Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला (Gopadatta)

Tác giả
गोपदत्त
Thông tin
GRETIL — Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśvarajātakam = GoKī: edition by Michael Hahn. "Gopadatta's Kapīśvarajātaka ḥ Re-edited and translated", Bukkyḥ Bunka Kenkyūjo Kiyḥ [= Bulletin of Research Institute for Buddhist Culture, Ryukoku

गोपदत्त: जातकमाला

1. अजातशत्रु

महान्ति पापान्य् अभिभूय यस्माद् अजातशत्रुर् गुणवान् बभूव । उपेत्य सद्भिः सह संप्रयोगम् अतो निषेव्या गुणवन्त एव ॥ गोअश्_1 ॥

अहो विभूतिर् गुणविस्तराणां गुणाब्धिकैर् यत् सह संप्रयुज्य । गुणैर् अभूतैर् विगुणो ऽभ्युपेति गुणप्रसिद्धिं गुणभूषनेषु ॥ गोअश्_2 ॥

अभूतसंभावनया तया तु हतो ऽप्य् असौ कालवशेन भूपः । तुषारदग्धद्रुमवद् वसन्ते गुणप्रभावोज्ज्वलताम् उपैति ॥ गोअश्_3 ॥

स्वभावसंसिद्धिर् इयं तथा हि जनस्य सद्वृत्तिनिरत्ययस्य । विजिह्मभावेष्व् अपि यत् प्रयाति गुणप्रसिद्धेः खलु हेतुभावम् ॥ गोअश्_4 ॥

ब्रवीम्य् अतो ऽहं नरके ऽपि वासो वरं स्फुरद्वह्निशिखाकराले । न चैव सन्मित्रनिराकृतस्य सुरेश्वराणां सुखसंपदो ऽपि ॥ गोअश्_5 ॥

तद्यथानुश्रूयते

राजा किलाजातशत्रुर् वनद्विरदवरोपग्रहनिमित्तं स्वनगराद् अभिनिःसृत्य ददर्श महान्तं कुञ्जरवरं वनाभिमुखम् अभिद्रवन्तम् । दृष्ट्वा च पुनस् तम् एव हस्तिनम् अनुजगाम । स च दन्ती

स्मृत्वा सरांसि कमलोत्पलमण्डितानि कादम्बपक्षपवनोद्धतशीकराणि । उद्भिन्नकोमलकसेरुलतावनानि वेगान् महीधरवनाभिमुखो जगाम ॥ गोअश्_6 ॥

उत्कण्ठितः किसलयोज्ज्वलपादपानां वैडूर्यनीलहरितोद्गतशाद्वलानाम् । उद्धूतशीकरकरो द्विरदो वनानां तूर्णं ययौ पवननुन्न इवाम्बुगर्भः ॥ गोअश्_7 ॥

अथ स महीपतिः पवनपटुजवातिशयतुरगवराधिरूढो दूराद् अपसृतबलसहायो न चिरेण खदिरबदरबिल्वेङ्गुदादिकण्टकद्रुमवनगहनां शरवणकाशकुशवंशजालजटिलदुःसंचारप्रदेशां जीर्णशीर्णविक्षिप्तास्थिकङ्कालशकलधवलभूमिभागां प्रतिभयगम्भीरश्वभ्रप्रपातस्थलस्थाणुवल्मीकदुर्निर्गमप्रवेशाम् अटवीं प्रपेदे । स च गजाधिपतिस् तस्य राज्ञो दर्शनम् अपजगाम ।

राजासौ विहतपराक्रमावकाशो ग्रीष्मोष्मक्लमशिथिलाकुलप्रयत्नः । भूरेणुव्यतिकरधूसराग्रकेशः संमोहं समुपजगाम साध्वसेन ॥ गोअश्_8 ॥

तस्मिन् खड्गविषाणकोटिकष्ण - - ⏑ - - ⏑ - सिंहव्याघ्रवराह - ⏑ महिषव्यालावकीर्णे वने । एकाकी स नृपो भ्रमन् रविकरज्वालाप्रतापातुरस् तृष्णार्तः पदवीं ददर्श सहसा शैलेन्द्रसंप्रापिकाम् ॥ गोअश्_9 ॥

तां च मुहूर्तम् अनुगच्छन् ददर्श दूराद् एव नीलविपुलस्निग्धपलाशनिचितविटपतरुवरगहनम् अचलसानुप्रदेशम् । दृष्ट्वा + + + + + + + + + + + + + + + + + + + + + + + यनः(?) प्रोवाच ॥

अस्मिन् नूनं प्रदेशे नवनलिनवनच्छन्नतोयं सरो वा धारा शैलोदराद् वा पतति मणिदलस्वच्छशोभा जलस्य । वृक्षास् तत्संनिकर्षाद् उपचितविपुलश्यामशाखाप्रशाखा येनैते शैलम् एतं जगद् इव सकलं सज्जनाः शोभयन्ति ॥ गोअश्_10 ॥

दूरत्वाद् अ ⏑ - ⏑ - ⏑ ⏑ ⏑ - ऽ; - - ⏑ - - ⏑ - - - - ⏑ ⏑ - ⏑ भारगुरवो जीमूतपुञ्जा इव । एते वृद्धिम् उपागताः खलु पराम् आसाद्य तोयाशयं सन्मित्रं समुपेत्य साधव इव प्रध्वस्यमानारयः ॥ गोअश्_11 ॥

तद् इतो गच्छामीति संप्रधार्योपेत्य च तं प्रदेशं समन्ततो विलोकयन् ददर्शान्यतमस्मिन् तरुवरगहनविवरे + + + + + + + + + + + + + + + + + + + + + + + + + + + + कोपहाराभिदर्शने विपुलशिलातलाभोगनिषण्णकृताहारप्रयोजनम् उपशमनिभृतेन्द्रियप्रचारसौम्यवपुषं शाक्यभिक्षुं दृष्ट्वा समाश्वासप्राप्तः प्रह्लादित इव विश्रान्त इव च वाजिनम् एकान्ते निबध्य सप्रश्रयमःधुरो + + + + + + + + + + + + + + + + + + + + + + + + + + क्त इव च विकचकमलवनरेणुपिञ्जरसुरभिशिशिरसमीरणेन तं भिक्षुम् अब्रवीत् । भदन्त सलिलाशयप्रदेशम् उपदेष्टुम् अर्हतीति । तेन चोपदिष्टम् । अथ स राजा तम् उपदिष्टं सलिलाशयम् उपगम्य विगतपिपासाक्लमपरि + + + + + + + + + + + + + + + + + + + ॥

- - ⏑ - ⏑ ⏑ ⏑ - ⏑ ⏑ - मयूखैः प्रस्वेदवारिकणिकार्द्रललाटभित्तिः । पीत्वापि वारि कमलोत्पलनालशीतं तीव्रक्लमातुरमना न धृतिं जगाम ॥ गोअश्_12 ॥

अथ स भिक्षुः सान्द्रकरुणामृतरसार्द्रशीतलेन चक्षुषा तं राजानम् अभिसमीक्ष्याब्रवीत् । क्लीबसत्त्वम् इव व्या + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + प्रवादो लोकवृत्तातिवृत्तप्रभावेष्व् अप्य् उपलक्ष्यते । न खलु सुखोचिताः परदुःखानि जानन्तीति । ननु भदन्तावैषि ॥

दग्धापि भू रविकरैः स्फुटदीप्तिमद्भिर् दन्दह्यते गतघृणेन दवानलेन । भर्तुः प्रवासविरहे वनितेव दुःखैस् त - ⏑ - ⏑ ⏑ ⏑ - ⏑ ⏑ - ⏑ - - ॥ गोअश्_13 ॥

- - ⏑ - ⏑ ⏑ ⏑ - ⏑ ⏑ - ⏑ - - ः संतापिता रविकरैः सुतरां प्रचण्डैः । कल्याणमित्रविकलास् तु विचारशून्या रागात्मका इव नराः प्रमदाविलासैः ॥ गोअश्_14 ॥

घर्मातुरो भयम् अनागतम् अप्रधार्य च्छायां समाश्रयति भोगिफणस्य भेकः । आपातमात्रसुख - ⏑ ⏑ - ⏑ - - - - ⏑ - ⏑ ⏑ ⏑ - म् इव राजलक्ष्मीम् ॥ गोअश्_15 ॥

संशुष्कसालतरुकोटरसंनिलीनो व्यर्थं विरौति परिशुष्कगलः कपोतः । अज्ञानगह्वरनिरुद्ध इवात्मवादी बालः पुनर्भवतृषाविषमूर्छितात्मा ॥ गोअश्_16 ॥

एते गजा रविकरोत्करतापितेषु नैव स्थलेषु न जलेषु धृतिं लभन्ते । ग्रामेषु पुष्पविकचेषु च काननेषु पारिप्लवाल्पमतयो यतयो यथैव ॥ गोअश्_17 ॥

अम्ब्व् एव (?) पल्वलजलं क्षयम् अभ्युपैति संशुष्कशैवलरजोऽरुणपङ्कलेशम् । मन्दागमस्य सदसीव विजृम्भमाणं वाक्कौशलं स्वमतिशक्तिनिराकृतस्य ॥ गोअश्_18 ॥

एते खगा वनतरून् परिवर्जयन्ति संशीर्णपर्णनिचयोर्ध्वविशुष्कशाखान् । विस्मृत्य पूर्वपरिभोगसुखान्य् अनार्या वेश्या विलुप्तधनसारम् इवाल्पसत्त्वम् ॥ गोअश्_19 ॥

दावाग्निभस्मपरुषैः पवनैर् उदस्तम् एतद् भ्रमत्य् अविरतं तरुपर्णचक्रम् । उत्पीड्यमानम् अनिशं निरवग्रहेण संसारचक्रम् इव कर्मसमीरणेन ॥ गोअश्_20 ॥

पर्यन्तेषु स्फुटितशकलच्छेदसंपर्करूक्षस् तोयाभ्याशे स्रुतजलतया न द्रवो नातिशुष्कः । किंचिच्छेषाकलुषसलिलाप्लावितो मध्यभागे पङ्कः शोषं स्फुरितशफरीजालगर्भः प्रयाति ॥ गोअश्_21 ॥

किंचिच्छेषविवर्णपर्णशबला मूले कठोरारुणा मन्दश्यामपलाशसंचयवती मध्ये समार्द्रच्छविः । घर्मश्यामविभुग्नपल्लवदला प्रान्ते लता नर्तकी म्लानिं यात्य् अनिशं कलाव् इव युगे सत्पौरुषी धर्मता ॥ गोअश्_22 ॥

छत्त्रैर् व्यभ्रशशाङ्कमण्डलसितै रत्नप्रभाभास्वरैर् विक्षिप्ताः किरणा यद् अस्य बहुशो निर्याणकाले मम । तद् वैरं हृदयेन संचितम् अयं नूनं वहत्य् अंशुमान् यस्याग्निर् दहतीव दुर्जनवचस् तीक्ष्णैर् मयूखाङ्कुरैः ॥ गोअश्_23 ॥

अथ स भिक्षुः कथान्तरविवक्षया स्मितम् आविश्चकार । + + + + + + + + + + + + + स राजा समन्ततो निरीक्ष्यान्यम् अनीक्षमाणो माम् एवाधिकृत्य प्रव्रजितेन स्मितम् आदर्शितम् इति विनिश्चित्य कुतूहलाक्रान्तमतिस् तम् अब्रवीत् ॥

विनयधीरम् इदं च वपुस् तव स्मितम् इदं च भदन्त विधार्यते । चलति बुद्धिर् इयं पवनाहता वनलतेव किम् अत्र नु कारणम् ॥ गोअश्_24 ॥

+ + + + + + + + + + + + + + + + + + + + । अथ स पार्थिवः सुतराम् उपजातविमर्शसंभ्रमोद्भ्रान्तमानसः पुनर् अपि तं भिक्षुं स्मितप्रयोजनं पर्यपृच्छत् । स च भिक्षुस् तदुपकारकामतयैव राज्ञः प्रोवाच ॥

सूर्यातपो दहति वत्स शरीरकं ते तस्मात् सुखोचितम् इदं तु रोगनीडम् । दुःख ⏑ - ⏑ ⏑ ⏑ - ⏑ ⏑ - ⏑ - - - - ⏑ - ⏑ ⏑ ⏑ - अभितापितानाम् ॥ गोअश्_25 ॥

वस्त्रातपत्रतरुमन्दिरचन्दनाम्बुहारादयस् तदुपघातनिमित्तभूताः । दुःखं त्व् अनागतम् अवीचिसमुद्भवं ते नाशं प्रयास्यति नराधिप कैर् उपायैः ॥ गोअश्_26 ॥

प्राणोपरोधसमकालम् अवश्यभावि यत् प्राप्स्यसि त्वम् अकृतज्ञ बहुप्रकारम् । दुःखं यदा क्षणय - ⏑ ⏑ - ⏑ - - - त् तव तद्गजभया ⏑ ⏑ - क्षणेन ॥ गोअश्_27 ॥

कर्मेन्धनः स्फुरति तत्र (?) सदा हुताशो दुर्वृत्तशोणितवसासवपानशौण्डः । यो बान्धवान् इव परिष्वजते प्रगाढं ज्वालाभुजैर् अविरलैः स्वकृतापराधान् ॥ गोअश्_28 ॥

वीचिं वदन्ति विवरं न च तत्र का चिद् दुःखस्य वीचिर् अपि तिर्यग् उपर्य् अधो वा । यस्माद् अवीचिर् इति तेन च संप्रसिद्धः शीर्णस् तनोति भवनो नरकान्तरेषु ॥ गोअश्_29 ॥

यत्र त्वयातिथिजनप्रणयो निषेव्यो ज्वालासखीशतपरिष्वजनोचितेन । स त्वं व्यथाम् उपगतो रविरश्मितप्तो हाराद् बिभेषि न तु घोरविषाद् भुजङ्गत् ॥ गोअश्_30 ॥

यस्योत्सङ्गे क्षितितलरजोधूसरस् त्वं निषण्ण - - - - ⏑ ⏑ ⏑ ⏑ ⏑ - ⏕ ⏑ ⏕ ⏕ ⏑ ⏕ ⏕ । प्रेम्णा येनाकरुणहृदयो वर्धितः पालितश् च तं त्वं हत्वा यदि न पतितस् तत्क्षणं चित्रम् एतत् ॥ गोअश्_31 ॥

बाल्ये लालासलिलमलिनं पाणिना वक्त्रपद्मं येनामृष्टं विकचकमलच्छेदताम्रोदरेण । त्वां कृत्वाङ्के कृपण भवतः कुञ्चिताः काकपक्षा ये - - - ⏑ ⏑ ⏑ ⏑ ⏑ - - ⏑ - - ⏑ - - ॥ गोअश्_32 ॥

स त्वं हत्वा पितरम् अपि ते धार्मिकं धर्मराजं कामास्वादव्यसनमदिरापानविक्षिप्तचित्तः । स्वस्थावस्थश् चरसि नरकद्वारशालां प्रविष्टो ज्वालाहस्तैर् नरकशिखिनः स्प्रष्टुम् इच्छन्ति हि त्वाम् ॥ गोअश्_33 ॥

ज्वलदनलशीखावलीपिङ्गलान्तःस्थलं सर्वतस् तुङ्गनिःसङ्गनिश्छिद्रलोहाद्रिजालावृतच्छिन्नसंभिन्नसंविग्नसंकूजितोत्कृष्टनिष्पिष्टनिष्पीडितोत्क्षिप्तविक्षिप्तलुप्तावलुप्ताश्रयप्राणिसंघाकुलभीषणं

कृपणक नरकं पदा यास्यसि प्रेरितो दारुणैः कर्मवातैर् अनेकोग्रदुःखप्रकर्षातिसंतापितो दीनकण्ठो ⏑ - ऊर्ध्वबाहुर् ज्वलच्छूलचक्रासिकुन्तप्रहारव्रणोद्वान्तरक्तोक्षितस् तत्र चाकामकः संवसन् ।

ज्वलदनलकमण्डलाकोटरस्तब्धनेत्रैः स्फुरत्कोपसंदष्टदन्तच्छदैर् उद्यताग्रायुधैर् अन्तकाज्ञाकरैस् तिष्ठ तिष्ठेति निस्तर्जितो भीतभीतो दिशः प्रेक्षमाणः स्थितो ऽस्मीति कृच्छ्राद् अभिव्याहरन् काम् अवस्थाम् अभिप्राप्स्यसि त्वं धृतो दुष्कृतैः कर्मभिर्

यदि समनुविचारयेत् तद् भवान् नूनम् - - ⏑ - - ⏑ पादोपमाः स्युर् निदाघे ऽतितीव्रा अमी भूपते न त्व् अनभ्याहता यान्ति संवेगम् अज्ञा जनाः प्रायशो दुःखयन्त्रान्तरस्थास् तु शोचन्ति मोघं प्रलापार्तिशोकाभिभूता भृशम् ॥ गोअश्_34 ॥

अपि च हे पुत्रक ॥

कान्ताकराग्रविधृतानि मधूनि पीत्वा निश्वाससंचितदलोत्पलचन्द्रिकाणि । संदंशयन्त्रविवृतास्यपुटान्तरालस् ताम्रं कथं कथय पास्यसि वह्निवर्णम् ॥ गोअश्_35 ॥

स्नात्वा त्वं गृहदीर्घिकाम्भसि हसत्पद्मोत्पलालंकृते तीरान्तानतपुष्पपादपलताच्छायासमालिङ्गिते । क्लिन्नस्विन्ननरास्थिपञ्जरवसानिर्यासपर्याकुले तप्ते वैतरणीजले निपतितो दुःखात् कदा मोक्ष्यसे ॥ गोअश्_36 ॥

प्रासादे शरदभ्रशुभ्रशिखरे पुष्पावलीमण्डिते वीणावेणुमृदङ्गगीतमधुरे संप्राप्य चित्रं सुखम् । नित्यं प्रज्वलितस्फुटानलशिखासंतानजालाकुलं प्राप्यावीचिम् अनेकदुःखविहतः किं नाम कर्ता भवान् ॥ गोअश्_37 ॥

लज्जामात्रविभूषणां सविनयां चारूपचारां प्रियां दृष्ट्वा प्रीतिविजृम्भमाणनयनो विश्रम्भनिर्यन्त्रणाम् । क्रोधप्रज्वलिताक्षिकोशविषमभ्रूभङ्गरौद्राननान् आलोक्यान्तककिंकरान् अभिमुखान् संमोहम् आयास्यसे ॥ गोअश्_38 ॥

श्रीमच्चामरचारुभासुरनरैर् नानाविधैर् वाजिभिः कालिङ्गैश् च विचित्रितोत्तरकुथैर् गन्धोपवाह्यैर् गजैः । तीव्रक्रोधविषैस् तृ - ⏑ ⏑ ⏑ - - - ⏑ - - ⏑ - - - - ⏑ ⏑ के विशीर्णचरणो वोढासि दीप्तान् रथान् ॥ गोअश्_39 ॥

धृतश् चूडापीडो बकुलकुसुमामोदसुभगस् त्वया मूर्ध्ना येन स्फुटमणिकरालं च मुकुटम् । स्फुरद्वह्निज्वालावलयकपिलं चक्रम् अशिवं वहन् मूर्ध्ना तेन त्वम् अनुभविता चापलफलम् ॥ गोअश्_40 ॥

किं च भूयः ॥

कलेर् आज्ञाभङ्गो भवति सुचिराज् जन्मसमये मुनेर् यस्य प्राणिप्रियहितसमाधानविदुषः । जगन्नाथे तस्मिन् भगवति भवोपद्रवहरे प्रदुष्टानां का वा भवतु गतिर् अन्या परम् अतः ॥ गोअश्_41 ॥

उन्मीलिता इव दिशो दश यस्य दीप्तैः कीर्त्यंशुभिर् घनतमःपटलावनद्धाः । तस्मिन् प्रदोषम् उपगच्छति यस् तपस्वी स्वैर् एव कर्मभिर् असौ प्रहतः क्षतात्मा ॥ गोअश्_42 ॥

यो मातेव पितेव बान्धव इव प्राणिष्व् अनुक्रोशवान् आत्मस्नेहपराङ्मुखेन मनसा जन्माटवीगह्वरे । प्रज्ञावीर्यकृपाभ्युपायसचिवः क्लेशैर् अनाकम्पितः प्राप्तो बोधिम् अनुत्तरां स भगवान् कां सत्क्रियां नार्हति ॥ गोअश्_43 ॥

जगद्धिताधानविधानदीक्षां बभार शास्ता भृशदुर्वहां यः । मनःप्रसादायतने ऽपि तस्मिन् कथं नु चित्तानि विदूषयन्ति ॥ गोअश्_44 ॥

असज्जनसमागमस्य कटुकावसानं फलं नरेन्द्र समुपस्थितं तद् अधुना तवापायिकम् । इदं समनुचिन्त्य साधुजनसंगमः सेव्यतां ततस् तव भविष्यति व्यसनपञ्जरान् निर्गमः ॥ गोअश्_45 ॥

एवं गते ऽपि क्रियताम् प्रयत्नः पापप्रहाणे कुशलोदये च । अप्य् एव नाम व्यसनाम्बुराशेः स्यात् ते ऽवसानं नरलोकपाल ॥ गोअश्_46 ॥

अनेकरूपव्यसनोपमृष्टां समुद्रवेलाजललोलशीलाम् । नरेन्द्रलक्ष्मीम् उपगुह्य पापं कृतं त्वया दुःखशतावसानम् ॥ गोअश्_47 ॥

बहुप्रकारात्ययदारुणेषु विचार्यमाणाल्पसुखोदयेषु । विषज्य कामेषु मनस् त्वयात्मा स्वयं कृतो दुर्गतिदुःखसाक्षी ॥ गोअश्_48 ॥

अभिसन्धिकृतस्य कर्मणो न हि नाशं प्रवदन्ति सूरयः । अपि कल्पसहस्रकोटिभिः फलदं तन् नियमेन जायते ॥ गोअश्_49 ॥

अत एव जगौ जगद्वरो जगदालोककरः कृपामयः । भगवान् भवभोगनिःस्पृहः स हि कर्मस्वकतां शरीरिणाम् ॥ गोअश्_50 ॥

सलिलानलराजतस्करैर् धनम् अत्रैव विलुप्यते नृणाम् । प्रभवन्ति तु तेन कर्मणा स्वम् अतः कर्म नृणां शुभाशुभम् ॥ गोअश्_51 ॥

परिवर्तति निश्चलेक्षणः क्षणमात्रप्रतिबद्धजीवितः । मरणाभिमुखो यदा नरो ननु कर्मैव तदा परायणम् ॥ गोअश्_52 ॥

स्वजनो जनवन् निवर्तने गृहवित्ताद्यपरैर् विलुप्यते । स्वकृतं त्व् अनुयाति देहिनां भवसंक्रान्त्यनुकूलवर्तिनाम् ॥ गोअश्_53 ॥

अपि च हे महाराज ॥

मरणवशगतस्य जन्तोर् विवृद्धोल्बणश्वासशुष्कौष्ठकण्ठस्य हिक्काप्रवेशानुबन्धाद् विनिर्धूयमानोरसः कलविकलपदाक्षरे भाषिते विह्वले चक्षुषि च्छिद्यमानेषु मर्मस्व् अनामन्त्र्य रोषाद् इव प्रस्थितैर् वायुभिः । महति शिथिलतां गते सन्धिसंघातयन्त्रे रुजातीक्ष्णसूची- निपातान्तरे क्वापि गन्तुं कृताभ्युद्यमे जीविते तिमिरगहनसंकटं निर्जनं मार्गम् आक्रामतो नास्ति पुण्याद् ऋते कश् चिद् अन्यः सखा तत् प्रयत्नं कुरु श्रेयसि ॥ गोअश्_54 ॥

अपि च महाराज ॥

अवश्यं त्यक्तव्यः परमदयितो बान्धवजनः प्रवेष्टव्यं घोरं सभयम् असहायेन गहनम् । प्रवासे वस्तव्यं सुचिरम् अपि चासंस्तुतजने तद् अस्मात् कर्तव्यं बहुकुशलपाथेयम् असकृत् ॥ गोअश्_55 ॥

अथ स राजा तेन भिक्षुणा तथा संवेजितो यथा क्षणेनोपलब्धकुशलमूलोपचयाभिलाषस् तीव्रभयविषादव्याकुलमानसश् च प्रोवाच ॥

तद् अधुना करवाणि भदन्त हे वद वदास्ति दया यदि ते मयि । निपतितं महति व्यसनार्णवे कृपणकं कृपयोद्धर मां यते ॥ गोअश्_56 ॥

जलदमारुतचन्दनशीतलैर् अपि वयं वचनैस् तव तापिताः । स्वकृतदुष्कृतशङ्कुशतक्षता विषयलौल्यपराजितमानसाः ॥ गोअश्_57 ॥

विपरिणामकटूनि मया पुरा विषयसङ्गसुखान्य् अकृतात्मनाम् । समुपगुह्य कृतं बहु दुष्कृतं दहति यन् मम संप्रति मानसम् ॥ गोअश्_58 ॥

धिग् अवरं विषमं विषयाश्रयं सुखम् अनार्यनिषेवितम् अध्रुवम् । यद् उपगम्य नरा विषयद्विषाम् इह भवन्ति सदा करुणास्पदम् ॥ गोअश्_59 ॥

अविनयो ऽनुगतो मृदितं यशो न गणितं कुलम् आयतिर् उज्झिता । ⏑ ⏑ ⏑ - कलुषं विवृतो ऽनयो विषयलौल्यतया ⏑ ⏑ यागया ॥ गोअश्_60 ॥

असदृशजनसङ्गाभ्यासदोषान् मयैव प्रकृतिगुणविनाशो मन्दभाग्यस्य जातः । शठमतिभिर् अनार्यैर् विप्रलब्धो ऽस्मि वाक्यैर् यद् इह गुणधनानां शोचनीयो ऽस्मि जातः ॥ गोअश्_61 ॥

प्रकृतिरुचिरवृत्ताः साधवो नानुवृत्ताः सुच ⏑ ⏑ ⏑ ⏑ मानां वाङ्मधूनां निमित्तम् । यद् अनयगहनान्तर्वर्तिनां - ⏑ - - व्यसनशरशतानां लक्ष्यताम् आगतो ऽहम् ॥ गोअश्_62 ॥

विषयसुखलवाशापाशम् आमुच्य चित्ते तृणलवम् इव जीर्णं प्रोज्झ्य सद्वृत्तवन्तम् । परिणतिविरसानां कर्मणाम् आत्मनैव क्षितिधर इव तुङ्गा राशयः संचिता - ॥ गोअश्_63 ॥

- - - ⏑ ⏑ - ⏑ - ⏑ ⏑ ⏑ - भूयो ऽपि मां धक्ष्यति प्रोद्धूताकुललोलपिङ्गलशिखो वह्निः कथं नारकः । पापात्मा मृत एव नाम सततं यो ऽन्यो ऽपि वास्मद्विधो मृत्युः किं मृतमारिकाम् अकरुणः कर्तुं व्यवस्येन् मयि ॥ गोअश्_64 ॥

दिक्संमोहम् उपागतो ऽहम् अधुना गच्छामि कां वा दिशं मज्जामीव भदन्त शोकसरसि व्या - ⏑ - - ⏑ - - / शैलो ऽयं स्फुटतीव पापचरितं माम् अद्य संधारयन् युष्मत्पादसमाश्रयात् तु शतधा न त्व् एव याति ध्रुवम् ॥ गोअश्_65 ॥

अथ स महात्मा तं राजानं संविग्नमानसम् अवेत्य पात्रम् अयं श्रेयस इति विनिर्धार्योवाच । तेन हि महाराज तम् एव भगवन्तं विनिपात ... जनावलम्बवत्सलम् अपा ... त्यक्तसकलसत्त्वधातुम् अखिलजगद्धिताधानाम्लानप्रयोगम् अपरिमितविशुद्धोदारातिशयगुणगणरत्नाधिवासं महाकारुणिकं सर्वज्ञं सर्वदर्शनं शाक्यमुनिं शरणम् उपैहि । तत एव ते दुःखपरंपरापर्यन्तो भविष्यति + + + + + + + + + + ।

सुक्षेत्रे बीजम् उप्तं भवति बहुफलं तिक्तम् आस्यप्रियं वा क्षेत्रस्यासौ स्वभावो भवति समगुणः सर्वसस्यप्रसूतौ । एवं कारापकारा भगवति तनवो ऽप्य् आहिताः पापकाले पर्यन्तं नाप्नुवन्ति व्युपरतसकलक्लेशसंतानकाले ॥ गोअश्_66 ॥

अथ स भूपतिः प्रविजृम्भमाणकुशलमूलोपचयाभिलाषमृदुहृदयतया बुद्धे भगवति समुत्पन्नप्रेमगौरवप्रसादबहुमानः सप्रत्ययाश्रुसलिलबाष्पाविलदीनमृदुमुकुलितनयनयुगलवदनस् तं भिक्षुम् उदीक्षमाणो बाष्पगण्डूषोपरुध्यमानकषायकण्ठो धरणितलप्रतिष्ठितजानुमण्डलः कृतकरपुट इत्य् उवाच ॥

एषो ऽहं तम् ऋषिं व्रजामि शरणं प्राणैर् अपि प्राणिनाम् एकं बान्धवम् एकम् एव सुहृदं शास्तारम् एकं परम् । त्राणं त्रैभुवनार्तिगह्वरदरीव्यावर्तिनां प्राणिनाम् आचार्यं परमार्थतत्त्वविषये भूतार्थनाथं विभुम् ॥ गोअश्_67 ॥

पुनः पुनर् अनुत्तरं पुरुषदम्यसत्सारथिं प्रयामि शरणं शरण्यतमम् अप्य् अहं - ⏑ - । अचिन्त्यचरितं तम् एव भगवन्तम् अद्य कृत- प्रपञ्चविषबीजनिर्मलनिरुत्तराध्याशयम् ॥ गोअश्_68 ॥

अप्य् अस्थितिस्हितिमतां शरणं प्रपद्ये लोकोपकारकरणैकरसस्वभावम् । बुद्धं तम् एव शतधा च सहस्रधा चा- - - ⏑ - ⏑ मकरालयकर्णधारम् ॥ गोअश्_69 ॥

मन्ये पूतम् इवात्मभावम् अधुना शास्तुः प्रणामोद्भवैः पुण्याम्भोभिर् अखण्डमण्डलशशिज्योत्स्नावलीनिर्मलैः । को वा तं प्रणिपत्य सान्द्रकरुणाप्रह्लादिताध्याशयं तीव्रापायवतीं विषादमकरां तीर्णो न दुःखापगाम् ॥ गोअश्_70 ॥

यत्रैको ऽप्य् अकृतधियो मनःप्रदोषः संसारं व्यसनशतैस् तनोति कृत्स्नम् । तत्रैकः कथम् अपि चेतसः प्रसादो नोच्छिन्द्याद् व्यसनसहस्रतन्तुजालम् ॥ गोअश्_71 ॥

यं गत्वा शरणम् अहं जगत्प्रदीपं सर्वासच्चरितविरोधिनीं प्रपन्नः । आर्याणां नयपदवीं समन्तभद्रां तं वन्दे कृपणजनाधिकानुकम्पम् ॥ गोअश्_72 ॥

इत्य् उक्त्वा व्यसनपराङ्मुखः स राजा संबुद्धे भगवति निश्चलप्रसादः । तं भिक्षुं क्षितितललग्नमौलिमूर्ध्ना वन्दित्वा स्वपुरवरोन्मुखो जगाम ॥ गोअश्_73 ॥

संबुद्धे प्रतिलब्धवान् नरपतिः श्रद्धाम् असौ तादृशीं यत् कर्मावरणाद्रिजालम् अकरोद् अल्पावशेषाश्रयम् । पापं यत् क्रियते जिने व्रजति तत् तैर् आर्यकार्यैः क्षयम् एकेनैव हि शक्यते विलिखितुं वज्रस्वभावो ह्य् अयम् ॥ गोअश्_74 ॥

अप्य् एव क्रकचैर् निशातदशनच्छेदावलीदन्तुरैस् तस्याज्ञा प्रविचार्यमानतनुभिः कार्यैव शास्तुर् भवेत् । यस्मात् तद्विमुखा विशन्ति नरकान् ज्वालावलीदारुणान् तस्याज्ञाप्रवणै ⏑ - नतसुखं संप्राप्यते शाश्वतम् ॥ गोअश्_75 ॥

स्वाभिप्रायम् अतो ब्रवीमि सकलं संसारम् अप्य् उत्सहे वस्तुं भीमभयानके ऽपि नरके लोके जिनालंकृते । न त्व् एवैकम् अपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥ गोअश्_76 ॥

तद् यावन् न पतति सर्व एव लोको दुर्दृष्टिमतवितते प्रमादकूपे । सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत् तावद् वचनरसायनं निषेव्यम् ॥ गोअश्_77 ॥

सर्वज्ञे परमगुरौ निवेश्य भक्तिं श्रोतव्यं वचनम् ऋषेः समन्तशोभि । निक्षिप्य व्यसनमयीं कुकार्यचिन्तां नातो ऽन्यत् परम् अधिकं यतो ऽस्ति कृत्यम् ॥ गोअश्_78 ॥

श्रवणकरकैः को ऽर्थस् तेषां असच्छ्रु ⏑ - ⏑ - ⏑ ⏑ ⏑ ⏑ ⏑ - ऽ; - - - - ऽ; ⏑ - ⏑ ⏑ - ⏑ - । ⏑ ⏑ ⏑ ⏑ ⏑ - ऽ; - - - - ऽ; ⏑ - ⏑ ⏑ - ⏑ - ⏑ ⏑ ⏑ ⏑ ⏑ - ऽ; - - - - ऽ; ⏑ - ⏑ ⏑ - ⏑ - ॥ गोअश्_79 ॥

2. भवलुब्धक

आपायानाम् अविच्छिन्नप्रायसंसारवर्त्मनाम् । कर्मक्लेशवशावश्या दुःखमय्यः प्रवृत्तयः ॥ gobhl_1 ॥

तद्यथानुश्रूयते ।

द्वौ भिक्षू स्रोतापन्नौ बभूवतुस् ताभ्याम् एकेनाशेषसंयोजनोपक्षयाद् अर्हत्त्वम् अधिगतम् । तद्द्वितीयस् तन्मात्रसंतुष्ट एवासीत् । स तेनार्हतोच्यते स्म । भद्रमुख शेषक्लेशविषोपशमाय यत्नम् आरभस्वेति । दुःखैकरसा भवा दुष्टपापसिद्ध्युपायानि श्रेयांसि क्षणलवपरिणामाविश्वसनीयं जीवितम् अपरिनिष्पन्नप्रकृतयो मायोपमास् तत्त्वविरोधिनः कामाः सभयाः सवैराः सोपायासाः पापक्रियाम् एवाङ्गीकृत्य प्रवृत्ताः परिभवायतनम् अकृतबुद्धीनां कृतात्मनाम् अप्य् अवहास्यताम् आवहन्ति । लेशेनाप्य् अनुगम्यमाना महद् दुःखम् आकर्षन्ति । नैतान् अनुपतन् कश् चिद् अक्षतो ऽनुपहतो वा । ह्रीमन्तो ऽप्य् एभिर् आविष्टाः पशुसहधर्मतां प्रतिपद्यन्ते । नैते तुलयन्ति वयसां परिणामवैकृतम् । यतिजनम् अप्य् एते प्रगल्भा व्यामोहयन्त्य् एव । श्रेयसो वधकाः प्रत्यमित्राश् चामी व्यतीत्य विनयनियमश्रीभराम् आर्यमर्यादाम् अनार्यकम् एवोद्भावयन्ति । समुदितकान्तिशोभम् अपि क्षणेन मलिनयन्ति पुरुषस्य शीलसौष्ठवम् । विपातिते च शीले सर्वविषयाय द्वारभूते हतोपनिषत्समाधिर् नालं प्रज्ञासंपदे । सकल एव च संसार एषां दुरन्तरायाणां पर्येषणाभिर् अतीतः । ये च श्वसूकरादीनाम् अपि साधारणा रतिप्रसङ्गदोहदाः कस् तान् साधुजनो मनसापि प्रार्थयेत् । स तम् अर्हन्तम् अब्रवीत् । भद्रमुख

भवा दुःखात्मकाः सन्ति श्रेयो दुरभिसंभवम् । जीवितं चलम् अत्यन्तं कामा दोषशताकराः ॥ gobhl_2 ॥

अपाया मम संक्षीणाः किञ्चिच्छेषो भवार्णवः । अनुभूय सुखं दिव्यं निर्वास्यामि नियोगतः ॥ gobhl_3 ॥

अपि चाकृतपुण्यानां भवेभ्यो जायते भयम् । पुण्यसम्भारयुक्तानाम् उत्सवातिशयो भवः ॥ gobhl_4 ॥

नानाविपत्तिगहनेष्व् अनयप्रपातेष्व् अन्धान् इवाशु पिथिते पथि संनिपात्य । आर्यान् अपि प्रतिभयेन पथा हरन्तः प्रख्यापयन्त्य् अशुचयो विषयाः स्वशक्तिम् ॥ gobhl_5 ॥

अथ सो ऽर्हन् मन्दसंवेगापन्नो ऽयम् आयुष्मान् इति विदित्वा तम् आह ।

आयुष्मन् सप्रतिद्वन्द्वाः परीत्तास्वाददूषिताः । भवा निशितनिस्त्रिंशधारासंपातदारुणाः ॥ gobhl_6 ॥

नोपादानक्षमास् तात भवाः क्रुद्धा इवोरगाः । विषाग्निकवलालोककरालमुखशक्तयः ॥ gobhl_7 ॥

दग्धप्रवृत्त्युपादानवासनामलमानसैः । प्रवृत्तयो जगन्नाथैः सर्वा एव विवर्जिताः ॥ gobhl_8 ॥

भवान् परिहरन्त्य् आराद् आत्मकामाः परीक्षकाः । परिच्छन्नतटागाधाञ् श्वभ्रापातभयंकरान् ॥ gobhl_9 ॥

रतीनां सोपतापानां मुखे स परिवर्तते । अभिनन्दत्य् अनादेयान् क्षणिकान् अपि यो भवान् ॥ gobhl_10 ॥

विच्छिन्नाशेषसंस्कारप्रवाहप्रतिसंधयः । प्रतिसंधिम् उपायासमूलम् आहुस् तथागताः ॥ gobhl_11 ॥

विसंवादिन्य एवैता गतयो महताम् अपि । विविधानर्थनाराचसंनिपातखलूरिकाः ॥ gobhl_12 ॥

आदीप्तः सर्व एवायं संसारविषपादपः । विष्वग्विकासिदुःखाग्नेर् ज्वालामालाकदम्बकैः ॥ gobhl_13 ॥

भवोपभोगस्पृहलालसाः स्वयं प्रविश्य संमोहतमिस्रदुर्दिनान् । चरन्ति मत्ता इव भग्नलोचना घनान्धकारे विपरीतबुद्धयः ॥ gobhl_14 ॥

हितोद्यतानाम् अवकीर्य भारतीं निपातरूक्षां परिणामपेशलाम् । अनर्थपङ्कौघनिमग्नशक्तयो भवन्ति निश्वासपरायणा नराः ॥ gobhl_15 ॥

लतां द्विरेफा इव पुष्पहासिनीम् उपासते ये तु सतां सरस्वतीम् । अकार्यनिर्मोकम् अपास्य ते कलेर् मुखं न पश्यन्ति पुनर् विभीषणम् ॥ gobhl_16 ॥

स तम् अर्हन्तम् अब्रवीत् । निरुत्तराण्य् अमूनि वो वचनकुसुमानि । किं तु

आपायिकानि व्यसनानि यानि मयानुभूतान्य् अतिदारुणानि । तेषां प्रतीकारनिमित्तभूतं सुखं भदन्तानुभवामि तावत् ॥ gobhl_17 ॥

अथ स महात्मा तेन तस्य वचसा सुतराम् उपजनितसंवेगो ऽब्रवीत् ।

न वर्णयन्ति क्षणिकाम् अपीश्वरा भवाभिनिर्वृत्तिम् अवन्ध्यवादिनः । तथा ह्य् अयं स्कन्धकदम्बकोद्भवः समुद्भवो नैकविधस्य पाप्मनः ॥ gobhl_18 ॥

भवप्रबन्धप्रणयो मनस्विनो जगद्धिताधानपरस्य युज्यते । अनुत्तरज्ञाननिबद्धचेतसां भवोद्भवो भावसुखाद् अपि प्रियः ॥ gobhl_19 ॥

पुनर्भवास्वादलवाकुलाशयः प्रवृत्तिम् अन्विच्छति यस् तु मोहनात् । मुधा स सर्वायतनोपतापिनीं विपत्तिम् अन्विच्छति सर्वतोमुखीम् ॥ gobhl_20 ॥

भवाः सशोकाः सभयाः सविग्रहा विवर्जिताः सद्भिर् उदारमानसैः । नरैर् मरुद्धूतशिखा विषद्रुमा भुजङ्गमाधिष्ठितकोटरा इव ॥ gobhl_21 ॥

भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् । भवानुषङ्गो ऽप्य् अशुचेर् विवृज्यते नरैर् विदग्धाभरणानुलेपनैः ॥ gobhl_22 ॥

कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिम् अन्विच्छसि येन जन्मनः । जिजीविषुस् तीव्रविषाभिदूषितं प्रणीतम् अप्य् अन्नम् उपाददीत कः ॥ gobhl_23 ॥

अपि च हे भवाभिनन्दिन्

क्रिमेर् इवावस्करकर्दमान्तर् विवर्तमानस्य यथाकथं चित् । नरस्य मातुर् जठरान्तराले किं गर्भवासो न महान् अपायः ॥ gobhl_24 ॥

कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन । प्रजायमानस्य नरस्य दुःखम् अपायदुःखैर् अपि किं न तुल्यम् ॥ gobhl_25 ॥

दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरम् अस्थियन्त्रम् । कथं चिद् आयासनिपीतहर्षो न किं समो ऽपायशतैर् मनुष्यः ॥ gobhl_26 ॥

विदाहिभिर् निष्प्रतिकारघोरैः कृतान्तबाणैर् इव संपतद्भिः । विभिद्यमानस्वविषात्मभावो गदैर् इहैवानुभवत्य् अपायान् ॥ gobhl_27 ॥

प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना । बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा क्रुद्धेनेव वितीर्यते ऽधिकतरं किं नाम दुःखं ततः ॥ gobhl_28 ॥

किं चायुष्मन्

कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो नैवावीचिर् अपि व्यथाम् उपहरत्य् आर्यस्य तां दारुणः । धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः ॥ gobhl_29 ॥

अथ स विषयदौरात्म्यम् इवोद्भावयंस् तं महर्षिम् अब्रवीत् ।

विषयासङ्गिनी बुद्धिर् दुःखेन प्रतिवार्यते । गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा ॥ gobhl_30 ॥

अन्ये ऽपि बहवः शैक्षा भवसंभोगलालसाः । तर्पयन्तीन्द्रियग्रामं विषयैर् अविषादिनः ॥ gobhl_31 ॥

स चार्हंस् तैस् तद्वचोभिः सुतराम् उद्वेजितप्रतिभयस् तं शैक्षम् अवोचत् ।

प्रतिसंख्यानमहताम् अकृच्छ्रश् चित्तनिग्रहः । न चानुवर्तनीयास् ते विषयैर् ये पराजिताः ॥ gobhl_32 ॥

मयैव विषयोद्दामं ननु चेतो निवारितम् । अन्यैश् च व्रतिभिर् वीरैस् तत् कस्मान् नानुवर्तसे ॥ gobhl_33 ॥

विषयेषु यदि प्रमादम् एषे त्वम् अनार्याचरितेषु हन्त नष्टम् । अथ ते विरजन्ति नैव चेतस् तव को ऽर्थो वद तैर् अनर्थभूतैः ॥ gobhl_34 ॥

विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु । निकटे निवसन्ति सर्वदुःखान्य् अपरिज्ञातनिपातदारुणानि ॥ gobhl_35 ॥

विषयापचयानुपातिनीनाम् अपरिम्लानसुखामृतप्रदानाम् । छलितः पुरुषः प्रसङ्गदोषैर् न च संवेत्ति निरामिषं रतीनाम् ॥ gobhl_36 ॥

परिभूतिर् उपान्तिके नराणां भवसंभोगविषक्तमानसानाम् । विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि ॥ gobhl_37 ॥

परिणामरताम् अशान्तरूपां विपरीताल्पसुखानुरागरम्याम् । परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु ॥ gobhl_38 ॥

विनिगृह्य मनः प्रमाददोलाचलम् अध्यात्मरतिव्यपाश्रयेण । अनिराकृतयोगिनो रमन्ते बहुरूपैर् अतिमानुषैर् विहारैः ॥ gobhl_39 ॥

वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः । गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्य् अनार्याः ॥ gobhl_40 ॥

व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते । उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम् ॥ gobhl_41 ॥

तद् अयं समयः कथं चिद् एव प्रतिलब्धः कुशलप्रयोगयोग्यः । प्रतिपत्तिविधौ भवान् प्रमाणं शकुनानां हि वनं विरावमात्रम् ॥ gobhl_42 ॥

स तम् अर्हन्तम् अब्रवीत् ।

शक्नुयां सुगतौ भोगस्पृहां यद्य् अप्य् उपेक्षितुम् । ब्रूयाः प्रवदतां श्रेष्ठ नैव मां त्वं पुनः पुनः ॥ gobhl_43 ॥

यतस् तु मां हरत्य् एषा कामतृष्णा निशाचरी । तेनातिवेलकृपया त्वं मां कुत्सयसे विभो ॥ gobhl_44 ॥

स तं महात्मा पुनर् अपि सानुक्रोशपेशलैर् वचोभिः संवेजयन्न् अब्रवीत् ।

खिन्ना वयं रुधिरबिन्दुम् उपाददानाः सांक्लेशिकेषु सभयेषु भवेषु वत्स । आयासिनीं च कटसीम् अभिवर्धयन्तो नैकान्तरायविवशाः स्वपराभवाय ॥ gobhl_45 ॥

क्रूरैः परस्परविरोधिभिर् अप्रशान्तैर् धातूरगैः प्रकुपितैर् इव कृष्णसर्पैः । आतुद्यमानवपुषाम् अपरायणानां कल्पायुतान्य् अभिगतानि च नो महात्मन् ॥ gobhl_46 ॥

प्रत्यर्थिकैर् इव समुद्यतमण्डलाग्रैः स्कन्धैर् हता वयम् अकारणबद्धवैरैः । आयासिताश् च विषयैर् विषकुम्भकल्पैस् तच् छिद्यतां भवसुखव्यसनानुरागः ॥ gobhl_47 ॥

स तम् अर्हन्तम् आह ।

नोपच्छेत्स्यामि यद्य् अत्र जन्मनि स्कन्धसंततिम् । उपपद्योद्धरिष्यामि त्वद्वाक्येन जिताधिना ॥ gobhl_48 ॥

स तं प्रत्याह । यद्य् अप्य् एतद् एवं तथापि

सकृन् मर्तव्ये त्वं पुनर् अपि च मृत्युं मृगयसे स्फुटं दृष्ट्वालोकं तमसि विपुले मज्जसि पुनः । शिवं लब्ध्वा मार्गं कुसृतिम् उपयासि प्रतिभयां भवान् यस् त्वं वाञ्छस्य् अमृतपुरम् उत्सृज्य सुलभम् ॥ gobhl_49 ॥

समुत्तीर्यागाधात् क्रिमिकुलचलत्पङ्ककलिलात् कथं विज्ञाबालात् पिपतिषसि तस्मिन् पुनर् अपि । विमुक्तो रोगेभ्यः पुनर् अपि च रोगाय यतसे भवेभ्यो दुःखेभ्यः स्पृहयसि पुनर् यस् त्वम् अघृणः ॥ gobhl_50 ॥

अनाशान् अस्वन्तान् सुलभविनिपातप्रतिभयान् सवैरान् सोद्वेगान् सपरिभवसंतापविरसान् । परित्यज्यायुष्मन् व्यसनविशिखापातविहतान् भवान् सम्यग्मार्गं भवभयहरं भावय सदा ॥ gobhl_51 ॥

दृष्टसंसारदुःखो ऽपि सो ऽभ्यासाद् रागपाप्मनः । तम् उवाच महात्मानम् आरुजन्न् इव वाक्शरैः ॥ gobhl_52 ॥

भ्रमन्ति ते बहून् कल्पान् बोधिसत्त्वा भवाध्वनि । सुदान्ताः सप्तजन्मानि भ्रमतां कीदृशी व्यथा ॥ gobhl_53 ॥

स भिक्षुस् तेन वाक्येन प्रतोदेनेव विक्षतः । तम् अब्रवीद् भवास्वादकार्पण्योपहताशयम् ॥ gobhl_54 ॥

न तेन विदिता भिक्षो या व्यथा भ्रमतां भवे । अवज्ञाय वचो ऽस्माकं पुनर् अप्य् अवभोत्स्यसे ॥ gobhl_55 ॥

पुनश् च त्वां ब्रवीमि ।

ये जन्मैवाधिमुक्ताः शमसुखमहतीं निर्वृतिं शुद्धसत्त्वा येषां क्लेशावशेषो ऽप्य् उपशमितबलो यो ऽप्य् उपादानम् एव । आत्मत्वेनाभ्युपेता जगद् इदम् अखिलं ये कृपाक्रान्तचित्तास् तेषां श्लाघ्या प्रवृत्तिर् गतिषु न तु भवास्वादपर्यस्तबुद्धिः ॥ gobhl_56 ॥

स्पृश्यन्ते सत्त्ववन्तो न विषयरजसा ये विविक्ताशयत्वाद् दुःखैर् नैव व्यथन्ते क्षितिधरगुरवो ये परार्थे चरन्तः । ते जन्मोपाददानाः परपुरपरिखासेतवो बोधिसत्त्वाः शोभन्ते न क्षमं तु क्षणम् अपि गतिषु स्थातुम् आत्मंभरीणाम् ॥ gobhl_57 ॥

येषां सर्वे प्रयोगाः शशिन इव कलाः सर्वसत्त्वोपजीव्या ये लोकान् पान्ति कृत्स्नान् पितर इव सुतान् दुःखपातालमग्नान् । तेषां जन्मोपदेशः सुचरितमहताम् उत्सवः श्रीविशेषः स्वार्थोद्योगानुरागाद् अनुपतति भवान् मृत्यवे केवलं तु ॥ gobhl_58 ॥

येषाम् उत्पादकाले सुचरितकिरणैर् लिख्यमानं समन्ताद् ध्वान्तं चेतः स्वरङ्गाविवरपरिचयस्फीतम् अप्य् अस्तम् एति । उन्मज्जन्तीव लोकाः प्रतिभयमहतो दुःखपङ्कौघमध्यात् तेषाम् एवानुरूपा परहितविदुषां जन्मसंतानलीला ॥ gobhl_59 ॥

किं बहुना

सर्वेष्व् आचार्यवर्या नियमगुरुधरा धर्मयानाग्रधैर्याः कारुण्योच्छ्रीतवीर्या रजनिकरनिभा भास्कराभाश् च दीप्त्या । जन्माटव्यानुयात्रा नमुचिविदरणा ज्ञानदीपोल्कधाराः सर्वज्ञत्वाभिषेकाः पुरुषवरयुगाः सर्वदा बोधिसत्त्वाः ॥ gobhl_60 ॥

एवम् अप्य् असाव् उच्यमानः कुशलधर्मसाधनोद्योगविधुर एव व्याहार्षीत् ।

समुदागमवैगुण्यविरूक्षक्षामचेतसाम् । कुशलप्रत्यया बाह्याः किं करिष्यन्ति देहिनाम् ॥ gobhl_61 ॥

प्रक्षालयन्ति मुनयो न जलेन पापं हस्तेन नाप्य् अपहरन्ति जनस्य दुःखम् । संचारयन्त्य् अधिगमं न परत्र च स्वं धर्मान् वदन्ति तु सुखप्रतिपत्तिसाध्यान् ॥ gobhl_62 ॥

अथ स क्रमेण कालगतो भरुकच्छे प्रोषितभर्तृकाया नार्याः कुक्षौ जन्म प्रतिसंदधे । कालान्तरेण च गर्भाद् अभिनिष्क्रान्तः । माता चैनम् अभिवीक्ष्य पुत्रस्नेहम् अनादृत्यापवादभयाशङ्किनी किम् अपि किम् अपि तपस्विनी विललाप । अनुनीयमानापि च समानसुखदुःखाभिः सखीभिर् असहमाना तनयवियोगव्यसनं तम् अतिमनोहरात्मभावं बालकम् अङ्के कृत्वा बाष्पवेगोपरुध्यमानस्खलितवचसा नियतम् ईदृशं किं चिद् अवोचत् ।

जाते पुत्रे भवन्ति प्रमुदितहृदया मातरो जीवलोके दृष्ट्वा वंशस्य लक्ष्मीम् अनुपरतरसाम् उन्मिषन्तीं समन्तात् । आनन्दान्दोलितानां भवति स दिवसो बान्धवानाम् अदीर्घो जातः शोकाय तु त्वं मम तनय कथं मन्दभाग्योदयायाः ॥ gobhl_63 ॥

दुर्वृत्ताया मम तद् अधुना कर्मणा प्रेरितस् त्वं भुङ्क्ष्वासह्यं व्यसनम् अथवा स्वस्य दुश्चेष्टितस्य । एते ऽन्ये च व्यसननिवहा मूर्ध्नि तेषां स्फुरन्ति त्यक्त्वा लज्जां सुजनदयितां ये प्रमादं भजन्ते ॥ gobhl_64 ॥

खाद्यमानपरिकोमलच्छविस् तीक्ष्णतुण्डनखरैः पतत्रिभिः । पुत्र दुर्नयफलानि भोक्ष्यसे मातुर् अद्य परिमाणवर्तकः ॥ gobhl_65 ॥

धिग् धिग् अस्तु परिणामदारुणां सङ्गिनां रतिम् अपूर्ववाहिनीम् । अध्यवस्यति ययाभिभूतधीर् ईदृशान्य् अपि जनो हतत्रपः ॥ gobhl_66 ॥

कष्टम् आयतविषादभीषणे संकटे मम विवर्तते मनः । यत्र लोकरवभीतया मया पुत्रक त्वम् अटवीं निपात्यसे ॥ gobhl_67 ॥

दारुणं बत बिधेर् विचेष्टितं दुष्करं खलु मया समीहितम् । किं करोमि शरणं व्रजामि कं पुत्र शोकशरताडिताशया ॥ gobhl_68 ॥

हा हतास्मि विघृणेन चेतसा कामदोहदपथानुपातिना । यत् सुदुष्करम् इदं करिष्यते वैशसं विहतलज्जया मया ॥ gobhl_69 ॥

भूर् इयं किम् इति नावदीर्यते नारकः क्व नु स हव्यवाहनः । यो न निर्दहति पापकारिणीं कक्षमुष्टिम् इव मां हतत्रपाम् ॥ gobhl_70 ॥

विततशिखिकलापोद्भासुरालोकजालं निपतति मम वज्रं सांप्रतं किं तु मूर्ध्नि । सुतम् अकरुणचित्ता याहम् एवं त्यजामि स्तनरसपरिभोगक्लीबवक्त्रारविन्दम् ॥ gobhl_71 ॥

इत्य् एवम् अन्यथा च तस्या विलपन्त्याः किंचिच्छेषा रजनी बभूव । सा परिचारिकाम् अब्रवीत् । ज्ञायतां तावद् भद्रे किम् अवशेषं निशाया इति । साब्रवीत् । स्वामिनि संप्रति हि

अरुणकिरणमालापाटलोपान्तलेखं प्रविरलतरतारं खं परावृत्तचन्द्रम् । पुलिनम् इव पयोधेर् विद्रुमक्षोदताम्रं परिमुकुलपलाशस्वस्थसंसुप्तहंसम् ॥ gobhl_72 ॥

सा प्रोवाच ।

इमं हृदयसंतापं दीर्घकालानुषङ्गिनम् । दुर्जातं मम मन्दाया गच्छ च्छोरय बालकम् ॥ gobhl_73 ॥

इत्य् उक्त्वा सा बाष्पवेगोपरुध्यमानहृदया पृथिव्यां सहसा निपपात । परं च संमोहम् उपजगाम ।

सा तथेति प्रतिश्रुत्य तम् आदाय तपस्विनम् । उपहारम् इवापूर्वं विचिक्षेप महापथे ॥ gobhl_74 ॥

पुत्रक्रौर्यं विवृतम् अशिवं जन्मदुःखोपतप्तं भर्तृस्नेहः चिरपरिचयाद् बद्धमूलो न दृष्टः । दग्धं वंशद्वयम् अपि मया दुर्नयाङ्गारवर्षैर् हा कामानां प्रकृतिर् असती सर्वदुःखप्रसूतिः ॥ gobhl_75 ॥

नासौ रुरावामुषितस्मृतित्वाच् चुकोप मात्रे न च तत्त्वदर्शी । दृष्ट्वा तु ताम् आत्मगताम् अवस्थां स्वम् एव चित्तं विनिनिन्द बालः ॥ gobhl_76 ॥

नायं जनन्या मम कामचारो न चानिमित्तं व्यसनं ममेदम् । स्वयं कृतानि व्यसनान्य् अमूनि त्वयैव मे चित्त विमुञ्च दैन्यम् ॥ gobhl_77 ॥

अनार्य तां चित्तकले प्रतार्य प्रगाढदुःखोदयदारुणेषु । भवोपभोगेष्व् अधुना विषादं किम् एव मोहाद् असमीक्ष्यकारिन् ॥ gobhl_78 ॥

हितैषिणस् तस्य वचो ऽवधीर्य त्वम् अज्ञ निर्दग्धपुनर्भवस्य । बिभेषि दुःखाद् अधुना किम् एवं स्वकर्मनिर्माणम् इदं तवैव ॥ gobhl_79 ॥

न पूजयन्ति प्रतिपत्तिभिर् ये गिरो गुरूणाम् अनुकम्पकानाम् । इमानि चान्यानि च ते लभन्ते विषादनीनां विपदां शतानि ॥ gobhl_80 ॥

यथा यथा तीव्रद्वन्द्वोपनिपातजानि दुःखान्य् अनुभवति स्म तथा तथा सुतराम् उपजायमानसंवेगः साश्रुकण्ठ एव शुशोच विक्लवात्मा तपस्वी ।

प्रविरलतृणच्छन्नश्वभ्रप्रपातभयंकरान् मम गुरुर् असौ त्यक्त्वा यातो भवाब्धिकदुर्भवान् । तनुसुखलवक्लिष्टात्मानो वयं तु हतत्रपा भवजलनिधेर् दृष्ट्वाप्य् अन्तं पुनर् निधनं गताः ॥ gobhl_81 ॥

मतिहुतभुजा दग्ध्वा स्कन्धप्रवृत्तिविषद्रुमं स्थितिषु वशितां संप्राप्यापि प्रकाशयशोत्सवाः । सकलभुवनश्रेयः कृत्वा गताः सुगताः शमं विषयकृपणाः कष्टं नष्टा वयं भवलुब्धकाः ॥ gobhl_82 ॥

स्थानास्थानविवेकयोगविदुषा स्थानेन संवर्णिता स्कन्धानां क्षणिकाप्य् अनुत्तरगिरा निर्वृत्तिर् आयासिनी । स्थाने प्रज्वलितांस् तरून् इव खगास् त्यक्त्वा भवान् भङ्गुरान् निर्वान्ति ज्वलना इवाम्बुविहताश् चित्तेश्वरा योगिनः ॥ gobhl_83 ॥

कृत्वाभियोगम् अपि चागमगह्वरेषु स्वैरप्रचारम् अनुगृह्य मनो मनुष्याः । अल्पश्रुता इति जगत्य् उपयान्ति संख्यां चेतोविनिग्रहफलं श्रुतम् आहुर् आर्याः ॥ gobhl_84 ॥

स सूचिकाग्रैर् इव तुद्यमानः पिपीलिकैर् भुग्नकरालदंष्ट्रैः । महीरजोधूसरकोमलाङ्गो मुहुर् मुहुः संपरिवर्तते स्म ॥ gobhl_85 ॥

स मक्षिकाणां नयुतैः परीतो मृदुः प्रयत्नाकुलपाणिपादः । विचेष्टमानः करुणं कथं चिद् भवान् जगर्हे मनसानुतापी ॥ gobhl_86 ॥

क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर् व्याधूतास्यो विपदम् अशिवां यो ऽस्वतन्त्रः प्रपेदे । गोमायूनां विषमविरुतैर् अग्निमालाकरालैर् आर्यस्यापि प्रकृतिमृदुकं तस्य चेतश् चकम्पे ॥ gobhl_87 ॥

क्रव्याशिनां परवधप्रणयप्रगल्भैः पूगैर् असौ परिवृतो विगतासुकल्पः । प्राख्यापयत् स भवभोगलवाभिलाषदुःखानि तस्य च वचो विगतस्रवस्य ॥ gobhl_88 ॥

तस्य तथा कृच्छ्रगतस्य पुरद्वारि परिवर्तमानस्य गवां निर्गच्छन्तीनां पुरःसरो वृषभस् तम् आयुष्मन्तं दृष्ट्वा विधियोगसामर्थ्यात् पितेवोपगु तावद् अवतस्थे यावद् अतिक्रान्तः सर्वो गौगणः । सो ऽतितीव्रवेदनातुरतनुर् अल्पस्थामतया कण्ठगतप्राणः पुनर् अपि मया व्यसनम् एवानुभवनीयं मरणाद् ऊर्ध्वम् इत्य् अभिविषादो ऽपि मृत्युर् एव तत्कालदुःखप्रतीकारम् आकारयतु । वनविहगपक्षपातोद्धृतधरणितलरजोऽवकीर्णदेहो निराक्रन्दो मन्दम् अपरिस्पन्दकरचरणवदनकमल इदानीं न भविष्यामीति बुद्धम् एव भगवन्तं नमस्कर्तुम् आरब्धः । तद्भाग्यशेषोपकृष्टा इव चोपासका बुद्धधर्मसंघानुवादाश्रयाः संकथाः कथयन्तस् तं प्रदेशम् उपजग्मुः । स तान् अवलोक्य प्रत्युज्जीवित इव मृदुस्फुटकलेन वचसा कमलपलाशकोमलं पाणिम् अभिप्रसार्याब्रवीत् । भो भोः सत्पुरुषा मुहूर्तकं तावद् अस्मदनुकम्पयावतिष्ठध्वम् इति । अथ ते सहसा तच्छब्दश्रवणसंभ्रान्ताः किम् इदं कथं चेत्य् उत्पन्नविमर्शाः स्थिता वयं भद्रमुखेते तं महासत्त्वम् आश्वासयां बभूवुः । कौतूहलाकुलसमासाश् च पुनर् एवम् ऊचुः ।

अवस्थांश् च वयश् चेदं वाक्सौष्ठवम् इदं च ते । मत्वा चलति नो बुद्धिः कौतूहलसमाकुला ॥ gobhl_89 ॥

तत् सौम्य वद को नाम त्वं देवो ऽप्य् अथ दानवः । कथं चेमां दशां प्राप्तः सज्जनायासकारिणीम् ॥ gobhl_90 ॥

स तान् आह ।

मानुषो ऽस्मि महासत्त्वा नाहं देवो न दानवः । भवसंभोगतर्षेण प्राप्तस् त्व् अहम् इमां दशाम् ॥ gobhl_91 ॥

अथ ते तद्वचः श्रुत्वा संविग्नोद्धतमानसाः । अनुकम्पामृतस्निग्धं प्रत्यभाषन्त तं पुनः ॥ gobhl_92 ॥

उपासका वयं साधो नित्यं किंकुशलैषिणः । विस्तरं श्रोतुम् इच्छामः स चेत् खेदं न मन्यसे ॥ gobhl_93 ॥

स तान् इत्य् अवदद् यूयं धर्मभ्रातर एव मे । दुःखानि तावद् वार्यन्तां पश्चाद् वक्ष्यामि विस्तरम् ॥ gobhl_94 ॥

तथेति च प्रतिश्रुत्य गृहीत्वा पाणिभिः शनैः । प्रमृज्यास्तीर्य वस्त्राणि स्वानि तेषु न्यवेशयन् ॥ gobhl_95 ॥

प्रस्वस्थकायः स समाहितात्मा चत्वारि सत्यानि यथेक्षितानि । परीक्षमाणो न चिरेण साधुर् मलान् यथास्थूलमयांश् चकार ॥ gobhl_96 ॥

⏑ अनुशयविशेषं भावनामार्गहेयं ⏑ रविर् इव निशान्तध्वान्तम् उल्लिख्य भाभिः । स्वतनुम् अतनुपुण्याप्यायितान्तर्विशेषां अपहृतगुरुभारायासलघ्वीं बभार ॥ gobhl_97 ॥

अथ स महात्मा कृतकरणीयः क्षणम् अप्य् अवस्थां तां परित्यज्य सबहुमानः केवलं तेषाम् उपासकानां कृतज्ञताम् अनुरक्षन् पर्यङ्कं गगनतले बद्ध्वा तैः सबहुमानम् उदीक्ष्यमाणो विस्तरेण तेभ्यो यथावृत्तं व्याहृत्य पुनर् अपि तान् आबभाषे ।

अभिनन्दति यो जन्म स दुःखम् अभिनन्दति । दुःखाभिनन्दी दुःखेभ्यो न जातु परिमुच्यते ॥ gobhl_98 ॥

पक्वगण्डायमानस्य यः कायस्यास्य संभवः । ईत्युपायासदुःखानाम् उत्पादः स विदाहिनाम् ॥ gobhl_99 ॥

संसारावचरं कृत्स्नं सुखम् एकघनीकृतम् । नराणां जन्मदुःखेन क्षणिकेनाभिभूयते ॥ gobhl_100 ॥

विषोपदिग्धा निशिता इवायसाः शिखा इवाग्नेः प्रबलानिलाकुलाः । सभीमनादा इव चाश्मवृष्टयः प्रवृत्तयो दुष्प्रसहाः शरीरिणाम् ॥ gobhl_101 ॥

भवप्रबन्धव्यसनानुषङ्गिनी मतिर् विपर्यासतमोऽवगुण्ठिता । परं समुत्क्षिप्य निपातयत्य् अधो विपत्तिपातालतले दुरुत्तरे ॥ gobhl_102 ॥

तडिल्लतानां स्फुटनानुकारिणीम् अनेकरूपव्यसनानुबन्धिनीम् । उपाददानस्य न जात्व् इमां शिवं नरस्य संस्कारविकारसंकुलाम् ॥ gobhl_103 ॥

स्वयं समुत्थाप्य विकल्पवासनान् समीरणोद्धूतशिखान् भवानलान् । जनाः सरोषा इव निर्दहन्त्य् अमी स्वम् इन्द्रियग्रामम् अनर्थपण्डिताः ॥ gobhl_104 ॥

स्वभावदुःखान् प्रकृतिप्रभङ्गुरान् असारकान् फेनलवान् इवाम्भसः । अरीन् इमान् आत्मसमुद्भवान् भवान् सुखाभिमानाश् छलिताः शरीरिणः ॥ gobhl_105 ॥

निशम्य को नाम विडम्बनाम् इमां पुमान् मदीयां श्रवणोपतापिनीम् । रतिं प्रकुर्याद् अपरिप्लुतेन्द्रियो विचित्रसंक्लेशसमुद्भवे भवे ॥ gobhl_106 ॥

त एव सन्तः सुखम् अध्युपासते सनातनं शान्तम् अतीतमानुषम् । भवोपभोगप्रणयानुपातिनी मतिर् न येषां परिशुद्धकर्मणाम् ॥ gobhl_107 ॥

हतावलेपाः परिशुद्धवृत्तयः स्थितास् त एवोपरि सर्वसंपदाम् । न भावनां ये श्लथयन्ति साधवः प्रवृत्त्युपादानविषोपशान्तये ॥ gobhl_108 ॥

प्रख्याप्य दोषकणिकान् विभवान् भवानां नानाविधव्यसनसंकटसंभवानाम् । संवेज्य पर्षदम् ऋषिः स उपासकानां सद्यो ययौ प्रशमम् अग्निर् इवाम्बुषिक्तः ॥ gobhl_109 ॥

इति भवलुब्धकावदानम् ॥

4. कपीश्वरजातकम् = गोकी

अभ्यस्यन्ति तथा तथागतसुतास् त्यागं यथा स्वान् अपि प्राणान् प्राणिकृते त्यजन्ति कृपया रोगान् इवायासिनः । क्षुद्राः पापविधौ तथा त्व् अभिरतिं बध्नन्ति निःसाध्वसा भूत्वा दुश्चरितैकतानमनसो गच्छन्त्य् अधस्ताद् यथा ॥ गोकी_1 ॥

तद्यथानुश्रूयते

बोधिसत्त्वः किलान्यतमस्मिन् विविधवर्णगन्धरससंपन्नफलभारावनतद्रुमोपगूढे विकचसुरभिकुसुमवल्लीविराजितपर्यन्ते मरकतमणिप्रभाहरितशाद्वलकुथास्तीर्णविषमभूमिभागे कमलकुवलयाकरोन्मीलितविमलजलाशयपरिग्रहे महत्य् अरण्ये वानराधिपतिर् बभूव ॥

महाकृपास्वीकृतमानसत्वान् नीत्वापि पुण्यानि परं प्रकर्षम् । गतिं तिरश्चाम् अधमां प्रपेदे साधुः स केनापि तु कारणेन ॥ गोकी_2 ॥

शुभाशुभैः कर्मभिर् आर्यकर्मा क्रीडन्न् इवासौ भवरङ्गमध्ये । निदर्शयाम् आस विचित्ररूपाम् उपायपूर्वाम् उपपत्तिमायाम् ॥ गोकी_3 ॥

कृत्वाप्य् असौ दुर्गतिसंनिरोधम् अपायहेतोश् चिरविप्रवासात् । संमोहतामिस्रमयीं प्रपेदे तिर्यग्विपत्तिं करुणापरीतः ॥ गोकी_4 ॥

प्रवर्तते कर्मवशेन लोको निराश्रयो ऽयं गतिचक्रमध्ये । बभूव तस्य त्व् अनवद्यबुद्धेः शुभाशुभे कर्मणि कामकारः ॥ गोकी_5 ॥

महात्मा कायमात्रेण विनिपातं गतो ऽप्य् असौ । अविपन्नगुणाभ्यासपेशलाध्याशयो बभौ ॥ गोकी_6 ॥

अनार्यैश् चरितैर् दूरान् निशम्यैव विवर्जितः । आर्याम् उद्भावयाम् आस पद्धतिं स शिवोदयाम् ॥ गोकी_7 ॥

आत्मसंज्ञाविपर्यासप्रहाणाद् एव सो ऽत्यजत् । स्वसुखासङ्गिनीं चर्याम् अनार्यजनवर्तिनीम् ॥ गोकी_8 ॥

वृत्तशोभां समालोक्य तस्य जातिविरोधिनीम् । मुनयो ऽप्य् अभवन्न् आत्मन्य् अवज्ञाशिथिलादराः ॥ गोकी_9 ॥

स तत्र मातरम् अन्धां वृद्धां च परिचरन् विवेककामतया च स्वयूथम् अपहाय तेषु तेषु पुष्पफलसमृद्धेषु वनान्तरेष्व् अनुत्कण्ठितमना विजहार ।

अंसेन तां परिहरन् विषमेषु देशेष्व् अम्लायिनीं स्रजम् इवाधिपतिः कपीनाम् । आनृण्यम् अप्रतिसमं स जगाम मातुर् गर्भादिधारणपरिश्रमखेदितायाः ॥ गोकी_10 ॥

पाकोपपादितरसैः स फलप्रकारैर् निष्प्राणकैश् च मधुभिः कुसुमाधिवासैः । तोयैश् च फुल्लकमलोत्पलिनीमनोज्ञैस् तां मातरं परिचचार विशुद्धसत्त्वः ॥ गोकी_11 ॥

तया करुणया चासाव् अनुबद्धः कपीश्वरः । विजहार विविक्तेषु पर्वतेषु वनेषु च ॥ गोकी_12 ॥

अथ कदा चिद् अन्यतमो व्याधो धन्वी पृष्ठावापी प्रगाढावबद्धपरिकरो मालुतावतानसंयताकुलकेशभारभासुरः श्वापदान् अभिद्रवंस् तं देशम् अभिजगाम ।

क्रोधारक्तविलोचनं गिरिशिलाश्यामायतोरःस्थलं वल्लीकुण्डलकावबद्धकपिलव्याधूतकेशाशिवम् । दृष्ट्वा मृत्युम् इवापतन्तम् अथ तं तद्गोचराः प्राणिनो याताः क्वापि विलङ्घ्य कण्टकलतानद्धान् प्रपातान् अपि ॥ गोकी_13 ॥

अथ स दुरात्मा विफलप्रयासतया सुतरां क्रोधाग्निना प्रदीप्तमानसः सशिरःप्रकम्पं निश्वस्य च पलाशिकयावगृह्य ललाटपुटप्रस्वेदसलिलं तम् एवानुकम्पमानं तं वानराधिपतिं ददर्श पादपैकदेशावस्थितम् । दृष्ट्वा च भृशतरं क्रोधवह्निना प्रजज्वाल ।

अशक्नुवन्तो बलिनः प्रबाधितुं खलाः स्वदौरात्म्यविरूक्षदृष्टयः । अकारणक्रोधविषाशिवाशिवा भवन्ति साधुष्व् अपकारदारुणाः ॥ गोकी_14 ॥

अथ स दुरात्मा धनुषि निशितं सायकं संधाय वेगेन बोधिसत्त्वम् अभिदुद्राव । स च महात्मा लोभनीयतरं वपुर् अवेत्य मयि च नास्यायं निर्बन्ध इति । शक्तो ऽपि प्रत्यवस्थातुम् अपगतसंरम्भमानसः खग इव महता जवेन तद्बाणपथम् अतिचक्राम ।

मुष्टिप्रहारेण स शैलशृङ्गं शक्तो ऽपि संचूर्णयितुं महात्मा । जाल्मं तम् एव त्व् अनुकम्पमानस् तद्बाणसंपातपथाद् व्यतीतः ॥ गोकी_15 ॥

स च पुरुषाधमस् तीव्रतरसंरम्भमन्युवेगाकुलीकृताशयस् तां बोधिसत्त्वजननीं प्रत्याकृष्टतीक्ष्णबाणाशनिर् अभिससाद ।

अभ्यासयोगात् कठिनीकृतानि मनांस्य् अनार्यैश् चरितप्रसङ्गैः । पापक्रियायाम् अविचार्य कार्यं चरन्ति लोकस्य निरङ्कुशानि ॥ गोकी_16 ॥

अथ बोधिसत्त्वः पुरायं मे मातरं व्यापादयतीत्य् अविगणितस्वप्राणात्ययः ससंभ्रमद्रुततरगतिर् अभिगम्य तं व्याधं सानुनयप्रशममधुरम् इत्य् अब्रवीत् ।

तिष्ठ तिष्ठ महासत्त्व मा वधीर् जननीं मम । कस् तवेमां गुणो हत्वा वृद्धां प्रोषितलोचनाम् ॥ गोकी_17 ॥

तवापि नूनम् आयुष्मन् माता हृदयवल्लभा । आत्मस्नेहानुमानेन मा व्यात्सीर् मम मातरम् ॥ गोकी_18 ॥

फलमूलजलाहारां वसन्तीं विजने वने । व्यापादयितुम् अम्बां मे साधोस् तव न युज्यते ॥ गोकी_19 ॥

स्पृष्टदृष्टापचारे ऽपि पुरुषास् तुङ्गमानसाः । प्रहरन्ति न शौटीराद् दैन्योपहतचेतसि ॥ गोकी_20 ॥

पुरातनैर् एव हतां कर्मभिः परुषैर् इमाम् । घ्नतो निरपराधां ते कथं नोत्पद्यते दया ॥ गोकी_21 ॥

अपि चेदं मृगेन्द्रासृक्कलङ्कितमुखं शरम् । न लज्जसे कथं नाम मुञ्चञ् छाखामृगीतनौ ॥ गोकी_22 ॥

स्फीतावलेपौ करिमस्तकेषु भुजाव् इमौ ज्याकठिनप्रकोष्ठौ । नियुज्यमानौ कृपणाश्रयेषु दौर्भाग्यम् उद्भावयतः स्फुटं ते ॥ गोकी_23 ॥

अमुक्तपूर्वो हरिणाङ्गनास्व् अप्य् अक्षूणलक्षस् तव कङ्कपत्त्रः । शिलीमुखो ऽयं प्रतिकुञ्जरीव नियुज्यमानः कपिदुर्गतायाम् ॥ गोकी_24 ॥

अभ्यर्थ्यमाना रिपुणापि धीरा बाष्पाम्बुविष्यन्दिविलोचनेन । भवन्ति तत्कालविनीयमानक्रोधोपरागाधिकरम्यशोभाः ॥ गोकी_25 ॥

तस्माद् उद्वीक्षस्व परं च लोकम् इमां च वृद्धाम् अपरायणां त्वम् । मा गा वशं रोषनिशाचरस्य लोकद्वयानर्थशतावहस्य ॥ गोकी_26 ॥

एवम् अप्य् असाव् उच्यमानः क्रौर्याभ्यासकठोरहृदयपाषाणस् तद् बोधिसत्त्ववचनम् आकर्ण्यैवावधीरयाम् आस ।

पापप्रसङ्गपरुषीकृतमानसेषु व्यर्था गिरो गुणिजनाभिहिता भवन्ति । विप्रस्रुता जलधरेभ्य इवाम्बुधारा वज्राग्निदग्धशिखरेषु महीरुहेषु ॥ गोकी_27 ॥

अथ वानरेश्वरस् तम् अनार्यकर्माणम् अनुनयविधुरम् अवगम्य चिन्ताम् आपेदे ।

मातर्य् अयं यदि मम प्रहरत्य् अनार्यः संपश्यतो मम वधः सकलः स एव । त्यक्त्वा स्वजीवितम् अतः परिपालयामि वृद्धाम् इमां कुमुदिनीधवलां च कीर्तिम् ॥ गोकी_28 ॥

कामं मृते मयि मरिष्यति विक्लवेयं हा पुत्रकेति कृपणा करुणं रुदन्ती । युक्तस् तथापि मम पूर्वतरं विनाशो द्रष्टुं गुरुव्यसनम् अस्ति न मे प्रभुत्वम् ॥ गोकी_29 ॥

जातश् च नाम न विनक्ष्यति वेत्य् अयुक्तम् उत्पाद एव नियमेन निपातहेतुः । तुल्ये च नाम मरणव्यसनोपतापे मृत्युर् वरं परहितावहिताशयस्य ॥ गोकी_30 ॥

तद्गर्भसंधारणसंभृतस्य स्नेहानुबद्धस्य परिश्रमस्य । अस्याः क्रमेणैव ममाभ्युपेतो निर्वेशकालातिशयोत्सवो ऽयम् ॥ गोकी_31 ॥

दुःखं तु निर्गारयतीव चेतो ममैकम् एवाविनिवार्यवीर्यम् । अम्बा मृतं मां यद् इयं विदित्वा दुःखेन संत्यक्ष्यति जीवलोकम् ॥ गोकी_32 ॥

अर्थाय नेत्रव्यसनं तु जातम् अस्या न मां द्रक्ष्यति मार्यमाणम् । यद् अस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन ॥ गोकी_33 ॥

कृत्वा च यत् पापम् अयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि । एतन् मनो निर्दहतीव मह्यं प्राणोपरोधं स्वम् अचिन्तयित्वा ॥ गोकी_34 ॥

धिग् अस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिग् अनर्थपण्डितम् । विपत्तिपातालतले दुरुत्तरे वृथैव यल् लोकम् इमं विमुञ्चति ॥ गोकी_35 ॥

अथ स प्रकृतिशुद्धसत्त्वस् तदवस्थो ऽप्य् अनभिजातविषाददैन्यसंभ्रममनास् तं व्याधम् अब्रवीत् ।

अमोघो यद् अयं बाणस् त्वया तात समुद्यतः । मयि प्रहर निःशङ्कं मा कार्षीर् मृतमारिकाम् ॥ गोकी_36 ॥

अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायम् अवेत्य पाणिभ्यां हृदयम् अभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वम् आह ।

पुत्र मा साहसं कार्षीर् मय्य् एव प्रहरत्व् अयम् । मृतयापि मया किं स्याज् जरयापीतसारया ॥ गोकी_37 ॥

यद् अहं तात जीवामि दुर्मना दुःखभागिनी । त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत् ॥ गोकी_38 ॥

त्वयि जीवति जीवन्ति बहवो धर्मजीविनः । निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः ॥ गोकी_39 ॥

जराजनितसंवेगा विप्रोषितविलोचना । मृत्युम् एवाभिकाङ्क्षामि निश्वासैकपरायणा ॥ गोकी_40 ॥

त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया । त्वयि जीवति जीवन्तीं माम् अवेहि मृताम् अपि ॥ गोकी_41 ॥

उपायासि प्रपन्नाया जराकान्तारम् आयतम् । विश्रम्भस्थानवन् मृत्युर् भाग्येनैव ममागतः ॥ गोकी_42 ॥

अथ बोधिसत्त्वो ऽभिप्रणम्यानुनेष्यन्न् अनुकम्पाशीतलैर् अपि निर्दहन्न् इव वचोभिर् जननीं प्रत्य् आह ।

क्षुद्रजन्तोर् अपि कृते जह्यां देहशतान्य् अपि । मातुर् अर्थे त्यजेद् देहम् इतरो ऽपि गतव्यथः ॥ गोकी_43 ॥

कायव्रणम् इमं तीव्रव्यसनापातकातरम् । तवैव परिचर्यायै मातः परिहराम्य् अहम् ॥ गोकी_44 ॥

न च मे कायिकं दुःखं तथा जनयति व्यथाम् । मानसेनैव दुःखेन यथा पीड्ये विदाहिना ॥ गोकी_45 ॥

स्वकायपरिरक्षार्थम् अध्युपेक्ष्य वधं तव । दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम् ॥ गोकी_46 ॥

अपि चाम्ब ।

उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्व् इव । मृत्योर् अप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम् ॥ गोकी_47 ॥

अथ सा बोधिसत्त्वजननी शीतैर् अनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैर् अपरिम्लायमानगौरवप्रसादपेशलैस् तद्वचोभिः सुतराम् आक्लेदितहृदया व्यापिना स्वरेण तद् वनम् आपूरयन्ती सकरुणं विरुराव ।

अमूनि तव वाक्यानि शीतान्य् अपि दहन्ति माम् । हिमापाता इव लतां पाकपाण्डुपलाशिनीम् ॥ गोकी_48 ॥

हा मातृवत्सल रिपुष्व् अपि मैत्रचित्त क्षुद्रेष्व् अपि प्रकृतिभद्र मृदुस्वभाव । पुत्रापहाय कृपणां क्व नु यास्यसि त्वं माम् अद्य दुःखशतबाणशरव्यभूताम् ॥ गोकी_49 ॥

हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण । संरक्ष मां सुचिरम् एकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता ॥ गोकी_50 ॥

याताः क्व ते ऽद्य मुनयो ज्वलितप्रभावाः सख्यः क्व ताः प्रतिगता वनदेवतास् ते । धर्माय रक्षति जगत् किल धर्मजीवी कस्माज् जगन् मम निमीलति पुत्रशून्यम् ॥ गोकी_51 ॥

शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा नद्यश् च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः । संशान्ता वनराजयश् च शिखिना सुद्योतिताश् चन्द्रकैर् भानोर् अंशुकरालिताश् च दिवसा रक्षन्तु मे पुत्रकम् ॥ गोकी_52 ॥

अचेतनानाम् अपि पादपानां बभूव कम्पो रुदितेन तेन । मृदूकृतं तस्य न नाम चेतो मनाग् अपि क्रूरमनोरथस्य ॥ गोकी_53 ॥

अथ स दुरात्मा तद्वाक्यश्रवणज्वलितकोपानलादीप्तहृदयः कथापर्यवसानम् अविगणय्यैव बोधिसत्त्वं तीक्ष्णेन बाणेन मर्मदेशे ऽभिहत्य प्राणैर् वियोजयां बभूव ।

शिवाविरुतजर्जरा इव दिशो ऽभवंस् तत्क्षणं ततान बहलं तमो द्विरदयूथनीलं जगत् । भयाद् इव चकम्पिरे विलुलितोपलाः पर्वताः पपात शलभावलीवलयपिङ्गलं खाद् रजः ॥ गोकी_54 ॥

विशुष्कजलभैरवाः प्रदरगह्वराः सिन्धवो द्वितीय इव भास्करे समुदिते ऽभवंस् तत्क्षणम् । पपात रुधिरं दिवो घटमुखैर् इवावर्जितं हते कपिगणाधिपे सुचरितैकरत्नाकरे ॥ गोकी_55 ॥

अथ स दस्युस् तद् अतिदारुणं कर्म कृत्वा सद्यस् तद्विपाकचिह्नाकुलीकृतहृदयः स्वम् आवासम् अभिप्रतस्थे । तत्र च तत्कर्मापराधेन भैरवो निष्प्रतीकाररभसज्वालामालाकुलो महदग्निः प्रजज्वाल ।

दूराद् एव तम् आपतन्तम् अनिलप्रेङ्खोलनाचञ्चलैः सद्यो ऽग्निः परिषष्वजे प्रियम् इव ज्वालाभुजैर् आयतैः । कर्म क्षेत्रविशेषबृंहितफलं कर्मान्तराव्याहतं निक्षेपं वपुषो विपाकचपलं नोदीक्षते प्राणिनाम् ॥ गोकी_56 ॥

संशुष्ककक्षान्तविसर्पिणीभिर् ज्वालाभिर् अग्नेः पवनोद्धताभिः । आलिङ्गितो ऽसौ कठिनान्तरात्मा मुमोह हा हेति च संरुराव ॥ गोकी_57 ॥

अनिलाकुलितानलावलीढः कटुधूमौघनिरुद्धकण्ठतालुः । निपपात समुत्पपात चासाव् असकृन् मीन इवातुरस् तपस्वी ॥ गोकी_58 ॥

तस्यास्थिशेषम् अपि कापुरुषस्य दग्ध्वा वह्निः सरोष इव नैव शशाम शीघ्रम् । तद्दूषितां वसुमतीम् अपि दग्धुकामो जज्वाल धूमकपिशार्चिर् ⏑ - ⏑ अन्तः ॥ गोकी_59 ॥

ज्वालानां गगनतलावलम्बिनीनां संतानाः कुसुमितकर्णिकारगौराः । रेजुस् ते प्रलयविलीयमानसानोर् निर्यासाः कनकगिरेर् इव स्रवन्तः ॥ गोकी_60 ॥

दग्धो दुश्चरिताग्निभिः स परुषैर् दग्धः पुनः पावकैः पापात्मा सकलत्रपुत्रविभवः शुष्को यथा पादपः । तं भूयो ऽपि ददाह दारुणतरः कर्मेन्धनो नारको वह्निर् धूमकलाकलङ्कितमुखज्वालाकलापश् चिरम् ॥ गोकी_61 ॥

अवेत्य पापकर्मणाम् इदं विपाकवैशसं विवर्जयेद् असत्क्रियां भुजङ्गमाङ्गनाम् इव । प्रसादयेच् च मानसं प्रसादनीयकर्मसु जिनौरसेष्व् अकारणप्रजाहिताभियोगिषु ॥ गोकी_62 ॥

॥ इति श्रीकपीश्वरजातकं नवत्रिंशत्तमम् ॥

5. मैत्रकन्यक

मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीयाः ।

तद्यथानुश्रूयते

विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव ।

परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः । तस्यार्यसत्त्वस्य नभस्य् अनभ्रे करा इवेन्दोः कुमुदावदाताः ॥ gomk_1 ॥

तृष्णानलैः शोकशिखाप्रचण्डैश् चित्तानि दग्धानि बहुप्रकारम् । आशावतां सप्रणयाभिरामैर् दानाम्बुसेकैः शमयां बभूव ॥ gomk_2 ॥

दृष्ट्वा लोकम् इमं धनक्षयभयात् संत्यक्तदानोत्सवं लोभक्लेशपिशाचिकावशतया संदूषिताध्याशयम् । कारुण्यात् स ददाव् अनाथकृपणक्लीबातुरेभ्यो धनं मत्वा वायुहतार्णवोर्मिचपलं स्वं जीवितं भूयसा ॥ gomk_3 ॥

येषु व्यासज्य चेतो भुजगवरवधूभोगभीमेषु लुब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम् । वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस् तान् अर्थान् अर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः ॥ gomk_4 ॥

तस्यापुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैर् असकृद् उन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनेव विगतनिखिलप्रतीकारदारुणप्रभावमहताशु कृतान्तालयैकपरायणाः क्रियन्ते स्म तदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुम् आरेभे ।

यस्मिन् यस्मिंस् तनयसरसि स्वच्छपुण्याम्बुपूर्णे वव्रे वृद्धिं समुदितमहावंशलक्ष्म्यम्बुजन्म । तत् तत् तस्य प्रबालविरसां याति तीक्ष्णांशुमालैः शोषं निन्ये रविर् इव जलं भागधेयार्कबिम्बम् ॥ gomk_5 ॥

रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम् । गङ्गां शङ्खदलावदातसलिलां तां तांश् च देवान् असौ पुत्रार्थी शरणं ययौ बहु पुनर् दानं द्विजेभ्यो ददौ ॥ gomk_6 ॥

यद् यज् जनो मङ्गलदेशनाभिर् व्रतोपवासाधिगतैश् च दुःखैः । ⏓ - ⏑ - - ⏑ ⏑ - ⏑ - - ⏓ - ⏑ - - ⏑ ⏑ - ⏑ - - ॥ gomk_7 ॥

- - ⏑ - - ⏑ ⏑ - ⏑ - - - - ⏑ - - ⏑ ⏑ - ⏑ - - । पुत्रार्थसंसिद्धिनिमग्नबुद्धिर् विक्षिप्य खेदं स चकार तांस् तान् ॥ gomk_8 ॥

एवम् अनेकप्रकारं कायचेतस्सोर् आयासकारिभिर् अपि व्रतोपवासमङ्गलैर् यदा नैव कदा चित् काले ऽस्य पुत्रा जीविनो बभूवुस् तदैवम् अतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश् चित् साधुपुरुषो ऽब्रवीत् ।

कर्माण्य् एवावलम्बन्ति देहिनां सर्वसंपदः । भूतानां तुङ्गशृङ्गाच् च विनिपातो न भूतये ॥ gomk_9 ॥

संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना [!] । न च ते ऽद्यापि जीवन्ति तत्र किं परिखिद्यसे ॥ gomk_10 ॥

कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस् तुष्टिवशाद् इहेयुः । ये यैर् विना नात्मभवं लभन्ते ते तैर् विना जन्म कथं भजेरन् ॥ gomk_11 ॥

ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास् ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः । त्वं केनापि विडम्ब्यसे जडमतिः पुत्राशयोन्मत्तको यस् त्वं द्याम् अधिगन्तुम् इच्छसि बृहत्सोपानमालाश्रयात् ॥ gomk_12 ॥

विधिम् अपरम् अहं ते बोधयामि प्रसिद्ध्यै त्वम् अपि च कुरु तावत् संप्रसिद्ध्यै कदा चित् । यदि भवति सुतस् ते कन्यकानाम तस्य सकलजनपदे ऽस्मिन् ख्यापयस्व प्रसिद्ध्यै ॥ gomk_13 ॥

अथ तस्य कालान्तरे गगनतलम् अंशुमालीव स्वकिरणनिकरैर् विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयां बभूव । स च

निर्वान्तामलहेमशैलशिखरप्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्त्रोरुभास्वच्छिराः । मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्त्रनिचयश्यामारुणान्तेक्षणः ॥ gomk_14 ॥

भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर् लक्षणैः । मूर्तिस् तस्य रराज मेरुशिखराद् धेमं यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर् वेष्टितम् ॥ gomk_15 ॥

भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम् । तनयम् उदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयाम् आस लोके ॥ gomk_16 ॥

शरीरिणां वृद्धिकरैः समृद्धैर् विशेषयुक्तैर् विविधान्नपानैः । सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम् ॥ gomk_17 ॥

धात्रीभिः स समुन्नीतः क्षीरैश् च सर्पिमण्डकैः । पुपोष सुन्दरं देहं ह्रदस्थम् इव पङ्कजम् ॥ gomk_18 ॥

अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः । द्रव्यैर् वहनम् आरोप्य जगाहे तोयधिं मुदा ॥ gomk_19 ॥

तिमिङ्गिलक्षोभविवर्धितोर्मिमहोदधौ मीनविपन्नपात्रे । पितुर् व्यतीते जननीं जगाद चकार किं कर्म पिता ममेति ॥ gomk_20 ॥

ततो ऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्ताम् आपेदे ।

आशापाशशताकृष्टो जनो मृत्युं न पश्यति । विषयास्वादकृपणो वारण इव बन्धनम् ॥ gomk_21 ॥

यद्य् अपि कथयिष्यामि पितरं यानपात्रिकम् । एषो ऽपि मम मन्दाया नाशम् एष्यति तोयधौ ॥ gomk_22 ॥

यावच् चायं जनपदम् इमं तस्य वृत्तिं न भूतां पृच्छत्य् अस्मै कथयति न वा सर्व एवैष लोकः । तावद् युक्तं मम सुतम् इमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिसक्तं निषेद्धुम् ॥ gomk_23 ॥

परो ऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम् । निवारणीयः स मताज् जनेन प्रयत्नतः किं पुनर् एव पुत्रः ॥ gomk_24 ॥

ततो जनानि कथयां चक्रे ।

पुत्रकौकरिकत्वेन पिता ते माम् अपूपुषत् । यद्य् अहं सुखिता कार्या कारयौकरिकापणम् ॥ gomk_25 ॥

अथ मैत्रकन्यको बोधिसत्त्वो मातुर् वचनं कुसुममालाम् इव शिरसा समभिवद्यान्यस्मिन्न् अहनि [!] औकरिकापणं प्रससार ।

पुण्यसंभारमहतस् तस्य सत्त्वदयावतः । प्रथमे ऽहनि संपन्नं चतुष्कार्षापणं धनम् ॥

स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै । दरिद्रदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै ॥ gomk_27 ॥

अथ ये तस्मिन् पुरवरे चिरंतना औकरिकास् ते तस्य तम् अभिवर्धमानं क्रयविक्रयलोकम् अविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसं तस्मिन् महासत्त्वे व्यवहारार्थम् आपतन्तम् अवलोक्य तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः ।

गान्धिकापणिकः श्रेष्ठी पिता ते ऽस्मिन् पुरे पुरा । स त्वं तां वृत्तिम् उज्झित्वा श्रयसे ऽन्यां कया धिया ॥ gomk_28 ॥

अथ बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय गान्धिकापणं चकार ।

यस्मिन्न् एव दिने चक्रे स साधुर् गान्धिकापणम् । कार्षापणाष्टकं तस्य तस्मिन्न् एवोपपद्यते ॥ gomk_29 ॥

तम् [!] अपि मात्रे प्रतिपादितवान् । अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयाम् आसुः ।

गान्धापणं क्लीबजनाभिपन्नं पिता न वैमद्यपुरे चकार । तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो ॥ gomk_30 ॥

अथ मैत्रकन्यको बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय हैरण्यिकापणं चकार ।

तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस् तान् अभिभूय सर्वान् । लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च ॥ gomk_31 ॥

दिने द्वितीये द्वात्रिंशत्कार्षापणान् उपार्ज्य सः । दक्षिणीयविशेषाय [!] मात्रे तान् अपि दत्तवान् ॥ gomk_32 ॥

अथ हैरण्यिकापणिकाः पुरुषाः समेत्यागत्य च तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः ।

शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम् । कृपणां जीविकाहेतोर् वृत्तिम् आश्रयते भवान् ॥ gomk_33 ॥

पर्भञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे । विवर्तितं श्लाघ्यम् अतिव पुंसां न तु स्ववृत्तेश् च्यवनं प्रवृत्तम् ॥ gomk_34 ॥

महोरगश्वासविघूर्णितोग्रैस् तरङ्गभङ्गैर् विषमान् पयोधीन् । अगाधपातालविलग्नमूलान् पिता विगाह्यार्जितवान् धनं ते ॥ gomk_35 ॥

यद् आश्रितं कर्म जनानुवर्तिना त्वया विदग्धेन धनेप्सुनाधुना । कथं न संप्राप्स्यसि भाग्यसंपदं पितुर् व्यतीते ऽपि विशालिनीं श्रियम् ॥ gomk_36 ॥

वित्तेश्वरो ऽप्य् अर्थविभूतिविस्तरैर् नासासदर्था विबभार यस्य । तस्या [!] महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम् ॥ gomk_37 ॥

ये मृत्युं गणयन्ति नैव विपदि ग्रामं भजन्ते न ये गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः । ते तीर्त्वा जलधीन् अगाधसलिलान् आवर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितया चिन्वन्ति कीर्त्या जगत् ॥ gomk_38 ॥

अथ मैत्रकन्यको बोधिसत्त्वस् तेभ्यो ऽप्य् तथानुगुणिनीं कथाम् अवधार्य समुद्रावतरणकृतव्यवसायो मातरम् उपसृत्योवाच । अम्ब सार्थवाहः किलास्माकं पिता पुरा तद् अनुज्ञां प्रयच्छ यद् अहम् अपि महासमुद्रम् अवतरिष्यामीति । सा पूर्वम् एव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदया स्वतनयम् आह ।

वत्स केन तवाख्यातं विनाकारणशत्रुणा । जीवितं कस्य ते ऽनिष्टं त्वया क्रीडां करोति कः ॥ gomk_39 ॥

दैवात् कथं चित् संप्राप्तं चक्षुर् एकं त्वम् अद्य मे । पुत्रक क्लेशभागिन्या मृत्युना ह्रियसे ऽधुना ॥ gomk_40 ॥

न यावद् एकं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम् । कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैर् अमित्रैः ॥ gomk_41 ॥

येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं यैः संत्यक्तं कृपणहृदयैर् जीवितं भोगलुब्धैः । ते संत्यक्त्वा [!] नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धून् अज्ञा मकरनिलये मृत्यवे यान्ति नाशम् ॥ gomk_42 ॥

तन् माम् अनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम् । संत्यज्य यातुं कथम् उद्यमस् ते मा सा कथा मानवरो मदीयम् ॥ gomk_43 ॥

स्वप्राणसंदेहकरीम् अवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम् । संपत्तयो येन वणिग्जनस्य ततो ऽहम् एवं सुत वारयामि ॥ gomk_44 ॥

स तस्या हितार्थं मधुराण्य् अपि वचनकुसुमानि तृणम् इवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किं चिद् ईदृशं प्रत्याह ।

वरं नैव तु जायेरन् ये जाता निर्धना जनाः । जातस्य यदि दुःखानि वरं मृत्युर् न जीवितम् ॥ gomk_45 ॥

आशया गृहम् आगत्य दीनदीनास् तपस्विनः । अर्थिनो मम पापस्य यान्ति निश्वस्य दुर्मनाः [!] ॥ gomk_46 ॥

ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते । लोकं पुनर् दुःखशतोपतप्तं द्रष्टुं न शक्नोमि चिरायमाणः ॥ gomk_47 ॥

तस्माद् विलङ्घामि वचस् तवेदं यास्यामि तं त्वं प्रजहीहि शोकम् । तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य ॥ gomk_48 ॥

अथ मैत्रकन्यको बोधिसत्त्वो मातरम् अप्रमाणीकृत्य निर्गत्य गृहाद् वाराणस्यां पुर्याम् आत्मानं सार्थवाहम् इत्य् उद्घोषयाम् आस ।

अस्याम् एव पुरा पुरंदरपुरीप्रस्पर्धिपुर्यां वणिङ् मित्रो नाम बभूव यः सुरनरप्रख्यातकीर्तिध्वजः । पुत्रस् तस्य महासमुद्रम् अचिराद् यास्यत्य् अमुष्मिन् दिने यातुं ये वणिजः कृतोपकरणास् ते सन्तु सज्जा इति ॥ gomk_49 ॥

अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणाम् उपहृतमङ्गलविधानानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार । माता चैनं गच्छतीति श्रुत्वाह । ममैकपुत्रक क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरम् उरः प्रगाढम् अभिताडयति । बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी [!] अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरम् अभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवम् आह । मा मां पुत्रक परित्यज्य यासीति ।

अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम् । सतां हिताधानविधानचेतसां गिरो ऽपि शृण्वन्ति न भूतवादिनाम् ॥ gomk_50 ॥

मैत्रकन्यको ऽपि

धरणितलनिमग्नां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा । मुहुर् उपचितशोकः कर्मणा प्रेर्यमाणस् त्वरितमतिर् अभूत् - संप्रयातुं वणिग्भिः ॥ gomk_51 ॥

ततः सा माता समुत्थायाह । पुत्रक

मयि गमननिवृत्तिं कर्तुम् अभ्युद्यतायां यद् उपचितम् अपुण्यं मच्छिरस्ताडनात् ते । व्यसनफलम् अनन्तं मा तु भूत् कर्मणो ऽस्य पुनर् अपि गुरुवाक्यं मातिगाः स्वप्नतो ऽपि ॥ gomk_52 ॥

अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतरान् अनेकनगरनिगमकर्वटग्रामादीन् अनुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलानिलबलविलुलितविपुलविमलसलिलम् अरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलम् असुरस्वरसमसुरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरङ्गभङ्गरौद्रं समुद्रम् अवततार ।

महानिलोत्क्षिप्ततरङ्गभङ्गैः समुल्लसद्भिः खम् इवोत्पतन्तम् । सरित्सहस्राम्बुरयप्रवाहैर् भुजैर् विलासैर् इव गृह्यमाणम् ॥ gomk_53 ॥

प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम् । तन्मुर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छुरितोर्मिचक्रम् ॥ gomk_54 ॥

अहिपतिवदनाद् विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम् । तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम् ॥ gomk_55 ॥

तुङ्गतरङ्गसमुद्गततीरं तीरनिलीनकलस्वनहंसम् । हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम् ॥ gomk_56 ॥

रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम् । वृद्धभुजंगमहाहवरौद्रं रौद्रमहामकराहतचक्रम् ॥ gomk_57 ॥

खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम् । प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम् ॥ gomk_58 ॥

तद् एव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटावर्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यम् अतिशयम् अम्भसाम् आलयम् अतिक्रमतस् तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर् विवर्तमानस्य समुत्थितैर् उर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर् महद्भिः सलिलनिवहैर् उत्पीड्यमानं तद् यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर् दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहसैव सलिलनिधेर् अधः प्रवेष्टुम् आरब्धम् ।

उर्वीधराकारतरङ्गतुङ्गैर् उग्रैर् युगान्तानिलचण्डवेगैः । तद् यानपात्रं जलधेर् जलौघैर् आस्फाल्यमानं विददार मध्ये ॥ gomk_59 ॥

दंष्ट्राकराले झषवक्त्ररन्ध्रे कश् चिन् ममारार्तरवस् तपस्वी । के चिज् जलोद्गारनिरुद्धकण्ठा जग्मुर् निरुच्छ्वासगिरो व्यसुत्वम् ॥ gomk_60 ॥

गत्वापि के चित् फलकैर् महद्भिर् अम्भोनिधेस् तीरम् अवेक्षमाणाः । दूराम्बुसंतानपरिश्रमार्तास् त्रासाकुला नेदुर् उदीर्णनादाः ॥ gomk_61 ॥

अथ मैत्रकन्यको बोधिसत्त्वस् तेन महता व्यसनोपनिपातेनाप्य् अनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद् धैर्यपराक्रमं ससंभ्रमं फलकम् आदाय प्रससार ।

ततो ऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैर् इतस् ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश् चान्यैर् बहुभिर् अहोरात्रैर् यथा कथं चित् तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशम् आससाद ।

तीर्त्वा तम् अम्भोनिधिम् अप्रगाधम् आसाद्य तीरं फलकं मुमोच । संस्मृत्य मातुर् वचनं स पाणौ व्यासज्य मूर्धानम् इदं जगाद ॥ gomk_62 ॥

शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम् । तेषाम् इमानि व्यसनानि पुंसां मायावहन्ति प्रभवन्ति मूर्ध्नि ॥ gomk_63 ॥

तैर् एव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य । प्राप्तं फलं जन्मतरोः सुधीभिर् ये मानयन्तीह गिरो गुरूणाम् ॥ gomk_64 ॥

मातुर् हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य । पुष्पं यद् ईदृग् भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य ॥ gomk_65 ॥

हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गगनौग्रं विस्मयत्यन्तवज्रम् । गुरुशिरसि दधानः पादवज्रं खलो ऽहं कथम् अवनिविदार्यश्वभ्ररन्ध्रे न लग्नः ॥ gomk_66 ॥

ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः श्रेयस् ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा । ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्ते ऽन्यथा दुस्तरे व्यसनोदधौ निपतिताः शोचन्ति ते ऽहं यथा ॥ gomk_67 ॥

ततो ऽसौ क्रमेण खदिरवटसरलनिचुलबकुलतमालतालनालिकेशरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुतालताजालदुःसंचरं क्व चित् क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथं चिद् अपि शबरमनुजजनचरणाक्षुण्णपर्यन्तम् अनुचरन् क्व चित् स्थित्वैवम् आह ।

एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः । सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितालैः प्रयान्ति विवशाः फुत्कारभीताः पुनः ॥ gomk_68 ॥

रम्ये कुङ्कुमशाखिनाम् अविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे । वंशैस् तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः संगीताहितचेतसः प्रमुदिता गायन्त्य् अमी किन्नराः ॥ gomk_69 ॥

ततो नातिदूरम् अतिसृत्य महीधरवराकारं पर्वतं ददर्श ।

क्व चिद् उग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविवरम् । क्व चिद् उद्धतकिन्नरगीतरवं प्रतिबुद्धससंभ्रमनागकुलम् ॥ gomk_70 ॥

चपलानिलवेल्लितपुष्पतरुं तरुमन्दिरमूर्ध्नि चलद्भ्रमरम् । भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम् ॥ gomk_71 ॥

पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम् । सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिषेवितमत्तशकुन्तम् ॥ gomk_72 ॥

मत्तशिखण्डिकलस्वनरम्यं रम्यगुहामुखनिर्गतसिंहम् । सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम् ॥ gomk_73 ॥

क्व चिद् उपचितवारणदन्तशिखाशनिदारितशिखरतटं प्रविरूढविलासशिखागरुवृक्षवनं क्व चिद् उपरिपयोधरभारतरध्वनिञ्जितशिखिकुलविस्तृतपिच्छकलापविचित्रितचारुतटम् । क्व चिद् अनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिजलं कुसुमप्रबलप्रतिवासितसानुशिखं ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ⏑ ⏑ - ॥ gomk_74 ॥

तथापरं ददर्श ।

लिखन्तं करालैर् नभः शृङ्गजालैः क्षिपन्तं मयूखैस् तमः सागराणाम् । वहन्तं समुद्राम्बराम् अद्रिगुर्वीं क्षरन्तं क्व चित् काञ्चनाम्भःप्रवाहम् ॥ gomk_75 ॥

फलितामलभूषणकल्पतरुं तरुखण्डविराजितसानुशिखम् । शिखरस्थितदेववधूमिथुनं मिथुनैर् दहतां वयसां मधुरम् ॥ gomk_76 ॥

क्व चिद् अर्कमहारथचक्रनिर्वातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयमौलिभरावनतोन्नतभासुरवज्रधरं क्व चिद् इन्द्रकरीन्द्रविमर्दतरङ्गरयभ्रमितप्रचलत्कलहंसकुलावलिहारनभःसरिदम्बुविधौतशिलं । क्व चिद् अण्डजराजविलाससमुच्छ्रितपक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरं क्व चिद् एव सुरासुरसंयुगशस्त्रविपन्नमहासुर- वैद्युतशोणितरङ्गमहावलयम् ॥ gomk_77 ॥

दृष्ट्वैवम् आह ।

एते पर्वतशृङ्गचन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः । प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम् ॥ gomk_78 ॥

इत्य् एवम् असाव् अतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्न् अज्ञानतमःपटलावगुण्ठितम् इव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श ।

समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः । सुवर्णसालैर् मणिहेमशृङ्गैर् महीधराकारगृहैः सुगुप्तैः ॥ gomk_79 ॥

निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः । कलप्रलापाण्डजरावरम्यैर् मन्दानिलैर् आवसथीकृतं सदा ॥ gomk_80 ॥

सुरकरिकरदघ्नकल्पवृक्षैर् मरकतरत्नतृणैः शुकांशुनीलैः । मणिकनकलताबद्धशाखैः क्व चिद् उरुभिस् तरुभिः प्रकामहारि ॥ gomk_81 ॥

विकसितनवकर्णिकारगौरैः कनकगृहैर् बहुरत्नशृङ्गचित्रैः । स्वकिरणरुचिरोरुरत्नसानोर् अचलपतेः सकलश्रियं दधानम् ॥ gomk_82 ॥

क्व चिद् अमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम् । क्व चिद् उपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम् ॥ gomk_83 ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.