Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Gopadatta)
- Tác giả
- गोपदत्त
- Thông tin
- GRETIL — Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśvarajātakam = GoKī: edition by Michael Hahn. "Gopadatta's Kapīśvarajātaka ḥ Re-edited and translated", Bukkyḥ Bunka Kenkyūjo Kiyḥ [= Bulletin of Research Institute for Buddhist Culture, Ryukoku
ततस् तद्दर्शनात् समुत्पन्नजीविताशो ऽसौ रमणं नगरम् उपससर्प । तस्मान् नगराद् विनिःसृत्य चतस्रो ऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभारमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोर् विन्यासितशिरसः प्राहुः ।
सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय । कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्चयाय ॥ gomk_84 ॥
अद्यैव दुह्खानि शमं गतानि [!] अद्यैव नो जीवितगात्रसारम् । निरत्ययप्रेमविशेषभद्राण्य् अद्यैव सौख्यानि पुरःस्थितानि ॥ gomk_85 ॥
इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि । भवन्तम् आसाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि ॥ gomk_86 ॥
यान्य् अर्जितान्य् अन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि । तेषां फलं वीक्षणम् एव ते ऽलं सङ्गस् त्वया किं पुनर् एव दीर्घम् ॥ gomk_87 ॥
अद्यैव मा बन्धुसुहृद्वियोगशोकं कृथाः कस्य न सन्त्य् अपायाः । दास्यो वयं ते ऽप्सरश् चतस्रश् छाया न ते लङ्घयितुं समर्थाः ॥ gomk_88 ॥
रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश् चारुतरा वयं च । संत्यक्तभर्ता सुरराजयोग्या शक्तिर् विधेनेह सुखं भजस्व ॥ gomk_89 ॥
अपि च
दुःखे महत्य् अप्रतिकारघोरे ये वर्तमानाश् चिरम् उद्वहन्ति । ते दुःखभारोपनिपातमूढास् तत्रैव शीघ्रं निधनं प्रयान्ति ॥ gomk_90 ॥
नित्ये वियोगे मरणात् पुरःस्थिते शोचन्ति ते दैवकृते वियोगे । संस्मृत्य रागोपनिपातमूढाः कामप्रहारं विषमं प्रपन्नाः ॥ gomk_91 ॥
शब्दायमानवरनूपुरमेखलाभिर् आदिश्यमानभवनं प्रवराप्सरोभिः । हैमाद्रिशृङ्गम् इव तत् पुरम् आविशन्तं नेमुः कृताञ्जलिपुटा बहवो ऽपि तत्र ॥ gomk_92 ॥
अन्यैश् [!] च पुनः
किं दीप्तरश्मिर् विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः । हा किं विनिक्षिप्तहराग्रवज्रो नाथः सुराणाम् इति तर्कितो ऽभूत् ॥ gomk_93 ॥
तिमिरनिकरलेख्या श्यामगोपक्ष्मलेख्याः स्फुटितकनकहारा न्यस्तरत्नोज्ज्वलाङ्ग्यः । विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसो ऽन्याश् चिक्षिपुः स्रस्तकाञ्च्यः ॥ gomk_94 ॥
रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम् । चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम् ॥ gomk_95 ॥
तासां विलासैर् गमनैः सलीलैर् हासैः कटाक्षैर् मधुरैः प्रलापैः । क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः ॥ gomk_96 ॥
प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म । सो ऽपि यथा यथा निवार्यते तथा तथा तया दिशा गमनायोत्सुकमना बभूव ।
यत्रायं वार्यते लोको जनेन हितबुद्धिना । विपर्यस्तमतिस् तत्र जनः स परिधावति ॥ gomk_97 ॥
यदि कुर्याद् अयं लोके सुहृदां वचनं हितम् । परैति स्वर्गं पातालश्वभ्रे [!] आ स्वप्नतो ऽपि न ॥ gomk_98 ॥
अथ मैत्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसाम् परिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीम् आरुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श । तस्माद् अपि नगराद् अष्टाप्सरसः ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयाम् आसुः । तत्राप्य् अचिरं रतिम् अनुभूय प्रतिषिध्यमानगमनक्रियस् तेनैव दक्षिणेन पथा गच्छन् नन्दनं नाम नगरं ददर्श । तस्माद् अपि षोडशाप्सरोभिर् अभिगम्य सत्कृत्य प्रवेशयाम् आसे । तत्रापि चिरं क्रीडां सेवित्वा तस्माद् अपि ब्रह्मोत्तरं नाम नगरं प्रययौ । तत्रापि द्वात्रिंशताप्सरोभिर् भूयः सत्कारं विषयसुखम् भुक्त्वा ताः प्राह ।
इच्छामि गन्तुम् तद् अहं भवन्त्यो [!] मा मत्कृते शोकह्रदे शयिध्वम् । संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके ॥ gomk_99 ॥
स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद् भवितान्तकाले । तेनैव नेत्राश्रुजलार्द्रगण्डान् [!] युष्मान् विहायाद्य यियासुर् अस्मि ॥ gomk_100 ॥
वाताहताम्भोधितरङ्गलोले ये जीवलोके बहुदुःखभीमे । विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः ॥ gomk_101 ॥
अथाप्सरसस् ताः समस्तास् तद्गमनवियोगशोकग्लपितऋदयाः ससंभ्रमाः कमलकुवलयकुड्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः ।
अस्मासु ते कर्तुम् अनिष्टम् इष्टं कथं हि भक्तिप्रणयार्पितासु । सो ऽन्येन एकग्रहणीयरूपः शरीरकानेन वयो ग्रहीते ॥ gomk_102 ॥
गत्वा तन् नगरत्रयं यद् अपि हे स्वामिन्न् इहाप्य् आगतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस् ते चिरम् । गन्तव्यं न पुनस् त्वया सुबहुना प्रोक्तेन किं यासि चेत् संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः ॥ gomk_103 ॥
बोधिसत्त्वः प्राह ।
यद् अभ्यासवशान् नृणाम् उदयसंपदः स्थिराः । कथं ते नु निवार्येरन् निवर्तेरन् कथं नु वा ॥ gomk_104 ॥
नियोजनीयाः सुहृदः सुहृद्भिर् यस्मिन् हिते कर्मणि नित्यकालम् । निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो ऽमित्रतया भवन्ति ॥ gomk_105 ॥
दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा [!] आयातो ऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम् । संप्राप्तो ऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्माद् आगतकस्य यूयम् अधुना प्रोन्मूलिता भूमयः ॥ gomk_106 ॥
तस्माद् अतो मे गमनं भवन्त्यो [!] मा वारयध्वं न हि नो ऽस्त्य् अपायः । अस्माद् विशेषाणि सुखानि मन्ये लप्स्ये ऽहम् इत्य् उच्चलितो ऽहम् अद्य ॥ gomk_107 ॥
इत्य् अथ मित्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसां हितम् अपि वाक्यम् अहितम् इवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गडप्रटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्य् अभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितम् अन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवम् आयसं नगरं तस्य च द्वारदेशम् उपचक्राम ।
संप्राप्तमात्रस्य तु तत्क्षणेन द्वारं च विस्फोटकपाटभारम् । वज्राग्रधारापरिभिन्नसानोर् विन्ध्याचलस्येव नितम्बकुक्षिः ॥ gomk_108 ॥
ततो मैत्रकन्यको बोधिसत्त्वो ऽत्र विवेश ।
प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम् । तत्कर्मवायुप्रभवैर् महद्भिः क्षणाद् भुजाग्रैर् इव संजघाट ॥ gomk_109 ॥
अश्रौषीच् च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनम् उच्चरन्तं श्रुत्वा च द्वारदेशं त्वरितमतिर् ललङ्घ ।
प्रविष्टमात्रस्य ततो द्वितीयम् आस्फालितं द्वारम् इवोपरुद्धम् । पर्यन्तकालानिलवेगविद्धं द्वारं सुराणाम् इव वज्रकल्पम् ॥ gomk_110 ॥
ततो मित्रकन्यको बोधिसत्त्वः प्रविवेश ।
प्रविष्टमात्रस्य पुनस् तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम् । क्षणाद् अभूत् तन् नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः ॥ gomk_111 ॥
ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तम् अतिदारुणाकारप्रमाणं क्रूरज्वलनमालालिङ्गितम् उदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्व् इव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषं समीपं चोपगम्यैनं पर्यपृच्छत् ।
किं नागो ऽसि सुरो ऽसि किन्नरवरो यक्षो ऽसि किं मानुषः किं विद्याधरसैनिकः किम् असि वा दैत्यः पिशाचो ऽसि वा । किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं यस्यास्तिव्यसनं दुरुत्तरम् इदं भुज्यं फलं क्रन्दयत् ॥ gomk_112 ॥
पुरुषः प्राह ।
नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजा [!] । रक्षो नाहं नापि विद्याधरो ऽपि जातिस् तुल्या संप्रतीहि त्वया नः ॥ gomk_113 ॥
बोधिसत्त्वः प्राह ।
किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्य् आयसम् ।
पुरुषः प्राह ।
नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया ॥ gomk_114 ॥
यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशाद् अकार्यगुरुकस् तस्यां जनन्याम् अहम् । साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस् तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्य् आयसम् ॥ gomk_115 ॥
अथ बोधिसत्त्वस् तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस् तां परजुगुप्साम् आत्मन्य् अनुपश्यन्न् आह ।
अन्यं जुगुप्साम्य् अहम् अल्पबुद्धिर् आत्मानम् एवाद्य निनिन्द अज्ञः । येषु स्वयं दोषगणेषु मग्नस् तैर् एव लोकं कथम् अङ्कयामि ॥ gomk_116 ॥
मयापि यन् मातरि दक्षिणीये [!] कृतो ऽपराधः पुरुषाधमेन । तस्यैव पापस्य फलानि भोक्तुम् उल्लङ्घ्य तोयावलिम् आगतो ऽस्मि ॥ gomk_117 ॥
इत्य् अथ तस्य वचनानन्तरम् एव प्रभिन्ननवकुवलयदलनिर्मलान् नभस्तलात् सजलजलदनिनादगम्भीरधीरोध्वनिर् उच्चचार ।
किं न पश्यति कर्माणि बलवन्ति शरीरिणाम् । लोकालोकान्तरस्थायी पाशेनेव विकृष्यते ॥ gomk_118 ॥
ये बद्धा विषयेण दुःखनिगडे ऽनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यम् अन्धमतयः पापाश्रयं कुर्वते । मुक्ताः कर्मभिर् एव दुःखनिगडप्रच्छेदशूरैः शुभैर् मानुष्यं यद् अवाप्य मूढमतयो दूरे स्थिता कर्मिणः ॥ gomk_119 ॥
अथ तस्य वचनानन्तरम् एव कर्मानिलवेगोत्क्षिप्तम् इव तच् चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयं [!] भ्रमितुम् आरब्धम् । क्षणात् स रेजे रुधिरप्रवाहैर् मूर्ध्ना [!] च्युतैः स्नातसमस्तमूर्तिः । प्रभिन्नचक्राग्रविभिन्नमूर्ध्न ऐरावणस्येव तनुः पतन्ती ॥ gomk_120 ॥
ततः स पुरुषो हा हेति मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वम् आह ।
दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि । संत्यज्य कस्माद् उ पुराणि तानि प्राप्तस् त्व् इदं स्थानम् अनन्तदुःखम् ॥ gomk_121 ॥
देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैर् अतुल्यैः । नित्यज्वलद्वह्निशिखाकरेण संप्रार्थयेद् भीमम् अपायगर्तम् ॥ gomk_122 ॥
बोधिसत्त्वः प्राह ।
मत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि । संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतयागतो ऽहम् ॥ gomk_123 ॥
राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि । युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतयागतो ऽहम् ॥ gomk_124 ॥
समुत्पतत्तुङ्गतरङ्गरौद्रे भ्रमज्जलावर्तविमुक्तनादे । महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतयागतो ऽहम् ॥ gomk_125 ॥
निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम् । मुनीश्वराणां व्रतम् उत्सृजन्ति यया तयेच्छालतयागतो ऽहम् ॥ gomk_126 ॥
तेषां मुनीनां विगतव्यथानां देयं कथं पादरजो न मूर्ध्नि । यैर् लङ्घितास् तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः ॥ gomk_127 ॥
किं तद् भवेद् दुःखम् अतीवतीव्रं का वा विपत्तिर् बहुदुःखयोनिः । तृष्णाविषाग्निक्षतचित्तवृत्तेर् या दूरतः संपरिवर्तिनी स्यात् ॥ gomk_128 ॥
अपि च हे साधो
कर्मणा परिकृष्टो ऽस्मि वर्तमानो ऽपि दूरतः । कर्षति प्राणिनस् तत्र फलं यत्र प्रयच्छति ॥ gomk_129 ॥
अपि च
कति वर्षसहस्राणि कति वर्षशतानि च । प्रदीप्तम् आयसं चक्रं मम मूर्ध्नि भ्रमिष्यति ॥ gomk_130 ॥
पुरुषः प्राह ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । प्रदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति ॥ gomk_131 ॥
बोधिसत्त्वः प्राह ।
एतद् भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं को ऽन्यो ऽवभ्रमितं प्रयास्यति समं छित्त्वा परः चैष्यति ।
पुरुषः प्राह ।
यो मातर्य् अपकारकार्यम् अपरः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर् मूर्ध्ना [!] तव प्रच्युतः ॥ gomk_132 ॥
अथ बोधिसत्त्वस् तेन मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयो ऽपि सत्त्वेष्व् अनन्तेषु समुत्पादिततीव्रकारुण्याशयस् तं पुरुषम् आबभाषे ।
क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः । स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनर् अमरसमूहास् ते ऽपि शृण्वन्तु सन्तः ॥ gomk_133 ॥
कृत्वा दुश्चरितं स्वमातरि जगत् कृत्स्नं यदि प्रोद्वहेद् एतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन् मूर्धनि । कल्पान् कल्पसमैर् अहोभिर् अयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्य मानव हि मे चित्तं न संखिद्यते ॥ gomk_134 ॥
अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरम् एव मूर्ध्ना [!] समुत्पत्योत्क्षिप्तम् इव तच् चक्रं सप्ततालोच्छ्रयाच् चाक्रं नभस्तलं समुत्पत्यावतस्थे ।
रेजे तच् चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानम् असकृत्प्रोन्मुक्तभीमस्वनम् । उद्यन् [!] बिम्बम् इवारुणस्य सकलं प्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानम् अमलैर् वैडूर्यभित्त्याश्रयैः ॥ gomk_135 ॥
ततः स्रवन्निर्झरवारिचालिनः समीरणोल्लासितपुष्पशाखिनः । नभोविचुम्ब्यायतशृङ्गबाहवश् चकम्पिरे भूमिभृतो हता इव ॥ gomk_136 ॥
भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः । जलालया रत्नशिखानिवासिनस् तदातिवेलासलिलैर् ललङ्घिरे ॥ gomk_137 ॥
प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलम् अंशुमालिनः । रवेर् मयूखाङ्कुरदन्तुरान्तराद् दिशः समन्ताद् ददृशुः स्फुटश्रियः ॥ gomk_138 ॥
स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः । पयोमुचः किंचिदवाश्रुताम्भसो वितानवद् व्योमनि ते विरेजिरे ॥ gomk_139 ॥
स्रजो विचित्रा विनिपेतुर् अम्बराद् वितुष्टुवुर् हर्षतरा दिवौकसः । चिरप्रगाढव्यसना हतार्तयः क्षणाद् अभूवन् बहवो निरामयाः ॥ gomk_140 ॥
ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः । भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहम् इव स साधुर् द्याम् अयात् तत्क्षणेन ॥ gomk_141 ॥
दानोदकमहत्तीर्थे शीलशौचसुनिर्मले । क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके ॥ gomk_142 ॥
ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके । तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः ॥ gomk_143 ॥
प्रक्षालयञ् छेषपापं तुषिते ऽसौ ययौ मुदा । तत्रस्थो ऽप्य् अचिरं रेमे दृष्ट्वा लोकं कृपान्वितः ॥ gomk_144 ॥
तत् किम् इदम् उपनीतम् । एवं हि मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीया इति ॥
इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम् ॥
7. मत्सरनन्द
स्वयंकृतः सर्वसुखोपरोधी मात्सर्यतुल्यो ऽस्ति कलिर् न लोके । यत्राभिरूढा व्यसनौघमग्ना भवन्ति निश्वासपरा मनुष्याः ॥ gomn_1 ॥
एवम् इदम् उच्यमानम् अलं संवेगाय । तद्यथानुश्रूयते ।
श्रावस्त्यां नन्दो नाम सार्थवाः प्रतिवसति स्म । तस्य जन्मान्तरे पात्रातिशयप्रतिपादितत्वात् तद्दानबीजस्यापरिमाणो भोगस्कन्धः प्रादुर् बभूव । मात्सर्याभ्यासात् तु नोत्सहते स्म किं चिद् अपि कस्मै चित् प्रदातुम् ।
तस्य क्षेत्रातिशयपतितं दानबीजं पुराणं नैकाकारं विभवनिचयं स्फीतम् आविश् चकार । पूर्वं दानाकृतपरिचयाध्याशयत्वात् तु नासौ दातुं किं चित् प्रभवति तदा मत्सराक्रान्तचेताः ॥ gomn_2 ॥
त्यागस्यैव फलानुबन्धमधुरां चित्रां विपाकश्रियं संप्राप्य प्रहरन्त्य् अनर्थरुचयो मूलेषु ये संपदाम् । ते संत्यज्य निदाघकालसुभगान् इन्दोः कराञ् शीकरान् ह्लादायानुपतन्ति दावदहनांश् चञ्चच्छिखासंचयान् ॥ gomn_3 ॥
नैवात्मनासौ बुभुजे कदर्यो भोगान् ददौ नापि सुहृज्जनेभ्यः । मात्सर्यभूतग्रहलुब्धचेता द्रव्यार्जनं केवलम् एव चक्रे ॥ gomn_4 ॥
प्रविष्टपूर्वा न गृहं कदा चिद् द्विजातयस् तस्य कपालहस्ताः । शुश्राव स प्रव्रजिताननेभ्यो न दक्षिणादेशनमङ्गलानि ॥ gomn_5 ॥
वनीयकास् तस्य गृहाजिरेभ्यो व्रजन्ति निश्वस्य विशुष्कवक्त्राः । बलिं न काका अपि नाम तस्य स्मरन्ति सिक्थप्रकरोपहारम् ॥ gomn_6 ॥
विवाहकालेष्व् अपि नाम तस्य वादित्रशब्दो न समुच्चचार । आवाहकालेष्व् अपि तस्य गेहे सुहृज्जना दीनमुखा बभूवुः ॥ gomn_7 ॥
दूरात् श्मशानम् इव तस्य विवर्ज्य गेहं अन्येन याचकजनस् त्वरितं जगाम । नामापि तस्य परिकीर्त्य किल प्रभाते लेभे न कश् चिद् अशनं दिवसावसाने ॥ gomn_8 ॥
श्रुत्वापि दाननियतां स कथां चकम्पे दृष्ट्वापि याचनकम् उद्विजते कदर्यः । त्यागप्रियैः सह चकार न लोकयात्रां नन्दो जहास किल दायकम् ईक्षमाणः ॥ gomn_9 ॥
दृष्ट्वा परस्यापि स देयधर्मान् ईर्ष्याकषायाक्षिपुटो बभूव । त्यागात्मभिः सार्धम् अनार्यकर्मा चकार नैव क्रयविक्रयं सः ॥ gomn_10 ॥
अथ नन्दः कदा चिन् निष्प्रतीकारपरुषवेदनाक्रान्तदेहो नियतम् अहं मरिष्यामीत्य् उत्पन्नभयविषादशोकदैन्यमानसः पुत्रं चन्दनम् आहूयाब्रवीत् । वत्स चन्दन मया हि महता परिश्रमेण द्रव्यम् उपार्जितं परिपालितं च । तत् पुत्र मम प्रियम् अनुस्मरता न त्वया कस्मै किं चिद् अपि प्रदेयम् इति ।
चण्डालशालां व्रजत प्रगल्भान् पश्यामि युष्मान् न पुनर् यथाहम् । स याचकान् नित्यसमीक्ष्यकारी प्रोवाच रोषस्फुरिताक्षिकोशः ॥ gomn_11 ॥
कृत्वा स कर्माणि निकृष्टकर्मा मृतस् तपस्वी मृत एव पूर्वम् । चण्डालनार्याः प्रतिसन्धिबन्धं चकार कुक्षौ क्षतलोचनायाः ॥ gomn_12 ॥
सत्त्वानां चरितं चित्रम् अचिन्त्या कर्मणां गतिः । मलिना बत कामानां वृत्तिः पर्यन्तदारुणा ॥ gomn_13 ॥
अन्धा वृद्धा दरिद्रा च चण्डाली दीर्घरोगिणी । संरागायतनं याता धिक् फलत्वं प्रसङ्गिनाम् ॥ gomn_14 ॥
अथ सा वृद्धचण्डाली क्रमेण दारकं प्रसूता । तस्या एतद् अभूत् । नूनम् अहं देवताभिर् अनुकम्पिता येन मे पुत्रको जातः । नियतम् अयम् आयुष्मान् अभिवर्धमानो ममान्धाया यष्टिभूतो भविष्यतीति । सा प्रहर्षाक्षिप्तहृदया समीपपरिवर्तनीं चण्डालीम् अब्रवीत् । ज्ञायतां तावद् भगिनी कीदृशो ऽयं दारक इति । सा तम् आलोक्याब्रवीत् । ईदृशो मा भूत् कश् चिद् इति । कथं कथम् इति च । तत्र पर्यनुयुक्ता प्रोवाच ।
निशान्ताङ्गारसंकाशः कुब्जश् चिपिटनासिकः । अन्धः संकुचिताङ्गश् च तव पुत्रो ऽयम् ईदृशः ॥ gomn_15 ॥
सा नैराश्योपहतसंताना आह । हा हा हताहम् अधन्येत्य् एवं परं वैकल्यम् आजगाम । आह च ।
न तथानागताः पीडां कुर्वन्त्य् अर्थाः शरीरिणाम् । संप्राप्ता ध्वंसमानास् तु जनयन्ति यथा व्यथाम् ॥ gomn_16 ॥
अथ सा जर्जरचण्डाली व्यसनविकृतहृदया सस्वरं रुरोद ।
पतिताहम् अनर्थकर्दमे छलिता पूर्वकृतेन कर्मणा । किम् इयं मृतमारिता कृता विधिना निष्करुणेन मे पुनः ॥ gomn_17 ॥
व्यसनं निरुपायदारुणं व्यसनस्यैव ममोपरि स्थितम् । अनिमित्तखरेव लक्ष्यते मयि दैवस्य गतिर् गरीयसी ॥ gomn_18 ॥
अहम् एव खलूरिका कृता कृपणा किं नु विपत्तिपत्त्रिणा । विधिना कृपणप्रमाथिना कुपितेनेव विहीनकर्मणा ॥ gomn_19 ॥
अपयुक्तविलोचनां सतीम् अशनप्रस्रवणादिवर्जिताम् । जरतीम् उपहत्य को गुणो वद मां निर्घृणचित्त दैव हे ॥ gomn_20 ॥
एवम् अन्यथा च सा तपस्विनी बहुप्रकारं विरुरोद ।
अथ गर्भमलोपलिप्तदेहं तनयं तं तरुणं व्रणायमानम् । कुपितेव खरे महीतले सा विनिचिक्षेप रुजाहतं रुदन्तम् ॥ gomn_21 ॥
कर्माणि तीव्रपरितापफलानि कृत्वा किं रोदिषि त्वम् अधुना हतभागधेय । दुःखं मया सह सहस्व बहुप्रकारं त्वं पुत्रकेति विललाप तपस्विनी सा ॥ gomn_22 ॥
मिथ्याविकल्पपरिणामसुखानुपाती स्नेहो विवृद्धिम् उपयाति सुखे स्थितानाम् । दुःखोपतप्तमनसां शिथिलीभवन्ति पाशास् त्व् अमी प्रियविकल्पमया जनानाम् ॥ gomn_23 ॥
अथ स तपस्वी चाण्डालदारको गर्भमलाक्लेदोपलिप्तबीभत्साश्रयस् तीव्रामगन्धः कृमिमक्षिकाशतनिपानभूतः पिपीलकगणाहृतकष्टाविस्पष्टचेष्टकरचरणवदनो मांसपिण्ड इव प्रत्यग्रः क्षितितलोपनिक्षिप्तो वायसैर् अप्य् अभिभूयमानो नारक इव स्वकर्मावधूतजीवितशेषः परं कृच्छ्रम् उद्वहति स्म ।
तस्य कर्मापराधेन मातुः स्तन्यं क्षयं गतम् । उचिताम् अपि सा भिक्षां न लेभे दुःखभागिनी ॥ gomn_24 ॥
सा प्रसूतिपरिक्लेशपरिक्षामतराश्रया । जरारुजापरिक्लिष्टा प्रेतीवाभूद् भयंकरी ॥ gomn_25 ॥
आचाममात्राम् अपि नाम नासौ लेभे शुनाम् अप्य् अनिवारणीयाम् । तस्यैव वा कर्मभिर् आत्मजस्य स्वकर्मभिर् वा परिणामतिक्तैः ॥ gomn_26 ॥
अथ स चाण्डालदारको दैवसामार्थ्यात् क्रमेण यदा चङ्क्रमणक्षमः संवृत्तस् तदास्य मात्रा दण्डः खण्डमल्लकं चार्पितं गच्छेदानीम् अधन्यानुभवाशुभानां कर्मणां फलविपाकम् इति । अथ स चण्डालशिशुर् भिक्षाहेतोश् चन्दनस्यैव गृहम् उपजगाम ।
पूर्वाभ्यासेन तेनैव जगामासौ स्वम् आलयम् । कर्मैवात्यर्थम् अभ्यस्तं देहिनां देशिकायते ॥ gomn_27 ॥
अद्राक्षीच् चन्दनः सार्थवाहस् तं चाण्डालकुमारकं दण्डखण्डशरावव्यग्रहस्तं लालाजलपरिक्लिन्नवदनं भिनिभिनायमानमक्षिकाशतनिपानभूतम् बाह्याध्यात्मिकमलोपहतगात्रं रथ्यारेणुविरूक्षितकतिपयशिरोरुहं प्रकृतिखरदर्भसंस्तरपरिवर्तनविलिखिततनुम् अकृतशौचसंस्कारविधानं विकृतनासिकाबिलागलितसिंहाणखण्डपर्यवनद्धबीभत्साननं वीथीमुखात् प्रविचित्य धान्यपुलाकान् रोमन्थायमानं पूतनारूपम् इवातिविरूपं मूर्तिमन्तं संवेगं साक्षाद् इव पाप्मानम् अलक्ष्मीपुञ्जम् इव संपिण्डितम् अपूर्वम् इव पिशाचनिर्माणं विपाकसर्वस्वम् इवाशुभस्य कर्मणः समाहारम् इव संसारदुःखानां राहुमुखान्यम् इव जगच्चक्षुषां रहस्यभूमिम् इवानादेयताया विग्रहवन्तम् इव परिभवम् उपनिघातम् इव नगरस्य प्रत्यादेशम् इवापकारिणां निलयम् इवाधन्यतायाः पदम् इव दौर्भाग्यस्य गृहद्वारैकदेशे निषण्णं दण्डेन काकान् निवारयन्तम् । दृष्ट्वा च पुनः पूर्ववैरानुशयोद्बोधितकोप इव सरभसो दौवारिकम् अब्रवीत् । अरे कापुरुष निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् । तथा चैनं निर्भर्त्सय यथा न पुनर् इहागच्छेद् इति ।
स तथेति प्रतिश्रुत्य तं चण्डालकुमारकम् । दण्डेन प्रेरयाम् आस परुषां गिरम् उद्गिरन् ॥ gomn_28 ॥
यदि त्वां पुनर् आयातम् इह पश्यामि कश्मल । अस्मात् कष्टतरं ते ऽहं करिष्यामीति निग्रहम् ॥ gomn_29 ॥
क्रौर्याभ्यासावलिप्तस्य मनसो वृत्तिवैकृतम् । न हि संकोचम् आयाति खलानां कृपणेष्व् अपि ॥ gomn_30 ॥
पपात भूमौ कृपणः स बालो दण्डाभिघातक्षतपृष्ठवंशः । प्रकाशयन् कर्मफलं स्वम् एव कर्मातिरौद्रं नरकस्य तस्य ॥ gomn_31 ॥
अथ स तपस्वी भग्नशिरःकपालभागो विकुञ्चितजानुमण्डलः पाषाणशकलकपालशर्करापरिक्षतक्षामजङ्घाबाहुदण्डकः समन्ततो विगलितरुधिरधारावसिच्यमानविग्रहो महीरजःकपालावरुद्धवदनविवरो विक्षिप्तदण्डकः संचूर्णितमल्लको धरणितलविकीर्णभिक्षाशेषस् तीव्रवेदनाभ्याहतशरीरो मत्स्य इव प्रतप्तसिकतामध्यगतः संपरिवर्तते स्म । अथास्य माता चिन्तयाम् आस । किं नु मे पुत्रकः प्रपाते पतितः स्याच् छुना वा भक्षित उत गवा जीविताद् व्यपरोपितः परिभूय वा बालदारकैर् विहेठितो मार्गप्रनष्टो वान्येन पथा गतः । किं वा नागच्छतीति सा पुत्रस्नेहाकृष्टहृदया पुत्र पुत्रेति क्रन्दती तं देशम् उपजगाम । स च बालदारको जनन्याः स्वरं प्रत्यभिज्ञाय भृशतरं विचुक्रोश ।
समानसुखदुःखानां सुहृदाम् अपि संगमे । नवीभवन्ति दुःखानि व्यतीतान्य् अपि देहिनाम् ॥ gomn_32 ॥
मातेत्य् अपूर्वम् एवैतद् विश्रम्भायतनं भुवि । पुत्र इत्य् एव निष्यन्दः स्नेहस्यास्य दुरत्ययः ॥ gomn_33 ॥
अम्बेति दीनां गिरम् ईरयन्तं सा तं परिष्वज्य तनुप्रलापम् । रुरोद तीव्रायतदीनकण्ठा निनादयन्ती पुरचत्वराणि ॥ gomn_34 ॥
कस्य पुत्र दया नासीत् त्वयि दुःखैकभाजने । गर्वितः को न्व् असौ लक्ष्म्या गजकर्णाग्रलोलया ॥ gomn_35 ॥
प्रकाशितम् इदं केन कृपणे त्वयि पौरुषम् । त्वयि प्रहरतः कस्य भूमौ न पतितः करः ॥ gomn_36 ॥
हतस् त्वं केन मे वत्स निरनुक्रोशचेतसा । निहतः पूर्वकेणैव कटुपाकेन कर्मणा ॥ gomn_37 ॥
इदम् अनार्यताचिह्नं केन त्वयि विदर्शितम् । को न्व् असौ मानुषाकारो रक्षसाम् अनुशिक्ष्यते ॥ gomn_38 ॥
आयसं हृदयम् कस्य कस्य वज्रमयः करः । कस्य वाक् सविषा कस्य त्वयि नासीद् दयालुता ॥ gomn_39 ॥
निहीनकुलजे बाले सुहृद्बन्धुविवर्जिते । जात्यन्धे परपिण्डाशे त्वयि किं रोषकारणम् ॥ gomn_40 ॥
स बालभावात् कृपणो वराकः स्वभ्यस्तमात्सर्यतया तया च । शुशोच भैक्षं क्षितिविप्रकीर्णं न तु क्षरच्छोणितम् आत्मदेहम् ॥ gomn_41 ॥
अथ वृद्धचण्डाली तं दारकं क्षतविक्षतशरीरं शनैः शनैः पाणिना परामृशन्ती प्रोवाच । केन ते पुत्रकेयम् अवस्था कृता निर्दयेन पापकर्मणा पुरुषाधमेनेति । स प्राह । अम्ब आर्यचन्दनेन पुरुषो ऽभिहितो निर्वासयैनम् अमङ्गलम् अलक्ष्मीकम् अप्रेक्षणीयं चण्डालाधमम् । तेनाहम् एवं पीडित इति । अथ सा वृद्धचण्डाली दीर्घम् उष्णं विनिश्वस्य पञ्चाङ्गुलम् अभिनिपीडयन्ती कोपपरुषाक्षरम् इत्य् अवोचत् ।
अल्पायुषि कुतस् तस्मिन्न् आर्यता पुरुषाधमे । व्यसनोपहते बाले त्वयीदं यस्य वैकृतम् ॥ gomn_42 ॥
एवं तस्याः शोकवशम् उपगतायाः कृपणायाः समीपे महाजनकायः संनिपतितः । अत्रान्तरे
आकृष्यमाणहृदयः कृपया महत्या वैनेयकृत्यम् अवलम्ब्य विनायकाग्र्यः । प्राविक्षद् अक्षतमना भगवान् पुरीं तां बुद्धो विबुद्धनवपङ्कजसंक्रमेण ॥ gomn_43 ॥
चामीकराद्रिम् इव जङ्गमम् आपतन्तं तं तायिनं स्वकिरणैः परिविष्टमूर्तिम् । पौराः प्रसादशिथिलावनतैः शिरोभिर् दूरात् प्रणेमुर् उपशान्तभवप्रपञ्चम् ॥ gomn_44 ॥
सितभवनगतास् तं संभ्रमोद्भ्रान्तचेष्टास् तडित इव सुमेरोः शृङ्गपर्यन्तलग्नाः । उपशमम् इव साक्षाद् आपतन्तं तरुण्यो मणिगुणकुसुमौघैर् अर्चयाम् आसुर् आर्यम् ॥ gomn_45 ॥
अपेतपाषाणकपालशर्करः समः स निम्नोन्नतवर्जितो ऽभवत् । भुवः प्रदेशो हरितार्द्रलेपनः प्रमुक्तपुष्पप्रकरोत्तरच्छदः ॥ gomn_46 ॥
निबद्धजीमूतवितानम् अम्बरं समुद्गतेन्द्रायुधतोरणं बभौ । ववुः शनैः स्पर्शसुखाः समीरणाः सिरिन्ध्रिकापुष्परजोविकर्षिणः ॥ gomn_47 ॥
तमालनीलोत्पलपत्त्रवृष्टयो निपेतुर् अन्तर्गतमत्तषट्पदाः । विपाटितस्येव विमानकोटिभिर् नभस्तलस्यावयवास् ततस् ततः ॥ gomn_48 ॥
पुण्यप्रभावजनिते भगवान् निषद्य पद्मे सहस्रदलके रथचक्रमात्रे । अम्लानपुण्यपरिपाकविमुक्तगन्धे तं चन्दनं परमकारुणिकः शशास ॥ gomn_49 ॥
येनार्जितं धनम् इदं परिपालितं च स्वेदोपदिग्धवपुषा कुटुकुञ्चकेन । नन्दः पिता तव स एव फलानि भुङ्क्ते तिक्तानि मत्सरविषद्रुमसंभवानि ॥ gomn_50 ॥
स्थानाद् इतः पुनर् अयं कलुषान्तरात्मा यास्यत्य् अपायम् अनुपायभयप्रतिष्ठम् । अर्चिष्मता हुतभुजा विनिकीर्णदेहा यस्मिन् वसन्ति विवशा बहवः कदर्याः ॥ gomn_51 ॥
एतां सुहृज्जनविषादकरीम् अवस्थाम् आलोक्य मोहतमसः प्रतिबिम्बभूताम् । स्वाङ्गान् निकृत्य पिशितान्य् अपि को न दद्यात् संसारवर्त्मनि नरः परिवर्तमानः ॥ gomn_52 ॥
क्लेशान्धकारवदना विकरालदंष्ट्रा दावाग्निदग्धशिखरा इव शैलपादाः । आयासिनो यद् अनवाप्तजला भ्रमन्ति प्रेताः फलं तद् अपि लोभविषद्रुमाणाम् ॥ gomn_53 ॥
तृष्णाविदारितमुखाः समुपेत्य बाला दूर्वाप्रवालहरितोपनितम्बलेखाम् । संशुष्कपङ्कपटलप्रकरान्तरालां पश्यन्ति के चिद् अनलज्वलितां स्रवन्तीम् ॥ gomn_54 ॥
देहान् दहन्ति दहना इव चन्द्रपादाः शीता रवेर् अपि करा हि समुद्गिरन्ति । अङ्गारचूर्णपरुषाश् च भवन्त्य् अमीषां मेघाम्बुशीकरमुचो ऽपि कदम्बवाताः ॥ gomn_55 ॥
आशीविषैर् इव निरीक्षितमात्रशोभाः प्रेतैर् द्रुमा विमलनीलचलत्पलाशाः । सद्यो भवन्ति परिशुष्कविशीर्णपर्णाः प्रत्यादिशन्त इव मत्सरिणो मनुष्यान् ॥ gomn_56 ॥
प्रेतोपपत्तिनियता व्यसनाभिघाता व्यक्तीभवन्ति मनुजेष्व् अपि नैकरूपाः । क्षुत्तर्षशीतपरितापभयप्रकारास् त्यागद्विषां विपद् अतः परतो ऽनुमेया ॥ gomn_57 ॥
पञ्चोपतापविरसाक्षरम् अप्रगल्भं देहीति यद् वदति दुर्बलमन्दमन्दम् । वित्तावलिप्तमनसः कुलजो ऽपि साधुः सा नीचता विभवलोभपराजितानाम् ॥ gomn_58 ॥
आशाविघातभयसंकुचितश् च दीनो देहीत्य् अपि प्रसहते कृपणो न वक्तुम् । यन् निर्धनो धनवतः पुरुषान् अकाले मौनव्रतं तद् अपि लोभकृतं नराणाम् ॥ gomn_59 ॥
न जनस्य मलो ऽस्ति लोभतुल्यो न च मात्सर्यसमः परोपघातः । न च याचकतुल्यम् अस्ति मित्रं जगतां त्यागसमो न बन्धुर् अन्यः ॥ gomn_60 ॥
परिपाकविमुक्तगन्धकोशं भ्रमराः पद्मम् इव प्रकामगन्धम् । अपनीतपरिग्रहावलेपं बहवः सत्पुरुषं भजन्ति सन्तः ॥ gomn_61 ॥
स्वमदार्द्रविशेषका गजेन्द्रा नवकार्तस्वरबद्धपाशकक्षाः । अनुयान्ति जनं प्रदानशीलं जविनश् चामरिणश् च वाजिमुख्याः ॥ gomn_62 ॥
विनयाभरणाः क्रियाभिरम्याः प्रमदाश् चित्रकलाविदग्धभावाः । उपयान्ति नरस्य दासभावं कुशलैर् एव वशीकृताः पुराणैः ॥ gomn_63 ॥
भवनानि विभूतिमन्ति मेरोः शिखराणीव मनोज्ञदर्शनानि । स्वकृतानवगीतकर्ममायारचितान्य् एव मुदा विशन्ति सन्तः ॥ gomn_64 ॥
विनिमीलितजातिवाददोषेष्व् अनपाकृष्टचरित्रभूषणेषु । उपपत्तिर् अदुर्लभा कुलेषु व्यपनीताविलमत्सराश्रयाणाम् ॥ gomn_65 ॥
कुसुमस्तबकाभिरामशोभं नरनारीनयनद्विरेफहारि । कुशलस्य फलं वपुर् नराणां मतिवीर्याचपलप्रयामधीरम् ॥ gomn_66 ॥
विकसत्कुमुदाकरातिरेकप्रभया यद् गगनं स्फुरन्ति कीर्त्या । गतलोभमलस्य ता नराणां द्युतयस् त्यागनिशाकरस्य रम्याः ॥ gomn_67 ॥
विशदागलितैः शिरोमणीनां किरणैर् यच् छलयन्ति पादपीठम् । नृपतेर् अनुजीविनो विनीता मधुरं त्यागवनस्पतेः फलं तत् ॥ gomn_68 ॥
कृपणासु बवोपभोगमात्रास्व् अथ वा कैव कथा विनाशिनीषु । निरवद्यसुखानुबन्धि रम्यं फलम् आप्नोति सनातनं प्रदानात् ॥ gomn_69 ॥
अवधूय बलं शमद्विषां यज् जलदानाम् इव मण्डलं नभस्वान् । पदम् अव्ययम् आप्नुवन्ति बुद्धा भगवन्तस् तद् अपि प्रदानबिजम् ॥ gomn_70 ॥
अभिभूय परप्रवादिपूगान् परमार्थं गमयन्ति शासनं स्वम् । मुनयो भुवनैकशासितारस् तद् इदं त्यागपरंपरावसानम् ॥ gomn_71 ॥
अथ भगवान् पात्रीकृताध्याशयं तं जनम् अवेत्य रत्नत्रयाविचलितप्रसादं संसारवासविमुखं भवदुःखोपशमप्रतिसंयुक्ताम् एव कथां आविश् चकार ।
दुःखान्य् अमूनि सति जन्मनि संभवन्ति क्षीणे च जन्मनि न दुःखम् उपैति भूयः । जन्मक्षयाय मतिमान् प्रयतेत तस्माद् यः प्राप्तुम् इच्छति न दुःखशताभिघातम् ॥ gomn_72 ॥
दुःखं सकारणम् इदं समुपैत्य् अनादिसंतानवर्तिभयशोकविषादयोनि । तृष्णां प्रतीत्य विपरीतसुखाभिमानव्यामोहनीं त्रिभवनाटकयोगधूर्तां ॥ gomn_73 ॥
एषो ऽहम् इत्य् उचित एव मनोविदाही सत्कायदर्शनमयः पुरुषस्य कीलः । जन्माध्वनि भ्रमयतीदम् अनादिमध्यं संसारचक्रम् अपरिग्रहम् अप्रशान्तम् ॥ gomn_74 ॥
स्थित्वा शीले विगतरजसि प्राप्य चेतः समाधिं प्रज्ञालोकैर् मनसि शयितं ध्वान्तम् उल्लिख्य कृत्स्नम् । जन्माम्भोधेर् व्यसनमहतः क्षेमम् आसाद्य पारं संशान्तात्मा न दिवि भुवि वा भिक्षुर् आयाति संख्यम् ॥ gomn_75 ॥
यैर् निर्दग्धा मतिहुतभुजा स्कन्धसंबन्धलक्ष्यी तृष्णा नैकव्यसनविशिखापातसंधानमौर्वी । ते ऽस्मिन् धन्या जगति सुखिनस् ते त एवानवद्यास् तेषां भद्रं स्थितम् अभिमुखं ते भयेभ्यो विमुक्ताः ॥ gomn_76 ॥
रिक्ताकारद्रवरतिरसास्वादपर्यस्तबुद्धेर् लेशनापि व्यनुसृतवतो जालिनीं चित्रमायाम् । आयासिन्यः शिरसि विपदः संचरन्ति प्रगल्भा जन्माभ्यस्तं सुचरितफलं व्यर्थम् एव प्रयाति ॥ gomn_77 ॥
आयासिनीं भवविभूतिम् अवाप्तुकामैः शान्तिं परां च परतः कुशलं प्रचेयम् । आशीविषो नरपतेर् निधनाय मुक्तो हारो बभूव कुशलैः स्फुटचन्द्रगौरः ॥ gomn_78 ॥
किं च भूयः
दुःखद्विषा हृदि न लोभकलिर् निषेव्यो जन्मान्तरोपचितलोभविषाशयस्य । शान्तात्मनो ऽपि किल निर्विवरं बभूव भक्ताभिहारसमये मुखम् एव भिक्षोः ॥ gomn_79 ॥
तस्मात् प्रदानसलिलैः स्नपयन्तु सन्तो मात्सर्यपङ्कमलिनानि मनोगृहाणि । लोभानलेन्धनम् इदं निधनं धनं वो यावन् न याति विपदग्निशिखावलीढम् ॥ gomn_80 ॥
श्रुत्वा वचांसि स जनो जगदेकबन्धोर् नन्दस्य तां च विपदं विपुलाम् उदीक्ष्य । विक्षिप्य मत्सरमयीं मनसस् तमिस्रां दानादिकं सुचरितं प्रथयां बभूव ॥ gomn_81 ॥
इति मत्सरनन्दावदानम् ॥
8. मेघ
पुण्यैर् वितृप्तिम् उपयान्ति न बोधिसत्त्वाः कामैः प्रमादिन इव प्रतिपत्तिवामैः । राज्याश्रयाण्य् अपि सुखान्य् अवधीर्य धीराः पुण्याय पुण्यनिधयः श्रमम् आश्रयन्ते ॥ gome_1 ॥
तद्यथानुश्रूयते
बोधिसत्त्वः किल भगवान् प्रकृतिदक्षिणो दक्षिणापथे राजा बभूव ॥
संतर्पयाम् आस यतः स लोकं दानाम्बुभिः सस्यम् इवाम्बुगर्भः । ततो महामेघ इति क्षितीशो यथार्थनामातिशयो बभूव ॥ gome_2 ॥
न तस्य राज्यद्युतिविस्तरेषु व्यासक्तदीनं हृदयं बभूव । अनर्थभूतान् स परार्थम् अर्थान् द्रुमः फलानीव बभार साधुः ॥ gome_3 ॥
बभूव तस्मिन् पितरीव लोको विश्रम्भसंभोगसुखप्रगल्भः । सुतेष्व् इव प्रेमनिबद्धभावो बभूव सो ऽपि क्षितिपः प्रजासु ॥ gome_4 ॥
सगौरवो ऽसौ गुरुषु प्रकृत्या दीनेषु कारुण्यमृदुस्वभावः । कृतापराधेष्व् अपि मैत्रचित्तः समन्तभद्रस् तु सुहृज्जनेषु ॥ gome_5 ॥
बभूव तस्य ग्रहराजकीर्तेस् तथाग्रहो न स्वपरिग्रहेषु । यथा तदीयासु ममत्वम् आसीज् जनस्य संपत्स्व् अतिशायिनीषु ॥ gome_6 ॥
जग्राह दानेन स कांश् चिद् एव प्रियाभिधानैर् अपरान् विचित्रैः । तथार्थचर्याभिर् अनर्थभीरुः कांश् चित् समानार्थतयार्थभूतः ॥ gome_7 ॥
नैवासौ स्वं परहितप्रतिपत्प्रकारो यन् नात्मसाच् च नरलोकपतिश् चकार । को ऽपि त्व् असौ कथम् अपि द्युतिमान् कुतो ऽपि लोकेष्व् असंस्तुतसुहृद् भगवान् बभूव ॥ gome_8 ॥
स कदा चिन् महीपतिर् अमात्यगणपुरस्कृत उदङ्मुखो ददर्शातसीकुसुमराशिसंकाशम् आकाशम् अवगाह्य पततो भगवतः प्रत्येकबुद्धान् परमविस्मितमना ह्य् अमात्यान् अब्रवीत् ॥ पश्यन्तु भवन्तः ॥
एते कषायपरुषाम्बरसंवृताङ्गा व्योमातसीकुसुमराशिनिभं विगाह्य । आयान्ति के ऽप्य् उपशमस्तिमितप्रचारा भूर्जद्रुमा इव मरुद्भिर् उदस्तमूलाः ॥ gome_9 ॥
अन्यतमो ऽप्य् अमात्यः ससंभ्रमो ऽब्रवीत् ॥ सम्यग् अभिहितं देवेन कुतः ॥
आयान्त्य् अमी काञ्चनराशिगौरा विधूतकाषायपटान्तभङ्गाः । परस्परास्लिष्टविकीर्णपक्षाः खं चक्रवाका इव शोभयन्तः ॥ gome_10 ॥
अपरो ऽप्य् आह ॥
स्वच्छेन्द्रनीलोपलरागम् एते नभः समुत्पत्य समापतन्ति । समीर्यमाणाः पवनेन संध्याकलङ्कितान्ताः शरदीव मेघाः ॥ gome_11 ॥
अनुपतति न चैतान् अभ्रमाली नभस्वान् उपशमरमणीये चापतन्ति प्रकृत्या । चरणतलनिपातो लक्ष्यते व्योम्न्य् अमीषां न च गगनम् असङ्गं पादसंचारयोग्यं ॥ gome_12 ॥
यथा यथा ते निकटी भवन्ति व्रतीश्वराः शान्तिम् इवाकिरन्तः । तथा तथा विस्मयहर्षपूर्णा राजन्वती सा समितिश् चकम्पे ॥ gome_13 ॥
अतृप्ता एव ते तेषां दर्शनेन महात्मनां । बभूवुर् अथ चातीयुस् तेषां नयनगोचरं ॥ gome_14 ॥
अथ स पार्थिवस् तेषां महर्षीणां दर्शनेनावर्जितमनास् तान् अमात्यान् अब्रवीत् ॥
इदम् आश्चार्यम् आलोक्य कौतूहलसमाकुलं । मनो मम तद् इच्छामि श्रोतुम् एषां प्रविस्तरं ॥ gome_15 ॥
अथ तेषां नृपतिसचिवानाम् अभिज्ञाततरो ऽमात्यस् तं राजानम् अब्रवीत् ॥ श्रूयतां महाराज ॥
नोत्पद्यन्ते यदा बुद्धा भगवन्तः कृपात्मकाः । अपास्य रजसां वृत्तिं दीर्घकालानुशायिनीम् ॥ gome_16 ॥
आवृते तमसा लोके समन्ताद् अपरायणे । भवत्य् एषां तदा जन्म जन्मपर्यन्तगामिनां ॥ gome_17 ॥
प्रतीत्योत्पादगाम्भीर्यदूरानुगतबुद्धयः । प्राप्तशय्यासनरता हीनदीनानुकम्पकाः ॥ gome_18 ॥
संसर्गभीरवो नित्यं तूष्णींभावपरायणाः । विचरन्ति जगत्य् एते जङ्गमाः पुण्यराशयः ॥ gome_19 ॥
आत्मानम् एकं प्रत्य् एते बुद्धा यस्माद् अतः किल । प्रत्येकबुद्धा इत्य् एवं प्रतिमानम् उपागताः ॥ gome_20 ॥
अथ स राजा सुतरां तद्गुणाकृष्टहृदयः स तम् अमात्यम् अब्रवीत् ॥ अथ कुत्रामी भगवन्तः प्रतिवसन्तीति ॥ स प्राह ॥
मेघस्य राज्ञो विजिते जितात्मन् वसन्त्य् अमी दग्धभवाधिवासाः । हिमाद्रिकुञ्जेषु नमन्नमेरुप्रतानसंसक्तमहीरुहेषु ॥ gome_21 ॥
राजोवाच ॥ अस्ति कश् चिद् उपायो येनामी मद्विषयान्तम् आवसेयुर् इत्य् अमात्यो ऽब्रवीत् ॥ अस्ति महाराज यदि मेघराजा प्रार्थ्यते तदन्वभ्यर्थिताः किलामी त्वद्विषयम् अलं कुर्वन्त्यः प्राप्नुवन्ति चेति ॥ अथ बोधिसत्त्वः पुण्येष्व् आदरोपदर्शनार्थम् अमात्यान् आह ॥ तेन हि भवन्तः सज्जीकुरुत ॥ तदनुरूपमानपात्रं स्वयम् एवाहं गत्वा मेघं राजानम् अस्मिन्न् अर्थे विज्ञापयिष्यामीत्य् अध्वसंभ्रान्तास् ते पुरुषा बोधिसत्त्वम् आहुः ॥ नार्हति देवो दूतमात्रसाध्ये प्रयोजने खेदम् आपत्तुम् ॥ अपि च महाराज ॥
आज्ञासुखरसं राज्यम् अनेकापायसंकटं । परराष्ट्रम् अतो गन्तुं सहसा तव न क्षमं ॥ gome_22 ॥
बोधिसत्त्वो ऽब्रवीत् ॥
स्वहिते ऽप्य् अभियुक्तानां करुणाविकलात्मनां । खेदः कः पुण्यकामानां भवाध्वपरिवर्तिनां ॥ gome_23 ॥
आत्मत्वेनैव यैर् एव तद् उपात्तं भवत्रयं । जगदत्यन्तबन्धूनां तेषां खेदः कथं भवेत् ॥ gome_24 ॥
न च कार्याभिनिष्पत्तिर् दूतसाध्या गरीयसी । नास्माद् गुरुतरं चास्ति करणीयं मम परं ॥ gome_25 ॥
न चाज्ञारभसारम्भे न राज्यभारं वहाम्य् अहं । जगतां वयम् एवेह कृपया किंकराः कृताः ॥ gome_26 ॥
अनेकापायसंराद्धं राज्यं येनैव भूभृतां । तेनैवास्य क्षमस् त्यागः कुपितस्येव भोगिनः ॥ gome_27 ॥
धर्माद् एव च संप्राप्य राज्यश्रीसुखसंपदः । औदासीन्यं कथं नाम कुर्यात् तत्रैव पण्डितः ॥ gome_28 ॥
अपि च भदन्तः ॥
विना श्रमैस् तुच्छम् असारम् अध्रुवं सुखं न कामाश्रयम् अप्य् अवाप्यते । अशेषलोकत्रयसंपदास्पदं पदं किम् अङ्गाप्रतिमस्वयंभुवां ॥ gome_29 ॥
निवेश्य कामेषु चलेषु मानसं मुधैव खिन्ना वयम् अन्यजन्मसु । जगद्धिताय त्व् अधुनाभिवाञ्छिता भवन्तु नस् त्व् अन्तकराः परिश्रमाः ॥ gome_30 ॥
कथं नु तस्मिन् न यतेत बुद्धिमान् निबध्य यस्मिन्न् अभिलाषमात्रकं । असंस्तुतानाम् अपि चैकबन्धुतां जनो जनानाम् उपयाति तत्क्षणात् ॥ gome_31 ॥
तदत्ययाशङ्किभिश् चामात्यैः स महात्मा पुनः पुनः प्रतिबोध्यमानो ऽपि नैव तेषां वचनं प्रमाणयाम् आस ॥
त्यक्तस्पृहत्वात् क्षितिपस्य तस्य सर्वत्र कारुण्यमयी प्रवृत्तिः । गुणानुरागात् स तथापि तेषां पूजां मुनीनां प्रति सादरो ऽभूत् ॥ gome_32 ॥
गुणोद्गता एव गुणोदितेषु भवन्ति पूजाप्रतिपत्तिनम्राः । य एव रत्नातिशयान्तरज्ञास् त एव तेष्व् अत्यधिकं यतन्ते ॥ gome_33 ॥
फलाभिलाषोपहतान्तरात्मा परीक्षते पात्रविशेषम् एव । कृपालुकस् त्व् अर्थितयैव तुष्टः प्रवर्तते याचनकेषु सारं ॥ gome_34 ॥
वनस्पतीनाम् इव जन्म येषां परोपकारैकरसस्वभावं । लभेत तेषां हृदये ऽवकाशं खला फलाशा विदुषां कथं च ॥ gome_35 ॥
अथ स महासत्त्वो गुणानुवृत्तिस्थिरानुरागेण महता बलेन परिवृतः स्वपुरवराद् विनिर्ययौ ॥ निर्गच्छन्तं चैनं दूर्वाप्रवालकुसुमफलव्यग्रात्युच्छ्रितैकपाणयो द्विजवरा जय जय महाराजेत्य् उच्चैर् आनन्दयाम् आसुः ॥ अथ स महात्मा लौकिकमङ्गलापरिनिष्पत्तिम् अभिप्रकाशयन् बुद्धानाम् एव च भगवतां गुणानुवादं मङ्गलं चोद्भावयन् व्यापिना स्वरेण तान् अमङ्गले मङ्गलाभिनिवेशिनो विप्रान् अब्रवीत् ॥
सर्वानर्थोपसंहारप्रगल्भैः क्लेशशत्रुभिः । पराजितानां को नाम विजयः क्लीबचेतसां ॥ gome_36 ॥
दुर्भेदं यो बिभेद प्रविचयकिरणैर् ध्वान्तम् अन्तर्निविष्टं तृष्णावल्लीं समूलां भवतरुशिखरारोहिनीं यो ददाह । आगृह्य क्रोधसर्पं हृदयबिलतलात् को ऽपि चिक्षेप यो ऽसौ लोकालोकस्वभावः स जयति भगवान् भग्नसंसारचक्रः ॥ gome_37 ॥
अश्रान्तं सुविदूरगोचरचरं दुर्निग्रहं दुर्ग्रहं दुष्पूरं विषयाभिलाषकृपणं मायास्वभावं चलं । एकान्तव्यवदानमार्गविमुखं संक्लेशपक्षोन्मुखं यश् चित्तं दमयां बभूव स जयत्व् अव्यग्रचेता मुनिः ॥ gome_38 ॥
अन्तर्द्योतिर् अपास्य यस्य तमसाम् आयामिनीं वासनाम् अक्लिष्टाम् अपि निर्दधाव निवृतिं कालत्रयव्यापिनीं । सर्वाकारपरोपकारविषयं यस्यापरप्रत्ययं प्रज्ञानं भगवान् असौ विजयते बुद्धो जगच्छङ्करः ॥ gome_39 ॥
स क्रमेण व्यतीत्य तालहिंतालतमालनक्तमालनिचुलबकुलकाननोपशोभितं स्वविषयम् खदिरबदरबिल्वेङ्गुदशमीपलाशगहनदुर्गाम् अटवीं प्रपेदे ॥ तस्य खलु महासत्त्वस्य पुण्यतर्षेण द्रुततरं व्रजतः ॥
रजोभिः सैन्यानां शलभकुलसंपातकपिलैर् निरुद्धं खं रेजे पुलिनम् इव पर्यस्तम् उदधेः । क्व चित् पाणिक्षेपैर् मदसुरभिशीकारशिशिरैर् जलैर् नागेन्द्राणां नवतमवनीहारपटलैः ॥ gome_40 ॥
सो ऽतिक्रम्य ताम् अटवीम् अनुक्रमेण मेघस्य राज्ञो विषयम् अनुप्राप्तः । तदागमनसंभ्रान्तश् च मेघो महीपतिर् विदिततद्गुणप्रभावः प्रत्युद्गम्यैनं सबहुमानप्रहर्षविस्मयविकचलोचनो महता सत्कारेण मानयित्वा महार्हासनोपविष्टं तत् तत् प्रियम् अवोचत् ॥
सुस्वागतं क्षितीन्द्राय धन्यम् आगमनं तव । सुभाषितम् इदं लोके जीवन् भद्राणि पश्यसि ॥ gome_41 ॥
को नु संभावयेत् पुण्यां प्रमोदामृतपेशलां । आवयोः संगतिम् इमां हिमवद्विन्ध्ययोर् इव ॥ gome_42 ॥
दृश्यसे चरितैर् एव कामं लोकान्तचारिभिः । साक्षाद् वो दर्शनं यत् तु तन् मङ्गल्यफलोदयं ॥ gome_43 ॥
प्रत्यक्षम् अपि कल्याणं मनोरथविदूरगं । न श्रद्धत्ते जनः प्रायः प्रीतिप्रेङ्खोलिताशयः ॥ gome_44 ॥
स्वप्नो ऽयम् उत मायेति निश्चयं न लभामहे । भवन्तम् अपि पश्यन्तो लोचनानन्दबान्धवं ॥ gome_45 ॥
कच् चिद् अक्लान्तकायस् त्वं राजन् कच् चिद् अनामयः । कच् चिद् विश्रम्भनिःसङ्गः प्रणयाभिमुखो मयि ॥ gome_46 ॥
कच् चिन् नोत्कण्ठयन्ति त्वां दक्सिणापथचन्द्रिकाः । प्रध्यानस्तिमिताताम्रपर्यन्तनयनाः प्रियाः ॥ gome_47 ॥
अनपायी भवेत् कच् चिद् अयत्नः सत्समागमः । कच् चिद् अत्राभिरमसे स्वदेश इव भूपते ॥ gome_48 ॥
अथ बोधिसत्त्वस् तं राजानम् अम्लानप्रणयशीभरैर् वचोभिः समुत्तेजयन्न् अब्रवीत् ॥
दृष्ट्वैव दर्शनीयं त्वां विश्रान्तो ऽहं महीपते । अनार्यस्यापि विश्रम्भः कस्य न स्याद् भवादृशे ॥ gome_49 ॥
त्वय्य् असंस्तुतसद्बन्धौ बान्धवे पुरतः स्थिते । किं चान्यद् वल्लभतरं ममोत्कण्ठानिबन्धनं ॥ gome_50 ॥
विदिताश् च महाराज मम प्रियसमागमाः । वितथाल्पसुखास्वादव्यसनायासहेतवः ॥ gome_51 ॥
ये ऽर्थाः स्वप्ने ऽनुभूयन्ते ये च निद्रापरिक्षये । तेसां निर्भुक्तिमुक्तानां विशेषो नोपलभ्यते ॥ gome_52 ॥
स्वप्नमायोपमानेषु मुहूर्तपरिणामिषु । प्रसङ्गं मतिमान् कुर्यान् न प्रियप्रणयेष्व् अतः ॥ gome_53 ॥
प्रियो ममेत्य् एवम् अनादिकालप्रवृत्तम् उद्वृत्तम् अनल्पगर्भं । सुखाभिधानं प्रवदन्ति दुःखं व्यतीतदुःखा मुनयः पुराणाः ॥ gome_54 ॥
कृपा कृपावस्तुषु संप्रतार्यते स्त्रियः कृपावस्तु विशेषतः सतां । अतो मतिर् मे करुणानुपातिनी प्रियासु राजन् न तु विभ्रमातुरा ॥ gome_55 ॥
स्वभावदीनाः परतन्त्रवृत्तयः सदातुरा मत्सरमानमन्मथैः । पथि प्रकीर्णा इव मांसपेशिकाः कथं नु न स्युः प्रमदाः कृपास्पदं ॥ gome_56 ॥
अथ स राजा प्रसादितमानसस् तैर् बोधिसत्त्ववचनकुसुमैः प्रणम्यैनम् अब्रवीत् ॥
आज्ञापय महाराज यत्र मां मन्यसे क्षमं । भवद्विधानां कृत्येषु वयम् आनम्रमूर्तयः ॥ gome_57 ॥
प्रसन्नमानसं स चैनम् अवेत्य बोधिसत्त्वः संप्रहर्षयन्न् अब्रवीत् ॥
तवैव सफलं जन्म सुजीवं त्वं च जीवसि । ऐश्वर्यं तव पात्रस्थं यथार्था श्रीस् तवैव च ॥ gome_58 ॥
यस् त्वम् एषां भगवतां भवसंभोगविद्विषां । सत्कारव्यपदेशेन तनोषि यशसा जगत् ॥ gome_59 ॥
सुहृदः संविभज्यन्ते दारैर् अपि धनैर् अपि । संविभागस् तु धर्मेण दुर्लभो भुवि नास्ति वा ॥ gome_60 ॥
धर्मातिथ्यम् अतो राजन् मम त्वं कर्तुम् अर्हसि । न हि संभावना सत्सु दृष्टा वन्ध्यफलोदया ॥ gome_61 ॥
स्वर्गो मोक्षः सुखान्य् अर्था धर्माद् एव यशांसि च । दधद् धर्मम् अतो युङ्क्ते स्वर्गमोक्षसुखादिभिः ॥ gome_62 ॥
सद्धर्मप्रगुणं मित्रं करणीयं बलाद् अपि । एषैव सुहृदां लोके साधोः साधीयसी स्थितिः ॥ gome_63 ॥
अतिथिर् मित्रम् अर्थीव सत्कारायतनं परं मयि चैतत् त्रयं यस्माद् अतो मे ऽभ्यर्थनां कुरु ॥ gome_64 ॥
स्रवन्न् इव प्रसादस् ते लक्ष्यते मुखपङ्कजात् । पुण्यसंभोगवात्सल्यम् उद्गिरंल् लक्ष्यसे गिरा ॥ gome_65 ॥
अनुज्ञाता त्वया राजन्न् इमे प्रक्सीणकल्मषाः । वसन्तु दक्षिणीयाग्र्या दक्षिणापथभूमिषु ॥ gome_66 ॥
अथासौ महीपतिर् बोधिसत्त्वम् अब्रवीत् ॥
शक्ये तत् कुशलं दातुं स्वसंतानगतं यदि । दद्यां तद् अपि सुव्यक्तं भवते कृतवेदिने ॥ gome_67 ॥
वयं राज्यं च दातारो यद् वान्यत् साधु मन्यसे । तथैव प्रभुतां तत्र नावगन्तव्यम् अन्यथा ॥ gome_68 ॥
मया यत् पुण्यम् आर्याणाम् एषाम् अपचितेश् चितं । त्वदभ्यागमनाकालकौमुदी तत् कृतैव मे ॥ gome_69 ॥
मित्रम् एकान्तकल्याणं बन्धुर् अत्यन्तवत्सलः । गुणवान् दक्षिणीयस् त्वं नाथश् चानुत्तरो मम ॥ gome_70 ॥
क्षुद्रसत्त्वो ऽपि को नाम त्वदाज्ञाम् अभिलङ्घयेत् । द्रष्टव्यरत्नं दृष्ट्वा च न प्रसीदेद् भवादृशं ॥ gome_71 ॥
एकं त्व् अत्र महाराज वैधुरम् अवगच्छामि । येन मे वक्तुम् अस्त्य् एतान् महर्षीन् अस्मिन् प्रयोजने संकुचति मानसम् ॥ एते हि महात्मानो विवेकरतिप्रियत्वाद् अभिरमन्ते हिमवति शैलराजे ॥ पश्य महाराज ॥
अमी हि हिमवत्प्रस्थाः कदलीखण्शमण्डिताः । विवेकायैव साधूनां शङ्खधात्रा विनिर्मिताः ॥ gome_72 ॥
हरिणा लुञ्चितोपान्तशाद्वलश्यामनिर्झरान् । देवदारुद्रुमान् पश्य कूटागारान् इवोद्गतान् ॥ gome_73 ॥
ख्यापयन्तीव लोकानां विनिपातं हिमापगाः । तरङ्गैः कूलपाषाणभिद्यमानैर् मुहुर् मुहुः ॥ gome_74 ॥
एताः स्निग्धच्छदच्छायाः पद्मकद्रुमराजयः । यतीन् आश्वासयन्तीव संसारोद्विग्नमानसान् ॥ gome_75 ॥
क्लान्तानां व्रतिनाम् एष स्वेदबिन्दून् अपोहते । प्रालेयकणसंपर्कशिशिरो वनमारुतः ॥ gome_76 ॥
उपत्यकाः पद्मकपुष्पपाटलाः शिलीन्ध्रकापादपवारितातपाः । इमा हिमाद्रे रमयन्ति मानसं निवृत्तसंरागविषं विपश्चितां ॥ gome_77 ॥
हिमाचलस्योपनितम्बरोहिणां निरीक्षमाणाः सरलाशिखावतां । वनानि चेतःस्थितिम् आप्नुवन्त्य् अमी सुमेधसः कामविवेकपेशलां ॥ gome_78 ॥
बोधिसत्त्वः प्रोवाच ॥
तिमिरद्रुमसंछन्ना विविक्ताभोगकन्दराः । तत्राप्य् अनुगुणा सन्ति वेलाशैलः प्रहाणिनां ॥ gome_79 ॥
तालहिन्तालमालिन्यः सरितो हरितोपलाः । सन्ति तत्रापि हारीतपक्षविक्षोभितोर्मयः ॥ gome_80 ॥
तरङ्गिनीनाम् उपकण्ठरोहिणां पलाशिनाम् पुष्पभरातुराः शिखाः । विधूय तत्रापि यतीन् निषेवते समुद्रवेलाजलशीतलो ऽनिलः ॥ gome_81 ॥
सरसमरिचवल्लीश्यामरोधो वनस्य ध्वनिर् अचलसुरुङ्गामुर्च्छितो ऽप्य् अम्बुराशेः । अविरलपरिपातो ऽभ्यासयोगानुपाती स्थिरयति किल भिक्षोस् तत्र चेतःसमाधिं ॥ gome_82 ॥
निर्धौतोपलसानुर् अञ्जनशिलानीलैः पयोधेर् जलैर् वातायासितचन्दनद्रुमलताविक्षिप्तसूर्यातपः । शैलेन्द्रो मलयो ऽस्ति नाम जलदच्छेदावलीशेखरश् चेतः संयमिनाम् अलं रमयितुं शान्तप्रपञ्चज्वरं ॥ gome_83 ॥
चित्रोत्सङ्गो विषमनिचितैर् धातुपाषाणखण्डैः शष्पोद्भेदैस् तरुणतरुणैः श्यामपर्यन्तलेखः । बद्धामोदो मदजलमुचां दन्तिनां दानगन्धैर् विन्ध्यो ऽप्य् अद्रिः प्रशममहतां योगिनां संनिवासः ॥ gome_84 ॥
सह्याद्रेर् विलसत्तमालहरिताः प्रस्थाः प्रहाणक्षमा निःशब्दाक्षरदच्छनिर्झरजलप्रक्षालितप्रस्तराः । संन्यस्तव्यवहारशान्तमनसां जन्मप्रबन्धद्विषाम् आर्याणाम् अनपायिनीं विदधति प्रत्यात्मवेशां रतिं ॥ gome_85 ॥
तीरान्तानतबालवेतसतरुश्रेणीनिरुद्धातपा नद्यः स्वच्छजलान्तरालविलसन्मीनावलीमेखलाः । सख्यः प्रेमनिरत्यया इव सखे तत्राप्य् अलं योगिनाम् आक्षेप्तुं विषयाभिलाषविमुखं प्रध्यानधीरं मनः ॥ gome_86 ॥
अपि च महाराज ॥
येषाम् अस्मीत्य् अयम् अपगतश् चेतसो विप्रलम्भो यैर् अध्यस्तंगमितम् अशिवं स्कन्धसंतानबीजं । ये पश्यन्ति व्यसनदहनैर् आ भवाग्रात् प्रदीप्तं लोकं तेषां न भवति मनो लोकचित्रानुपाति ॥ gome_87 ॥
नित्यस्राविणम् अग्निमध्यनिहितं कुम्भं यथा मेदसां ये लोकार्थम् अनर्थभारविरसं सन्तो वहन्त्य् आश्रयं । तेषां रत्नशिलालवालवलयाः कल्पद्रुमा नन्दने लूतातन्तुवितानधूमशिखरैः कान्तारवृक्षैः समाः ॥ gome_88 ॥
आविर् भवन्ति तनवो ऽपि परोपकारा यस्मिंस् तद् एव रमणीयम् उपैति साधुः । दुःखेष्व् अनात्मसु चलेष्व् अपरायणेषु किं वा भवेषु रतिकारणम् अस्ति राजन् ॥ gome_89 ॥
स्वार्थानुरागकृपणा मतयो नराणां तुच्छे ऽपि वस्तुनि रतिं परिकल्पयन्ति । उत्पाद एव महतां हि जगद्धिताय येषां पुरन्दरपुरे ऽपि न ते रमन्ते ॥ gome_90 ॥
प्रकृतिचञ्चलाकुलप्रसरं यैश् चित्तम् एतद् वशीकृतं । रतिर् उदेति नान्यतस् तेषां अध्यात्मचिन्ताविहारिणाम् ॥ gome_91 ॥
रमयन्त्य् अनुद्धृतविकल्पसायकान् सरितः सरांसि गिरयो वनानि च । अविकल्पगोचरविचारिणो यतेर् वनम् एव शान्तम् इति निश्चिता मतिः ॥ gome_92 ॥
अजितात्मनाम् अनुपतन्ति बुद्धयो विविधान् बहिर्मुखमनोनिबन्धनान् । अधिचित्तयोगविदुषां तु योगिनां अतिमानुषे चरति गोचरे मतिः ॥ gome_93 ॥
रजसां विपूयपरिणाहिमण्डलं परमाम् अवाप्य वशितां स्वचेतसि । अनपायिनीम् अनुभवन्ति ये रतिं भवनं वनं च समम् एव तान् प्रति ॥ gome_94 ॥
विषयान्तरान्तरितविभ्रमं मनः प्रशमे रमेत कथम् इत्य् अतो यतेः । उपदिश्यते वनतरुप्रतिश्रयो महतां समं तु विषयं मनःसुखं ॥ gome_95 ॥
रमणीयम् एतद् इति विकृतं मतेः प्रवदन्त्य् अवन्ध्यवचसः पुरातनाः । कृतिनां मनो हतविकल्पवासनं न समाधिजेष्व् अपि सुखेषु रज्यते ॥ gome_96 ॥
जगतां हितेषु चरतां महीपते करुणैकतानमनसां मनस्विनाम् । भवति व्यथातनुपरिश्रमैस् तनोर् न च कायजीवितनिकान्तिविद्विषाम् ॥ gome_97 ॥
गगनोपमानमनसां स्पृशन्त्य् अमी न मनः सुखारतिविकल्परेणवः । सुखम् अन्यद् एव तद् अपाकृतोपमं यद् उपासते सुकृतिनो रणंजहाः ॥ gome_98 ॥
व्रतिनाम् अदूरपरिसर्पिणी मनःस्थितिर् एव नाम जननीव वत्सला । सुखम् आदधाति तद् अतीतमानुषं न मरुत्पतेर् अपि यद् अस्ति वज्रिणः ॥ gome_99 ॥
विहतप्रियाप्रियविकल्पविभ्रमः पृथिवीसमेन विहरन्ति चेतसा । नृप यत्र तत्र भवभोगनिःस्पृहा मुनयो ऽतिशान्तसुखमौनलाभिनः ॥ gome_100 ॥
अनिकेतसंस्तवपरिग्रहाग्रहाः स्वजने जने च समताविहारिणः । त्रिभवोपपत्तिगहनान्तदर्शिनो हिमवद्वनेषु रतिम् आप्नुयुः कथं ॥ gome_101 ॥
सुखदुःखयोर् अविषमप्रवृत्तयो नृप येन तेन परितुष्टमानसाः । सततं मृगा इव निसर्गतापसा विहरन्त्य् अनावृतविहारगोचराः ॥ gome_102 ॥
विसृतां भवद्रुमशिखावलम्बिनीं विविधोपतापपरुषां विषक्तिकां । उपहात्य ये पदम् उपासते शिवं त्रिदिवे ऽपि ते नरकवाससंज्ञिनः ॥ gome_103 ॥
अनुबन्धिनिं प्रतिनिवार्य संहतिं तमसां किम् अप्य् अनुभवन्ति ये सुखं । न सनत्कुमारभवने ऽपि ते रतिं विरतोपसर्गरतयः प्रकुर्वते ॥ gome_104 ॥
वनराजयः कुसुमचित्रपादपाः गिरयः कदम्बतरुचुम्बिताम्बुदाः । सरितश् च हंसकुलभिन्नवीचयः परिदुर्बले मनसि लब्धप्रवृत्तयः ॥ gome_105 ॥
शिरःकंपोल्लसच्चारुकुण्डलः स महीपतिः । साधु साध्व् इति संराध्य प्रतिजग्राह तद्वचः ॥ gome_106 ॥
न्यायोपरोधि परिपेशलवर्णशोभम् अक्षूणकालमधुरं स्वपरोपकारि । वाक्यं सुहृज्जनमुखोच्चरितं कथं न स्याद् अप्रतिग्रहविपातितकान्तिशोभं ॥ gome_107 ॥
अम्लायमानकरुणारसशीभराणि स्वान्तान्य् अनाकुलपदक्रमयोगिकानि । वाक्यानि सज्जनमुखाम्बुरुहच्युतानि प्रद्वेषरूक्षम् अपि मानसम् आक्षिपन्ति ॥ gome_108 ॥
नीचेष्व् अपि प्रणतिनम्रशिरोधराणां क्रूराशयेष्व् अपि कृपामृदुमानसानां । आद्यन्तमध्यमधुराणि जिनात्मजानां वाक्यानि को भुवे विमानयितुं समर्थः ॥ gome_109 ॥
तान् अभ्यर्थ्य स पार्थिवो भगवतः प्रत्येकबुद्धान् अथ प्रीत्युत्कर्षपरम्पराम् अनुभवन् काम् अप्य् अनायासिनीं । आवासं स्वम् उपोह्य सौगतभवास् ते ऽपि क्षणेनाययुः स्वर्द्ध्यैवाप्रतिघं विगाह्य विघनं खं राजहंसा इव ॥ gome_110 ॥
स भूपतिः षष्टिसहस्रसंख्या गुहा विविक्ता जलयंत्रशीताः । संस्कार्य तेभ्यः प्रददौ प्रसन्नः प्रत्येकशो दग्धपुनर्भवेभ्यः ॥ gome_111 ॥
शरत्सहस्राणि सषष्टिर् एव चकार तेषां विगतज्वराणां । पूजां परां दृष्टपरायणानां संचारिणाम् पुण्यवनस्पतीनां ॥ gome_112 ॥
तं बोधौ स परिणमय्य पुण्यराशिं संत्यज्य प्रकृतिविनाशिनं स्वदेहं । त्रैलोक्यप्रथितपराक्रमप्रभावो मान्धाता किल वसुधाधिपो बभूव ॥ gome_113 ॥
संकल्पानुविधायिन्यस् तस्याभूवन् विभूतयः । सर्वलोकातिशायिन्यो निरुपायासपेशलाः ॥ gome_114 ॥
पुण्यान्य् एवम् असौ चकार भगवान् यस्माज् जगद्भूतये त्यक्त्वा राज्यविभूतिविस्तरसुखान्य् अम्लायमानोद्यमः । तस्मात् तत्र मनः प्रसाद्य भगवत्य् आश्चर्यरत्नाकरे पातव्यं स्वपरोपकारमधुरं तस्यैव वाक्यामृतं ॥ gome_115 ॥
इति श्रीमेघजातकं चत्वारिंशत्तमं ॥ ॥
9. नाग
सहस्रशो ऽपि संत्यक्तुम् उत्सहन्ते स्वजीवितम् । साधवः साधुमर्यादां न मुहूर्तम् अपि क्षमाः ॥ गोना_1 ॥
तद् यथानुश्रूयते।
बोधिसत्त्वभूतः किलाहं भगवान् अपरिम्लायमानकरुणासौम्यदर्शनो नागराजो बभूव ।
क्रोधेन तस्य सह शाश्वतसंविरोधः क्रोधोत्तरं निगदितं समुपागतस्य । इच्छानुकूलमधुरा प्रतिसन्धिलीला साधोः सुयोनिविधुरैव बभूव तस्य ॥ गोना_2 ॥
संप्राप्तकर्मवशितातिशयस्य यस्य लोका हृदीव निवसन्ति कृपाविशाले । रोषस् ततः कथम् उदेरति शुद्धसत्त्वात् पद्माकराद् विकसिताद् इव चित्रभानुः ॥ गोना_3 ॥
कुवलयदलमालाकोमलं भोगचक्रं स्वमणिकिरणजालश्रीकरालं स बिभ्रत् । घनसमय इवासील् लोचनानन्दबन्धुः सुरवरपतिचापोद्भासितो वाम्बुगर्भः ॥ गोना_4 ॥
अथ स महासत्त्वः क्रोधबहुलतां नागयोनेर् अवेत्य तत्प्रतिपक्षक्षमाकथाम् उद्भावयाम् आस स्वपर्षदि ॥
न हेममाला मणिदीप्तिशीभराः स्रजो न चित्रा मकरन्दपिञ्जराः । तथाभ्यलंकर्तुम् अलं शरीरिणां यथा क्षमा सर्वगुणैकरत्नका ॥ गोना_5 ॥
मनोज्ञरूपा अपि नाम रोषिणो विषादयन्त्य् एव मनांसि देहिनाम् । विमुक्तकोशा इव पुष्पपादपाः स्वमूलसंसर्पिभुजङ्गकङ्कणाः ॥ गोना_6 ॥
असंस्तुतानाम् अपि नाम सूरता भवन्ति विश्रम्भविशेषभाजनम् । इति क्षमां को न भजेत बुद्धिमान् अशेषलोकाश्रयसंग्रहक्षमाम् ॥ गोना_7 ॥
इमाम् अवस्थां गमिता विदाहिनामुना वयं रोषमयेन पाप्मना । निवृत्तवैरान् अपि यद् विशङ्कते महाजनो ऽस्मान् अनिमित्तकाहतः ॥ गोना_8 ॥
एवम् अन्यथा च स्वयूथ्यान् संज्ञापयाम् आस ॥ अपि च ॥
दृष्टीविषानलमुचां स्वमणिप्रभाद्भिः पातालरन्ध्रगहनान्तविसर्पिणीभिः । तेसां स पन्नगवरः शमयां बभूव वागम्बुभिश् च हृदयानि भुजङ्गमानाम् ॥ गोना_9 ॥
स च महात्माजन्मान्तराभ्यस्तप्रशमरतिविहारसाधनः सर्वलोकोत्तरोत्कृष्टैर् तैर् अपि विषयैर् अनाकलितमानसो विडम्बनाम् इव ताम् ऐश्वर्यलक्ष्मीम् अभिमन्यमानः प्रविवेकसुखविहारोपरोधिनं चाधिपत्यपरिश्रमम् आर्यन्यायमार्गकण्टकस्थानीयांश् च स्निग्धजनसमागमान् प्रकृतिधीरमानसः सन् गृहे ऽप्य् अरण्यसंज्ञाभावनासमर्थः सशङ्को गार्हस्थदोषम् एवोद्भावयन् स्वभवनाद् अभ्युद्गम्य विविक्तेष्व् अरण्यायतनेषु पोषधनियमालंकृतशरीरः कालम् अतिनामयाम् आस ॥
त्यक्त्वा गेहं विभवकलिलं ये विविक्ते वसन्ति प्रायस् तेषु प्रशमविमुखो विस्मयं याति लोकः । चित्रं मन्ये क्षणम् अपि गृहे यद् रमन्ते विदग्धा नानातङ्कप्रचयगहने बोधिसत्त्वप्रतिज्ञाः ॥ गोना_10 ॥
अथ कदा चित् स महात्मा प्रत्यरण्यनिविष्टतरुणतरुमण्डलैकदेशावस्थितो भुजगविषोपघातयोग्यविद्याधरेण ब्राह्मणेनोपलक्षितः । स तस्य तेन नियमविशेषरमणीयेनाश्वासदेन तेजस्विभावेन विस्मितमना नास्मात् प्रत्यवायो ऽस्तीति निश्चित्य स्वजीविकोपायं च तद्ग्रहणसाहसम् अवेत्य तं भुजगपतिं विश्रम्भमुकुलितफणचक्रम् आसीनं सहसा महता दण्डेन शिरस्य् अभिजघान तप्तपांसुपूगैश् चास्य नयनानि पूरयाम् आस महत्या चैनं वररज्ज्वा गाढं ग्रीवायाम् आमर्दयां बभूव मूलागदसंमिश्रेण चैनं श्लेष्मणा वदनविवरेषु संसिक्तवान् विवृत्य चास्य वदनपुटम् अयःसंदंशेन दंष्ट्राः समुदाजहार ॥ लोभपर्याकुलमानसश् चास्य तीक्ष्णेन शस्त्रेण घनकोशोपगूढमूलां चूडामणिम् उत्पाटयां चक्रे प्रतिनकुलचलवलयराशिकोमले चास्य भोगकुण्डले बिम्बोपधान इव निषद्य विशश्राम ॥
यः केलीकलहेष्व् अपि प्रणयिनीकर्णोत्पलाताडितो लज्जामन्थरकोमलालसफणच्छत्त्रो ययौ संभ्रमम् । मेने सो ऽविकृताशयः फणिवरो दण्डप्रहारान् खरान् क्षान्त्यभ्यासवशात् समीरणचलत्तूलांशुपातोपमान् ॥ गोना_11 ॥
यो बिभ्रन् दयिताजनेन रचितां कण्ठेगुणां कोमलां खेदं नागवरः सुखोचितमयां [?] भेजे क्रियां चायताम् [?] । रज्ज्वा कर्कशपाशया पशुर् इव ग्रीवोपबद्धो भृशं तेनाकारणदारुणेन रिपुणा सो ऽभून् निरास्थो वशी ॥ गोना_12 ॥
यं प्रत्यग्रतमालचन्दनरसप्रश्लेषशीतैः करैर् ग्रीष्मे प्राणसमाः सरत्नवलयैर् नागोत्तमं पस्पृशुः । पादेनाभिहतः खलेन पटुना स क्षान्तिगुप्तव्रतो लेभे संततवर्तिनीं घनरसां मैत्रीं तदालम्बनाम् ॥ गोना_13 ॥
दंष्ट्रा बिसाङ्कुरसिता विनिगूढमूलास् तस्योच्चखान स यदा भुजगेश्वरस्य । शल्यापहारिणि तदा भिषजीव तस्मिन् विप्रे चकार स पराम् उपकारिसंज्ञाम् ॥ गोना_14 ॥
आर्तीयते स्म सहजान्य् अपि यानि चित्रं साधुः शिरोमणिमयानि विभूषणानि । तेषूद्धृतेषु स कृतार्थतया प्रमोदं निक्षिप्तभार इव भोगपतिर् जगाम ॥ गोना_15 । श्वासानिलैः स्फुटविषाग्निकराकरालैर् उच्छोषयेत् समकरान् अपि यः समुद्रान् । क्षान्तिं प्रियाम् इव सखीम् उपगुह्य तस्थौ स्वस्थस् तम् एव च रिपुं करुणायमानः ॥ गोना_16 ॥
स्याद् भस्मसाच् छिखरकोटिविपाटिताभ्रः शैलो ऽपि दृष्टिविषयं समुपेत्य यस्य । पापात्मना कुमुदनालम् इवोरगेन्द्रो नासौ चुकोपमृदितो ऽपि परानुरक्षी ॥ गोना_17 ॥
तीव्रप्रकारम् उपकारम् इवाविकारः सेहे कृपापरिगतः स यथा यथार्यः । क्रौर्यावलेपपरुषः स तथा तथा तं चिक्लेश पन्नगवरं विविधैर् उपायैः ॥ गोना_18 ॥
करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते । मृदम् एव भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥ गोना_19 ॥
स पीड्यमानः पुरुषेण तेन भुजङ्गराजो विगतव्यथेन । तम् एव रक्षन् गुणपक्षसाक्षी मुमोच न श्वासविषं विषादी ॥ गोना_20 ॥
यथा यथा पीडयति स्म नाम तम् आर्यकर्माणम् असाव् अनार्यः । तथा तथासौ तदपायशङ्की न चक्षुर् उन्मीलयितुं विषेहे ॥ गोना_21 ॥
परापकारप्रतिपत्तिमारुता दुराचरास् तस्य विशुद्धकर्मणः । क्षमाशिलाधारपरिग्रहस्थिरं न कम्पयन्ति स्म मनो मनस्विनः ॥ गोना_22 ॥
अम्भोजरेणुकणिका इव संप्रतीच्छन् नागोत्तमः क्षितिरजो ऽर्ककरोपतप्तम् । नेत्रोपघातपटुना पटुना विमुक्तं तस्मिन् बभूव सुतरां स परानुकम्पः ॥ गोना_23 ॥
यः स्नातो जलयन्त्रमन्दिरगतो राजा जलैः शीतलैर् नानापुष्परजोऽधिवासशुचिभिश् चन्द्रप्रभानिर्मलैः । सिक्तः श्लेष्मलवैर् अनार्यमतिना दुर्गन्धिभिस् तेन सः प्रीत्यैवापचकार तं परिभवं क्षान्त्याम्भसेवोक्षितः ॥ गोना_24 ॥
एवम् अन्यथा चासौ ब्राह्मणाधमस् तं बोधिसत्त्वम् परिक्लिश्य महति करण्डे प्रक्षिप्य तेन तेन परिभ्रमन् वाराणसीं नगरीम् अनुप्राप्तः ॥ अथ तस्य भुजगपतेस् तां रूपसंपदम् आलोक्य महाजनः परमविस्मितमनास् तं ब्राह्मणं महत्या पूजया पूजयाम् आस ॥
अथ तस्य महात्मनः सुमनानामान्तःपुराग्रचरा भुजगयोषिद् अतीतायाम् उचितायां तदागमनवेलायां तं भोगिपतिम् अपश्यन्ती जानाना तस्य प्रकृतिभद्रताम् अनार्यकर्मारामतां च मानुषहृदयानां तदत्ययाशङ्किनी तीव्रशोकायासव्यथितहृदया तत् तद् विकल्प्य सत्वरं रुरोद ॥
तमसा निरन्तरविसारिणैव मे परिवर्यते नयनगोचरं बलात् । अनिरूपितात्ययविकल्पकातरं द्रवतीव मानसम् इदं प्रियं विना ॥ गोना_25 ॥
स्फुटमल्लिकावनविलासलासका जलयन्त्रमन्दिरनिरोधशीतलाः । सुतरां दहन्ति मम चलमारुता दयितप्रवासपरितापिनीं तनुम् ॥ गोना_26 ॥
प्रतिभात्य् अपूर्वम् इव सर्वम् अद्य मे न च वेद्मि काहम् इति तेन वर्जिता । व्यसने स एव शरणं मम प्रियो विरहे तु तस्य मरणं परायणम् ॥ गोना_27 ॥
मणिवेदिकाकिरणपाटलोर्मयो गृहदीर्घिका न रमयन्ति मे मनः । प्रियविप्रवासपरितापविप्लुतं स्फुटपद्मकोशमकरन्दवासिताः ॥ गोना_28 ॥
दिशतूत्तमानि जगदुत्तमद्युतिर् मम मङ्गलानि भगवान् स एव तु । न भवान्तरे ऽपि विरहो यथा भवेद् दयितेन तेन निरवद्यकर्मणा ॥ गोना_29 ॥
विरहानुबन्धविरसाः समागमा जगतो ऽरपर्वपरिणामिनी स्थितिः । इति यज् जगाद मनसो ऽतिवल्लभः समुपस्थितं तद् इदम् अद्य वैशसम् ॥ गोना_30 ॥
विकसत्स्फुलिङ्गम् अनिलाकुलार्चिषं दहनं विशामि बहुदुःखभागिनी । तनुम् उत्सृजामि शिखराद् गिरेर् इमाम् अवशिष्यते किम् अपरं ममायुषः ॥ गोना_31 ॥
यदि सो ऽद्य नैति सुखसौम्यदर्शनो मम मूर्तिमान् अविकलो मनोरथः । स्वयम् एव धक्ष्यति ममेदम् आश्रयं हृदयज्वलस् तुमुलशोकदारुणः ॥ गोना_32 ॥
इति सा रुराव कुररीव विक्लवा नयनाम्बुदुर्दिनमुखी तपस्विनी । वसुधातले गलितहारमेखला भुजगाङ्गना पतिवियोगशङ्किनी ॥ गोना_33 ॥
अथ सुमना नाम योषिद् बोधिसत्त्वम् अन्वेषमाना वाराणसीं नगरीम् अनुप्राप्ता ददर्श चैनं महासत्त्वं परमदारुणाम् अवस्थाम् उपगतं दृष्ट्वा च तीव्रशोकायासव्यथितहृदया प्रोवाच ।
स्फुरितकिरणच्छायारम्याः शिरोमणयः क्व ते क्व दयित गतास् तास् ता दंष्ट्रा बिसाङ्कुरधूसराः । वपुर् उपहतं दण्डाघातैर् नवोत्पलकोमलं विगलितहृदया (?) क्रूरेणैतत् कृपात्मक केन ते ॥ गोना_34 ॥
किं धर्मो ऽस्तम् इतः प्रजाहितकरः किं लोकपाला मृताः तेजः कोपविषातिसङ्गरभसं किं प्रोषितं भोगिनाम् । शून्यं किं नु पतिप्रभाभिर् अधुना निःशुक्लमूलं जगद् येन त्वं व्यसनं दुरुत्तरम् इदं प्राप्तो विनाशाय ते ॥ गोना_35 ॥
नासीत् कस्य दया त्वयि प्रहरतो ऽनार्यस्य शान्तात्मनि क्रौर्यं त्वय्य् अपि नाम साधुचरिते पापात्मनां जायते । त्वाम् आयासयतः कथं न पतितौ तस्य प्रकोष्ठात् करौ नाथानाथ इवापदं कथम् इमां प्राप्तस् त्वम् आयासिनीम् ॥ गोना_36 ॥
बोधिसत्त्वस् तु प्रत्यग्रकोपशोककलुषिताध्याशयात्मनाम् अवेत्य तूष्णीम् एव बभूव ॥ सा पुनर् अब्रवीत् ॥
कस्याप्रियं जीवितम् आद्यजातं कालेन केलीं सह कः करोति । त्वदप्रियारिष्टनिविष्टचेष्टो लोकान्तरं को ऽभ्यनुगन्तुकामः ॥ गोना_37 ॥
शीताभिलाषी प्रविविक्षुर् अग्निं को मारुतोद्धतशिखाकलापम् । आदित्सते क्रूरविषं भुजङ्गं कः पुष्पदामाकृतिविप्रलब्धः ॥ गोना_38 ॥
उदधिपरिखाम् अद्यैवैनां दहामि वसुन्धरां सनगनगरग्रामारामां स्वदृष्टिहुताशनैः । न मम हृदयं शान्तिं याति त्वदप्रियताडितं दहति यदि न क्रोधाग्निर् मां पुरा निरवग्रहः ॥ गोना_39 ॥
अथ बोधिसत्त्वस् तां तपस्विनीम् अविषह्यकोपाग्निप्रदीप्तमानसां ह्लादयन्न् इव तदामृतशिशिराभिर् वाग्भिर् इत्य् अब्रवीत् ॥
अलम् अलं मा गा भद्रे वै कोपस्य चेतोविदाहिनः । प्रकृतिदुःखेषु को भूयः सत्त्वेषु दुःखानि चिन्तयेत् ॥ गोना_40 ॥
दुःखहेतौ वर्तमानेषु शोच्येषु संक्लेशभागिषु कः पराक्रमेत् ॥ दुःखाय स्वहितक्रमार्तेषु देहिषु न मम दंष्ट्रोत्पाटनाद् दुःखं न च दण्डसंपातजा रुजाः ॥ दुःखयन्ति मानसं चण्डि त्वद्वाक्कर्कशास् तुदन्ति माम् ॥ अपि च कान्ते ॥
बोधिसंप्राप्तये चित्तं यदैवोत्पादितं पुरा । वयं तदैव लोकानाम् आधेयक्रियतां गताः ॥ गोना_41 ॥
कोपवह्निम्लायमाना पुनः सैव त्वम् अन्येव लक्ष्यसे ॥ चन्द्रलेखेव चाम्बरे विकसद्घनधूमसंबाधधूसरे ॥ गोना_42 ॥ किं च ॥
कर्मापराधजनितं यदि दुःखम् एतत् कोपावकाश इह को नु मम द्विजातौ । कर्मेन्धनोद्धतशिखाशकलाकुलेभ्यः कुप्येत् कथं न मतिमान् नरकानलेभ्यः ॥ गोना_43 ॥
तद् अलं कोपदैन्येन तव चेतोविदाहिना । स्वगृहान् एव गच्छस्व संत्यागं च कुरुष्व मे ॥ गोना_44 ॥
सा भर्तुर् अभिप्रायं संपादयन्ती तद्वचनाप्यायितहृदया विगतकोपसंरम्भा बभूव ॥
कोपोपरागविगमे विवृतो ऽधिमात्रः स्नेहः प्रिये विषमवर्तिनि नागवध्वा । उद्घाटिताभ्रपटलस्फुटदिग्विभागे खे निःसपत्न इव चन्द्रमसः प्रकाशः ॥ गोना_45 ॥
शोकाश्रुनयनपरिप्लुता चेति बोधिसत्त्वम् अब्रवीत् ॥
कुतो मे दुःखभागिन्या गेहं आर्य त्वया विना । इहैव शोषम् एष्यामि या गतिस् तव सा मम ॥ गोना_46 ॥
विषमस्थं परित्यज्य त्वाम् अनाथ सुखैधितम् । कान्त केन सुखेनाहं द्रक्ष्यामि स्वजनं पुनः ॥ गोना_47 ॥
सुखे समानतां गत्वा दुःखे जह्यां यदि प्रियम् । अनार्याम् अकृतज्ञां मां धारयिष्यति भूः कथम् ॥ गोना_48 ॥
प्रतिभाति जगच् छून्यं त्वया विरहितं मम । त्वं मे जीवितसर्वस्वं त्वं बन्धुस् त्वं परायणम् ॥ गोना_49 ॥
बोधिसत्त्वो ऽथ तां साध्वीं बहलस्नेहविक्लवाम् । अनुकम्पावशात् साधुर् ईदृशं प्रत्यभाषत ॥ गोना_50 ॥
अदृष्टपूर्वव्यसना सुखसंवर्धिता प्रिये । परिक्लेशम् इमं सोढुम् अक्षमा त्वम् अनिन्दिते ॥ गोना_51 ॥
मयि स्नेहो ऽस्ति यदि ते दुःखं मे यदि नेच्छसि । अदृष्टम् अद्य मां कृत्वा तद् गच्छ त्वं स्वम् आलयम् ॥ गोना_52 ॥
अथ सा तैर् बोधिसत्त्ववचोऽद्भिर् आक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजम् उपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिर् अवोचत् ॥
आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः । त्रायस्व माम् आपदि वर्तमानां दीनाम् अनाथां जगदेकनाथ ॥ गोना_53 ॥
अथ स राजा तद् अतिभासुरं वपुर् अवलोक्य किम् इदं कथं चेत्य् उत्पन्नजातसंभ्रमः सादरम् उत्थाय पर्यङ्कपृष्ठात् तां नागयोषितम् एतद् अवोचत् ॥
ध्यामीकृत्य मणिप्रदीपकिरणान् एतद् वपुस् ते स्थितं व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश् च ते । का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञाम् इमां मालां फुल्लदलाम् इवाद्य शिरसा सम्यक् प्रतीच्छाम्य् अहम् ॥ गोना_54 ॥
अथासौ भुजगवधूस् तेन तस्य राज्ञो ऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ॥
आशावशानां नरदेव को ऽन्यो मनोरथं पूरयितुं समर्थः । त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर् वंशम् इवावतीर्णम् ॥ गोना_55 ॥
नागाङ्गनां माम् अवगच्छ राजंस् त्वद्देशपर्यन्तकृताधिवासाम् । आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद् गरीयः ॥ गोना_56 ॥
राजोवाच ॥ भगिनि कस् तवासौ भुजगवरः ॥ सा प्रोवाच ॥
भर्ता मम प्राणधनेश्वरो ऽसौ न्यायोप्रदेष्टा च गुरुर् गरीयान् । पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश् च ॥ गोना_57 ॥
अथ स भूपतिस् तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः ॥ प्रोवाच चैनाम् ॥
भक्तिर् भर्तरि दर्शिता घनरसा दाक्षिण्यम् उन्मीलितं प्रेमोद्भावितम् आपदि स्थिरतरं प्रोद्घाटिता भद्रता । धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो लोके साधुपतिव्रतत्वम् इति ते ख्यातिः स्थिता शाश्वती ॥ गोना_58 ॥
त्यक्त्वा प्रियं जीवितम् अप्य् अतो ऽहं पुण्यप्रभावोपनतं च राज्यम् । संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम् ॥ गोना_59 ॥
अथ स राजा तस्य ब्राह्मणस्यान्तिकात् तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टम् अभ्यर्चयाम् आस ॥ अथ बोधिसत्त्वस् तेन तस्य राज्ञो ऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ॥
असंस्तुते नाम तवायम् आदरो मयि प्रसादस्थिरभक्तिपेशलः । कृतोपकारेष्व् अपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु ॥ गोना_60 ॥
प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस् त्वया । गुणे विवर्धस्व तद् उत्तरोत्तरैर् गुणेषु भद्रं जगतां अवस्थितम् ॥ गोना_61 ॥
इति संराध्य राजानं तम् असौ भुजगेश्वरः । अनुबद्धो दयितया कृपयेव गृहान् ययौ ॥ गोना_62 ॥
इति श्रीनागजातकं चत्वारिंशत्तमम् ॥ ः ॥
10. पुण्यराशि
अथाशोको महाराज उपगुप्तं यतिं गुरुम् । कृताञ्जलिपुटो नत्वा प्रार्थयच् च तथादरात् ॥ gopr_1 ॥
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम् । तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ gopr_2 ॥
इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः । उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ gopr_3 ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् । तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर ॥ gopr_4 ॥
नास्ति विपाकपर्यन्त उपकारापकारयोः । संबुद्धे सद्गुरौ तस्मात् कर्तव्यम् उपकारकम् ॥ gopr_5 ॥
तद् यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा । कदा चित् ताव् उभौ ग्रामं गच्छन्तौ संगतौ पथि ॥ gopr_6 ॥
संबुद्धप्रतिमां तत्र पुण्यराशिम् इवोत्तमाम् । तां समीक्ष्य तयोर् एकः प्रणत्वैवं तम् अब्रवीत् ॥ gopr_7 ॥
अहो बत महापुण्यराशिर् अयं विराजते । भाग्येन दृश्यते ऽस्माभिर् अद्य मित्र प्रणम्यताम् ॥ gopr_8 ॥
इति तेनोदितं श्रुत्वा दृष्ट्वापरस् तम् अब्रवीत् । अहो बत महान् मित्र पापराशिर् अयं न्व् इति ॥ gopr_9 ॥
इति तेनोदितं श्रुत्वा प्रथमः स उपासकः । कर्णौ पिधाय हस्ताभ्यां तम् एवं पर्यभाषत ॥ gopr_10 ॥
धिक् त्वाम् असद्बुद्धिम् असत्प्रलापिनम् [!] एवं ह्य् अपि त्वं प्रतिभाषसे ऽत्र । कस्मान् मुनेः शास्तुर् उपासको ऽपि सद्धर्ममूर्तिं प्रतिनिन्दसे ऽद्य ॥ gopr_11 ॥
कथं न जिह्वा पतिता तवाननाद् असत्प्रलापापहता तपस्विनी । अपुण्यराशिर् भगवान् इति ब्रुवन् कथं न मग्नस् त्वम् अरे रसातले ॥ gopr_12 ॥
धिग् अप्रशस्ताम् असतां दुरत्ययां पृथग्जनानां प्रकृतिं चलाचलाम् । विमर्शम् अप्राप्य यथेष्टचारिणी करोति या लोकम् अपायगोचरम् ॥ gopr_13 ॥
सुदारुणैर् आयुधभीमदर्शनैर् अरातिभिः सार्धम् अहो वरं गतम् । त्वया सुहृच्छद्मनिगूढपाप्मना पदं न चैकं वितथप्रलापिना ॥ gopr_14 ॥
नमन्ति यं ब्रह्मविदो महर्षयः पुनाति यो विश्वम् इदं वृषांशुभिः । अपुण्यराशिर् यदि स व्रतीश्वरस् तथागतः पुण्यनिधिः कुतो ऽपरः ॥ gopr_15 ॥
मुनेः परोद्धारनिमित्तमात्रम् अप्य् उपैति यस्योद्धृतकल्मषो ऽपि सन् । स योगपर्यन्तविदां धुरि स्थितो न पुण्यराशिर् यदि को न्व् इहापरः ॥ gopr_16 ॥
न यस्य बुद्धिः प्रतिहन्यते क्व चिन् न च प्रहेयावयवो ऽवशिष्यते । न चास्ति सङ्गो जगदर्थसाधने स पुण्यराशिर् न कथंकथान्तशः ॥ gopr_17 ॥
तदुक्तं स समाकर्ण्य द्वितीयोपासकस् [!] ततः । प्रागल्भवचसा भूय आयुष्मन्तं तम् अब्रवीत् ॥ gopr_18 ॥
हितकाम्यतया निरत्ययं वचनं कामम् इदं सखे तव । अनुयुज्य तथापि शोभते वितथं साधुर् उदीरयन् भवान् ॥ gopr_19 ॥
मम भक्तिर् उदारशासने सुगते या परमानुकम्पके । विदिता तव सा तथापि मां सहसा सौम्य कथं विगर्हसे ॥ gopr_20 ॥
आपाताल्पसुखाभिमानरसिकं पर्यन्तरिक्ताश्रयं सायासं सभयं प्रसङ्गविरसं धिग् लौकिकं संगतम् । यन् नामैवम् अकारणोद्धतरुषो मिथ्याविकल्पैर् हतं गच्छत्य् एकपदे क्षयं परिचयं विक्षिप्य मूर्ध्नो ऽन्तिकम् ॥ gopr_21 ॥
एतत् तेनोदितं श्रुत्वा प्रथमः स उपासकः । अन्यथा तद्वचो मत्वा मनसैवं व्यचिन्तयत् ॥ gopr_22 ॥
अहो ह्य् अन्यद् अनेनोक्तम् अन्यन् मया विकल्पितम् । इति चिन्ताविषण्णात्मा तस्थौ लज्जाहताशयः ॥ gopr_23 ॥
दृष्ट्वा स च सहायस् तं लज्जावनमिताननम् । तदभिप्रायम् आज्ञातुं प्रसह्य चैवम् अब्रवीत् ॥ gopr_24 ॥
साधो किं मन्यसे ह्य् अत्र यत् ते लज्जाहतं मुखम् । तावत् ते यद् अभिप्रायं तत् प्रचक्ष्व ममाग्रतः ॥ gopr_25 ॥
तस्यैतद् वचनं श्रुत्वा स आयुष्मान् उपासकः । तन्मनोऽन्तर्गतं सर्वम् अभिप्रायं व्यमुञ्चत ॥ gopr_26 ॥
चित्तं यत्र प्रसाद्य क्षणम् अपि मनुजो ऽनुत्तमे दक्षिणीये श्रीसौभाग्यप्रकर्षं भवगतिषु परं प्राप्य निर्द्वन्द्वरम्यम् । पश्चाद् आलोक्य लोकं वितथविलपितं प्रत्ययग्राहमात्रं ज्ञात्वा प्राप्नोति शान्तं कथम् इव न महान् पुण्यराशिर् भवेत् सः ॥ gopr_27 ॥
दत्त्वा पलालशकलस्रजम् अग्रसत्त्वे लेभे भवोपशमशान्तिसुखानि नारी । यस्मिन्न् अचिन्त्यचरितातिशयप्रभावे किं पुण्यराशिर् अयम् इत्य् अविदग्धम् एतत् ॥ gopr_28 ॥
कोशातकीकुसुमम् अपि प्रदाय स्तूपे मुनेः परमकारुणिकस्य यस्य । भुक्त्वालये गुणविभूतिसुखप्रकर्षं लेभे ऽङ्गनामृतपुरप्रतिपत्समृद्धिम् ॥ gopr_29 ॥
यस्मै पांशुप्रदानं प्रकृतिचलमना बालकैः संप्रदाय स्फीतां मर्त्येन्द्रलक्ष्मीम् अनवनतसितच्छत्त्रहासाभिरामाम् । संप्राप्यातीतचिन्तं पदम् अभयम् असद्दाहपर्यन्तशान्तं लेभे पश्चान् नरेन्द्रः कथम् इव स न भोः पुण्यराशिर् महर्षिः ॥ gopr_30 ॥
प्रसह्य पङ्काङ्कम् ऋषेर् वराहः [!] चैत्ये वपुर् यस्य चिरं स एव । तस्यैव धर्मस्य सुधर्मतासौ यदाधिपत्येन भवाद् विमुक्तः ॥ gopr_31 ॥
कियान् प्रसादो जडचेतनानां सखे तिरश्चां गुणनिश्चयो वा । क्षेत्रस्य तस्यैव तु सा विभूतिर् येनात्र सत्त्वाः सफली भवन्ति ॥ gopr_32 ॥
दृष्ट्वा लोकविलोचनोत्सवसुखां संशान्तसर्वोद्धवां व्यामाभापरिवेषिणीं भगवतो बुद्धस्य मूर्तिं पुरा । हर्षोत्कम्पिगलश् चुकूज मधुरं प्रेङ्खत्कलापः शिखी तद्धेतोश् च शमं जगाम स शिखी धाराम्बुसिक्तो यथा ॥ gopr_33 ॥
मङ्गल्यत्वम् अचिन्त्ययोगमहतां सर्वार्थसिद्ध्यावहं बुद्धानां तद् उदीक्ष्यतां भगवतां संमोहनिद्राच्छिदाम् । अत्यन्तोपशमावहं भवति यत् तिर्यग्गतानाम् अपि प्राग् एवाभिमुखाशयस्य विदुषः शास्तुर् गुणाम्भोनिधेः ॥ gopr_34 ॥
मन्ये दर्शनम् एव तद् गुणवतां तेषाम् अवन्ध्योदयं सर्वाकारपरोपकारमधुरं पूर्वाभिसंस्कारजम् । प्रद्वेषोपहताशयान् अपि जनान् संप्रापयत्य् उत्तमं स्थानं सर्वभवोपसर्गविगमाद् एकान्तशान्तं शिवम् ॥ gopr_35 ॥
श्रुत्वा नाम तथागतस्य मकरः सांयात्रिकेभ्यः पुरा संपृक्तास्यपुटो ममार सुगते चेतः प्रसाद्य क्षणम् । तद्धेतोः सरितां पतिं परिमितं नीत्वा पुनर् दुस्तरं जन्माम्भोनिधिम् उत्ततार विपुलं निःसृत्य मार्गे प्लवम् ॥ gopr_36 ॥
अपायपातालतलावलम्बी सुरो मुनीन्द्रं शरणं प्रपद्य । स्वपुण्यसोपानपरम्पराभिः समारुरोहाग्र्यतरं विमानम् ॥ gopr_37 ॥
कृत्वा व्याघ्रभयान् नमो भगवते बुद्धाय सर्वात्मना नाम्नैवानुपमस्य पुण्यमहतीम् आलोक्य नान्दीं पुमान् । निःशेषव्यसनान्धकारगहनप्रध्वंसिनीं प्राप्तवाञ् छान्तिं काम् अपि वागतीतविषयां प्रह्लादसंवर्धनीम् ॥ gopr_38 ॥
इति भुवनमहिम्नाम् आकरं शाश्वतानां तम् अनुपमविशेषाचिन्त्यचर्यारहस्यम् । किम् अपि कथम् अपीशं शंकरं प्राप्तुम् आर्यं पदम् अमरम् अहार्यं पुण्यराशिं वदामि ॥ gopr_39 ॥
इति तद्गदितं श्रुत्वा स इतर उपासकः । तम् आयुष्मन्तम् आलोक्य पुनर् एवं समब्रवीत् ॥ gopr_40 ॥
सम्यग् अभिहितं साधो भवतात्र तथापि च । ममाप्य् एवम् अभिप्रायं श्रूयतां सांप्रतं सखे ॥ gopr_41 ॥
कृत्वा चित्तप्रदोषं सकृद् अपि सुगते प्राप्तलोकावसाने यत्राविच्छिन्नमैत्रीजलकलशशतक्षालितान्तःप्रकोपे । आसंसारापरान्तं ज्वलदनलशिखागर्भपर्यन्तरन्ध्रं गाहन्ते ऽवीचिम् अज्ञाः कथम् इव स जिनो ऽपुण्यराशिर् न तुङ्गः ॥ gopr_42 ॥
एलापत्रम् अवज्ञया किल मुनौ च्छित्वा प्रमादात्मकः पार्थग्जन्यविषस्य वृत्तिम् अशिवाम् उद्भावयन् कर्मणा । एलापादपपादपाटितशिरो - - द्वमच्छोणितो नागेन्द्रः पृथुभीमभोगपटलो नाद्यापि निर्मुच्यते ॥ gopr_43 ॥
सूक्ष्मो ऽप्य् एवम् अनादरो भगवति प्राबन्धिकीं व्यापदं यत् सर्वायतनोपतापविरसाम् आकर्षति प्राणिनाम् । सर्वोत्कर्षदशावसानमहतीं काम् अप्य् अनायासिनीं प्राप्तः शान्तिम् अपुण्यराशिर् असतां तस्मात् स सत्त्वोत्तमः ॥ gopr_44 ॥
कृत्वा चेतःप्रदोषं कृपणकपुरुषो यत्र वीथीमुखस्थः कीटः कोपोपदग्धो नृपरथचरणाघातविच्छिन्नमूर्धा । ज्वालामालाकलापं विवृतम् इव भुवो भीषणं वक्त्रकोशं श्वभ्रं तस्माद् विवेश प्रतिहततिमिरो ऽपुण्यराशिस् ततो ऽसौ ॥ gopr_45 ॥
एवं बुद्धे भगवति गतिभ्रान्त्युपादानदाह- प्राप्ताभिज्ञे मृदुर् अपि कृतश् चेतनासंनिवेशः । संतानानान् उपततिफलप्राप्तये निर्बबन्ध सः सर्त्ता [?] - भवसुखलवास्वादलग्नाभिलाषम् ॥ gopr_46 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
