प्रबलया ग्लपितः कुशसूचिभिन्नमृदुपादतलः कथम् अद्य पास्यति पिपासुर् अपः // HJm_1.22
अवितर्कितां स गमितः करिणा कथम् आपदं परिवृतो ऽपि जनैः अथवा सुखासुखफलस्य विधेर् अतिवर्तते क इव नाम पथः // HJm_1.23
यदि तस्य किं चिद् अशिवं नृपतेर् वयम् अप्य् अभीष्टमरणा नियतम् हतयूथपं न खलु केसरिणा करिणीकुलं गिरिवने रमते // HJm_1.24
आधोरणः समुपगम्य स नाम दिष्ट्या स प्राणितीति कथयेद् वसुधातलेन्द्रः भूयो ऽपि तं स्मितमनोहरवक्त्रचन्द्रं पश्येम नाम नृपतिं श्रियम् उद्वहन्तम् // HJm_1.25
इति तान्य् अवरोधनानि विलापपराणि नयनजलक्षलितपत्रलेखानि समाश्वास्यामात्यजनः सपरिजनः कर्णीरथान् अधिरुह्य क्रमेण गत्वा तां तस्य गजपतेश् चरणविन्यासपरिमृदितलोष्टदर्भां मदलवनिपाताधिवासिततृणाङ्कुरपर्यन्तां परिभ्रमन्मधुकरगणां पदवीम् अनुससार ॥
लुलितविलूनसूत्रनिचयच्युतगुरुतरलं परिमलपाण्डुमौक्तिकगुणस्थगितमृदुतृणम् उपगिरि हारम् ऐक्षत ततः स नरपतिजनः स्थितचकितातिशुक्लभुजगद्युतिमुषम् अभितः // HJm_1.26
हारदर्शनाच् च नियतम् आसन्नो देव इति मन्यमानास् ते ऽमात्याः स्तोकम् अन्तरं गत्वा तस्य न्यग्रोधस्याधस्तात् तं राजानं पिपासाक्षामपरिपाण्डुशरीरम् आलुलितमौलिम् अतितीक्ष्णकण्टकतरुविटपाभिपातजनितवेदनम् अपश्यन् । अवतीर्य च कर्णीरथेभ्यस् तुरगेभ्यश् च प्रमुदितमनसो बिसविवरविनिःसृतम् इव सचीपतिं दिवौकसः सादरम् उपासां चक्रिरे । स च नरपतिर् अशेषं तम् एव वृत्तान्तं तेभ्यो ऽकथयत् । अथ ते ऽमात्याः प्रीतास् तं दशरथतनयम् इव रथवरम् आरोप्य तस्माद् अरण्यप्रदेशात् पुनस् तन्नगरं अनिन्युः । आगते च तस्मिन्न् अवनिभुजि प्रभावतीं राजधानीं प्रतीतहृदयाः पौरास् तोरणावबध्यमानसुरभिविविधकुसुममालानिलीयमानद्विरेफाम् उत्क्षिप्तध्वजपताकां गन्धोदकाधिवासितरथ्यान्तरां प्रवृत्तचित्रनृत्तोत्सवाम् अकुर्वन् । सो ऽपि च हस्ती तस्यां वासितायां कृतमदनकुतूहलः समदहलधरलीलाम् इवाभ्यस्यन् पुनस् तेन हस्तिपकेन भयलज्जाविमूढमनसा तस्य राज्ञः सकाशम् अनिन्ये ॥
दृष्ट्वा ततस् तस्य नराधिपस्य त्रासान् नियन्तारम् उदीर्णकम्पम् कोपाद् अभूतां नयने क्षणेन विकोशरक्तोत्पलरक्तरागे // HJm_1.27
क्रोधराहुकलुषीकृतवदनेन्दुश् चावोचद् राजा । अरे दुरात्मन् हस्तिपकाधम किं भवान् उपक्षिप्तः केन चिद् यद् एनम् अदान्तं दुष्टहस्तिनं माम् आरोपितवान् असि । ननु प्रोक्तवांश् च भवान् यथायं कुञ्जरवरो ममाज्ञया ज्वलितान् अप्य् अयोगुडान् अश्नीयाद् इति पश्याम इदानीं ते सत्यम् ॥
अथाभिनवघर्मांशुसंनिभाद् दन्तिनः पुरः आकृष्य हुतभुङ्मध्यान् न्यवेशयद् अयोगुडान् // HJm_1.28
बभाषे च महामात्रं मन्त्रिभिश् चकितैर् वृतः अवतीर्य गजं दीप्तान् आदयैनान् अयोगुडान् // HJm_1.29
स तथेति प्रतिश्रुत्य गृहीत्वा वेणुम् अग्रतः गृहाणेत्य् अवदन् नागं न चासौ वामतां ययौ // HJm_1.30
तम् अयोगुडम् आदित्सुम् आलोक्य च मतङ्गजम् संयातम् अब्रवीद् राजा वार्यताम् इति कुञ्जरः // HJm_1.31
तेन हस्तिदमकेन कुञ्जरे वारिते ऽथ पुनर् ऊचिवान् नृपः देहमात्रकविनिग्रहे क्षमो न त्व् अयं चपलचित्तनिग्रहे // HJm_1.32
अथ शुद्धावासो देवो विहायसि स्थित्वा यद्य् अयम् अवनिपतिर् बुद्धानां भगवतां गुणपरंपरां शृणुयात् ततो निःसंशयेन बुद्धत्वाय प्रणिधानं कुर्याद् इति । तद् इदम् अत्र प्राप्तकालम् इमम् एव महामात्रम् अनुप्रविशामीति विचिन्त्य क्षणाद् एव तच्छरीरम् अनुप्रविवेश । ततः संयातस् तं राजानम् उवाच
कृशीकृताङ्गास् तपसा फलाशिनः स्मरेण नीता मुनयो ऽपि विक्रियाम् मनोदमस् तैर् अपि चेन् न शक्यते प्रकर्तुम् अन्येन कथं करिष्यते // HJm_1.33
राजोवाच कः खलु चित्तदमने शक्तः स्यात् ।
संयात उवाच
बुद्धा नाम जगन्नाथा भूता भाविन एव च ते हि स्वपरचेतांसि शक्ता दमयितुं ननु // HJm_1.34
तस्य बुद्ध इति श्रुत्वा वाक्यं तस्मान् निषादिनः बहुत्वम् इव संप्राप्तः प्रसादः पुलकोद्गमैः // HJm_1.35
राजोवाच । भद्र ननु कथ्यतां तावत् किंप्रभावा बुद्धा इति ।
संयात उवाच ।
अविद्यातिमिरान्धानां पुनर्भवनिवृत्तये यत् तद्बोध्यं पदं शान्तं तद् बुद्धं तैस् तथागतैः // HJm_1.36
ततः स राजा प्रमुदितमनाः पुनर् उवाच । नन्व् आख्यायतां तावत् कथं बुद्धत्वम् अधिगम्यत इति । संयात उवाच ।
दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितैः घटमानैः प्रयत्नेन बुद्धत्वं प्राप्यते नृभिः // HJm_1.37
अथ स राजा बुद्धत्वाधिगममार्गम् उपलभ्य प्रणिधिम् इति चकार ॥
ततो ऽहम् आशु भूयासं भूयोभिः सत्त्वशान्तये गुणैर् दानादिभिर् युक्तो बुद्धो बोद्धव्यकोविदः // HJm_1.38
प्रणिधिम् इति महान्तं बोधिसत्त्वे विशुद्धे कृतवति कृतबुद्धौ बुद्धिमन्तो ननन्दुः / स्वबलविलयचिन्तावागुरामध्यवर्ती मृग इव शरविद्धो विव्यथे पुष्पकेतुः // HJm_1.39
मनःक्षेत्रे रूढं प्रणिधितरुम् आनन्दितजनं समुद्भूतप्रायप्रथमकरुणापुष्पसमयम् / क्रमेणाच्छिन्नेच्छाविभवमहता दानपयसा फलार्थी भूपालः प्रतिदिनम् असिञ्चत् तरुम् इव // HJm_1.40
अलंकुर्वाणस्य क्षितिपचरितं व्योमविपुलं बिभित्सोर् दुर्भेदं पिहितजगदज्ञानतिमिरम् / वितेने राजेन्दोः प्रणिधिशरदारम्भविमला भृशं दानज्योत्स्ना प्रणयिकुमुदानन्दजननी // HJm_1.41
भृत्यान् भृशं च कलभान् इव पालयन्तं लक्ष्मीं चिराय करिणीम् इव रञ्जयन्तम् दानार्थिनः प्रणयिनः परिवव्रुर् एत्य तं नृपतिं मधुकरा इव वारणेन्द्रम् // HJm_1.42
दुरासदो वह्निर् इवाभवत् पुरा य एव संरम्भविजिह्मितेक्षणः स एव बोधौ विनिबद्धनिश्चयो जनस्य जज्ञे ह्रदवन् नराधिपः // HJm_1.43
अपेतमात्सर्यतमः शरीरिणां क्रमात् स्वभावान्तरम् एति मानसम् य एव धूमो नयनप्रबाधनः स एव मेघत्वम् उपैति संचितः // HJm_1.44
अतिदानपरायणस्य राज्ञः प्रददौ भृत्यजनो ऽपि तस्य दानम् ऋतुर् एव स तादृशो हि कश् चित् तरवो भूरिफला भवन्ति यत्र // HJm_1.45
अवलोक्य नृपं गुणानुरक्तं प्रकृतीनाम् अपि जायते गुणेच्छा शशिनः प्रभयानुविध्यमानो विमलं वारि ददाति चन्द्रकान्तः // HJm_1.46
सगुणेन जनेन युज्यमानः सुमनाः को न भवेद् गुणानुरागी मुनिगोचरम् एत्य मन्दबुद्धिस् त्यजति व्यालमृगो ऽपि रौद्रभावम् // HJm_1.47
इति बुद्धगुणानुरूपवर्णां गिरम् आकर्ण्य मनोहरां नियन्तुः अभवद् भवबन्धभङ्गहेतुः प्रणिधिः प्राक्तन एष शाक्यसूनोः // HJm_1.48
तद् एवं श्रुतसुगतगुणमाहात्म्याः पुरुषविशेषाः शरीरिणां संसारदुःखोच्छित्तये बुद्धत्वाधिगमाय वीर्यसंनाहम् आबद्धवन्त इति विचिन्त्य सम्यक्संबोधिलाभाय घटमानेन धीमता प्रथमम् एव दानपारमितायां यत्नः करणीय इति ॥
प्रभासजातकं समाप्तम् ॥
2. बदरद्वीप
यः परदुःखैर् दुःखी तद्विच्छित्त्यै कृतप्रतिज्ञश् च / जगदर्थम् ईहमानः स एव सहते स्वदुःखानि // HJm_2.1*
तद्यथानुश्रूयते विबुधगणाश्रमभूतायां नयप्रतापविजितसर्वसामन्तेन ब्रह्मदत्तेन राज्ञाधिष्ठितायां वाराणस्यां राजधान्याम् उपचितविविधपुण्यसंभारो ऽनेकशास्त्रकलाकौशलप्रख्यातकीर्तिस् त्यागदाक्षिण्यक्षमादीनाम् अधिष्ठानं गुणानां सुहृत्प्रणयिबन्धुजनप्रियः सुप्रियो नाम बोधिसत्त्वः सार्थवाहो बभूव ।
दातव्यम् इति सर्वेभ्यः सर्वदा सर्वम् एव च प्रतिज्ञेयम् अभूत् तस्य सर्वसत्त्वानुकम्पिनः // HJm_2.2
लोकव्यसनम् उच्छेत्तुम् अत्यन्तं कृतचेतसाम् प्रतिज्ञा सत्त्वमहती महताम् एव जायते // HJm_2.3
प्रह्लादितजनस् त्यागस् तस्य चेतसि पप्रथे इन्दोर् इव शरत्काले ध्वान्तभेदी महोदयः // HJm_2.4
अस्मदर्थम् अयं धत्ते भोगान् पुण्यबलार्जितान् इत्य् अर्थेष्व् अर्थिनस् तस्य ममताम् आललम्बिरे // HJm_2.5
अस्याम् अनेन सुधिया प्रणिधानबीजम् उप्तं मनोभुवि जिनत्वफलाय नूनम् प्राग् दानपारमितयेति स पुण्यकर्मा सोत्कण्ठयेव सहसा घनम् आलिलिङ्गे // HJm_2.6
इत्य् उपचितकुशलमूलस्य महाप्रदानप्रवृत्तस्य सत्त्वार्थं प्रति करुणाप्रतोदसंचोदितमनस्तुरङ्गस्य व्यवसायरथाधिरोहिणो बोधिसत्त्वस्य
न मोक्ष्यत्य् अयम् अह्नाय दानपारमिताम् इति शेषाः पारमितास् तस्य तस्थुर् उत्कण्ठिता इव // HJm_2.7
अथ स महात्मा निदाघदिनकरकिरणैर् इव जलाशयम् आपीयमानम् अनुदिवसम् अर्थिभिर् अल्पावशेषं कोशसारम् आलोक्य याचनकजनाशां विफलाम् अशक्नुवन् कर्तुं रत्नद्वीपगमनाभिलाषी विविधपण्यपरिपूरितम् उच्छ्रितशीतपटस्खलितमृदुपवनम् अतिनिपुणकर्णधारावलम्बितकर्णम् आप्तपरिजनाधिष्ठितम् अनेकवणिग्जनपरिवृतो वहनम् आरुह्य
फुल्लातसीकुसुमसंस्तरसंनिकाशम् आकाशम् आगतम् इवोदकतां समन्तात् भास्वद्भुजङ्गमणिदीपसहस्रम् अन्तर् गम्भीरदुर्गमजलं जलधिं जगाहे // HJm_2.8
वहनगतिवशाच् च निमज्जत इव वेलातटशाखिनः क्षणम् एव समवलोक्य पवनबलोदीर्यमाणमहातरङ्गविषमम् अग्रतो धावन्तम् इव च क्रमेण महासमुद्रम् उत्तीर्य रत्नद्वीपम् आगम्य विविधानि रत्नान्य् आदाय सह तैर् वणिग्भिर् अविघ्नेन सुप्रियः पुनः प्रतिनिवृत्य सार्थं स्थलपथेन नेतुम् आरेभे ।
एतं समेत्य विमुखो न गतो ऽर्थिवर्गश् चेतो ऽस्य वैरिणि सुते च समानवृत्ति एवं गुणान् अभिदधद् गुणलालसस्य सार्थं न तस्करगणो ऽपि मुमोष तस्य // HJm_2.9
शुचिशीलविभूषणे जने जगदर्थप्रतिबद्धचेतसि अपि धर्मपराङ्मुखो जनः सुहृदीवाभ्युपयाति भद्रताम् // HJm_2.10
ततः स महात्मा वाराणसीम् उपगम्य प्रीतमनोभिर् बन्धुभिर् आलोक्यमानः स्वभवनम् अनुप्रविश्य तेन रत्नद्वीपाद् उपात्तेन स्वापतेयेनार्थिजनसंमाननाम् अनुदिवसम् अकरोत् ।
महात्मनस् तस्य परार्थसंपदः प्रयच्छतो दानम् उदारचेतसः अवन्ध्यभूरिप्रणयैः समागतैर् अभूद् गृहद्वारम् अशून्यम् अर्थिभिः // HJm_2.11
अथ स महात्मा कदाचिद् वरशयनीयम् उपगतः क्षणदायाम् इदम् अचिन्तयत् । इदम् अपि न पर्याप्तम् एवम् अर्थिजनप्रतिपूजनायां द्रविणम् इति । कीदृशं पुनर् यात्राफलं साधयेयं येन मे सततम् अव्यवच्छिन्नदानप्रतीतमनसो ऽर्थिनः स्युर् इत्य् अपि नामेयं त्वरितम् अपयायान् निशीथिनी यतो ऽहं संमानयेयम् अर्थिवर्गम् इति ।
सर्वो जन्तुः काङ्क्षति ग्लानिकाले खेदार्तो वा चित्तसौख्याय निद्राम् एषा दातुर् दानविघ्नं करोतीत्य् आसीत् साधोस् तस्य निद्रैव दुःखम् // HJm_2.12
अथ स महासत्त्वो निद्रावशम् उपगतः स्वप्ने विमलकिरणचक्रवालाभ्युद्गतपरिवेषनिमग्नमूर्तिम् अलिकुलाभिनीलशिथिलकेशपाशावच्छादितैकांसदेशां कमलपलाशाभिताम्रायताक्षीं कनककलशानुरूपपयोधरोपरिकीर्णहारमणिप्रभासमुद्द्योतितवक्षःस्थलाम् अभिनवबन्धुजीवकुसुमाभिरक्ताधरां त्रिवलीसोपानाधिरोहणविजिह्मीकृतप्रतनुरोमराजिकाम् इन्दुकान्तिम् इव मूर्तिमतीं कर्णाभरणमणिप्रभाभ्यक्तकपोलपत्त्रलेखां तनुधवलोत्तरीयसंवृताङ्गीं शरच्चन्द्रिकाप्रभापरिगताम् इव कार्तस्वरप्रतिमाम् अप्रतिरूपां देवताम् अपश्यत् । सा चैनम् अभिव्यज्यमानदशनमणिकिरणावभासितानना स्फुटमधुरेण वचसेदम् अभ्यधात् ।
प्रयास्यतीयं तनुतां क्रमेण दानातिरागात् तव कोशसम्पत् क्षपाक्षये क्षीणशशाङ्कशोभे निवर्तमानेव समुद्रवेला // HJm_2.13
त्वयि प्रयास्यन्ति ततो गतोदये निपात्य दृष्टिं विमुखत्वम् अर्थिनः अपास्तकेकाश् च्युतचारुचन्द्रिकाश् चिरं मयूरा इव शारदाम्बुदे // HJm_2.14
क्षयं गतायाम् इति कोशसंपदि त्वम् अर्थिनः प्राप्य शुचं गमिष्यसि इयं तु दित्सा भवतः प्रथीयसी कदाचिद् अप्य् एष्यति नैव विक्रियाम् // HJm_2.15
गते क्षयं दारुणि चञ्चलार्चिषः क्षयं प्रयाति द्युतिर् आशुशुक्षणेः प्रकामम् अभ्यासविवर्धितोदया न चैव दित्सा महतां विपत्स्व् अपि // HJm_2.16
अयं परिक्षीणधनो ऽपि नार्थिनः करोति याच्ञाश्रयभङ्गकातरान् इति प्रकाशीकृतनिश्चयो जनैर् जनो न कृच्छ्रे ऽपि जहात्य् उदारताम् // HJm_2.17
इति तथ्यम् अहं ब्रुवे भवन्तं भवविच्छेदि पदं गवेषयन्तम् व्यवसायतनुत्रम् आशु बद्ध्वा बदरद्वीपम् उपेहि लोकभूत्यै // HJm_2.18
शृणु तत्र मयोपदिश्यमानं गमनं भूधरनागयक्षभीमम् बहुभिश् च पयोधिभिर् निरुद्धं यद् अलं साधयितुं त्वम् एव शक्तः // HJm_2.19
मलयाचलरोहिणी सुधेति स्थिरवीर्यौषधिर् अस्ति पुण्यगन्धा हविषा परिपच्य ताम् अशान श्रमतृष्णाभिभवक्षुधाक्षयाय // HJm_2.20
पञ्चद्वीपशतान्य् अतीत्य सरितस् तास् ताश् च भीमाम्भसस् तीर्त्वा च प्लवमध्यगो जलनिधीन् पुण्येन वीर्येण च तुङ्गस्योपरि भूभृतो ऽस्ति महती नाम्ना महौघौषधिस् ताम् आदाय महाभुजङ्गमविषच्छेदाय यायास् ततः // HJm_2.21
पुरस्ताच् च सूचिभेद्यं वेत्रवनम् अतिक्रम्य जलधितीरे भूधरकन्दरान्तरावस्थितं ताराक्षं नाम राक्षसं द्रक्ष्यसि ।
सुप्तस्य जाग्रत इव ज्वलिताग्निदीप्तेर् यस्याक्षिणी तपनमण्डलतुल्यतारे आपिङ्गपक्ष्मपरिवेष्टितवर्त्मलेखे निद्राक्षये मुकुलिते इव चाप्रकम्पे // HJm_2.22
सुप्तस्य तस्य घननिश्वसितानिलेन प्रम्लानपाण्डुकुसुमास् तरवो भवन्ति जिह्वा विनिष्पतति चास्यपुटात् स्फुरन्ती विद्युल्लता जलधराद् इव भीमनादात् // HJm_2.23
ततो यक्षभुजगशान्त्यर्थम् अतीतबुद्धभाषितानि सूत्रपदानि पठता भवता गन्तव्यम् । गत्वा च नातिदूरे रोहितकं नाम विविधोद्यानकुसुमसुरभिपवनम् अनेकरत्नप्रभोद्भासितजलधितटभूधरान्तरम् उच्चावचजनसंबाधविपणिमार्गम् अमरपुरप्रतिमं पुरं द्रक्ष्यसि । तत्र च पौर्णमासीनिशाकरप्रियदर्शनो विविधगुणौघो माघनामा सार्थवाहः । स ते बदरद्वीपस्य पन्थानम् उपदर्शयिष्यति । स च महासार्थवाहो गाढग्लानतया सिंहशार्दूलभीषणाचलवनान्तराणि बहूनि योजनानि गत्वा कालकर्मणा योक्ष्यते । न च भवता तत्रापि विषादः करणीयः ।
प्रेर्यमाणाः करुणया धीराः सत्त्वहितं प्रति बद्ध्वोत्साहमयं वर्म साधयन्ति समीप्सितम् // HJm_2.24
पश्चाद् देवतानुभावात् पुण्यप्रभावाच् च दूरम् अतिक्रम्य हिमगिरिशिखरानुकारिप्राकारपरिवेष्टितं रजतनगरं पिहितद्वारं द्रक्ष्यसीति । तत्र च भवता पुनस् तान्य् एव सूत्रपदानि पठितव्यानि । ततः स्वयम् एव तद् द्वारम् अपावृतकपाटं भविष्यति ।
ततो निर्यास्यन्ति स्तनकलशभारेण गुरुणा प्रकामं क्लाम्यन्त्यः स्फुटदशनभासः स्मितवशात् अरालभ्रूलेखाः कुवलयदलश्यामनयनाश् चतस्रः किन्नर्यस् तनुधवलदिव्यांशुकभृतः // HJm_2.25
तासु च मृदुहसितकटाक्षभ्रूविलासप्रकाशितमन्मथास्व् अपि भवता भगिनीसंज्ञा करणीया । ताश् च भवतो बदरद्वीपस्य पन्थानं दर्शयिष्यन्ति । ततो बदरद्वीपाधिपतिः किन्नरराजो देवताप्रोत्साहितो भवते चिन्तामणिं दास्यति । तत्र च वैडूर्यमयस्य नगरस्यान्तिकजातम् उपवनम् आगतम् अकृष्टोप्तस्य शालेर् अतुषं फलम् अश्नन्तम् उदितम् इव शरद्वलाहकं वलाहकनामानम् अश्वराजं द्रक्ष्यसि । स त्वां विहायसा कृतार्थं वाराणसीम् आनेष्यतीत्य् अभिधाय सा देवतान्तरधीयत । बोधिसत्त्वो ऽपि च कल्याणस्वप्नदर्शनात् परं प्रमोदम् उद्वहन् नियमेनाहं बदरद्वीपयात्राफलम् आसादयिष्यामीति विचिन्त्य देवताः पूजयित्वा श्रमणब्राह्मणकृपणेभ्यश् च दानानि दत्त्वा यथादेवतोपदिष्टं चतुर्दशभिः संवत्सरैर् बदरद्वीपम् आगम्य किन्नराधिपतिसकाशात् तं चिन्तामणिम् आसाद्य चिन्तयामास । अपि नाम स तुरगपतिर् आगच्छेद् इति ।
विचिन्तितं तेन च पुण्यकर्मणा परार्थनिष्पत्तिनिबद्धचेतसा परिस्फुरन् राशिर् इवेन्दुरोचिषां स चाश्वराजस् त्वरितं समाययौ // HJm_2.26
समेत्य चोवाच स मानुषीं गिरं दुकूलसूत्राकृतिसान्द्रकेसरः इतः पुरात् सागरशैलदुर्गमान् नयामि कं त्वां विषयं विहायसा // HJm_2.27
तं सुप्रियः प्रियगुणो गुणिनां प्रवेकः प्रोवाच वाजिवरम् इन्दुमरीचिशुभ्रम् मत्तद्विरेफशबलोपवनान्तरालां वाराणसीं नयतु मां द्रुतम् अश्वराजः // HJm_2.28
उक्तस् तुरङ्गपतिनाथ स धीरसत्त्वः पृष्ठं ममेदम् अधिरुह्य भव स्थिराङ्गः रत्नं स्ववाससि निबध्य च शुद्धरश्मि तं पक्षिराजसमरङ्घसम् आरुरोह // HJm_2.29
भिन्दन् खुरैः प्रविरलान् क्वचिद् अम्बुवाहान् सौदामनीसमवभासपिशङ्गिताङ्गः उत्पत्य खं स्तिमितसागरवारिनीलं वाराणसीम् अवततार स वाजिराजः // HJm_2.30
तं च स्वभवनसमीपे ऽवतार्य वलाहकः पुनर् बदरद्वीपम् एव प्रत्याययौ । बोधिसत्त्वो ऽपि च प्रविश्य प्रमुदितमनोभिः प्रणयिभिः सुहृद्बन्धुभिः प्रत्युद्गतः स्वभवनम् अन्यस्मिन्न् अहनि बहिर् निष्क्रम्य तं चिन्तामणिं ध्वजाग्रम् आरोप्येदम् उवाच ।
यद् यद् इच्छति यो द्रव्यम् इह मानुषदुर्लभम् तत् तच् चिन्तामणिर् अयं सम्यक् तस्मै प्रयच्छतु // HJm_2.31
तदा च तस्मिन् देशे निर्व्यापारकृषीवलजनम् अनुदकतया धवलजलदशकलशबलदिक्कान्तम् उपरतगोकडेवरावस्थितवायसगणम् अत्याकुलदरिद्रवर्गम् अपर्याप्तभैक्षोपहारं महद् दुर्भिक्षम् आसीत् । ततः स जनकाय उपेत्य सुप्रियम् उवाच । धान्यम् एव तावद् अयं मणिवरः प्रवर्षत्व् इति । तथास्त्व् इति चोक्तं बोधिसत्त्वेन विचिन्त्य विलोकितश् चासौ महामणिः ।
क्वचित् तरुपलाशेषु स्खलता व्योमपातिना धान्येन महता भूमिर् बभूव च निरन्तरा // HJm_2.32
ततो विचित्रा मणयः स्फुरत्त्विषः शुचिद्युतीन्य् आभरणानि चासकृत् विकम्पितान्य् आपतता नभस्वता तनूनि वासांसि च पेतुर् अम्बरात् // HJm_2.33
अथो विचित्राभरणाम्बरस्रजः प्रवृत्तनानोत्सवतूर्यनिस्वनाः सविस्मयास् तं जनतानुकम्पिनं पुरस्कृतं तुष्टुवुर् इत्थम् अर्थिनः // HJm_2.34
अहो बतात्यद्भुतम् एतद् ईहितं परोपकाराय गृहीतजन्मनः अहो यशोभिस् तव कुन्दपाण्डुभिस् तिरस्कृतेयं हसतीव मेदिनी // HJm_2.35
अवश्यम् अस्त्य् एव जनस्य तादृशी स्वभाग्यसंपत् कुशलावलम्बिनः भवादृशानां जगदर्थकारिणां यद् एवम् उत्पत्तिर् अवन्ध्यजन्मनाम् // HJm_2.36
निर्वासितमहादुःखो दत्ताक्लिष्टमहाफलः विपाक इव धर्मस्य सुखहेतुस् त्वम् अर्थिनाम् // HJm_2.37
तद् एवम् आत्मदुःखम् अगणयित्वा जगत्सुखविधायिनो महाकारुणिका न प्रतिज्ञाम् अवसादयन्ति महात्मान इति स्वसुखनिरपेक्षेण परार्थनिष्पादनपटुना बोधिगामिना भवितव्यम् इति ॥
॥ बदरद्वीपजातकं द्वितीयम् ॥
॥ 3 धर्मकामजातकम् ॥
नान्यत्र बोधिसत्त्वाद् अज्ञानतमोनिरस्तये योग्यः / कश् चित् सुभाषितमणिं चिक्राय प्राणमूल्येन // HJm_3.1*
तद्यथानुश्रूयते बोधिसत्त्वः किल श्रुतशीलादिगुणाभिलक्षिते क्षितितलालङ्कारभूते भूतानुकम्पिनि सततप्रवृत्तब्रह्मघोषाग्निहोत्रसमिद्दर्भकर्मान्ते विनीतशिष्यपरिवृताध्यापके ब्राह्मणकुले लोकहिताय व्यायच्छमानो वशित्वाद् उदपादि । प्रतिदिवसम् आपूर्यमाणकान्तिश् च स महात्मा
यथा यथा संववृधे जगत्प्रियः शशीव भिन्दंस् तिमिरं मरीचिभिः तथा तथा तन् महतीम् महाकुलं जलं पयोधेर् इव वृद्धिम् आययौ // HJm_3.2
कश् चिद् एव महाभाग्यो जायते संमतःसताम् तरुलतेव वंशश्रीर् यम् आलम्ब्य विवर्धते // HJm_3.3
तस्य च महानुभावस्य कृतोपनयनसंस्कारस्य प्रमादबहुले यौवने वर्तमानस्य विनिवृत्तव्यसनदोषस्य पराम् अवेक्ष्य धर्मकामतां धर्मकाम इत्य् एव ज्ञातयो ऽनुरूपं नाम चक्रुः ।
प्रायेण प्राणिनो लोके गुणिनो वा गुणस्य वा नामापि पुण्यनिर्जातं प्रयाति रमणीयताम् // HJm_3.4
सुभाषितं तस्य सुभाषितार्थिनः कुतश् चिद् आकर्णयतो विपश्चितः नितान्तम् आनन्दथुचित्रकर्मकृच् चकार रोमोद्गमबिन्दुवर्तनाम् // HJm_3.5
पूतेन लोकम् अवभासयता समन्तात् कान्तेन भिन्नतमसा प्रथितागमेन शुद्धेन कस्य हृदयं शशलक्ष्मणेव न ह्लाद्यते सुपुरुषस्य सुभाषितेन // HJm_3.6
शुश्राव भिन्नतिमिरं तिमिरान्तकारी यस्मात् सुभाषितम् अतीव सुभाषितज्ञः प्रख्यातबुद्धिमहिमा महतां सदःसु प्रीतः परं शतसहस्रम् अदात् स तस्मै // HJm_3.7
स च महात्मा यत्र यत्र गच्छति स्म तत्र तत्र जनेन प्रतिपूज्यते स्म । ततः कदा चिद् अन्यतमो दुष्टचेतास् तदपकारचिकीर्षया ब्राह्मणस् तस्य महात्मनस् तं लाभसत्कारविशेषम् अनुदिवसम् अभिवर्धमानम् असहमानः सामर्षं त्वरितपदं तत्सकाशम् आजगाम ।
असंप्राप्यान्यतः पूजां गुणलभ्याम् असज्जनः अन्यस्मै मान्यमानाय पण्डितायाभ्यसूयति // HJm_3.8
स च दुरात्मा राक्षस इव ब्राह्मणरूपधारीतम् महासत्त्वम् उपगम्येदम् अभ्यधात् ।
श्रुतं मयातीव सुभाषितप्रियो भवान् किल ज्ञानविशेषवित्तगः अतो ऽस्म्य् अवज्ञातजनस् त्वदन्तिकं सुभाषितप्राभृतवान् उपागतः // HJm_3.9
परिभ्रमन् गन्धवतीः शिलीमुखो विहाय फुल्लाः सहकारमञ्जरीः मदं पिपासुः समुपैति दन्तिनो गुणान्तरं तत्र स पश्यति ध्रुवम् // HJm_3.10
अथ बोधिसत्त्वः सुभाषितोपायनवन्तं तं ब्राह्मणम् आलोक्य प्रहर्षप्रोद्भिद्यमानपुलकशोभः समुत्थाय स्वागतं सुभाषितमहारत्नवणिजे ब्राह्मणाय । वयं सुभाषितमणीनां क्रेतार इत्य् उक्त्वा तं द्विजातिम् आत्मीये महत्य् आसने समुपवेश्य स्वयमवनौ निषसाद । ततो धर्मकामं सुहृदस् सविस्मयम् एवम् ऊचुः ।
श्रोष्यामीति सुभाषितानि भवतो जातं मुखं सस्मितं श्रुत्वा यास्यति साश्रु लोचनयुगं प्रीत्या श्रियं काम् अपि अह्नश् छेदवशात् सुगन्धि कुमुदं मन्दं समुन्मीलति प्राप्येन्दोः किरणान् अपास्ततमसः शोभां परां पुष्यति // HJm_3.11
अथ धर्मकामः सबहुमानम् आलोकयंस् तं ब्राह्मणम् अवोचत् । अभिधातुम् अर्हत्य् आचार्यः शुश्रूषमाणाय शिष्यायेति । अथ स पापीयान् एनम् उवाच । यदि भवान् महति खाते निर्धूमज्वलनपरिपूरिते सुभाषितरत्नलोभाद् आत्मानं मुञ्चेत् ततो ऽहम् इदं सुभाषितम् अश्रुतपूर्वम् अतिमनोहरम् अभिदध्याम् इति । अथ बोधिसत्त्वः सत्त्वपरिबृंहितमतिर् इदम् अभ्यधात् । महाब्राह्मण । नेदं दुष्करम् आत्मदुःखानपेक्षिणाम् मादृशानाम् । किं तु ।
सुभाषितं जगदुदयाय सज्जनान् महीरुहात् फलम् इव संचिनोम्य् अहं गते मयि ज्वलनवतीम् महाखदाम् अयं जनः कथम् इव तद् ग्रहीष्यति // HJm_3.12
ब्राह्मण उवाच ॥ श्रावयित्वेदम् सुभाषितम् अखिलस्य जनकायस्य ततो ऽग्निखदायाम् आत्मानं मोक्ष्यसि । बोधिसत्त्व उवाच । यथा आच्य रोचते तथास्तु ।
अनवतीर्य चिराय दुरुत्तरं सुविपुलं व्यवसायमहोदधिम् क्षपितमोहमहातिमिरः कथं जगति बोधिमणिः सुलभो भवेत् // HJm_3.13
तद् अहम् एष सुभाषितलालसो जलम् इव प्रविशामि हुताशनम् न मम धर्मकथाहृतचेतसो हुतवहो ऽपि करिष्यति वेदनाम् // HJm_3.14
इति निगद्य सुखातम् अखानयद्दहनवच् च नृभिस् तद् अकारयत् / निरगमच् च बहिर्भवनान्तरात् सपदि तेन सह द्विजरक्षसा // HJm_3.15*
हुतभुजि ज्वलिते च महामतिर् निपतितुं कृतनिश्चयमानसः सखिभिर् अश्रुपरीतविलोचनैः स रुरुधे परिरभ्य सुहृत्तया // HJm_3.16
अथ धर्मकामं सुहृदो ज्ञातयश् च विषादाश्रुपूर्णनयनाः सगद्गदम् एवम् ऊचुः । किम् इदम् इति सुभाषितरसेनानपेक्षितक्कार्यो दुष्प्रापम् इदम् अमलकुलोत्पन्नम् उडुपतिकिरणविशुद्धयशोऽधिष्ठानं मानुष्यम् अवमन्य ज्ञातिजनं चात्यन्तदुःखभागिनं कृत्वात्मानं परित्यक्तुम् इच्छसि । ननु विनिवर्त्यताम् इयममार्गयायिनी बुद्धिः । पश्यतु भवान् ।
ये नाम वल्लभतरास् सततं जनस्य पुत्राद् अपीष्टफलदाद् दयिताज् जनाच् च क्रीणासि तैर् असुभिर् आत्मसुखानपेक्षी कस्मात् सुभाषितम् अतीव सुभाषितज्ञः // HJm_3.17
अथ बोधिसत्त्वस्तस्य जनकायस्य सुभाषितगुणाविष्करणेन धर्मदेशनाम् इति चकार ।
विज्ञानम् उज्ज्वलयति प्रतिभां तनोति तत्त्वं प्रकाशयति कापथम् उच्छिनत्ति साधोः सुभाषितम् अहो परिचीयमानं कल्याणमित्रम् इव किं न हितं करोति // HJm_3.18
यत्रोदिते विमलधाम्नि विवस्वतीव पुम्नां मतिः कमलिनीव विबोधम् एति अत्यन्तभिन्नतिमिरं सुधिया परस्मात् तद् ग्राह्यम् आत्मनिमयेनकथं न सूक्तम् // HJm_3.19
तस्माद् अहं दहनदाहम् अचिन्तयित्वा ताथागतीं गतिम् अनुप्रतिपत्तुम् इच्छन् प्रज्ञागुरुं गुरुम् इवालघुसूक्तहेतोः प्रीतः शरीरगुरुदक्षिणयार्चयामि // HJm_3.20
मानुष्यं देवभूयं वा प्राप्यते सुकृताश्रयात् कदाचिल् लभ्यते पुम्भिः सुभाषितरसायनम् // HJm_3.21
तन् न मे कुशलपक्षावलम्बिनो भवन्तो विघ्नम् उत्पादयितुम् अर्हन्तीति तान् सुहृदो बान्धवांश् च सानुनयं विनिवार्य ज्वलनसात्कर्तुम् आत्मानं तरुस्कन्धम् आरुह्य तं ब्राह्मणम् उवाच । आचार्य प्रोच्यताम् अधुना तत् सुभाषितम् इति । ब्राह्मण उवाच ।
प्रदानपटुभिर् नित्यं शीले च विमले स्थितैः अत्यन्तवीर्यसंनाहैः प्राप्यते पदम् अक्षयम् // HJm_3.22
अथ बोधिसत्त्वः प्रमुदितमनास् तां गाथाम् उद्गृह्य तस्मै जनसमूहाय श्रावयाम् आस । ततस् ते सुहृदस् तम् एनम् अर्थम् ऊचुः ।
परं प्रमोदं जनयेत् पुनः पुनः तवैव सूक्तं कुशलावलम्बिनः विषादहेतुत्वम् उपागतं यतो दुरुक्तम् अस्माकम् इदं ततो ननु // HJm_3.23
अथ तत्र प्रकृतिकरुणार्द्राशयो मातृग्रामस्तस्य साधोर् असंबन्धोऽपि शोकवशाद् एवं परिदेवनपरो बभूव ।
सुगन्धिना वाङ्मधुनाधिवासितं परिस्फुरन्दन्तमरीचिकेसरम् मुखाम्बुजं श्रीमद् इदं हुताशनः कथं न्व् अयं निष्करुणो ऽस्य धक्ष्यति // HJm_3.24
विशुद्धचामीकरगौरम् अग्निना परीयमाणं परिकूणितेक्षणम् शरीरम् अस्येदम् अहो भविष्यति प्रदग्धदारुप्रतिमं मलीमसम् // HJm_3.25
उद्यत्सिमसिमाशब्दम् अनलान्तरवर्तिनः श्यामीभवद् इदं गात्रं द्रष्टुं को ऽस्याद्य शक्ष्यति // HJm_3.26
द्विधेव क्रियमाणानां वेणूनां पर्वनिःस्वनम् बान्धवाः कथम् अस्यास्थ्नां श्रोष्यन्ति स्फुटतां ध्वनिम् // HJm_3.27
अमी समीरणासङ्गचलत्पल्लवपाणयः मा धाक्षीरेनम् इत्य् अग्निं वारयन्तीव पादपाः // HJm_3.28
बाष्पतोयाविलाक्षाणां विदारयति नो मनः बन्धूनाम् अस्य दीनानां हा हेत्य् एकाक्षरं वचः // HJm_3.29
इह गोष्ठी कृतानेन दत्तं धनम् इहार्थिने इत्य् अस्य सुहृदः साधोर् देशयिष्यन्ति सास्रवः // HJm_3.30
ज्ञातेयेन विनास्माकं दुःखं दहति मानसम् सुहृदो ज्ञातयो वास्य धारयिष्यन्त्य् असून् कथम् // HJm_3.31
तन् नेदम् अतिकरुणं रौद्रं कर्मास्य दुष्करकारिणः शक्यते द्रष्टुम् इत्य् अभिधाय स स्त्रीजनो गृहाभिमुखः प्रतस्थे । ततो बोधिसत्त्वः प्रणिधिम् एवम् आविश्चकार ।
न प्रार्थये पदम् अहं शुभलभ्यम् ऐन्द्रं विद्याधराधिपतितां न च नापि राज्यम् भूयासम् अस्य जगतः सुगतत्वम् आप्य दुःखक्षयार्थम् अमुना कुशलोदयेन // HJm_3.32
इत्य् उक्त्वा तेन महात्मना मुक्तश् चात्मा । सद्य एव च सो ऽग्निर् उपशान्तज्वालाकलापधूमसंघातः सुरभिकमलोद्भेदगन्धाधिवासितदिगन्तरालं कमलिनीपलाशस्थितविमलसलिललवं स्फटिककणाकीर्णमरकतशिलानुरूपम् अलिकुलचक्रवाकमिथुनहंसकादम्बोपशोभितं पद्माकरत्वम् अगमत् ।
कृतार्थम् इव पद्मत्वं मन्यमाने कुशेशये सो ऽपि च स्थितम् आत्मानम् अद्राक्षीद् धीमतां वरः // HJm_3.33
पादोपान्तभ्रान्तमत्तद्विरेफः शान्तो धर्मं धर्मकामो ब्रुवाणः शोभां गाढं पद्मपत्त्रायताक्षः पद्मासीनः पद्मयोनेर् दधार // HJm_3.34
एष स्वप्नः स्याद् इयं किं नु माया वह्निः क्वायं क्वेदमम्भोरुहत्वम् इत्य् आश्चर्यं विस्मयाक्षिप्तचित्ताः तं पश्यन्तस् ते जना वाचम् ऊचुः // HJm_3.35
तेषां तम् आलोकयतां जनानाम् अम्भोजमध्यस्थितम् उन्नतेच्छम् हर्षाश्रुणासंभवता क्षणेन रुषेव शोकाश्रुजलं निरस्तम् // HJm_3.36
पतितम् अथ नभस्तः कीर्णकिञ्जल्कगन्धं समनुगतम् अलीनां पङ्क्तिभिः पुष्पवर्षम् अभवद् अपि च मारः पौष्पम् आधायपार्श्वे धनुर् उपहितशोकःपाणिविन्यस्तवक्त्रः // HJm_3.37
अथ स ब्राह्मणो ज्वलिताङ्गारमध्यगतम् इवात्मानम् ष्णनिश्वासाभितप्तमुखान्तरालः कथम् अपि धारयन्न् इदम् अवोचत् ।
गम्भीरे क्षितिविवरे परिस्फुरन्तं पश्यामि ज्वलनम् इवाग्रतो महान्तम् एषा च ज्वरपरितर्जितातिदुःखा मेदिन्यां मम विनिमज्जतीव मूर्तिः // HJm_3.38
तीव्राग्निं नरकम् इमं पतिष्यतो मे त्वं भूयाः शरणम् इहाद्य धर्मकाम तुङ्गेच्छाः परहितवेधसो महान्तस् त्वादृष्काः सुहृदि रिपौ च तुल्यभावाः // HJm_3.39
अथ बोधिसत्त्वस् तदनुकम्पया सत्याधिष्ठानम् अकरोत् ।
येन सत्येन सत्त्वार्थं बोधिचर्यां चराम्य् अहम् तेन मा स्म गमद् विप्रो नरकं ज्वलितानलम् // HJm_3.40
इति बोधिसत्त्वेनाभिहितःस ब्राह्मणः सद्य एव हरिचन्दनानुलिप्तम् इवात्मानं प्रमुमुदे ।
कल्याणमित्रम् आगम्य जगदर्थविचक्षणम् प्रयाति विलयं सद्यः पापं पापकृताम् अपि // HJm_3.41
अथ बोधिसत्त्वः प्रमुदितमनोभिः सुहृद्बन्धुप्रणयिभिर् आलोक्यमानो दानशीलादिसमुत्तेजनाय धर्म्यां कथां चकार ।
आगमतो ऽनुमानाच् च द्वयानिश्चयकारणात् विशेषनिश्चयोत्पत्तेः प्रत्यक्षं बलवत्तरम् // HJm_3.42
महापरित्यागम् इमं सविस्मयश् चिरं विलोक्येव मम स्फुरच्छिखः कृशानुर् अन्वक्षम् अयं शरीरिणां प्रफुल्लपद्माकरताम् उपागतः // HJm_3.43
ततः समालोक्य महान्तम् अद्भुतं प्रभावम् एनं विपुलस्य कर्मणः शुभाशुभस्यास्ति फलं सुखासुखं विचिन्त्य चेदं विजहीत कापथम् // HJm_3.44
प्रमादनिद्राविनिमीलितात्मनां शरीरिणां सौपायिकी प्रबोधना विपश्चितां तु स्फुटबुद्धिचक्षुषां सति प्रबोधे किम् इव प्रबोध्यते // HJm_3.45
हितोन्मुखानाम् अपि धर्म्यया गिरा भृशं प्रबोधं जनयन्ति साधवः गतेर् विशेषो भवति प्रसर्पतां प्रतोदसंचोदनया हि वाजिनाम् // HJm_3.46
बहुच्छलं पालयता गृहाश्रमं न धीमता विश्वसनीयम् अण्व् अपि न युज्यते स्वप्तुम् अनाहिताङ्कुशप्रचण्डमत्तद्विरदाधिरोहिणः // HJm_3.47
सुतप्रलापा भवनं समृद्धिमद् विलासलावण्यविभूषिताः स्त्रियः प्रसङ्गिनां सर्वम् अमेधसाम् इदं शमानुकूलस्य निरोधकं पथः // HJm_3.48
कथं चिद् अष्टाभिर् अपोढम् अक्षणैर् अवाप्य मानुष्यम् इदं सुदुर्लभम् / शमाय यो न त्वरते प्रमादभाग् नियोजनीयो ऽनडुहाम् असौ धुरि // HJm_3.49*
इदम् अवाप्तम् अवाप्यम् इदं पुनः कृतम् इदं करणीयम् इदं नृणाम् इति मनोगृहचित्रणया क्षयं व्रजति नैव मनोरथवर्तिका // HJm_3.50
विषयोपभोगम् अवसानदारुणं परिरभ्य चन्दनम् इवाहिवेष्टितम् सुखम् इत्य् अभूतपरिकल्पनानुगा बहुदुःखजालम् अधिशेरते जनाः // HJm_3.51
धिग् अहो तिरस्कृतम् अविद्यया जगत् सकलं कलङ्कितम् अनङ्गजैर् मलैः यद् इदं समेत्य मरणारिगोचरं गजसुप्तिकाम् इव विधाय तिष्ठति // HJm_3.52
हृतसत्पथं निवरणारिभिः शठैर् अविचिन्त्य संततम् अनित्यताभयम् अनुशासनं प्लवम् अपास्य सौगतं विनिमज्जति व्यसनसागरे जगत् // HJm_3.53
प्रतिक्षणं क्षयम् उपयातिजीवितं प्रशाम्यतो वपुर् इव कृष्णवर्त्मनः अतः सदा विषयपराङ्मुखीम् इमां त्वरावतीं कुरुतमतिं हितं प्रति // HJm_3.54
इति वचनम् अयुक्तन्यायम् उक्तम् मया चेद् अनुभवत यथेष्टं कामसौख्यानुबन्धम् अथ तु गुणवद् एतत् साधवः चिन्तयित्वा श्रयत विषयतृष्णां रोधिनींशान्तिम् अग्र्याम् // HJm_3.55
इति धर्मदेशनां कृत्वा बोधिसत्त्वःससुहृज्जनो गृहं प्रविवेश ।
तद् एवं सुभाषितरत्नपरीक्षापटुना तेन भगवता प्राणैर् अपि सुभाषितानि क्रीतानीति विचिन्त्य सततम् एव दुःखोच्छेदम् इच्छता प्राज्ञेन धर्मकथाश्रवणे महान् आदरः करणीयः । कल्याणमित्रसेवा चाभिलषितफलनिष्पादिनी भवतीति तदनुवर्तिना भवितव्यम् इति ॥
॥ धर्मकामजातकं नाम तृतीयम् ॥
4. शश
तिर्यग्योनिगतैर् अपि सद्भिः प्राणाः परार्थम् उत्सृष्टाः / को नाम पुरुषभूतः सक्तिं धनमात्रके कुर्यात् // HJm_4.1*
तद्यथानुश्रूयते स्तिमितनिलीनशुकसंघातहरितशाद्वलोपगूढभूभागे विविधशिखरितरुच्छायोपविष्टरोमन्थायमानहरिणगणे भ्रमदलिकुलोपगीयमानकुसुमितलतासंपर्कसुरभिपवनाकम्प्यमाननिर्झरवारिधौतशिलातलपर्यन्ते मुनिजनमनोऽनुकूले कूलविटपिलताकिसलयास्खलितसरित्तरङ्गाहतकुमुदधवलफेनशेखरालंकृतसलिले सलिलचरविहङ्गोन्नादितपद्मिनीवने क्वचिद् अचलवनान्तरे बोधिसत्त्वः शशो भवति स्म । तस्य च तत्र सहवासगुणाद् अभिवृद्धसौहृदः प्रशमोपचयशान्तेन्द्रियग्रामो ग्राम्योपभोगपराङ्मुखमनाश् चीराजिनाषाढकमण्डलुमात्रपरिग्रहः कष्टतपास् तापसः सहायो बभूव ।
शान्तौ समानधर्माणौ समदुःखसुखोदयौ ताव् अन्योन्यम् अपश्यन्तौ न रेमाते सुहृत्तमौ // HJm_4.2
बाल्ये शशेन रहितः कंचित् कालं भवत्य् अनुष्णांशुः / न तु तेन शशाकृतिना कदाचिद् अपि स व्रती सुहृदा // HJm_4.3*
साप्तपदीनं सख्यं भवति सतां प्रकृतिशुद्धचित्तानाम् / किम् उतान्योन्यगुणकथाविश्रम्भनिबद्धभावानाम् // HJm_4.4*
भवति शमाभिरतानां पुंसां धर्माय पाटवं बुद्धेः / प्रतनुमनसां तिरश्चां धर्मारम्भे कुतः संज्ञा // HJm_4.5*
शशजातिर् अहो क्वेयं क्वेदं वाक्सौष्ठवं क्व च शमो ऽयम् / अभवद् इति देवतानां शश एव सविस्मयं चेतः // HJm_4.6*
अथ कदाचिद् असलिलतया परिपाण्डुषु सासूयकृषीवलजनावलोक्यमानेषु विश्रान्तविद्युल्लताविलासेषु पवनबलविच्छिन्नसंघातेषु जलदेषु दिनकरकिरणापीतसावशेषसलिलेषु परिम्लानगर्भलघुशालिच्छन्नेषु केदारेषु सकृत्पूरविच्छेदप्रतनुजलविमुक्तविपुलतरपुलिनतटावस्थितस्फुटितोत्तानशुक्तिपुटास्व् सरित्स्व् आघर्मक्लमविनिबद्धश्वासप्रचलत्कण्ठेषु मदकाले ऽपि विनिवृत्तनृत्तव्यापारेषु नीलकण्ठेषु निम्नप्रविरूढशुष्कशष्पाङ्कुरायां वसुमत्याम् अलब्धतृणाहारतया परिक्षामकुक्षिषु मन्दगमनचलितशिथिलसास्नासु क्षीरक्षयलघूध्नीषु परिदुर्बलवत्सासु वत्सतरीषु शाकप्रायकदन्नाभ्यवहारकृशपरुषाङ्गेषु दरिद्रजनेषु दुर्भिक्षदोषपराङ्मुखीकृतातिथिजनसत्कारेषु ग्रामेषु क्वचित् क्वचिच् छ्रूयमाणमन्थानशब्देषु गोकुलेषु स तापसस् तं शशम् अवोचत् । अहो कृतोपकारम् अपि विपत्सु नानुवर्तन्ते प्रकृतिलघवः प्राणिनः । पश्यतु भवान् अयं हि ।
आसारेण विभिन्नचन्द्रकमणिं तन्वन् कलापं मुदा लास्यं लासकवत् पुरा विरचयन् स्तौतीव यं केकया तस्मिन्न् एव शिखी निरम्भसि घने चक्षुःप्रदानालसः प्रायेणोदयवन्तम् एव भजते स्वार्थप्रवीणो जनः // HJm_4.7
निस्तोया विरलीभवन्ति जलदा विच्छिन्नम् ऐन्द्रं धनुः श्रूयन्ते न कलापिनां गिरिगुहासंसर्गदीर्घा गिरः सर्वं वस्तु निसर्गभङ्गुरम् इति ध्यात्वेव शोकाच् चिरं विद्युल्लासिकया विलासमधुरं लास्यं परित्यज्यते // HJm_4.8
जातं क्षीणफलं फलद्रुमवनं शोषं गता वीरुधः प्रम्लानानि शनैर् बिसानि बिसिनीपङ्के खरत्वं गते यो ऽप्य् आसीद् बदरेङ्गुदीफलचयः स्वल्पो ममात्रोटजे क्षीणः सो ऽपि सुदुष्कराय तपसे यात्रां करिष्ये कथम् // HJm_4.9
आहारेण विना प्रतिक्षणम् अयं देहः क्लमं गच्छति क्लान्त्या चेतसि योगिनः प्रतिहते स्थैर्यं समाधेः कुतः प्राज्ञस्यापि समाधिहीनमनसस् तत्त्वाभिमुख्यं कुतस् तत्त्वादर्शनबद्धमोहतिमिरः पश्चाद् वृथा श्राम्यति // HJm_4.10
त्यक्त्वा ततो ऽजिनकमण्डलुवल्कलानि स्थास्यामि बान्धवजनेन सह स्वगेहे दुर्भिक्षदोषम् अपवाह्य पुनर् वनान्ते वत्स्यामि वत्सल चिरं भवता सहात्र // HJm_4.11
अथ बोधिसत्त्वश् चिरसंवासाभिवर्धितप्रेमार्द्रहृदयस् तम् ऋषिम् उवाच ।
आलानम् उन्मूल्य सुखाभिकाङ्क्षी यातः कथंचिद् द्विरदो वनान्तम् विस्मृत्य भूयो ऽङ्कुशपातदुःखं जनान्तम् एवेच्छति गन्तुम् अज्ञः // HJm_4.12
शमेन मेधावितया तपोगुणैः श्रुतेन च ज्ञेयपथानुगामिना मुनींस् त्वम् अन्यान् अभिभूय वर्तसे रविः प्रदीपान् इव दूरम् अंशुभिः // HJm_4.13
इति त्वम् आलोकितशास्त्रनिश्चयो ऽप्य् अनन्धकारेण विवेकचक्षुषा प्रवेष्टुकामो विषयारिगोचरं कथं प्रमाद्यन्न् इव नाम लक्ष्यसे // HJm_4.14
तमोविनिर्भेदि पथां प्रकाशकं मनःप्रसादं जनयच् छरीरिणाम् न वेत्ति धन्धः सुधियां सुभाषितं प्रसादि जात्यन्ध इवेन्दुमण्डलम् // HJm_4.15
स्वबुद्धिदीपेन विना तमस्विनीं सुखानुषक्तिं त्यजतीति का कथा गृहस्थतायां रमयन्ति यन् मनोविशुद्धसत्त्वास् तद् असांप्रतं महत् // HJm_4.16
द्विसन्ध्यम् आज्याहुतिगन्धवासितैर् निवेशितान्तर्बदरेङ्गुदीफलैः जलाशयालीनशरारिसारसैस् तरूपगूढैर् उटजैर् अलंकृताः // HJm_4.17
तपस्विकन्योद्धृतकुम्भवारिणा प्रसिच्यमानोद्गतबालपादपाः तटद्रुमच्छायनिरुद्धसिन्धवः समुच्छ्वसत्पुष्पसुगन्धिवायवः // HJm_4.18
परिभ्रमत्तापसपुत्रकानुगैः क्वचिन् मृगैः खण्डितवीरणाङ्कुराः जपाच् चलच्छ्मश्रुनिरुद्धकन्धरैस् तपोधनैर् आश्रितशैलगह्वराः // HJm_4.19
अहो दृढस्नेहनिबद्धचेतसाम् असत्सुखास्वादलवानुषङ्गिणाम् न नाम पर्युत्सुकयन्ति रागिणाम् अमेधसां चित्तम् उपत्यका भुवः // HJm_4.20
अकुशलजनसेव्यं कापथं प्राप्य मोहात् स्खलति नियतम् अज्ञः स्नेहपाशान् अमुक्त्वा सुकृतिभिर् अनुयाते संविदानो ऽपि मार्गे यद् अरजसि न तिष्ठत्य् एतद् अप्राप्तम् अत्र // HJm_4.21
बहुव्यसनदोषम् अपि नाम गार्हस्थ्यम् अवेत्य कथम् इमां शमानुकूलां विमुक्तिमार्गप्रकाशिनीं प्रव्रज्याम् अपास्य सुखलवहेतोर् महत् प्रतिभयं दुःखपातालं प्रवेष्टुम् इच्छसि । यच् च भवताभिधीयते पुनर् अहं तपोवनम् आगमिष्यामीति नेदं श्रद्धीयते । कुतः । प्रचुरविघ्नो हि गृहवासः ।
इन्द्रियार्थवशगस्य कामिनीः पश्यतः स्मितविलासभूषणाः अप्य् अखण्डफलदे तपोवने रागिकस्य हृदयं निवेक्ष्यते // HJm_4.22
अपि च महर्षे विषयानुवर्तिनो हि प्राणिनो महान्ति व्यसनान्य् अनुभवन्ति । पश्य ।
मृगो मृगयुगीतेन नीयते शरगोचरम् विषयास्वादलुब्धानां भवन्त्य् एव विपत्तयः // HJm_4.23
शलभः प्रयाति पतितो विभावसौ गुरुदाहदुःखम् उपगम्य पञ्चताम् कमनीयरूपहृतचेतसां कथं न भविष्यति व्यसनम् अङ्गिनां पुनः // HJm_4.24
यदि नाददीत बडिशस्थम् आमिषं शकली क एनम् उदकात् समुद्धरेत् सुखलुब्धबुद्धिर् अनुबद्धम् अग्रतो न भयं विलोकयति बालिशो जनः // HJm_4.25
कमले निमीलति शिलीमुखः स्थितः समुपैति कृच्छ्रम् अतिगन्धलालसः गजबन्धकीम् अनुसरन् वनात् करी सहते प्रतोदनिशिताङ्कुशव्यथाम् // HJm_4.26
विपदां पदं तनुधियां विमोहनं स्थिरबुद्धिभिः परिहृतं महात्मभिः यदि वः सनातनसुखस्पृहास्त्य् अतो विषवज् जहीत विषयाहिगोचरम् // HJm_4.27
ऋषिर् उवाच । सत्यम् अनेकेषां परिभवादीनां दोषशराणां शरव्यभूतो गृहवासः सुखलवास्वादमोहितात्मभिर् न शक्यते परित्यक्तुम् । किं तु ।
शश सुहृत्तम शीलयशोनिधेर् भवत एव गुणा ननु तादृशाः मम भविष्यति यैर् हृतचेतसः पुनर् इहागमनं शमम् इच्छतः // HJm_4.28
बोधिसत्त्व उवाच । यद्य् अवश्यम् एव गन्तुम् अभिलषितं तथाप्य् एकम् इमं दिवसम् इहोषित्वा श्वः स्वम् अभिप्रायम् अनुष्ठातासि । ततः स मुनिर् एवं चिन्तयामास । नियतम् अयं मां निमन्त्रयितुकामः ।
जम्बूवनं क्वचिद् अनेन फलाभिरामं दृष्टं भवेत् किम् अथवा फलितो ऽत्र चूतः पाकाभिताम्रसुकुमारफलाधिवासो शैलान्तरे क्वचिद् उदुम्बरपादपो वा // HJm_4.29
अथ शशस् तां रजनीम् अतिवाह्य प्रभातसमये कृत्स्नं तद् वनं परिभ्रम्यालब्धमूलफलश् चिन्तयामास ।
अस्मिन्न् अभुक्तवति सक्षुधि दुर्बलाङ्गे शान्ते मुनौ समसुखव्यसने सुसख्यौ भोक्ष्ये तृणं कथम् अहं हरितं वनान्ते पास्यामि शीतविमलं सलिलं कथं वा // HJm_4.30
अथवा सत्य् अस्मिन्न् अर्थिजनसाधनक्षमे शरीरे किम् अहम् अशक्त इव विषण्णमनास् तिष्ठामि । ततस् तम् ऋषिम् उपगम्योवाच । महर्षे प्रतिपाल्यतां तावन् मुहूर्तं यावद् अहम् आहारजातं किंचिद् उपहरामि । ततः स मुनिर् अचिन्तयत् । परिक्षीणकन्दमूलफले ऽस्मिन् वने कीदृशी पुनर् आहारोपहरणशक्तिर् अस्य स्यात् । अथ स महात्मा ज्वलिताङ्गारराशिम् अवलोक्य प्रणिधिम् एवम् अभिवर्धयामास ।
यथार्थिनः क्षुदुपशमाय निर्व्यथस् त्यजाम्य् असून् हुतभुजि चञ्चलार्चिषि तथा जगद्व्यसननिरस्तिकारिणीं सुदुर्लभां दशबलताम् अवाप्नुयाम् // HJm_4.31
मुक्तः स्वात्मा परार्थे प्रमुदितमनसा चिन्तयित्वेति तेन क्लेशच्छेदाय शान्तं पदम् अभिलषता प्राणिनां बान्धवेन शान्तज्वालाकलापः स च वनदहनस् तस्य पुण्यानुभावात् प्रेङ्खत्तोयोर्मिलेखं प्रचलदलिकुलं प्राप पद्माकरत्वम् // HJm_4.32
अथ स मुनिः कष्टम् इत्य् उक्त्वा दहननिर्वापणाय गृहीतसलिलकमण्डलुस् त्वरितम् उपगम्य तं महात्मानं विकसितपुण्डरीकमध्ये ऽवतिष्ठमानं धर्मं देशयन्तम् अपश्यत् ।
अधिष्ठितं तेन भृशं शशेन रराज तद् वारिणि पुण्डरीकम् शरत्प्रसन्ने नभसि प्रसन्नं प्रकाशलक्ष्मेव शशाङ्कबिम्बम् // HJm_4.33
ततः स मुनिस् तं शशं पुण्डरीकावस्थितम् आलोक्य विस्मितमनाः स्तुतिम् इमां प्रव्याजहार ।
अहो परार्थप्रतिपत्तिदक्षिणं यशोनिधेः कर्म तवेदम् अद्भुतम् अचिन्त्यमाहात्म्यविशेषसंश्रयो महामतिः को ऽपि शशायते भवान् // HJm_4.34
अयं प्रदीप्तः क्व समीरसारथिः क्व चात्र राजीववनत्वम् ईदृशम् महात्मनां पुण्यबलैर् अधिष्ठितो विषद्रुमो ऽप्य् ओषधिवृक्षताम् इयात् // HJm_4.35
ततः स महात्मा तस्मात् पुण्डरीकाद् अवतीर्य प्रविष्टश् च तेन सह मुनिना पर्णशालाम् । विदितबोधिसत्त्ववृत्तान्तेन च विस्मितमनसा मघवता समन्ताद् अञ्जनाचलनीलजलधरपटलपिहितदिनकरम् अचिरप्रभाप्रकाशपरिपिञ्जरदिगन्तरम् अम्बरतलम् अकारि ।
ततो ववुः प्रचलितवारिशीकराः समन्ततः कुटजभिदः समीरणाः विरेजिरे समुदितपङ्क्तिभिः फलैः शुकाश्रिता गिरिसहकारपादपाः // HJm_4.36
समुद्गते मधुकरवेणुनिस्वने मृदङ्गवद् ध्वनति च वारिनिर्झरे ननर्त खं नवजलदं विलोकयन् स्थितो गिरेर् उपरि मयूरलासकः // HJm_4.37
मनोहरं धनुर् अवतत्य वज्रिणो निपातितस्फुटबहुशीकरेषवः वितेनिरे स्फुरदचिरप्रभासयः पयोधराः क्षपितनिदाघविद्विषः // HJm_4.38
परिभ्रमद्भ्रमरनिपातकोपितः समुच्छ्वसत्प्रतरुणकेतकाश्रितः श्वसन्न् अयोवलयसरूपविग्रहः पुनः पुनः फणम् अतनोद् भुजङ्गमः // HJm_4.39
दयिताविरहोत्सुकोत्सुकैः पथिकैः शैलपथद्रुमाश्रितैः परिशुश्रुविरे ऽल्पयाचिनां जलधारान्तरचारिणां गिरः // HJm_4.40
ददृशुः पथिकाङ्गनाः स्फुरन्तीं तडितं वारिमुचि प्रवेपिताक्ष्यः उपरि द्विरदस्य वायुनुन्नां ध्वजबद्धाम् इव कौङ्कुमीं पताकाम् // HJm_4.41
शिखिचन्द्रकमिश्रकाशवंशं क्वचिद् आवर्तपरिभ्रमच्छिलीन्ध्रम् अभवज् जलम् आविलं नदीनां तटजम्बूफलपातभिन्नफेनम् // HJm_4.42
जम्बूफलैः शबलितानि सरित्तटानि पश्यन् भुवश् च मृदुशाद्वलरम्यशोभाः पर्णोटजे क्वणति वारिकणाभिघातात् तिष्ठन् सह प्रमुमुदे स मुनिः शशेन // HJm_4.43
पप्रच्छ तम् अथानेन व्यवसायेन भूयसा स्थानं दिव्यसुखाकाङ्क्षी किम् ऐन्द्रं विजिगीषसे // HJm_4.44
आचचक्षे शशस् तस्मै धीरचेतास् तपस्विने बुद्धत्वम् अहम् इच्छामि प्राणिनां दुःखशान्तये // HJm_4.45
स मुनिस् तम् उवाचाथ यदा बुद्धो भविष्यसि तदा स्यां तव शिष्यो ऽहं स चास्मै प्रत्यपद्यत // HJm_4.46
तद् एवं तिर्यग्गतो ऽप्य् असौ भगवान् बोधिसत्त्वचर्यां चरन् प्राणैर् अपि परोपकारं कृतवान् इति बुद्धे भगवति प्रसादपरायणैर् भवितव्यम् इति ।
॥ शशजातकं चतुर्थम् ॥
5. चन्द्रप्रभ
को विस्मयं न नीतः शिरसस् त्यागेन बोधिसत्त्वस्य / अथवा फलानुरूपाः प्रायो महतां समारम्भाः // HJm_5.1*
तद्यथानुश्रूयते हुतवहसखबलसमुदीरितमहातरङ्गस्य क्षीरोदजलधेर् अनुकारिणा हिमगिरिहारेणाभ्यलंकृतायाः कौबेर्या दिग्वध्वाः प्रमनसा पत्त्रलेखेव विश्वकर्मणा लिखिता विविधजनसंबाधा पवनविधूयमानोपवनकुसुमगन्धाधिवासितदिगन्तराला सदा सुभिक्षत्वात् परिपूर्णकोषकोष्ठागारा श्रीर् इव नगररूपेणावस्थिता भद्रशिला नाम राजधानी येयम् अधुना तक्षशिलेति ख्यातिम् आगता । तस्यां च नीतिभुजबलपराजितान्यराजसामन्तः समुद्र इव सरितां सर्वसंपदाम् आश्रयः सर्वविद्यानां पात्रभूतो भूतानुकम्पी विमलवदनेन्दुशोभाह्रेपितचन्द्रप्रभश् चन्द्रप्रभो नाम राजा बभूव ।
श्रियम् अरिपुरनारीपद्मिनीनां हरन्ती सखिजनकुमुदानां ह्लादम् उत्पादयन्ती निशि मनुजपतीन्दोस् तस्य देहप्रभैव क्षपिततिमिरजाला दीपकार्यं चकार // HJm_5.2
तस्य च राज्ञो लोकोत्तरेयम् अखिलजनविस्मयकारिणी प्रतिज्ञाभूत् ।
यदि मां मृगयेत कश्चिद् अर्थी नयने प्राणनिबन्धनं शिरो वा भवभङ्गकरं पदं यियासुः प्रणयच्छेदम् अहं न तस्य कुर्याम् // HJm_5.3
बोधिसत्त्वस्य च दशशतवसोर् इवारुणः सततपुरःसरो ऽमात्यगणप्रधानो महाप्रज्ञो महाचन्द्रो नामामात्यो बभूव ।
परस्परगुणालापौ परस्परहितोन्मुखौ न कदाचिद् अभूतां तौ परस्परवियोगिनौ // HJm_5.4
अथ कदाचिन् महाचन्द्रो रात्रौ निद्रावशम् उपगतो दग्धपलाशराशिनीलपरुषच्छविभिर् अनलज्वालाकलापकपिलकेशश्मश्रुभिः केसरिनखरकुटिलतीक्ष्णकररुहैः सलिलाध्मातगुरुजलधरबृहत्कुक्षिभिर् अयःस्तम्भपीवरततभुजोरुभिः शशिकलाकुटिलदंष्ट्राविभक्तसृक्कान्तैः स्फुरदचिरप्रभाविजिह्मभ्रूभङ्गैः सरुधिरपुरुषचर्मावच्छादितकौपीनैर् यातुधानैः स्वप्ने तस्य नृपतेर् अपह्रियमाणं विगलितचूडामणिं मौलिम् अपश्यत् । प्रतिविबुध्य च विमनस्क एवम् अचिन्तयत् । अहो कटुविपाको ऽयं मया स्वप्नो दृष्टः । स्वामिनश् च नः प्रतिज्ञा शरीरम् अपि याचितेनार्थिने मया दातव्यम् इति । तद् यावत् तस्य नृपतेर् न कश्चिच् छिरो मृगयते तावद् अनेकानि रत्नमयानि शिरांसि शिल्पिभिः कारयामीति । तैर् एव कंचिच् छिरोयाचकं बहिर् एव प्रतिपूज्य विसर्जयिष्यामीति ।
भूपालः पृथिवीम् एनां पालयन् पालितेन्द्रियः कृतात्मा सुचिरं जीवञ् जीवयत्व् अखिलं जनम् // HJm_5.5
अथ महाचन्द्रो ऽमात्यमुख्यः शिरांसि रत्नमयानि कारयित्वा बहिर् एव याचनकजनं विचारयामास केनार्थ इति । ततो गन्धमादनपर्वते वानरानूकमुखः परिणतनालिकेलवल्कलपरुषविरलकेशश्मश्रुर् अकृतभ्रूकुटिर् अपि कृतभ्रूकुटिर् इव दग्धस्थूणासितकर्कशच्छविः प्रस्थितजलौकःकुटिलस्थूलसिराजालविषमजङ्घोरुभुजो भुजग इव प्रकृतिरौद्रो रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म । तस्य चिन्ता समभवत् । चन्द्रप्रभः किल राजा सर्वंददस् तद् गच्छामि तावत् तं राजानं शिरोयाचनेन व्यर्थप्रतिज्ञं करिष्यामीति । कस्य नामास्ति शिरःप्रदाने शक्तिर् इति विचिन्त्य क्रमेण भद्रशिलाम् आययौ ।
विचचाल ततः सभूधरा मुहुराघूर्णितसागरा धरा सरितो जलम् उद्धुराविलं चलपाठीनविकम्पितान्तरम् // HJm_5.6
न विरेजतुर् इन्दुभास्करौ रजसा धूसरदर्पणाकृती अभवन् ककुभः समन्ततो मलिनाः प्रोषितभर्तृका इव // HJm_5.7
अनृताव् अपि शाखिनाम् अभूत् कुसुमं पाण्डुपलाशकेसरम् ववुर् उद्धतपांसुसंचयाः शिखिलेशानुगता इवानिलाः // HJm_5.8
अभवत् सचराचरा धरा मलिनक्षामजनाकुलाकुला क्षणदा परिधूम्रतारका शशिनीवास्तसमीपम् आगते // HJm_5.9
वने ऽश्नतीनाम् अपि कोमलं तृणं क्षणाद् गवां क्षीरम् अगात् परिक्षयम् धवित्रधूतो ऽपि निवेशिताङ्गतिर् मखेषु जज्वाल न यज्वनां शिखी // HJm_5.10
अथ विविधान्य् अजन्यानि विलोक्य भद्रशिलानिवासी जनः किम् इदम् इति समाशङ्कमानः पर्याकुलताम् आजगाम । ये तु तत्र निपुणतरास् ते राज्ञो विनाशम् आसन्नम् उत्प्रेक्षमाणास् तुमुलमनसो भूत्वा परस्परम् एवम् ऊचुः ।
उत्पातजनितं कृच्छ्रं मा भूद् अस्य महीभुजः यस्याश्रित्य भुजच्छायां देहिनः शेरते सुखम् // HJm_5.11
अथ साश्रुलोचना नगरदेवता महाचन्द्रायामात्याय निवेदयामास । रौद्राक्षो नामायं ब्राह्मणो ऽस्य राज्ञः शिरो याचितुम् आगतस् तन् निवार्यतां केनचिद् उपायेनेति । अथामात्यस् तानि रत्नमयानि शिरांस्य् आनीय रौद्राक्षम् उवाच । महाब्राह्मण येनार्थस् तद् अहम् एव ते प्रतिपादयामि । किं भवतो राज्ञा दृष्टेन प्रयोजनम् इति ॥
भवति तनुधनाद् अपीष्टलाभो यदि पुरुषात् किम् अतो महाधनेन यदि गजपदमात्रखाततोयं हरति तृषं वद सागरेण को ऽर्थः // HJm_5.12
ब्राह्मण उवाच ।
न स्थूलक्षीरधाराः सितजलदरुचः प्रार्थये गाः सवत्साः किंचित्कर्णावधूतभ्रमदलिनिवहान् नैव मत्तद्विपेन्द्रान् नालंकारान् प्रसन्नस्फुटकिरणमणीन् नापि वासोविशेषान् याचे मूर्धानम् अस्माद् अहम् अवनिभुजः सर्वदो ऽयं किलेति // HJm_5.13
अमात्य उवाच ।
अमूनि ते रत्नमयानि साधो ददामि भक्तिप्रवणः शिरांसि न चेद् अमीभिस् तव कृत्यम् अस्ति मदीयम् अद्यैव शिरो गृहाण // HJm_5.14
स्वाम्यर्थं बिभ्रतः प्राणान् भृत्यस्य स्थिरचेतसः तद्धेतोः साधनीभूतास् ते चेन् ननु कृतार्थता // HJm_5.15
ब्राह्मण उवाच । किम् अनेन पुनरुक्तेन । अभिचारुके कर्मणि पृथिवीपतिशिरसा मम प्रयोजनम् । अथ चन्द्रप्रभो दिव्येन चक्षुषा तं शिरोयाचनकं बहिर् अवस्थितम् आलोक्य प्रियसुहृदम् इव प्रत्युद्गम्य तम् अमात्यमुख्यम् अभिहितवान् । अलम् अलम् अर्थिनः प्रणयम् उपहत्य । संसारसागरोत्तरणाय सेतुभूताः खलु बोधिसत्त्वानाम् अर्थिनः ।
उत्तितीर्षोर् उदन्वन्तं दूरपारं दुरुत्तरम् यो भिनत्ति प्लवं बद्धं कथं स सुहृद् उच्यताम् // HJm_5.16
तस्माद् धर्मसहायेन पुंसा धर्मानुवर्तिनः उत्साह एव कर्तव्यो धर्मविघ्नो न युज्यते // HJm_5.17
ईदृशो न भवेद् अर्थी यदि मोक्षस्य कारणम् बोधिसत्त्वस्य पूर्येत दानपारमिता कथम् // HJm_5.18
इत्य् उक्त्वा खड्गम् आकृष्य ब्राह्मणस्यार्पयन् नृपः मम च्छिन्धि शिरो विप्र प्रोक्तवान् इति चाव्यथः // HJm_5.19
क्व ब्राह्मणः क्व हृदयं करुणापरोक्षं चण्डालसंगतम् इवाहम् अनेन मन्ये यज्ञोपवीतम् इति तस्य चिरं विचिन्त्य विप्रस्य वक्षसि सलज्जम् इवावतस्थे // HJm_5.20
अथ स ब्राह्मण उवाच । नाहम् अमात्यसुहृद्बन्धुजनपरिवृतस्य भवतः शक्नोमि शिरश् छेत्तुम् । एकाकी भवान् भवितुम् अर्हतीति । ततः स राजा सशपथं विनिवर्त्य तं बाष्पसलिलपरिप्लुताक्षं जनसमूहं तेन निस्त्रिंशपाणिना ब्राह्मणेनानुगम्यमानो रत्नगर्भं नामोद्यानम् अगमत् । अथ महाचन्द्रो ऽमात्य इति परिदेवनापरिदीनाक्षरम् उवाच ।
अपगतशिरसं निरीक्षितुं मनुजपतिं बत को ऽद्य शक्ष्यति उपहतयजमानसत्क्रियं क्रतुम् इव पुण्यजनैर् उपप्लुतम् // HJm_5.21
इदम् अवनिभुजा विनाधुना पुरम् अतिदीनजनं न भास्यति भ्रमदलिकुलसंकुलं गजैः सलिलम् इवोद्धृतफुल्लपुष्करम् // HJm_5.22
तद् यावद् अस्य नृपतेर् न शृणोमि मृत्युं प्राणान् अहं प्रथमम् एव जहामि तावत् एवं विचिन्त्य स समाधिबलेन धीमान् स्वायंभुवीं गतिम् अगात् स्वतनुं विहाय // HJm_5.23
धन्यः स एव पुरुषः समवाप्य सौख्यं वृत्तं प्रकाश्य जगतीन्दुमरीचिशुभ्रम् प्राप्ताम् अवेक्ष्य सुहृदां महतीं विपत्तिं प्राप्नोति यः प्रथमम् एव शरीरभङ्गम् // HJm_5.24
अथ रत्नगर्भम् आक्रीडं प्रविष्टे राजनि महान् आक्रन्दशब्दो ऽन्तःपुरे समभूत् । प्रविश्य च तद् उद्यानं स ब्राह्मणस् तं राजानम् अवोचत् । एवम् अवस्थितस्य स्वस्थरूपस्य भवतो नाहम् असिं कण्ठे पातयितुं शक्नोमि । राजोवाच । ब्राह्मण ततो माम् अत्र सदापुष्पे चम्पकतरौ बधान । स च तथा ब्राह्मणः कृतवान् । अथोद्यानदेवतास् तं रौद्रकर्माणम् एवम् ऊचुः ।
निशितं वसुधाभर्तुर् असिं कथम् अनागसः अस्य नाम जगद्बन्धोस् त्वं कण्ठे पातयिष्यसि // HJm_5.25
अकारणक्रौर्यविरूक्षमानसः शिरो यदि च्छेत्स्यति भूपतेर् भवान् तवाप्य् अशन्या स्फुरितस्फुलिङ्गया शिरः करिष्याम इदं विजर्जरम् // HJm_5.26
अथ स राजा ताः प्रमदवनदेवताः सानुनयम् इति वारयामास । न खलु मम भवतीभिर् अनुत्तरां संयक्संबोधिं जिगमिषोर् महान् अन्तरायः करणीयः । अनुमोदनया हि पुण्याप्तिर् भवत्य् अतो ऽन्यथा कुशलपक्षहानिर् एव ।
अर्थिभ्यो याचमानेभ्यो दत्तानां शिरसां मया अमुना शिरसाद्येदं सहस्रं परिपूर्यते // HJm_5.27
इति बोधिसत्त्ववचनम् आकर्ण्य ता देवतास् ततः स्थानात् प्रतिजग्मुः । अथ स राजा प्रणिधिम् एवम् अकरोत् ।
शिरःप्रदानात् कुशलं यद् अस्माच् चिराय विस्मापितसर्वलोकात् अवाप्य बोधिं मम तेन शान्तौ भवेयुर् अस्थीनि तिलाणुकानि // HJm_5.28
अस्मिन् पुरे भद्रशिलाभिधाने शिरांसि दत्तानि मया च यस्मिन् स्थाने भवेत् तत्र मनोऽभिरामे स्तूपो महान् देहभृतां हिताय // HJm_5.29
इति कृतप्रणिधेर् वसुधापतेर् अकरुणः करुणामृदुचेतसः स भुजगद्युतिना सहसासिना कमलवन् मुखपङ्कजम् अच्छिनत् // HJm_5.30
छिन्ने ततः शिरसि भूमिपतेः क्षणेन निर्मुक्तफुल्लकुसुमाश्रुकणानुबद्धाः जघ्नुः स्वपल्लवकरैर् अनिलावधूतैर् आत्मानम् उत्सुकतयेव लतातरुण्यः // HJm_5.31
निर्भिन्नफेनवलयं पवनेन वाताव्यालोलवीचिभुजकम्पितपद्मवक्त्रम् तस्मिन्न् अभूद् उपवने नलिनीवधूनां वृन्दं सशोकम् इव षट्पदकूजितेन // HJm_5.32
दिष्टान्तं गतवति राज्ञि राजधानी निःश्रीकप्रचुरजनाकुला न रेजे निःशब्दस्तिमितशरारिचक्रवाका याते ऽस्तं दिवसकरे मृणालिनीव // HJm_5.33
अथ गतवति तस्मिन् भूभुजि ब्रह्मभूयं चलति जलधिवेला निस्वनाक्रन्दवत्याः रुदितम् इव पृथिव्या दूरम् उत्क्षिप्य तुङ्गौ कपिलधवलभासौ मेरुकैलासबाहू // HJm_5.34
स च ब्राह्मणस् तत्केशेषु शिरः समवलम्ब्य तस्माद् उपवनान् निर्गन्तुम् आरेभे । ततो भद्रशिलानिवासी जनः शोकवशाद् एवम् उवाच ।
सिंहासनस्थस्य नृपस्य भृत्यैर् यद् उन्मुखैर् दृष्टम् उदीर्णहर्षैः तन् नीयते म्लानसरोरुहाभं द्विजेन केशेषु शिरो गृहीतम् // HJm_5.35
अपि च ।
यः पूर्वाचलसंस्थितस्य शशिनः शोभां वहन् भूयसीं दृष्टः सादरम् उन्मुखैः करिवरस्कन्धस्थितो राजभिः कण्ठच्छेदविसारिसान्द्ररुधिरव्यादिग्धवक्षःस्थलः श्येनैः सो ऽयम् अधोमुखैः क्षितिपतिर् भ्राम्यद्भिर् आलोक्यते // HJm_5.36
दीनाश् चितां सुमहतीं सचिवा रुदन्तः कर्पूरचन्दनतुरुष्कवतीं विधाय तस्मिन् निवेश्य नृपतिं व्यजनानिलेन मन्त्रैर् हुतं हुतवहं ज्वलयां बभूवुः // HJm_5.37
अथ तां ज्वलन्तीं चिताम् आलोक्य परिदेवमानः स जनकाय एवम् अवोचत्। अहो भगवत्य् अनित्यता नाम निर्विशेषा ।
मन्दं दत्तविलेपना शशभृतः कान्तिं हरन्ती पुरा या स्पृष्टा प्रमदाङ्गुलीकिसलयैर् गोरोचनाधारिभिः सेयं पातितवासवध्वजनिभा राज्ञः शमालम्बिनी लोलाभिः परिमृश्यते हुतवहज्वालाङ्गुलीभिस् तनुः // HJm_5.38
तद् एवं स्वशिरःपरित्यागो ऽप्य् अस्खलितमनसा बोधिसत्त्वभूतेन भगवता कृत इति विचिन्त्य बोधिम् इच्छतान्येनापि त्यागपरायणेन साधुना भवितव्यम् इति ।
आचख्यौ भगवांश् चेदम् अर्हताम् अर्हतां वरः जातकं जितसंसारमहादुःखपरंपरः // HJm_5.39
तदा चन्द्रप्रभो नाम बभूवाहं महीपतिः अमात्यः शारिपुत्रो ऽभूद् देवदत्तश् च स द्विजः // HJm_5.40
॥ चन्द्रप्रभजातकम् पञ्चमम् ॥
6. रूप्यावती
स्त्रीत्वे ऽपि बोधिसत्त्वश् छित्त्वा मांसं ददौ निजाद् देहात् / किम् उताधिकसत्त्वबले परार्थकुशले मनुष्यत्वे // HJm_6.1*
तद्यथानुश्रूयते विविधोपवनश्यामपर्यन्ता धनदायमानवणिग्जनपरिपूर्णविपणिमार्गा गान्धारविषयतिलकभूता विभूषणम् इव क्षितेर् उत्पलावती नाम राजधानी येयं पुष्कलावतीत्य् अधुना ख्याता । तस्यां च बोधिसत्त्वः प्रथमयौवनोपचीयमानकान्तिलावण्यशोभा देवतेव स्वभवनस्य रूप्यावती नाम स्त्री बभूव ।
उपशान्ततया परोपकारप्रतिपत्त्या मनसश् च पाटवेन अतिविस्मयकारिणी जनानां करुणा मूर्तिमतीव सा बभासे // HJm_6.2
अथ कदाचित् तत्र देशे कुशलमूलक्षयात् परिक्षीणकोशकोष्ठागारावलोकनपरिदीनजनम् अरुणसारथिकिरणसंतापविलीनसावशेषहिमगिरितुहिनम् अतुहिनतया परिशुष्यत्सरित्सलिलम् असलिलतया च परिम्लानकेदारं तदवलोकनविषण्णकृषीवलजनम् अपरिपूर्णातिथिमनोरथम् अतिदुर्बलगोपालानुगम्यमानपरेतावशेषविरलगोगणम् आहारपरायणदरिद्रजनम् असज्जनसंगतम् इव पीडाकरम् अतिमहद् दुर्भिक्षम् अभवत् ।
विनिमग्नमनोज्ञचूचुकाः शुचिचामीकरकुम्भसंनिभाः कठिनत्वम् अनन्धसां जहुः प्रमदानां गुरवः पयोधराः // HJm_6.3
परिहीनमृजासु बिभ्रतीष्व् अधिकं बाहुलतासु तानवम् अगमन् परिदीनचक्षुषां शिथिलत्वं वलयानि योषिताम् // HJm_6.4
परिरूक्षशिरोरुहाकुलानि क्षणदाभङ्गशशाङ्कधूसराणि वदनानि बभूवुर् अङ्गनानां विगतभ्रूललितस्मितोदयानि // HJm_6.5
उपलिप्य मृदा गृहान्तरालं शिशवे पर्युषितं प्रदाय भोज्यम् गृहिणी न तथात्मनानुतेपे गृहिणं वीक्ष्य यथा क्षुधावसन्नम् // HJm_6.6
मृतवत्सतया निरस्तचारी कवलव्याहृतिकम्पमानसास्ना गृहिणीं गृहम् आगता वनाद् गौर् अधिकं साश्रुविलोचनां चकार // HJm_6.7
परिदुर्बलतां क्रमाद् गतानाम् अतृणाहारतया शनैर्गतीनाम् अधिकं शिथिलत्वम् आगतेषु क्षयम् ऊधःसु गवां पयो जगाम // HJm_6.8
आदश्य किंचिद् अधरं परिदुर्बलेन लाङ्गूलमूलम् अवलम्ब्य समाकुलेन उच्चिक्षिपे कथम् अपि प्रकटास्थिसंधिर् गोपालकेन जरती सुरभिः कृशाङ्गी // HJm_6.9
क्षीणान्नपानो मृतगोधनो ऽपि पटच्चरप्रावृतपाण्डुगात्रः जनो न तस्मिन् विषये विमोक्तुं गृहान् निवासोपहतः शशाक // HJm_6.10
अथ रूप्यावती क्वचिद् अवचरके प्रसूतिवशाद् अधिकतरप्रज्वलितक्षुदग्निसंतापितशरीरां निम्नतरकपोलनयनकुक्षिरन्ध्राम् अभिव्यक्तपर्शुकापङ्क्तिम् अतिमलिनजर्जरवसनसंवृताङ्गीम् आत्मस्नेहगौरवाद् अपेततनयस्नेहां तद् एवापत्यं जिघांसन्तीं कांचित् सैरन्ध्रीम् अपश्यत् । आलोक्य च ताम् उक्तवती । भगिनि किम् इदम् अतिनृशंसं कर्म कर्तुकामासीति । सा योषिद् एवम् अचिन्तयत् । इयं खलु रूप्यावती दानशीला करुणावती च । ततो यद्य् अहम् अस्याः कथयेयम् इमं वृत्तान्तं नियतम् एषा मम क्षुत्प्रतीकारं कुर्याद् इति विचिन्त्योवाच । भगिनि बाढम् अस्मि प्रसवाभिवृद्धेन क्षुदग्निना परिगतशरीरा । तद् इच्छामि पुत्रकम् इमं भक्षयितुम् इति ।
सुतम् अप्य् औरसं नाम द्विषन्तम् इव पश्यताम् आत्मस्नेहो हि सत्त्वानां धर्माधर्मौ न पश्यति // HJm_6.11
अथ रूप्यावती करुणाप्रवर्तितबाष्पाविललोचनोत्पला तां स्त्रियम् इति बभाषे ।
करुणरोदनमात्रविभावितव्यथम् इमं कुटिलाकुलकेशकम् अकरुणे कथम् अत्स्यसि बालकं हरिणशावमनोहरनेत्रकम् // HJm_6.12
द्रुतगतिप्रचलोच्चशिखण्डके क्षितिरजःपरुषेक्षणपक्ष्मणि परसुते ऽपि शिशौ मृदुचेतसां भवति वत्सलता खलु योषिताम् // HJm_6.13
हसितविस्फुरिताधरपल्लवं कृतविशेषकम् आयतलोचनम् कथम् इदं स्खलिताकुलसंकथं सुतमुखं न निरीक्षितुम् इच्छसि // HJm_6.14
कुर्वन्तम् अश्वगमनाभिनयं शिशुत्वाद् दण्डाश्वकस्थमलिनाकुलकाकपक्षम् हासस्फुरद्दशनकुड्मलपङ्क्तिशोभं का योषिद् इच्छति विलोकयितुं न पुत्रम् // HJm_6.15
व्याकोशतुण्डकम् उदाननवीक्षमाणम् आहारकाङ्क्षिणम् उदीरितरूक्षशब्दम् पुष्णाति शावम् अनुगामिनम् आदरेण काकी क्षुधा परिगतापि सती किम् उ स्त्री // HJm_6.16
अपि च । कदाचिद् अयं जनः श्रुत्वा कोपवशाद् इयं सा पुत्रघातिनीति पिशाचीम् इव भवतीम् अस्माद् देशान् निर्वासयेत् ततो विरम्यताम् अस्मात् साहसाद् इति ।
मृगशावम् इव व्याघ्री भक्षयित्वेमम् अर्भकम् कथं प्रज्वलितान् पापे भक्षयिष्यस्य् अयोगुडान् // HJm_6.17
सा प्रोवाच । किं करवाणि भगिनि यन् न शक्नोमि सोढुम् एनं सर्वाङ्गीणं क्षुदग्निम् इति । अथ रूप्यावतीत्थम् अचिन्तयत् । यदि नामाहम् एनं बालकम् आदाय यास्यामि नियतम् एषा प्राणवियोगम् एष्यति । अथास्याः क्षुत्प्रतीकारार्थम् अन्नम् अतिचिराद् आनेष्यामि तत एषा पुत्रकम् इमं प्राणैर् वियोजयिष्यति ।
कालातीतं निष्फलं कर्म कुर्वन् मोहाल् लोकः केवलं खेदम् एति वोढुं युक्तं तावद् एवातपत्रं तिग्मज्योतिर् यावद् अस्तं न याति // HJm_6.18
तद् इदम् अत्र प्राप्तकालं स्वमांसेनैनां प्रीणयिष्यामीति ॥
असारात् सारम् आदेयं शरीरात् पातुकाद् इतः स्रोतोभिन्नचलन्मूलात् फलं तटतरोर् इव // HJm_6.19
ततः सा योषित् पुनर् उवाच । भगिनि गम्यतां नाहं तव पुरस्ताद् इमं बालकं प्रमापयितुं शक्नोमि । अथ रूप्यावती ताम् अवोचत् । आनीयतां तावद् यदि ते किंचिद् अत्र शस्त्रम् अस्ति । सा च रूप्यावत्याः शस्त्रम् अर्पयामास ।
छित्त्वा ततः स्तनयुगं निशितेन तेन शस्त्रेण हेमकलशाकृति वान्तरक्तम् तस्यै ददौ युवतये क्षुदुपप्लुतायै रूप्यावती स्वतनुदुःखम् अचिन्तयन्ती // HJm_6.20
हरन्ति प्राणिनां दुःखम् आत्मदुःखानपेक्षिणः परदुःखेन बाध्यन्ते न स्वदुःखेन ते यतः // HJm_6.21
तच् च स्तनयुगं तस्यै योषिते प्रदाय रूप्यावती स्वभवनान्तरं प्रविवेश ।
स्तनद्वयच्छेदविसारिशोणितप्रदिग्धहाराम्बरमेखलागुणा वपुष्मती लोहितचन्दनार्चिता बभूव हेमप्रतिमेव साङ्गना // HJm_6.22
अथ रूप्यावतीं भर्ता ससंभ्रमम् उत्थायासनात् पप्रच्छ ।
केनेदं तव कल्याणम् अकल्याणेन सुन्दरि शरीरं राक्षसेनेव कृतं कृत्तपयोधरम् // HJm_6.23
सा तं वृत्तान्तं पत्ये निवेद्य पुनर् उवाच । शीघ्रम् आर्यपुत्रस् तस्यै प्रसवाभिवर्धितक्षुदग्नये योषिते दातुम् अर्हत्य् अन्नपानम् इति । स च रूप्यावतीभर्ता विस्मितमनास् तथेत्य् अभिधाय ।
सुस्वादु सर्वपात्रीणं करुणापात्रभूतया तयोक्तं प्राहिणोद् अन्नं तस्यै दुर्गतयोषिते // HJm_6.24
अथ सा जनतालोक्य रूप्यावत्यास् तद् अद्भुतम् विस्मयाच् चालयामास मुहुर् अङ्गुलिपल्लवान् // HJm_6.25
इदं चाभिदधौ लोकस् तां तवानेन कर्मणा त्यागे प्रोत्साहितं नूनं चेतो मत्सरिणाम् अपि // HJm_6.26
दानपारमिता यासौ श्रूयते बोधिम् इच्छताम् सा त्वं लोकोपकाराय ध्रुवं मूर्तिमती स्थिता // HJm_6.27
स्त्रीत्वं क्वेदं बुद्धिर् एषा क्व तीक्ष्णा क्वायं त्यागः सौकुमार्यं क्व चेदम् अस्याः साध्व्याः सर्वदानातिगेन त्यागेनान्ये ह्रेपितास् त्यागवन्तः // HJm_6.28
अथ रूप्यावत्या भर्ता सत्याधिष्ठानम् इति चकार ।
यथा नान्यस्य पुंसो ऽपि श्रूयते दानम् ईदृशम् तथा तेनाशु सत्येन स्तां मे पत्न्याः पयोधरौ // HJm_6.29
इत्य् उक्ते गृहिणा तेन सत्याधिष्ठानकारिणा स्तनभारालसं तस्या वक्षः पुनर् अजायत // HJm_6.30
लोकस्य दानसलिलेन तृषं हरन्ती दन्तांशुकेसरमनोहरवक्त्रपद्मा तस्मिन् पुरे गुरुपयोधरचक्रवाका रूप्यावतीकमलिनी पुनर् आबभासे // HJm_6.31
अथ सुरपतिः किं पुनर् अनेन सर्वलोकत्यागातिशायिना त्यागेन रूप्यावती माम् अमरपुरात् प्रच्याव्य स्वयम् एव देवाधिपत्यं कर्तुकामा स्याद् इति विचिन्त्य साशङ्कमनास् तस्यास् तं भावं जिज्ञासमानः प्रसारितजलधरपटलाभिनीलम् अन्तरीक्षम् अवगाह्योत्पलावतीं राजधानीम् अवतीर्य मृणालसूत्रधवलयज्ञोपवीताभ्यलंकृतवक्षःस्थलं कण्ठेगुणीकृताक्षमालम् अबलानयनशबलकृष्णाजिनतिरस्कृतस्कन्धैकदेशं दक्षिणकरविन्यस्तपल्लवपुटकं द्विजातिरूपम् अभिनिर्माय भिक्षार्थी नाम रूप्यावत्या भवनम् आगमत् । अथ रूप्यावती विविधं भक्ष्यभोज्यम् आदाय शक्राय द्विजातिमूर्तये प्रायच्छत् । प्रस्तावपूर्वकं चैनां सुरपतिर् उवाच ।
तव स्तनपरित्यागसंभूतेन विसारिणा शङ्खच्छेदावदातेन यशसालंकृतं जगत् // HJm_6.32
किम् ऐन्द्रम् अमुना स्थानं तपसा विजिगीषसे कुतूहलवशाद् भद्रे पृच्छामि भवतीम् अहम् // HJm_6.33
आचख्ये सुरपतये ऽथ सा यथावद् वाञ्छामि त्रिभुवनशान्तये जिनत्वम् एतेन द्विज मम सूनृतेन सद्यः पुंभावो जगति गुणाश्रयस् तथास्तु // HJm_6.34
इत्य् उक्ते वचसि जगाम सा नरत्वं शक्रो ऽपि स्वपुरम् अगात् प्रतीतचेताः निर्वृत्तं जगति तद् अद्भुतं विदित्वा लोकश् च स्थिरतरनिश्चयो बभूव // HJm_6.35
श्मश्रूद्गमं प्रविरलाञ्जनचूर्णनीलम् आविर्भवन्तम् अवलोक्य तदाननेन्दौ सद्यः पयोधरयुगं गजकुम्भपीनम् अन्तर्दधे पृथुनि वक्षसि लज्जयेव // HJm_6.36
बोधिसत्त्वस्य च रूप्यावत इति लोके नाम प्रख्यातिम् अगात् । अथोत्पलावत्यां राजधान्यां कदाचिद् अपुत्रो राजा पञ्चत्वम् उपजगाम । कालगते च तस्मिन् राजनि राहुगृहीतरजनिकरेव निशीथिनी सा पुरी न रराज । राजविनाशाभिवृद्धशोकाश् चामात्याः केषुचिद् अहःस्व् अतीतेषु शुद्धान्तजनम् आश्वास्य पौरवर्गम् एवम् ऊचुः । अनायकत्वाद् अयं देशः कदाचिद् अरातिभिर् आगत्य निःस्वापतेयः क्रियेत । प्रदीप्तगृहनिर्वापणाय कूपखननम् इव चातीतकालम् आयासहेतुर् एव च नः समीहितं स्याद् इति । तद् इदम् अत्र प्राप्तकालम् अयं रूप्यावतः कुमारः सकलराजलक्षणोपेत आभिगामिकगुणसंपन्नश् च तद् इमम् एवाधिपत्यायाभिषेक्ष्याम इति ।
तस्याभिषेकम् अथ चक्रुर् उदीर्णहर्षाः पौराः परोपकृतितत्परमानसस्य सार्धं च चामरयुगेन मनोऽभिरामम् उच्चिक्षिपे परिजनेन सितातपत्रम् // HJm_6.37
तच् चक्रिरे विपणितोरणबद्धमालं शैलालिनाम् अभिनयेन मनोऽभिरामम् गन्धाम्बुसेकसुरभीकृतमार्गरथ्यं पौराः कुबेरभवनेन पुरं समानम् // HJm_6.38
काले जलं जलधराः प्रददुः प्रकामम् ईतिः कदाचिद् अपि न व्यसनं चकार तत्र प्रशासति नयेन महीं महीशे शुश्राव दुःखम् इति नैव जनः कदाचित् // HJm_6.39
कृष्या विना बहुफलः कलमो बभूव वृक्षाः सदा कुसुमभूरिफला बभूवुः तस्मिन् सुराजनि पृथाव् इव पाति राज्यम् उस्राः स्वयं दुदुहिरे ऽतनुदुग्धधाराः // HJm_6.40
अच्छिन्नदानपरिपूर्णमनोरथेन शक्तित्रयोदयवता विजितेन्द्रियेण नानागुणाभरणभूषितविग्रहेण राजन्वती क्षितिर् अभूत् क्षितिपेन तेन // HJm_6.41
आरुह्य सो 'थ मणिचारु नरेन्द्रसिंहः सिंहासनं नृपनमस्कृतपादपद्मः पद्मानुकारिवदनः प्रविवेकधर्मो धर्मं दिदेश परमार्थफलं जनाय // HJm_6.42
दानस्य पश्यत विपाकमहत्त्वम् एतद् अत्रैव मे युवतिताम् अपनीय येन उद्भावितं प्रथितजन्मफलं त्रिवर्गं लोकाधिपत्यरमणीयम् इदं नरत्वम् // HJm_6.43
दानद्रुमात् कुसुममात्रम् इदं प्रसूतम् अन्यद् भविष्यति फलं विपुलं परत्र एतद् विचार्य बहुधार्थिवसुन्धरायां शीलामलान् अखिलदाननिधीन् निधत्त // HJm_6.44
न स्युर् गुणपयःसिक्ता यद्य् अर्थिक्षेत्रभूमयः दाता दानफलाकाङ्क्षी दानबीजं क्व रोपयेत् // HJm_6.45
बन्धुभ्यो ये ऽतिरिच्यन्ते कीर्तिपुण्यप्रदायिनः त्रासयेत् को ऽर्थिनः प्राज्ञो भ्रूभङ्गभुजगेन तान् // HJm_6.46
एकः प्राह गिरं मुहुः स्तुतिमतीम् एकस् तु रूक्षाक्षराम् एकः सादरम् ईक्षते धनमदात् सावज्ञम् एवापरः एकः साधु ददाति पुण्ययशसी वस्त्व् एकम् एवापरो दूरं मां प्रति याचिता विजयते दातारम् एभिर् गुणैः // HJm_6.47
दिशः कर्तव्याश् चेद् गुणकुसुममालासुरभयः पुनर् भोक्तुं हृद्यं फलम् अतनु वाञ्छास्ति यदि वा अतः संरोप्यन्तां प्रणयिजनभूमाव् उदयिनो महाकीर्तिच्छायाः प्रतिदिवसम् एवार्थतरवः // HJm_6.48
वर्षाणि षष्टिम् अथ लोकम् अनुप्रविश्य कृत्वार्थिनां गुणवतां च सुखान्य् अभीक्ष्णम् कीर्त्या दिशः कुमुदपाण्डुरयावभास्य जन्मान्तरं गुरुबलः स नृपो जगाम // HJm_6.49
तद् एवं स्त्रीत्वे ऽपि तेन भगवता स्वमांसानि दत्तानि को नाम मनुष्यभूतो बाह्ये वस्तुन्य् अपेक्षां कुर्याद् इति त्यागिजनप्रोत्साहनाय वर्णनीयम् इति ।
॥ रूप्यावतीजातकं षष्ठम् ॥
7 श्रेष्ठिजातकम्
बहिरङ्गम् अपि द्रव्यं कृच्छ्राद् गुणिने ऽपि दीयते नीचैः / प्रियम् अपि देहं सन्तस् तिर्यग्भ्यो पि प्रयच्छन्ति // HJm_7.1*
तद्यथानुश्रूयते श्रूयमाणमनोहरायां दृश्यमानविस्मयकरायाम् उत्तरापथसारभूतायां विकसितकमलोत्पलवनाभ्यलङ्कृतोपवनायां पवनविधूयमानसुरगोष्ठध्वजपताकायां उत्पलावत्यां राजधान्यां बोधिसत्त्वो ऽन्यतमद् अमरपुरम् इव पारिजात उत्पद्यमानः श्रेष्ठिकुलम् अशोभयत् । अथ श्रेष्ठी प्रधानपुत्रजन्मलब्धप्रमोदः प्रवृत्तचित्रोत्सवविशेषे विविधातोद्यध्वनिश्रवणप्रनृत्तमयूराभ्यलङ्कृताजिरे बलिसखमधुपरिस्रवन्मदाभिरज्यमानयुवतिकपोले मणितोरणावबध्यमानविविधसुरभिस्रजि प्रियाख्यानप्रतीतपरिजने स्वभवने समन्वितसुहृद्बन्धुवर्गे महद् अर्थिभ्यो विश्राणनम् अदात् ।
श्रेष्ठ्यात्मजस्य प्रभया हिमांशोर् अहारि कान्तिः परितः स्फुरन्त्या यतस् ततो ऽस्य स्वजनो ऽनुरूपं चकार चन्द्रप्रभ एव नाम // HJm_7.2
तं च पिता बालशशिनम् इव प्रतिदिवसम् उपचीयमानकान्तिशोभम् अन्यतमस्मै श्रुतशीलादिगुणप्रकाशनाम्ने शास्त्रकाव्यकलाग्रहणाय गुरवे निवेदयाम् आस ।
तदन्तेवासिनो सो ऽथ मेधया च श्रुतेन च नाचिरेणैव कालेन विजिग्ये विजितेन्द्रियः // HJm_7.3
तस्य मेधां समालोक्य सर्वशिष्यातिशायिनीम् साधुवादपरः प्रश्ने गुरुर् आसीत् सविस्मयः // HJm_7.4
भिन्नान्धकारपटला प्रकाशितपथापथा विद्या तत्राधिकं रेजे ज्योत्स्नेव कुमुदाकरे // HJm_7.5
दिव्येन चक्षुषा दृष्ट्वा यं यं निधिम् अवाप सः प्रायच्छत् प्राप्तकल्याणो निःशेषं तं तम् अर्थिने // HJm_7.6
स्वसत्त्वसदृशं तेन तथा दानम् अदीयत नाश्रूयन्त यथा वाचो देहीति पुनर् अर्थिनाम् // HJm_7.7
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
