Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

द्वाविंशत्यवदानकथा

Thông tin
GRETIL — Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

द्वाविंशत्यवदानकथा

ओं नमो भगवते श्रीगुणसागराय //

नत्वा श्रीशाक्यकेतुं सुरगणसहितं देवदेवाधिदेवं संसाराब्धेः प्लवन्तं सकलगुणनिधिं गौतमं बुद्धनाथम् / संसारे सिंहनादं सकलभयहरं धर्मच्छत्रं मुनीन्द्रं वक्ष्ये ऽहं धर्मरत्नं मुनिवरकथितं सर्वलोकाभिलाषम् // दक्_ओ.1 //

तद्यथाशोकभूमीन्द्रः कुक्कुटारामसंश्रितम् / उपगुप्तं पुनः प्राह द्वाविंशतिकथोत्सुकः // दक्_ओ.2 //

भदन्त श्रोतुम् इच्छामि चैत्यसेवाकथां शुभाम् / अप्य् एवं धर्मपीयुषं त्वन्मुखाम्बुजनिर्गतम् // दक्_ओ.3 //

इति विज्ञप्तिम् आकर्ण्य उपगुप्तः समादिशत् / शृण्व् अशोक प्रवक्ष्यामि द्वाविंशत्यवदानकम् // दक्_ओ.4 //

i. पुण्यप्रोत्साहनकथा

विहरति भगवाञ् छास्ता संबुद्धो लोकनायकः / राजगृहे महोद्भासे गृद्धकूटे सुखालये // dak_1.1 //

महता भिक्षुसंघेन सार्धं द्वादशभिः शतैः / महद्भिर् बोधिसत्त्वैश् च अशीत्या च सहस्रकैः // dak_1.2 //

देवदानवगन्धर्वयक्षकिंनरमानुजैः / पुरस्कृत्यार्चितस् तस्थौ पूर्णेन्दुः खे ग्रहैर् इव // dak_1.3 //

भासयन् महता दीप्त्या पर्षद्गणं विलोकयन् / त्रिकालकल्याणं धर्मं दिदेश पर्षदां पुनः // dak_1.4 //

आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थम् सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म //

तदाहानन्द आत्मज्ञः कृताञ्जलिपुटो मुदा / सर्वज्ञं धर्मराजं तं नत्वा भक्तिपुरःसरः // dak_1.5 //

भगवञ् छ्रोतुम् इच्छामि नराणां हितकाम्यया / धर्माणाम् उत्तमं धर्मं वद वादीन्द्र वादिराट् // dak_1.6 //

इति संप्रार्थिते तेन शाक्यसिंहस् ततः स्वयम् / समाधिं विदधे तत्र धर्मसंदर्शनं वरम् // dak_1.7 //

अथास्य सुभ्रूविवराद् बभूव विनिर्गता सा प्रहतान्धकारा / सर्वासु दिक्षु प्रतिभासितेव मध्याह्नसूर्यस्य गभस्तिमाला // dak_1.8 //

अथास्य शिष्याः पर्षद्भिर् भगवन्तम् अवाकिरन् / सुपुष्पैर् वायुना घूर्णा नगं बाललता इव // dak_1.9 //

चचाल वसुधा साब्धिः षड्विकाराथ साचला / पपात पुष्पं मेघेभ्यो नेदुर् वाद्यं सुरर्षयः // dak_1.10 //

अथ देवगणाः सर्वे चायान्ति गृद्धकूटके / ब्रह्मशंकरशक्राश् च हरिः कामेश्वरादयः // dak_1.11 //

असुराः खगगन्धर्वाः किंनराश् च महोरगाः / लोकपालास् तथान्ये ऽपि धृतराष्ट्रादयस् तथा // dak_1.12 //

तत्र प्रदक्षिणीकृत्य भगवन्तं निपत्य च / देवाश् चान्ये गणाः सर्वे प्रतस्थुर् विस्मयात् पुरः // dak_1.13 //

अथ श्रीभगवाञ् छास्ता व्युत्थाय च समाधिना / पर्षद्गणं समालोक्य प्रहसन् तूष्णीम् अभूत् तदा // dak_1.14 //

अथानन्दो महाविज्ञः ज्ञात्वाधिवासनं मुनेः / आसनात् सहसोत्थाय भगवन्तम् उवाच सः // dak_1.15 //

भगवन् पातुम् इच्छामि त्वन्मुखाम्भोजनिर्गतम् / वाक्पीयूषं तृषार्तो ऽपि गिरिजं कम् इवार्दितः // dak_1.16 //

कश् चिन् महाधनो लोके विद्वान् भोगी च भाग्यवान् / दरिद्रो व्याधितो दुःखी शिल्पवान् को ऽपि बालिशः // dak_1.17 //

सुरलोके गतः कश् चिन् निरये चातिदारुणे / केन कर्मविपाकेन तादृक् स्याद् भगवन् कथम् // dak_1.18 //

तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकहितार्थक / मयि चानुग्रहं कृत्वा भवाम्भोधिनिमग्नके // dak_1.19 //

एवम् उक्ते ऽथ भगवान् उवाच भिक्षुसत्तमम् / सर्वलोकहितार्थाय स्वं प्रभावं प्रदर्शयन् // dak_1.20 //

महाभागेति सत्त्वानां यत् तच् चेद् धृदि रोचते / षट्सु गतिषु मग्नानां तच् छृणुष्व शुभाशुभम् // dak_1.21 //

श्रुतपूर्वं महाभाग सदसच् चेति जीविनाम् / चतुर्योनिषु संजाताः पृथक्कर्मगताः सदा // dak_1.22 //

अण्डजाः स्वेदजा औपपादुकाश् च जरायुजाः / खगाद्या अण्डजाः प्रोक्ता मानवाद्या जरायुजाः // dak_1.23 //

स्वेदजाः कृमिकीटाद्या देवाद्या औपपादुकाः / दृश्यन्ते कर्मणा चैते व्रतशीलेन धीमता // dak_1.24 //

तेषां गतिविशेषेण जायन्ते प्राणिनस् तथा / चतुर्द्वीपे महोत्साहे पूर्वकर्मविपाकगाः // dak_1.25 //

षड्गतौ संभवा भूता अधमोत्तममध्यमाः / भिक्षो कर्मविपाकेन गतिस् तेषां पृथक् पृथक् // dak_1.26 //

शुभाशुभम् इदं कर्म कायवाक्चित्तजं ततः / फलं भुक्ते जनस् तस्य लोकोत्तरे च लौकिके // dak_1.27 //

अथाह पुनर् आनन्दो भगवन्तं जगद्गुरुम् / पापानां मूललोकानां व्यक्तयस् त्वं प्रदर्शय // dak_1.28 //

कायवाङ्मनसा कर्म कानि कानि कृतानि च / यत् सर्वं तद् विशेषं च वद मे वादिपुंगव // dak_1.29 //

भगवान् आह //

शुभाशुभफलं नॄणां यच् छृणुष्व स्फुटं ततः / धर्मेण प्राप्यते मोदम् अमोदम् अशुभोद्भवम् // dak_1.30 //

पुनश् च विस्तरेण //

कायदुश्चरितं कर्म त्रिधा भिन्नं प्रकाशितम् / अदत्तप्राणातिपातः काममिथ्या तथैव च // dak_1.31 //

वाक्दुश्चरितं कर्म चतुर्विधं प्रकाशितम् / मृषापिशुनपारुष्यं संभिन्नेत्य् आह धीमता // dak_1.32 //

मनोदुश्चरितं कर्म त्रिधा भिन्नं विदुर् बुधाः / अभिध्या चैव व्यापादमिथ्यादृष्टि त्रयोविधाः // dak_1.33 //

यो दयां संत्यजेद् द्रोही परप्राणिवधादिना / ताडनहिंसकर्मादिः प्राणिपातस् तद् उच्यते // dak_1.34 //

परविषयलोभेन अन्यायेन बलेन च / चौर्यासत्य-अधर्मेण अदत्तग्रहणं विदुः // dak_1.35 //

व्रतिनी धर्मचारिण्यो ऽशुची वेश्याः परस्त्रियः / संबन्धिनि प्रसङ्गादि काममिथ्या तद् उच्यते // dak_1.36 //

विषयेषु च लोभेषु स्नेहेषु च भयेषु च / असत्येन प्रोबोधाय मृषावादस् तद् उच्यते // dak_1.37 //

स्वदोषम् गुप्तवान् येन परदोषः प्रकाश्यते / शापयेन् मर्मदिग्धेन पारुष्यवचनं विदुः // dak_1.38 //

दुर्वृत्तिव्यवहारेण बन्धुमित्रं विरुध्यते / स्वेन च गुणलब्धाय पैशुन्यं विदधा मतः // dak_1.39 //

यस्याग्रे भिन्नवादेन परचित्तम् अधीरयन् / परस्परविद्वेषं स्यात् संभिन्न विदधा मतः // dak_1.40 //

परद्रव्यादिसंपत्तिं लोभचित्तेन तर्कयन् / तद् अभिध्या इति ज्ञेयं दुर्जनः परिसेव्यते // dak_1.41 //

परदेहादिसंपत्तौ कुचित्तेन स शापयेत् / अमङ्गलं भवत्व् इति व्यापादो ऽयं स उच्यते // dak_1.42 //

परत्र पापपुण्यं न सुखदुःखं न विद्यते / दुर्बोधशास्त्रं श्रुत्वा च मिथ्यादृष्टिः स नास्तिकः // dak_1.43 //

एवं दशाकुशलेन पापेनैव स बालिशः / परत्र यमदूतेन नानापीडां प्रतप्यति // dak_1.44 //

तस्माच् चोक्तं मयानन्द देहवृक्षफलोदयम् / येन येन कृतं कर्म तेन तेन प्रभुञ्जते // dak_1.45 //

जन्मनाशजरावीचौ निमग्नाः प्राणिनो ह्रदे / तस्माद् भीया महाभीमे भुजङ्गे भीतिमान् इव // dak_1.46 //

देवासुरमनुष्याश् च तिर्यक्प्रेताश् च नारकाः / षगतौ जायते तस्मिञ् शुभाशुभेन कर्मणा // dak_1.47 //

इति श्रुत्वा अथानन्दो लोकानाम् अनुशोचयन् / भीतसंसारदुर्वारः संहर्षिततनुरुहः // dak_1.48 //

अथासनात् समुत्थाय मैत्रेयो दमितेन्द्रियः / लोकानां च हितार्थाय अवोचज् जगतां प्रभुम् // dak_1.49 //

भगवन् बुद्ध वीरेश जगदानन्दवर्धन / दाक्षिण्यम् फलसंपूर्णं भाषस्व विविधं वरम् // dak_1.50 //

पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः / बिम्बस्नानम् तथा गन्धं छत्त्रम् धात्वावरोपणम् // dak_1.51 //

मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् / प्रणामोज्ज्वालिकादीपं विहारं शयनासनम् // dak_1.52 //

क्षेत्रं विचित्रं चैवान्तम् इत्य् एता बहुधा भृशम् / कथा द्वाविंशतिः संख्या वद मे वादिराट् प्रभो // dak_1.53 //

शीलक्षान्तिं तथा वीर्यं ध्यानं प्रज्ञा तथैव च / षड् एव पारमिताः सर्वा भाषस्व भगवन् मुने // dak_1.54 //

भगवान् आह //

साधु साधु त्व मैत्रेय लोकानां हितकारक / पुण्योत्साहकथां भव्यां शृणुष्व मैत्रमानस // dak_1.55 //

मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि / पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते // dak_1.56 //

मानुष्यं दुर्लभं प्राप्य विद्युत्फेनोर्मिभङ्गुरम् / मानुस्ये ऽप्य् अक्षणप्राप्ते तदा पुण्यं कथं स्मरेत् // dak_1.57 //

मानुष्यत्वं समासाद्य तर दुःखमहानदीम् / पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम् // dak_1.58 //

यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् / पुण्यं तद् वर्धयस्वेह यस्माद् धेतुः सुखस्य ते // dak_1.59 //

मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः / तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम् // dak_1.60 //

लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् / तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः // dak_1.61 //

विरमत पापतः कुरुत पुण्यम् उदारतरं दमयत दुर्दमं विषयलोलमनस्तुरगम् / भवत मुनीन्द्रवत् परहिताभिरताः सततं दशति न यावद् एव मरणाहिर् असह्यविषः // dak_1.62 //

इति द्वाविंशत्यवदानकथायां पुण्यप्रोत्साहनकथा प्रथमः परिच्छेदः //

ii. धर्मश्रवणप्रोत्साहनकथा

जलनिधिकूर्मकर्णयुगरन्ध्रसमागमवत् क्षणम् अनवाप्यम् अद्भुतम् इमं समवेत्य चलम् / प्रशमपुरैकवर्म विनिपातभयापहरं शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम् // dak_2.1 //

यद् दुर्लभं कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् / तत् साम्प्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः // dak_2.2 //

पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे / यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलम् // dak_2.3 // न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर् अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः / मुनिसवितरि प्रज्ञालोके न चानुदिते जिने सनरविबुधैः शक्यम् पातुं मुनीन्द्रवचो ऽमृतम् // dak_2.4 //

तस्मात् कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् / श्रोतव्य एव प्रयतेन धर्मो यस्माद् अतः सर्वगुणा भवन्ति // dak_2.5 //

मौनीन्द्रं वाक्यरत्नं जनयति सुधियाम् एतद् आदौ प्रमोदं श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति / चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम् // dak_2.6 //

हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् / तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः // dak_2.7 //

इति द्वाविंशत्यवदानकथायां धर्मश्रवणप्रोत्साहनकथा द्वितीयः परिच्छेदः //

iii. मनुष्यदुर्लभकथा

यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् / चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफलीकरोति // dak_3.1 //

यो मानुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर् मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति / सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः // dak_3.2 //

नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः / अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम् // dak_3.3 //

नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् / यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु // dak_3.4 //

एकक्षणकृतात् पापात् अवीचौ कल्पम् आस्यते / नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा // dak_3.5 //

अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् / महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् // dak_3.6 //

इति द्वाविंशत्यवदानकथायां मनुष्यदुर्लभकथा तृतीयः परिच्छेदः //

iv. दानकथा

अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि / कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेषम् // dak_4.1 // आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः / वाक्षौभाग्यं कान्तिर् आरोग्यम् आयुर् एतद् दानाद् इष्टम् इष्टण् फलं च // dak_4.2 //

अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः / भोज्यं रत्नादिहाराः पुरनगरमही चेशिता देवलोकं संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य // dak_4.3 //

यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश् चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः / दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास् तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम् // dak_4.4 //

अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर् नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः / भृत्यैः साभरणैः कृताञ्जलिपुटैर् अभ्यर्च्यमानाः सदा तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् // dak_4.5 // हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा / मध्ये ऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस् तद् दानस्य फलम् वदन्ति मुनयः शार्दूलविक्रीडितम् // dak_4.6 //

प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते वीनावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते / यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् // dak_4.7 //

दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बहुभिः समुपेत्य सद्भिः / कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ // dak_4.8 //

भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु / उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् // dak_4.9 //

दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानम् नैकसुखोपभोगसुमुखं सन्मित्रम् आत्यन्तिकम् // dak_4.10 //

श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः कर्णासन्नविशालचारुनयाः केशान्तसक्तस्रजः / यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस् तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः // dak_4.11 //

पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं श्रीमत्काञ्चनभाजने विनिहितं भन्धूकताम्रं मधु / कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः // dak_4.12 //

इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् / त्रिभवाग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः // dak_4.13 //

इति द्वाविंशत्यवदानकथायां दानकथा चतुर्थः परिच्छेदः //

v. पुण्यकामकथा

यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा / तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य तु पुण्यम् एतत् // dak_5.1 //

अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर् नागाश्वपत्तिरथसंकुषुभितैर् बलौघैः / उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति // dak_5.2 //

कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः / यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतप्रशंसा // dak_5.3 //

आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति / धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकात् // dak_5.4 //

यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम् // dak_5.5 //

विचित्रपद्मोत्तममध्यसंस्थितः सुरासुरेन्द्रादिसदानमस्कृतः / यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः // dak_5.6 //

यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च / संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम् // dak_5.7 //

रूपं वीर्यं च शिल्पं च विहाय विवशा नराः / परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः // dak_5.8 //

पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् / पुण्यम् अन्यैर् अहार्यत्वाद् धनानां परमं धनम् // dak_5.9 //

ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश / ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः // dak_5.10 //

संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा / पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा // dak_5.11 //

प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः / क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते // dak_5.12 //

इति श्रुत्वाथ मैत्रेयः सत्यम् एव मुनेर् वचः / भीतिसंसारदुर्वारः संहर्षिततनुरुहः // dak_5.13 //

ततः स मैत्रेयो हर्षैः श्रुत्वाथ वचनं मुनेः / जिनपादाम्बुजं नत्वा इदम् आह तथागतम् // dak_5.14 //

स्थापनं बुद्धबिम्बानां जीर्णोद्धारादिकं पुनः / कीदृशं स्यात् फलं तेषां चैत्यानां जिनधातुकाम् // dak_5.15 //

भगवान् आह //

जीर्णोद्धारक स्तूपानां बिम्बानां सुगतस्य च / ऋद्धिबलसमायुक्तश् चक्रवर्तिसमो भवेत् // dak_5.16 //

पुण्यवान् बलवान् भूत्वा न तस्य विकलेन्द्रियः / ततश् चान्ते सुखं भुक्त्वा संबुद्धत्वं प्रजायते // dak_5.17 //

मैत्रेय आह //

भगवञ् जिनशार्दूल साधु श्लाघ्यो ऽसि यद् विभो / केन चित् कृतम् अस्तीति वद मे ज्ञानसागर // dak_5.18 //

एवम् उक्ते ऽथ भगवांल् लोकानां विस्मयाय च / निमित्तम् एकम् अकरोत् तूष्णीं भूत्वात्र तिष्ठति // dak_5.19 //

तदा विद्युद् इवाकाशाद् आगतः किरणोज्ज्वलः / अवभास्य सभां सर्वांस् तेषां कौतूहलम् अभूत् // dak_5.20 //

मैत्रेय आह //

भगवन्न् इदम् आश्चर्यं को हेतुर् इदम् अद्भुतम् / कस्यैष विषयाभास आगतः किरणोज्ज्वलः // dak_5.21 //

भगवान् आह //

मैत्रेय रत्नव्यूहस्य विमानस्य नृपस्य च / प्रभा आगत्य सर्वत्र भासयन्ति समन्ततः // dak_5.22 //

मैत्रेय आह //

भगवन् नूनम् अस्येयं प्रभयागतम् ईदृशम् / केनेदृशप्रभां प्राप्तो हेतुभूतं च मे हृदि // dak_5.23 //

भगवान् आह //

अत्रेदानीन् तु मैत्रेय दर्शयिष्याम्य् अमुं नृपम् / पूर्वस्य कुशलेनापि प्रभावो ऽस्य महर्द्धिकः // dak_5.24 //

अथ स राजा रत्नव्यूहो रत्नविमानम् आरुह्य गगनदेशाद् ऋद्ध्या येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य सहसा तत्रानुप्राप्तो ऽभूत् //

अथ स राजा भगवन्तं द्वात्रिंशता लक्षणैः समन्वागतं सुवर्णवर्णं सूर्यसहस्रातिरेकप्रभाविराजितगात्रं भगवन्तं दृष्ट्वा प्रसादजातो विमानाद् अवतीर्य त्रिप्रदक्षिणीकृत्य भगवतः पादयोः प्रणिपत्यैकान्ते स्थितवान् //

अथ पप्रच्छ भगवाञ् जानन्न् एव नृपागमम् / कुशलं तव राजेन्द्र बाह्याभ्यन्तरम् एव च // dak_5.25 //

वदेति त्वं महाभाग संगतं धर्मवत्सलः / मोक्षदं नृपशार्दूल हितैषी सत्त्ववल्लभः // dak_5.26 //

अथ सो ऽञ्जलिम् आबध्य कृत्वा प्रदक्षिणत्रयम् / निवेद्य चोपहाराणि प्रणम्योवाच तं गुरुम् // dak_5.27 //

एवं विचिन्त्यमानस्य भगवन् कुशलं त्वया / श्रेयो ऽर्थिना मे सर्वत्र गुरुणैवान्त्यवासिनः // dak_5.28 //

नान्यकार्यं मे भगवन् तत् तव दर्शनेच्छया / श्रवणाय सदा धर्मं तेनाहम् इह आगतः // dak_5.29 //

भगवान् आह //

देशयिष्यामि ते सम्यक् त्वम् असि नृपसत्तम / धर्माणां नीतिभूतानां भाजनत्वं महीभुज // dak_5.30 //

शृणु राजन् महाबाहो राज्ञां धर्मवरोत्तमम् / राजधर्मबलं रक्ष नीतिमार्गं समाचर // dak_5.31 //

तद्यथा //

यथैव वृक्षं फलिनं सपुष्पं सण्रक्षयेत् पौरजनान् अजस्रम् / आधारभूतान् नृपतेश् च नित्यं भूपाल इत्थं कुरु सर्वतः स्यात् // dak_5.32 //

फलोदयं पाकवशाद् यथैव गुणो ऽस्ति स्वादं च रसं तथैव / बलो जयश्री न भवेन् नरेश इत्थं पि ते च प्रबलो जनानाम् // dak_5.33 //

पुनश् च शृणु महाराज[न्] //

पापे प्रवर्तते बालो जनः शून्यं विलोकयन् / रात्रौ घनान्धकारायां कालो ऽयं पापकर्मणः // dak_5.34 //

कृतात्मानो ऽभिसन्त्य् एव मुनयो दिव्यचक्षुषः / क्व चित् किं चन शून्यं वा दिक्षु पूर्णास् तपोधनैः // dak_5.35 //

tatas tx x niratātmā bhava bhūmipasattama / varaṃ kapālam ādāya dviṣadveśmaniveśana // dak_5.36 //

पापकारी सुखेच्छश् च यत्र यत्राभिगच्छति / तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर् विहन्यते // dak_5.37 //

मनोरथः शुभकृतां यत्र यत्रैव गच्छति / तत्र तरापि तत्पुण्यैः फलार्घेणाभिपूज्यते // dak_5.38 //

तस्मात् सर्वं प्रयत्नेन त्यक्तव्यं पापसंचयम् / निर्जित्य द्वेषसंरम्भं शुभे कर्म समाचर // dak_5.39 //

न च द्वेषसमं पापं न च क्षान्तिसमं तपः / तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः // dak_5.40 //

मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते / न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते // dak_5.41 //

न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः / मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः // dak_5.42 //

विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा / दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा // dak_5.43 //

जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि / वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् // dak_5.44 //

अनिष्टकरणाज् जातम् इष्टस्य च विघातनात् / क्रोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च // dak_5.45 //

तस्माद् द्वेषं विनिर्जित्य चित्तं रक्ष प्रयत्नतः / न शिक्षा रक्षितुं शक्या चलं चित्तम् अरक्षता // dak_5.46 //

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् / करोति याम् अवीच्यादौ मुक्तश् चित्तमतङ्गजः // dak_5.47 //

बद्धश् चेच् चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः / भयम् अस्तंगतं सर्वं सर्वकल्याणम् आगतम् // dak_5.48 //

तस्माच् चित्तं समाधाय स्मृत्वा रक्ष प्रयत्नतः / चित्ताद् एव हि सर्वत्र भयं भद्रं च जायते // dak_5.49 //

चित्तरक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः / एवं बुद्ध्वा सदा राजन् धर्मेण पालय प्रजाः // dak_5.50 //

पुनश् च महाराज //

यो ऽसौ द्रुमो दामफलं चिनोति न विन्दति स्वादु च हन्ति बीजम् / क्षिणोति देशं करदुर्वहत्वात् धर्मं नृपो वै न च नन्दतीति // dak_5.51 //

तस्माद् अनीत्या न दण्डयेत् प्रजा न्यायेन राज्यं प्रतिपालयस्व / नृपाश् च येषां गुणम् आवहन्ति तेषां प्रजानां प्रवहन्ति दुःखम् // dak_5.52 //

पुनश् च महाराज //

स्वदुःखदुःखी परदुःखतो ऽपि सुखी स्वसौख्यैश् च परैः समानम् / इत्थं नृपा ये सततं भवन्ति राज्ञां सदा सर्वगुणा भवन्ति // dak_5.53 //

धर्मेण राज्यं परिपूरयन्ति धर्मेण लक्ष्मीः सततं वहन्ति / धर्मेण लोकान् परितर्पयन्ति धर्मेण कामान् सहसा लभन्ते // dak_5.54 //

पुनश् च //

दानेन भोगा न परोपतापान् नाज्ञानमोहात् परलोकवन्तः / परप्रतापाद् यद् इहैव भोगास् ते प्राप्नुवन्ते परलोकदुःखाः // dak_5.55 //

आत्मा नदी भारत पुण्यतीर्था सत्योदका शीलतटा दयोर्मिः / अत्राभिषेकं कुरुते प्रवीण न वारिणा शुध्यति चान्तरात्मा // dak_5.56 //

सत्येन शौच्यं न जलप्रवेशाद् देहस्य बाह्यमलम् एव नाशम् / सत्येन तिष्ठन्ति सदैव देवाः स्थितिः पृथिव्याः खलु एव सत्यैः // dak_5.57 //

शीलेन स्वर्गा न गिरिप्रपातात् शीलेन तुल्या न भवन्ति रक्षाः / दुःशीलशैलात् स्खलिता मनुष्याः पतन्ति दुःखेषु महार्णवेषु // dak_5.58 //

ज्ञानेन मोक्षं न शरीरशोषात् वर्षेण आर्द्रं न परं निदाघैः / ज्ञानैर् विहीनः पुरुषः स एव यथैव पङ्कस्य सरस्सु स्नातः // dak_5.59 //

इति श्रुत्वाथ राजेन्द्रः संहर्षिततनूरुहः / संसारे च महाघोरे कथम् उत्तारयाम्य् अहम् // dak_5.60 //

अथासौ भूपतीन्द्रेशः संसारभयभीतया / प्रसन्नो भगवति बुद्धे चकार शरणं पुनः // dak_5.61 //

भगवन् बुद्ध वीरेश श्रुत्वा मे रोचते मनः / संबोधौ व्याकरोषि त्वं याचयामीत्य् अहं प्रभो // dak_5.62 //

अथ श्रीभगवाञ् छास्ता ज्ञात्वा तस्याशयं शुभम् / व्याकार्षीद् अचिरेणैव तथागतो भविष्यसि // dak_5.63 //

अर्हन् रत्नाकरो नाम संबुद्धो लोकनायकः / धर्मराजो जगन्नाथः सर्वज्ञो ऽर्हन् मुनीश्वरः // dak_5.64 //

सर्वविद्याधिपः शास्ता गुणाकरो भविष्यसि / बुद्धकार्यं ततः कृत्वा दीर्घकालं च स्थास्यति // dak_5.65 //

अथ स भूपतीन्द्रेशस् तस्य सत्याशिषं प्रतिग्राह्यादौ प्रणम्य प्रमोदाद् गमिस्यामीत्य् आरोच्य विमानम् आरुह्य ऋद्ध्या लब्धलाभ इव वणिक् स्वगृहं प्राक्रमत् श्रीस्वम् एव राज्यम् //

इति द्वाविंशत्यवदानकथायां पुण्यकामकथा पञ्चमः परिच्छेदः //

vi. जीर्णोद्धारणबिम्बकथा

ततः कौतूहलजाता भिक्षवो भगवन्तम् एतद् अवोचत् //

भगवन् केन पुण्येन कुशलेन च कर्मणा / स राजात्यभिरूपो ऽयं दर्शनीयमनोहरः // dak_6.1 //

कस्या नगर्याः सरूपो मानुजस्येदृशं वरम् / लावण्यर्द्धिसमापन्नो देवस्यापि सुदुर्लभः // dak_6.2 //

भगवन् आह //

भिक्षवो ऽसौ महीपालो महापुण्यप्रभोज्ज्वलः / वैशाल्याश् च नगर्याश् च रत्नव्यूहो नृपोत्तमः // dak_6.3 //

नगरी कीदृशी स्याच् च ऋद्धा स्फीतमनोरमा / सुभिक्षा रमणीया च सुजनैः कोविदैर् वृता // dak_6.4 //

षोडशयोजनायामव्यायामं च तथैव च / नानोत्सवसमायुक्ता दूराद् दूरगदुर्जना // dak_6.5 //

यथा पौरजनचित्तं तथा राज्ञः समं मनः / विशालोद्यानसंपन्ना पुष्करिणीसुशोभिता // पार्श्वे तु वादिता एव पक्षिणो भृङ्गनिस्वनैः // dak_6.6 // महिषी तस्य संपन्ना शुभव्यूहः स तत्सुतः / दर्शनीयो ऽभिरूपश् च पुष्पधन्वेव रूपवान् // dak_6.7 //

सक्रोपचारकं सर्वं राजलक्ष्मीं च प्राप्तवान् / धनुर्विद्यासमायुक्तः शास्त्रविद्यासुपारगः // dak_6.8 //

महर्द्धिबलसंपन्नश् चक्रवर्तिसमप्रभः / शास्त्रागमविधिज्ञश् च कृतकृत्यः स विज्ञवान् // dak_6.9 //

ईदृशो राजरत्नेशः सर्वलोके प्रतापवान् / पूर्वकुशलकर्मणा प्राप्तवान् ईदृशं फलम् // dak_6.10 //

मैत्रेय उवाच // भगवन्न् अपरं केन कुशलमूलेन समन्वागतः स राजा ईदृशो विभूतिर् आसीत् केन कर्मणेति //

भगवान् आह // मैत्रेय शृणु /

भूतपूर्वं स मैत्रेय पूर्वजन्मनि नाविकः / नित्यं समुद्रतीरेषु वसति नाविकः स च // dak_6.11 //

नागता वणिजः के चित् तस्य दुर्दैवयोगतः / तस्माद् दुःखी महाकष्टी तरपण्यं ग्रहणं न हि // dak_6.12 //

अथ स चिन्तयाम् आस हा हा कर्म ममाधुना / किं कर्तव्यम् इदानीं मे न प्राप्तम् अन्नम् आदिकम् // dak_6.13 //

कस्यापि ईदृशं दुःखं मा भवतु कदा चन / इत्य् एवं मनसा चिन्त्य जिनं स्मरन् स तिष्ठति // dak_6.14 //

ततः स नाविकस् तत्र स्थातुं न रमते मनः / तस्मात् समुद्रतीराद् अनुचङ्क्रम्यमाने कस्मिंश् चित् स्थाने तथागतधातुस्तूपजीर्णनातिविस्तरं चैत्यम् एकं ददर्श //

तं चैत्यं गोपालकाः क्रीडया पाषाणेष्टकाचर्चितभग्निताश्चैत्योदरं दृष्ट्वा विमृश्येत्य् उवाच //

केन पापात्मना येन चैत्यभङ्गं च यत् कृतम् / अशोभनम् इदं चैत्यं संस्कारं क्रियते मया // dak_6.15 //

तत् संस्कारं कृतं तेन यत्र भग्नादि तत्र च / शीर्णचर्चितस्थानेषु शिलयेष्टाकयापि च // नाविक इति कृत्वा च पूर्ववच् छोभनं कृतम् // dak_6.16 // अथ बुद्धप्रभावेन तस्मिन् काले च तत्र ये / त्रयःशतवणिक्पण्याश् चायान्ति तस्य संसदि // dak_6.17 //

सार्थवाहसमायुक्ता नदीशोत्तरणाय च / वणिजस् ते तम् आहूय चैनम् ऊचुर् वणिग्जनाः // dak_6.18 //

भो नाविक वयं रत्नद्वीपं गच्छामः सर्वथा / भवान् नेतात्र संवीक्ष्य समुद्रात् पालयत्व् अतः // dak_6.19 //

इत्य् आकर्ण्य स धीवरो धीर आयव्ययं चाभिवीक्ष्य वहनं तेषां पुरतः समारोप्याह //

भवन्तो ऽत्र वहनेषु स्थातुम् अर्हथ संप्रति / स्वदेवतां स्मृत्वा धैर्यम् आलम्ब्य दृधं निवासत // dak_6.20 //

ते तथेति कृत्वा त्रयःशत वाणिजा वहनं प्रणम्य च समुद्रं संप्रार्थ्य वहनम् आरुह्य क्रमेण संतर्तुम् आरब्धाः //

तदा प्रमुदितमानसाः सर्वे च ते वणिजो महोत्साहं प्रमोदवन्तः / नियतम् अस्माकम् उत्तमयात्रासिद्धिर् इति बभूवुः //

ततः क्रमेण चावजगाहिरे विविधमीनकुलविचरिततरङ्गफेनावलीअगाढतरं समुद्रं नीलं विमलखड्गाभिनीलम् इव विगतमेघं सूर्यांशुतापाद् इव खं विलीनं समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यं क्रमेण प्राप्ताः // तदा सायाह्नसमयम् अभूत्, तीरं प्राप्तुं सुदुर्लभम् /

मृदुकिरणसवितरि काले, महोत्पातं परमभीषणं गरुत्मदाशीविषभीमम् उल्लोलम् अभूत् //

विभिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः / उत्पातवाताकलितैर् महद्भिर् युगान्तकालम् इव संकटो ऽभूत् // dak_6.21 //

विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षाः आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः // dak_6.22 // ततः स नाविकः ते वाणिजान् स्वजीवे निराशिनो भयविह्वलांश् चाभिवीक्ष्य धैर्यम् अवलम्ब्य तान् उवाच // अवधीरयथ मा साहसं मा भैषी मा भैषी बुद्धं स्मरथ बुद्धं स्मरथ, इति वाणिजाग्रे निवेदयति // तच् छ्रुत्वा ते वाणिजा बौद्धेति नामस्मरणं नमस्कारं कृतवन्तः //

इत्य् उक्ते सति बुद्धानुभावेन महोत्पातः क्षणाद् विलयं गतो ऽभूत् // तद् दृष्ट्वा तान् सानन्देन तीरं तारयति स्म //

अथ ते वाणिजास् तम् आहुः // भो नाविक साधु तव प्रसादात् तीरम् अनुप्राप्तम् // इत्य् उक्त्वा महता सत्कारेण बहुमानपुरःसरम् अतिशयेन तरपण्यं दत्त्वा, गच्छामेत्य् आरोच्य ततः संक्रामन्ति स्म // नाविकस् तान् समादाय (दक्: 34) वहनम् आरोप्य प्रतिनिवृत्य स्थितः // तदा नाविकस् तरपण्यकार्षापणं संप्राप्य वस्त्रान्नपानसुसमृद्धः सुखेन तिष्ठति //

भूतपूर्वं भिक्षवः स रत्नव्यूहो नाविकजन्मनि तथागतधातुस्तूपजीर्णोद्धारणकुशलमूलेन तस्य राज्ञ ईदृशं रूपम् मनुष्यातिक्रान्तम् ऋद्धिप्रतिभानं प्राप्तम् //

अथ भिक्षव ऊचुः // भगवन् साधु सुगत प्रबोधा वयं स राजा श्लाघनीयः, पुनस् तस्य कीदृशं प्रतिभानं वद //

भगवान् आह // भिक्षवः स राजा धर्मेण राज्यं कारयति / सर्वपौरान् परिपालयति पितेव पुत्रं सर्वलोकाः कीर्तियशःशब्दं शृण्वन्ति // यथान्यायं कृतं कार्यं दानं अर्थिभ्यो दत्तवान् अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्य इत्थं भिक्षवः स राजा स्वराज्यविषये सहस्राक्ष इव स्वस्त्ययनं कृतवान् //

ततः स राजा एकस्मिन् समये सर्वं संनिपात्य सभां कारितवान् //

सदसि तस्य नृपतेर् भिक्षुर् एकः समागतः / दुःशीलदुष्कृतेनैव कुष्ठाविष्टेन खञ्जकः // dak_6.23 //

बीभत्सरूपदुर्गन्धमलिनवस्त्रप्रावृतः / निन्दायाः सर्वलोकेषु वाक्सिद्धिश् च न विद्यते // dak_6.24 //

तं दृष्ट्वाथ स राजापि विचार्यैनं प्रपृच्छति / कस्माद् अत्रागतो भिक्षो कथं ते पादखञ्जकः // dak_6.25 //

भिक्षुर् उवाच //

अनेन किं महाराज मम दुष्कृतकर्मणा / बाल्ये सपादखञ्जो मे कुष्ठाविष्टशरीरकः // dak_6.26 //

राजोवाच //

प्रव्रज्याग्रहणेनापि कथम् इत्थं शरीरकः / न दण्डपात्रं न च चीवरं ते नाम्नैव _ भिक्षुर् इहागतस् त्वम् // dak_6.27 //

भिक्षुर् उवाच //

कथं हि वेद्मि नरराजराज न दण्डपात्रं न च चीवरं मे / अभाग्य एवं कुशलैर् विहीनः कृपां कुरु त्वं नरदेवदेव // dak_6.28 //

राजोवाच // भिक्षो दक्षिणीयो यशसा सुशीलो भव शीलयुक्तेनानुचर / इत्य् उक्त्वा स राजा दण्डपात्रचीवरादिकं दत्त्वा महता सत्कारेण भोजयति स्म // ततो भिक्षो राजसंदर्शनमात्रेण खञ्जपादस्नायुनः कोमलाङ्गो जातो ऽभूत् //

क्रमतः कुष्ठादि विलयं गतम् / किंचिच्छेषमात्रो नास्ति // ततः स भिक्षुस् तस्मात् स्थानाद् अन्यप्रदेशं गतवान् //

ततः सर्वे जनाश् चाश्चर्यप्राप्ता एवम् आहुः // अहो महाराजः पुण्यवान् धर्मनिधानभूतः, तेन दर्शनमात्रेण तस्य भिक्षोः कुष्ठादिपादखञ्जप्रश्रब्धो ऽभूत् // तदा राजानुविचिन्तयति // किंहेतुर् माया भूतो वा तस्य भिक्षोः, मम विस्मयः प्राप्तवान् //

मैत्रेय उवाच // भगवन् कथं हेतुभूतः स भिक्षुस् तस्मिन् माययावागताः //

भगवान् आह //

शृणु मैत्रेय तस्येदृग् निमित्तं कथयामि ते / न मायया स्वभाविकैः स भिक्षुर् याचितुं गतः // dak_6.29 //

किं तु भिक्षव एतेन भिक्षुर् दर्शनमात्रकैः / पादखञ्जविनिर्मुक्त इत्थं धर्मतनुर् नृपः // dak_6.30 // ततो हि भिक्षवो ऽवोचन् परमाश्चर्यम् अद्भुतम् / भिक्षुभावे स्थितो वापि पादखञ्जम् अभूत् कथम् // dak_6.31 //

राजापि न देवभूतो न च ऋषिसिद्धराक्षसः / मनुष्यभूतो राजापि कथं प्रतिभानाम् ईदृशम् // dak_6.32 //

भगवान् उवाच //

मात्रपकारिः स भिक्षुः श्रोतुम् इच्छसि तत्कथाम् / कथयाम्य् अस्य वृत्तान्तं शृणुथ भिक्षुपुङ्गवाः // dak_6.33 //

ये मानवाः प्रमादेन मात्रपकारम् आचरन् / ब्रह्मभूतो हि पितरौ देवदेवस् तथा पुनः // तस्मात् कारणान् मा खेदं कारायेत् पितराव् अपि // dak_6.34 // ये कुलेषु मातापितरौ सम्यक् मान्यते सम्यक् पूज्यते सम्यक् सुखेन परिह्रियते // अथवान्नेन पानेन वस्त्रशय्यासनेन च तया सपरिचर्यया मातापित्रोश् चानिन्दितेन सत्कारं कर्तव्यम् // तत् कस्य हेतोः //

चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः / राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात् // dak_6.35 //

भिक्षोस् तस्य पूर्वचरितानि श्रूयतां कथयामि //

भूतपूर्वं भिक्षवः कावेरी नाम नगरम् आसीत् / तस्मिन् नगरे स पूर्वकुशलदानहीनात् परमदारिद्रः कुशीदो नाम श्रेष्ठी प्रतिवसति स्म //

तस्य द्वौ पुत्राव् अस्ति / एको बालश् चैको दहरः / तदा पितरि कालगते, दहरपुत्रेण मातरं विद्वेषितः / नित्यं क्रोधेन परुषवचनेन वाचयति //

चान्नपानं परीतमात्रं दत्त्वात्मना भक्षितं सदा // तदा माता मनसि व्यथया तया पुत्रम् उवाच // पुत्र ते किं कृतं तवानुजबालो ऽजानकः स्तन्यं पिबत्य् अल्पान्नेन कथं वर्तयिष्ये // तच् छ्रुत्वा तेन मातुर् ईर्ष्यया क्रोधेन मातरं पादेन पृष्ट्वा निर्गतं वचनम् आः किम् // तथापि मातुर् हृदये दुःखशल्यो ऽपि स्वयं प्रशान्त्य चोक्ता / मा मे पुत्रकास्य कर्मणो विपाकम् अनुभवेथा इति चिन्त्य स्थिता //

अथ स श्रेष्ठिपुत्रो रोषणप्रश्रब्धाभूतत्वात् सरोषेण तां मातरम् उवाच // रे रे मात मा तिष्ठ अत्र मे गृहे, यत्रेप्सितं तत्र गच्छेति // माता उवाच //

कुत्र गन्तव्य मे पुत्र को ऽपराधो ऽस्ति मे सुत / मा वदसीदृशं वाचं मा क्रोधं सहसा व्रज // dak_6.36 //

ततः स दहरपुत्रेण मातुर् वचनम् अवचनं कृत्वा स्वाधीनेनावस्थितः // अथ स तस्य माता कनिष्ठपुत्रं प्रतिपाल्य तिष्ठति //

तदनन्तरं तस्य दहरपुत्रस्य गृहाचारकाविप्रहीनभूतत्वात् महत् कष्टतरं दुःखम् अभूत् // तस्य पादे विकारो भूत्वा कुष्ठाविष्टखञ्जपादो भवति // किं चित् कार्यकर्माणि न सुकराणि कर्तुम् // अशक्तत्वात् क्रमेण स्वदुष्कृतानि कर्माणि परिवेष्ट्य दरिद्रो भवति //

ततो विषयहीनत्वात् सन्मतिहीनम् एव च / आस्वस्थ्यम् अग्निदाहेनेव दुःखम् एव प्राप्तवान् // dak_6.37 //

अथ स चिन्तयाम् आस, हा हा कष्टतरं मम / अधुना किं करिष्यामि कुत्र गच्छाम्य् अहं नु भो // dak_6.38 //

किं चिद् अपि भिक्षुर् अहं भवेयम् इति वक्ष्यामि, इत्य् उक्त्वा व्रीडया तेन मातरं न संभाष्य स्वगृहात् प्रक्रान्तः // ततो पक्षत्रयात्ययेन स कालगतो ऽभूत् //

ततो मातर्य् अपकारकृतेन कर्मणो विपाकेन नरकेषूपपन्नः // ततो यमदूताः परिगृह्यान्यनरकेषु क्षिपन्ति // तस्माद् उत्क्षिप्य अयोगृहसमीपे नीयन्ते परमविस्तरमहोच्छ्रय स मातुर् अपकारी द्वारात् प्रेष्यते //

ततो ऽभ्यन्तरं प्रविष्टः / तत्रास्य द्वारं पिहितम् / ततो ऽभ्यन्तरं प्रविष्टः प्रविष्टमात्रेण तस्य मस्तके ऽयोमयम् चक्रं महाप्रमाणं तस्य मूर्ध्नि प्रादुर्भूतम् // द्वारकपाटं पिहितम् / तस्मात् पापाद् आदीप्तं चक्रं भ्रमति संप्रज्वलितम् एकज्वालीभूतम् / तस्य शिरसि यत् पूयशोणितं प्रसरति, सो ऽस्याहारः // ततः स कथयति //

अहो हि वेदना कष्टं केनैव दुष्कृतेन च / मे रक्षकजनः कश् चिद् आगच्छति त्व् उदीरितः // dak_6.39 //

दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते / तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते // dak_6.40 //

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् // dak_6.41 //

तेन कर्मविपाकेन चक्रं वहति मस्तके / आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम् // dak_6.42 //

इति //

अथ तस्मिन् गृहे आकाशाच् छब्दो निर्गतः //

कस् त्वां रक्षति दुष्टत्वं पापिनं मातृदूषिणम् / त्वद्विध आगते चात्र तस्माद् दुःखात् प्रमुच्यते // dak_6.43 //

तदनन्तरं शतवर्षपर्यन्ते तथाविधपुरुषस् तस्मिन्न् अयोमयगृहं समागतः, प्रविष्टमात्रेण तस्माच् च्युत्वा तस्य नवागतपुरुषस्य मूर्ध्नि चक्रं प्रादुर्भूतम् //

स कुशीदस्य पुत्रस् तस्मान् नरकान् मुक्त्वा पुनर् एव दरिद्रकुले जातः / तत्रैव मातापितरौ कालगतौ, कालगते सति एकाकीभूतः पुनर् एव पापशेषं न नश्यति पादखञ्जकुष्ठाविष्टो भवति // इहैव जन्मनि याचको भूत्वा भिक्षुर् अहम् इति वक्ष्यामीति चिन्तयित्वा स्वगृहात् प्रक्रान्तः //

एवं भिक्षवः स दुःशीलभिक्षुस् तेन मातृदोषेण पातकेन कुष्ठाविष्टपादखञ्जो भवति / मायया नैव तस्य कर्मविपाकेन भवति //

अथ तस्य भ्राता दहरानुजो भूत्वा मातरं सम्यग् मानितः पूजितः सम्यक् परिह्रियते स्म // तेन पिण्डप्रदानकृतेन पितृलोकान् संतर्पितः // तस्य पुण्यानुभावेन महति राजवंशे रत्नव्यूहस्य नृपतेः पुत्रो भूत्वा स शुभव्यूहराजकुमार आसीत् // तस्मात् तर्हि भिक्षवो येषां मातापितृष्व् अपकारं मनसापि मा चिन्तयेद् इति // एवम् उक्ते स मैत्रेयः संहर्षितरोमकूपजातो भगवन्तम् एतद् अवोचत् // प्रब् धो ऽहं भगवन् प्रबोधो ऽहं सुगत / ईदृक्पापरतेन, इत्थम् अनुभूतम् / केनोपायेन यत्नेन तस्य भिक्षोः पातकक्षयो भवति //

भगवान् आह // येषां मनुष्याणाम् इहैव संसारे यतश् च्युत्वा मातुः कुक्षाव् उपपन्नः सा माता दशमासपर्यन्तं धृत्वा कष्टेन प्रसूता स्तन्यपानेन प्रतिपालयति / ईदृशीमातरि अपकारकृते दुष्करकृतैर् न च मुच्यते //

अथ पुनर् अपि भगवान् आह // मैत्रेय रत्नव्यूहो नाम भूपालः परमपुण्यवान् स पुनर् अपि कस्मिंश् चिद् दिने चिन्तयाम् आस //

अहं वृद्धो ऽतिजीर्णाङ्गः स्थास्याम्य् एव कियच् चिरम् / अवश्यं दैवयोगेन यास्यामि मरणं ध्रुवम् // dak_6.44 //

सर्वम् अनर्थं राज्यं विषयोपभोग्यं महाघोरभयकरं मृत्युसर्पभयाकुलम् अनित्यम् असारकम् इति विचिन्त्यागार अध्यावसितुं मनो न रमते // तदा स राजपुत्रं शुभव्यूहं च मन्त्रिणं समामन्त्र्यैवम् आह //

पुत्र शुभव्यूह

अत्राहं जरसाक्रान्तो नूनं स्याज् जीर्णितेन्द्रियः / तदा रोगाभिभूतो ऽपि व्रजेयं मरणं ध्रुवम् // dak_6.45 //

तत् प्रव्रजितुम् इच्छामि श्रेयः श्लाघ्येन वर्त्मना / पुरा मृत्यू रिपुं हन्ति गृहसंरक्तम् एव वा // dak_6.46 //

तस्मात् संसारभीतान् मे बहुधा भयशङ्कया / नात्र स्थातुं मनो रम्य गच्छामि बुद्धम् आश्रयम् // dak_6.47 //

भो पुत्र शुभव्यूह मम पूर्वपुण्यानुभावेन गौतमेन शौद्धोदनेन मह्यं व्याकरोति / अचिरेण तथागतो भविष्यसि तेन प्रबोधितः / अहम् एव बुद्धो भवेयम्म्, पश्चिमायां चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रम् एकम् अस्ति, तत्र गच्छामीति //

तस्मान् मया यथा प्रोक्तं तथा चरितुम् अर्हसि / प्रजानां पालनं कृत्वा धर्मनीत्यां समाचर // dak_6.48 //

लोकान् मा खेदयेत् तापैः कुलधर्मे समाचर / परेष्व् अपि दयायुक्तैर् दानं हि श्रद्धया कुरु // dak_6.49 //

प्राणातिपातादत्तादानकाममिथ्यादि मा कुरु / मा मृषावादपैशुन्यं पारुष्यं भिन्नम् एव च // dak_6.50 //

माभिध्याव्यापाददोषैर् मिथ्यादृष्ट्यादि संत्यज / एतानि तानि सर्वानि धारय दृढचेतसा // dak_6.51 //

पापानां मूल एषो हि सुगतेनेति देशितः / इत्थं कृते ऽपि नृपतेर् ईतिर् न च भविष्यति // dak_6.52 //

अद्यारभ्यासि सर्वेषां लोकानाम् अधिपः प्रभुः / सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् // dak_6.53 //

तत् कस्माद् धेतोः //

धर्मेण वर्धते राज्यं धर्मेण वर्धते धनम् / धर्मेण धन साध्यन्ते धर्मेण कामसिद्धयः / कामसिद्धेन मोक्षं च प्राप्यते नात्र संशयः // dak_6.54 //

अनेन ज्ञानमार्गेण शशास नृपतिः सुतम् / ज्ञानाङ्कुशभयेनैव कुञ्चितः स गजो यथा // dak_6.55 //

ननाम पितरं तेन श्रुत्वा वाक्यं वचोऽमृतम् / धृत्वाज्ञाते यथा तात प्रजानां प्रतिपालने // dak_6.56 //

इति प्रशास्य ततो भूपो रत्नव्यूहो महामतिः / प्रबोध्य पुत्रपत्न्यादीन् बुद्धक्षेत्रं ययौ मुदा // dak_6.57 //

शृणु मैत्रेय पुनर् भूपमार्गाणां गमनकथाम् / ददर्श भूपतिर् जीर्णप्रणालीं मार्गको ऽथ सः // dak_6.58 //

प्रवाहितं न पानीयं तद्दर्शनेन वाहितम् / प्राक् न प्रवाहितं केन, इदानीं तु प्रवाहितम् // dak_6.59 //

आश्चर्येति स्थिते भूप आकाशाद् एनम् ऊचिवान् / पुण्यवांस् त्वं महाराज त्वत्प्रभावात् प्रवाहितम् // dak_6.60 //

भग्नभूता प्रणालीयं नूनम् अभ्यन्तरे यतः / त्वं तु धर्मतनुर् एवं जानीहि किल भूपते // dak_6.61 //

राजोवाच // न ज्ञातो ऽहम् एव च //

तस्मात् प्रचरितो राजा वनखण्डं महत्तरम् / तत्रानुप्राप्तवान् दृष्टं फलपुष्पमहिरुहान् // dak_6.62 //

तदन्यवृक्ष एकस् तु मूलोत्पात्यैव स्थितो यदा / भूपतिदृष्टमात्रेण पूर्ववद् उत्थितागतः // dak_6.63 //

तदाकाशाद् उवाचैनं श्लाघनीयो हि भूपते / पादपो ऽयम् अचैतन्य उत्थितः सन् हि चागतः // dak_6.64 //

राजोवाच // न ज्ञातो ऽहम् एव तु //

तदनन्तरमार्गेषु ब्राह्मणास् त्रय आगताः / कुष्ठाविष्टविहीनाक्षी, आस्वास्थ्यवपुषुः सदा // dak_6.65 //

तान् दृष्ट्वा स च भूपालो विचार्यैनान् अपृच्छत / ब्राह्मणाः कुत्र गन्तारः कतमभूम्या इहागताः // dak_6.66 //

ब्राह्मणा ऊचुः //

कुशलं ते महाराजरत्नव्यूहेति विश्रुतः / नान्यत् तु कार्यम् अस्माकं गच्छामस् तत्र राजनि // dak_6.67 //

स राजदृष्टमात्रेण हीनाक्षिः प्राप्तचक्षुषः / शुभाङ्गा भवन्ति पुष्टाङ्गा मुञ्चन्ति पापराशयः // dak_6.68 //

ततः सखा ब्राह्मण उवाच //

अहो ऽत्याश्चर्यप्राप्तो ऽहं सखे किं केन हेतुना / चक्षुर्विहीनेन पुनश् चक्षुः प्राप्तं त्वयाधुना // dak_6.69 //

प्रत्यङ्गकुष्ठसङ्गस् त्वं शुभाङ्गो भवते पुनः / अनेन पुरुषेनैव दृष्टमात्रेण मुञ्चति / सखे तथा विकाराङ्गः शुभाङ्गो भूयते ऽद्य हि // dak_6.70 //

सांनिध्यं कुरुतेदानीं पृच्छामैनं वयं सखे / हेतुभूतम् अयं स त्वं न च प्रादेशिकः पुमान् // dak_6.71 //

कस्माद् आगतस् त्वं भो भवन् किं पुरुषर्षभः / पुण्येनोपचितात्मा ते श्रियाभिः प्रभवोज्ज्वलः // dak_6.72 //

राजोवाच //

ब्राह्मणाः किं न जानीथ रत्नव्यूहेति विश्रुतः / कथम् इत्थाम् अहं भद्र तत्र गच्छामि सांप्रतम् // dak_6.73 //

तदा ब्राह्मणाः प्रीतिप्रमोद्यसौमनस्यजातास् तस्मै राज्ञे आशीर्वाणीम् अब्रुवन् //

जयो भवतु भूपेन्द्र त्वया यन् मनसेप्सितम् / तत् सर्वं प्राप्तम् अस्त्व् ईति पुण्यश्रियासुशोभन // dak_6.74 //

ब्राह्मणास् तथास्तु मे, इत्य् उक्त्वा स सत्कारविशेषैः पूजयित्वा विसर्जयति स्म // ततो ब्राह्मणाः प्रसादप्रतिलब्धाः स्वम् आश्रमं प्रक्रान्ता अभूवन् // मैत्रेय आह //

केन पापैर् भवेत् काणः कुष्ठाविष्टः कथं भवेत् / इत्थंभूतद्विजाप्यैव, अहो कष्टं नरस्य च // dak_6.75 //

मैत्रेयेण तथा पृष्टो भगवान् आह तं पुनः //

दृष्टम् अदृष्टम् उक्तं ते मिथ्यया शपथं कृतम् / चक्षुहीनो ऽभवत् तेन स्वार्थी न परकार्यकृत् // dak_6.76 //

राजकार्ये धनं हृत्वा भाण्डागारीकृतो द्विजः / किं चिद् दत्त्वा परस्यैव स्वगृहे नीयते पुनः // dak_6.77 //

तेन कर्मविपाकेन कुष्ठाविष्टतनुर् द्विजः / यत् कृतं कर्म पाकेन तत्फलम् अश्नुते तथा // dak_6.78 //

मैत्रेय उवाच // प्रबुद्धो ऽहं भगवन् प्रबुद्धो ऽहं सुगत //

अथ स राजा चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रं प्राप्तवान् / तत्र बुद्धक्षेत्रे विमलप्रभा नाम चैत्यं मनोरमदर्शनीयप्रासादिकं दृष्ट्वा परमप्रीतमनास् तस्याश्रमम् उपाश्रितवान् // पर्यङ्कम् आभुज्य, ऋजुकायं प्रणिधाय ध्यानारामे स्थितः / ततस् तत्क्षणं पञ्चाभिज्ञत्वं प्राप्तह्, क्रमेण रत्नाकरो नाम तथागतो ऽर्हन् प्राप्तो ऽभूत् //

मैत्रेय उवाच // भगवम्ष् तथागतधातुस्तूपजीर्णोद्धारणानां कीदृशं फलम् //

तथागतस्तूपबिंबानां स्थापनानां यतः कथम् / कीदृशं स्यात् फलं तेषां तत् सर्वं देशय प्रभो // dak_6.79 // भगवान् आह //

आढ्यो निर्नष्टशोकः क्षतसकलकलिर् लोचनानन्दपात्रं सौभाग्यश्रीनिधानं समुपचितबलो कान्तगात्रो यशस्वी / तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाङ्गो ऽव्यग्रो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय // dak_6.80 //

यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि / रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम् अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम् // dak_6.81 //

द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती / भवेज् जिनो ऽन्ते जितदोषशत्रुस् ताथागतीं यः प्रतिमां विधत्ते // dak_6.82 //

इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता / जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता // dak_6.83 //

जातिः श्रुतिः स्मृतिर् धैर्यम् अभिवाञ्चितसंपदः / स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना // dak_6.84 //

संबोधिर् इति जायन्ते विशेषाः साधुसंमताः / विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां मुदा // dak_6.85 //

न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म / न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति // dak_6.86 //

एतत् संक्षेपतः पुण्यं ज्ञातव्यं चैत्यकर्मसु / न शक्यते जिनैः सर्वैर् वक्तुं सर्वं मया कथम् // dak_6.87 //

इति द्वाविंशत्यवदानकथायां जीर्णोद्धारणबिम्बकथा षष्टमः परिच्छेदः //

vii. स्नानकथा

अथानन्तर मैत्रेयो भगवन्तम् उवाच सः / चैत्यानां बुद्धबिम्बानां स्नानानां कथ्यतां फलम् // dak_7.1 //

भगवान् आह //

अजित शृणु मैत्रेय स्नानस्य फलम् उत्तमम् / चैत्याञां बुद्धबिम्बानां वक्ष्ये लोकार्थहेतवे // dak_7.2 //

नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर् यो वा पूजं करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः / मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु- व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो यान्ति मोक्षम् // dak_7.3 //

दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् / मन्दाकिन्यां सुरौघाः प्रतिदिनम् उदकक्रीडया यद् रमन्ते नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य // dak_7.4 //

एवं मैत्रेय महानुशंसा तथागतेषु कृतपुण्यानि स्वल्पम् अपि बहु फलम् //

अथ तस्मिन् समये भगवान् सर्वसभाश्रितलोकानां काङ्क्षाच्छेदनार्थम् ऊर्णाकोशाद् भ्रूविवरान्तराद् दिव्यां प्रभाम् उत्ससर्ज / तया प्रभया त्रिसाहस्रलोकधातुम् अवभास्य यावद् भवाग्रपर्यन्तम् अवभासयति स्म //

तत्रैकप्रदेशे धर्मकोशवतीमहानगर्यां धर्ममतिर् नाम श्रेष्ठी प्रतिवसति स्म // स च महाधनो महाभोगो विस्तीर्णपरिवारो धनधान्यसंपन्नो गृहक्षेत्र-उद्यानदासदासीप्रेषकजनसंपन्नः / ततस् तया प्रभया सर्वावन्तं गृहं बाह्याभ्यन्तरम् अवभासितम् / ततस् तया प्रभया तस्य शरीरं स्पृष्ट्वा, प्रह्लादितमनाः कथयति //

अहो कस्य प्रभाव एष न भूतो न भविष्यति, हेतुभूतं कं पृच्छेयम् // इत्य् उक्त्वा तूष्णीम् अभूत् //

ततो भगवतो रश्मिजालप्रभया गाथाम् अभाषत //

प्रभावविषये ह्य् एष बुद्धस्य च जगद्गुरोः / तस्मात् सर्वप्रयत्नेन बुद्धे भक्तिक्रियां कुरु // dak_7.5 //

बुद्धं तेन विजानाहि सत्त्वानां मोक्षदायकम् / भवाम्भोधिनिमग्नानां क्लेशजालविमोचकम् // dak_7.6 //

शरणम् अनाथबूतानां रोगशोकविनाशनम् / तारणं सर्वसत्त्वानां संसारदुःखसागरात् // dak_7.7 //

इत्य् उक्त्वान्तर्हितो ऽभूत् // अथ स धर्ममतिः श्रेष्ठी बुद्धे भगवति प्रसन्नप्रमोद्यजातेन पूजापुरःसरेण पुष्पधूपादिना पूजार्घं दत्त्वा पुष्पाञ्जलिं भगवते प्रक्षिप्तवान् // ततो बुद्धानुभावेन सर्वपुष्पाणि पुष्पमण्डप इव तस्थुः / धूपो ऽभ्रकूटवत् संस्थितः सितनीलपीतहरितारुणचित्र इव शिरसि समलंकृतो ऽभूत् //

अथ स श्रेष्ठी बुद्धे भगवति चित्तं प्रसाद्य नमस्कारं कृत्वा बुद्धम् अनुस्मरन् सुखेन तिष्ठति // ततस् तस्य श्रेष्ठिन अल्पायुत्वात् कालं गत्वा तस्य पुण्यप्रभावेन त्रायत्रिंशेषु देवेषूपपन्नः // ततो दिव्यस्त्रीभिः सह मन्दाकिन्यां स्नात्वा सुखलीलया तिष्ठति // ततः स्वपुण्यविपाकेन रत्नकूटागारे निषद्य स्वर्गं स्वर्गाद् भ्रमति रमित्वा क्रीडित्वा क्रमतश् च स रत्नमतीति ख्यातवान् // ततश् च शक्रो देवानाम् इन्द्रः सुधर्मायां देवसभायां बुद्धस्य वर्णं भासन्तं तं ददर्श //

अथ शक्रो देवेन्द्रस् तं देवपुत्रं कूटागार _ _ं सुतप्तं कुशलमूलं दृष्ट्वा च गाथया प्रत्यभाषत् //

गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता / वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते // dak_7.8 //

रत्नमतिदेवपुत्र उवाच //

सश्रावको नरादित्य आकीर्णो वरलक्षणैः / तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम / जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम् // dak_7.9 //

शक्रः प्राह //

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये // dak_7.10 //

को नार्चयेत् प्रवरकाञ्चनराशिगौरं बुद्धं विशुद्धकमलायतचारुनेत्रम् / यत्राधिकारजनितान्य् अमरेषु तस्य रेजुः सुखानि गगणेष्व् इव पूर्णचन्द्रम् // dak_7.11 //

धर्मता खलु देवपुत्रस्य अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते // कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति // स पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायत्रिंसेषूपपन्नः भगवतो ऽन्तिके चित्तं प्रसाद्येति //

अथ तस्य देवपुत्रस्य चेतस्य् एतद् अभवत् // न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामयेयम् / इति स देवपुत्रः सर्वाङ्गविराजितगात्रो रत्नचूडसुगन्धादिसंसृष्टदेह अनेकदेवपुत्रसहस्रपरिवृतस् तेनैव रत्नकूटागारेण सह भगवतः सकाशम् उपसंक्रान्तः / ततो भगवन्तं दिव्यपुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय //

अथ खलु भगवान् स देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकीं धर्मदेशनां कृतवान् // यां श्रुत्वा तस्य देवपुत्रस्य विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्, स दृष्टसत्यस् त्रिर् उदानम् उदानयति //

इदम् अस्माकं भदन्त न मात्रा न देवताभिर् न राज्ञा नेष्टजनबन्धुवर्गेण कृतम् / यद् भगवता उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गद्वाराणि प्रतिस्थापिताः स्मो देवमानुष्येष्व् इति आह च //

तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः / अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्दः // dak_7.12 //

त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि // dak_7.13 //

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय / भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम् // dak_7.14 //

अथ स देवपुत्रो भगवतश् चरणयोः प्रणिपत्य संजातहर्सः सुरलोकाभिमुखं दिवं जगाम //

अथ स देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः //

यं दृष्ट्वा संदिग्धमनसो भिक्षवो भगवन्तं पप्रच्छुः / कानि कर्माणि कृतान्य् उपचितानि सा देवपुत्रस्येदृशी विभूतिर् आसित् // अवरकेण कुशलमूलेन समन्वागतः स देवपुत्र इति //

अथ भगवान् क्षणं तूष्णीम् आस्थाय सर्वावन्तं भिक्षुगणम् आमन्त्र्यैवम् आह // भिक्षवो वः किम् आश्चर्यभूतं तद्धेतुं प्रवक्ष्यामि शृणुत //

उप्ते बीज्[ए] अङ्कुरः स्यात् पृथिव्यां तस्माद् वल्ली सुप्रजाता सुपुष्पा / बह्वी शाखा बहुपत्त्रा फलाद्या लोके तद्वज् ज्ञेयम् एवं प्रकाराः // dak_7.15 //

बीज उप्ते हि वरो बीजाङ्कुरो हि महान्, यथा बीजाङ्कुरो पृथिव्याः, धरणीतलाल् लटा प्रजातान्यशेषान् महाप्रजातानां, बहुशाखापत्त्रा सपुष्पजातात्रान्तरे फलप्रसिद्धा सुबहुप्रकारात् //

तथा मनुष्या वरश्रेष्ठबीजं सुपात्रक्षेत्रे प्रतिरोपयन्ति / तदुभवो वृक्ष न नीच कश् चित् क्षयं न यान्ति सततं फलन्ति // dak_7.16 //

तस्मात् कस्य चिद् भिक्षो बीजाङ्कुरं महत्तरम् / सर्वेषां चैव बीजानां पुण्यबीजं सुबीजकम् // dak_7.17 //

तत् कस्य हेतोः //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् असंख्येय कल्पैर् मल्ला नाम जनपदे कुशिनगरपत्तनवने भगवतः प्रभूतरत्नस्य तथागतस्य धातुस्तूपम् एकम् अस्ति / तस्मिन् नगरे विभवविहीनमहादीनपरमदरिद्रः शान्तमतिर् नाम श्रेष्ठी प्रतिवसति स्म // तस्यानुजो विगतमतिर् नाम, तयोर् मिलित्वा ताभ्याम् अनेकयत्नेन धनार्जनं कृतं तथापि न सफलम् अभूत् / तत् कस्माद् धेतोः पूर्वकुशलदानहीनत्वात् //

ततः प्रभूतरत्नतथागतस्य शासने समुत्पन्नः प्रकृतिपरिशुद्धिर् नामोपासकः प्रतिवस्ति स्म // स धर्मचित्तकः करुणाचित्तम् उपस्थाप्य सर्वसत्त्वेभ्यो नित्यं धर्मं देशयति //

तद्यथा //

ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति / तथागतधातुस्तूपं पूजयिष्यन्ति / तेषां सर्वकर्मभयो ऽन्तशः पैशुन्यपापका अकुशलान् दुःखधर्मान् न क्रमिष्यन्ति // ये ये मानवास् तथागतधातुस्तूपं प्रदक्षिणं कुर्वन्ति पूजयन्ति स्वदोषपरिहारार्थम्, ते प्रमादाद् गम्यागम्य प्राणिवधादिदोषविलयं भवेयुः //

शुभानि धर्मः परिशुद्धधर्मः पूर्वाणि पापानि विशुद्धधर्मः / अहो हि धर्मः परमार्यधर्मः पवित्रधर्मः शुभकारिधर्मः // dak_7.18

//

अथ स दरिद्रपुरुषो बुद्धस्य धर्मं श्रुत्वा प्रसादजातो नित्यम् एव धर्मं श्रोतुं गच्छतीति // तदानुजो विगतमैत्र् भ्रातरं उवाच / भ्रात आ किं तव मर्यादं व्यपहाय कार्यं धर्मश्रुतेन किम्, त्वया सह वर्तनं न सुकरं कर्तुम्, परप्रेषको भूत्वा वर्तयामीत्य् उक्त्वा स्वगृहान् निष्क्रम्य स्वच्छन्देन, अन्यस्य प्रेषको ऽभूत् // अथ स दरिद्रो भ्राता वियोगे सति चित्तव्याकुलीभूत्वा तथापि स्वयम् एव मनः प्रशान्त्य धर्मेषु चिन्तापरो व्यवस्थितः // अथैकस्मिन् दिने रक्तकाषायवस्त्रपात्रधारी भिक्षुर् एको द्वारमूलेष्व् अथिष्ठत् पिण्डपात्रं याचितुम् // तं दृष्ट्वा शीघ्रम् एव गृहं प्रविश्याद्राक्षीत् किं चिन् न विद्यते / आत्मनाहाराय परित्तानि तण्डुलान्य् एव सन्ति, स सहसा गृहीत्वा तस्मै प्रायच्छत् //

भिक्षुर् अपि तेन यथा दत्तं तथा गृहीत्वा तम् उवाच //

दरिद्रे ऽपि च पुण्यात्मा दरिद्रे त्यागदुर्लभः / तस्मात् पुण्यानुभावेन दारिद्र्यं ते प्रणश्यतु // dak_7.19 //

भद्रं भवतु ते भद्र नाशयतु अभद्रकम् / बुद्धे भक्तिप्रसादो ऽस्तु तेन स्वर्गोपपत्तये // dak_7.20 //

इत्य् उक्त्वान्तर्हितो ऽभूत् // अथ तस्य दरिद्रस्यैतद् अभवत् /

किं कर्तव्यम् इदानीं मे हा धिग् जन्म च जीवितम् / विभवस्य विहीनेन मरणं शोभनं भवेत् // dak_7.21 //

पुनर् अपि तस्यैतद् अभवत् // प्रकृतिपरिशुद्धिनामोपासकसकाशाद् धर्म श्रुतं मे / ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति, तथागतस्य धातुस्तूपं पूजयिष्यन्ति, तेषां पूर्वकर्मावरणानि क्षयो भविष्यतीति / पापक्षयत्वाच् चित्तं परिशुध्यते, चित्तपरिशुद्धत्वाद् धर्म परिशुध्यते, धर्मपरिशुद्धत्वात् तेनैव फलं लभ्यते // तथा श्रुतं मे परिशुद्धधर्मेति //

अथ तस्यैतद् अभवत् / तथा तथागतं पूजयेयम् इति सो ऽपि निर्वाणं गतः / तथाप्य् अस्य धातुस्तूपम् अस्ति तम् अहं पूजयेयम् इति // पुनस् तस्यैतद् अभवत् //

सामग्र्याच विहीनेन किंविधैर् अपि पूजयेत् / पुष्पं धूपस् तथा गन्धं दीपनैवेद्यम् एव च / एतैर् विधिं विना पूजा किं पूजाफलम् आप्यते // dak_7.22 //

इति दरिद्रः समनुशोच्य तिष्ठति दीनमानसः //

अथ तस्य धर्मश्रुतस्य पुण्यानुकूल प्रतोदेनेव प्रचोदयति स्म // तस्य मनसि एतद् अभवत् // न मम प्रतिरूपं स्याद् यद् अहं तथागतधातुस्तूप उपासितव्यः पानीयमात्रेण स्नानं कर्तव्यम् / इति मत्वा मृन्मयघतं गृहीत्वा नद्यां तीरे स्नात्वा परिशुद्धमानसो जलम् आदाय तस्मिन् स्तूपे स्नापयति स्म // ततो दिनमासात्यायाद् एकस्मिन् दिने चैत्यबिम्बस्नानाय जलम् आदातुं गच्छति //

जलम् आदाय तदा गत्वा स्नानं चापि प्रकल्पितम् / तदा घटात् पतितानि रत्नानि विविधानि च // dak_7.23 //

ततः स शान्तमतिस् तानि दृष्ट्वा प्रसादजातो मनसीत्य् अभूत् //

नमस्करोमि स्तूपाय चैत्याय धर्मधातवे / निर्यातयामि रत्नानि चैत्याय शुद्धचेतसा // dak_7.24 //

ततः स प्रतिनिवृत्य नद्यास् तीरे प्रगच्छति / ददर्श स दरिद्रेण रत्नानि च समाकुला // dak_7.25 //

वज्रवैडूर्यमसारमुक्तामणिक्यबाहुलम् / कर्केतनेन्द्रनीलादि पुष्परागादिना तथा / नद्याः प्रवाहं क्षोभित्वा ससार सिकतास्थले // dak_7.26 //

बुद्धपुण्यानुभावेन दरिद्रेणाचिरेण च / प्राप्यते रत्नलाभानि स्वप्नोपमेव ईदृशा // dak_7.27 //

ततः स दरिद्रस् तानि स्वेच्छया गृह्य पुनर् अपि / स्वं भवनं प्रतिनिवृत्य चिन्तयन्न् उवाच //

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / सेवया स्वल्पमात्रेण प्राप्तो ऽहं सफलं पदम् // dak_7.28 //

ततः स महाधनो ऽभूत् सुष्कह्रदो नीरगासरित्समूहैर् इतस् ततः प्रवेशित इव पूर्णो ऽभूत् // ततः प्रभृति राज्ञा राजामात्यैर् ब्राह्मणैः संमानितः साधुभिर् लोकसंमतो ऽभूत् // साधु सत्पुरुष एष लोके प्रख्यातः //

अथ स श्रेष्ठी उल्लासितमना हर्षसौमनस्यजातो बुद्धे चित्तं प्रसादयाम् आस //

ततो दिनमासात्ययात् तस्यैतद् अभवत् //

अहो बुद्धप्रभावो हि अचिन्त्यसंपदप्रदः / भिक्षा राशिषः संप्राप्ता दारिद्र्यं दुःखितं गतम् // dak_7.29 //

अथ स श्रेष्ठी महता सत्कारेण स्तूपेषु रत्नमय कूटागारं कृतम् अभूत् / नानागन्धोदकेन स्नापनं कृतं त्रिधा प्रदक्षिणीकृत्य मूर्ध्ना प्रणिपत्य साञ्जलिं च प्रणिधानं चकार / भगवन् मे जन्मान्तरे तथाविधेन तथागतेषु मनःप्रसादः सन् रत्नमयकूटागारेण सह स्वर्गे त्रायत्रिंशेष्व् उपपत्तिर् भवेयम् // इत्य् उक्त्वा नित्यम् एव तस्मिन् स्तूपे पर्युपासितः //

अथ स श्रेष्ठी संसारिके कृतकरणीयो बुद्धे भगवति चित्तं प्रसाद्य कालगतः // कालं गत्वा धर्मकोशवतिनगरे धर्ममतिश्रेष्ठिजन्म बभूव / महाधनो महाभोगो विस्तीर्णधनधान्यसंपन्न इहैव जन्मनि मयि प्रसाद्य भक्तितः पूजां कृतवान् / तत् सर्वं ममाग्रे वहन्ति /

प्रादुर्भूतं जलान्य् अग्रे मुक्तावलीव शोभिता / पुष्पं च पुष्पकूटेव धूपो ऽभ्रकूटवत् स्थितः // dak_7.30 //

ततस् तस्य श्रेष्ठिन अल्पायुत्वाद् बौद्धे प्रसाद्य कालगतः प्रणीतेषु त्रायत्रिंशेषु देवेषूपपन्नः स्वपुण्यफलविपाकेन रत्नकूटागारे निषद्याद्यरात्रौ तत्रागच्छति / मया धर्मो देशितः //

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन सनयेन स दारिद्रो ऽयं रत्नमतिर् नाम देवपुत्रो मयि धर्मं श्रुत्वा स्वभवनं गतः // भुतपूर्वं प्रभूतरत्नस्य तथागतस्य धातुस्तूपे स्नानकृतमात्रेण महद्थ्नो ऽभूत् / तेन पश्चाद् रत्नमयकूटागरं क् र्तं तेनैव प्रणिधानवशास् रत्नकूटागारेण सह स्वर्गेषूपपन्नः //

इति द्वाविंशत्यवदानकथायां स्नानकथापरिवर्तो नाम सप्तमः परिच्छेदः //

viii. कुङ्कुमादिदानकथा

अथ कदा चिद् बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर् धनिभिः सार्थवाहैर् देवैर् नागैर् यक्षासुरगरुडकिन्नरमहोरगैर् अभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यलाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो महता सत्कारेण पूजितो धर्मश्रवनार्थम् / तदा बुद्धो भगवान् स्वं प्रभावं प्रदर्शयन् येषाम् उन्नतचित्तानां मानमददर्पप्रहाणार्थं पर्षद्भ्यो धर्मं देशितवान् / तच् छ्रुत्वा सभाश्रितजनाः संमोदवन्तः //

तस्मिन्न् अवसरे तदा तत्र राजगृहे ऽन्यतमः सौतीर्णो नाम वणिग् आसीत् / महाधनो महाभोगो विस्तीर्णपरिवारप्राप्तः / तदात्मसदृशात् कुलात् कलत्रम् आनीतम् / तया सह सुखेन तिष्ठति // स चिन्तयति / तथा न युक्तम्, किं तु पिता चास्माकं किंकर्मफलोपजीवी आसीत् / अहम् अपि तथा करिष्यामीति // यद्य् ओक्करिक आसीद् ओक्करिकत्वां करिष्यामि / महासमुद्रवणिग् आसीत् तत् तथा करिष्यामीति //

तदा केनापि कथ्यमानेन श्रुतम् / जानामि पिता चास्माकं समुद्रवणिग् आसीत् / इति चिन्तयित्वा स्वपत्नीम् उवाच // कान्ते मत्कर्मणा एव वणिक्कुले जातस् तेनाहं रत्नाकरं महासमुद्रं गन्तुम् इच्छामि / त्वया गृहाचारं कृत्वा तिष्ठ म भीतासि / अचिरेणागमिष्यामि ममार्थे देवतां स्मृत्वा धैर्यम् आलम्ब्य मा साहसं कुरु //

तच् छ्रुत्वा पत्न्य् उवाच //

मा ब्रूहि नाथ भर्तस् त्वं कथं तिष्ठाम्य् अहं ननु / विशेषैर् अबलाजातिः को रक्षति गृहे तव // dak_8.1 //

कस्मै साधयते द्रव्यं पुत्रो वा ते न विद्यते / यद् अस्ति पूर्वद्रव्यं ते तेन शान्तो भव प्रभो // dak_8.2 //

किम् एव बहुभिर् द्रव्यैः क्लेश एव यद् उद्भवेत् / क्लेशिनां हि सदा दुःखं संसारे सुखता कुतः // dak_8.3 //

बहुद्रव्यवतां नित्यं क्लेशदुःखं महद् भयम् / तन् निरर्थं बहुद्रव्यं साधने मा कुरूद्यमम् // dak_8.4 //

भर्ता उवाच //

इत्थं मा वदसि कान्ते कुलधर्मैष मे यतः / नीचेन महता चापि कुलधर्मं न वर्जयेत् // dak_8.5 //

विशेषेण गृहस्थानां धनं मूलं तु देहिनाम् / धनेनापि विहीनस्य कुतो मित्रं कुतः सुखम् // dak_8.6 //

द्रव्येनैव वशाः सर्वे पुमान् अपि धनेन च / धनेन लोकसत्कारं यात्य् अतः साधयेद् धनम् // dak_8.7 //

पत्न्य् उवाच //

स्वामिन् विना कथं नाथं तिष्ठामि चाहम् एकिका / चन्द्रेण रहिता रात्रिर् अन्धकारं गृहे यथा // dak_8.8 //

पुनश् च //

यस्मात् स्त्रियो विना भर्त्रा तर्कयन्ते परैर् अपि / भूमौ पतितमांसानि पिण्डानि शकुनैर् इव // dak_8.9 //

भवेषु लोभवस्तूनि नारीपुष्पफलानि च / कस्यास्ति नागमे चित्तं दृष्ट्वा स्त्रीषु विमोहिताम् // dak_8.10 //

अदान्तश् चित्तमातङ्गः सत्पथेन कथं व्रजेत् / कुपथेन यदा गच्छेत् प्रपतेन् नारके हि सः // dak_8.11 //

विशेषेण स्त्रिया धर्मः प्राप्यते यस् सुदुर्लभः / तस्मात् संत्रसितां स्वामिन् मा मां त्यज्य व्रज स्वयम् // dak_8.12 //

तत् कस्य हेतोः //

शृणुष्वैककथां भर्तः श्रुतं मे मातरि क्व चित् / मनसा चिन्तितात् पापाद् वेश्या भवति ब्राह्मणी // dak_8.13 //

भर्ता उवाच //

कथं वेश्या भवेत् कान्ते ब्राह्मणी सुकुलोद्भवा / मनसा चिन्तितामात्रैर् इदम् आश्चर्यम् अद्भुतम् // dak_8.14 //

पत्न्य् उवाच //

कोशला नगरी चासीद् विशालपरिशोभिता / विद्वज्जनसमाकीर्णा सुजनैः परिशोभिता // dak_8.15 //

तस्मिन् पुरे महा-आढ्यो ब्राह्मणो वेदपारगः / स पत्नीसहितश् चासौ वसते सुखलीलया // dak_8.16 //

ततो दशाविभागेण मृतो ऽसौ द्विजसत्तमः / विहाय प्रियसौहार्दं विवशात् सर्ववैभवात् // dak_8.17 //

तत्पत्नी ब्राह्मणी सा वै अप्रसूता सयौवनी / भर्तुर् गुणान् अनुस्मृत्य अभूद् अस्वस्थचेतना // dak_8.18 //

दिनेषु गच्छत्सु नितान्त-आतुरा भर्तुर् वियोगाद् विरहाच् च प्रेम्णः / शीतोपचारैश् च कृते ऽपि गात्रे दाहेव यस्या ज्वलितोग्रवह्निना // dak_8.19 //

का मलकर्पटी शय्ये मर्कटीशयनोपमा / तस्यास् तथाविधैर् अन्यैर् उपचारैश् च को विधिः // dak_8.20 //

उपचारिणी ततस् तस्या वैद्यम् आहूय दर्शिता / वैद्येन हस्तं संगृह्य धमनी वीक्ष्यते पुनः // dak_8.21 //

दृष्ट्वा उक्तं तदा तेन, प्रश्रब्धा न चिकित्सया / यस्या विरहरोगे न वैद्यौषधिर् लगिष्यति // dak_8.22 //

इति विचार्य वैद्यो ऽसौ प्रत्यागतः स्वकं गृहम् / धमनीदृष्टम् अन्यं च गृहीत्वा हि यथा मतम् // dak_8.23 //

यतः, अचेतनी ग्लानी पुंसस्य पाणिनास्पृशत् / स्पर्शमात्रेण तस्या वै हृदये शीतलं त्व् अभूत् // dak_8.24 //

हृदये स्वस्थभूतेन परिवृतोपचारिका / पश्यन्ती चक्षुषा सर्वाः सा बभाषे शनैः शनैः // dak_8.25 //

केन पृष्टाद्य मे हस्ते केन स्पृष्टा च मे तनौ / कीदृशी सुखस्वस्थानि उच्यतां मयि हे सखि // dak_8.26 //

उपचारिका ऊचुः //

स्वामिनि ते विना स्वस्थैः वैद्यः प्रज्ञप्तः काम्यया / ग्लानानाम् अक्षणा किं च दृष्ट्वा औषधम् आचरेत् // dak_8.27 //

ब्राह्मणी उवाच //

स्त्रियो वा पुरुषो वापि, स्वस्थो जातश् च मे हृदि / ईदृशः सुखजातो मे ग्लानं शान्तम् अभूत् क्षणात् // dak_8.28 //

उपचारिका ऊचुः //

न स्त्रियः स्वामिनि वैद्यः पुमांल् लोकचिकित्सकः / धमनीमात्रम् आलक्ष्य गतवान् स्वगृहे स च // dak_8.29 /

ब्राह्मणी उवाच //

अहह पुरुषोहस्तपृष्टमात्रेण मे हृदि / उपजातम् ईदृशं सौख्यं क्रीडाकृते कथं सुखम् // dak_8.30 //

इति चिन्तितमात्रेण, अघीभवति सा व्रती / इहजन्म ततस् त्यक्त्वा कर्मवायुभिर् ईरिता // dak_8.31 //

पातरिनगरे रम्ये वेश्याजन्म बभूव सा / कामरतीति नाम्ना सा रूपलावण्यशोभिता // dak_8.32 //

क्रमतो यौवनी चाभूत् कन्दर्पमदगर्विता / तस्या माता रतीलोला पुत्रीं वदति तत्र च // dak_8.33 //

अस्माकं कुलधर्मेषु वेश्यावृत्तिं कुरुष्व तत् / विशेषै रूपलावण्यं महांश् च जन रोचते / क्रीडं कुरुष्व पुत्रि त्वं बहुशो धनदैः सह // dak_8.34 //

ततः प्रभृति सा कामरती असकृत् स्वकुलव्यवहारं कृतवती // ततः कामरती पञ्चत्वम् उपगता नरके पतिता //

स्वामिन्न् अहम् अपि तथा भविष्यतीति त्वाम् अहं वक्ष्यामि //

मा भैषी हे प्रिये कान्ते साधु साधु सुभाषितम् / न भविष्येत् तथा त्वं हि संतिष्ठ दृढचेतसा // dak_8.35 //

अथ सतीर्णवणिजः पत्नीवचनम् अकृत्वा पण्यम् आदाय बहुभिर् वाणिजैर् महासमुद्रम् अवतीर्णः // तस्य पत्नी नातियौवनवती मध्यवयसी अप्रसूता / ततः कश्चिद्वर्षान्तरे गते सा पुत्रार्थे च स्वामिनो ऽर्थे उत्कण्ठिता परितस्यति न चास्या भर्ता आगच्छति // // सा उवाच //

भर्ता नैवागतः कस्मात् दीर्घकालं गतो वणिक् / तदा विना च सङ्गेन कुतः पुत्रोदयं मम / वयसि गते विशेषैस् तु वंशच्छेदो न संशयः // dak_8.36 //

तस्या भर्ता सौतीर्णो ऽसौ नागतः सुचिरेण च / हृदये शोकशल्येन तिष्ठति दीनमानसा // dak_8.37 //

अथ सौतीर्णवणिजो महता सत्कारेण, के चित् प्रत्यागता वणिजाः, सुगन्धद्रव्याणि तथागताय निर्यातये त्यक्त्वा पत्त्रलेखं चान्यवणिजस्य हस्ते दत्त्वा प्रेषयति //

ततः स वणिजस् तस्य पत्न्यै हस्ते पत्त्रं समर्पयति //

तदा तस्य पत्न्य् आगृहीत्वा लेखम्, कुशलवार्त्तां पप्रच्छ //

कुशली भद्र मे भर्ता कुशलं सर्ववस्तुकम् / सिद्धानि सर्वकार्याणि मा कश् चिद् रुजया वपुः // dak_8.38 //

सो ऽवोचत् सर्वं कुशलं मा भैषीत्य् उक्त्वा स्वगृहं गतः // अथ सा तस्य पत्नी भर्ता आगमिष्यतीति चिन्त्याशया उत्कण्ठितमनास् तिष्ठति //

प्रत्यागते ततश् चास्मिंस् तस्य दुर्दैवयोगतः / तदा च तरणे नौका बभूव प्रलयाम्बुधौ // dak_8.39 //

तदा तेन अनुस्मृत्य बुद्धनाम उदीरितम् / क्षणात् प्राणं ययौ तत्र तेनासौ सुगतिं गतः // dak_8.40 //

नश्यन्ति सर्ववस्तूनि जीवश् चापि प्रणश्यति / वार्त्तापि नागतस् तस्य मृतो ऽपि जीवितो ऽथ वा // अगमन् विंशत्य् अब्दानि कालं गत अभूद् असौ // dak_8.41 // दिनेषु गच्छत्सु क्रमतश् च वृद्धा धम्मिल्लशुक्ला कुब्जा च साभूत् / तथापि तस्याः स्नेहो न नश्यति चानेकदेवस्मरणेन तिष्ठति // dak_8.42 //

अथ सा चिन्तयाम् आस स्वामिना प्रहितानि च / सुगन्धगन्धद्रव्याणि बुद्धाय सुगताय च // dak_8.43 //

पूजयामि कथं चात्र शाक्यसिंहं गुणोदधिम् / अजातशत्रुणा राज्ञा बुद्धपूजानिवारिते // dak_8.44 //

अथ सा चिन्तयाम् आस पूजयामि तथागतम् / प्रासादशिखरे स्थित्वा चन्दनेन विलेपनैः // dak_8.45 //

ततस् तया प्रमोदेन भक्तिपूर्वेण चेतसा / अर्चितं चन्दनेनैव कुसुमैः सह मण्डलम् // dak_8.46 //

ततः सा प्राञ्जलिं कृत्वा नत्वाह सादरैः पुनः / भर्ता मे ऽपि मृतो वापि जीवितो वाथ वा पुनः // dak_8.47 //

वार्त्तापि नागता तस्य कथं हे भगवन् मुने / सर्वज्ञः सर्वदर्शी त्वं नास्ति किं चिद् अवेदितम् // dak_8.48 //

स्वप्नं दास्यसि मे नाथ, अस्ति नास्त्य् अथ वा मुने / दर्शनम् औत्सुकं जातं भर्तुर् वदनपङ्कजम् // dak_8.49 //

इति सा याचनं कृत्वा तद् दिनानि निनाय च / संवेशाय निशायां वै स्वागारनिलयं ययौ // dak_8.50 //

अथ भगवान् सर्वज्ञस् तस्या आशयं ज्ञात्वा स्वं प्रभावं प्रदर्शयन्न् ऋद्ध्या ब्रह्मस्वरेण सौतीर्णं प्रावदत् //

सौतीर्ण तव पत्न्या त्वाम् एव कालगतं न जानाति / तस्माद् दिव्यरूपं धृत्वा स्वर्गाद् अवतीर्य दिव्यदेहं स्वप्नं दर्शयतु // इति सहचित्तोत्पादाद् भगवतः सौतीर्णवणिजो दिव्यशरीरम् अभिवीक्ष्य,

धर्मता खलु अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते // कुतश् च्युत्वा, इहोपपन्नः, केन कर्मणेति / स पश्यति मनुष्येभश् च्युतस् त्रायत्रिंशेषूपपन्नो भगवतः कुङ्कुमादिदानाद् इति //

ततस् सुगन्धमुखो देवपुत्रश् चलविमलकुण्डलहारार्धहारविभूषितगात्रो रत्नचूडः कुङ्कुमतमालपत्त्राद्यलंकृतगात्रस् ताम् एव रात्रिं सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा यत्र यत्र गतः स्वर्गलोकाद् अवतीर्य भार्यायाः कोष्ठागारे प्रत्यस्थात् // ततः सा इमं स्वप्नम् अपश्यत् // भर्ता उवाच //

कान्ते जानीहि त्वद्भर्ता ममैव मरणं ध्रुवम् / त्वं न जानीषि मा भीता स्वर्गलोकाद् इहागतः // dak_8.51 //

बुद्धप्रभावान् नान्येन कुङ्कुमादिप्रदानतः / दिव्यलोकसुखं भुक्त्वा तिष्ठामि सुखलीलया // dak_8.52 //

काश्मीरगोशीर्षकचन्दनानि ददन्ति तस्मै सुगतोत्तमाय / ते प्राप्नुवन्ति ह्य् अमरालयेषु सुगन्धदेहाः खलु ये मनुष्याः // dak_8.53 //

बुद्धेषु धर्मेषु तथा च संघे प्रसन्नचित्ता भव चाप्रमत्ता / तथा भवेथास् त्वम् अतो यथाहं कल्याणमार्गं नचिरेण प्राप्तुम् // dak_8.54 //

इति जिनानुभावेन स्वपत्नीं धर्मम् उपदेश्य स्वभवनं गतः // ततः सा तथाविधं स्वप्नं दृष्ट्वा प्रबुध्यति महाद्भूतं च संप्राप्ता शोकाकुलितमानसा //

ततोत्थायासनात् सा च विमृश्य मनसा पुनः / सत्यस्वप्नम् इमं ज्ञात्वा दुःखोत्फुल्लतनूरुहा / वेपथुस् तस्यास् तनुर् नूनम् अश्रु स्रवति लोचनात् // dak_8.55 //

ततः कृत्वा समाधानं ननाम सुगताय वै / रक्ष मां भगवञ् छास्तः कुरु नाथ अनुग्रहम् // dak_8.56 //

इत्य् उक्त्वा सुप्रसन्नेन भगवान् सुगतोत्तमः / पूर्ववद् मण्डलं कृत्वा अष्टौ दिनानि पूजितः // dak_8.57 //

ततः कालवशात् सापि पञ्चत्वम् उपसंगता / प्रणीतत्रायत्रिंशेषूपपन्ना देवकन्यका // dak_8.58 //

सुगन्धगन्धिनी नाम देवकन्याभवत् तदा / भर्त्रा सह सुखेनैव स्वर्गे तिष्ठति सा चिरम् // dak_8.59 //

ततस् तौ संभाषितौ भगवतः कुङ्कुमादिदानाद् देवलोकेषूपपन्नौ // तस्माद् भगवतः सकाशं गच्छावः पर्युपासनाय वदनायेति //

तदा सुगन्धमुखदेवपुत्रस्त्रीपुरुषौ सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा ताम् एव रात्रिं सर्वं जेतवनमहाविहारम् उदारेणावभास्य भगवन्तं चन्दनादिसुगन्धवर्षैः पूरयित्वा भगवतः पुरस्तान् निषण्णौ धर्मश्रवणाय //

अथ भगवान् सुगन्धमुखदेवपुत्रयोर् आशयं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान् / यां श्रुत्वा तयोः स्त्रीपुरुषयोर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् // स दृष्टसत्यस् त्रिर् उदानम् उदानयति स्म //

इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर् नेष्टस्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् / अपायद्वाराणि पिहितानि स्वर्गद्वाराणि प्रतिष्ठापितानि //

तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः / अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः // dak_8.60 //

त्वदाश्रयाच् चाप्तम् अपेतदोषं नाव् अद्य लब्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णं च दुःखार्णवपारम् अस्मिन् //

dak_8.61 //

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय / भवशहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम् // dak_8.62 //

अवनम्य भगवतश् चरणौ द्वाव् अभिवन्द्य जातसंहर्षौ गमिष्याव इत्य् आरोच्य सुरलोकाभिमुखं दिवं जगतुः //

अथेह भिक्षवः पूर्वरात्रिं जागरिकायोगम् अनुयुक्ता विहरन्ति / तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः / यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः // किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्र उत चत्वारो लोकपाला उपसंक्रान्ताः //

भगवान् आह // न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः /

असौ सौतीर्णवणिजो महासमुद्रम् अवतीर्णः / ततो ऽसौ सौतीर्णवणिजो मह्यं कुङ्कुमादिसुगन्धद्रव्याणि दत्त्वान्यं प्रेषितः / ततः प्रत्यागते दुर्दैवयोगान् महाम्बुधौ समुद्रमध्ये नावं भग्नीभूत्वा समुद्रे पतित्वा कालं गतः // तस्य पत्नी सुगन्धगन्धिनी देवकन्या, तया मयि प्रसन्नीभूय प्रासादशिखरे स्थित्वा कुङ्कुमादिसुगन्धैर् अष्टौ दिनानि पूजितः, तया प्रणिधानं कृतम् // यत्रे मे स्वामिनः स्थाने प्रेष्यतां सुगत / इति तत्पुण्यप्रणिधानवशात् त्रायत्रिंशेषु देवेषूपपन्ना // ताव् इमां रात्रिं मत्सकाशम् उपसंक्रान्तौ, तयोर् मया धर्म देशितम्, दृष्टसत्यौ च स्वभवनं गतौ //

तस्मात् तर्हि भिक्षवः शिक्षितव्यम् / यत् त्रिरत्नेष्व् उपकारं कुर्यान् नापकारम् इत्य् एवं भिक्षवः शिक्षितव्यं ममान्तरे मम निर्वृते //

ततो भिक्षवः संशयजाता भगवन्तं पप्रच्छुः // भगवन् को हेतुः कः प्रत्यय असौ सौतीर्णः कुङ्कुमादिगान्धिकवस्तूनि प्रहितानि, त्वद्दर्शनम् अप्राप्य समुद्रमध्ये कालगत इति //

(दक्: 79) भगवान् आह // भिक्षवः शृणुध्वम् //

भूतपूर्वं भिक्षवः प्रदेशिकमण्डलिनो राजैक अस्ति / तत्राजिरवतीनामनदीपारे नातिदूरे नानापादपद्रुमोपशोभिते मनोरमविस्तारे सरित्प्रवाहिते धर्मरुचिर् नाम ऋषिः प्रतिवसति स्म / स नित्यं धर्म श्रोतुं गच्छतीति //

अथ कदा चिद् ऋष्याश्रममार्गान्तरे दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवादं श्रुत्वा स राजा सहायैर् इषुधनु सज्जीकृत्य ऋष्याश्रमं गतवान् // तत ऋष्याश्रमं प्राप्य गुरुप्रणामं कृत्वा नानाविनोदकथालापेन सुखेन तिष्ठति // ततः स मुनिर् धनुर्बाणं दृष्ट्वा राजानम् उवाच // अलम् अनेन राजन् धनुर्बाणं सज्जीकृत्य, आगतस् त्वम् / अहं दुष्टो न, मे दृष्ट्वा राजन् भीतो ऽसि वा पुनः //

अथ स राजा कर्णं मृष्ट्वा प्रणामं कृत्वाह / म एवं ब्रूहि गुरो त्वद्भयविषादान् न, किं तु मार्गान्ते दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवादं श्रुत्वागतो ऽहम् इति //

अथ ऋषिर् अब्रवीत् /

मा खेदं कुरु हे राजन् संसारेषु असारके / हेलया चापराधि स्यात् कथितं त्वयि भूपते // dak_8.63 //

सङ्कटप्राप्तकालेषु पश्यन्न् अपि न पश्यते / श्रुतम् अपि न भाव्यं ते तस्माच् चोक्तो महीधर // dak_8.64 //

शस्त्रे भृते प्रहारेयुः कस्मिंश् चित् प्राणिषु स्वयम् / समाधानं ततो भूत्वा क्रीयसे दृढचेतसा // dak_8.65 //

कस्माच् छासितम् इत्थं ते शृणु त्वं भूपते पुनः / अकारणे गते प्राणे शस्त्रेण विध्यते यदि // dak_8.66 //

व्यथया प्राणिना तेन प्रलापैः कन्दनेन तु / पुनः शापयते नूनं दोषशल्यो हि जायते // dak_8.67 //

अहिंसा परमो धर्म अहिंसा परमं तपः / अहिंसा परमं ज्ञानम् अहिंसा परमं पदम् // dak_8.68 //

अथ स राजा तथेति सत्यम् एव इत्य् उक्त्वा गुरुचरणौ प्रणामं कृत्वा प्रतिनिवृत्तयति सहायैः सह पथि नानाकथाविनोदैः //

ततो नदीं निष्क्रम्य, उपार्धं प्राप्तवान् दृष्टः / मध्याह्ने रविकिरणैर् आतप्तैः पानीयं पीत्वा तरुच्छायायाम् आशृतां मृगपत्नीं ददर्श //

अथ सहसैव स राजा गुरोर् वचनं विस्मारितस् तां मृगपत्नीं शरेण भिन्नः / उदरे शरं भिद्यति // ततो मृगपत्नी मानुष्यगिरा राजानम् एवम् आह //

साधु साधु महाराज कृतस् त्वम् उत्तमं व्रतम् / त्वं च राजर्षभः श्रेष्ठदेवजातिः सुधार्मिकः // dak_8.69 //

न मानुषा चास्मि मनुष्यवर्य मृग्य् अप्य् अहं त्वद्विषयान्तवासा / वृद्धा त्वदीयेन तृणोदकेन कथं हि राजन् त्वयि खेदयत्नः // dak_8.70 //

लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं नृपत्वम् / त्रातासि लोके व्यसने भयेषु कथं नु राजन् शरेण भिन्नो मे // dak_8.71 //

अहं हि पशुजातिः स्याम् अज्ञानदीनदुर्बला / आहारो मैथुनं निद्रा पशुवृत्तिस् तथा नृप // dak_8.72 //

नैकधर्माधिकारस् त्वं धर्माधर्मविचारकृत् / भूपाल इति विख्यातः सर्वलोकैः प्रशंसितः // dak_8.73 //

सुबलो बलहीनानां दीनानां शरणं प्रभुः / ईदृशस् त्वं महाराज कथं मे जीव हारितः // dak_8.74 //

विशेषैर् गुर्विणी चाहम् उदरस्थस्य का गतिः / अस्य मुखं न पश्येयं तेनास्यं पश्यते न मे // dak_8.75 //

पुनश् च //

न सिंहजातिर् न च व्याघ्रजातिर् न ऋक्षजातिर् न च सूकरी ह्य् अहम् / वृका न जातिर् न च क्रूरजातिस् त्वया किमर्थं स्वशरेण भिन्ना // dak_8.76 //

व्याधानां चण्डक्रूराणम् अलज्जानां तथैव च / असत्यानां च दुष्टानाम् एवाचारविधो नृप // dak_8.77 //

ततो राजा इदं वचनं श्रुत्वा शल्यम् इव गद्गदकण्ठेन प्रत्युत्तरं दातुं न शक्नोति // तत्र क्षणं तूष्णीम् आस्थाय स राजा मृगपत्नीम् उवाच //

किं मन्यसे मृगीदानीं मृगयाना[ं]गते ऽपि च / अपराधेन लिप्तो ऽहं गुरोर् वचनं नान्यथा // dak_8.78 //

काकतालीव यत् प्राप्य प्रमोदेनाभिनिर्मिते / न किं चित् क्रूरचित्तेन न च ते द्वेषभावतः // dak_8.79 //

मृगपत्न्य् उवाच //

किं मन्यसे महाराज प्रसादेन परात्मनि / स्वकानां च पराणां च शरीरं तुल्यम् एव च // dak_8.80 //

सुखदुःखं च सर्वेषां कथं न ज्ञायसे नृप / मम प्राणहरस् त्वं हि किं वक्तव्यम् अतः परम् // dak_8.81 //

इत्य् उक्त्वा सा मृगी कालगता //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.