Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35

Tác giả
हरिभट्ट
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ तस्य गुरोस् तानि पञ्चमात्राणि शिष्यशतानि चन्द्रप्रभम् एवम् ऊचुः । अहो प्रणयिनाम् उपरि भवतो महतीम् अनुकम्पां मन्यामहे । यदि कश् चिद् अर्थी भवन्तम् असून् अपि मृगयते नियमेन तान् तस्मिन् भवान् प्रयच्छेद् इति । बोधिसत्त्व उवाच । मा मैवं याचनक एव दातारम् अनुकम्पया विशिनष्टि कुतः ।

पात्रीकृत्य य आत्मानं दातृश्रेयोविधित्सया सहते प्रार्थनादुःखं तादृङ् नास्त्य् अनुकम्पकः // HJm_7.8

कीर्तिम् अत्र फलं प्रेत्य द्वयम् अर्थी प्रयच्छति धनमात्रम् अदात् तस्मात् प्रदातुः स विशिष्यते // HJm_7.9

देहीति निगदन्न् अर्थी लघुर् इत्य् अभिधीयते नास्तीति निगदन् दाता ततो लघुतरो ननु // HJm_7.10

यात्यन्तम् उपकाराय दातुः कल्पलतायते प्रकाशितफलश्लाघ्या सा लघ्वी कथम् अर्थिता // HJm_7.11

यदि न स्युर् अमी जगद्विभूत्यै परितः पुण्यपयःसृजो ऽर्थिमेघाः न हि दातृपयोधयो भवेयुर् गुणमुक्तागुरुकीर्तिकुक्षिभाजः // HJm_7.12

ततस् ते शिष्याः पुनर् अपि बोधिसत्त्वं पप्रच्छुः । कथ्यतां तावत् किम् अनेन महाप्रदानफलेन शातक्रतवीं श्रियम् इच्छति भवान् उत चक्रवर्तित्वम् इति । बोधिसत्त्व उवाच । न खलु मे प्रकृतिभङ्गुरं पदम् अभिलषति बुद्धिः । पश्यन्तु भवन्तः ।

यद् यद् भवपटमध्ये रूपं संस्कारशिल्पिभिः क्रियते / उन्मार्ष्टि तत् तद् एषा क्रुद्धेवानित्यता चपला // HJm_7.13*

अध्यासितं सुकृतिभिः कामद्वेषपराङ्मुखैः भवाग्रम् अपि नागम्यं कृतान्तस्य दुरात्मनः // HJm_7.14

क्षीयते पाल्यमानापि प्राणिनाम् आयुषः स्थितिः चित्रकर्मणि विन्यस्ता वर्तिकेव क्षणे क्षणे // HJm_7.15

नचिरं दीप्यते लक्ष्मीः प्राप्य क्रूराम् अनित्यताम् चतुष्पथप्रदीपस्य शिखेव पवनाहता // HJm_7.16

मूढाः सिंहीम् इवोद्विग्नाः के चित् पश्यन्त्य् अनित्यताम् ताम् एवान्ये कृतधियः सृगालीम् इव निर्भयाः // HJm_7.17

न दुनोति मनो मृत्युः कृतपुण्यस्य धीमतः वितपत्य् अध्वगं नार्कश् छत्रच्छायातिरस्कृतम् // HJm_7.18

मदमानतमोनिमित्तम् एते कुपितव्यालदुरासदाः सदैव विभवाः क्षणवर्तिनः प्रजानाम् अनुबन्धा इव शब्दशास्त्रभाजः // HJm_7.19

जगद् इति सचराचरं विदित्वा सलिलरयाहतफेनराशिकं तु अपगतमदमानमोहजालाः सपदि घटध्वम् अजन्मने पुमांसः // HJm_7.20

ततो ऽहम् अत्यन्तम् एव लोकदुःखक्षयायानुत्तरां सम्यक्संबोधिम् इच्छामीति । अथ ते शिष्याः प्रमुदितमनसः पुनर् एवम् ऊचुः । किं बहुनाभिहितेन ।

भ्रूमध्यस्थं स्फुरितकिरणं बिभ्रद् ऊर्णाशशाङ्कं संतन्वानं विजिततमसाम् मण्डलं दीधितीनाम् उत्पश्यामस् तव गुणमहत् सौगतं भावि रूपं हेमच्छेदद्युति तनुभृतां मुक्तिमार्गप्रकाशि // HJm_7.21

सर्वथा वयम् अपि प्राप्तसंबोधेस् तव शिष्या भवेम इति । बोधिसत्व उवाच ॥

अरण्यानीं बहुव्यालां निस्तितीर्षन् प्रयत्नवान् गन्तुकामः शिवं स्थानं को वा नेच्छत्य् अनुप्लवान् // HJm_7.22

प्रपन्नो ऽस्माकम् अनेन महात्मनामृतसंविभाग इति विचिन्त्य जातप्रीतिषु गतेषु शिष्येषु स्वान् आलयान् कदा चिद् उपगह्वरगतो बोधिसत्त्व एवं चिन्तयाम् आस । कृतः खलु मयालमर्थो ऽर्थिजन इदानीं स्वमांसशोणितेन तिरश्चः प्रीणयामीति विचिन्त्य शस्त्रम् आदाय मधुसर्पिषी च बन्धूनाम् अकथयित्वा माहारजनवसनानुरूपसंध्यायवनिकातिरस्कृतायाम् अपरस्याम् आशायां घनीभवत्तिमिरतिरोधीयमानायां जगत्यां भवनान्तरज्वाल्यमानप्रदीपप्रभासंपर्काद् द्विगुणमुखशोभेषु तरुणीजनेषु गृहीतविशेषमण्डनासु सललितभ्रूलेखोत्क्षेपावलोकनहसितविलासबडिशाकृष्टकामिजनहृदयमीनासु गणिकासु सखीजनदीयमानसंदेशश्रवणावहितनिश्चलनयनासु शम्भलीषु प्रियजनसंकेतसमुत्सुकासु तिलकावलोकनकुतूहलाद् दर्पणतलविन्यस्तदृष्टिषु कामिनीषु ट्ल्̃श्रूयमाणक्षीरधाराशब्दासु गोपिनीरुद्धवत्सोल्लेहनचलितकिङ्किणीसास्नासु वत्सतरीषु चत्वरोपविष्टरोमन्थनसुखविनिमीलितनयनैर् विपणिवृषभैः संरुद्धमार्गेषु नगररथ्यान्तरेषु समदहलधरकपोलाभिपाटलरागे पूर्वाचलशिखरम् अधितस्थुषि शशलक्ष्मणि कुमुदवनप्रबोधगन्धाधिवासितपवने प्राप्ते प्रदोषसमये ऽद्यतमङ्गतभर्तृकाकेशपाशपरुषधूमधूसरीकृतविविधपादपम् उन्मुखपापजम्बुकीविरावविवृतवदनविवरविनिःसृतहुतवहावभासप्रकाशीकृतशूलप्रोतपुरुषस्कन्धनिलीनपिशिताध्मातनिश्चलगृध्रभासकङ्कम् अतिरौद्रलामागणावकृष्यमाणार्धदग्धचितामध्यस्थितपुरुषकडेवरं क्व चिन् निशाचरोपयुज्यमानमानुषपिशितशब्दश्रवणविगलितभूतगणमुखलालालवम् अन्यत्र

डाकिनीकरावलम्बितकर्तनीविच्छिद्यमानपुरुषसक्थिविगलितरुधिरधारासंसिक्तभूतलम् अनिभृतहुतवहज्वालाङ्गुलीसंतर्जनाद् इवापसृतमहान्धकारं क्व चिद् अभिनवकुमुदावदातपरिपाण्डुशिरःकपालतरलम् अन्यत्र श्माशानिकभिक्षुसमालोक्यमानप्रमदाकडेवरावलग्नगोमायुगणं क्व चिद् दिव्यावादिकालिखितमण्डलपर्यन्तस्थितदिक्पालविकोशीकृतविमलनिस्त्रिंशसंक्रान्तस्फुरितहुताशनप्रतिबिम्बाभीलदर्शनं महाश्मशानम् आजगाम । मैत्रीमन्त्रकृतशरीररक्षं च बोधिसत्त्वं न तत्र रक्षोऽङ्गनाजनश् छलयितुं शशाक । स च महात्मा श्मशानैकदेशे मृगधूर्तकाकार्षणविचलितप्रकाशोदरान्त्रजालक्रव्यवृक्कापर्शुकासंधिम् अनिलोद्धूतचिताभस्मकणपरिपाण्डुरीकृतव्याकुलकेशपाशां श्येनापहृताधरतया विभाव्यमानविकृतदशनमालाम् उपरतां प्रमदाम् आलोक्य संविग्नमनास् तद्गतस्तिमितदृष्टिर् इदम् अवोचत् । अहो रागिणाम् अदूरदर्शिनी बुद्धिर् येषाम् ईदृशे ऽपि वैराग्यहेतौ स्त्रीकडेवरे रागोत्पत्तिर् भवतीति ।

मनोहरे यत्र विनिश्चलेक्षणे प्रियेण सिन्दूरविशेषकः कृतः इहाद्य तत्रैव विलासिनीमुखे मुहुः शृगालेन पदं निधीयते // HJm_7.23

स्मितेन ये किं चिद् उदीरितत्विषो मनो हरन्ति स्म जनस्य रागिणः श्ववायसालुप्तविजर्जराधरास् त एव दन्ता विकृतत्वम् आगताः // HJm_7.24

अगान् मुदं ये दयितो विलोकयन् सषट्पदाम्भोजपलाशचारुणी कृते खगैस् ते हृतमांसशोणिते विलोचने व्यालबिलानुकारिणी // HJm_7.25

चिराय यौ पल्लवकोमलच्छवी सपत्त्रलेखाव् अकरोत् सखीजनः कपोलयोर् अस्थ्यवशेषयोस् तयोः क्व सा गताद्यैव मधूकपाण्डुता // HJm_7.26

स्पृष्टं प्रियेण सुखकुञ्चितलोचनायाः संजातरोमपिटकं यद् अभूत् तरुण्याः एतत्(?)पयोधरयुगं रुधिराभिताम्रैस् तत् सारमेयदशनैः परिभिद्यते ऽद्य // HJm_7.27

कान्तो ऽंसदेशगलिताकुलकेशपुष्पाम् आलिङ्ग्य यां सुखम् अशेत निमीलिताक्षीम् किं तां श्मशानवसुधाशयने शयानां नाश्लिष्यति प्रियतमां सहसा समेत्य // HJm_7.28

स्नाय्वस्थिमांसरुधिरान्त्रमये कुपिण्डे (?) स्त्रीसंज्ञके प्रचुरदोषभुजङ्गकीर्णे अस्मिन्न् अभूतपरिकल्पहतो जनो ऽयं वैराग्यवस्तुनि वृथा खलु रागम् एति // HJm_7.29

ते तीक्ष्णदुर्जननिकारशरैर् न विद्धा धीरास् त एव शमसौख्यभुजस् त एव सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु // HJm_7.30

अथ तत्राभ्युच्छ्रितधूमराशियूपे मानुषवसोपायनाहुतिनिपातजनितज्वालिताङ्गारच्छीकारशब्दे प्रारब्धभण्डकाविरावाभिचारुकमन्त्रकर्मणि श्मशानाध्वरे निशितेन शस्त्रेणाङ्गानि परितक्ष्य मधुघृताभ्याम् अभ्यज्य

स्रवत्कीलालधारार्द्रं भुज्यमानं पिपीलिकैः आत्मानम् आत्मनैवासौ निनाय पशुतां प्रभुः // HJm_7.31

तत्र च कलङ्कपरुषपिण्डितसंनाहमलिनच्छविः करिरुधिरोपदिग्धमृगपतिनखरकुटिलरक्ततीक्ष्णतुण्डः कुपितभुजगनयनसदृशविलोचनो लोहकन्धुवापरुषनखरः खरविरसध्वानसंत्रासितान्यपक्षिगणः कठिनपक्षशब्दसंसूच्यमानगतिर् उच्चङ्गमो नाम पक्षी ।

स्कन्धं स तस्य विहगः सहसाधिरुह्य स्थाणोर् इवाचलसमुच्छ्रितविग्रहस्य आकृष्य नेत्रम् अरविन्दपलाशतुल्यं भूयो मुमोच रुधिराकुलपक्ष्मलेखम् // HJm_7.32

स्नेहेन शावम् अनुपालयितुं कृतास्था शार्दूलम् अप्य् अभिमुखं प्रयाति स्निग्धापि नाम करुणाजननी परार्थनिष्पत्तये कथम् अबाधत बोधिसत्त्वम् // HJm_7.33

अथ स विहङ्गमो बोधिसत्त्वं पप्रच्छ । नियतम् आकृष्यमाणे ऽस्मिन् मया नयने महतीम् वेदनाम् अनुभवति भवान् इति । बोधिसत्त्व उवाच । यदि केन चिद् अनुपयुक्तम् मे शरीरं क्षयम् अगमिष्यत् ततो ममाभविष्यत् पीडा । संप्रति त्व् एवम् उपयुज्यमानम् अनेकैः सत्त्वैर् आलोक्य परां प्रीतिम् अनुभवामीति ।

यदि शरीरम् इदं व्यसनास्पदं व्रजति साधनतां मुहुर् अङ्गिनाम् बहुमतं महताम् इति रत्नवद् भुजगवद् बहुदोषम् अतो ऽन्यथा // HJm_7.34

अथ बोधिसत्त्वो भक्षयन्तु मां यथासुखं क्रव्याशिन इति विचिन्त्य मृगम् इवात्मानं दर्शयाम् आस ॥

समुपागतैर् अथ वयोभिर् अविततविरावभैरवैः तस्य पिशितम् असकृत् क्षपितं न तु चित्तधैर्यम् अभवत् पराङ्मुखम् // HJm_7.35

असवः शरीरम् अथ तस्य गुणकुसुमगन्धवासितम् वासतरुम् इव खगाः पतितं विजहुः कथं चिद् उदितव्यथाकुलाः // HJm_7.36

ततो स्तशिखरिशिरसः सुचिरपरिभोगमलिनम् इव कुन्दावतंसम् उडुपतिम् अपनीय गतायां क्षपाङ्गनायां जवाकुसुमशेखर इव दिवसमुखहस्तेनावबध्यमाने पूर्वाचलशिरसि घर्मांशौ दिवसकरकिरणहस्तसंस्पर्शसुखाभिव्यज्यमानकमलनालकण्टकरोमाञ्चासु विनिद्रासु कमलिनीविलासिनीषु कुररविरुतानुकारिषु विमुच्यमानेषु नगरद्वारकपाटेषु प्रतिविबुध्य बोधिसत्त्वस्य पितानिष्टशङ्काव्यथिथमनाः ससुहृत्परिजनबन्धुवर्गस् तनयान्वेषनव्याकुलस् तत् तच् चिन्तयाम् आस ।

निशि किम् अहिना दष्टः स्यान् मे सुतः स परिभ्रमन्न् उत विकरुणैर् भूषां हृत्वा हतः प्रतिरोधकैः रदनपरिघक्षुण्णोरस्कः क्षितीश्वरदन्तिना किम् अथ गमित[ः] स्तम्भं भङ्क्त्वा पुरं समवर्तिनः // HJm_7.37

क्रमेण चोपगम्य श्मशानैकदेशे गृध्रैर् अवलुप्यमानमांसं बोधिसत्त्वं कथम् अपि प्रत्यभिज्ञाय स जनः श्रेष्ठिने निवेदयाम् आस । कष्टम् अयम् असौ महात्मा पञ्चत्वम् उपगतो यथा तर्क्यते तथा नियतम् अनेनात्मा तिर्यग्भ्यो निवेदित इति । तच् च श्रुत्वा स श्रेष्ठी परशुनिकृत्त इव पादपो निपपात । चिरेण च प्रतिलब्धसंज्ञ इति विलापपरो बभूव ।

विलोक्य गृध्रैर् इमम् इत्थम् आत्मजं विलुप्यमानं शिथिलास्थिबन्धनम् अहो विधेर् दुश्चरितेन भूयसा तथापि च प्राणिमि कर्कशाशयः // HJm_7.38

दया तिरश्चाम् उपरीयम् ईदृशी स्वदेहदानेन यदि प्रकाशिता समुज्झता मां पितरं निरागसं कथं त्वया निष्करुणत्वम् ईहितम् // HJm_7.39

मृदूपधाने शयने मनोहरे सुखं शयित्वा धवलोत्तरच्छदे इहाद्य शेषे कथम् अस्थिसंकुले चिताधरित्रीशयने सभस्मनि // HJm_7.40

याते ऽत्र पुत्रक दिवं करुणासहाये त्वय्य् उत्सुकीकृतजने स्वसुखानपेक्षे गोष्ठीषु सद्गुणकथाकुसुमार्चितासु श्रोष्यामि कस्य वचनानि मनोहराणि // HJm_7.41

त्वं मे निवापसलिलाञ्जलिम् अश्रुमिश्रम् उत्कः प्रदास्यसि किलेति विचिन्तितो यः स्नेहार्द्रशुद्धमनसापि स नाम भूत्वा भग्नस् त्वया किम् इति वत्स मनोरथो मे // HJm_7.42

इति श्रेष्ठी चिरम् विलप्य बोधिसत्त्वशरीरे ऽग्निसत्कारं कृत्वा प्रस्रुतनयनोदकाभिषिक्तमुखः शून्य इव साक्रन्दशब्दं स्वभवनम् आजगाम ।

प्रतिदिशम् अथ मेरोः कुञ्जविस्तीर्णशब्दाः कनकपटहभेरीदुन्दुभीस् ताडयित्वा अमुचद् अमरसंघस् तत्र निर्वाणवह्नौ सुरभिकुसुमवर्षं बोधिसत्त्वास्थिराशौ // HJm_7.43

तद् एवं तेन भगवता बोधिसत्त्वचर्यां चरता परार्थ आत्मा बहुशः परित्यक्त इति विचिन्त्य बुद्धे भगवति परः प्रसादः करणीय इति ॥

॥ श्रेष्ठिजातकं सप्तमं ॥

8. पद्मकजातकम्

तत्याज बोधिसत्त्वस् तृणम् इव देहं परार्थसंसिद्ध्यै / स्वसुखन् नापेक्षन्ते परसुखसंपादिनो धीराः // HJm_8.1*

तद्यथानुश्रूयते शरदपगतजलधरसंघातायां दिवीव चन्द्रमाः । सकलाशसिमण्डलकिरणावभासितायां क्षपायाम् इव कुमुदवनविकासः । प्रमदवनभूमाव् इव च कमलाकरः । प्रथमयौवनसमृद्धाव् इव विनयः । स्फुटमधुराक्षरपदायां वाचीवार्थः । शरच्चन्द्रिकयेव दीर्घत्वम् आगतया विमलसलिलया स्पष्टमीनकुलाकुलया तटतरुकुसुमपरागपरिपिञ्जरीकृतफेनपङ्क्तिरसनाकलापया वराणसया निम्नगयालङ्कृतायां प्रकृतिरमणीयायां वाराणस्यां राजधान्यां स्फुरितदशनमणिकिरणावभासाभ्यलङ्कृतवदनपद्मः पद्मको नाम राजा बोधिसत्त्वो बभूव ॥

कान्त्या च रूपेण च तेजसा च प्रह्लादसंमोहनतापहेतून् अवज्ञया यो युगपज् जिगाय शशाङ्कपुष्पायुधघर्मरश्मीन् // HJm_8.2

विहङ्गमानां फलिनीव पादपे शिलीमुखानाम् इव पद्मिनीवने वनीपकानां जगदेकबान्धवे बभूव यस्मिन् सुहृदीव निर्वृतिः // HJm_8.3

जगदर्थसाधनसमुद्यतात्मनः करुणापरिग्रहविशुद्धमेधसः प्रविवेश यस्य हृदयं न मत्सरः कृतमन्त्ररक्षम् इव वेश्म पन्नगः // HJm_8.4

त्यागेन सत्त्वमहता प्रथितेन यस्य व्याप्तासु दिक्षु विनिवारितमत्सरेण शुश्राव याचकजनस्य न जातु लोको देहीति लाघवकराणि पुनर् वचांसि // HJm_8.5

हृदयतुहिनशैलात् त्यागसानोः प्रवृत्तां समुपहतरजस्कां स्नापिताशेषलोकाम् सकलभुवनवन्द्यो यः परार्थैककार्यः शशिकिरणविशुद्धां कीर्तिगङ्गां जगाह // HJm_8.6

कस्यापद् अपनेयाद्य प्रीणनीयो धनेन कः को निधेयः शिवे मार्गे यस्याभूद् ईदृशी स्थितिः // HJm_8.7

आत्मानं भवविच्छित्त्यै सुवर्त्मनि निधित्सताम् न परार्थाद् ऋते कश् चिद् व्यापारो ऽन्यो महात्मनाम् // HJm_8.8

भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः // HJm_8.9

अपरस्परदिण्डिमैः स्वनद्भिः करिणो (17अ) यस्य वितन्यमानकोपाः वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः // HJm_8.10

भयवशाद् उपशान्तमदोदयाः शिथिलितासिशरासनमुष्टयः मृगपतेर् इव दर्पम् अरातयो युधि गजा इव यस्य न सेहिरे // HJm_8.11

प्रथिततेजसि यत्र परस्परं प्रणयसौख्यविवर्धितसंपदः विटपिनीव खगाः फलदे प्रजाः सततम् एव सुखाय विशश्रमुः // HJm_8.12

अथ कदा चित् तस्य राज्ञो देशे धातुवैषम्याद् उपचीयमानोदराग्निः प्रतिदिवसम् आपाण्डुदुर्बलशरीरो निरोजस्को जनकायो महता रोगेण जग्रसे । बोधिसत्त्वाज्ञया च भिषजः सादरम् अपि चिकित्सां कुर्वन्तो न तं व्याधिम् अपहर्तुं तस्य जनस्य शेकुः । अथ स राजा तान् वैद्यान् उवाच । केनोपयेनायं जनस्य व्याधिर् अपहर्तुं शक्यः स्याद् इति । भिषज ऊचुः । देव यदि रोहीतमत्स्यमांसं स्यात् ततः शक्नुयामो वयम् एनं जनम् अनातङ्कं कर्तुम् इति । अथ स राजा परम् अपि प्रयत्नं कुर्वन् न कुतश् चिद् रोहीतमत्स्यम् उपलेभे ॥

ततः कदा चित् स बहिर् विनिर्ययौ मतङ्गजस्कन्धगतः क्षितीश्वरः सितातपत्रप्रतिवारितातपः प्रकीर्णकभ्रान्तिविकम्पितांशुकः // HJm_8.13

नोल्लाघिनस् तम् अथ भृत्यजनानुयातं स्कन्धस्थितं गजपतेः क्षितिपं विलोक्य उत्क्षिप्य दीनवदनाः सहसैव हस्तांस् त्रायस्व नो नृप गदाद् इति वाचम् ऊचुः // HJm_8.14

अथ बोधिसत्त्वस् तेषां व्याधिमतां तुमुलमनसां करुणम् आक्रन्दशब्दं आकर्ण्य दुःखायमानहृदयो दयापरिचयाद् उद्गतबाष्पसलिलतिरोहिताक्ष इदम् अचिन्तयत् । किं मम राज्यसुखेन यत्र मे विषयनिवासिनाम् इयम् अवस्थितिः । प्रविश्य च भवनम् आहूय सचिवान् इदम् अवोचत् । इच्छाम्य् अहं ज्यायस्तनयाभिषेकं कर्तुम् इति । अथामात्या ऊचुः ॥

नवयौवनकर्कशे शरीरे द्विषतां भङ्गकरे पराक्रमे च सति चाभ्युदये परार्थहेतौ किम् अकाले भवतो वनं यियासा // HJm_8.15

राजोवाच । न खल्व् एवं यथा भवन्तस् तर्कयन्तीति । अमात्याः पुनर् ऊचुः । को ऽभिप्रायो देवस्य । राजोवाच । दुःस्वप्नदर्शनाद् आगताशङ्को ऽहम् एवं तर्कयामि । कदा चिद् अतर्कितैवेयम् अनित्यता समागम्य मां विनाशयेत् । अतः पुत्रम् अभिषिक्तं द्रष्टुम् इच्छामीति । अमात्याः प्रोचुः । यद् आज्ञापयति देव इति ॥

अथ समुच्छ्रितकाञ्चनतोरणे गृहवरे वरतूर्यपटुध्वनौ अभिषिषेच सुतं सुतवत्सलः क्षितिपतिः क्षितिपालनमस्कृतः // HJm_8.16

अथ स कुमारः पितरम् आगम्योवाच । आज्ञापयतु तातः कथं मया व्यवहर्तव्यम् इति । राजोवाच । श्रूयतां वत्स । सर्वथा न कदा चिद् आयुष्मता प्रणयिणाम् उपरि निरादरेण भवितव्यम् इति । पश्य ॥

निन्दाहेतुः सद्गतीनां निरोद्धा शून्यागारं जालिनीयातुधान्याः श्रेयःसेतुध्वंसनो ऽम्भःप्रवाहो लोभान्धानां मत्सरो वैरिभूतः // HJm_8.17

पूर्वं नीचाः स्वापतेयप्रसक्ता दग्ध्वात्मा(17ब्)नं मत्सराज्याशनेन भ्रूभङ्गार्चिर्ज्वालरूक्षैर् वचोभिर् नास्तीत्य् अन्ते याचितारं दहन्ते // HJm_8.18

ते धीमन्तस् ते सुजन्मान ऽ; जन्मान्यत्वे ते न पश्यन्त्य् अपायान् नीतो नात्मा यैर् अयं दुःखहेतोर् वल्मीकत्वं मत्सराशीविषस्य // HJm_8.19

इभ्यो ऽपि प्रतिषेधपांसुमलिनां यो वक्ति दैन्यां गिरं दूरात् तं जनम् अर्थिनः परिहरन्त्य् आशाविसंवादकम् तृष्णाशोषिततालवो ऽपि पथिका न स्नानपानक्रियाः कुर्वन्त्य् अप्य् अमले जनङ्गमगृहद्वारोदपानाम्भसि // HJm_8.20

दीर्घैः श्मश्रुभिर् अन्धकारवदना दूरप्रविष्टेक्षणाः वार्यन्ते पुरुषैर् उपात्तलगुडैः प्रेता यद् अम्भोऽर्थिनः तत्त्वज्ञस् तद् उवाच मत्सरफलं बन्धुः प्रजानाम् जिनः संचिन्त्येति परोपकारविमुखी पुंसा न क्ऽ; मतिः // HJm_8.21

अपि च वत्स । लोके बहुमानम् इच्छता त्वया सत्यत्यागश्रमादाक्षिण्यादिभिर् गुणमणिभिर् आत्माभ्यलङ्कर्तव्यः ॥

गुणीयन्तः शान्ता जगदहितविच्छेदपटवो विरूढप्रेमाणो गुणिषु सुधियः सूनृतगिरः परिष्वक्ता लक्ष्म्या न च मदकलङ्केन मलिना निलीयन्ते पुम्भिः पुरुषगणनादौ सुपुरुषाः // HJm_8.22

धुरां ये वोढारः सकलजगदाधिश्रमनुदो धियो येषां स्वच्छा रुच इव मणीनां वितमसः प्रियं कर्तुं वाञ्छन्त्य् असुभिर् अपि ये च प्रणयिनां कथं ते नाधेयाः प्रथमगणनायां गुणवताम् // HJm_8.23

न च भवता प्रचुरपुरुषेणेव गुणवत्स्व् अनादरेण भवितव्यम् । पश्य ॥

अनुष्णांशुं दृष्ट्वा गुणिनम् इव संप्राप्तम् अतिथिं पयोवृद्ध्या सिन्धुः प्रथयति मुहुः संभ्रमम् इव न वर्धन्ते तोयान्य् उदयवति तत्रैव सरसां प्रमोदाविर्भावो महति महताम् एव भवति // HJm_8.24

अथ प्रकाशीभवदुडुगणशबले नभसि रचितशशिविशेषकायां पूर्वस्यां दिशि शलभकुलपतनविचलितदीपशिखाङ्गुलीसंतर्जितेनेव नवजलनीलावभासा तमसा विमुक्तान्तरेषु भवनेषु वासयष्टिविलीननिश्चलेषु ताम्रचूलेष्व् अगुरुधूपामोदाधिवासितेषु विलेपनव्यापारचलितमुखरवलयालङ्कृतहस्तपद्माभिर् अबलाभिर् अध्यासितमृदुशयनीयतलेषु वासगृहेषु प्रविरलजनक्रयविक्रयायां क्व चिद् अपि वीथीयमानापणावीथ्यां बोधिसत्त्वस् तनयम् अनुशिष्य दीपिकालोकावभास्यमानालेख्यशोभां भवनस्योत्तमां भुवम् आरुह्य विसर्जितसर्वान्तःपुरजनस् तस्यां वराणसायां नद्याम् आत्मानं मुमुक्षुर् एवम् उवाच ॥

अस्यां नद्यां महाकायः सितरत्नामलाम्भसि रोहीतः स्याम् अहं मत्स्यो लोकस्य व्याधिशान्तये // HJm_8.25

इति प्रजार्थं परिवर्धितोदयां दयाविशेषानुगतां गुणातनुम् तनुं मुमोच स्फुरिताकुलाम्बरां वराणसायां सरिति क्षितीश्वरः // HJm_8.26

अथ भूपतिः स विरराज पयसि निपतन् स्वमन्दिरात् कल्पतरुर् इव सुमेरुतटात् त्रिदशेश्वरद्विप[महा]विषाणघट्टितः // HJm_8.27

पतिते ऽथ भूभुजि समीरलुलितधवलाकुलाम्बरे वारि चलितशफरीनिवहं (18अ) चलचक्रवाकमुदलङ्घयत् तटं // HJm_8.28

तस्यां स नद्यां पतितः क्षणेन समुत्थिताम्बुध्वनिभीषणायाम् हिमाद्रिसानोर् अनुरूपकायो रोहीतमत्स्यः समभून् नरेन्द्रः // HJm_8.29

स च महात्मा सितसिकतामनोहरं पुलिनम् उत्तीर्य यदि माम् अयं जनकायः प्राणेभ्यो वियोजयेत् ततो दुष्कृतफलेन युक्तो दुर्गतिपरायणः स्याद् इति । तद् इदम् अत्र प्राप्तकालं स्वयम् एव सर्वेन्द्रियनिरोधं कृत्वा जीवितं परित्यक्ष्यामीति विचिन्त्य प्राणान् अत्याक्षीत् । अथ कलुषसलिलाभिषिक्तसितद्विरदकुम्भाकृताव् अस्तगिरिशिखरावलम्बिनि शिशिरांशौ प्रतनुपांसूपदिग्धस्फटिकमणिनिभासु प्रविरलीभवन्तीषु तारासु । संमीलत्सु कुमुदगहनेषु विनिद्रीभवत्सु कमलाकरेषु हरितालरसेनेव बालातपेन परिच्छुरितेषु गिरिशिखरेषु नरपतिशून्यं शयनं शयनपालिकाजनाद् उपलभ्यामात्याः । क्व पुना राजा गतः स्याद् इति भवनसमीपजातम् उपवनम् आलोक्य समन्ततः परिभ्रमन्तो ददृशुर् वराणसायाः समुद्रपत्याः पुलिने मुक्ताराशिम् इव दीर्घीकृतं रोहीतमत्स्यम् । ते च शुश्रुवुर् अदृश्यवपुषो गगनस्थस्य दिवौकसो गम्भीरां भारतीम् ॥

आतङ्कदुःखविच्छित्त्यै जनस्यास्य स भूपतिः मुक्त्वात्मानं नदीतोये गतो रोहीतमत्स्यताम् // HJm_8.30

अथ ते ऽमात्यास् तच् छ्रुत्वा शोकदुःखव्यथितमनस इदम् ऊचुः । अहो करुणया राजानम् आत्मानं सत्त्वहितार्थम् एव परित्याजयन्त्या सकला वसुधेयम् अनाथीकृतेति बहुविधम् इति विलप्य शून्यमनसः स्वान् आलयान् अभिजग्मुः ॥

उपलभ्य च वृत्तान्तम् अमात्येभ्यस् तम् आकुला देवी प्रस्रुतबाष्पाक्षी व्यलपत् तस्य भूपतेः // HJm_8.31

श्रुते ऽपि नाम त्वयि लोकबान्धवे स्वयं गतो ऽसाव् इति भूपतिर् दिवम् तथापि चानिष्ठितिदुःखभागिनीं जिजीविषा मां न विहातुम् इच्छति // HJm_8.32

तवानुकम्पासुकुमारचेतसो न जातु रूक्षं हृदयं द्विषत्य् अपि इमं विहायानुगतं विनागसा गतो ऽसि कस्माद् अनुरागिणं जनम् // HJm_8.33

विमुञ्च हे चण्डि रुषं महीयसीम् इति ब्रुवाणः प्रमदाजनाग्रहः अकारणेर्ष्याकुपिताम् अधोमुखीं प्रसादयिष्यत्य् उपगम्य को ऽद्य माम् // HJm_8.34

विधाय कर्णे विकचम् नवोत्पलं निवेश्य चारून् अलकांस् तरङ्गिणः मनोहरम् मण्डनभूमिकास्थितः क्रमेण को मे तिलकं करिष्यति // HJm_8.35

अकारि येनाङ्कनिवेशलालिता प्रियेव या रागवती प्रियेण मे चिराय सा तेन विनाद्य वल्लकी भविष्यति ध्यानवतीव कुक्कुहा // HJm_8.36

य ऊढवांस् तस्य मुखेन्दुशोभया स्थितैकपद्मस्य जलस्य तुल्यताम् स एव शोकाद् इव हा भविष्यति प्रभातचन्द्राकृतिर् एस दर्पणः // HJm_8.37

मनोहरं पञ्जरमध्यवर्तिने प्रदाय तुभ्यं परिणामि जाम्बवम् शिरीषनिर्यूहनिभं प्रियेण मे विनाद्य कस् त्वां शुक पाठयिष्यति // HJm_8.38

अपेतसख्यः स गतो मम प्रियो न केशपाशेन पुनः प्रयोजनम् चिराय वैधव्यविधानशंसिनी ममाद्य वेणी किम् इयं न बध्यते // HJm_8.39

क्षणाद् अथान्तःपुरसुन्दरीजनो निशम्य देव्याः परिदेवनाम् इति विसर्जितादर्शविलोकनादरो मनोहरां मण्डन(18ब्)रसिकां जहौ // HJm_8.40

विहाय का चिन् नयनान्तसङ्गिनीं द्रुतं शलाकां नयनाञ्जनोत्सुका विषादवत्य् अर्धसमाप्तम् अङ्गना व्यनीनिजद् बाष्पवती विशेषकम् // HJm_8.41

विकासिनीं केसरपुष्पमालिकां शिरोरुहेभ्यः परिमुच्य विक्लवा सुगन्धिम् अन्या कणभेदपिञ्जरां व्ययुक्त का चित् सहकारमञ्जरीम् // HJm_8.42

विलोलमालाभरणाकुलांशुका निपेतुर् अन्याः कुटिलाकुलालकाः भ्रमद्द्विरेफाः प्रलयानिलाहता मनोहराः कल्पलता इव स्त्रियः // HJm_8.43

निशम्य काश् चित् परिचारिकाजनात् सबाष्पनेत्राः क्षितिपस्य पञ्चताम् प्रदोषपद्मिन्य इवा*निलाकुला निपत्य भूमाउ निमिमीलुर् अङ्गनाः // HJm_8.44

अन्या शनैः परिजनेन विलोक्यमानम् आलिख्य तं नरपतिं विजितेन्दुकीर्तिम् उत्सङ्गसंस्थम् अबला रुदती विषादात् तत्याज चित्रफलकं सह वर्तकाभिः // HJm_8.45

केशान् विलुच्य सुरभीन् परिलूनसूत्रैः फुल्लैः क्व चित् प्रविरलैः कुसुमैः परीतान् काश् चिद् विभिन्नवलयैः कमलाभिताम्रैर् आजघ्निरे मुहुर् उरांसि करैस् तरुण्यः // HJm_8.46

अथ ते ऽमात्याः शोकवशाद् आगतबाष्पसलिलबिन्दुना करुणविलापेन तेन ज्येष्ठपुत्रेण निवापसलिलाञ्जलिं दापयित्वा तद् अन्तःपुरं कथं चिद् आश्वास्य तं व्याधिग्रस्तं जनम् ऊचुः । क्रियतां तस्य राज्ञो ऽभिप्रायः । एवं हि स पूजितो भविष्यति । अथ स जनकायः शस्त्रैश् छित्त्वा तस्य रोहीतमत्यस्यस्य मांसम् आनीय वैद्याभिहितेन क्रमेणोपयुज्य तस्माद् व्याधेः प्रमुमुचे ॥

तद् एवं स भगवान् बोधिसत्त्वभूतः सत्त्वार्थं दुष्कराणि कृतवान् इति को नाम तस्मिन् महाकारुणिके भगवति बुद्धे सचेता जनो भक्तिमान् न स्याद् इति ॥

॥ पद्मकजातकम् अष्टमम् ॥

11. मृग

तृणम् इव जीवितम् इष्टं करुणानुगताः परार्थम् उज्झन्तः / कठिनमनसाम् अपि मनो नयन्ति मृदुतां महात्मानः // HJm_11.1*

तद्यथानुश्रूयते स्वच्छसलिलतया चन्द्रिकयेव द्रवीभूतया मृदुपवनप्रेरिततरङ्गसंघातया चक्रवाकमिथुनोपशोभितपुलिनया वराणसया निम्नगयाभ्यलंकृताचलान्तरे विविधतरुच्छायापिहितजलाशयजले सुकुमारशाद्वलहरितभूभागे क्वचिद् अरण्ये बोधिसत्त्वो मृगयूथाधिपतिर् बभूव ।

क्षीरोदफेनधवलेन तनूदरेण पृष्ठेन च भ्रमरसंहतिमेचकेन ताराविलासशबलस्फुरिताग्रपक्ष्मा रेजे कटाक्ष इव यो गहनान्तभूमेः // HJm_11.2

तस्यैवंविधस्य बोधिसत्त्वस्य किंचिद् रूपलावण्यप्रमाणानुकारी देवदत्तस् तत्समीपचारी नातिमहतो मृगयूथस्याधिपत्यं चकार ॥

ताभ्याम् अधिपतिभ्यां ते पालिते तृणम् अश्नती शङ्कावियोगविश्रब्धं मृगयूथे विचेरतुः // HJm_11.3

अथ कदाचित् सात्मीभूतमृगयाव्यसनो ब्रह्मदत्तो नाम राजा निर्गम्य वाराणस्यास् तिर्यगुरःस्थलविनिवेशितधन्वा वाजिवराधिरोही सदृशानुयात्रस् तुरगखुरसमुद्धतपांसुपरिधूसरनयनपक्ष्मा दिवसकरसंतापजनितस्वेदकणाक्रान्तललाटदेशः ससैन्यध्वनिसंत्रासोत्पतितमयूरतित्तिरिचकोरवनकृकवाकूनि विषमोन्नतानि निम्नभूमिभागानि क्वचित्पदातिचरणसंत्रासितहरिणखुरविन्यासचकितस्फुरितशफरीकुलविमुक्तस्रवन्तीतटसलिलानि मत्तगजपतिकपोलनिकषणसंक्रान्तमदाधिवासिततरुस्कन्धसमीपभ्रान्तमधुकरगणानि तटविटपिशाखावलग्नशुष्कककुभाक्षफलमद्गुबलाकापिच्छपरिमिश्रकाशकुशवंशतरुपर्णसंचयसूच्यमानचिरातिक्रान्तगिरिसरित्पूराणि पल्वलपङ्कविनिमग्नव्याघ्रपदानि पक्वोदुम्बरगन्धाधिवासितगह्वराणि पवनचलिततनुपताकाकुटिलभुजगसृतिभिर् अङ्कितमार्गपांसूनि वनान्तराणि विलोकयन् किंचिद् अतिक्रम्य तन् मृगयूथद्वयं विश्रब्धस्थितं सैन्येन परिवेष्टयामास ।

अथ विलोक्य चमूं धृतकार्मुकां चलखलीनसमुच्छ्रितनिस्वनाम् अशरणाः परिभिन्नकदम्बका भयवशेन मृगाः परिदुद्रुवुः // HJm_11.4

अवलोक्य समन्ततः परीतान् नृपसैन्येन मृगान् स बोधिसत्त्वः शरधेः शरम् उद्धरन्तम् आराद् अवनीशं समुपेत्य संबभाषे // HJm_11.5

युगपन् मृगसंक्षयाय कस्माद् धनुर् एतत् क्रियते त्वया सबाणम् दिवसे दिवसे महानसं ते मृगम् एकैकम् अहं विसर्जयिष्ये // HJm_11.6

निजगाद महीपतिस् ततस् तं यदि सत्यं मृग तत् तथा करिष्ये न करिष्यसि चेद् इमां व्यवस्थां प्रहरिष्यामि ततो मृगेषु भूयः // HJm_11.7

प्रतिपद्य गते ऽथ भूमिपाले धवलच्छत्त्रनिवारितार्कतापे निजगाद समेत्य बोधिसत्त्वो हरिणांस् तान् पुनर् एकताम् उपेतान् // HJm_11.8

युगपत् समुपागते विनाशे यदि लभ्येत पुनः क्रमः स साधुः क्रमम् एत्य चिराय शान्तिहेतुं भविता नाम कदाचिद् अन्यद् एव // HJm_11.9

गजकुम्भविभेदपण्डितानां बलिनां केसरिणाम् अपि द्विषन्तः क्षपयन्ति शरैर् असून् नरेन्द्राः किम् उ दर्भाग्रभुजां वने मृगाणाम् // HJm_11.10

सितमणिशुचिभिस् तमो विभिन्दञ् जगद् अवभास्य मरीचिभिः शशाङ्कः पतति विगतकान्तिर् अस्तशैलात् क्षणविशरारव एव सर्वभावाः // HJm_11.11

सलिलम् उरुतरङ्गं रंहसा क्षोभयित्वा हरति जलधिमध्यात् पन्नगं वैनतेयः अतिपतति न कश्चित् कर्मणां कोविदो ऽपि प्रथितगुरुबलो ऽपि प्राक्तनानां विपाकम् // HJm_11.12

इति कर्मगतिं ज्ञात्वा विज्ञानपटवो बुधाः प्राणात्यये ऽपि नायान्ति विषादं धीरचेतसः // HJm_11.13

अथ यूथपतिद्वयसमादेशात् ताभ्यां यूथाभ्याम् अहन्य् अहन्य् एकैको मृगस् तस्य राज्ञो भोजनपक्तिकाले महानसम् अगात् । एवं च कतिपयेष्व् अहःस्व् अतिक्रान्तेषु देवदत्तयूथवर्तिन्याः समापन्नसत्त्वाया हरिण्याः प्राप्तो गमनवारः । ततः सा स्वयूथपतिम् आगम्योवाच । स्वामिन् नियतं श्वः प्रसवित्री भवितास्मि । ततः प्रसूय वने मृगशावं विनिक्षिप्य गन्तास्मि । मया खलु तत्र युक्तं मर्तुम् । नैतेन गर्भस्थेन शावकेनेति । देवदत्तो यूथपतिर् उवाच । तत् कतमो ऽन्यो मृगस् तव वारे प्राप्ते गमिष्यति । सर्वथा त्वयैव गन्तव्यम् अनात्मज्ञा भवती या ममाज्ञां लङ्घयतीति । तेन यूथपतिना निर्भर्त्सिता सापसृत्य मृगी चिन्तयामास । यो ऽयं द्वितीयो यूथपतिर् अयम् अतिकारुणिकस् तस्माद् एनम् अपि तावद् अभ्यर्थयिष्ये । गत्वा च बोधिसत्त्वम् उवाच ।

मम यूथपते वारः प्राप्तो गन्तुं नृपालयम् आसन्नप्रसवा चास्मि तद् एनं रक्ष शावकम् // HJm_11.14

प्रसूतमात्रम् आलीनम् अवलिह्य च जिह्वया स्तनं च पाययित्वाहं शावं चञ्चलनेत्रकम् // HJm_11.15

वनान्ते शङ्खशकलच्छायैर् दशनकुड्मलैः स्पृशन्तं शाद्वलशिखां विलोक्य च पुरःस्थितम् // HJm_11.16

मम यूथपते यूथे भगिन्य् अस्ति कनीयसी गमिष्यामि कृतार्थाहं तस्यां निक्षिप्य पुत्रकम् // HJm_11.17

इति पुत्रलालसां तां हरिणीम् अभिधायिनीं समालोक्य / यूथपतेर् आरूढं सुतराम् अनुकम्पया हृदयम् // HJm_11.18*

अपरिचिते ऽप्य् अनुकम्पा दुःखिनि सुतरां विवर्धते साधोः / जलसिक्तमूलजाला लतेव वृक्षं समालम्ब्य // HJm_11.19*

यस्यैवास्त्य् अनुकम्पा दीनं शरणागतं समालोक्य तद्व्यसनभङ्गहेतुं स एव कुरुते परं यत्नम् // HJm_11.20

ताम् ऊचिवान् अथ मृगीं मृगयूथनाथो भद्रे परित्यज शुचं मनसि स्फुरन्तीम् त्वं तिष्ठ निर्वृतिम् उपेत्य वने चरन्ती यास्याम्य् अहं नरपतेः स्वयम् एव वेश्म // HJm_11.21

बालं शिरीषहरितं तृणम् आदशन्तं चन्द्रांशुजालविमलं सलिलं पिबन्तम् संक्रीडमानम् इह पुत्रकम् एणशावैः सार्धं चिरं समवलोकय चञ्चलाक्षम् // HJm_11.22

आश्वास्य ताम् इति मृगीं स जगाद धीरस् त्राता यथाद्य हरिणी मरणान् मयेयम् दुःखात् पुनर्भवकृताज् जनतां तथैव त्रायेय मारजयिनीं समवाप्य बोधिम् // HJm_11.23

इत्य् उक्त्वा स यूथपतिर् उदराक्रान्तिबद्धोष्मणः खुरपुटोत्खातरजस्कान् मृगरोमन्थनोज्झितबदरास्थिनिचितपर्यन्ताद् वसतिस्थानात् प्राग् एव समुत्थाय विमनसा यूथेनानुगम्यमानो वाराणसीम् अभितः प्रतस्थे ।

विकोशपुष्पास् तम् अथाकुलाकुलाः कलैर् अलीनां विरुतैर् विसारिभिः विधूतशाखाग्रकरा नभस्वता निवर्तयामासुर् इवाचलद्रुमाः // HJm_11.24

विमुच्यमानं सुहृदेव तेन तन् मृगेण वाताहतलोलपल्लवम् विसारिचीरीविरुतं समन्ततो वनं रुरोदेव समुत्सुकोत्सुकम् // HJm_11.25

अथ बोधिसत्त्वो वाराणसीसमीपम् आगम्य किंचिद् विलम्ब्य तन् मृगयूथम् इत्य् उवाच । निवर्त्यताम् इदानीम् । सुलभवियोगानि हि लोकसंगतानि । सुचिरम् अपि वसन्तकालरमणीयम् अरविन्दवनम् उपास्य हिमसमयपरिम्लानपलाशकेसरकर्णिकम् अपगतगन्धम् अपहाय गच्छत्य् एव प्रकृतिचञ्चला श्रीः । अवभास्य च प्रावृट्कालजलदपटावगुण्ठितानि दिग्वधूमुखानि लास्यम् इव च दर्शयित्वा विरक्ता इव वेश्याङ्गनाः शरत्कालविगलितसलिललघून् अपगतविभवान् कामुकान् इव परित्यजन्ति जलधरान् अचिरप्रभाः । क्षणदामुखविशेषकः शिशिरांशुर् अपि प्रभातसमये परित्यज्यते सहजया कान्त्या । सर्वथा न तत् किंचिज् जगति विद्यते यन् नान्योन्यवियोगि स्याद् इति विचिन्त्य धर्मपरायणैर् युष्माभिर् भूत्वा सम्यग् आत्मा परिपालनीय इति । तच् च मृगयूथं स्थित्वा बोधिसत्त्वम् आ चक्षुर्विषयाद् गच्छन्तम् अवलोक्य पितृवियोगाद् इव शोकशल्यक्षतहृदयं शून्यम् इव तद् वनं प्रत्याजगाम । बोधिसत्त्वो ऽपि च हरिणवराहमहिषाजास्थिनिचये लग्नश्वगणकलहभीषणम् उत्पतितावलीनसरघाकुलमांसपेशीकम् उपनिहितनिशातकर्तनीकं मृगागमनप्रतीक्षिभिर् औरभ्रिकैर् आकीर्णसूनास्थानम् आगम्यावतस्थे । ते च तद्वधाधिकृताः पुरुषा यूथपतिम् आदाय राज्ञे दर्शयामासुः ।

अथाभाषत तं राजा हरिणं हरिणेक्षणः अपरिक्षीणयूथस् त्वं वद किं स्वयम् आगतः // HJm_11.26

बोधिसत्त्व उवाच ।

गर्भिणी हरिणी देव शरणं माम् उपागता पुत्रदर्शनकाङ्क्षिण्यास् तस्या वारे ऽहम् आगतः // HJm_11.27

पुत्रकं द्रष्टुम् इच्छन्त्याः पूरयित्वा मनोरथम् एण्यास् तस्याः परं प्रीतो मन्ये ऽहं मृत्युम् उत्सवम् // HJm_11.28

हरिणीं हरिणं चात्र यातुम् आलोक्य मृत्यवे यन् मे समभवद् दुःखं तद् अद्य न भविष्यति // HJm_11.29

तस्मात् प्रमापय नरेश्वर माम् इदानीम् औरभ्रिकैः कथय देव विलम्बसे किम् अत्यायतेन करुणाकवचेन बद्धं चेतो भिनत्ति न विषादशरो ममेदम् // HJm_11.30

अथ स राजा तस्य तां परार्थप्रतिपत्तिपटीयसीम् अनुकम्पां विचिन्त्य विस्मितमतिर् उपालब्ध इव लज्जया बोधिसत्त्वम् उवाच । साधु साधु यूथपते ।

परार्थनिष्पत्तिनिबद्धचेता मृगाकृतिस् त्वं पुरुषप्रधानः परोपघाताय निबद्धयत्ना वयं खलु व्यालमृगैः समानाः // HJm_11.31

अथ बोधिसत्त्वो विप्रतिसारवन्तं राजानम् अवेत्य जातविश्रम्भमुखम् इत्य् उवाच ।

शरणम् उपगतं कृतापराधं रिपुम् अपि पासि किल व्युदस्य कोपम् कथय कथम् अनागसां मृगाणाम् उपरि पतन्ति तवेषवो निशाताः // HJm_11.32

प्रहृतं न त्वया युद्धे द्विषत्य् अपि पराङ्मुखे निहंसि भयवित्रस्तान् हरिणान् नश्यतः कथम् // HJm_11.33

जहीहि मृगयाक्रीडाम् असत्संकल्पवर्धिताम् नरकाग्नेः स्फुरद्दीप्तेर् भवित्री येयम् आहुतिः // HJm_11.34

अथ स राजा प्रमुदितमनास् तं यूथपतिं महति सिंहासन आरोप्य सविनयं नीचैरासनम् अधिष्ठाय प्रोक्तवान् । अहो सुभाषितं क्रियतां मे मोहतिमिरापनोदिनी धर्मदेशनेति । ततो बोधिसत्त्वः सकलया राजपर्षदावलोक्यमानस् तं राजानं संराधयन्न् इत्य् उवाच ।

सुभाषितप्रीतिर् अनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया गुणेष्व् अतृप्तिर् गुणवत्सु चादरो विरूढम् एतच् चरितं महात्मनाम् // HJm_11.35

नितान्तम् आविष्कृततुङ्गतेजसी उभे मनुष्यस्य मनुष्यलक्ष्मणी अदैन्यम् आपत्स्व् अपि चित्तगौरवाद् अपत्रपा चार्यपथप्रकाशिनी // HJm_11.36

खलाः प्रकृत्यैव मलीमसाशया वृथा परेषाम् अयशःसु जाग्रति स्वचित्तशुद्धौ विनिविष्टबुद्धयो बुधाः पुनस् तेषु भृशं दयालवः // HJm_11.37

नरेषु तुल्योदयपौरुषेष्व् अपि क्रिया न सर्वस्य परोपकारिणी परिस्फुरज्ज्योतिषि निर्घने नभस्य् अगस्त्य एवाम्बु करोति निर्विषम् // HJm_11.38

विचिन्त्यमानो ऽपि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति // HJm_11.39

यस्यायामि परोपकारसलिलस्रोतो न विच्छिद्यते धीचक्षुश् च वियोगि यस्य तमसा द्वाव् एव तौ जाग्रतः अन्येषां पशुधर्मणां परहितव्यापारदुर्मेधसां तुल्ये रात्र्यहनी प्रमत्तमनसाम् अज्ञाननिद्रावताम् // HJm_11.40

संसारे भ्रमतो महान्धतमसे संतिष्ठमानस्य वा साधोः साधुफले नितान्तमहती द्वे एव ते मां प्रति यत्र प्रोज्झ्य गृहं तपोवनम् अभिप्रस्थीयते श्रेयसे यस्मिन् वा क्रियते विवेकपटुभिः साकं कथा सूरिभिः // HJm_11.41

भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः संपदः पट्वी यस्य च धीस् तमःप्रहतये द्वाव् एव तौ प्राणितः यस् त्व् आत्मंभरिर् उन्नते ऽपि विभवे हीनश् च विद्वत्तया तस्यालेख्यमणेर् इवाकृतिभृतः सत्ताप्य् असत्ता ननु // HJm_11.42

कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता // HJm_11.43

मोहच्छेदि सुभाषितं विनयति द्रव्यं विनैव श्रमाद् अद्रव्ये तु भवन्त्य् अपि स्फुटपदा व्यर्थोपदेशा गिरः कर्मारेण पटीयसापि विघनव्योमेन्द्रनीलच्छविः श्रीगर्भः क्रियते कलङ्कपरुषाद् घण्टीकृतान् नायसः // HJm_11.44

इति गुणागुणान्तरविदा महाराजेन सत्पथाश्रयिणा भवितव्यम् इति । अथ स राजा धर्मकथामृतास्वादप्रीणितमना दत्तमृगाभयः सबहुमानम् इति बोधिसत्त्वं प्रशशंस ।

उत्पादे सति लोक एष मरणव्याधिश्रमैर् बाध्यते तृष्णातन्तुनिबन्धनस्य जगतो भूयस् त एवाधयः इत्य् अच्छिन्नपुनर्भवप्रतिभयः संसार आ निर्वृतेर् युष्मत्संगमहेतुर् इत्य् अवमतो नायं सदोषो ऽपि नः // HJm_11.45

अथ बोधिसत्त्वः सिंहासनाद् अवतीर्य राजानम् आपप्रच्छे ।

मया विना नृवर विषण्णमानसं समाकुलं हरिणकुलं भविष्यति अकण्टकां चिरम् अनुशाधि मेदिनीं व्रजाम्य् अहं त्वरितपदं तदन्तिकम् // HJm_11.46

ततः स यूथपतिः क्षितिपालानुमतस् तद् एव वनम् आजगाम ।

अथ यूथपतिं विलोक्य दूरान् मुदितं तन् मृगयूथम् उत्सुकाक्षम् दशनाग्रगृहीतशष्पदर्भं त्वरितं प्रत्युदियाय बद्धपङ्क्ति // HJm_11.47

विनिमीलितलोचनेव यासीद् धरिणी यूथपतौ गते वनान्तात् समुपेयुषि सैव तत्र धीरे पुनर् उन्मीलितलोचनेव जाता // HJm_11.48

आगम्य साथ हरिणी हरिणप्रधानम् इत्थं जगाद मुदिता चलितायताक्षी प्रह्लादयन् मम मनः शिशुर् एष दावे संक्रीडते हरिणनाथ तव प्रसादात् // HJm_11.49

बोधिसत्त्वो ऽपि च तन् मृगयूथद्वयम् आश्वास्य परां प्रीतिम् उपजगाम । तद् एवं परहितपरायणः स भगवांस् तिर्यग्भूतो ऽप्य् आसीद् इति विन्चिन्त्य तदुपारोपितप्रसादा भवत यूयम् इति ॥

॥ मृगजातकं प्रथमम् ॥

12. मयूर

शीलं परिपालयता त्राताः सत्त्वा मयूरभूतेन / प्राणभयाद् येन पुरा कस् तत्र न रोपयेद् भक्तिम् // HJm_12.1*

तद्यथानुश्रूयते सुरभिकमलवनच्छन्नमहाविमलसलिलेन प्रह्लादितसिद्धजनमानसेन मानसेन महासरसा सकलशशिमण्डलबिम्बेनेवालंकृतैकदेशे त्रिपथगासलिलनिपातक्षोभितभूर्जदेवदारुनमेरुवने प्रस्रुतानेकप्रस्रवणे तुहिनोपचयस्थूलतरशिखरसहस्रतया रजतस्तम्भैर् इवोपरिसमाकीर्णे केसरिसंत्रासप्रस्थितचमरयूथस्फुरितवालसंघातोपवीज्यमाननिकुञ्जे निर्झरसलिलप्रक्षाल्यमानशिलातले कुसुमितलताप्रान्तभ्रान्तमुखरमधुकरगणसंगीते साभिषेक इव राजमाने भूधरवरे हिमवति धौतेन्द्रनीलविमलदण्डाकृतिशिरोधरः शङ्खच्छेदावदातापाङ्गदेशः स्फुटितपारिभद्रककुसुमाभिरक्ततुण्डो विपुलविचित्रपक्षतिर् इन्दीवरपलाशाकीर्णतरुणशिरीषकुसुमसंघातानुरूपबृहत्कलापः सुवर्णावभासो नाम बोधिसत्त्वो मयूराधिपतिर् बभूव ।

मयूरवरम् उत्पाद्य तं विचित्रतनूरुहम् विस्मिता इव पश्यन्तो बभूवुः कर्मशिल्पिनः // HJm_12.2

मेघारम्भे जातनृत्यानुरागं पश्यन्तीनां तं मयूराधिराजम् स्तोकोद्द्योता ह्रीमतीनाम् इवासन् मन्दा विद्युल्लासिकानां विलासाः // HJm_12.3

मृदङ्गवद् ध्वानिनि वारिनिर्झरे द्विरेफवीणासु कलस्वनासु च लतावनान्तर्गृहके मनोहरे ननर्त चित्रं स मयूरलासकः // HJm_12.4

परिस्फुरच्चन्द्रकरत्नमण्डलस् तटान्तम् आरुह्य यदा ननर्त सः समीरणाधूतवनो हिमाचलस् तदा विभाति स्म किरीटवान् इव // HJm_12.5

कान्तं वितन्वति कलापम् अनङ्गवध्वा चित्रे विशेषक इवालिखिते धरित्र्याम् तत्र स्थिता शिखिनि सिद्धविलासिनीनां गाढं कुतूहलवशान् न ततर्प दृष्टिः // HJm_12.6

आपाण्डुमेघपटलावृतदिङ्मुखान्ते मुक्तामलाम्भसि शरत्समये ऽभ्युपेते यस्यां स चन्द्रकमणीन् असृजत् कलापी भूर् इन्द्रनीलशकलैर् इव सा बभासे // HJm_12.7

कान्ते विचेरुषि शनैर् अपुलाकपक्षे यूथानुयातगमने कुशलैकपक्षे तस्मिन् महीधरवरस्य मयूरराज इन्द्रायुधैः शबलितेव मही रराज // HJm_12.8

अथ कदाचिद् अनिलबलविभिद्यमानकुसुमगन्धाधिवासितदिङ्मुखेषु भ्रमदलिकुलशबलेषु कलभरदनपरिपाण्डुषु रामणीयकं गतेषु केतकेषु कुटजककुभनीपकदम्बकुसुमसुरभीकृतनिकुञ्जेष्व् इन्द्रगोपकाभ्यलंकृतमरकतहरितशाद्वलश्यामवनभूमिषु नयनरम्येषु महीधरेषु स्फुरिततडिद्वलयलाञ्छितोदरेषु दर्शितेन्द्रायुधेषु धाराशरनिपातप्रोद्वासितनिदाघवैरिषु नभःपिधायिषु जलधरेषु शिशिरशीकरस्पर्शापनीतदिवसकरसंतापेषु परित्यजत्सु चन्दनद्रुमान् फणिषु प्रथमपूरप्रियतमतरङ्गहस्तावलुच्यमानफेनावतंसासु कलुषसलिलवसनपिधीयमानविपुलपुलिनजघनासु मत्तास्व् इव प्रागल्भ्यम् उपगतासु सरिदङ्गनासु सबाष्पप्रोषितभर्तृकाजननयनावलोक्यमानेषु मेघध्वनिप्रमुदितेषु विमुक्तमधुरारावेषु गृहमयूरेषु नवजलदसलिलकणनिपातजनितकणकणाशब्देषु तालतालीनालिकेरवनेषु स मयूरराजः प्रभातसमये तनुजलकणगुरुकृतकलापः श्रुतिहृदयहारिणीं केकां विमुञ्चन् नभःशोभार्थम् इवोत्पत्य वाराणसीसमीपेन प्रागात् । तस्यां च पुरि ब्रह्मदत्तेन राज्ञा सह सुप्तप्रतिविबुद्धा परस्परपरिष्वङ्गापहृतविलेपना किंचित्परिपाटललोचनोत्पलानुपमा नाम तस्य राज्ञो देवी पप्रच्छ ।

वद कस्य ध्वनिर् अयं तारस् ताराधिपानन येन प्रतार्यमाणेन मम प्रह्लादितं मनः // HJm_12.9

राजोवच । देवि सुवर्णावभासो नाम मानुषालापो मयूरराजो हिमवति कृताधिवासस् तस्यैष नभसा संचरमाणस्य प्रकृतिमनोहरः कनकमरकतेन्द्रनीलवैडूर्यराशिप्रभास्वरस्य स्वरः । पुनः सकुतूहला देव्य् उवाच । कुतः पुनर् असौ मयूराधिपतिर् देवस्य श्रुतिपथम् आगत इति । राजोवाच ।

पुरुषाणां तिरश्चां वा गुणा एव प्रकाशकाः भिन्नान्धकारनिवहा मणीनाम् इव रश्मयः // HJm_12.10

मयूराकृतिम् आस्थाय को ऽपि केनापि हेतुना नयनोत्सवभूतो ऽसौ स्थितो गौरीगुरोर् वने // HJm_12.11

शिखियूथाधिपतिना तेनालंकृतगह्वरः नाथवन्तम् इवात्मानं मन्यते तुहिनाचलः // HJm_12.12

गर्जितेन प्रयच्छन्तः साधुवादम् इवाम्बुदाः बद्धनृत्तं तम् ईक्षन्ते स्फुरद्भिस् तडिदीक्षणैः // HJm_12.13

घनसमयनाटकादाव् आहूता बर्हिसूत्रधारेण / सहसा तडिद् आत्मानं दर्शयति नटीव सविलासम् // HJm_12.14*

अथानुपमा तेन तस्य मयूराधिपतेः श्रुतिहारिणा स्वरेणाक्षिप्तहृदया मृदुहसितभ्रूलताक्षेपपरावर्तनावलोकनक्रीडापरिबृंहितैर् विलासैस् तं राजानं वशीकृत्योवाच । देव क्रियतां यत्नस् तस्य मयूराधिपतेर् ग्रहणाय । क्रीडनको ऽस्माकम् अन्तःपुरे भविष्यति ।

अन्तःपुरमध्यगतस्फुटचन्द्रकधारिणा मयूरेण विविधमणिकर्णपूरेव तेन नो गृहमही भवतु // HJm_12.15

राजोवाच । देवि न किलासौ शक्यते ग्रहीतुम् । देव्य् उवाच ।

सृजतः सुरभीन् मदाम्बुबिन्दून् बलिनो ऽपि द्विरदान् वशं नयन्ति पुरुषाः पटुवीर्यबुद्ध्युपायाः किम् उत स्वल्पबलोदयान् विहङ्गान् // HJm_12.16

ह्रियते बडिशेन वारिमध्यात् पृथुरोमा नयनाध्वनश् च्युतो ऽपि किम् उपायवताम् असाध्यम् अस्ति व्यवसाये हि सति क्रियाः फलन्ति // HJm_12.17

भवतो ऽस्ति मतिर् विशेषपट्वी बहवः सन्ति विपश्चितः सहायाः सफलीक्रियते न चेन् ममेच्छा भवता स्नेहपराङ्मुखो ऽसि नूनम् // HJm_12.18

शावान् कुलायकगतान् परिपातुकामा नद्याः प्रगृह्य तनुपक्षपुटेन तोयम् दावानलं किल सिषेच मुहुः कपोती स्निग्धो जनो न खलु चिन्तयति स्वपीडाम् // HJm_12.19

अथ स राजा मा देवि क्रोधं कार्षीर् अकार्यम् अपि त्वदर्थे कुर्याम् । अतः करोम्य् अहं तद्ग्रहणाय यत्नम् इत्य् उवाच ।

विलासिनीनां मदनानुकर्षिणा विलासपाशेन निबद्धमानसः शुभाशुभान्वेषणसुप्तचेतनः प्रयात्य् अनिघ्नो ऽपि हि निघ्नतां जनः // HJm_12.20

अमर्त्यतेजोऽवयवान् अवाप्य या तिलोत्तमेति प्रथिता सुराङ्गना त्रिलोकनाथो ऽपि तयात्मशोभया चतुर्मुखत्वं गमितस् त्रिलोचनः // HJm_12.21

तपोनिधिं गाधिसुतं तपोवने महाधियं मेनकया हृतेन्द्रियम् अवज्ञयाकृष्य मृणालकार्मुकं शरेण विव्याध हसन् मनोभवः // HJm_12.22

यद् एधते लाघवहेतुर् अर्थिता पतन्ति यन् मूर्ध्नि निकारपांसवः स्पृशन्त्य् अधिक्षेपशराश् च यन् मनस् तद् अङ्गनाभिः क्रियते शरीरिणाम् // HJm_12.23

आबध्य व्यवसायवर्म पुरतो विन्यस्य तृष्णाचमूम् आरोप्य प्रसभं नितान्तकठिनं निर्व्रीडताकार्मुकम् अर्थित्वाहवमध्यम् एत्य विवशाः सीमन्तिनीभिः कृता नीचेभ्यो ऽपि सहन्त एव पुरुषा भ्रूभङ्गबाणव्रणम् // HJm_12.24

अथ स राजा शाकुनिकान् आहूयावोचत् । अस्ति सुवर्णावभासो नाम हिमवति मयूराधिपतिस् तं भवन्तः शीघ्रम् आनयन्तु । न चेद् आनेष्यथ ततः सर्वान् एव भवतस् तीक्ष्णेन दण्डेनान्तकसकाशं प्रहेष्यामीति । ते च मरणभीतास् तथेति प्रतिश्रुत्य कंचिन् निपुणतरं शाकुनिकम् अभ्यर्थ्य विसर्जयामासुः । स च शाकुनिकः क्रमेण हिमाचलम् आगम्य विज्ञाय तस्य मयूराधिपतेर् गोचरभूमिं विरचय्य पाशान् एकान्ते ऽवतस्थे ।

प्रालेयाद्रेस् तुङ्गसानोर् उपघ्ने न्यस्तं यद् यत् तेन शाकुन्तिकेन तेनात्यर्थं बर्हिणा दृष्टमात्रं तत् तद् दूराच् चिच्छिदे पाशजालम् // HJm_12.25

अथ हिमवति दूरस्था दिव्यचक्षुषो मुनयस् तं बोधिसत्त्वप्रभावम् आलोक्य विस्मितमनस एवम् ऊचुः ।

दृष्ट्यानेन श्रीमता पुण्यधाम्ना छिन्नाः पाशा गाढबन्धा यथेमे साधोर् अस्य प्राप्तबोधेस् तथैव प्रज्ञाशस्त्रं छेत्स्यति क्लेशपाशान् // HJm_12.26

अथ स शाकुनिकः पाशच्छेदविषण्णमनाः समुपगम्य कृताञ्जलिस् तस्मै मयूराधिपतये तां क्रूरां राजाज्ञाम् आख्यायाब्रवीत् ।

प्राणविच्छेदभीतानां शरण्य शरणार्थिनाम् श्वेतापाङ्गपते भूयास् त्वम् एव शरणं हि नः // HJm_12.27

दृष्ट्या च्छिन्नास् त्वया पाशाः शङ्खच्छेदसितान्तया स त्वम् ईदृक्प्रभावः सन् कथम् अस्मान् न पास्यसि // HJm_12.28

तम् आलोकयतो दीनं मग्नं बन्धुम् इवापदि आपुपूरे मनस् तस्य दुःखेन करुणात्मनः // HJm_12.29

न त्रास्यते कथं सत्त्वान् धीरो ऽयं व्यसनाद् इति शीलपारमिता तस्मिन् निःसंदिग्धेव तस्थुषी // HJm_12.30

मां चेन् न संत्यजसि बोधिम् अवाप्तुकाम एतान् मयूरवर पाहि नरेन्द्रदण्डात् तं शीलपारमितया जनितप्रसादम् इत्थं कृपा शिखिनम् उक्तवतीव साध्वी // HJm_12.31

अथ बोधिसत्त्वस् तान् मरणभीतान् प्रति दुःखायमान ईदृशम् अचिन्तयत् ।

मधुरस्वरः सुरुचिराङ्गरुहो यदि नाभविष्यम् अहम् अत्र वने न नरेश्वराद् अकरुणप्रकृतेर् भयम् आगमिष्यद् इति शाकुनिकान् // HJm_12.32

इति मन्निमित्तम् अयम् आर्तमना व्यसनं न यावद् उपयाति जनः परिचोदितः क्षितिभुजा मरणात् परिपालयामि खलु तावद् इमम् // HJm_12.33

अकारणे वा सति वापि कारणे समेत्य यन् नाम परो विनश्यति अनेकधिग्वादशरक्षतात्मना किम् ईदृशा तस्य जनस्य जन्मना // HJm_12.34

इति बोधिसत्त्वश् चिन्तयित्वा तम् उवाच । गच्छतु भवान् अग्रतस् तस्मै राज्ञे निवेदयितुं ममागमनम् इति । अथ स शाकुनिकः प्रमुदितमनास् त्वरितम् आगम्य न्यवेदयद् इदानीम् एवास्मदनुकम्पया देव स मयूराधिपतिर् आगच्छतीति । ततः स राजा सह देव्या पौरजनेन च कुतूहलवशात् तदागमनप्रतीक्षी पुनः पुनर् अन्तरीक्षम् आलोकयामास । सो ऽपि च मयूरराजः समाश्वास्य विनिवर्त्य चानुगामिनं मयूरगणम् अम्बरतलम् उत्पत्य सहसैवोपगम्य प्रकृतिमधुरया केकया सकलं वाराणसीजनम् आनन्दयामास । ततस् तस्य तां केकाम् आकर्ण्य नियमेन स मयूराधिपतिर् आगच्छतीति विचिन्त्य प्रमुदितमनसो नूपुरविरावसंत्रासितकपोतपालीनिलीनपारावतमिथुनाः द्रुततरगमनविगलितकर्णावतंसकाः काश्चिद् अनवसितविशेषकाङ्कितललाटमध्याः सिन्दूराभिताम्राङ्गुलयो द्रुतगमनविघ्नकारिणे गुरुनितम्बभरायात्यसूयन्त्यः किंचिद् गत्वा चापरा गुरुजनावलोकनव्रीडिताः पुनस् त्वरितां गतिम् अवरुन्धानाः प्रहर्षविकसन्नयनकुवलयपलाशप्रान्तस्पृष्टश्रवणान्ताश् च काश्चिद् अपराः पुनर् अर्धालिखितं चित्रफलकम् अपास्य क्षीणप्राणप्रायप्रान्तवर्तिकाः करण्डकेषु विनिक्षिप्य सितजलदतुहिनकुन्दमृणालस्फटिकरजतधवलानि सौधतलान्य् आरुरुहुर् अपराश् च स्त्रियो वातायनान्य् अभिजग्मुः ।

अथ जालगवाक्षवर्तिनीनाम् अबलानां वदनैर् विशालनेत्रैः शिखिदर्शनजातसंभ्रमाणां बहुचन्द्रेव भृशं पुरी रराज // HJm_12.35

कौतूहलाद् अनिलवेल्लितकाकपक्षा रंहस्विनो हरिणशावमनोहराक्षाः आलोकिताः प्रमनसा जननीजनेन निर्जग्मुर् उन्नतमुखाः शिशवो गृहेभ्यः // HJm_12.36

क्रीडां विहाय च मनोहरकन्दुकोत्थां स्वेदावबद्धकणचारुललाटदेशाः किंचित्कुचोद्गमसमुन्नमितोत्तरीया निश्चक्रमुः प्रतनुबाहुलताः कुमार्यः // HJm_12.37

अयम् अयम् इति बर्ही दर्शनप्रोन्नताभिः स्फुटनखमणिभाभिः पद्मपत्त्रारुणाभिः स्मितरुचिरमुखीनां राजसीमन्तिनीनां किसलयितम् इवासीद् अङ्गुलीभिः पुरं तत् // HJm_12.38

क्षणाच् च सुरासुरसंग्रामात् क्षुरप्रनिकृत्तदण्डः केतुर् इव विविधमणिविचित्रस् तस्य राज्ञो भवनान्तरालम् अलंकुर्वन् स मयूरराजो निपपात ।

युगपद् अथ जनानां विद्रुमाकारतुण्डे शिखिनि गुरुकलापे दृष्टयस् तत्र पेतुः ददति धनम् उदारे क्षिप्रम् आशाः समन्ताद् अभिलषितफलानाम् अर्थिनां दातरीव // HJm_12.39

राजा च राजमहिषी च मयूरराजम् आलोक्य तं तुतुषतुः समवाप्य कामम् लोकस्य दुर्लभम् अवाप्य हि वस्तु किंचित् खिन्नं प्रमोदमुदम् उद्वहतीव चेतः // HJm_12.40

ततः प्रमुदितमनाः स राजा तं मयूरराजं राजार्हे रदनपादे समुपवेश्यासने पश्चाद् आसनम् अध्यतिष्ठत् । अथ बोधिसत्त्वो मधुरगम्भीरेण स्वरेण तं राजानम् इत्य् आबभाषे ।

जित्वेन्द्रियाणि बलवन्ति बलेन बुद्धेर् युञ्जन् मुहुः प्रणयिनां प्रणयं फलेन एतां समुद्रवसनां व्यसनान्य् अपास्य भुपाल पालय चिरं पृथिवीं नयेन // HJm_12.41

तव धर्ममयाः कच्चिद् एधन्ते धर्मसेतवः अगाधं दुःखजलधिं यान् आलम्ब्योत्तरिष्यसि // HJm_12.42

रन्ध्रावलोकिभिः क्रूरैर् दुर्गृहीतैर् इवाहिभिः कच्चिद् दृष्टमहादोषैर् विषयैर् नातिबाध्यसे // HJm_12.43

भृत्येषु च विनीतेषु कलत्रेषु सुतेषु च कच्चित् ते कुशलं राजन् देहे चात्र यशोनिधौ // HJm_12.44

राजोवाच ।

भवत्य् अकुशलं तावन् मयूराधिप देहिनाम् परार्थपटुना यावत् संगमो न भवादृशा // HJm_12.45

संचरन्मुरजमेघनिस्वनं नर्तकीतडिदलंकृतान्तरम् त्वाम् अवाप्य शिखिराज मन्दिरं वारिवाहसमयायते मम // HJm_12.46

कान्तामुखस्य तिलको नभसः शशाङ्कः स्वच्छप्रभस्य मणिर् आभरणस्य शुद्धः जातश् चिराभिलषितो ऽस्य मयूरनाथ मद्वेश्मनश् च महतस् त्वम् अलंकरिष्णुः // HJm_12.47

इत्य् अभिसंराध्य स राजा दीपप्रभावभासितभवनान्तराले प्राचीवधूगृहीतशशिदर्पणे विभाव्यमानतारकाकुमुदवनाभ्यलंकृतनभःसरसि प्राप्ते च क्षणदामुखे सुरभिकुसुमपल्लवास्तीर्णं मयूराधिपतये मृदु शयनीयम् आदिदेश । दिवसे दिवसे च परिपाकसुरभिमृदूनि फलानि प्रायच्छत् । अथ कदाचित् काले गच्छति स राजा किंचित् करणीयम् उद्दिश्य बोधिसत्त्वम् अनुपमाया देव्या हस्ते निक्षिप्य नातिमहता सैन्येनानुगम्यमानस् तुरगखुरपुटोत्खातमार्गपांसुपरिधूसरकिसलयकुसुममञ्जरीकाणि वनान्तराणि कुर्वन्न् अमलसलिलवाहिनीतटवेतसच्छायानिलीननिश्चलबकबलाकावलोक्यमानचकितशफरीकुलाकुलतटपयस्काः त्वरितरथचरणध्वनिसंत्रासरसितचक्रवाकमिथुनपरित्यज्यमानसितपुलिनास् तास् ताः समुद्रपत्नीर् आलोकयंस् त्रस्तसारङ्गोत्पतनसाचीकृतानि चटुलबहुनयनानीव दिगन्तराणि पश्यन् प्रसृतगोकुलदशनच्छिद्यमानशष्पाङ्कुरान् इक्षुवणोपरुद्धान् अनेकांश् च ग्रामसीम्नो ऽतिक्रम्य किंचिद् देशान्तरं जगाम ।

साथ क्षितीशमहिषी महिषीविषाणधूम्रालकाकुलमुखी परिपाण्डुराङ्गी वातायनप्रसृतम् आयतपक्ष्मलेखं चक्षुश् चिरं व्रजति धूर्तविटे बबन्ध // HJm_12.48

दृष्ट्वा च तां सुनयनां नयनाभिरामां भित्तेः समीपम् अगमद् विटपुङ्गवो ऽसौ पार्श्वानि वीक्ष्य चकिता च पुनः पुनः सा कर्णोत्पलं सुरभि तस्य मुमोच गात्रे // HJm_12.49

आदाय तत् कुवलयं विकसत्पलाशम् आघ्राय मूर्ध्नि च निवेश्य स जृम्भमाणः अस्तं विवस्वति गते विवशः कथंचित् तस्याः क्रमेण नयनानुगतः प्रतस्थे // HJm_12.50

गत्वा ततः स गणिकाभवनं विलासी गाढं वितानहृदयः शयने निविश्य निश्वाससूचितमनोभवबाणपातस् तस्याः प्रकामम् उदकण्ठत वीतधैर्यः // HJm_12.51

ऊचे विटो गणिकया परिहासपूर्वं पश्यामि शून्यम् इव सांप्रतम् आर्यपुत्रम् धूर्तस् ततः स निजगाद निगूढभावो द्यूते जितो ऽहम् इति तेन वितानता मे // HJm_12.52

अथ स विटस् तां वर्षशतोपमां रजनीं मन्यमानस् तद्गतमनाः समुत्थाय रहसि कस्मैचित् सुहृदे तं वृत्तान्तम् आवेदयामास । श्रूयतां वयस्य ह्यो मया यद् अनुभूतम् इति । येयं राज्ञो ऽग्रमहिषी निमेषमात्रेण मानुषीति लोके वर्ण्यते सलीलम् आलोकयन्त्या कर्णाद् आदाय ।

वातायनं समवलम्ब्य विलासवत्या हासस्फुरद्दशनरत्नमयूखभासा नाम्ना तयानुपमयोत्पलम् उत्पलाक्ष्या रूपेण चानुपमयोपरि मे विमुक्तम् // HJm_12.53

सा वातयानमुखसंगतचन्द्रवक्त्रा चन्द्रप्रभां दशनरत्नरुचा हरन्ती भ्रूकार्मुकेण सविलासम् उदीरितेन चक्षुःशरं मयि विमुक्तवती कृशाङ्गी // HJm_12.54

तच् चिन्त्यतां तावत् संगमोपाय इति । अथ सुहृद् विहस्योवाच । कदाचित् काकतालीयम् इदं भवेत् त्वं च नृपतिभवनभित्तिसमीपम् अनुप्राप्तस् तस्याश् च कथम् अपि किम् अप्य् आलोकयन्त्याः । स्वयम् एव तवोपरि कर्णोत्पलं पतितं स्याद् अतो मा भवान् गणिकाविटजनमध्यम् आगम्यात्मानं हास्यवस्तु कार्षीत् । तत् परित्यज्यताम् अयम् असद्विकल्पः । यद्य् अपि च कामयमानया राजमहिष्या तवोपरि कर्णोत्पलं पातितं स्यात् तथापि न युज्यत एवेयम् उत्कण्ठा । दुर्लभकामिनीजनसमागमोपायचिन्ता हि पुरुषस्य महतीम् अरतिम् उत्पादयति । निद्राम् अपहरत्य् अङ्गानि दुर्बलयति भोजनरुचिम् अपास्यति । हितवादिनाम् अपि सुहृदाम् उपदेशं नाभिनन्दति प्रवृद्धनवसलिलौघसरिद् इव तटलतां धर्मस्थितिम् उन्मूलयति रम्याण्य् अपि द्वेष्टि । सज्जनगुणकथाभ्यसूयिनी सर्वथा प्रतिसंख्यानबलेनेयम् अभावं शक्यते नेतुम् इति । विट उवाच । अनेकदेहलीलङ्घना जघनसंपर्कनिष्णातबुद्धयो मादृशा धूर्तपुरुषाः कथं सकामाम् अकामां वा सीमन्तिनीं न ज्ञास्यन्ति । श्रूयतां वयस्य । श्रवणकण्डूयनस्तनप्रकाशनलज्जापरावृत्तावलोकनहसितादयो हि भावाः स्त्रीणां सकामं हृदयम् आविष्कुर्वन्तीति । किम् अत्र संदेहेन । सुहृद् उवाच । यद्य् एवं खगपतिर् इव प्राकारम् अपि लङ्घयित्वा भवान् नृपतिभवनं रात्रौ प्रविशेत् । किं न्व् अकृतसंकेता तत्रभवती राजमहिषी प्रतिबोध्यमाना त्वया ।

विनीतनिद्राकुललोचनोत्पला प्रवेपिताङ्गी जघनच्युताम्बरा ससाध्वसा को ऽयम् इति प्रभाषिणी भविष्यति व्याघ्रभयान् मृगीव सा // HJm_12.55

ततः परिजनकोलाहलप्रबुद्धकाञ्चुकीये राजकुले नायतिक्षमम् एतत् कर्म पश्यामि । एवं च तयोर् मिथो विचारयतोर् एव मृदुगमनचलितमुखरनूपुरमनोहरचरणकमलयुगलविन्यासेनार्चयन्तीव वसुधातलम् अभिनयगतिम् इव दर्शयन्ती चकितहरिणनयनस्पर्धिना सविलासावलोकनद्विगुणशोभेन कर्णसुहृदा चक्षुषा ह्रेपितम् इव किंचिद् अवनतं कर्णोत्पलं नियच्छन्ती स्थूलमुक्ताहारमणिप्रभोद्द्योतितगुरुपयोधरा पयोधरविरहप्रकाशनिशाकरा निशेव मूर्तिमती किंचिद् आतपजनितस्वेदकणजालकाक्रान्तविशेषकान्ता विशेषकान्तबकुलमालिकापरिपूरितकेशहस्ता हस्तावलम्बितशिथिलमेखलाकलापा कलापिचन्द्रकमध्यनीलम् उत्तरीयम् उद्वहन्ती प्रतनुमेचकया रोमराज्या विपुलगम्भीरनाभिनिम्नताम् इव दिदृक्षमाणयोपशोभितत्रिवलीतरङ्गविषममध्या मध्याह्नसमयदिवसकरकिरणालिङ्गितेव कमलमाला गमनपरिश्रमवशाद् ईषत्परिम्लानसुकुमारशरीरयष्टिः कर्पूरसुरभिताम्बूलरागारुणाधरा परिणतलवलीफलाभिपाण्डुकपोलतलालिखितपत्त्रलेखा विग्रहवतीव लक्ष्मीर् लक्ष्मीवती नामानुपमरूपानुपमया देव्या प्रहिता वचनकुशला कुशलशिल्पिघटितेव कनकप्रतिमा दूती । समागम्याभिवाद्य च तद् विटद्वयम् उपविश्य विज्ञाय च तयोर् निर्यन्त्रणसुहृत्तां विश्रब्धम् एव राजमहिषीवृत्तान्तम् आचष्टे ।

पुष्पायुधप्रतिनिधे भवनान्तगामी दृष्टो यदानुपमयासि नरेन्द्रपत्न्या सा मे सखी करतलार्पितवक्त्रपद्मा कार्श्यं तदाप्रभृति पाण्डुरतां च धत्ते // HJm_12.56

तनुतरम् अमृणालपङ्कपाण्डु च्युतधृति सांप्रतम् अङ्गम् उद्वहन्त्याः मनसि मनसिजः शरान् अशेषान् अविरतम् अस्यति मे वयस्य सख्याः // HJm_12.57

कुसुमशयनम् ऊष्मणाङ्गजेन प्रतिदिवसं वितपत्य् अनङ्गतन्वी उपवनम् अपि चारु वीक्षमाणा न च रमते हरिणीव यूथमुक्ता // HJm_12.58

इति कुसुमधनुःशराहताङ्गीम् अविरतनिश्वसितस्फुरत्कपोलाम् अवनमितमुखीं ह्रिया सुगात्रां रमय सखीं वचसापि तावद् अद्य // HJm_12.59

अथावसितवचनायां तस्यां दूत्यां स तस्य वयस्यो विहस्यावोचत् । अवश्यम् एव स्फुटितसहकारमञ्जरीको वसन्तसमयः कोकिलया सह युज्यते । सिद्धास् ते मनोरथा इति । विट उवाच । सर्वथा कृतार्थो ऽस्मि सखि कथ्यतां तावत् कतमस्मिन् प्रदेशे कस्यां वा वेलायां मयानुपमा द्रष्टव्येति । दूत्य् उवाच । किंचिद् आसन्ने प्रसुप्तजने निशीथे यो ऽसौ बहिःप्राकारसमीपरोही न्यग्रोधस् तम् अधिरुह्य तस्यैव नृपतिभवनभित्तिसंश्लिष्टप्रमदवनोपरिप्रसृतशाखयावतीर्य वयस्येन तत्र सुवर्णावभासाय मयूराधिपतये दीर्घिकातटचित्रशालावस्थिताहारसलिलोपनयनच्छलेनानुपमा चिरम् आत्मानं विनोदयन्ती समभिगमनीयेति । विट उवाच । सखि मद्वचनाद् एवम् अनुपमा वक्तव्या ।

उपरि ममोत्पलम् असितं कर्णाद् आदाय यत् त्वया मुक्तम् / जीवितम् इव तद् दयितं म्लानम् अपि न संत्यजाम्य् एतत् // HJm_12.60*

तथास्त्व् इति च प्रणम्य गतायां तस्यां वचनहार्यां बहुलपक्षान्धकारतिरस्करणदुरालक्ष्येषु पथिषु श्रूयमाणसुप्तगजनिश्वासेष्व् आलानस्थानेषु प्रथमयामिकजनप्रोत्थाप्यमानद्वितीयजागरणाधिकृतेषु गुल्मकपुरुषेषु निश्चलपतत्रिगणाध्यासितशाखाकुलायेषु वितपिषु स्थाणुम् अप्य् आलोक्य पुरतः पुरुष इति शङ्कमानः सुरभिवर्णकानुलिप्तः स विटः प्रथमजलधरनीलपटावगुण्ठितशरीरो वामकक्षावलम्बितनिशितकरवालः सह तेन सुहृदा प्रत्यासन्ने ऽर्धरात्रे समुपगम्य दूत्युपदिष्टेनोपायेन पुनर्दर्शनायेति सुहृदम् आमन्त्र्य प्रमदवनं प्राविशत् । अथ तम् आगच्छन्तम् आलोक्य गृहीतसविशेषमण्डनानुपमा चिन्तयामास । नियतम् अवतरन्न् अयम् अनया वटशाखयानेन मयूरेण दृष्टः । कदाचिद् अयम् इमं वृत्तान्तम् आगताय राज्ञे निवेदयेद् इति । तद् एनं शिखिनं विषसंपृक्तेनाहारेणाभावम् एव नेष्यामीति विचिन्त्य ।

शिखिने विषसंपृक्तम् आहारम् उदकं च सा ददाव् अस्ववशीभूता रागेण च भयेन च // HJm_12.61

अपेतकौलीनभयः सुखाशया विमोहितः पुण्यसपत्नभूतया अनात्मवान् किं न करोत्य् असांप्रतं गतत्रपो रागपरायणो जनः // HJm_12.62

स च मयूराधिपतिः किंचित् तिक्तम् आहारम् उदकं चास्वाद्य नियतम् अनुपमयानेन पुरुषेण सह संगमम् अभिलषन्त्या जातशङ्कया मह्यं विषं दत्तं । तद् इदम् अत्र प्राप्तकालम् ।

एतौ स्त्रीपुंसौ जातरागान्धबुद्धी यावद् वाधूक्यं सांप्रतं नोपयातः धर्म्यां कुर्वाणः संकथां कापथघ्नीं तावद् वैराग्यं नेतुम् एनौ यतिष्ये // HJm_12.63

इति विचिन्त्य स महात्मा तं विटम् आजुहाव । महात्मन्न् इहोपविश्य मत्संकथया विनोद्यात्मानं यथाभिप्रेतम् अनुष्ठास्यसीति । स च विटः कुतूहलवशाद् उपगम्य मयूराधिपतिसमीपे समुपविवेश । सापि च राज्ञी किंचित् तम् आलोक्य ससाध्वसा तूष्णीम् एवावतस्थे । ततो बोधिसत्त्वस् तयोर् उपविष्टयोः पुरस्ताद् इति वैराग्यसंबन्धिनीं कथाम् अकरोत् ।

अहो हास्यज्योत्स्नापरिचयमनोज्ञो मुखशशी सलीलप्रस्थानं स्तनयुगलम् उच्छ्रायि सुभगम् नरस्येत्थं मोहात् परयुवतिरूपं कलयतः प्रसंख्यानाभावात् कुसुमधनुर् अन्तः प्रविशति // HJm_12.64

निरुन्धाना हस्तं मम रहसि नीवीशिथिलिनं भविष्यत्य् एवं सा प्रथमतरलज्जानतमुखी इति स्त्रीसङ्गार्थं बहुविधविकल्पान्धमनसः शरीरं रन्ध्रेक्षी प्रतिदिनम् अनङ्गः क्रशयति // HJm_12.65

आगच्छेत् पुनर् अद्य सा गुरुभयात् तस्याः कुतो ऽभ्यागमः शर्वर्याम् अथवाहम् एव चकितं गच्छामि सुप्ते जने दूत्याप्य् अद्य चिरं कृतं किम् उ मनस् तस्या निवृत्तं भवेद् इत्य् आरूढविकल्पनाकुलधियः किं तत् सुखं कामिनः // HJm_12.66

संकल्पात्

प्रभवत्य् अनङ्गदहनस् तापस् ततो जायते संतापाद् अरतिः स्मृतेः प्रमथनी स्मृत्या विना ह्रीः कुतः ह्रीभङ्गाद् वचनीयतापरिभवः क्लेशेषुविद्धात्मनोः स्याताम् आधिमतोः कदा नु सुखिनी स्त्रीपुंसयोश् चेतसी // HJm_12.67

अक्षाणां वशम् आगतः सुखम् इति व्यामोहितश् चिन्तया कामार्तः परयोषिते स्पृहयति व्रीडाविहीनो जनः श्लिष्यन्तीं स्त्रियम् आयसीं हुतवहज्वालास्फुलिङ्गाकुलां सोढुं शक्ष्यति तां कथं नु नरके प्रादुर्भवद्वेपथुः // HJm_12.68

इति परदारासङ्गं बहुदोषम् अवेत्य धैर्यम् आलम्ब्य / भगिनीसंज्ञां कृत्वा तस्मात् प्राज्ञो निवर्तेत // HJm_12.69*

तद् एवम् अल्पस्य नाम सुखस्य हेतोर् अनेकानलज्वालासहस्रालिङ्ग्यमानविकूणिताक्षाणाम् अशुभकर्मकारिणाम् आर्तनादकरुणम् तीक्ष्णक्रकचपाट्यमानशिरसां चापरेषां रुधिरधारोक्षितज्वलितभूतलम् क्रूरयमपुरुषोद्गूर्णलोहमुद्गराभिघातविचूर्ण्यमानपुरुषशरीरास्थिध्वानभीषणम् अयःशाल्मलीकण्टकपरिभिद्यमानैर् अपरैश् च मुहुर् अभिनिस्वनद्भिर् उपचितपर्यन्तं नरकम् इच्छन्त्य् अमेधसः पतितुम् इत्य् अहो महद् एतद् अज्ञानम् । अथासौ विटस् तेन मयूराधिपतिना नरककथां वर्ण्यमानाम् आकर्ण्य संविग्नमना विनिवर्तितपरदाराभिलाष उवाच ।

अहो त्वद् एनां नरकोपवर्णनां प्रकामम् आकर्ण्य मुहुर् भयंकरीम् उदर्चिषं नारकजातवेदसं विलोकयामीव समुत्थितध्वनिम् // HJm_12.70

तद् अद्यारभ्य रागान्धजनचित्तापहारिणे नमो ऽस्तु परदाराय सुगतिद्वाररोधिने // HJm_12.71

शुभाशुभपथाख्यानव्यक्तीकृतविनिश्चयः आचार्यम् इव पश्यामि भवन्तम् अनुशासकम् // HJm_12.72

इमां च राजमहिषीम् अखण्डितपतिव्रताम् अपेतरागतिमिरो मन्ये ऽहं भगिनीम् इव // HJm_12.73

अथानुपमा तस्य भगिनीति वचनम् उपश्रुत्य परां व्रीडाम् उपगता तां च बोधिसत्त्वधर्मदेशनाम् अवधार्य संविग्नमतिर् इदम् उवाच । मया खलु मन्दभाग्यया नरकगामिन्या कामरागवशगयास्मै मयूराकृतये महर्षये विषसंपृक्तम् अन्नम् उदकं च विश्राणितं तत् कथम् इदानीं कर्तव्यम् इति । तां च विप्रतिसारवतीम् आलोक्य बोधिसत्त्वो धीरयामास ॥

मैत्रीमन्त्रेण मे नित्यं शरीरम् अभिमन्त्रितम् नैव हालाहलेनापि विषेनायाति विक्रियाम् // HJm_12.74

देवि मा स्म गमः शङ्कां मदपायकृताम् इति न चाहं कथयिष्यामि किंचिद् ईदृङ् महीभुजे // HJm_12.75

अथानुपमा तद्वचनम् आकर्ण्य परं परितोषम् उपजगाम । सो ऽपि च विटस् तं मयूराधिपतिम् अभिवाद्य विनिवृत्तपरदारव्यसनस् तेनैव न्यग्रोधेन स्वनिलयम् अगात् । अथ प्रभातसमये ब्रह्मदत्तः समापय्य स्वराज्यकरणीयम् आगम्य प्रविश्य च स्वभवनं प्राग् एव मयूराधिपतिम् अगात् । परस्परकुशलवार्त्तां च नृपतिमयूराधिपती पप्रच्छतुः । अथान्यस्मिन्न् अहनि राजानं शिखिपतिर् एवम् उवाच ।

मम विरहविषाददीनचित्तं न पिबति वारि फलं न चापि भुङ्क्ते जलधरसमये ऽपि वीतनृत्तं शिखिकुलम् आकुलतां ध्रुवं प्रयातम् // HJm_12.76

इति नरवर पालय त्वम् एनां भुवम् अखिलां विजितेन्द्रियारिवर्गः अहम् अपि हिमवन्तम् इन्दुगौरं त्वदनुमतः शिखिपालनाय यामि // HJm_12.77

इति तम् अभिदधानम् इन्द्रनीलच्छविगलम् आयतचारुबर्हभारम् कथम् अपि गमनाय यूथनाथं नगरवराद् अनुमन्यते स्म राजा // HJm_12.78

नृपतिनाथ समुत्सुकचेतसा पुरजनेन च तेन विलोकितः अभजताम्बरम् अम्बुदसंवृतं शिखिवरः शिखिनां हितकाम्यया // HJm_12.79

अथ विलोक्य मनोहरम् अम्बरे शिखिनम् आयतबर्हभरालसम् अमुचद् उत्सुकतां समुपागतं नयनवारिकणान् अवरोधनम् // HJm_12.80

तीव्रे मनोधृतिभिदि प्रियविप्रयोगे रूढं यद् अश्रु मतिलोचनसंनिरोधे तन् मूर्तिमन् नियतम् आधिहुताशतापाद् दुःखं द्रवीभवति सङ्गवतो जनस्य // HJm_12.81

दृष्ट्वा ततश् चलकलापशिरोधरं तं दूरान् मयूरवृषभं नभसा व्रजन्तम् प्रत्युद्ययुश् चलितपक्षपुटाः प्रतीताः केकाः कलाः कलगिरः शिखिनः सृजन्तः // HJm_12.82

अथ शिखिनि समेते तत्र भूपालपार्श्वाद् गुणवति सुहृदीव प्राप्तसर्वाभिलाषे तुहिनगिरिर् उदग्रं प्रीतिम् आविश्चकार प्रविसृतहिमहासः शष्परोमोद्गमेन // HJm_12.83

बोधिसत्त्वो ऽपि च समेत्य तन् मयूरयूथं चिरविरहपर्युत्सुकं पक्षाभ्याम् आलिङ्ग्य समाश्वासयामास । तद् एवम् आत्मनि निरपेक्षेण तेन भगवता बोधिसत्त्वभूतेन प्राणाः प्राणात्ययात् परिपालिता इति विचिन्त्य सुगतिभवनद्वारप्रकाशिनि प्रदीपभूते शीले भवद्भिर् आदरः करणीय इति ।

॥ इति मयूरजातकम् ॥

19. हस्तिन्

जानाति क्षान्तिफलं य एव रागादिशान्तिम् अन्विच्छन् / कुरुते स एव धीरः प्रहरत्य् अपि वैरिणि क्षान्तिम् // HJm_19.1*

तद्यथानुश्रूयते

विविधतरुकुसुमगन्धाधिवासितदिगन्तराले रेवासलिलक्षालितविपुलान्तरीयशिलातले पवनचलितवेणुवनपलाशसलसलाशब्दसंत्रासोत्कर्णचलितमृगकुले क्वचिद् अनलप्रसूतभयोत्पतितशकुनिगणे क्वचिद् उच्छ्रितशिखरस्थितधवलबलाहकच्छायाश्यामीकृतनितम्बे क्वचिद् इभयूथभज्यमानशल्लकीगन्धसुरभीकृतनिकुञ्जे क्वचित् पुलिन्दीजनसमुच्चीयमानपतितविरलमयूरचन्द्रके चन्द्रकिरणविमलसलिलप्रस्रवणे ऽन्यत्र तापसकन्यकागणानीयमानलताकुसुमसमुद्भ्रान्तालिकुलोपगीते शुकहरितशाद्वलरमणीयवसुधातले विन्ध्यभूभृति शरज्जलधराकृतिबृहद्देहः शेषभुजगानुरूपकरः कमलाभिताम्रपुष्करः क्षुण्णाभिनवमुस्तासुरभिमदलेखाश्यामकपोलः सुसंस्थितनखपादः कलधौतरचितकुम्भाकृतिकुम्भः क्षमाङ्कुशविनिवारितामार्गप्रस्थितिः स्थितिर् इव सर्वगुणानां षड्दन्तो गन्धहस्ती बोधिसत्त्वो गजयूथाधिपतिर् बभूव ।

रेजे स यूथपतिर् इन्दुमरीचिगौरो मुक्ताविपाण्डुरदनः पृथुपीनकुम्भः पुञ्जीकृतः पशुपतेर् इव नृत्तकाले हासो महान् अपहृतक्षणदान्धकारः // HJm_19.2

वाताहतानि कुसुमानि समुत्सृजन्तः किञ्जल्करेणुपरिपिञ्जरकेसराणि तं शाखिनस् तुहिनशैलसितं गजेन्द्रं भक्त्याभितुष्टुवुर् इव भ्रमरस्वरेण // HJm_19.3

विहाय दूरात् कुसुमानि शाखिनां हसत्पलाशानि कुशेशयानि च कपोलयोस् तस्य मदाम्बुदिग्धयोः शनैर् अलीयन्त मुदा शिलीमुखाः // HJm_19.4

निरन्तरं पीनकपोलशोभितं समन्ततो वासितदिङ्मुखान्तरम् स यूथभर्ता पिबतः शनैर् मदं न कर्णतालैर् भ्रमरान् अवारयत् // HJm_19.5

मनोहरम् अविच्छिन्नं प्राज्यं याचनका इव जगृहुः षट्पदास् तस्माद् दानं दानपतेर् इव // HJm_19.6

तेन च यूथपतिना समाश्रितो विन्ध्यगिरिः कनकगिरेर् अप्य् आत्मानम् अभ्यधिकम् इवामन्यत । तच् च गजयूथं सम्यक् तेन परिपाल्यमानं राजन्वद् इव राज्यम् अनुदिवसम् अवर्धत ।

तस्य भद्रा सुभद्रा च प्रकृत्या भद्रचेतसः दयिते दयितक्षान्तेर् द्वे करेणू बभूवतुः // HJm_19.7

अथ कदाचिद् अनिलचलितपताककुटिलविद्युल्लतापरिस्फुरणसंमीलितविपुलाक्ष्याः सलिलभरगुरुजलधरगर्जितसंत्रासप्रवेपिताङ्घ्र्याः तनुभुजलतोत्क्षेपोन्नततरगुरुपयोधरायाः खड्गप्रभावभासितदक्षिणभुजं कल्पतरुकुसुमम् आजिघ्रन्तं दयितम् आलिङ्गन्त्याः पतितकर्णोत्पलायाः शिथिलकेशपाशच्छन्नांसदेशायाः पवनचलितम् उत्तरीयम् अवरुन्धत्याः स्फुरिताभरणमणिकिरणावभासितशरीरयष्टेर् नभसा गच्छन्त्या विद्याधर्याः किसलयसुकुमारात् पाणेः परिभ्रष्टम् अभिनवम् आमोदाधिवासितदिगन्तरालम् अलिकुलपरिगीतं कनकसूचीसदृशकेसरं रथचक्रप्रमाणं हरितालकपिलमकरन्दम् अरविन्दं मानससरःसंभूतं तस्य गजपतेर् एकाकिनस् तत्राचलवरे विहरतः पुरस्तात् पपात । तच् च कमलम् आदाय स एवम् अचिन्तयत् । भद्रायाः सुभद्रायाश् च मे पत्न्योर् या प्रथमम् आगमिष्यति तस्यै प्रसादम् अहं दास्यामि ।

परिभ्रमद्भृङ्गकुलाकुलान्तरं सुगन्धिकिञ्जल्कविकीर्णकेसरम् इदं हसच्चारुपलाशसंचयं मुदा प्रदास्यामि महाकुशेशयम् // HJm_19.8

अथ सुभद्रायै प्रथमम् आगतायै तत् कनकमयम् अम्भोरुहं स गजपतिः प्रायच्छत् । सापि च तद् आघ्राय सबहुमानं शिरसि निवेशयामास । पश्चाच् च भद्रा समुपगम्य तत् सुभद्रायाः कुम्भमध्यावस्थितम् अरविन्दम् आलोक्य नियतम् इदम् अम्भोरुहम् अस्यै सपत्न्यै माम् अवमन्यानेन यूथपतिना दत्तम् इति विचिन्त्य पराम् ईर्ष्याम् आगम्य तं द्विरदपतिम् अपहायान्यत्र विजहार ।

सा यत्र दृष्टम् अहनि द्विरदेन तेन दत्तं सुगन्धि विकचं कमलं सपत्न्यै तत्रेर्ष्यया परिगता न तृणं जघास नाम्भः पपौ ग्लपितमूर्तिर् उदन्ययापि // HJm_19.9

असद्विकल्पनाहुत्या को नाम समना जनः ईर्ष्यावह्निशिखाम् इद्धाम् आत्मदाहाय वर्धयेत् // HJm_19.10

ते सुखं शेरते धीरा नामार्गेण प्रयान्ति ते न मनोगृहम् अध्यास्ते येषाम् ईर्ष्याभुजङ्गमी // HJm_19.11

अथ भद्रा विन्ध्यशिलातले तरुच्छायापिहितविनिबद्धपर्यङ्कध्याननिश्चलनयनम् आलिखितम् इव मत्तचकोरविलोचनरक्तचीवरप्रावृताङ्गं प्रत्येकबुद्धम् आलोक्य सरसः कुसुमान्य् आनीयार्चयामास ।

क्षिप्ताभिर् ऊर्ध्वम् अथ वाशितया स भास्वांस् ताभिर् मुनिः कुमुदपङ्क्तिभिर् आबभासे उद्भासिनीभिर् अचिरद्युतिभासिताङ्गः संध्यापयोधर इवोपरि तारकाभिः // HJm_19.12

अथ सा हस्तिनी विन्ध्याचलतटम् आरुह्य यद् अस्मात् प्रत्येकबुद्धार्चनकुशलमूलात् फलं तेनाहम् अस्य गन्धहस्तिनो वधाय राजमहिषी स्याम् इति विचिन्त्यात्मानं मुमोच । तस्याश् च शरीरभारपरिभग्नतरुशाखायाः पतनशब्दम् आकर्ण्य ।

उत्पेतुः प्रचलितचन्द्रका मयूराः शार्दूलो दृशम् उदमीलयत् प्रसुप्तः संत्रासात् तृणकवलं विहाय दूराद् उत्कर्णं मृगकुलम् आकुलं बभूव // HJm_19.13

सा च कालं कृत्वान्यतरस्य राज्ञो जातिस्मरा दुहिता बभूव । किंचिदुद्भिद्यमानस्तनमुकुलां च तां त्रिवलीसोपानमालाधिरोहणजातखेदेनेव नवयौवनशिल्पिना समन्मथम् उपचीयमानशरीरलावण्यां प्रारब्धलज्जाहसितविलासाम् अलिकुलश्यामकेशपाशां कनकच्छेदावदातां श्रियम् इव मूर्तिमतीं पिता कस्मैचिद् एव नृपतये प्रायच्छत् । सा च तं राजानम् अनन्यस्त्रीसदृशैर् अबलागुणैर् अपहृतेन्द्रियं कृत्वा कदाचिच् चन्दनानुलिप्तस्तनगात्री निश्वासपरिकुञ्चिताधरपुटा ज्वरिताम् इवात्मानं दर्शयामास । यदा च भिषग्भिश् चिकित्स्यमानापि तथैव ज्वरच्छद्मना परिचेष्टते स्म तदा तस्या भर्ता भृशम् अरतिम् आजगाम । सा चैनम् उवाच ।

नैष ज्वरो मे हरिचन्दनेन जीमूतशीतेन न मारुतेन प्रयाति शान्तिं स्फटिकामलेन न चांशुजालेन निशाकरस्य // HJm_19.14

विन्ध्याचले ऽस्ति द्विरदाधिराजः श्वेताम्बुदाभो गुरुषड्विषाणः मृणालशुक्लेषु महत्सु तस्य दन्तेषु सन्ति क्षितिपाल मुक्ताः // HJm_19.15

लिप्येत ताभिर् यदि मे शरीरं पिष्टाभिर् अम्भःकणनिर्मलाभिः तद्दन्तशय्या यदि मे क्रियेत दाहज्वरस्यास्य ततः शमः स्यात् // HJm_19.16

अथ स राजा नियतम् अनया देव्या जातिस्मरया जात्यन्तरे श्रुतो दृष्टो वा विन्ध्यवनवासी गन्धहस्तीति निश्चयम् उपेत्य व्याधम् आहूयावोचत् ।अस्ति विन्ध्याचले षड्दन्तो गन्धहस्ती । यदि तस्य दन्तान् आनेष्यसि ततो ऽहं भवन्तं महतार्थेन योजयिष्यामीति । व्याध उवाच । यथा शक्ष्यामि तथा करिष्यामीति । देव्य् उवाच । अहम् उपायं जानामि यथासौ गन्धहस्ती विश्रम्भम् आयातीति ।

दृष्ट्वा प्रव्रजितं शान्तं काषायाम्बरधारिणम् सुशिष्य इव मेधावी प्रणम्यार्चयति द्विपः // HJm_19.17

परिधाय ततः सम्यक् काषाये वाससी त्वया आहन्तव्यः शरेणासौ विषदिग्धेन मर्मणि // HJm_19.18

स च तथेति प्रतिश्रुत्य काषायवसनसंभृताङ्गः सशरं धनुर् आदाय विन्ध्याचलम् अगमत् । अथ तम् अचलवनान्तरे संचरन्तम् आलोक्य तद् गजयूथं साशङ्कम् इभाधिपतये निवेदयामास ।

काषायवसनः को ऽपि स्फुलिङ्गकपिलेक्षणः लोहस्तम्भवपुः सत्त्वांस् त्रासयन्न् इव लक्ष्यते // HJm_19.19

बोधिसत्त्व उवाच । न खलु काषायवासः शङ्कनीयम् । पश्यन्तु भवन्तः ।

अपत्रपा शान्तिपथस्य सूचकं ध्वजो मुनीनां मदभङ्गकारणम् कषायरक्तं यदि देहभूषणं जनस्य विश्रम्भनिमित्तम् अम्बरम् // HJm_19.20

अथ तस्य यूथस्य नातिदूरे ऽवस्थितः स व्याधस् तरुणात्मानम् आवृत्य धनुर् आरोपयामास ।

तं संदधानम् इभराजविनाशनाय ज्यायां शरं शितफलं तुचिसारमय्याम् शाखाकरैः किसलयाङ्गुलिभिस् तरूणां विन्ध्यो न्यवारयद् इव श्वसनावधूतैः // HJm_19.21

मदमुकुलितनेत्रं कर्णविन्यस्तहस्तं विटपिनि निकषन्तं दानदिग्धं कपोलम् विदितकुशलमार्गं मार्गणेन द्विपेन्द्रं मृगरिपुर् उपकण्ठं वायुकुम्भे जघान // HJm_19.22

अथ निपतितकार्मुकोत्तरीयं द्विरदगणेन रुषानुगम्यमानम् गजपतिर् उपगूढवान् मृगारिं सुतम् इव तं परिसान्त्वयन् भयार्तम् // HJm_19.23

क्व रिपुर् अयम् अहो कृतापकारो द्विरदपतेः करुणा क्व चेदृशीयम् क्षितिधरगहनान्तदेवतानां ध्रुवम् इति चेतसि विस्मयो बभूव // HJm_19.24

निशितशरविभिन्ने तत्र मातङ्गनाथे स्रुतरुधिरलवाङ्कं धूनयत्य् आस्यम् ईषत् तद् अमुचद् इभयूथं शल्लकीनां सुगन्धीन् उपगतगुरुशोकं पल्लवान् अर्धदष्टान् // HJm_19.25

तम् उज्जहाराथ शरं गृहीत्वा करेण किंचिन्नतपुष्करेण बलात् सुभद्रा करिणः करेणुः कोपं पतेः क्षान्तिर् इव स्फुरन्तम् // HJm_19.26

विषादिनी तस्य गजाधिपस्य बाणव्रणं शोणितलेशदिग्धम् विच्छिन्नमुक्तागुणसंनिभेन सिषेच सा पुष्करशीकरेण // HJm_19.27

विगाहमानः सलिलं पिपासया मदेन को मे सुरभीकरिष्यति इति स्फुटावर्ततरङ्गनिस्वना भृशं विचुक्रोश शुचेव नर्मदा // HJm_19.28

तवाद्य कच्चिद् विशिखक्षतोद्भवा तनुत्वम् आयाति गजेन्द्र वेदना इति भ्रमन्त्यश् चटुलाः कपोलयोः शनैर् अपृच्छन्न् इव भृङ्गपङ्क्तयः // HJm_19.29

विसारिकालागुरुधूमधूसरैर् विलोलविद्युद्वलयाङ्कितोदरैः घनैर् ललाटंतपम् उष्णदीधितिं समावृणोत् तस्य सुखाय वासवः // HJm_19.30

प्रसन्नरेवाजलसङ्गशीतलः प्रफुल्लनानाकुसुमाधिवासितः समागतो बन्धुर् इव द्विपाधिपं शरेण विद्धं व्यजति स्म मारुतः // HJm_19.31

अथ गजपतिर् यदि कथंचिद् अन्तकालं करिष्यामि तद् इदं गजयूथम् अनाथतां यास्यतीति विचिन्त्य सत्याधिष्ठानम् इति चकार ॥

अपकारिण्य् अपि प्रेम यथास्मिन् मृगलुब्धके तथानेनाद्य सत्येन क्षयम् आयातु मे विषम् // HJm_19.32

अथ सत्याधिष्ठानप्रभावात् सद्य एवापगतशरमूर्च्छावेदनः स गजपतिर् अभूत् । तं च तथा स्वास्थ्यम् आगतम् आलोक्य स व्याधः प्रणम्य तं राजमहिषीवृत्तान्तम् आख्यायाभ्युवाच ।

दन्तार्थं दन्तिनां नाथ क्रूरेणाक्रूरमानस आहतो ऽसि हतद्वेष मयापात्रेण पत्त्रिणा // HJm_19.33

इति श्रुत्वा वचस् तस्य व्याधस्य द्विरदाधिपः उच्चखान विषाणानि करेणादाय निर्व्यथः // HJm_19.34

बभार स करस् तस्य निबद्धरुधिरस्रुतिः सक्तबन्धूकमालायाः पुण्डरीकस्रजः श्रियम् // HJm_19.35

तेनैव सत्यवाक्येन तस्य नाथस्य दन्तिनाम् उत्पेदिरे क्षणाद् दन्ताः शङ्खच्छेदार्जुनाः पुनः // HJm_19.36

अथ पुनारदनोद्भवविस्मितः करिपतेः सितवारिधरत्विषः स रदनान् उपगृह्य वनान्तरान् मृगरिपुः क्षितिपालगृहं ययौ // HJm_19.37

अथ दन्तावलोकनप्रमुदितमनाः स राजा तं लुब्धकं यथाप्रतिपन्नेनार्थेन योजयामास । सापि च राज्ञी तं छद्मज्वरम् अपास्य तानि विषाणानि दृष्ट्वा जातपश्चात्तापा तम् ईर्ष्यावृत्तान्तम् अन्यजन्मानुभूतं पत्ये निवेद्य बाष्पसलिलव्याप्तनयनोत्पला तत् तद् विललाप ।

अहो धिग् ईर्ष्यां गुणपक्षघातिनीं यया मया मोहितमन्दचित्तया वने वसंस् तापसशान्तमानसः स यूथभर्ता गमितो यमक्षयम् // HJm_19.38

महात्मना येन चिराय पालितं न शक्यते स्मान्यगजैः प्रबाधितुम् समाकुलं तेन विनाद्य दन्तिना कथं नु तन् नागकुलं भविष्यति // HJm_19.39

निरन्तरं यस्य मदं पिपासवः परिभ्रमन्ति स्म मुहुः कपोलयोः समाकुलास् तेन विनाद्य षट्पदाश् चिराद् उपैष्यन्ति मृणालिनीवनम् // HJm_19.40

अभून् मुहुस् तस्य गजाधिपस्य यः कपोलकाषेण परिस्फुरत्त्वचः चिराय तं तन्मदलेशवासितं ध्रुवं सुभद्रा न जहाति शाखिनम् // HJm_19.41

समुद्रवेलारशनाविभूषिते समुच्छ्वसत्कोमलशाद्वलांशुके दधासि मां किं पतिमुख्यघातिनीं क्षिते विदारं न ददासि किं नु मे // HJm_19.42

अथ तां राज्ञीं तथा विलापपरां स व्याधो धीरयामास । मा देवि शोकं कार्षीः । सत्याधिष्ठानमाहात्म्येन स महात्मा पुनरुद्भूतमनोहरमहाविषाणः समपगतशरविषवेगः सत्त्वोपकाराय प्राणान् बिभ्रत् करोत्य् एव तस्य महतो गजयूथस्याधिपत्यम् इति ॥

अथ वचनम् इदं निशम्य तस्मान् नृपमहिषी प्रमनाः पुनर् बभूव क्षितिपतिर् अपि विस्मयं जगाम द्विरदपतेः करुणां मुहुर् विचिन्त्य // HJm_19.43

तद् एवं क्षान्तिफलम् अभिलषन्तः करुणात्मकाः शस्त्रेणापि प्रहरति वैरिणि सत्याम् अपि शक्तौ क्षमन्त एव महात्मान इत्य् अवधार्य क्षमायाम् आदरः करणीय इति ॥

॥ हस्तिजातकं नवमम् ॥

20. चन्द्र

अपहृतदंष्ट्र इवाहिःक्षाम्यति शक्त्या विना सरोषो ऽपि / सति सामर्थ्ये नोज्झति यः क्षान्तिं स क्षमी ज्ञेयः // HJm_20.1

तद्यथानुश्रूयते पराक्रमनीतिप्रभावविजितान्यराजसामन्तः प्रभूतहस्त्यश्वकोशसंपदुपेतस् तेजस्वी धीरः शुश्रूषादिभिः प्रज्ञागुणैर् अधिष्ठितस् त्रिवर्गानुकूलप्रकृतिः प्रकृतिदक्षिणो दक्षिणापथाधिपतिः कलिङ्गराजो नाम राजा बभूव ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.