Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
द्वाविंशत्यवदानकथा
- Thông tin
- GRETIL — Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ततस् तस्य भर्ता मृगः समायातः घ्राणो नोच्छ्वासम् आघ्राय पश्यति तां मृतशरीरां दृष्ट्वा उच्छेदकरीरम् इव सहसा भूमौ पपात / क्रमेण स्मृतिम् उपस्थाप्य करुणकरुणैर् नानाविलापं चकार //
हा प्राणानन्दनस्नेहे व्रजसे कथम् एकिका / मां विहायाधुना तत्र कथं केन प्रहारिता // dak_8.82 //
समार्जवं समं ज्ञानं मम तुल्यपराक्रमा / त्वद्गुणं कथं विस्मृत्य मन्ये कान्तारभीषणम् // dak_8.83 //
सुहृदन्ये न विद्यन्ते तवैकवल्लभः खलु / इदानीं स्नेहम् उत्सृज्य कथं ते जीव हारितः // dak_8.84 //
ततः स राजानम् उवाच //
मम प्राणसमेयं स्त्री पत्नी मे जीवहारिता / अतिस्नेहतरा स्त्री मे कथं ते प्राणहारिता // dak_8.85 //
अथ स मृगस् तस्मै शापितः // यथा मे पत्नी नदीमध्ये स्थित्वा प्रहारितेन व्यापादिता / तथा त्वं समुद्रमध्ये पञ्चत्वम् उपगच्छतु // चतुर्वर्णानां हीनवर्णो भवत्व् इति शनैः स्वम् आश्रमं गतो मृगः //
किं मन्यध्वे भिक्षवस् तेन कालेन तेन समयेन ऋषिर् आसीद् अहं सः / यो ऽसौ सौतीर्णः स राजाभूत् // मृगशापेन श्रेष्ठी भूत्वा समुद्रमध्ये कालगतः / किं तु बौद्धनामानुस्मृत्य प्रमोद्य कुङ्कुमादिदानतो देवेषूपपन्नः //
महानुशंसा भिक्षवः कुङ्कुमादिगन्धदानस्य तथागतेषु महानुशंसा //
पुनश् च शृणु //
मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते / कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात् तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम् // dak_8.86 //
यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् / गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस् तत् त्यागात् कुङ्कुमादेर् गुणगणनिधये बुद्धभट्टारकाय // dak_8.87 //
मृदङ्गवीणापटहप्रणादैः कृत्वा तु पूजां सुगतोत्तमानाम् / शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्वं लभते विशिष्टम् // dak_8.88 //
इति श्रीद्वाविंशत्यवदानकथायां कुङ्कुमादिदानकथापरिवर्तो नामाष्टमः परिच्छेदः //
ix. छत्त्रदानकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एवम् आह // भगवन्
बुद्धेषु स्तूपबिम्बेषु छत्त्रम् उदारं प्रदिशन्ति ये / तेषां फलं कीदृशं स्याद् भाषस्व सुगत प्रभो // dak_9.1 //
एवम् उक्ते ऽथ भगवान् क्षणम् एव तूष्णीम् आस्थाय, इदं महानिमित्तं प्रादुर्भावम् अकरोत् स्वं प्रभावसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं बुद्धे ऽप्रसन्नानां चित्तानां मनःप्रसन्नसंजननार्थम् //
अथानन्तरं महापृथिवी षड्विकारं प्रकम्पिता, आ रसातलं यावत् सुमेरुम् अपि / एवंरूपाण्य् अद्भुतानि भवन्त्य् अन्यानि च // तद्यथा // संक्षिप्तानि विशालीभवन्ति / हस्तिनः क्रोशन्ति / अश्वा ह्रेषन्ते / गृहगतानि विविधवाद्यभाण्डानि स्वयं नदन्ति / अन्धाश् चक्षुः प्रतिलभन्ते / बधिराः श्रोत्रं लभन्ते / मूकः प्रव्याहारसमर्थो भवति / इन्द्रियविकला इन्द्रियाणि पूर्णानि लभन्ते / उन्मत्ता विगतमदा भवन्ति, विषपीडिता निर्विषा भवन्ति / अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते / गुर्विण्यः स्वस्तिना प्रजायन्ते / बन्धनबद्धा बन्धनाद् विमुच्यन्ते / अधना धनानि प्रतिलभन्ते / बुभुक्षिताः पूर्णोदरा भवन्ति / रोगार्त्ता रोगैर् विमुक्ता भवन्ति / अन्तरिक्षाश् च देवा दिव्यपुष्पवर्षम् उत्सृजन्ति //
अथ शक्रो देवानाम् इन्द्र अधस्ताज् ज्ञानदर्शनं प्रवर्त्य तत्क्षनम् एव स्वर्गलोकात् प्रसरति / भगवतः पूजार्थं स्वयम् एव महाप्रमाणदिव्यसुवर्णरत्नमयच्छत्त्रं धृत्वा देवगणैः सार्धं तत्र गृद्धकूटपर्वते समायाति कोटिप्रमाणदुन्दुभयः प्रनादयन् //
अथ शक्रो देवानाम् इन्द्रो भगवन्तं ददर्श / द्वात्रिंशता महापुरुषलक्षणैः समन्वागतं काञ्चनपर्वतम् इव श्रिया ज्वलन्तं भगवन्तं सुवर्णरत्नमयैश् छत्त्रैः संछादित अभूत् / त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरस्तान् निषण्णः //
अथ भगवान् धर्मं कथया संदर्श्य समुत्तेजयति संहर्षयति //
⟨अनित्य संसारम् अनित्य कोषम् अनित्य सौहृदि सपुत्रदारा / अनित्य राजो विविधोपभोग्यं संसारके सर्वम् अनित्यम् एव //
दानं विभूषणं लोके दानं दुर्गतिनिवारणम् / दानं स्वर्गस्य सोपाणं दानं शान्तिकरं शुभम् //⟩
अथ शक्रो देवानाम् इन्द्रः सपरिवारो धर्मं श्रुत्वा पुनर् अपि दिवं जग्मुः //
तदनन्तरं पर्षज्जनास् तद्धेतुकं चावेदितमनसः, तेषाम् आशयं ज्ञात्वा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः //
कुत्रेमानि भगवन् कुशलमूलानि कृतानि यतो भगवत एवंविधा पूजा भिक्षुसंघस्य चेति // भगवान् आह // तथागतेनैव तानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि / मयैतानि कर्माणि कृतान्य् उपचितानि, को ऽन्यः प्रत्यनुभविष्यति / न भिक्षवः कर्माणि कृतानि पृथिवीधातौ नापवाय्वग्निषु विपच्यन्ते शुभान्य् अशुभानि च //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि क्षमावत्यां महानगर्याम् उत्पादितः क्षेमंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसरथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् एतर्हि तिष्ठति सशिष्यः // तेन खलु पुनः समयेन अन्यतमजनपदे राजधानी आसीत् / मनोरमा ऋद्धिस्फीता सुभिक्षा चाकीर्णबहुजनपरिवृता विद्वज्जनसम्पन्ना / तस्यां राजधान्यां महाक्षत्रियमूर्ध्नाभिषिक्तो (दक्: 89) महावीर्यवान् परमधार्मिको धर्मराजो धर्मेण राज्यं कारयति स्म // अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरस्य तथागतस्य महाशंसावर्णनं भाषितं श्रुत्वा परमं प्रसादयाम् आस // अथ तत्क्षणम् एव विविधपूजोपकरणं सज्जीकृत्य निमन्त्रणार्थं दूतं प्रेषयति / अश्ववेगेन हस्तिवेगेन रथवेगेन / ततः क्रमतस् तत्रानुप्राप्तस् तथागतं प्रार्थयाम् आस // हे भगवन् क्षेमंकर सम्यक्संबुद्ध महाक्षत्रियो मूर्ध्नाभिषिक्तो त्वयि निमन्त्रणं प्रेषित अद्य चतुर्थदिने सशिष्यः पर्षद्गणैः सह समायान्तु महामुने // इत्य् उक्त्वा क्षेमंकरं सम्यक्संबुद्धं प्रणिपत्य स्वविषयं प्रत्यागतः //
अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तश् चतुर्थदिने पुष्पधूपगन्धच्छत्त्रध्वजपटाकाः सज्जीकृत्य, पुष्पाञ्जलिं प्रक्षिप्तवान् //
ततो बुद्धानुभावेन तानि पुष्पाणि क्षेमंकरस्य तथागतस्य शिरसि प्रतिच्छन्नानि बभूवुः //
अथ भिक्षवः क्षेमंकरं सम्यक्संबुद्धं पप्रच्छुः / कुत इदं भदन्त भगवन् निमन्त्रणम् आयातम् इति //
(दक्: 90) क्षेमंकरः सम्यक्संबुद्धः प्रोवाच //
महाक्षत्रियो मूर्ध्नाभिषिक्तो निमन्त्रणं कृतम् / तत्रास्माभिर् गन्तव्यं सज्जीकुर्वन्तु भिक्षवः // dak_9.2 // इति //
अथ क्षेमंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धश् चतुर्थदिने भिक्षुगणैः परिवृतः क्षेमंकरो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः / मुक्तो मुक्तपरिवारः आश्चर्य आश्चर्यपरिवारः / विनीतो विनीतपरिवारो ऽर्हन्न् अर्हत्परिवारः / वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतः / गज इव कलभगणपरिवृतः / सिंह इव दंष्ट्रिगणपरिवृतः / राजहंस इव हंसगणपरिवृतः / सुपर्णीव पक्षिगणपरिवृतः / विप्र इव शिष्यगणपरिवृतः / बालाहाश्व इव तुरगगणपरिवृतः / देशिक इवाध्वगगणपरिवृतः / सूर इव योधगणपरिवृतः / सार्थवाह इव वणिग्गणपरिवृतः / श्रेष्ठीव पौरजनपरिवृतः / (दक्: 91) कोट्टराज इव मन्त्रिगणपरिवृतः / चक्रवर्तीव पुत्रसहस्रपरिवृतः / चन्द्र इव नक्षत्रगणपरिवृतः / सूर्य इव रश्मिसहस्रपरिवृतः / धृतराष्ट्र इव गन्धर्वगणपरिवृतः / विरूढक इव कुम्भाण्डगणपरिवृतः / विरूपाक्ष इव नागगणपरिवृतः / धनद इव यक्षगणपरिवृतः / वेमचित्रीवासुरगणपरिवृतः / शक्र इव त्रिदशगणपरिवृतः / ब्रह्मा इव ब्रह्मकायिकपरिवृतः / स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः / सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथेन प्रचचार // अनेकैर् देवगणानुचरैर् बुद्धधर्मैर् नानादेवपुत्रैः संवर्णितैः संगीतैर् वाद्यप्रणादैः क्षेमंकरो भगवांस् तां राजधानीम् अनुप्राप्तः //
अश्रौषीद् राजा महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरसम्यक्संबुद्धश् चास्माकं राजधानीम् अनुप्राप्त इति श्रुत्वा च महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् क्षेमंकरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य क्षेमंकरस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः //
अथ राजानं क्षत्रियं मूर्ध्नाभिषिक्तं क्षेमंकरः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति // अथा स राजा लब्धप्रसादजातः क्षेमंकरं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेन भोजनेन प्रतिपादितः //
शतसहस्रमूल्येन सुवर्णच्छत्त्रेण संछादयाम् आस //
अथ स भगवान् क्षेमंकरः सम्यक्संबुद्धो धर्मवर्सं प्रवर्षितुम् आरब्धः //
साधु साधु महाराज महापुण्यव्रतोत्तमम् / छत्त्रावरोहणं येन, ईदृशं फलम् आप्यते // dak_9.3 //
गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती / शशधरपरिवेषच्छत्त्ररुद्धार्कपादस् तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम् // dak_9.4 //
हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप- स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः / चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम् // dak_9.5 //
पुनस् च विस्तरेण शृणु / तथागतेभ्यश् छत्त्रप्रदानतो राजा भवति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतःइ // तद्यथा //
चक्ररत्नं हस्तिरत्नम् अश्वरत्नं स्तीरत्नं मणिरत्नं गृहपतिरत्नं परिणायकरत्नम् / एवं सप्तरत्नसमन्वागतो भवति राजा चक्रवर्ती चास्य पुत्रसहस्रं भवति शूराणां वीराणां वराङ्गरूपिनां परसैन्यप्रमर्दकानां / पुत्रसहस्रैः समन्वागतो भवति / स इमां महापृथिवीं ससागराम् अखिलम् अकण्ठकम् अदण्डेनाशस्त्रेणाभिनिर्जित्याध्यासयति / एकपुरीम् इव पृथिवीं धर्मेण राज्यं करिष्यति / एवंरूपेण त्वं राजा भविष्यसि चक्रवर्ती चतुर्द्वीपेश्वर इति व्याकार्षीत् // स भगवान् यथागतं तथार्द्ध्या खगपथेन स्वं विहारं समाययौ //
अथ स राजा परिनिर्वृतस्य तथागतस्य च समन्तयोजनं स्तूपं कारितवान् क्रोषम् उच्चत्वेन // महाप्रमाणं छत्त्रं न्यस्तो पूजितो ऽभूत् //
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः / यन् मया क्षेमंकरसम्यक्संबुद्धस्य (दक्: 94) स्तूपेषु श्रद्धया छत्त्रं न्यस्तं एवंविधा पूजा मया चक्रवर्ती भूत्वा संसारे ऽनन्तसुखम् अनुभूतं / इदानीं तेनैव हेतिना शक्रेण देवानाम् इन्द्रेणास्य तथागतस्यैवंविधा मानिता पूजिता छत्त्रेण सहेति // तस्माद् भिक्षवो बुद्धं भगवन्तं शास्तारम् इति ज्ञात्वा युष्माभिर् अपि सत्कारं कर्तव्यम् इति / तथा ममान्तरे मम निर्वृते संसारे सत्त्वेभ्य एवम् उदारतरं वाच्यम् अप्य् उन्नेयम् //
इति पुण्यप्रसादनद्वाविंशत्यवदानकथायां छत्त्रदानकथा नवमः परिच्छेदः //
x. धात्ववरोपणकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //
भगवंश् छत्त्रानुशंसां तव वाणीं श्रुत्वा प्रमोदं प्राप्तवान् // पुनर् अपि
जिनस्य प्रकृतौ स्तूपे धातुम् आरोप्यते च यत् / फलं तेषां कथं नाथ वद त्वं ज्ञानसागर // dak_10.1 // तस्मिन् समये सो ऽपि भगवांल् लोकानुकम्पार्थम् इह गृध्रकूत एव विहरति //
भगवान् आह //
साधु शृणु महासत्त्व धात्वारोपणजं फलम् / पुण्यं तद् विशेषं च वक्ष्यामि सर्वबोधये // dak_10.2 //
तद् यथैकस्मिं समये दक्षिणापथे धर्मकल्पो नाम राजा राज्यं कारयति / ऋद्धिस्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडम्बरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियम् इव पुत्रैकं राज्यं कारयति // सो ऽपरेण समयेन देव्या (दक्: 96) सार्धं क्रीडति रमते परिचारयति / तस्य क्रीडतो रममाणस्य परिचारयतो मासात्ययात् पुत्रो जात अभिरूपो दर्शनीयः प्रासादिक अतिक्रान्तमानुष्यवर्णः संप्राप्तदिव्यधातुश्लिष्टवर्णश् चानेन प्रभया सर्वं च नगरम् अवभासितो ऽभूत् // तं दृष्ट्वा मातापितरव् अन्ये च लोकामात्यपर्षज्जनाः कौतूहलाभ्यागतः सत्त्वाः परं विस्मयम् आगताश् चिन्तयन्ति / कुतो ऽयं ईदृशः सत्त्वविशेष इति //
अथ तस्मिन् समये तस्य राज्ञो ग्रामग्रामण्याम् अधिकृतजना राजानम् आगत्य प्राहुः / भो महाराज तव विषयेषु स्थानेषु निधानप्लुता जाता // के चिद् आहुः सुवर्णनिधानप्लुता जाता // के चिद् आहू रूप्यस्य निदानप्लुता जाता // के चिद् आहू रत्ननिदानप्लुता जाता // एवम् अन्यम् अन्यान्य् अष्टौ निधानप्लुता जाता // किं भवतु दारकस्य नामेति // ज्ञातय ऊचुः // अहो पुण्यस्य सामर्थः / यस्माद् अनेन जातेन, धातुश्लिष्टप्रभया (दक्: 97) सर्वं नगरम् अवभासितम् / अपि त्व् अष्टौ धातूनां निधानप्लुता जाता / तस्माद् भवतु दारकस्य नाम धातुस्तेजराजकुमार इति नाम स्थापितम् //
तत उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् / स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाश्य आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धार्मिको धर्मकामः प्रजावत्सरस्वभावः //
यावद् अपरेण समयेन रूपमदमत्तो प्रभूतबलाक्रान्तः स स्वराज्यविषये विस्तरकौतुकः किं किम् अस्तीति तद्दर्शनार्थम् उपचक्राम, महत्या राजर्द्ध्या नानावाद्यं निनादयन् परिजनसहायपरिवृतो वडबासहस्रैर् नागसहस्रैः परिवृतो यथा शक्रोपचारैः शक्रपरिस्पर्ध्य् एवं स विभूत्या निष्क्रामति //
अथ ग्रामण्यां जनपदे विस्तरं दर्शितुं राजागच्छतीति शब्दम् अश्रौषीत् // तदा सर्वे जना योग्यानुसारेण सर्ववस्तूनि संभाराणि सज्जीकृत्य राजानम् उपगम्य सर्ववस्तूपभोगपुरःसरेण तं सत्कारयाम् आस //
ततः स धातुस्तेज इतो नातिदूरे परमविस्तरसमतलस्थलभूमिम् अनुप्राप्तः / ततो राज्ञो मनसि उत्कण्ठित अश्ववेगेन क्रीडितुम् // अथ राज्ञः सहायान् अत्र विश्रामयति / अथ राजा द्विर् अपि त्रिर् अपि अश्ववेगं कृतवान् / ततो ऽश्वेनातिजवेनापहारितो गतः / परमदूरदेशे ऽश्वेन परित्यक्त्वा राज् मूर्छितः / मूर्छा परिगता, राजा क्षणेन चेतनां पुष्णाति / अश्वम् अदर्शनं प्राप्तः // ततः सर्वे सहायजना राजानम् अदर्शनं प्राप्ता मनोभङ्गं कृत्वा प्रतिनिवृत्ताः //
अथ स राजा, प्रतिनिवृत्तं मार्गं न ज्ञायमानं दिशो ऽपि अविदितः, स्वेच्छया तद् भुवनं त्यक्त्वान्यत्र दूरभुवनं ययौ // अथ राजा तत इतो नातिदूरे रमणकं नाम नगरं दृष्टं, स तद् उपजगाम / यावत् ततश् चतस्रो ऽप्सरसो निर्गता अभिरूपा दर्शनीयाः प्रासादिकास् ताः कथयन्ति / एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् (दक्: 99) आगच्छ रंस्यामह इति // स तथेति कृत्वा ताभिः सहानेकानि वर्षानि रतिम् अनुभूतवान् / अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः / दक्षिणपद्धतिगमनाच् चैनं वारयन्ति //
स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् / यावत् पुनर् अपि दक्षिणपथानुगच्छन् पश्यति सदामत्तं नाम नगरं / तत्र द्वारीभूतो यावत् तस्माद् अप्य् अष्टौ चाप्सरसो निर्गता अभिरूपतरा दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति स्म / एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे // स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् / अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः / ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति / स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् / यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम् / स तत्र द्वारीभूतो यावत् तस्माद् अपि षोडशाप्सरसो निर्गता अभिरूपतरा दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति / (दक्: 100) एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यासनगृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम् आगच्छ रंस्यामहे // स ताभिस् सहानेकानि वर्षाणि रतिम् अनुभूतवान् / अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः / ता अप्य् अस्य दक्षिणपद्धतिं वारयन्ति / स यतो दक्षिणायाः पद्धतेर् निवार्यते ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम् //
यावत् पुनर् अपि दक्षिनेण पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम् / स तत्र द्वारिभूतो यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गता अभिरूपतरा दर्शनीयतराः प्रासादिकतरास् ताः कथयन्ति / एहि धातुस्तेज स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपारजतसंपूर्णम् आगच्छ रंस्यामहे // स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान् / अथापि तत्कृतपुण्यः सत्त्वः कृतकुशलः / ता अप्य् अस्य दक्षिनां पद्धतिं वारयन्ति / स यतो दक्षिणायाः पद्धतेर् निवार्यते / ततः सुष्ठुतरम् उत्कण्ठितो (दक्: 101) गन्तुम् // यथा दक्षिणां पद्धतिं गच्छति तथास्य इतः पद्धते यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति महान्तं तप्तवालुकास्थलं, ततस् तीरेषूपगच्छति / अग्निदाहम् इव ज्वालागतां वालुकां ददर्श // तद् दृष्ट्वा मनोविह्वलतया इति चिन्तितः कथं गम्यते / कुत्र गच्छेयम् अहं नु भो // तथा स्थिते उग्रजन्तुः समागतः / नाश्वो न खरो नोष्ट्रो न गावो मुखाकृतिर् न विद्यते / जन्तुर् एक उपागत्य तम् उवाच / मानव मे ऽङ्गपृष्ठे ऽवरोहय, इदं वालुकास्थले कथं हि गम्यते / यदि हिण्डते तव पादः कोमलगोधुमो मुशलप्रहारैर् विभेदयन्न् इव विशीर्यते / अत एव मे पृष्ठे ऽवरोहय परतीरं नीयते मया // स अवरुरोह च तदा स जवेन नीयते / तत्क्षणम् एव तीरम् अनुप्राप्तः स जन्तुर् अन्तर्हितो ऽभूत् //
ततो दक्षिणेन पथा गच्छन् कस्मिंश् चित् स्थाने पश्यति प्रोज्ज्वलम् / ज्वलनेन स तप्यते // स आह / केन कर्मणेति // वनदाहवह्निदो ऽहं / तस्य कर्मणेति //
स पुनर् अपि दृष्टः / वायसगृद्धाद्यैर् आरटने ऽनिशं भुज्यते // सो ऽवोचत् / को ऽसौ केन कर्मणेति // स आह // अहं विश्वासघातकः / तेन कर्मणेति //
पुनर् अपि ज्वलदग्निगुडं मुखे विष्कम्भमाणम् अश्नाति / तं दृष्टवान् // स आह / को ऽसौ // सांघिकानां द्रव्यहरणेनेति //
स पुनर् अपि दृष्टः / अयोज्वलिततीक्ष्णतरक्षुरमार्गे रटन् विशीर्णपादः प्रगच्छति // तं दृष्ट्वाह // का एवंविधाः // स चाह // धर्मसेतुं विषमे जले वा मर्गे कुटिले वा भिन्दन्ति / तस्य कर्मणेति //
पुनर् अपि प्रकीर्णकेशीस्त्रियौ स्वजानु दन्तैर् घृष्ट्वा स्थितौ / स आह / के स्त्रियौ केन वा कर्मणेति / ते ऊचतुः / अदान्नदाता कुशलैर् विहीनः / अन्नं न प्राप्तं द्वादशवर्षभूतम् //
पुनर् अपि इतो ऽभ्यन्तरं गच्छन् पश्यति / शाल्मली रटन्न् अष्टाङ्गुलायस्कण्टका संसक्तः // स आह // को ऽयं // स चाह // परदारागमनप्रसक्त इति //
स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति / रज्जुना पादद्वयोर् बद्धा गले ऽवलम्ब्य केशेषु रज्जुना ग्रन्थयित्वा वृक्षे चालम्ब्य स्त्री नितम्बे ऽयोदंष्ट्रैः खाद्यते भ्र्शं // तां दृष्ट्वा स आह / का एवंविधा // साह // आत्मस्वामिनम् अवहेलां कृत्य परपौर्षरतेनेति //
पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति / मस्तके ऽयोमयचक्रं भ्रामयन् पूयशोणितं प्रसरति शिरसो ऽस्य / तं दृष्ट्वा कथयति / अयं विधा कस्माद् दुःप्रसह्यदुःखी कः // स तम् आह // मातुर् अपकाराद् इमं दुःप्रसह्यदुःखम् /
अथ स पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति /
महाकायो महोच्छ्रायपर्वतोदरसंनिभः / स्वकेशरोमप्रतिच्छन्नाङ्गः सूचीच्छिद्रोपमामुखः // dak_10.3 //
तं दृष्ट्वा स प्राह / को ऽसाव् अयम् उग्ररूपो भयानकः // स तम् आह / कस्मै चिद् दानं किंचिन्मात्रं न ददामि / दाननिवारकदानमात्सर्याद् इति //
पुनर् अपि इतो दक्षिणेन पथा गच्छन् पश्यति / अग्निकणाः शिरसि वर्षन्ति महातृषार्तः // तं दृष्ट्वा स प्राह / अहो विधेयं केन कर्मणेति // स आह //
कस्मै चित् तृषार्तायागताय पानीयं पातुं न ददामि // पुनस् तेन पातुं गच्छेद् (दक्: 105) इति, तदा स चापि मृत्तिकाम् आदाय व्ययनं कृत्वा पानीयम् आविलं कृत्वा तद्धेतोर् इदं दुःखम् //
अथ स धातुस्तेजनृपः परलोकम् इतिनिश्चितम् इति संचिन्त्य तस्माद् दक्षिणपथाद् विमुखीभूय स्वराज्यविषयम् अनुप्राप्तः //
तदा तस्य पित्रा राज्ञा चिरकालेन न प्रत्यागतेन कालगत इति मत्वा पुत्रस्य नाम्ना प्रासादः कारितः / नानावाद्यभाण्डमृदङ्गताडझल्लवीणावेणुमुकुण्डतूर्यादि च्छत्त्रध्वजचामरादि प्रासादोपरि न्यस्तम् // चाक्षराणि लिखितानि स्थापितानि / यदि तावद् धातुस्तेजकुमारो जीवति, तस्य माङ्गल्येन क्षिप्रम् आगमनाय, अथ च्युतः कालगतो वा गत्युपपत्तिस्थानविशेषतायै // इत्य् अक्षराणि लिखित्वा तासु न्यस्ताः //
अथ स धातुस्तेजो नृपतिर् दृष्ट्वा पौरजनैर् अचिह्नत्वा केनापि अविचारितः // ततस् तेन धातुस्तेजराज्ञा स्वनाम्न निर्मितप्रासादं (दक्: 106) समन्ततः परिभ्रमन् पश्यति // स्वनामलिखितं कौतूहलजातः स संलक्षयति / अहो मे मातापितृभ्यां मृत एव गृहीत इति निश्चयं मत्वा मे नाम्ना प्रतिमादिना प्रासादः कारितः / पित्रा राज्ञा तथाकृते भूयः कथं संमुखी पश्येयं / अतः कारणाद् अत्र स्थातुं मनो न रमते / कैवल्यमोक्षमार्गं साधयेयम् इत्य् उक्त्वा तस्मात् स्थानाच् चरन्न् अन्यत्र मगधाभिमुखं जगाम //
अथ मागधाः सत्त्वास् तस्मिन्न् अवसरे गृद्धकूटम् आगमनायागच्छन्ति / ततस् तेन धातुस्तेजेन ता दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्ति // तैर् उक्तं गृद्धकूटं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति // धातुस्तेजसो बुद्ध इति अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टानि परमकुतूहलम् उत्पन्नम् / तस्यैतद् अभवत् / यन् न्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रमेयम् इति सो ऽपि जनैः सार्धं गृद्धकूतं गच्छति //
ततः स ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समन्वागतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा प्रसादजातो भगवतः पादौ शिरसा वन्दित्वा पुरतो निषण्णो धर्मश्रवणाय //
अथ भगवान् आशयं ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकी धर्मदेशना कृता // यां श्रुत्वा प्रसादजातो भगवन्तम् एतद् अवोचत् // भगवन् व्याकरोतु / अनुत्तरायां सम्यक्संबोधौ व्याकरोतु //
अथ भगवान् आह // भविष्यसि त्वं कुलपुत्र धातुशिखरनामलोकधातोर् धातुस्तेजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् इति / व्याकरणं श्रुत्वा प्रव्रज्याग्रहणं चकार // तत्क्षणे साक्षाद् अर्हत्त्वं प्राप्तम् //
ततो भिक्षवस् तं दृष्ट्वाश्चर्यजाता भगवन्तं पप्रच्छुः / को ऽसौ भगवन् त्वया सम्यक्संबोधौ व्याकृत इति //
भगवान् आह // दक्षिणापथि धर्मकल्पो नाम राजा महाप्रतापवान् धर्मिष्ठः / तस्य राज्ञः सुतो ऽसौ //
भिक्षव ऊचुः // कानि भदन्त तेन कर्माणि कृतानि येनाभिरूपो दर्शनीयः प्रासादिकस् तेजः प्रव्रज्यार्हत्त्वं साक्षात्कृतम् इति // भगवान् आह //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुश्याणां च बुद्धो भगवान् बन्धुमतीं महाराजधानीं नगरीम् उपनिश्रित्य विहरति स्म // अथ स भगवान् सकलबुद्धकार्यं कृत्वा इन्धनक्षयाग्निर् इव निरुपधिशेषे निर्वाणधातौ परिनिवृतः / तस्माद् राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनस्तूपं कारितं क्रोशम् उच्चत्वेन //
तेन समयेन अन्यतमश्रेष्ठिपुत्रेण तं दृष्ट्वा प्रसादजातेन पित्रा साधितानि नानाधातुमहारजतरूप्यरत्नकूटानि गृहीत्वा तस्मिन् विपश्विनः स्तूपगर्भे धातुर् आरोपितः // तेन प्रणिधानं कृतं / अनेनाहं कुशलेन पश्चिमे समये पश्चिमे काले पश्चिमके तथागते ऽनुत्तरायां सम्यक्संबोधौ व्याकरणं प्रतिलभेयम् इति //
तेन पुत्रेण कृतकुशलमूलेन तस्य पिता दक्षिणपथि धर्मकल्पो नाम राजा बभूव, तस्य पुत्रो धातुस्तेजः पूर्वजन्मन्य् अपि पितापुत्रौ //
भगवान् आह // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठिपुत्र आसीद् अयं स धातुस्तेजराजा / विपश्विनः स्तूपे धातुम् आरोपितं / तेन हेतुना अभिरूपः प्रासादिको दर्शनीयतरः / अर्हत्त्वं साक्षात्कृतम् इति // मयापि सम्यक्संबोधौ व्याकृतः //
भगवान् पुनर् उवाच // महानुशंसा मैत्रेय महानुशंसा भिक्षवस् तथागतस्य स्तूपबिम्बेषु धात्ववरोपणानां नैकफलानुशंसा // तच् छृणुत //
पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः / समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते // dak_10.4 //
शक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः / अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य // dak_10.5 //
दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः / पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या // dak_10.6 //
तस्माद् भिक्षवो ममान्तरे मम निर्वृते ऽनायके लोके इदं सूत्रं देशयितव्यम् / श्रुत्वा च प्रसादो भवति प्रसादजाते तथा करिष्यति तथा च कृत्वा तत्फलं प्राप्यते ध्रुवम् //
इति द्वाविंशत्यवदानकथायां धात्ववरोपणकथा दशमः परिच्छेदः //
xi. मण्डलकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो धात्ववरोपणफलानुशंसां श्रुत्वा भगवन्तं पुनर् एवम् आह //
भगवञ् श्रोतुम् इच्छामि, मण्डलं सुगतस्य च / क्रियते येन पूजार्थम्, फलं तेषां कथं विभो // dak_11.1 //
भगवान् आह //
भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः / धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति // dak_11.2 //
इति भाषित्वा भगवान् तूष्णीभूतः स्थितः / तथानुष्ठिते भगवान् संचिन्तयति //
चन्द्रप्रभो बोधिसत्त्व इहागच्छत्व् इति सहचित्तोत्पादाद् भगवतश् चन्द्रप्रभो बोधिसत्त्वश् चन्द्रावभासलोकधातोर् अन्तर्हितः / तत्क्षणम् एव ऋद्ध्या विहायसा आगत्य गृद्धकूटे भगवतः पुरतो निषण्णः // स भगवतः पादौ शिरसाभिवन्दित्वा, एकान्ते निषीदति / स च साक्षाच् चन्द्र इव रूपसौन्दर्यश् चन्द्र इव प्रभाविराजितशीतरश्मिः / समन्तयोजनो ऽस्य तेजसावभासितः //
अथ स बोधिसत्त्व उत्थायासनाद् भगवन्तं त्रिधा प्रदक्षिनीकृत्य उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्या येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् // भगवन् कस्मिन् सति भवप्रत्ययो जायते / कस्य निरोधो निरोधात् पुनर् भवेत् / किं भवो निरुध्यते //
भगवान् आह // साधु साधु चन्द्रप्रभ / भिक्षवः पश्यत यूयम् अपि तथा शृणोथ / इदं सूत्रं संप्रकाशयिष्ये दशबलसमन्वागतो ऽहं चतुर्वैशारद्यविशारद उदाराम् आर्षभं पर्षदि सिंहनादं नदामि / यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते / यद् उताविद्याप्रत्ययात् संस्कारः, संस्कारप्रत्ययाद् विज्ञानं विज्ञानप्रत्ययान् नामरूपं नामरूपप्रत्ययात् षडायतनं सडायतनप्रत्ययात् स्पर्शः स्पर्शप्रत्ययात् तृष्णा तृष्णाप्रत्ययाद् उपादानम् उपादानप्रत्ययाद् भवो भवप्रत्ययाज् जातिर् जातिप्रत्ययाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / यद् उतास्मिन् न सतीदं न (दक्: 113) सतीदं न भवति / अस्य निरोधाद् इदं निरुध्यते / यद् उताविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते / एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति / स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृतश् छिन्नप्लोतिको यावद् देवमनुष्येभ्यः सम्यक् संप्रकाशितः //
अस्मिन् खलु धर्मपर्याये भाष्यमाणे चन्द्रप्रभेण बोधिसत्त्वेन अष्टादशावेणिकबुद्धधर्माः प्रतिलब्धाः षट्पारमिता एव प्रतिलब्धाश् च //
अथ खलु भगवांस् तस्यैव व्याकरणम् अनुप्रयच्छति //
साधु साधु कुलपुत्र, अस्मिंस् तव लोकधातौ चन्द्रप्रभो नाम तथागतो ऽर्हन् भविष्यतीति //
विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः / देवानां च मनुष्याणां शास्ता लोके भविष्यति // dak_11.3 //
अथ स बोधिसत्त्वो भगवतस् तथागतस्य व्याकरणम् अनुप्राप्य प्रसादजातेन भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा स्वभवनं प्रक्रान्तः //
अथ खलु भिक्षवस् तस्य बोधिसत्त्वस्य अभिरूपं दर्शनीयं प्रासादिकं च दृष्ट्वा भगवन्तम् एव ऊचुः // कानि भदन्त चन्द्रप्रभेण बोधिसत्त्वेन कर्माणि कृतानि, अभिरूपो दर्शनीयः प्रासादिकः // भगवान् आह //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सस्ता देवानां च मनुष्याणां च बुद्धो भगवान् बन्धुमतीं राजधानीम् उपश्रित्य विहरति स्म // तेन खलु पुनः समयेन भगवान् विपश्वी सम्यक्संबुध्ह इहैव विहारान् निष्क्रम्य त्रायत्रिंशेषु भवनेषु विहरति //
अथ ते जनकाया भगवन्तं विना स्थातुमनो नोत्सहन्ते // ततस् ते जनकाया भगवतो विपश्विनः श्रावकोत्तमः सुनन्दभिक्षुस् तम् ऊचुः // क्व गच्छति भगवान् विपश्वी चिरं दिवसम् अदृष्ट्वा सर्वे जनकाया भगवन्तं द्रष्टुम् आकाङ्क्षमाणाः स्थिताः //
सुनन्दभिक्षुर् आह // इहैव विहारे ऽहम् एकस् तिष्ठामि, स मयापि दर्शनं न प्राप्तो भगवान् //
तेन खलु पुनः समयेनान्यतमः श्रेष्ठी महार्द्धो धर्मकामः शुद्धाशयो भगवन्तम् अर्चनार्थं पुष्पधूपादीनि गृहीत्वा विपश्यिनः सम्यक्संबुद्धस्य विहारे प्रविशति // ततस् तेन भगवन्तम् अदृष्ट्वा पृष्टः / भगवान् क्व गच्छति / कुत्र विहरति / अहो मन्दभाग्यस्य भगवान् न प्राप्त इति //
सुनन्दो ऽपि पिण्डाय प्राविक्षत् // ततस् तेन श्रेष्ठिना गोमयेनोपलिप्य मण्डलाकारं कृत्वा भगवतो ऽर्थे पूजा कृता / पुनस् तस्य बुद्धिर् उत्पन्ना // अनेनैवंविधिना गोमयेनोपलिप्य मण्डलम् अविधाय कः पूजयिष्यति / तत् कस्मान् मन उत्सहन्ते शून्यस्थाने / अत एवम् अहं सौवर्णमयं मण्डलं निर्मापयिष्ये / (दक्: 116) तथा कृते सर्वे जनकायास् तथागतपूजनाय मनःप्रसन्नतां भवेयुः // इति चिन्तयित्वा स श्रेष्ठी चतुरस्रप्रमाणेन मण्डलं कर्मकरेण कारयित्वा विहारमध्ये निर्मापितः // तदनन्तरं स श्रेष्ठी तं निर्मापयित्वा वीथिम् अवतरन् सर्वजनकायान् आहूयोक्तः // ये ये तथागतार्चनाभिलाषजनास् तस्मिन् मण्डले ऽर्चयितव्याः / यावद् भगवान् विपश्वी सम्यक्संबुद्धो नागतस् तावद् इति // तच् छ्रुत्वा ततः प्रभृति सर्वे बन्धुमतीजनकायास् तं दृष्ट्वा प्रसादजाता भगवतो ऽर्थं पूजां कृताः //
अथापरेण समयेन श्रेष्ठी मण्डलम् अभ्यर्च्य प्रणिधानं कृतम् // अनेन कुशलमूलेन वानप्रस्थबोधिसत्त्वो भवेयम् इति / पश्चिमकथागते संबोधिव्याकरणं प्रतिलभेयम् इति प्रणिधानं कृतम् // ततः स बुद्धे भगवति मनः प्रसाद्य कालं कृत्वा कौरव्यराज्ञः महिषी तस्याः कुक्षाव् उपपन्नः // ततो नवानां मासानाम् अत्ययात् पुत्रो जात अभिरूपः प्रासादिको दर्शनीयः / यदा जातमात्रेण तस्य प्रभया सर्वं (दक्: 117) नगरम् अवभासितम् / यथा चन्द्रमोदितः शीतरश्मिस् तथा प्रभया स्फुटो ऽभूत् // तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितम् / किं भवतु दारकस्य नामेति //
अमात्या ऊचुः // यस्माद् अस्य प्रभा निःसृता तस्माद् भवतु दारकस्य चन्द्रप्रभ इति व्यवस्थापितम् //
ततो धात्रीवर्गाभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् च तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् / यदा चन्द्रप्रभो दारको महान् संवृत्तः // स च भद्रः कल्याणाशयः प्रकृतिमेधावित्वात् सर्वशास्त्रविद्याधिगमे कौशलः शिल्पज्ञाने मणिरागे वाद्यवादिते गीतसंज्ञाने संगीतशास्त्रे धनुविद्यादिसंपन्नो ऽभूत् //
स बन्धुमित्राश्रितदीनवर्गान् संमाननीयान् अतिथीन् गुरूंश् च / प्रह्लादयाम् आस तया समृद्ध्या देशान् महामेघ इवाभिवर्षन् // dak_11.4 //
सो ऽपरेण समयेन सहायानुचरैः परिवृतो राज्यकौशलकौतूहलं दर्शितुं समन्ततो नगराद् भ्रमन् लोकान् पश्यति / के चिद् वृद्धाः कुब्जबधिरा इन्द्रियहीना व्याधिभिः स्पृष्टास् तान् पश्यति / के चित् सुन्दररूपयौवनमददर्पा गर्जितास् तान् पश्यति // स तान् दृष्ट्वा तस्यैतद् अभवत् // इह संसारे सर्वम् अनर्थम् एवम्, इदं शरीरम् अशौचपापाकुलं रोगशोकस्थानं भयाकुलं मायानिर्मितम् अवीचिसदृशसंसारसमुद्रदुःखम् अहर्निशं प्रतापितम् / जरामरणनिवारणोपायं नास्ति / तस्मात् संसारसमुद्रतरणोपायम् अन्वेषयेयम् इति विचिन्त्य राजगृहं प्रविश्य तूष्णीं भूत्वा चिन्तयाम् आस //
रागेण जायते लोभं शोकं लोभेन जायते / शोकेन शोषयेद् गात्रं मरणं तत्र प्राप्यते // dak_11.5 //
तस्मात् सुखं न पश्यामि मानुषाणां कदा चन / ईदृशं दुःखसंसारे ऽसुखसंज्ञा विधीयते // dak_11.6 //
तथाविधे ऽसारके कः सारम् आदद्यात् //
ततः स चन्द्रप्रभः पितरं राजानं विज्ञापितवान् // तात शृणु मे वाञ्छाम् / तव शुद्धकुले जातो ऽहं कस्मै चिद् भिक्षार्थिकेभ्यः श्रमणब्राह्मणवणीपकेभ्यो दानं दातुम् इच्छामि, तात ममाभिप्रायं शृणु //
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् // dak_11.7 //
विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा / यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् // dak_11.8 //
तस्माद् अहं प्रार्थयामि //
ततो जनकः प्रहसन् तम् उवाच // अहो शुद्धचेतो दुरासद, बालो ऽपि दानम् एव रोचते // पुनर् आह // पुत्र चन्द्रप्रभ किइन् भाषसे / नूनं तव विशये ऽन्नगृहपानगृहं सुवर्णरजतमणिमुक्तासंपरिपूर्णं तत् सर्वं तवाधीनम् / यथेच्छया दानं कुरुष्वाभिप्रायम् //
स आह // तात साधु भद्रं भवतु // इत्य् उक्त्वा पितुर् वाचः शिरसा निधाय, श्रमणब्राह्मणवणीपकेभ्यो दानानि ददाति पुण्यानि करोति //
अथ तस्य दारकस्य चन्द्रप्रभस्य संसारनैर्गुण्यं बहुदोषयुक्तं मत्वा अगारमध्या वसितुं मनो न रमते / वनप्रस्थं गन्तुमन इति चिन्तितवान् //
तस्यैतद् अभवत् //
अयुक्तम् एतन् मातापितराव् अनिवेद्य कथं गच्छेयम् / अत एव मातापितराव् अग्रे निवेद्य वनप्रस्थं गच्छेयम् इत्य् आरोच्य येन पिता तेनोपसंक्रान्त उपसंक्रम्य पितरौ चाह // तातानुजानीहि मे गृहावासे बहुदोषजालं मत्वाहं वानप्रस्थो भवेयं तत् तवाज्ञां देहीति //
एवम् उक्तौ पितरौ साश्रुवदनौ गद्गदकण्ठम् उच्छ्वास्य तम् ऊचतुः // नार्हत्य् अत्रात्मज नौ हृदये शोकशल्यव्रणम् असंरूढम् एव उद्घटयितुं परमेण दुःखेनेति //
तथा क्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् / अस्मान् अनाथान् अपहाय गेहे कस्माद् वनं वाञ्छसि गन्तुम् एकः // dak_11.9 //
तच् छ्रुत्वा स आह // पश्यतु देव //
प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे / तद्विरुद्धस्य धर्मस्य को ऽवकाशपरिग्रहः // dak_11.10 //
विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः / अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गम् एष्यति // dak_11.11 //
इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि / अनुनयमधुराक्षरैर् वचोभिर् विषदम् अपास्य तपोवनं जगाम // dak_11.12 //
स तत्राप्रमाणानि ध्यानानि समुत्पाद्य दिवं समभिरुरोहेति //
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीत् / अयम् असौ चन्द्रप्रभो बोधिसत्त्वो विपश्विनः सम्यक्संबुद्धस्य विहारे सुवर्णमयमण्डलं निर्मापितःइ / तेन कर्मणो विपाकेन कौरव्यकुले राजत्वम् अनुभूय बोधिसत्त्वो भूत्वाष्टादशावेणिकबुद्धधर्मान् षट् पारमिताः प्रतिलब्धो ऽभूत् / मयापि संबोधौ व्याकृतःइ तेन यथा प्रणिधानं कृतं तथाभूत् नान्येनेति //
(दक्: 122) महाफलानुशंसा तथागातस्य मण्डलस्य फलानुशंसा //
पुनः शृणोथ //
भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः / धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति // dak_11.13 //
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर् विमुक्ताः / बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि // dak_11.14 //
दिव्यैः सुखैः सकलभोगवरैश् च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः / पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर् गणस्य विविधैर् वसुधां विचित्र्य // dak_11.15 //
एवं शिक्षितव्यं बुद्धेषु भावेषु परीतकर्मणो ऽपि महाफलं लभ्यते //
इति द्वाविंशत्यवदानकथायां मण्डलकथा एकादशमः परिच्छेदः //
xii. भोजनकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सत्त्वानां कुशलसंजननार्थं भगवन्तं पुनर् उवाच //
भगवञ् छ्रोतुम् इच्छ्हामि, अन्नदानस्य यत् फलम् / तत् सर्वं ब्रूहि वादीन्द्र कथं सुगतभोजनम् // dak_12.1 //
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह / शृणु मैत्रेय एकस्मिन्न् अन्तरे सश्रावकसंघो राजगृहे विहरामि वेणुवने कलन्दकनिवापे //
तस्मिन्न् अवसरे तत्र अन्यतरः श्रेष्ठी गृहपतिः प्रतिवसति स्म / आढ्यो महाधनो महाभोगो विस्तीर्णपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी तीर्थ्याभिप्रसन्नश् च स आयुष्मता महामौद्गल्यायनेनावर्जितः / शासने सावतारितो भगवत्य् अत्यार्थम् अभिप्रसन्नः // स च गृहपतिर् उदारो ऽधिमुक्तस् तेनायुष्मान् महामौद्गल्यायन उक्तः / सहाया मे भवन्त, इच्छामि भगवतः पूजां कर्तुम् इति / अधिवासयत्य् आयुष्मान् महामौद्गल्यायनस् तस्य गृहपतेस् तूष्णीभावेन व्यवस्थितः //
अथायुष्मान् महामौद्गल्यायनस् तं गृहपतिम् आदाय येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्ते निषण्ण आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत् // अयं भदन्त गृहपतिर् आकाङ्क्षति भगवन्तं सश्रावकसंघं भोजयितुम् इति / तद् अस्य भगवान् अधिवासयन्न् अनुकम्पाम् उपादायेति / अधिवासयति भगवांस् तस्य गृहपतेस् तूष्णीभावेन //
अथ स गृहपतिर् भगवतस् तूष्णीभावेनाधिवासनां विदित्वा शतरसम् आहारं समुपादाय भगवतः पुरतः पुष्पधूपगन्धमाल्यविलेपनानि च // आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽधीष्ठः क्रियताम् अस्य गृहपतेर् उपसंहारम् इति // ततस् तत्क्षणम् एव शक्रेण देवेन्द्रेण सर्वं वेणुवनं चन्दनवनं निर्मितम् //
ऐरावतसुप्रतिष्ठितसदृशानि च नागसहस्राणि वालव्यजनेन वीजयन्ति सुप्रियपञ्चशिखतुम्बुरुप्रभृतीनि चानेकानि गन्धर्वसहस्राण्य् उपचितानि, ये विचित्रैर् वाद्यविशेषैर् वाद्यं कुर्वन्ति दिव्यसुधाभोजनम् //
ततः स गृहपतिर् दिव्यमानुष्यैर् उपकरणैर् भगवन्तम् उपस्थाय सर्वाङ्गेन भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः // अनेन कुशलमूलेनाहं चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके ऽनायके ऽपरिणायके बुद्धो भूयाम् इति //
अथ भगवांस् तस्य गृहपतेर् हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविष्करोति // तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति / निश्चरित्वा, अध ऊर्द्धभवाग्रपर्यन्तम् अवभास्य / अथ ता अर्चिषो भगवन्तं त्रिप्रदक्षिणीकृत्य भगवत उष्णीषे ऽन्तर्हितो ऽभूत् //
अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ //
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः / अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव // dak_12.2 //
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणं शङ्खम्मालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः // dak_12.3 //
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रवण जिनेन्द्र काङ्क्षतानाम् / धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः // dak_12.4 // नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति ते जनौघा इति //
dak_12.5 //
भगवान् आह // एवम् एतद् आनन्दैवम् एतन् नाहेत्व् अप्रत्ययम् आनन्द ते तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति / पश्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम् / एवं भगवत एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय करुणापरिभाविताः षट् पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धो भविष्यति / अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः //
एतच् च प्रकरणं राजा बिम्बिसारो मागधाश् च परिचारकाच् छ्रुत्वा परं विस्मयम् आपन्नाः //
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः //
पश्य भगवन् यावद् अनेन गृहपतिना भगवान् सश्रावकसंघो दिव्यमानुषिकाभिर् ऋद्धिभिर् अभ्यर्चित इति //
भगवान् आह // तथागतेनैवैतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति / न हि भिक्षवः कर्माणि कृतान्य् उपचितानि / शुभाशुभानि पच्यन्ते, कदापि न प्रणश्यन्ति //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् // अथ पूर्णो नाम सम्यक्संबुद्धो जनपदचारिकं चरन्न् अन्यतमराजधानीम् अनुप्राप्तः / अश्रौषीद् राजा क्षत्रियः पूर्णसम्यक्संबुद्धो जनपदचारिकां चरन् स्वविषयम् अनुप्राप्त इति श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्त (दक्: 128) उपसंक्रम्य पूर्णसम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्ते निषण्णं राजानं क्षत्रियं पूर्णः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति //
अथ राजा क्षत्रियो बुद्धे भगवति चित्तप्रसादजातः, पूर्णसम्यक्षंबुद्धं सश्रावकसंघं त्रैमासिकं चीवरपिण्डपात्रशयनासनग्लनप्रत्ययभैषज्यपरिष्कारैर् उपस्थाय भगवतः ससंघस्य विविधान्नपानभोज्यानि ददाति, भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान् / यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः //
तद्धेतुकं तत्प्रत्ययं च ते परिनिर्वृताः //
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः / यन् मया पूर्णसम्यक्संबुद्धस्य तादृशी भोज्यानि च पूजा कृता, तेन संसारे ऽनन्तं सुखम् अनुभूतं तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च देवलोकैर् ईदृशी पूजा कृता / तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्याम इति //
(दक्: 129) महानुशंसान्नदानभोजनस्य // पुनश् च शृणुत //
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां स्वादुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः / भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम् // dak_12.6 //
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् / स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात् // dak_12.7 //
संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् / आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात् // dak_12.8 //
निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः / स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् द्विपदास् तद् एतत् // dak_12.9 //
अन्नदानं वरं श्रेष्ठम् अन्नदानात् परं न हि / क्षुद्दुःखार्तात् परं नास्ति तस्माद् अन्नं गरीयसम् // dak_12.10 //
अन्नेन रहितो यश् च बलवीर्यं न चास्य च / कार्यकारण उत्साहे तस्योत्साहं न विद्यते // dak_12.11 //
व्रतदेवार्चने चान्ये रतिक्रीडा विनश्यति / काले भुक्तं विहीनस्य कथाज्ञानं च हीयते // dak_12.12 //
येषाम् अन्नविहीनानां सर्वधर्मं विषीदति / तस्मात् सर्वं प्रयत्नेन अन्नदानं तु चीयसे // dak_12.13 //
इति द्वाविंशत्यवदानकथायां भोजनकथा द्वादशः परिच्छेदः //
xiii. पानकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //
अपरं श्रोतुम् इच्छामि पानदानस्य यत् फलम् / तत् सर्वं वद वादीन्द्र सर्वलोकाभिभोधने // dak_13.1 //
भगवान् आह //
शृणु मैत्रेय वक्ष्यामि पानदानस्य यत् फलम् / एकाग्रमानसो भूत्वा नूनं लोकहितेच्छया // dak_13.2 //
ये संघे प्रतिपादयन्ति मुदितास् तृष्णाच्छिदं पानकं हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिरामं प्रियम् क्षित्वा ते ऽभवलालसा भवभयां तृष्णालतां प्रज्ञया पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम् // dak_13.3 //
तद्यथानुश्रूयते //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां लोकनायकः काश्यपो नाम सम्यक्षंबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म ऋषिपतने मृगदावे // तत्रान्यतमा अष्टौ भिक्षव अध्वानं प्रतिपन्ना भगवन्तं दर्शनाय ते सूर्यांशुभिर् दग्धास् तृष्णार्ताः कूपसंनिधौ गच्छन्ति / तत्रान्यतरा दारिका पानीयघटं (दक्: 132) पूरयित्वा गता / ततो भिक्षवस् ताम् ऊचुः // भगिनि पानीयम् अनुप्रयच्छेति //
ततस् तस्या मात्सर्यम् उत्पन्नम् / सागृहीतपरिष्कारा भिक्षून् उवाच // भिक्षवो यदि म्रियेध्वं तथापि न युष्मभ्यं ददाम्य् अपि पानीयम् / घटो मे ऊनो भविष्यतीति // ततो ऽमी भिक्षवस् तृषार्ता निराशया प्रक्रान्ताः //
ततो मगधविषये महाढ्यः सिंहकेतुर् नाम सार्थवाहस् तस्य पुत्री पानीयघटम् आदाय पानीयं गृहीतुं गृहद्वाराद् बहिर् निःसृता // ततस् ते ऊचुः //
भद्रे दारिके ऽस्माकम् अतितृषा, पानीयं पातुं तद् देहीति //
अथ सा दारिका परमचातुर्यधर्माशया तान् भिक्षून् उवाच // भदन्तो भिक्षवः प्रविशध्वम् अत्र तिष्ठन्तु / अहम् एव प्रालेयपानीयं शीघ्रतरम् आनयामि // इत्य् उक्त्वा सा दारिका प्रक्रान्ता, प्रक्रमित्वा पानीयघटं तूर्णम् आदाय स्वनिवेशनं प्रविश्य पितरम् उवाच // तात भिक्षवो ऽस्माकं द्वारमूलेष्व् अवतिष्ठन्ति / अस्मिन्न् इदाद्यकाले परिश्रमतृषार्तेन चागताः / तेभ्यो गुडशर्करामरीचानि यथायोग्यानुसारैः परितानि ददातु, पानं प्रसज्ज्य ददामि //
ततः स सिंहकेतुः सार्थवाहः पुत्रीवचनम् उपश्रुत्य तथा दत्तवान् / सा दारिका परमप्रीत्या प्रसादजातेन तत्क्षणम् एव (दक्: 133) शीतोदकैः शर्करादिगणैः पानं प्रसज्ज्य तेभ्यो दत्तवती // तदा भिक्षुभिः संगृह्य पीतं पीत्वा च तां दारिकाम् ऊचुः // भद्रे दारिके भद्रम् /
भद्रम् अस्तु सदा भद्रे यच् चित्तं तद् अभीप्सितम् / चित्तोत्साहं तथा बुद्धे भवतु ते सदा शुभम् // dak_13.4 //
अथ सा दारिका बुद्धनामाश्रुतपूर्वं च श्रुत्वा बुद्धस्य वर्णनं प्रसादजातेन तान् भिक्षून् उवाच //
भदन्तो भिक्षवः कुत्र कीदृशो भगवान् कथम् / बुद्धनाम न जानामि तद्विशेषं वदत गुणम् // dak_13.5 //
भिक्षव ऊचुः // महाप्रभावो हि दारिके बुद्धस्य / काश्यपो भगवान् सर्वसत्त्वेभ्यो धर्मं निर्दिश्य, अत्र ऋषिपतने मृगदावे विहरति //
अथ सा दारिका तान् भिक्षून् उवाच // भिक्षवः काश्यपबुद्धे प्रसादो मे जातः / नियतं पूजयिष्यामि / काश्यपभगवते मद्वचनेन प्रणामम् अल्पाबाधताम् इति ब्रूथः //
ततो भिक्षवो ऽप्य् एवम् एव वक्ष्याम इत्य् उक्त्वा प्रक्रान्ताः //
अथाष्टौ भिक्षव ऋषिपतने मृगदावे येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते (दक्: 134) निषण्णाः / चैकान्ते निषण्णास् तस्या दारिकाया अल्पाबाधतां कुशलवार्त्तां प्रोचुः // ततो भगवान् काश्यपः सभां कारितवान् //
अथ तस्या दारिकाया मनस्य् एतद् अभवत् / यन् न्व् अहम् अष्टौ भिक्षून् पानप्रदानैः संतोषिता, तत् तथा मे मनः संतोषिता भवामि / तथा भगवन्तं काश्यपं पानेन प्रतिपादयामि च संघान् // ततः सा दारिका पितरं निवेद्य सज्जीकृता भगवन्तं मानितुम् //
ततः सिंहकेतुः सार्थवाहस् तस्या दारिकायाः प्रसादम् अभिवृद्ध्यर्थं यद् यद् अभिप्रायं तत् तत् तस्यै दत्तानि // ततो ऽसौ दारिका भगवान् काश्यपः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्ष्येणोपनिमन्त्रितः // अधिवासितं च भगवता तस्या अनुग्रहार्थम् // अथ सा दारिका प्रभूतगन्धमाल्यविलेपनसंग्रहं कृतवती // सा चाहारपानादि सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति // समयो भदन्त सर्वं सज्जीकृतं, यस्येदानीं भगवान् कालं मन्यत इति //
अथ काश्यपो भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन सिंहकेतोः सार्थवाहस्य निवेशनं तेनोपसंक्रान्त उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः // अथ सा दारिका सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा पादार्घं दत्त्वा पञ्चकामगुणैः स्वहस्तेन संतर्पिता //
पुनः स्वेच्छया कारितानि शर्करापानगुडपान-ओषधीपानक्षीरपानमधुरसपानानि समर्पितानि // ततस् तत्लिआगतेन तस्याः प्रसादम् अभिवृद्ध्यर्थम् अतृष्णयापि सुखेन पीतम् / तथागतानां कदा चन तृष्णा न विद्यते न बुभूक्षा न श्रमो न स्त्यानमिद्धं न शीतोष्णता, न गात्रे मलेन सज्जते, पृथिव्याम् अवक्रमति रजसा नोपलिप्तपादस् तथापि पादप्रक्षालितं स्नानम् अपि कृतं लोकानुवर्तनार्थं सत्त्वानां फलप्राप्तिहेतोर् भुञ्जति पिबति / यद् यद् ददाति तत् तत् प्रतिगृहीतस् तथागतैः // अथ सा दारिका तथागतेन सुखेन पीतं दृष्ट्वात्यन्तं प्रसाद्य मूलनिकृन्तनम् इव भगवतः पादौ शिरसा वन्दित्वा प्रणिधानं कृतम् //
अनेन कुशलमूलेनाहं यत्र यत्रोपपद्यते तत्र तत्र जातौ जातौ जातिस्मरा भवेयम् / तद् अनुस्मृत्य बुद्धे भगवति पूजिते प्रसन्ना भवामि / तथागतं पूजासत्कारं करिस्यामीति // ततः सा दारिका बुद्धेष्व् अभिप्रसाद्य कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना // पञ्चशतपरिवारापरिवृता साभूद् दिव्यप्रासादे सुखोपविष्टे नानासंगीतिवाद्यप्रवादिते निष्पुंसके / अचिरोपपन्नस्य स्त्रिया वा पुरुषस्य वा त्रीणि चित्तान्य् उत्पद्यन्ते / कुतश् च्युता कुत्रोपपन्ना केन कर्मणेति // सा पश्यति, मानुष्येभ्यश् च्युता इहोपपन्ना / अपि तु काश्यपे भगवति सत्कारकृता तेन कुशलमूलेन देवेष्वूपपन्ना इति //
अथ सा पानदायिकादेवकन्याया एतद् अभवत् // न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा, काश्यपभगवन्तं दर्शनायोपसंक्रमेयम् इति / ज्ञानदर्शनं प्रवर्तते // काश्यपो भगवान् बुधकार्यं कृत्वा निर्वाणं ययौ // तस्य धातुस्तूपो महान् वर्तते // अथ तस्या एतद् अभवत् // अहो मन्दभाग्याहं कुत्र दर्शयेयम् अहं भगवन्तं काश्यपम् // अथ सानुस्मरति श्रुतं मया, सर्षपफलमात्रं तथागतानां शरीरधातुं पूजयिष्यतिन्, तैर् विशुद्धिफलं प्राप्यते / पापात्मनः पापं प्रशमं गच्छति // इत्य् उक्त्वा सा पानप्रदायिका (दक्: 137) देवकन्या पञ्चशतपरिवारासुरकन्यापरिवृता रात्रौ प्रशान्तायां विविधानि मान्दारवाणि पारिजातादि गन्धमाल्यपुष्पधूपादिना गृहीत्वा यत्र काश्यपभगवतो धातुस्तूपस् तत्रागत्य मान्दारवैः पुष्पैर् अवकिरति // अवकीर्य प्रदक्षिणीकृत्य स्वभवनं गता //
अथ तस्याः पानप्रदायिकादेवकन्यायास् तृषा न बबाधे, तद् एव मनुष्यभूते ऽष्टभ्यो ऽष्टाङ्गपानीयं निसृष्टम् अनेन कुशलमूलेन / तस्माद् भिक्षवो मनुजैः पानदानं प्रदातव्यम् उदपानकादि कर्तव्यं तडागवापीकूपपुष्करिण्यादि कर्तव्यम् // भिक्षव ऊचुः // प्रबोधो ऽहं सुगत प्रबोधो ऽहं भगवन् / अथाप्य् अन्या स्त्री भिक्षुभ्यो मात्सर्यकारिणी पानीयं न ददाति स्त्री कुत्र गता किं फलं प्राप्तम् इति //
भगवान् आह // किं वक्तव्यं भिक्षवो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना दग्धस्थूणाकृतिः स्वकेशरोमसंछन्ना सूचीच्छिद्रोपममुखा, (दक्: 138) अस्थियन्त्रबहूच्छ्रितैः पर्वतोपमकुक्षि आदीप्ता प्रज्वलिता एकज्वलीभूता प्यायान्ती आर्तस्वरं क्रन्दन्ती तृषार्ता दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमाना // अथ सा तृष्णया पानीयं पातुं यत्र यत्राभिगच्छति ततो दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति // यदा देवो वर्षति तदास्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति //
एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते //
तस्माद् भिक्षवो यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् //
महापुण्यता पानदानता महानुशम्सा, पुनः शृणुत भिक्षवः //
प्रेङ्खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु / किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम् // dak_13.6 //
यद् वैडूर्येन्द्रनीलप्रवरविरचितैर् भाजनैः शातकौम्भैर् देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षः स्थलाभिः / पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम् // dak_13.7 //
यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि श्लेष्माघातोग्रवातप्रशमनचतुरं पिप्पलीखण्डचूर्णम् / ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद् दत्त्वा संघे प्रभक्त्यामरभुवनगतो दिव्यम् आप्नोति पानम् // dak_13.8 //
मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः / दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम् // dak_13.9 //
श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले / सम्सारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम् //
dak_13.10 //
ये संघे प्रतिपादयन्ति मुदितास् तृष्णाच्छिदं पानकं हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिरामं प्रियम् / क्षित्वा ते ऽभवलालसा भवभयां तृष्णालातम् प्रज्ञया पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम् // dak_13.11 //
इति द्वाविंशत्यवदानकथायां पानकथा त्रयोदशमः परिच्छेदः //
xiv. वस्त्रकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //
श्रोतुम् इच्छामि तन् नाथ तव वचो ऽमृतोपमम् / वस्त्राणां च कथां भव्यां कथयस्व महाविभो // dak_14.1 //
भगवान् आह //
शृणु मैत्रेय वक्ष्ये ऽहं वस्त्रदानस्य वर्णनम् / कथिनवस्त्रदानेन सह वस्त्रेण जायते // dak_14.2 //
एकस्मिन्न् अन्तरे काले कपिलवस्तुनि विहरामि न्यग्रोधारामे सश्रावकसंघः //
तस्मिन् कपिलवस्तुनि महानगरवरे, अन्यतमः शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी / तस्य पत्न्या न पुत्रो न दुहिता / स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः / अनेकधनसमुदितं मे गृहं न च मे पुत्रो न दुहिता / ममात्ययाद् अवश्यम् एव सर्वस्वं राजविधेयं भविस्यति / इति मत्वातीव परिदेवते, परमव्याकुली अभूत् //
अथास्य दैवयोगाद् अचिरेणान्यतमदेवनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्ता / ततस् तया स्वामी निवेदितः / ततः स्वामिनैवं विदितं ततः स्वामिनोच्यते // भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम् / अथ दुहितरं तयैव सह त्वां निष्कासयामीति //
यावद् अष्टानां नवानां वा मासानाम् अत्ययात् प्रसूता दारिका जाता अभिरूपा प्रासादिका अतिक्रान्ता मनुष्यवर्णम् असंप्राप्ता च दिव्यवर्णशुक्लवस्त्रैः प्रावृता अलिप्ता गर्भमलेन / यावद् रोहिणेन श्रुतं प्रजापती ते प्रसूता दारिका जातेति / स कुपितः प्रविष्टः / ततो ऽस्य प्रजापत्या दिव्यवस्त्रप्रावृता दारिकोपनीता / ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपनः //
अहो आश्चर्य मे पुत्री कीदृशी रूपशोभिता / वस्त्रेण सह जातासौ केन कर्मण जायते // dak_14.3 // ततस् तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं, शुक्लवस्त्रप्रावृता तस्माद् भवतु दारिकायाः शुक्लेति नाम स्थापिता // सा दारिका क्रमतो उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इय पङ्कजम् // यथा यथा च शुक्ला दारिका वर्धते तथा तथा तान्य् अपि वस्त्राणि वर्धन्ते, न च मलिनी भवन्ति न चास्या कायो मलेनाभिभूयते //
यदा शुक्ला दारिका क्रमेण महती संवृत्ता तदास्या बहवः कुमारा भार्यार्थे याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राश् च / ततस् तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः / यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति //
यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच // तात किम् असि चिन्तापर इति / तेन सो ऽर्थो विस्तरेण समाख्यातः /
शृणु चिन्तापरस्यार्थं कथयामि दारिके न्व् अहम् / त्वाम् एव सह धर्माय राजपुत्राः समागताः // dak_14.4 //
बहवो ऽमात्यपुत्राश् च, आगच्छन्ति दिने दिने / तस्माच् चिन्तापरो ऽभूवं कस्मै दास्याम्य् अहं नु भो // dak_14.5 //
दारिका कथयति तात न ते शोकः कर्तव्यो नाहं कामेनार्थिनी // यतश् च //
कामोपभोग्यधनधान्यशरीरगेहं सर्वं ह्य् अनर्थम् अतिचञ्चलभङ्गुरं च / सौदामनीव जगतां क्षणमात्रहृद्यं दृष्ट्वाप्य् अनर्थं सुगते खलु संव्रजामि // dak_14.6 //
अनित्य संसारम् अनित्य कोषम् अनित्य सौहृद्य सपुत्रदारा / अनित्य राज्यं विविधोपभोग्यं संसारके सर्वम् अनित्यम् एव // dak_14.7 //
तस्मात् सुसारं खलु पुण्यम् एव बन्धुर् न पुण्याद् अपरो ऽस्ति कश् चित् / दीपश् च रात्रौ सघनान्धकारे सुखप्रदाता कलुषप्रहर्ता // dak_14.8 //
ततो तस्माद् भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति // यावद् असौ माता पितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता / येनैव वस्त्रेण प्रवृता जाता तत् तेनैवं परिपूर्णं पञ्चचीवरं संपन्नम् / तया युज्यमानया घटमानया व्यायच्छमानया, इदम् एव पञ्चगण्डकसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया प्राहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् / अर्हन्ती संवृत्ता, त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञा प्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा (दक्: 145) सेन्द्रोपेन्द्राणां देवानां पूज्या मन्याभिवाद्या च संवृत्ता // तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः // कानि भदन्त शुक्लया कर्माणि कृतानि यनाढ्ये कुले जाताभिरूपा दर्शनीया प्रासादिका शुक्लवस्त्रप्रावृता जाता प्रव्रज्य चार्हत्त्वं साक्षात्कृतम् इति //
भगवान् आह // शुक्लयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्मणि कृतान्य् उपचितानि विपच्यन्ते शुभान्य् अशुभानि / तच् छृणु //
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे / यावद् अन्यतरा श्रेष्ठिभार्या श्रद्धा भद्रा कल्याणाशया, केन चिद् एव करणीयेन ऋषिपतनं गता //
अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं (दक्: 146) समन्ततो भद्रकं सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय / ततो ऽस्या भगवता काश्यपेन धर्मो देशितस् तया लब्धप्रसादया भगवन्तं सश्रावकसंघं मम गृहे पूजायामि / इत्य् उक्त्वा सा भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता //
किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी / यद् अनया भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृता जाता / यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति //
वस्त्रप्रदानस्य महानुशंसा मनुष्यलोकेषु च देवलोके / यत् काङ्क्षवस्त्रं तद् एव लभन्ते ये चैव लोकाः खलु भक्तिपूर्वैः // dak_14.9 //
ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालाम् / यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि //
dak_14.10 //
यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति / स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम् //
dak_14.11 //
दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमालाः / दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः // dak_14.12 //
पुनश् च //
ग्रीवाशिरश्चरणबाहुसमाश्रितस्य वैडूर्यहाटकमयस्य समुक्तकस्य / गात्रस्य भूषणविधेर् दिवि वा क्षितौ वा श्रेष्ठं विभूषणम् अतः प्रवदन्ति वस्त्रम् // dak_14.13 //
न केवलम् //
रूपान्वितो ऽपि कुलजो ऽपि विचक्षणो ऽपि लोकेषु शास्त्रमय _ ^ कृतश्रमो ऽपि / शीलादिभिर् गुणगणैः समलंकृतो ऽपि न भ्राजते दिवि सुवस्त्रम् ऋते मनुष्यः // dak_14.14 //
तस्माद् विभूषणम् अतुल्यम् अवेक्ष्य वस्त्रं शीतोष्णतामसकसंप्रतिवारणं च / ह्रीवस्त्रम् अप्रतिसमं समवाप्तुकामैर् वस्त्रप्रदानम् असकृन् मनुजैः प्रदेयम् // dak_14.15 //
चन्द्रांशुविस्फुरितचामरहेमदण्डैः सिंहासने परिनिषद्य सितातपत्रैः / सौवर्णरत्नमकुटैः शिरभूषितो ऽपि श्रीचक्रवर्तिर् अपि वस्त्रम् ऋते न भाति // dak_14.16 //
श्रीमद्धनेन्द्रनिवसत्यलकापुरे च जिह्वासहस्रफणिभूषितभोगवत्याम् / कैलासमेरुशिखरे सुरसंघमध्ये ब्रह्मेन्द्ररुद्रम् अपि वस्त्रम् ऋते न भाति // dak_14.17 //
एवं भिक्षवः कृष्णानि कर्माण्य् अपास्य, शुक्लेष्व् एव कर्मस्वाभोगः करणीय इत्य् एवं भिक्षवः शिक्षितव्यम् // इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भाषितम् अभ्यनन्दन्न् इति //
इति द्वाविंशत्यवदानकथायां वस्त्रकथा चतुर्दशमः परिच्छेदः //
xv. पुष्पकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //
भगवञ् श्रोतुम् इच्छामि पुष्पस्यारोहणं फलम् / पुष्पाणां वर्णभेदेन भाषस्व कौसुमां कथाम् // dak.15_1 //
भगवान् आह //
शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः / शक्रान् विजित्य रभसा सततं भवन्ति बुद्धाय ये सुकुसुमैः प्रकिरन्ति पूजाम् // dak.15_2 //
एवं बहुगुणं मत्वा मत्वा महाफलं पुनः / बुद्धपूजां प्रकुर्वन्तु विविधैः कुसुमैर् नराः // dak.15_3 //
तद्यथा //
अस्ति देवेषु त्रायत्रिंशेषु कुसुमगन्धिनी नाम देवकन्या / सा पुष्पविमानम् आरुह्य स्वर्गं स्वर्गाद् भ्रमति पञ्चशतदेवकन्यासहायपरिवृता // ततः क्रमतः सा कुसुमगन्धिनी देवकन्या शक्रस्य देवेन्द्रस्य सुधर्मया देवसभायाः समीपम् उपसंक्रान्ता // अथ दूराद् ददर्श शक्रो देवेन्द्रस् तां देवकन्यां नानापुष्पविमानालंकृताम् उत्तप्तकुशलमूलां दृष्ट्वा गाथया प्रत्यभाषत //
अहो आश्चर्यमहानुभावम् कुशलमूलम् यस्या देवकन्यायाह् //
अथ सा कुसुमगन्धिनी देवकन्या तेजसा प्रभया शरस्य देवेन्द्रस्य प्रभां दिव्यां प्रशान्ता, यथा शरत्काले धवलमेघैः प्रच्छन्नशशी तथाभूत् // अथ स सुधर्मो देवपुत्रस् तां दृष्ट्वावर्जितमनाः कथयति //
गात्रं केन विमृष्टकाञ्चननिभं वक्त्रं च चन्द्रोपमं गात्रश्रीर् अतुला सुकान्तिविभवा शक्राधिका निःसृता / सौगन्धं सुरभिं सुदेहम् अतुलं यस्या दृषौ नो भवेत् धन्यैषा कुशलाकृता कथम् अहो स्वर्गोपपन्ना त्व् इति // dak.15_4 //
भिक्षवो भगवन्तम् एतद् अवोचत् // भगवन्न् अस्याः कुसुमगन्धिन्या देवकन्यायाः कुतोजन्मोत्पत्तिनामाभिश्रोतुम् अभिलषन्ति तज्जनौघाः //
भगवान् आह //
भूतपूर्वं भिक्षवो मलयवती नाम नगरी मनोरमैकास्ति नानोत्सवसमापन्ना बहुलोकसमाकुला विद्वज्जनसमायुक्ता महर्द्धिकजनाकुला नारीबहुसमाकीर्णा रूपयौवनमण्डिता नगरी लक्षणोपेता वृक्षप्राकारावृता // तस्यां नगर्यां केतुविक्रमो नाम श्रेष्ठी प्रतिवसति महाढ्यो महाभोगो विस्तीर्णपरिग्रहो धनसमुदितः /
अस्य चेतिका एकास्ति / तया चेतिकया प्रतिदिनं तस्योद्यानपुष्पाणि निचित्वा परिनिवृत्य काले मार्गे तथागतस्य केशनखस्तूपे कवलैकानि पुष्पाण्य् अवरोहयति सागत्य, केतुविक्रमस्य देवार्चनाय ददातीति / एवं सा चेतिका प्रतिदिनं तद्व्यपारे नियोजिता / तेन उद्यानचारिणी भवति // तदनन्तरे काले लक्षसंख्यायां गच्छन्ति / तदा चैत्यदेवता प्रसन्नीभूय तया प्रसादः प्रतिलब्धः // इहैव फलम् आप्यते / सा चेतिका परमसुन्दरीभूय सुशीलस्वभावाभूत्, पुनर् अपि तस्याः कोष्ठागारे धनधान्यसमृद्ध्या नानालंकारपरिपूर्णानि भवन्ति // तदा सुखम् अनुभूयते // तदा केतुविक्रमः परमाश्चर्यप्राप्तः, कथं मे चेतिकायाः कलेवरं सुष्ठु भूतं को हेतुः कः प्रत्ययः // तथैवान्यलोका अपि उक्ताः के चिद् आहुः, बत भो कथं चेतिका विविधवस्त्रसंपन्ना भवति // एवम् एवान्यजनास् तां दृष्ट्वाश्चर्यप्राप्ता अभूवन् // ततस् तस्या अल्पायुः कालं कृत्वा, श्रावस्त्यां महानगर्याम् अन्यतमधर्मशीलो नाम श्रेष्ठी, तस्य प्रजापत्याः कुक्षाव् उपपन्ना // ततो दशमासात्यया दारिका जाता अभिरूपा प्रासादिका परमसुन्दरी, क्रमतः सा महती प्रवृत्ता //
तदाहम् एव श्रावकसंघैः श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे / तेन खलु पुनः समयेन श्रावस्त्यां सालप्रभञ्जिका नाम पर्व प्रत्युपस्थितम् / तत्रानेकानि प्राणिशतसहस्राणि संनिपात्य सालपुष्पाण्य् आदाय क्रीडन्ति रमन्ति परिचारयन्ति // तदा सा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति / भगवांश् च भिक्षुसंघपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति // ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्य चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा पुनः प्रसादजातया सालपुष्पैर् अवकीर्णः / ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता / भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति // यावद् असौ सालवृक्षम् अधिरूढा पतिता भगवतः कृतोपस्थाना सा कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना // यावद् सालपुष्पविमानालंकृता स्वर्गं स्वर्गाद् भ्रमन्ती रमन्ती //
एवम् एव भिक्षवः सा दारिका, यया अर्हन् मार्गे सालपुष्पैर् अवकीर्णः / तस्माद् भिक्षवस् तथागतेषु कारापयितव्याः सत्कर्तव्याः / ईदृशं फलम् आप्यते / अथ भगवतो वचनं (दक्: 153) प्रतिश्रुत्य प्रसादजातेन आनन्दो भगवन्तम् एतद् अवोचत् //
भगवन् कीदृशं नाथ लक्षपुष्पस्य यत् फलम् / श्रोतुकामं महाबाहो वद त्वं परमेश्वर // dak.15_5 //
भगवान् आह //
प्रवक्ष्यामि समासेन लोकानां हितहेतवे / क्रमतो लक्षपुष्पाणां शृण्व् आनन्द अतन्द्रितः // dak.15_6 //
ब्रह्महत्याशतं पापं शतजन्मकृतानि वै / रोहणं माघ्यपुष्पाणां शमयति न संशयः // dak.15_7 //
कृष्णापराजिता येन प्ररोहन्ते नराः क्व चित् / सर्वपापहरा घोरान् सर्वशत्रून् निकृन्तनम् // dak.15_8 //
नानाविघ्नविनाशं च भुक्तिमुक्तिफलं भवेत् / भूपालसुख संप्राप्य देवराजपदं वरम् // dak.15_9 //
श्वेतापराजिता नूनं प्ररोहन्ति च मानवाः / शान्तभूता धनाढ्याश् च नानाशास्त्रेषु पारगाः // dak.15_10 //
धैर्यवीर्यसुसंपन्ना नानाबुद्धिसमन्विताः / भूपतेः पदं संप्राप्य जायन्ते स्वर्गगामिनः // dak.15_11 //
सुवर्णयूथिकापुष्पं ये प्ररोहन्ति मानवाः / धनवान् भोगवान् भूत्वा विभवैः धनदसमाः // dak.15_12 //
आरोहन्ति नराः श्रेष्ठाः करवीरकुसुमं परम् / सर्वलोकवशीप्राप्ता देवानां रतिवर्धनाः // dak.15_13 //
दमनपुष्पं रोहन्ते मनुजा ये सुश्रद्धया / सुगन्धदेहगा नित्यम् अतृप्तरूप लभ्यते // dak.15_14 //
कोकिलाक्षं प्ररोहन्ते जनवान् धनवान् भवेत् / यिद्यावतां कुले जातः सर्वलोकैः प्रपूज्यते // dak.15_15 //
रोहणाच् चम्पकं पुष्पं नरा ये श्रद्धया किल / कीर्तिशब्दश् च लोकेषु सर्वसंपद लभ्यते // dak.15_16 //
दर्शनीयाभिरूपाश् च कन्दर्पसमताङ्गतः / सुगन्धदेहसंपन्ना राजलक्ष्मी च लभ्यते // dak.15_17 //
जातिपुष्पं च रोहन्ते जातिश् च सुकुले गता / सुष्ठुसुगन्धदेहा वै धनेन धनदसमाः // dak.15_18 //
पद्मपुष्पं नरः कश् चित् प्रसन्नेन प्ररोहति / बुद्धज्ञानं समाप्नोति जायते कमलासने // dak.15_19 //
मधुदं मधुरीपुष्पैः कुसुमैर् वस्त्रदं तथा / कौशिकैर् वस्त्रदं चैव किंशुकै रक्तवस्त्रदम् // dak.15_20 //
कुसुमं पारिजातं च यः प्ररोहति मानवः / अनन्तसुखम् आप्नोति सुगन्धदेहगो भवेत् // dak.15_21 //
बन्धूकपुष्पसंरोहं सर्वपापापदक्षयम् / रोहनं केतकीपुष्पं कीर्तिवन्तो भवेन् नराः / सुगन्धसुखसम्पन्नं मङ्गलं भवति सर्वतः // dak.15_22 //
कुमुदपुष्प रोहन्ते चन्द्रवन्मुखमण्डलम् / चन्द्रकान्तिसमं सौम्यं जायन्ते त्रिदशालये // dak.15_23 //
नीलोत्पलानि पुष्पाणि ये प्ररोहन्ति श्रद्धया / मुखे ऽस्य चोत्पलोगन्धो महर्द्धिकनृपो भवेत् //
अशोकपुष्प रोहन्ते, असमंच कलेवरम् / सर्वरोगविनिर्मुक्तभूपतित्वं प्रजायते // dak.15_25 //
कुसुमं भृङ्गराजं च रोहणं मानवाः पराः / रोगशोकमहाघोरसर्वव्याधिनिषूदनम् // dak.15_26 //
जवाकुसुम रोहन्ते मानवा नरनायकाः ल् मोहनं सर्वलोकानां लोकानां वश्यम् आगताः // dak.15_27 //
रोहणम् अर्कपुष्पाणां मानवाः शुद्धमानसाः / सहस्ररश्मिसंयुक्तः जनवान् धनवान् भवेत् // dak.15_28 //
कह्लारपुष्पम् आरोहात् सुप्रसन्नेन चेतसा / नाशनं सर्वरोगाणां लक्ष्मीर् वहति सर्वदा // dak.15_29 //
नागपुष्पैर् इहाभ्यर्च्य परत्र सुखीभवेत् / तथा च मालतीपुष्पैर् महापातकनाशनम् // dak.15_30 //
बिल्वपत्त्राणि श्रेष्ठानि रोहणाच् च अतन्द्रितः / शिवं सर्वत्र प्राप्नोति यज्जानां च सहस्रकम् // dak.15_31 //
धूर्तपुष्पं रोहन्ते सुवर्णतुल्यनिर्मितम् / विभवसुखसंपन्नः स भोगफलम् आप्यते // dak.15_32 //
रक्तपद्मैश् च संपूज्य ब्रह्महत्यादिनाशनम् / दूर्वकुन्दप्ररोहेण ये नरा भक्तिमानसाः / शतजन्मार्जितं पापं मुक्तो भवति तत्क्षणात् // dak.15_33 //
तगरं पुष्प रोहन्ति परलोके सुखावहाः / पितरः प्रीतितां यान्ति विशेषैः श्राद्धकर्मकैः // dak.15_34 //
तत्कारीपुष्प रोहन्ते लक्ष्मीवन्तः सदा नराः / धनधान्यसमृद्धं च ईप्सितार्थफलं भवेत् // dak.15_35 //
मल्लिकापुष्प रोहन्ते न मारो क्षोभयेत् पुनः / सुगन्धपुष्परोहेण सुगन्धगुणकीर्तनः // dak.15_36 //
भगवान् आह //
विशेषं लक्षपुष्पाणां रोहणेन फलाफलम् / उच्चनीचादिकं सर्वं प्रवक्ष्यामि समासतः // dak.15_37 //
माघ्यपुष्पविशिष्टं वै धर्मधातो विशेषतः / {कृष्णापराजिता पश्चात्} सुवर्णयूथिकापुष्पं करवीरं तदन्ततः // dak.15_38 //
दमनपुष्पाणि तत्पश्चात् यं च पुष्पाणि सर्वतः / विशिष्टं यं च बुद्धानां सततं जिनभाषितम् // dak.15_39 //
चम्पकजातिपुष्पाणि पारिजातस् तथैव च / केतकीनवमाली च पद्मकुमुद-उत्पलम् // dak.15_40 //
अशोक-अर्कपुष्पाणि कह्लारनागपुष्पम् / बिल्वपत्त्राणि धत्तूरं जवापुष्पनि तथैव च // dak.15_41 //
भ्र्ङ्गराजानि पुष्पाणि लक्ष्मीपुष्पं ततः क्रमात् / तमारनिर्ग्रन्थीयूथी मल्लिकामाधवी तथा // dak.15_42 //
वनमालाकुन्दबन्धूक न म्लानं कुवलकस् तथा / सैरेयक्रोरणश् चैव मधुरीकुसुमावती // dak.15_43 //
एवं क्रमं विशिष्टं च अन्येषां च पृथक् पृथक् / नानाविधानि पुष्पाणि अनेकजातैर् उद्भवम् // dak.15_44 //
नान्योक्तं च मया के चित् सामान्यपुष्पकस्य च / कथितं जिननाथैश् च पुष्पाणां सर्वतः किल // dak.15_45 //
सर्वपुष्पादिना चैत्ये रोहणात् फलम् उत्तमम् / पृथक् पृथक् फलं तस्मात् पुष्पाणां कथिता जिनाः // dak.15_46 //
आनन्द उवाच //
चैत्यानां च श्रुतं नाथ लक्षपुष्पविशेषतः / तथागतानाम् अन्येषां वद मे वादिपुंगव // dak.15_47 //
भगवान् आह //
पूर्वोक्तानि च पुष्पाणां चैत्यानाम् अभवत् तदा / प्रवक्ष्यामि यथानन्द सांनिध्यं शृणु सर्वतः // dak.15_48 //
तथागतेषु अनेयेषु देवतायां विशेषतः / पूर्वोक्तानि च पुष्पाणां यथायोग्यं यथेच्छया / देवता वर्णभेदेन पुष्पाणां च तथैव च // dak.15_49 //
एवम् आनन्द ज्ञातव्यं नरः पुष्पाणि रोहयेत् / पूर्वोक्तफलम् आप्नोति नित्यम् एव न संशयः // dak.15_50 //
महानुशंसा पुष्पाणाम् आरोहणाद् धि फलं तथोक्तम् / बुद्धेषु बिम्बेषु तथा च स्तूपे अन्येषु देवेषु फलं तद् एव // dak.15_51 //
पुनश्च //
शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः / शक्रान् विजित्य रभसा सततं भवन्ति बुद्धस्य ये सुकुसुमैः प्रकिरन्ति पूजाम् //
dak.15_52 //
नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः / रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम् // dak.15_53 //
वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः / नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात् // dak.15_54 //
एवं भिक्षवो ऽपि ईदृशफलं सा चेतिका प्राप्ता //
तस्माद् भिक्षवस् तथागतेषु स्तूपबिम्बेषु पुष्पैः प्रतिपूजनीयाः // एवं शिक्षितव्यं भिक्षव इति //
इति द्वाविंशत्यवदानकथायां पुष्पकथा पञ्चदशः परिच्छेदः //
xvi. प्रणामकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रणम्यैतद् अवोचत् //
श्रोतुम् इच्छामि हे नाथ भगवन् भवमोचक / ताथागते प्रणामस्य फलं तेषां वद प्रभो // dak_16.1 //
भगवान् आह //
साधु साधु त्व मैत्रेय पृच्छितं यन् मयि त्वया / बुद्धस्य च प्रणामस्य फलं वक्ष्याम्य् अहं नु भो // dak_16.2 //
बुद्धप्रणामस्य महानुशंसा सुरूपभूपं सुखम् आप्नुवन्ति / ये चैकचित्तैः प्रणमन्ति भक्त्या भवार्णवस्योत्तरणाय हेतुम् // dak_16.3 //
भूतपूर्वं मैत्रेयातीते ऽध्वन्य् असंख्येयकल्पे दीपंकरेण सह पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतममहाजनपदं प्राप्तः //
तत्र महाजनपदे वीथि स्थित्वा लोकानां धर्मं देशितवान् // तस्मिन् समये दक्षिणापथो द्विजोत्तमः पुष्करशाली नाम द्वात्रिंशता शिष्यगणैः सार्धं परिवृतो बुद्धगुणवर्णनां श्रुत्वा (दक्: 161) गृद्धकूटे पर्वते धर्मश्रवणार्थं समागच्छति // अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनः प्रसादजातया भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादाव् अभिवन्दित्वा एकान्ते निषण्णाः / अन्यैकेन भगवन्तं मनसापि न प्रणामितः / भगवति बुद्धे न मनःप्रसन्नताभूत् / किंचित्पापशेषैर् बुद्धकुलेषु प्रवेशेषु आविलचित्तकुटिलचित्तः स तूष्णीस्थितः // अन्ये बुद्धे भगवति प्रसन्नचित्ताः स्थिताः // प्रव्रज्याग्रहणतत्परचित्तान् भगवान् विदित्वैवम् आह // भो ब्राह्मण द्विजोत्तम केनार्थेनागतो ऽसि सहायैर् मयि उच्यताम् //
ब्राह्मण उवाच //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
