Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/19

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

दिव्यावदान

Thông tin
GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

दिव्यावदान

// दिव्यावदानम्//

नमः श्रीसर्वबुध्हबोधिसत्त्वेभ्यः/

********** अवदान 1 **********

001.000. दिव्1 कोटिकर्णावदानम्/

001.001. बुद्धो भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे/ 001.001. अस्मात् परान्तके वासवग्रामे बलसेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी/ 001.003. तेन सदृशात् कुलात् कलत्रमानीतम्/ 001.003. स तया सार्धं क्रीडति रमते परिचारयति/ 001.004. सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते आरामेदवतां वनदेवतां शृङ्गाटकदेवतां बलिप्रतिग्राहिकां देवताम्/ 001.005. सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचते/ 001.006. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते/ 001.007. दुहितरश्चेति/ 001.007. तच्च नैवम्/ 001.007. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत् तद्यथा राज्ञश्चक्रवर्तिनः/ 001.008. अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्राअ जायन्ते दुहितरश्च/ 001.009. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धरव्ः प्रत्युपस्थितो भवति/ 001.010. एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश्च/ 001.011. स चैवमायाचनपरस्तिष्ठति//

001.012. अन्यतमश्च सत्त्वश्चरमभविकश्च हितैषी गृहीतमोक्षमार्गान्तोन्मुखो न निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिव्युपपत्तिपरान्मुखो ऽन्तिमदेहधारी अन्यतमात् सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रान्तः/ 001.014. पञ्चावेणिका धर्मा एकत्ये पिण्डतजातीये मातृग्रामे/ 001.014. कतमे पञ्च? रक्तं पुरुषं जानाति, विरक्तं जानाति/ 001.015. कालं जानाति, ऋतुं जानाति/ 001.015. गर्भमवक्रान्तं जानाति/ 001.016. यस्य सकाशाद् गर्भमवक्रामति तं जानाति/ 001.016. दारकं जानाति दारिकां जानाति/ 001.017. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति/ 001.017. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति/ 001.018. सा आत्तमनात्तमनाः स्वामिन आरोचयति--दिष्ट्या आर्यपुत्र वर्धस्व/ 001.018. आपन्नसत्त्वास्मि संवृत्ता/ 001.019. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति/ 001.019. सो ऽपि आत्तमनात्तमना उदानम् उदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्/ 001.020. जातो मे स्यान्नावजातः/ 001.021. कृत्यानि मे कुर्वीत्/ 001.021. भृतः प्रतिबिभृयात्/ 001.021. दायाद्यं प्रतिपद्येत/ 001.021. कुलवंशो मे चिरस्थितिको भविष्यति/ 001.022. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा दक्षिणामादेशयिष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति/ 001.024. आपन्नसत्त्वां च तां विदित्वा उपरिप्रसादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्ण उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस्तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहारैः, हारार्धहारविभूषितगात्रीम् अप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठम्{न}वतरन्तीमुप{मध?}रिमां भूमिम्/ 001.027. न <2>चास्य अमनोज्ञशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय/

002.001. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 002.002. दारको जातः/ 002.002. अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः संगतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालंकृतः/ 002.004. बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः/ 002.004. भवन्तः, रत्नानां मूल्यं कुरुत इति/ 002.005. न शक्यते रत्नानां मूल्यं कर्तुमिति/ 002.005. धर्मता यस्य न शक्यते मूल्यं कर्तुं तस्य कोटिमूल्यं क्रियते/ 002.006. ते कथयन्ति--गृहपते, अस्य रत्नस्य कोटिर्मूल्यमिति/ 002.007. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति/ 002.009. अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया जातः, श्रवणेषु च नक्षत्रेषु/ 002.009. भवतु दारकस्य श्रोणः कोटिकर्ण इति नाम/ 002.010. यस्मिन्नेव दिवसे श्रोणः कोटिकर्णो जातः, तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ जातौ/ 002.011. तेनैकस्य दारक इति नामधेयं व्यवस्थापितम्, अपरस्य पालक इति/ 002.012. श्रोणः कोटिकर्णो ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम्/ 002.013. सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 002.015. आशु वर्धते ह्रदस्थमिव पङ्कजम्//

002.016. स यदा महान् संवृत्तस्तदा लिप्याम् उपन्यस्तः, संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायाम्/ 002.017. सो ऽष्टासु परीक्षासूद्घटको वाचकः पिण्डतः पटुप्रचारः संवृत्तः/ 002.018. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्/ 002.018. त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्/ 002.019. त्रीणि अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्/ 002.020. स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति/ 002.021. बलसेनो गृहपतिर् नित्यमेव कृषिकर्मान्ते उद्युक्तः/ 002.021. स कोटिकर्णस्तं पितरं पश्यति नित्यं कृषिकर्मान्ते--उद्युक्तम्/ 002.022. स कथयति--तात, कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तह्? स कथयति--पुत्र, यथा त्वमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसि परिचारयसि, यद्यहमपि एवमेव क्रीडेयं रमेयं परिचारयेयम्, नचिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादायं गच्छेयुः/ 002.025. स संलक्षयति--ममैवार्थं चोदना क्रियते/ 002.026. स कथयति--तात यद्येवम्, गच्छामि, महासमुद्रमवतरामि/ 002.026. पिता कथयति--पुत्र तावन्तं मे रत्नजातमस्ति/ 002.027. यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिमोक्ष्यसे, तथापि मे रत्नानां परिक्षयो न स्यात्/ 002.028. स कथयति--तात अनुजानीहि माम, पण्यमादाय महासमुद्रमवतरामीति/ 002.029. बलसेनेन तस्यावश्यं निर्बन्धं ज्ञात्वानुज्ञातः/ 002.029. बलसेनेन गृहपतिना वासवग्रामके घण्टावघोषणं कृतम्--यो युष्माकमुत्सहते श्रोणेन कोटिकर्णेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु/ 002.031. पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्/ 002.032. बलसेनो नाम गृहपतिः संलक्षयति--<3>कीदृशेन यानेन श्रोणः कोटिकर्णो यास्यति? स संलक्षयति--सचेद् हस्तिभिः, हस्तिनः सुकुमारा दुर्भराश्च, अश्वा अपि सुकुमारा दुभराश्च, गर्दभाः स्मृतिमन्तः सुकुमाराश्च/

003.003. गर्दभयानेन गच्छत्विति/ 003.003. स पित्रा आहूयोक्तह्--पुत्र न त्वया सार्थस्य पुरस्ताद् गन्तव्यम्, नापि पृष्ठतः/ 003.004. यदि बलवांश्चौरो भवति, सार्थस्य पुरस्तान्निपतति/ 003.004. दुर्बलो भवति, पृष्ठतो निपतति/ 003.005. त्वया सार्थस्य मध्ये गन्तव्यम्/ 003.005. न च ते सार्थवाहे हते सार्थो वक्तव्यः/ 003.006. दासकपालकावपि उक्तौ--पुत्रौ, युवाभ्यां न केनचित् प्रकारेण श्रोणः कोटिकर्णो मोक्तव्य इति//

003.008. अथापरेण समयेन श्रोणः कोटिकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर् निपत्य कथयति--अम्ब गच्छामि, अवलोकिता भव, महासमुद्रमवतरामि/ 003.010. सा रुदितुमारब्धा/ 003.010. स कथयति--अम्ब कस्माद् रोदसि/ 003.010. माता साश्रुदुर्दिनवदना कथयति--पुत्र, कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामीति/ 003.011. स संलक्षयति--अहं मङ्गलैः संप्रस्थितः/ 003.012. इयमीदृशममङ्गलमभिधत्ते/ 003.012. स रुषितः कथयति--अम्ब, अहं कृतकौतूहलमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः/ 003.013. त्वं चेदृशान्यमङ्गलानि करोषि/ 003.013. अपायान् किं न पश्यसीति/ 003.014. सा कथयति--पुत्र, खरं ते वाक्कर्म निश्चारितम्/ 003.013. अत्ययमत्ययतो देशय/ 003.015. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 003.015. सा तेनात्ययमत्ययतो क्षमापिता/ 003.015. अथ श्रोणः कोटिकर्णः कृतकौतूहलमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः/ 003.017. सो ऽनुपूर्वेण ग्रामनगरनिगमपल्लिपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः/ 003.018. निपुणतः सामुद्रम् यानपात्रं प्रतिपाद्य महासमुद्रमवतीर्णो धनहारकः/ 003.019. सो ऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः/ 003.019. तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद् वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्/ 003.020. सो ऽनुगुणेन श्रोणः संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः/ 003.021. स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः/ 003.021. सौ

श्रोणः कोटिकर्णो ऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्ते ऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः/ 003.023. पश्चात् तेनासौ दासको ऽभिहितह्--दासक, पश्य साथः किं करोतीति/ 003.023. स गतः/ 003.023. यावत् पश्यति स्थोरां लर्दयन्तं सार्थम्/ 003.024. सो ऽपि स्थोरां लर्दयितुमारब्धः/ 003.024. दासकः संलक्षयति--पालकः सार्थवाहं शब्दापयिष्यति/ 003.025. पालको ऽपि संलक्षयति--दासकः सार्थवाहः शब्दापयिष्यतीति/ 003.026. स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः/ 003.026. सो ऽपि गाढनिद्रावष्टब्धः शयितः/ 003.027. स सार्थस्तावद् गतो यावत्प्रभातम्/ 003.027. ते कथयन्ति--भवन्तः, क्व सार्थवाहह्? पुरस्ताद् गच्छति/ 003.028. पुरस्ताद् गत्वा पृच्छन्ति--क्व सार्थवाहह्? पृष्ठत आगच्छति/ 003.028. पृष्ठतो गत्वा पृच्छन्ति--क्व सार्थवाहह्? मध्ये गच्छति/ 003.029. मध्ये गत्वा पृच्छन्ति/ 003.029. यावत् तत्रापि नास्ति/ 003.029. दासकः कथयति--मम बुद्धिरुत्पन्ना--पालकः सार्थवाहं शब्दापयिष्यति/ 003.030. पालको ऽपि कथयति--मम बुद्धिरुत्पन्ना--दासकः सार्थवाहं शब्दापयिष्यति/ 003.031. भवन्तः, न शोभनं कृतम् यदस्माभिः सार्थवाहश्छोरितः/ 003.032. आगच्छत, निवार्तामः/ 003.032. ते कथयन्ति--भवन्तः, यदि वयं निवर्तिष्यामः/

004.001. <4>सर्व एवानयेन व्यसनमापत्स्यामः/ 004.001. आगच्छत, क्रियाकारं तावत् कर्मह्--तावन्न केनचिच्छ्रोणस्य कोटिकर्णस्य मातापितृभ्यामारोचयितव्यम् यावद् भाण्डं प्रतिशामितं भवति/ 004.002. ते क्रियाकारं कृत्वा गताः/ 004.003. श्रोणस्य कोटिकर्णस्य मातापितृभ्यां श्रुतम्--श्रोणः कोटिकर्णो ऽभ्यागत इति/ 004.004. ते कथयन्ति--पृष्ठत आगच्छति/ 004.005. पृष्ठतो गत्वा पृच्छतह्--क्व सार्थवाहह्? पुरस्ताद् गच्छतीति/ 004.006. तैस्तावदाकुलीकृतौ यावद् भाण्डं प्रतिशामितम्/ 004.006. पश्चात् ते कथयन्ति--अम्ब विस्मृतो ऽस्माभिः सार्थवाह इति/ 004.007. ताभ्यामेक आगत्य कथयति--अयं श्रोणः कोटिकर्णो ऽभ्यागत इति/ 004.008. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः/ 004.008. अपर आगत्य कथयति--अम्ब, दिष्ट्या वर्धस्व, अयं श्रोणः कोटिकर्णो ऽभ्यागत इति/ 004.009. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः/ 004.010. तौ न कस्यचित् पुनरपि श्रद्दधातुमारब्धौ/ 004.010. ताभ्यामुद्यानेषु स्वकसभादेवकुलेषु च्छत्राणि व्यजनानि कलशानि उपानहानि चाक्षराणि अभिलिखितानि दत्तानि स्थापितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघु आगमय, क्षिप्रमागमय/ 004.012. अथ च्युतः कालगतः, तस्यैव गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै/ 004.013. तौ शोकेन रुदन्तावन्धीभूतौ//

004.014. श्रोणः कोटिकर्णः सार्थवाहो ऽपि सूर्यांशुभिः स्पृष्ट आतापितः प्रतिविबुद्धो यावत् सार्थं न पश्यति नान्यत्र गर्दभयानमेव/ 004.015. स तं गर्दभयानमभिरुह्य संप्रस्थितः/ 004.016. रात्रौ च वातेन प्रवायता वालुकया मार्गो व्यपोढः पिथितः/ 004.016. ते च गर्दभाः स्मृतिमन्तो गन्धमाघ्रायाघ्राय शनैर्मन्दमन्दं संप्रस्थिताः/ 004.017. सार्थवाहः संलक्षयति--कस्मादेते शनैर्मन्दमन्दं गच्छन्तीति कृत्वा प्रतोदयष्ट्या ताडिताः/ 004.018. ते संभ्रान्ता आकुलीभूताः स्मृतिभ्रष्टा उन्मार्गेण संप्रस्थिताः, यावदन्यतमाशाटवीं प्रविष्टाः/ 004.019. ते तृषार्ता विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति/ 004.020. तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्/ 004.020. स संलक्षयति--यदि एतान् नोत्स्रक्ष्यामि, अनयेन व्यसनमापत्स्ये/ 004.021. को ऽसौ निर्घृणहृदयस्त्यक्तपरलोकश्च य एषां प्रतोदयष्टिं काये निपातयिष्यति? तेन त उत्सृष्टाह्--अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत अनवमर्दितानि, पानीयानि पिबत अनाविलानि, चतुर्दिशं च शीतला वायवो वान्त्विति/ 004.024. स तानुत्सृज्य पद्भ्यां संप्रस्थितः/ 004.024. यावत् पश्यति आयसं नगरमुच्चं च प्रगृहीतं च/ 004.025. तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्राश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः/ 004.026. स तस्य सकाशमुपसंक्रान्तः/ 004.026. उपसंक्रम्य तं पुरुषं पृच्छति--अस्ति अत्र भोः पुरुष पानीयमिति/ 004.027. स तूष्णीं व्यवस्थितः/ 004.027. भूतस्तेन पृष्टह्--अस्त्यत्र नगरे पानीयमिति/ 004.028. भूयो ऽपि स तूष्णीं व्यवस्थितः/ 004.028. तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयम् इति

शब्दो निश्चारितः/ 004.029. यावत् पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः श्रोणः कोटिकर्णः/ 004.031. ते कथयन्ति--सार्थवाह कारुणिकस्त्वम्/ 004.031. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ/ 004.031. स कथयति--भवन्तः, अहमपि पानीयमेव मृगयामि/ 004.032. कुतो ऽहम् युष्माकं पानीयमनुप्रयच्छामीति? <5>ते कथयन्ति--सार्थवाह, प्रेतनगरमिदम्, कुतो ऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः/

005.002. स कथयति--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः/ 005.003. नाभिश्रद्दधास्यसि/ 005.003. अहं भवन्तः प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते-- 005.005. आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्/ 005.006. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः//1//

005.007. श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्/ 005.007. अस्ति कश्चित् त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां निर्गच्छन्? स संप्रस्थितो यावत् तेनासौ पुरुषो दृष्टः/ 005.008. तेनोक्तह्--भद्रमुख, अहो बत त्वया ममारोचितं स्यात् यथेदं प्रेतनगरमिति, नाहमत्र प्रविष्टः स्याम्/ 005.009. स तेनोक्तह्--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्, येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः/ 005.011. स संप्रस्थितः/ 005.011. यावदपरं पश्यति आयसं नगरमुच्चं च प्रगृहीतं च/ 005.011. तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः/ 005.012. स तस्य सकाशमुपसंक्रान्तः/ 005.013. उपसंक्रम्यैवमाह--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः/ 005.014. भूयस्तेन पृष्टह्--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः/ 005.015. तेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दः कृतः/ 005.015. अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः/ 005.017. श्रोण कारुणिकस्त्वम्/ 005.017. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ/ 005.017. स कथयति--अहमपि भवन्तः पानीयमेव मृगयामि/ 005.018. कुतो ऽहम् युष्माकं पानीयं ददामीति? ते कथयन्ति--श्रोण, प्रेतनगरमिदम्/ 005.019. कुतो ऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात् पानीयं पानीयमिति शब्दः श्रुतः/ 005.020. स चाह--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? त ऊचुह्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्याः/ 005.021. नाभिश्रद्दधास्यसि/ 005.021. स चाह--अहं भवन्तः प्रत्यक्षदर्शी/ 005.022. कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते-- 005.023. आरोग्यमदेन मत्तका ये धनमोगमदेन मत्तकाः/ 005.024. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः//2//

005.025. श्रोण गच्छ, पुण्यकर्मा त्वम्/ 005.025. अस्ति कश्चित् त्वया दृष्टः श्रुतः स प्रेतनगरं प्रविश्य क्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः/ 005.026. यावत् तेनासौ पुरुषो दृष्टः/ 005.026. स तेनोक्तह्--भद्रमुख, अहो बत यदि त्वया ममारोचितं स्याद् यथेदं प्रेतनगरमिति, नैवाहमत्र प्रविष्टः स्याम्/ 005.028. स कथयति--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्/ 005.028. अस्ति कश्चित् त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन्? स संप्रस्थितः/ 005.029. यावत् पश्यति सूर्यस्यास्तगमनकाले विमान, चतस्रो ऽप्सरसह् अभिरूपाः प्रासादिका दर्शनीयाः/ 005.030. एकः पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकह् अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति/ 005.032. स तैर्दूरत एव दृष्टः/ 005.032. ते तं प्रत्यवभाषितुमारब्धाः/ 005.032. स्वागतम् <6>श्रोण, मासि तृषितो बुभुक्षितो वा? स संलक्षयति--नूनं देवो ऽयं वा नागो वा यक्षो वा भविष्यति/

006.002. आह च--आर्य तृषितो ऽस्मि, बुभुक्षितो ऽस्मि/ 006.002. स तैः स्नापितो भोजितः/ 006.002. स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्याभ्युद्गमनकालसमयः/ 006.003. स तेनोक्तह्--श्रोण अवतरस्व, आदीनवो ऽत्र भविष्यति/ 006.004. सो ऽवतीर्य एकान्ते व्यवस्थितः/ 006.004. ततः पश्चात् सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्/ 006.005. ता अपि अप्सरसो ऽन्तर्हिताश्च/ 006.005. चत्वारः श्यामशबलाः कुर्कुराः प्रादुर्भूताः/ 006.006. तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत् पृष्टवंशानुत्पाट्योत्पाट्य भिक्षितो यावत् सूर्यस्यास्तगमनकालसमयः/ 006.007. ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्, ता अप्सरसः प्रादुर्भूताः/ 006.008. स च पुरुषस्ताभिः सार्धं क्रीडति रमते परिचारयति/ 006.008. स तेषां सकाशमुपसंक्रम्य कथयति--के यूयम्, केन च कर्मणा इहोपपन्नाह्? ते प्रोचुह्--श्रोण दुष्कुहका जाम्बुद्वीपका मनुष्याः/ 006.010. नाभिश्रद्दधास्यसि/ 006.010. स चाह--अहं प्रत्यक्षदर्शी, कथं नाभिश्रद्दधास्ये? श्रोण, अहं वासवग्रामके औरभ्रक आसीत्/ 006.011. उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय जीविकां कल्पयामि/ 006.012. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टो ऽस्य कर्मणः फलविपाकः/ 006.013. विरम त्वमस्मात् पापकादसद्धर्मात्/ 006.013. नाहं तस्य वचनेन विरमामि/ 006.014. भूयो भूयः स मां विच्छन्दयति--भद्रमुख, अनिष्टो ऽस्य कर्मणो फलविपाकः/ 006.015. विरम त्वमस्मात् पापकादसद्धर्मात्/ 006.015. तथापि अहं न प्रतिविरमामि/ 006.015. स मां पृच्छति--भद्रमुख, किं त्वमेतानुरभ्रान् दिवा

प्रघातयसि आहोस्विदू रात्रौ? मयोक्तह्--आर्य दिवा, प्रघातयामीति/ 006.017. स कथयति--भद्रमुख, रात्रौ शीलसमादानं किं न गृह्णासि/ 006.017. मया तस्यान्तिकाद् रात्रौ शीलसमादानं गृहीतम्/ 006.018. यत्तद् रात्रौ शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि/ 006.019. यन्मया दिवा उरभ्राः प्रघातिताः, तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि/ 006.020. गाथां च भाषते-- 006.021. दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः/ 006.022. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्//3//

006.023. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? गमिष्यामि/ 006.023. तत्र मम पुत्रः प्रतिवसति/ 006.023. स उरभ्रान् प्रघात्य प्रघात्य जीविकां कल्पयति/ 006.024. स त्वया वक्तव्यह्--दृष्टस्ते मया पिताअ/ 006.025. कथयति--अनिष्टो ऽस्य कर्मणः फलविपाकः/ 006.025. विरमास्मात् पापकादसद्धर्मात्/ 006.025. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति/ 006.026. नाभिश्रद्दधास्यति/ 006.026. श्रोण, यदि न श्रद्दधास्यति, वक्तव्यस्तव पिता कथयति--अस्ति सूनाधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः/ 006.028. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय/ 006.028. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय/ 006.029. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 006.030. स संप्रस्थितः/ 006.030. यावत् सूर्यस्याभ्युद्गमनकालसमये पश्यति अपरं विमानम्/ 006.031. तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका, एकश्च पुरुष अभिरूपो दर्शनीयः प्रासादिकह् अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते <7>परिचारयति/

007.001. स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः/ 007.001. स्वागतं श्रोण, मा तृषितो ऽसि, मा बुभुक्षितो ऽसि वा? स संलक्षयति--नूनमयं देवो वा नागो वा यक्षो वा भविष्यति/ 007.003. स कथयति--तृषितो ऽस्मि बुभुक्षितश्च/ 007.003. स तेन स्नापितो भोजितः/ 007.003. स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्यास्तंगमनकालसमयः/ 007.004. स तेनोक्तह्--अवतरस्व, आदीनवो ऽत्र भविष्यति/ 007.005. स दृष्टादीनवो ऽवतीर्य एकान्ते ऽवस्थितः/ 007.005. ततः पश्चात् सूर्यस्यास्तगमनकालसमये तद्विमानमन्तर्हितम्/ 007.006. सापि अप्सरा अन्तर्हिता/ 007.006. महती शतपदी प्रादुर्भूता/ 007.006. तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तिष्कं भक्षयन्ती स्थिता, यावत् स एव सूर्यस्याभ्युद्गमनकालसमयः/ 007.008. ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्/ 007.009. सापि अप्सराः प्रादुर्भूता/ 007.009. स च पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकस्तया सार्धं क्रीडति रमते परिचारयति/ 007.010. स तमुपसंक्रम्य पृच्छति--को भवान्, केन कर्मणा इहोपपन्नह्? स एवमाह--श्रोण, दुष्कुहका जाम्बूद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि/ 007.011. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? स कथयति--यदि एवम्, अहं वासवग्रामके ब्राह्मण आसीत् पारदारिकः/ 007.013. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टो ऽस्य कर्मणः फलविपाकः/ 007.014. विरम त्वमस्मात् पापकादसद्धर्मात्/ 007.014. तस्य वचनादहं न प्रतिविरमामि/ 007.015. भूयो भूयः स माम विच्छन्दयति/ 007.015. तथैवाहं तस्मात्

पापकादसद्धर्मान्न प्रतिविरमामि/ 007.016. स मां पृच्छति--भद्रमुख, परदारान् किं त्वं दिवा गच्छसि, आहोस्विद् रात्रौ? स मयाभिहितह्--आर्य रात्रौ/ 007.017. स कथयति--भद्रमुख, दिवा किं न शीलसमादानं गृह्णासि? मया तस्यान्तिके दिवा शीलसमादानं गृहीतम्/ 007.018. यत्तन्मया आर्यस्य कात्यायनस्यान्तिकाद् दिवा शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यसुखं प्रत्यनुभवामि/ 007.020. यत्तद्रात्रौ परदाराभिगमनं कृतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि/ 007.021. गाथां च भाषते-- 007.022. रात्रौ परदारमूर्च्छितो, दिवसं शीलगुणैः समन्वितः/ 007.023. तस्यैतत् कर्मणः फलं ह्यनुभवामि कल्याणपापकम्//4//

007.024. श्रोण, गमिष्यसि त्वं वासवग्रामकम्/ 007.024. तत्र मम पुत्रो ब्राह्मणः पारदारिकः/ 007.024. स वक्तव्यह्--दृष्टस्ते मया पिता/ 007.025. स कथयति--अनिष्टो ऽस्य कर्मणः फलविपाकः/ 007.025. विरमास्मात् पापकादसद्धर्मात्/ 007.026. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति/ 007.026. एतन्मे कः श्रद्दधास्यति? श्रोण यन्न श्रद्दधास्यति, वक्तव्यह्--तव पित्रा अग्निष्टोमस्याधस्तात् सुवर्णकलशः पूरयित्वा स्थापितः/ 007.028. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय/ 007.028. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय/ 007.029. अस्माकं च नांना दक्षिणां देशय/ 007.029. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 007.030. स संप्रस्थितः/ 007.030. यावत् पश्यति विमानम्/ 007.030. तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना/ 007.031. तस्याश्चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास्तिष्ठन्ति/ 007.032. सा तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धा--<8>श्रोण, स्वागतम्/

008.001. मा तृषितो ऽसि मा बुभुक्षितो ऽसि वा? स संलक्षयति--नूनं देवीयं वा नागी वा यक्षी वा भविष्यति/ 008.002. स कथयति--आर्ये, तृषितो ऽस्मि बुभुक्षितो ऽस्मि/ 008.002. तयासावुद्वर्तितः स्नापित आहारो दत्तः/ 008.003. उक्तं च--श्रोण, यदि एते किंचिन्मृगयन्ति, मा दास्यसीति उक्त्वा तेषां सत्त्वानां कर्मस्वकटां प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता/ 008.004. ते मृगयितुमारब्धाह्--श्रोण कारुणिकस्त्वम्/ 008.005. बुभुक्षिता वयम्/ 008.005. अस्माकमनुप्रयच्छ/ 008.005. तेनैकस्य क्षिप्तम्--बुसप्लावी प्रादुर्भूता/ 008.006. अपरस्य क्षिप्तम्--अयोगुडं भक्षयितुमारब्धः/ 008.006. अपरस्य क्षिप्तम्--स्वमांसं भक्षयितुमारब्धह्--अपरस्य क्षिप्तम्--पूयशोणितं प्रादुर्भूतम्/ 008.007. सा विस्रगन्धेन निर्गता/ 008.008. श्रोण निवारितस्त्वं मया/ 008.008. कस्मात् त्वयैषां दत्तम्? किं कथयति--अयं मे स्वामी, अयं मे पुत्रः, इयं मे स्नुषा, इयं मे दासी/ 008.010. स आह--के यूयम्, केन वा कर्मणा इहोपपन्नाह्? तयोक्तम्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्या इति नाभिश्रद्दधास्यसि/ 008.011. अहं प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये? सा कथयति--अहं वासवग्रामके ब्राह्मणी आसीत्/ 008.012. मया नक्षत्ररात्र्यां प्रत्युपस्थितायां प्रणीतमाहारं सज्जीकृतम्/ 008.013. आर्यमहाकात्यायनो ममानुकम्पया वासवग्रामके पिण्डाय प्राविक्षत्/ 008.014. स मया दृष्टः कायप्रासादिकश्चित्तप्रासादिकः/ 008.014. चित्तमभिप्रसन्नं दृष्ट्वा स मया प्रसादजातया पिण्डकेन प्रतिपादितः/ 008.015. तस्या मम बुद्धिरुत्पन्ना--स्वामिनमनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति/ 008.016. स स्नात्वा आगतः/ 008.016.

मयोक्तम्--आर्यपुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः/ 008.017. स रुषितो यावद् ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम्? सो ऽमर्षजातः कथयति--कस्मात् स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति? तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति/ 008.020. मम बुद्धिरुत्पन्ना--पुत्रमपि अनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति/ 008.021. सो ऽपि मयोक्तह्--पुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः/ 008.021. सो ऽपि रुषितो यावद् ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डं दत्तम्? सो ऽपि अमर्षजातः कथयति--कस्मात् स मुण्डकः श्रमणको ऽयोगुडं न भक्षयतीति? तस्य कर्मणो विपाकेनायमयोगुडं भक्षयति/ 008.024. नक्षत्ररात्र्यां प्रत्युपस्थितायां मम ज्ञातयः प्रहेणकानि प्रेषयन्ति/ 008.025. तानि अहं स्नुषायाः समर्पयामि/ 008.025. सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति/ 008.026. अहं तेषां ज्ञातीनां संदिशामि--किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयत? ते मम संदिशन्ति--न वयं लूहानि प्रेषयामः, अपि तु प्रणीतान्येव प्रहेणकानि प्रेषयामः/ 008.029. मया स्नुषाभिहिता--वधूके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्मकं लूहानि उपनामयसि? सा कथयति--किं स्वमांसं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति? इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति/ 008.032. नक्षत्ररात्र्यां प्रतुपस्थितायां प्रणीतानि प्रहेणकानि दत्त्वा ज्ञातीनां

प्रेषयामि/ 008.033. सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गे ऽन्तर्भक्षयित्वा तेषां लूहानि उपनामयति/

009.001. <9>ते मम संदिशन्ति--किं नु त्वं दुर्भिक्षे यथा लूहानि अस्माकं प्रहेणकानि प्रेषयसि? अहं तेषां संदिशामि--नाहं लूहानि पेर्षयामि, अपि तु प्रणीतान्येवाहं प्रेषयामीति/ 009.002. मया दारिकाभिहिता--दारिके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहानि उपनामयसि/ 009.004. सा कथयति--किं नु पूयशोणितं न भक्षयति, या त्वदीयानि प्रहेणकानि भक्षयतीति? तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति/ 009.005. मम बुद्धिरुत्पन्ना--तत्र प्रतिसंधिं गृह्णीयाम् यत्रैतान् सर्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्येयमिति/ 009.006. यया मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते त्रायस्त्रिंशे देवनिकाये उपपत्तव्यम्, साहं मिथ्याप्रणिधानवशात् प्रेतमहर्द्धिका संवृत्ता/ 009.008. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? तत्र मम दुहिता वेश्यं वाहयति/ 009.009. सा त्वया वक्तव्या--दृष्टास्ते मया पिता माता भ्राता भ्रातुर्जाया दासी/ 009.010. ते कथयन्ति--अनिष्टो ऽस्य कर्मणः फलविपाकः/ 009.010. विरमास्मादसद्धर्मात्/ 009.010. भगिनि, त्वमेव कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यन्ति/ 009.011. श्रोण, यदि न श्रद्दधास्यति, वक्तव्या--तव पौराणे पैतृके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः/ 009.013. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय/ 009.015. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 009.015. तेन तस्याः प्रतिज्ञातम्/ 009.016. एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः//

009.017. तयोक्तह्--श्रोण, गमिष्यसि त्वं वासवग्रामकम्? भगिनि, गमिष्यामि/ 009.017. स तस्मिन्नेव विमाने उषितः/ 009.018. तया तेषामेव प्रेतानामाज्ञा दत्ता--भवन्तो गच्छत, श्रोणं कोटिकर्णं सुप्तमेव वासवग्रामके पैतृके उद्याने स्थापयित्वा आगच्छत/ 009.019. स तैर्वासवग्रामके पैतृके उद्याने स्थापितः/ 009.020. स प्रतिविबुद्धो यावत् पश्यति घण्टाछत्राणि व्यजनानि, अक्षराणि लिखितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघ्वागमनाय, क्षिप्रमागमनाय, च्युतः कालगतो गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै/ 009.022. स संलक्षयति--यदि अहं मातापितृभ्यां मृत एव गृहीतः, कस्माद्भूयो ऽहं गृहं प्रविशामि? गच्छामि, आर्य महाकात्यायनस्यान्तिकात् प्रव्रजामीति/ 009.024. अथ श्रोणः कोटिकर्णो येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तः/ 009.025. अद्राक्षीदायुष्मान् महाकत्यायनः श्रोणं कोटिकर्णं दूरादेव/ 009.025. दृष्ट्वा च पुनः श्रोणं कोटिकर्णमिदमवोचत्--एहि श्रोण, श्वागतं ते/ 009.026. दृष्टस्ते श्रोण अयं लोकः परश्च लोकह्? स कथयति--दृष्टो भदन्त महकात्यायन/ 009.027. लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 009.028. चरेयमहं भवतो ऽन्तिके ब्रह्मचर्यम्/ 009.028. स आर्येणोक्तह्--श्रोण, तां तावत् पूर्विकां प्रतिज्ञां परिपूरय/ 009.029. यथागृहीतान् संदेशान् समर्पयेति/ 009.029. स तस्यैरभ्रिकस्य सकाशमुपसंक्रान्तः/ 009.030. विरमास्मादसद्धर्मात्/ 009.031. भोः पुरुष, अद्य मम पितुर्द्वादशवर्षाणि कालगतस्य/ 009.032. अस्ति कश्चिद् दृष्टः परलोकात् पुनरागच्छन्? भद्रमुख, एषो ऽहमागतः/ 009.032. नासौ श्रद्दधाति/ 009.033. भद्रमुख, यदि न श्रद्दधासि, स तव पिता कथयति--अस्ति सूनाधस्तात् सुवर्णस्य कलशः/

010.001. <10>पूर्णस्तिष्ठति/ 010.001. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय/ 010.001. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय/ 010.002. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादाय गच्छेत्/ 010.003. स संलक्षयति--न कदाचिदेवं मया श्रुतपूर्वम्/ 010.003. पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्/ 010.004. तेन गत्वा खनितम्/ 010.004. यावत् तत् सर्वं तत् तथैव/ 010.004. तेनाभिश्रद्दधातम्/ 010.005. ततः पश्चात् स पारदारिकास्य सकाशमुपसंक्रान्तः/ 010.005. उपसंक्रम्य कथयति--भद्रमुख, दृष्टस्ते मया पिता/ 010.006. स कथयति--अनिष्टो ऽस्य कर्मणः फलविपाकः/ 010.006. विरमास्मात् पापकादसद्धर्मात्/ 010.007. स कथयति--भोः पुरुष, अद्य मम पितुर्द्वादश वर्षाणि कालं गतस्य/ 010.007. अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? भद्रमुख, एषो ऽहमागतः/ 010.008. नासौ श्रद्दधाति/ 010.009. स चाअह--भद्रमुख, सचेन्नाभिश्रद्दधासि, तव पित्रा अग्निष्टोमस्याधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः/ 010.010. स कथयति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय/ 010.011. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 010.012. स संलक्षयति--न कदाचिदेतन्मया श्रुतपूर्वम्/ 010.013. पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्/ 010.013. तेन गत्वा खनितम्/ 010.013. यावत् तत्सर्वं तत्तथैव/ 010.014. तेनाभिश्रद्दधातम्/ 010.014. स तस्या वेश्यायाः

सकाशमुपसंक्रान्तः/ 010.014. उपसंक्रम्य कथयति--भगिनि, दृष्टास्ते मया माता पिता भ्राता भ्रातुर्जाया दासी/ 010.015. ते कथयन्ति--अनिष्टो ऽस्य कर्मणः फलविपाकः/ 010.016. विरमास्मात् पापकादसद्धर्मात्/ 010.016. सा कथयति--भोः पुरुष, मम मातापित्रोर्द्वादश वर्षाणि कालगतयोः/ 010.017. अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनरागच्छन्? स कथयति--एषो ऽहमागतः/ 010.018. सा न श्रद्दधाति/ 010.018. स कथयति--भगिनि, सचेन्नाभिश्रद्दधासि, तव पौराणे पैतृके वासगृहे चतस्रो लोहसंघाटाः सुवर्णपूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः/ 010.020. ते कथयन्ति--तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय/ 010.022. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्/ 010.022. सा संलक्षयति--न कदाचिन्मया श्रुतपूर्वम्/ 010.023. पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्/ 010.023. तया गत्वा खनितम्/ 010.023. यावत् तत् सर्वं तत्तथैव/ 010.024. तयाभिश्रद्दधातम्/ 010.024. श्रोणः कोटिकर्णः संलक्षयति--सर्वो ऽयं लोकः सुवर्णस्य श्रद्दधाति, न तु कश्चिन्मम श्रद्धया गच्छतीति/ 010.025. तेन वैपुष्पितम्/ 010.025. शिशुत्वे सुवर्णेन दशना बद्धाः/ 010.026. तयासौ प्रत्यभिज्ञातः/ 010.026. स्यादार्यः श्रोणः कोटिकर्ण एव ते भगिनीजनः संजानते(?)/ 010.027. तया गत्वा तस्य मातापितृभ्यामारोचितम्/ 010.027. अम्ब तात कोटिकर्णो ऽभ्यागत इति/ 010.028. अनेकैस्तेषामारोचितम्/ 010.028. ते न कस्यचित् श्रद्धया गच्छन्ति/ 010.028. ते

कथयन्ति--पुत्रि त्वमप्यस्माकमुत्प्रासयसि/ 010.029. यावदसौ स्वयमेव गतः/ 010.029. तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः/ 010.030. हिरण्यस्वरो ऽसौ महात्मा/ 010.030. तस्य शब्देन सर्वं गृहमापूरितम्/ 010.030. स तैः स्वरेण प्रत्यभिज्ञातः/ 010.031. ते कण्ठे परिष्वज्य रुदितुमारब्धौ/ 010.031. तेषां बाष्पेण पटलानि स्फुटितानि/ 010.032. द्रष्टुमारब्धौ/ 010.032. स कथयति--अम्ब तात अनुजानीध्वम्/ 010.032. प्रव्रजिष्यामि सम्यगेव श्रद्धया <11>अगारादनगारिकाम्/

011.001. तौ कथयतह्--पुत्र आवां त्वदीयेन शोकेन रुदन्तावन्धीभूतौ/ 011.001. इदानीं त्वामेवागम्य चक्षुः प्रतिलब्धम्/ 011.002. यावदावां जीवामः, तावन्न प्रव्रजितव्यम्/ 011.002. यदा कालं करिष्यामः, तदा प्रव्रजिष्यसि/ 011.003. तेनायुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा स्रोतापत्तिफलं साक्षात्कृतम्, मातापितरौ च शरणगमनशिक्षापदेषु प्रतिष्ठापितौ/ 011.004. आगमचतुष्टयमधीतम्, सकृदागामिफलं साक्षात्कृतम्/ 011.005. मातापितरौ सत्येषु प्रतिष्ठापितौ//

011.006. अपरेण समयेन तस्य मातापितरौ कालगतौ/ 011.006. स तं धनजातं दीनानाथकृपणेभ्यो दत्त्वा दरिद्रानदरिद्रान् कृत्वा येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तः/ 011.007. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्/ 011.008. एकान्ते स्थितः श्रोणः कोटिकर्ण आयुष्मन्तं महाकात्यायनमिदमवोचत्--लभेयाहमार्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम्, यावच्चरेयाहं भगवतो ऽन्तिके ब्रह्मचर्यम्/ 011.010. स आयुष्मता महाकात्यायनेन प्रव्रजितः/ 011.011. तेन प्रव्रज्य मातृकाधीता, अनागामिफलं साक्षात्कृतम्/ 011.011. अस्मात् परान्तकेषु जनपदेष्वल्पभिक्षुकम्/ 011.012. कृच्छ्रेण देशवर्गो गणः परिपूर्यते/ 011.012. स त्रैमासीं श्रामणेरो धारितः/ 011.012. धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः/ 011.013. यच्चाषाढ्यां वर्षोपनायिकायाम् यच्च कार्तिक्यां पूर्णमास्याम्/ 011.014. तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति, ते तांस्तानुद्देशयोगमनसिकारानुद्गृह्य पर्यवाप्य तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगच्छन्ति/ 011.015. ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति, ते यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति सूत्रस्य विनयस्य मातृकायाः/ 011.017. एवमेव महाश्रावकाणामपि/ 011.017. अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवस् तांस्तानुद्देशयोगमनसिकारविशेषान् गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगताः, ते त्रयाणां वार्षिकाणां मासानामत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरम् येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्ताः/ 011.021. उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः/ 011.021. एकान्ते निषद्य यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति/ 011.022. देशवर्गो गणः परिपूर्णः/ 011.022. स तेनोपसम्पादितः/ 011.023. तेन तृतीयपिटकमधीतम्/ 011.023. सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 011.023. अर्हन् संवृत्तस् त्रैधातुकवीतरागो यावद् अभिवाद्यश्च संवृत्तः//

011.025. अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनम् यावत्तावत् पर्युपास्यायुष्मन्तं महाकात्यायनमिदमवोचन्--दृष्टो ऽस्माभिरुपाध्यायः पर्युपासितश्च/ 011.027. गच्छामो वयम्, भगवन्तं पर्युपासिष्यामहे/ 011.027. स चाह--वत्सा एवं कुरुध्वम्/ 011.027. द्रष्टव्या एव पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्सम्बुद्धाः/ 011.027. तेन खलु पुनः समयेन श्रोणः कोटिकर्णस्तस्यामेव पर्षदि संनिषण्णो ऽभूत् संनिपतितः/ 011.029. अथायुष्माञ् श्रोणः कोटिकर्ण उत्थायासनाद् एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान् महाकात्यायनस्तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनमिदमवोचत्--दृष्टो मयोपाध्यायानुभावेन स भगवान् धर्मकायेन, नो तु रूपकायेन/ 011.032. गच्छामि उपाध्याय, रूपकायेनापि तं भगवन्तं द्रक्ष्यामि/ 011.032. स <12>आह--एवं वत्स कुरुष्व/

012.001. दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्सम्बुद्धास् तद्यथा औदुम्बरपुष्पम्/ 012.002. अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च यावत् सुखस्पर्शविहारतां च/ 012.003. पञ्च प्रश्नांश्च पृच्छ--अस्मात् परान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकम्/ 012.004. कृच्छ्रेण दशवर्गगणः परिपूर्यते/ 012.004. तत्रास्माभिः कथं प्रतिपत्तव्यम्? खरा भूमी गोकण्टका धानाः/ 012.005. अस्माकमपरान्तकेषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म गोचर्म च्छागचर्म/ 012.006. तदन्येषु जनपदेषु इदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा एरको मेरको जन्दुरको मन्दुरकः/ 012.007. एवमेवास्मात् परान्तकेषु जनपदेष्विदमेवम्रूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म पूर्ववत्/ 012.008. उदकस्तब्धिका मनुष्याः स्नातोपविचाराः/ 012.008. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि कस्यैतानि नैःसर्गिकानि/ 012.009. अधिवासयति आयुष्माञ्छ्रोणः कोटिकर्ण आयुष्मतो महाकात्यायनस्य तूष्णीभावेन/ 012.010. अथायुष्माञ्छ्रोणः कोटिकर्णस् तस्या एव रात्रेरत्ययात् पूर्वाह्णे निवास्य पात्रचीवरमादाय वासवग्रामकं पिण्डाय प्राविक्षत्/ 012.012. यावदनुपूर्वेण श्रावस्तीमनुप्राप्तः/ 012.012. अथायुष्माञ्छ्रोणः कोटिकर्णः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तः/ 012.013. उपसंक्रम्यैकान्ते निषण्णः/ 012.014. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ आनन्द तथागतस्य श्रोणस्य च कोटिकर्णस्यैकविहारे मञ्चं प्रज्ञापय/ 012.015. एवं भदन्तेति

आयुष्मानानन्दस्तथागतस्य श्रोणस्य च कोटिकर्णस्य यावत् प्रज्ञाप्य येन भगवांस्तेनोपसंक्रान्तः/ 012.016. उपसंक्रम्य भगवन्तमिदमवोचत्--प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य कोटिकर्णस्य विहारस्तेनोपसंक्रान्तः, यावद्विहारं प्रविश्य निषण्णः/ 012.019. यावत् पश्यति स्मृतिं प्रतिमुखमुपस्थाप्य/ 012.019. अथायुष्मानपि श्रोणः कोटिकर्णो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कमाभुज्य यावत् प्रतिमुखं स्मृतिमुपस्थाप्य/ 012.021. तां खलु रात्रिं भगवान् आयुष्मांश्च श्रोणः कोटिकर्ण आर्येण तूष्णीभावेनाधिवासितवान्/ 012.022. अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटिकर्णमामन्त्रयते स्म--प्रतिभातु ते श्रोण धर्मो यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः/ 012.023. अथायुष्माञ् श्रोणो भगवता कृतावकाशह् अस्मात् परान्तिकया गुप्तिकया उदानात् पारायणात् सत्यदृष्टः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति/ 012.025. अथ भगवाञ्छ्रोणस्य कोटिकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटिकर्णमिदमवोचत्--साधु साधु श्रोण, मधुरस्ते धर्मो भाषितः प्रणीतश्च, यो मया स्वयमभिज्ञायाभिसम्बुध्याख्यातः/ 012.028. अथायुष्मतः श्रोणस्य कोटिकर्णस्यैतदभवत्--अयं मे कालो भगवत उपाध्यायस्य वचसारोचयितुमिति विदित्वोत्थायासनाद् यावद् भगवन्तं प्रणम्येदमवोचत्--अस्मात् परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकात्यायनः प्रतिवसति, यो मे उपाध्यायः/ 012.031. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत् स्पर्शविहारतां च/ 012.032. पञ्च च

प्रश्नान् पृच्छति विस्तरेणोच्चारयितव्यानि/ 012.032. अथ भगवाञ्च्छ्रोणं कोटिकर्णमिदमवोचत्<13>--अकालं ते श्रोण प्रश्नव्याकरणाय/

013.001. संघमेलकस् तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय/ 013.002. अथ भगवान् काल्यमेवोत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 013.003. अथायुष्माञ्च्छ्रोणः कोटिकर्णो येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्/ 013.004. एकान्तस्थितो भगवन्तमिदमवोचत्--अस्मात् परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकायायनः प्रतिवसति, यो मे उपाध्यायः/ 013.005. स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत् स्पर्शविहारतां च/ 013.006. पञ्च च प्रश्नाति विस्तरेणोच्चारयितव्यानि यथापूर्वमुक्तानि यावत् कस्य नैःसर्गिकानि/ 013.007. भगवानाह--तस्मादनुजानामि/ 013.008. प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदा, सदा स्नातः, एकपलाशिके उपानहे धारयितव्ये न द्विपुटां न त्रिपुटाम्/ 013.009. सा चेत् क्षयधर्मिणी भवति, तां त्यक्त्वा पुनर् नवा ग्रहीतव्या/ 013.010. भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासम्प्राप्तानि न कस्यचिन्नैःसर्गिकाणि/ 013.011. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति--यदुक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसम्पदम्, तत्र कतमो ऽन्तः कतमः प्रत्यन्तह्? पूर्वेणोपालि पुण्डवर्धनं नाम नगरम्, तस्य पूर्वेण पुण्डकक्षो नाम पर्वतः, ततः परेण प्रत्यन्तः/ 013.013. दक्षिणेन शरावती नाम नगरी, तस्याः परेण सरावती नाम नदी, सो ऽन्तः, ततः परेण प्रत्यन्तः/ 013.015. पश्चिमेन स्थूणोपस्थूणकौ ब्रामणग्रामकौ, सो ऽन्तः, ततः परेण प्रत्यन्तः/ 013.015. उत्तरेण उशीरगिरिः सो ऽन्तः, ततः परेण प्रत्यन्तः//

013.017. किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतमिति विस्तरः/ 013.017. भगवानाह--भूतपूर्वम् यावत् काश्यपो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो भगवाञ् शास्ता लोक उत्पन्नः/ 013.019. तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ/ 013.019. ताभ्यां काश्यपस्य सम्यक्सम्बुद्धस्यान्तिके शरणगमनशिक्षापदानि उद्गृहीतानि/ 013.020. यदा काश्यपः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषु निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा कृकिना चतूरत्नमयं चैत्यं कारितं समन्ताद्योजनमुच्चत्वेन/ 013.022. तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते, ते तस्मिन् स्तूपे ऽनुप्रदत्ताः/ 013.023. यदा कृकी राजा कालगतः, तस्य पुत्रः सुजातो नांना स राज्ये प्रतिष्ठापितः/ 013.024. तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः/ 013.025. सो ऽमात्यानामन्त्रयते--किंकारणमस्माकं भवद्भिः स्तोककरप्रत्याया उपनामिताह्? किमस्माकं विजिते करप्रत्याया नोत्तिष्ठन्ते? ते कथयन्ति--देव, कुतः करप्रत्याया प्रज्ञापिताः/ 013.028. यदि देवो ऽनुजानीयात्, ते वयं तान् करप्रत्यायान् समुच्छिन्दामः/ 013.028. स कथयति--भवन्तः, यन्मम पित्रा कृतम्, देवकृतं न तु ब्रह्मकृतं तत्/ 013.029. ते संलक्षयन्ति--यदि देवो ऽनुजानीते, वयं तथा करिष्यामो यथा स्वयमेव ते करप्रत्याया नोत्थास्यन्ति/ 013.030. तैः स द्वारे बद्ध्वा स्थापितः/ 013.031. न भूयः करप्रत्याया उत्थिष्ठन्ते/ 013.031. तस्मिन् स्तूपे चटितकानि प्रादुर्भूतानि/ 013.032. तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः/ 013.032. उत्तरापथात् सार्थवाहह् <14>पण्यमादाय वाराणसीमनुप्राप्तः/

014.001. तेनासौ दृष्टः स्तूपः/ 014.001. चटितस्फुटितकः प्रादुर्भूतः/ 014.001. स दृष्ट्वा पृच्छति--अम्ब तात कस्यैष स्तूप इति/ 014.002. तौ कथयतह्--काश्यपस्य सम्यक्सम्बुद्धस्य/ 014.003. केन कारितह्? कृकिना राज्ञा/ 014.003. न तेन राज्ञास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारकरणाय किंचित् प्रज्ञाप्तम्? तौ कथयतह्--प्रज्ञाप्तम्/ 014.004. ये पूर्वनगरद्वारे करप्रत्यायास्ते ऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः/ 014.005. कृकी राजा कालगतः/ 014.005. तस्य पुत्रः सुजातो नाम, स राज्ये प्रतिष्ठितः/ 014.006. तेन ते करप्रत्यायाः समुच्छिन्नाः/ 014.006. तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि/ 014.007. तस्य रत्नकर्णिका कर्णे आमुक्तिका/ 014.007. तेन सा रत्नकर्णिकावतार्य तयोर्दत्ता/ 014.008. अम्ब तात अनया कर्णिकयास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतमिति/ 014.008. यावदहं पण्यं विसर्जयित्वा आगच्छामि/ 014.009. ततः पश्चाद् भूयो ऽपि दास्यामि/ 014.009. तैस्तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटितप्रतिसंस्कारः कृतः/ 014.010. अपरमुत्सर्पितम्/ 014.010. अथापरेण समयेन सार्थवाहः पण्यं विसर्जयित्वा आगतः/ 014.011. तेन स दृष्टः स्तूपो ऽसेचनकदर्शनः/ 014.011. दृष्ट्वा च भूयस्या मात्रयाभिप्रसन्नः/ 014.012. स प्रसादजातः पृच्छति--अम्ब तात युष्माभिः किंचिदुद्धारिकृतम्/ 014.013. तौ कथयतह्--पुत्र नास्माभिः किंचिदुद्धारिकृतम्/ 014.013. किं त्वपरमुत्सर्पितं तिष्ठति/ 014.014. तेन प्रसादजातेन यत्तत्रावशिष्टम् अपरं च दत्त्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्--अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले

जायेयम्/ 014.015. एवंविधानां च धर्माणां लाभी स्याम्/ 014.016. एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति/ 014.016. किं मन्यध्वे भिक्षवो यो ऽसौ सार्थवाहः, एष एवासौ श्रोणः कोटिकर्णः/ 014.017. यदनेन काश्यपस्य सम्यक्सम्बुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः/ 014.018. मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 014.019. अहमनेन काश्यपेन सम्यक्सम्बुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः/ 014.020. इति भिक्षव एकान्तकृष्णानामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां धर्माणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः/ 014.022. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 014.023. इत्येवं वो भिक्षवः शिक्षितव्यम्//

014.024. भिक्षव ऊचुह्--किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतम् यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टाह्? भगवानाह--यदनेन मातुरन्तिके खरवाक्कर्म निश्चारितम्, तस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्टा इति//

014.027. इदमवोचद्भगवान्/ 014.027. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

014.028. इति श्रीदिव्यावदाने कोटिकर्णावदानं प्रथमम्//

********** अवदान 2 **********

015.000. दिव्2 पूर्णावदानम्/ 015.001. भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे/ 015.001. तेन खलु समयेन सूर्पारके नगरे नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी/ 015.003. तेन सदृशात् कुलात् कुलत्रमानीतम्/ 015.004. स तया सार्धं क्रीडति रमते परिचारयति/ 015.004. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता/ 015.005. सा अष्टानां नवानां वा मासानामत्ययात् प्रसूता/ 015.005. दारको जातः/ 015.006. तस्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति/ 015.007. ज्ञातय ऊचुह्--अयं दारको भवस्य गृहपतेः पुत्रः, तस्माद्भवतु भविलेति नामधेयं व्यवस्थापितम्/ 015.008. भूयो ऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः/ 015.009. तस्य भवत्रातेति नामधेयं व्यवस्थापितम्/ 015.009. पुनरप्यस्य पुत्रो जातः/ 015.010. तस्य भवनन्दीति नामधेयं व्यवस्थापितम्/ 015.010. यावदपरेण समयेन भवो गृहपतिर् ग्लानं संवृत्तः/ 015.011. सो ऽत्यर्थं परुषवचनसमुदाचारी यतः, पत्न्या पुत्रैश्चाप्युपेक्षितः/ 015.011. तस्य प्रेष्यदारिका/ 015.012. सा संलक्षयति--मम स्वामिना अनेकैरुपायशतैर्भोगाः समुदानीताः/ 015.013. सेदानीं ग्लानः संवृत्तः/ 015.012. सैष पत्न्या पुत्रैश्चाप्युपेक्षितः/ 015.013. न मम प्रतिरूपं स्याद् यदहं स्वामिनमध्युपेक्षेयमिति/ 015.014. सा वैद्यसकाशं गत्वा कथयति--आर्य जानीषे त्वं भवं गृहपतिम्? जाने, किं

तस्य? तस्यैवंविधं ग्लान्यं समुपजातम्/ 015.015. स पत्न्या पुत्रैश्चाप्युपेक्षितः/ 015.015. तस्य भविषज्यम् (भैषज्यम्) व्यपदिशेति/ 015.016. स कथयति--दारिके त्वमेव कथयसि--स पत्न्या पुत्रैश्चाप्युपेक्षित इति/ 015.017. अथ कस्तस्योपस्थानं करोति? सा कथयति--अहमस्योपस्थानं करोमि/ 015.018. किं त्वल्पमूल्यानि भैषज्यानि व्यपदिशेति/ 015.018. तेन व्यपदिष्टम्--इदं तस्य भैषज्यमिति/ 015.018. ततस्तया किंचित् स्वभक्तात्तस्मादेव गृहादपहृत्योपस्थानं कृतम्/ 015.019. स स्वस्थीभूतः संलक्षयति--अहं पत्न्या पुत्रैश्चाध्युपेक्षितः/ 015.020. यदहं जीवितः, तदस्या दारिकायाः प्रभावात्/ 015.020. तदस्याः प्रत्युपपकारः कर्तव्य इति/ 015.021. सा तेनोक्ता--दारिके, अहं पत्न्या पुत्रैश्चाप्युपेक्षितः/ 015.021. यत् किंचिदहं जीवितः, सर्वं तव प्रभावात्/ 015.022. अहं ते वरमनुप्रयच्छामीति/ 015.022. सा कथयति--स्वामिन्, यदि मे परितुष्टो ऽसि, भवतु मे त्वया सार्धं समागम इति/ 015.023. स कथयति--आर्यपुत्र, दूरमपि परमपि गत्वा दास्येवाहम्, यदि तु आर्यपुत्रेण सार्धं समागमो भवति, एवमदासी भवामीति/ 015.026. तेनावश्यं निर्बन्धं ज्ञात्वा अभिहिता--यदा संवृत्ता ऋतुमती तदा ममारोचयिष्यसीति/ 015.026. सा अपरेण समयेन कल्या संवृत्ता ऋतुमती/ 015.027. तया तस्यारोचितम्/ 015.027. ततो भवेन गृहपतिना तया सार्धं परिचारितम्/ 015.028. सा आपन्नसत्त्वा संवृत्ता/ 015.028. यमेव दिवसमापन्नसत्त्वा संवृत्ता तमेव दिवसमुपादाय भवस्य गृहपतेः सर्वार्थाः सर्वकर्मान्ताश्च परिपूर्णाः/ 015.029. सा त्वष्टानां वा नवानां मासानामत्ययात्

प्रसूता/ 015.030. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशीर्षः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः/ 015.031. यस्मिन्नेव दिवसे <16>दारको जातः, तस्मिन्नेव दिवसे भवस्य गृहपतेर्भूयस्या मात्रया सर्वार्थाः सर्वकर्मान्ताः परिपूर्णाः/

016.002. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा पूर्ववत् यावत्पूर्णेति नामधेयं व्यवस्थापितम्/ 016.003. पूर्णो दारको ऽष्टाभ्यो धात्रीभ्यो द्वाभ्यामंसधातीभ्यां दत्तो विस्तरेण यावदाशु वर्धते ह्रदस्थमिव पङ्कजम्/ 016.004. यदा महान् संवृत्तः, तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायाम्/ 016.006. अष्टासु परीक्षासूद्धटको वाचकः पण्डितः पटुप्रचारः संवृत्तः/ 016.007. ततो भवेन गृहपतिना भविलादीनां पुत्राणाम् यथानुपूर्व्या निवेशाः कृताः/ 016.008. ते पत्नीभिः सार्धमतीव संरक्ता निवृत्ता मण्डनपरमा व्यवस्थिताः/ 016.009. ततो भवो गृहपतिः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः/ 016.009. स पुत्रैर्दृष्टः पुष्टश्च--तात, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति/ 016.010. स कथयति--पुत्रकाः, न तावन्मया निवेशः कृतो यावत्सुवर्णलक्षः समुदानीत इति/ 016.011. ते यूयं निरस्तव्यापाराः पत्नीष्वत्यर्थं संरक्ता मण्डनपरमा व्यवस्थिताः/ 016.012. ममात्ययात् गृहं शोचनीयं भविष्यति/ 016.012. कथं न चिन्तापरो भविष्यामीति? भविलेन रत्नकर्णिका पिनद्धा/ 016.013. स तामवतार्यदारुकर्णिकां पिनह्य प्रतिज्ञामारूढह्--न तावत् रत्नकर्णिकां पिनह्यामि यावत् सुवर्णलक्षः समुपार्जित इति/ 016.014. अपरेण स्तवकर्णिका/ 016.015. अपरेण त्रपुकर्णिका/ 016.015. तेषाम् यास्ताः संज्ञा भविलो भवत्रातो भवनन्दीति ता अन्तर्हिताः/ 016.016. दारुकर्णी

स्तवकर्णी त्रपुकर्णीति प्रादुर्भूताः/ 016.016. ते पण्यमादाय महासमुद्रं संप्रस्थिताः/ 016.016. पूर्णः कथयति--तात, अहमपि महासमुद्रं गच्छामीति/ 016.017. स कथयति--पुत्र बालस्त्वम्/ 016.017. अत्रैव तिष्ठ, आवार्यां व्यापारं कुरु/ 016.018. स तत्रैवावस्थितः/ 016.018. ते ऽपि संसिद्धयानपात्रा आगताः/ 016.018. मार्गश्रमं प्रतिविनोद्य कथयन्ति--तात कल्यतामस्मदीयं पण्यमिति/ 016.019. तेन् कलितम्--एकैकस्य सुवर्णलक्षाः संवृत्ताः/ 016.020. पूर्णेनापि तत्रैव धर्मेण न्यायेन व्यवहारिताः सातिरेकाः सुवर्णलक्षाः समुदानीताअः/ 016.020. पूर्णो ऽपि पितुः पादयोर् निपत्य कथयति--तात, ममापि कल्यतामावारीसमुत्थितं द्रव्यमिति/ 016.021. स कथयति--पुत्र त्वमत्रैवावस्थितः/ 016.022. किं तव कल्यते? स कथयति--तात कल्यताम्/ 016.022. तथापि ज्ञातं भविष्यतीति/ 016.023. कलितम् यावन्न्यायोपार्जितस्य सुवर्णस्य मूल्यं वर्जयित्वा सातिरिक्ता लक्षाः संवृत्ताः/ 016.024. भवो गृहपतिः प्रीतिसौमनस्यजातः संलक्षयति--पुण्यमहेशाख्यो ऽयं सत्त्वो येनेहैव स्थितेनेयत्सुवर्णं समुपार्जितमिति/ 016.025. यावदपरेण समयेन भवो गृहपतिर्ग्लानः संवृत्तः/ 016.025. स संलक्षयति--ममात्ययादेते भेदं गमिष्यन्ति/ 016.026. उपायसंविधानं कर्तव्यमिति/ 016.026. तेन ते ऽभिहिताह्--पुत्रकाः, काष्ठानि समुदानयतेति/ 016.027. तैः काष्ठानि समुदानीतानि/ 016.027. स कथयति--अग्निं प्रज्वालयतेति/ 016.028. तैरग्निः प्रज्वालितः/ 016.028. भवो गृहपतिः कथयति--एकैकमलातमपनयतेति/ 016.029. तैरपनीतम्/ 016.029. सो ऽग्निर् निवार्णः/ 016.029. स

कथयति--पुत्रकाः, दृष्टो वह्? तात दृष्टः/ 016.029. स गाथां भाषते-- 016.030. ज्वलन्ति सहिताङ्गारा भ्रातरः सहितास्तथा/ 016.031. प्रविभक्ता निशाम्यन्ति यथाङ्गारस्तथा नराः//1//

017.001. <17>पुत्रकाः, न युष्माभिर्ममात्ययात् स्त्रीणां श्रोतव्यम्/ 017.002. कुटुम्बं भिद्यते स्त्रीभिर्वाग्भिर्भिद्यन्ति कातराः/ 017.003. दुर्न्यस्तो भिद्यते मन्त्रः प्रीतिर्भिद्यते लोभतः//2// इति//

017.004. ते निष्क्रान्ताः/ 017.004. भविलस्तत्रैवावस्थितः/ 017.004. स तेनोक्तह्--पुत्र, न कदाचित् त्वया पूर्णो मोक्तव्यः/ 017.005. पुण्यमहेशाख्यो ऽयं सत्त्वः/ 017.005. इत्युक्त्वा-- 017.006. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः/ 017.007. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्//3//

017.008. इति कालधर्मेण सम्युक्तः/ 017.008. तैर् नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता संस्कारेण श्मशानं नीत्वा ध्मापितः/ 017.009. ततस्ते शोकविनोदनं कृत्वा कथयन्ति--यदा अस्माकं पिता जीवति, तदा तदधीनाः प्राणाः/ 017.010. यदिदानीं निरस्तव्यापारास्तिष्ठामः, गृःपमवसादं गमिष्यति/ 017.011. न शोभनं भविष्यति/ 017.011. यन्नु वयं पण्यमादाय देशान्तरं गच्छाम इति/ 017.011. पूर्णः कथयति--यद्येवमहमपि गच्छामीति/ 017.012. ते कथयन्ति--त्वमत्रैवावार्यां व्यापारं कुरु, वयमेव गच्छाम इति/ 017.013. ते पण्यमादाय देशान्तरं गताः/ 017.013. पूर्णो न्यस्तसर्वकार्यस्तत्रैवावस्थितः//

017.014. धर्मता खलु ईश्वरगृहेषु दिवसपरिव्ययो दीयते/ 017.014. तास्तेषां पत्न्यो दारिकाः परिव्ययनिमित्तं प्रेषयन्ति/ 017.015. पूर्णो ऽपि धनिभिः श्रेष्ठिभिः सार्थवाहैरन्यैश्चाजीविभिः परिवृतो ऽवतिष्ठते/ 017.016. तास्त्ववकाशं न लभन्ते/ 017.016. यदा ते उपस्थाय प्रक्रान्ता भवन्ति, तदा तासां दिवसपरिव्ययं ददाति/ 017.016. ता दारिकाश्चिरचिरादागच्छन्तीत्युपालभ्यन्ते/ 017.017. ता एवमर्थं विस्तरेणारोचयन्ति/ 017.018. ताः कथयन्ति--एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्वचर्यं वशे वर्तयन्तीति/ 017.019. भविलपत्न्या दारिका अभिहिता--त्वया कालं ज्ञात्वा गन्तव्यमिति/ 017.019. सा कालं ज्ञात्वा गच्छति, शीघ्रं लभते/ 017.020. अन्याश्चिरयन्ति/ 017.020. ताभिः सा पृष्ठा--तया समाख्यातम्/ 017.020. ता अपि तया सार्धं गन्तुमारब्धाः/ 017.021. ता अपि शीघ्रं प्रतिलभन्ते/ 017.021. ताः स्वाभिनीभिरुक्ताह्--किमत्र कारणमिदानीं शीघ्रमागच्छथेति/ 017.022. ताः कथयन्ति--आरोग्यं ज्येष्ठभविकायाअ भवतु/ 017.022. यदा तस्या दारिका गता भवति, तदा लभ्यते/ 017.023. वयं तया सार्धं गच्छाम इति/ 017.023. ताः संजातामर्षाः कथयन्ति--एवं हि तेषां भवति येषां दासीपुत्राः कुलेस्वैश्चर्यं वशे वर्तयन्तीति/ 017.024. यावदपरेण समयेन भविलो भवत्रातो भवनन्दी च सहिताः समग्राः संमोदमाना महासमुद्रात् संसिद्धयानपात्रा आगताः/ 017.026. भविलेन पत्नी पृष्टा--भद्रे, शोभनं पूर्णेन प्रतिपालिता त्वमिति? सा कथयति--यथा भ्रात्रा पुत्रेण वेति/ 017.027. ते अन्ये ऽपि स्वामिभ्यां पृष्टे कथयतह्--एवं हि तेषां भवति, येषां

दासीपुत्राः कुलेष्वैश्चर्यं वशे वर्तयन्तीति/ 017.028. तौ संलक्षयतह्--सुहृद्भेदकाः स्त्रियो भवन्तीति/ 017.029. यावदपरेण समयेन काशिकवस्त्रावारी उद्घाटिता/ 017.029. तत्समनन्तरं भविलस्य पुत्रो गतः/ 017.030. स पूर्णेन काशिकवस्त्रयुगेनाच्छादितः/ 017.030. अन्याभ्यां दृष्ट्वा स्वपुत्राः प्रेषिता यावत् काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटिता/ 017.031. ते च दैवयोगात् संप्राप्ताः/ 017.031. ते पूर्णेन फुट्टकैर्वस्त्रैराच्छादिताः/ 017.032. ते दृष्ट्वा स्वामिनोः कथयतह्--दृष्टम् युवाभ्यामपरेषां काशिकवस्त्राणि<18> दीयन्ते, परेषां फुट्टकानीति/

018.001. ताभ्यामनुसंज्ञप्तिर्दत्ता/ 018.001. किमेतदेव भविष्यति? नूनं काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्घाटितेति/ 018.002. यावदपरेण समयेन शर्करावारी उद्घटिता/ 018.003. भविलस्य च पुत्रो गतः/ 018.003. तेन शर्कराखो{मो}दको लब्धः/ 018.003. तं दृष्ट्वा अन्याभ्यां स्वपुत्राः प्रेषिताः/ 018.004. ते दैवयोगाद् गुडावार्यामुद्घाटितायां गताः/ 018.004. तैर्गुडो लब्धः/ 018.004. ताभिस्तं दृष्ट्वा स्वामिनौ तथा तथा भग्नौ यथा गृहविभागं कर्तुमारब्धौ/ 018.005. तौ परस्परं संजल्पं कुरुतह्--सर्वथा विनष्टा वयम्, गृहं भाजयामेति/ 018.006. एकः कथयति--ज्येष्ठतरं शब्दयामः/ 018.006. एकः कथयति--विचारयामस्तावत् कथं भाजयामेति/ 018.007. तौ स्वबुद्ध्या विचारयतः/ 018.007. एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः/ 018.008. यदि ज्येष्ठतरो गृहगतं क्षेत्रगतं च ग्रहीष्यति, शक्नुमो वयमावारीगतेन देशान्तरगतेन चात्मानं संधारयितुम्/ 018.010. अथावारीगतं देशान्तरगतं च ग्रहीष्यति, तथापि वयं श्क्नुमो गृहगतेन क्षेत्रगतेन चात्मानं संधारयितुम्, पूर्णकस्य च मार्यादाबन्धं कर्तुमिति/ 018.011. तावेवं संजल्पं कृत्वा भविलस्य सकाशं गतौ/ 018.012. भ्रातः, विनष्टा वयं भाजयामो गृहमिति/ 018.012. स कथयति--सुपरीक्षितं कर्तव्यम्, गृहभेदिकाः स्त्रियो भवन्तीति/ 018.013. तौ कथयतह्--प्रत्यक्षीकृतमस्माभिः, भाजयामेति/ 018.014. स कथयति--यदेवम्, आहूयन्तां कुलानीति/ 018.014. तौ कथयतह्--पूर्वमेवास्माभिर्भाजितम्/ 018.015. एकस्य गृहगतं क्षेत्रगतं

च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः/ 018.016. स कथयति--पूर्णस्य प्रत्यंशं नानुप्रयच्छथ? तौ कथयतह्--दासीपुत्रः सः/ 018.016. कस्तस्य प्रत्यंशं दद्यात्? अपि तु स एवास्माभिर्भाजितः/ 018.017. यदि तवाभिप्रेतं तमेव गृहाणेति/ 018.017. स संलक्षयति--अहं पित्रा अभिहितह्--सर्वस्वमपि ते परित्यज्य पूर्णो ग्रहीतव्य इति/ 018.018. गृह्णामि पूर्णमिति विदित्वा कथयति--एवं भवतु मम पूर्णकेति/ 018.019. यस्य गृहगतं क्षेत्रगतं च, स त्वरमाणो गृहं गत्वा कथयति--ज्येष्ठभविके निर्गच्छ/ 018.020. सा निर्गता/ 018.020. मा भूयः प्रवेक्ष्यसि/ 018.021. कस्यार्थाय? अस्माभिर्भाजितं गृहम्/ 018.021. यस्यावारीगतं देशान्तरगतं च, सो ऽपि त्वरमाण आवारीं गत्वा कथयति--पूर्णक अवतरेति/ 018.022. सो ऽवतीर्णः/ 018.022. मा भूयो ऽभिरोक्ष्यसि/ 018.022. किं कारणम्? अस्माभिर्भाजितम्/ 018.023. यावत् भविलपत्नी पूर्णकेन सार्धं ज्ञातिगृहं संप्रस्थिता/ 018.024. दारका बुभिक्षिता रोदितुमारब्धाः/ 018.024. सा कथयति--पूर्ण, दारकाणां पूर्वभक्षिकामनुप्रयच्छेति/ 018.025. स कथयति--कार्षापणं प्रयच्छ/ 018.025. सा कथयति--त्वया इयतीभिः सुवर्णलक्षाभिर्व्यवहृतम्, दारकाणां पूर्वभिक्षिकापि नास्ति? पूर्णः कथयति--किमहं जाने युष्माकं गृहे ईदृशीयमवस्था भविष्यतीति/ 018.027. यदि मया ज्ञातमभविष्यत्, मया अनेकाः सुवर्णलक्षाः संहारिता अभविष्यन्/ 018.028. धर्मतैषा स्त्रिय आरकूटाकार्षापणान् वस्त्रान्ते बध्नन्ति/ 018.028. तयारकूटमाषको दत्तह्--पूर्वभक्षिकामानयेति/ 018.029. स तमादाय वीथीं संप्रस्थितः/ 018.029.

अन्यतमश्च पुरुषः समुद्रवेलाप्रेरितानां काष्ठानां भारमादाय शीतेनाभिद्रुतो वेपमान आगच्छति/ 018.030. स तेन दृष्टः पृष्टश्च--भोः पुरुष, कस्मादेवं वेपसे? स कथयति--अहमपि न जाने/ 018.031. मया चायं भारक उत्क्षिप्तो भवति, मम चेदृशी समवस्था/ 018.032. स दारुपरीक्षायां कृतावी/ 018.032. स तत् काष्ठं निरीक्षितुमारब्धः/ 018.032. पश्यति तत्र <19>गोशीर्षचन्दनम्/

019.001. स तेनाभिहितह्--भो पुरुष, कियता मूल्येन दीयते? पञ्चभिः कार्षापणशतैः/ 019.002. तेन तं काष्ठभारं गृहीत्वा तद्गोशीर्षचन्दनमपनीय वीथीं गत्वा करपत्रिकया चतस्रः खण्डिकाः कृताः/ 019.003. तच्चूर्णकस्यार्थं कार्षापणसहस्रेण विक्रीतं वर्तते/ 019.003. ततस्तस्य पुरुषस्य पञ्चकार्षापणशतानि दत्तानि/ 019.004. उक्तं च--एनं काष्ठभारकममुष्मिन् गृहे भविलपत्नी तिष्ठति तत्र नय, वक्तव्या पूर्णेन प्रेषितेति/ 019.005. तेनासौ नीतो यथावृत्तं चारोचितम्/ 019.005. सा उरसि प्रहारं दत्त्वा कथयति--यद्यसावर्थात्परिभ्रष्टः, किं प्रज्ञयापि परिभ्रष्टह्? पक्वमानयेति पाचनं प्रेषितम्/ 019.007. तदेव नास्ति यत् पक्तव्यमिति/ 019.007. पूर्णेन शेषकतिपयकार्षापणैर्दासदासीगोमहिषीवस्त्राणि जीवितोपकरणानि पक्वमादायागत्य दम्पत्योरुपनामितवान्/ 019.008. तेन कुटुम्बं संतोषितम्//

019.009. अत्रान्तरे सौर्पारकीयो राजा दाहज्वरेण विक्लवीभूतः/ 019.009. तस्य वैद्यैर्गोशीर्षचन्दनमुपा दिष्टम्/ 019.010. ततो ऽमात्या गोशीर्षचन्दनं समन्वेषयितुमारब्धाः/ 019.010. तैर्वीथ्यां पारम्पर्येण श्रुतम्/ 019.010. ते पूर्णस्य सकाशं गत्वा कथयन्ति--तवास्ति गोशीर्षचन्दनम्? स आह--अस्ति/ 019.011. ते ऊचुह्--कियता मूल्येन दीयते? स आह--कार्षापणसहस्रेण/ 019.012. तैः कार्षापणसहस्रेण गृहीत्वा राज्ञः प्रलेपो दत्तः, स्वस्थीभूतः/ 019.013. राजा संलक्षयति--कीदृशो ऽसौ यस्य गृहे गोशीर्षचन्दनं नास्ति/ 019.013. राजा पृच्छति--कुत एतत्? देव पूर्णात्/ 019.014. आहूयतां पूर्णकः/ 019.014. स दूतेन गत्वा उक्तह्--पूर्ण, देवस्त्वां शब्दापयतीति/ 019.015. स विचारयितुमारब्धह्--किमर्थं मां राजा शब्दापयति? स संलक्षयति--गोशीर्षचन्दनेनासौ राजा स्वस्थीभूतः/ 019.016. तदर्थं मां शब्दायति/ 019.016. सर्वथा गोशीर्षचन्दनमादाय गन्तव्यम्/ 019.017. स गोशीर्षचन्दनस्य तिस्रो गण्डिका वस्त्रेण पिधायैकं पाणिना गृहीत्वा राज्ञः सकाशं गतः/ 019.018. राज्ञा पृष्टह्--पूर्ण, अस्ति किंचिद् गोशीर्षचन्दनम्/ 019.018. स कथयति--देव इदमस्ति/ 019.019. किमस्य मूल्यम्? देव सुवर्णलक्षाः/ 019.019. अपरमस्ति? देव अस्ति/ 019.019. तेन तास्तिस्रो गण्डिका दर्शिताः/ 019.020. राज्ञामात्यानामाज्ञा दत्ता--पूर्णस्य चतस्रः सुवर्णलक्षाः प्रयच्छतेति/ 019.021. पूर्णः कथयति--देव, तिस्रो दीयन्ताम्/ 019.021. एकगण्डिका देवस्य प्राभृतमिति/ 019.021. ततस्तस्य तिस्रो दत्ताः/ 019.022. राजा कथयति--पूर्ण, परितुष्टो ऽहम्/ 019.022. वद किं ते वरमनुप्रयच्छामीति/ 019.022.

पूर्णः कथयति--यदि मे देवः परितुष्टो देवस्य विजते ऽपरिभूतो वसेयमिति/ 019.023. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, अद्याग्रेण कुमाराणामाज्ञा देया न त्वेवं पूर्णस्येति/ 019.024. यावन्महासमुद्रात् पञ्चमात्राणि वणिक्शतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानि/ 019.025. वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदस्माकं समस्तानां निर्गत्यैकाकिना वणिजां सकाशमुपसंक्रमितव्यम्/ 019.026. गण एव संभूय भाण्डं ग्रहीष्यतीति/ 019.027. अपरे कथयन्ति--पूर्णमपि शब्दापयामः/ 019.027. अन्ये कथयन्ति--किं तस्य कृपणस्यास्ति यः शब्दायत इति/ 019.028. तेन खलु समयेन पूर्णो बहिर्निर्गतः/ 019.028. तेन श्रुतं महासमुद्रात् पञ्च वणिक्छतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानीति/ 019.030. सो ऽप्रविश्यैव नगरं तेषां सकाशमुपसंक्रान्तः/ 019.030. पृच्छति--भवतः, किमिदं द्रव्यमिति? ते कथयन्ति--इदं चेदं चेति/ 019.031. किं मूल्यम्? ते कथयन्ति--सार्थवाह, दूरमपि परमपि गत्वा त्वमेव प्रष्टव्यः/ 019.032. यद्यप्येवं तथापि उच्यतां मूल्यम्/ 019.032. तैरष्टादश सुवर्णलक्षा मूल्यमुपदिष्टम्/ 019.032. स <20>कथयति--भवन्तस्तिस्रो लक्षा अवद्रंगं गृह्णीत, ममैतत्/

020.001. पण्यमवशिष्टं दास्यामि/ 020.001. तथा भवतु/ 020.002. तेन तिस्रो लक्षा आनाय्य दत्ताः/ 020.002. स्वमुद्रालक्षितं च कृत्वा प्रक्रान्तः/ 020.002. ततो वणिग्ग्रामेणावचरकाः पुरुषाः प्रेषिताह्--पश्यत किं द्रव्यमिति/ 020.003. तैर्गत्वा पृष्टाह्--किं द्रव्यम्? इदं चेदं च/ 020.004. अस्माकमपि पूर्णानि कोशकोष्ठागाराणि तिष्ठन्ति/ 020.004. पूर्णानि वा भवन्तु मा वा/ 020.004. अपि विक्रीतम्/ 020.005. कस्यान्तिके? पूर्णस्य/ 020.005. प्रभूतमासादयिष्यथ पूर्णस्यान्तिकाद् विक्रीय/ 020.005. ते कथयन्ति--यत्तेनावद्रङ्गे दत्तं तद् यूयं मूल्ये ऽपि न दास्यथ/ 020.006. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः/ 020.007. सुमुषितास्तेन भ्रातरः कृताः/ 020.007. तैरागत्य वणिग्ग्रामस्यारोचितम्/ 020.007. तत्पण्यं विक्रीतम्/ 020.008. कस्यान्तिके? पूर्णस्य/ 020.008. प्रभूतमासादयिष्यन्ति पूर्णस्यान्तिके विक्रीय/ 020.008. यातेनावद्रङ्गे दत्तं तद्यूयं मूल्ये ऽपि न दास्यथ/ 020.009. किं तेनावद्रङ्गे दत्तम्? तिस्रः सुवर्णलक्षाः/ 020.010. सुमुषितास्तेन ते भ्रातरः कृताः/ 020.010. स तैराहूयोक्तह्--पूर्ण वणिग्ग्रामेण क्रियाकारः कृतह्--न केनचिदेकाकिना ग्रहीतव्यम्/ 020.011. वणिग्ग्राम एव ग्रहीष्यतीत्येव/ 020.011. कस्मात्ते गृहीतम्? स कथयति--भवन्तः, यदा युष्माभिः क्रियाकारः कृतस्तदा किमहं न शब्दितो मम भ्राता वा? युष्माभिरेव क्रियाकारः कृतो यूयमेव पालयत/ 020.013. ततो वणिग्ग्रामेण संजातामर्षेण षष्टेः कार्षापणानामर्थायातपे धारितः/ 020.014. राज्ञः पौरुषेयैर्दृष्टः/ 020.014. तै राज्ञे आरोचितम्/ 020.014. राजा कथयति--भवन्तः, शब्दयतैतान्/ 020.015. तैः

शब्दिताः/ 020.015. कथयति राजा--भवन्तः, कस्यार्थे युष्माभिः पूर्ण आतपे विधारितह्? ते कथयन्ति--देव वणिग्ग्रामेण क्रियाकारः कृतो न केनचिदेकाकिना पण्यं ग्रहीतव्यमिति/ 020.017. तदनेनैकाकिना गृहीतम्/ 020.017. पूर्णः कथयति--देव, समनुयुज्यन्ताम् यदैभिः क्रियाकारः कृतस्तदा किमहमेभिः शब्दितो मम भ्राता वा? ते कथयन्ति--देव नेति/ 020.019. राजा कथयति--भवन्तः, शोभनं पूर्णः कथयति--स तैर्व्रीडितैर्मुक्तः/ 020.019. यावदपरेण समयेन राज्ञस्तेन द्रव्येण प्रयोजनमुत्पन्नम्/ 020.020. तेन वणिग्ग्राम आहूयोक्तह्--भवन्तः, ममामुकेन द्रव्येण प्रयोजनम्/ 020.021. अनुप्रयच्छतेति/ 020.021. ते कथयन्ति--देव पूणस्यास्ति/ 020.021. राजा कथयति--बह्वन्तः, नाहं तस्याज्ञां ददामि/ 020.022. यूयमेव तस्यान्तिकात् क्रीत्वानुप्रयच्छत/ 020.022. तैः पूर्णस्य दूतः प्रेषितह्--वणिग्ग्रामः शब्दयतीति/ 020.023. स कथयति--नाहमागच्छामि/ 020.023. ते वणिग्ग्रामाः सर्व एव संभूय तस्य निवेशनं गत्वा द्वारि स्थित्वा तैर्दूतः प्रेषितः/ 020.024. पूर्ण, निर्गच्छ वणिग्ग्रामो द्वारि तिष्ठतीति/ 020.025. स साहंकारः कामकारमदत्त्वा निर्गतः/ 020.025. वणिग्ग्रामः कथयति--सार्थवाह यथाक्रीतकं पण्यमनुप्रयच्छ/ 020.026. स कथयति--अतिवाणिजको ऽहम् यदि यथाकृतं पण्यमनुप्रयच्छामीति/ 020.026. ते कथयन्ति--सार्थवाह, द्विगुणमूल्येन दत्तम्/ 020.027. पञ्चदश लक्षाणि तेषां वणिज्यं दत्तमवशिष्टं स्वगृहं प्रवेशितम्/ 020.028. स संलक्षयति--किं शक्यमवश्यायबिन्दुना कुम्भं पूरयितुम्? महासमुद्रमवतरामीति/ 020.029. तेन सूर्पारके

नगरे घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सौर्पारकीया वणिजः/ 020.030. पूर्णः सार्थवाहो महासमुद्रमवतरति/ 020.030. यो युष्माकमुत्सहते पूर्णेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयत्विति/ 020.032. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्/ 020.032. ततः पूर्णः सार्थवाहः कृतकुतूहलमङ्गलस्वस्त्ययनह्<21> पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः/

021.001. मङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः/ 021.001. स संसिद्धयानपात्रश्च प्रत्यागतः/ 021.002. एवम् यावत् षट्कृत्वः/ 021.002. सामन्तकेन शब्दो विश्रुतः/ 021.002. पूर्णः षट्कृत्वो महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागत इति/ 021.003. श्रावस्तेया वणिजः पण्यमादाय सूर्पारकं नगरं गताः/ 021.004. ते मार्गश्रमं प्रतिविनोद्य येन पूर्णः सार्थवाहस्तेनोपसंक्रान्ताः/ 021.004. उअप्संक्रम्य कथयन्ति--सार्थवाह महासमुद्रमवतरामेति/ 021.005. स कथयति--भवन्तः, अस्ति कश्चिद्युष्माभिर्दृष्टः श्रुतो वा षट्कृत्वो महासमुद्रात्संसिद्धयानपात्रागतः सप्तमं वारमवतरन्? ते कथयन्ति--पूर्ण, वयं त्वामुद्दिश्य दूरादागताः/ 021.007. यदि नावतरसि, त्वमेव प्रमाणमिति/ 021.007. स संलक्षयति--किं चाप्यहं धनेनानर्थी तथाप्येषामर्थायावतरामीति/ 021.008. स तैः सार्धं महासमुद्रं संप्रस्थितः/ 021.009. ते रात्र्याः प्रत्यूषसमये उदानात् पारायणात् सत्यदृशः स्थविरगाथाः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं कुर्वन्ति/ 021.010. तेन ते श्रुताः/ 021.010. स कथयति--भवन्तः, शोभनानि गीतानि गायथ/ 021.011. ते कथयन्ति--सार्थवाह, नैतानि? किंतु खल्वेतद्बुद्धवचनम्/ 021.012. स बुद्ध इत्यश्रुतपूर्वं शब्दं श्रुत्वा सर्वरोमकूपानि आहृष्टानि/ 021.012. स आदरजातः पृच्छति--भवन्तः, को ऽयं बुद्धनामेति/ 021.013. ते कथयन्ति--अस्ति श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः/

021.015. सो ऽनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धः/ 021.015. स एष सार्थवाह बुद्धो नाम/ 021.016. कुत्र भवन्तः स भगवानेतर्हि विहरति? सार्थवाह, श्राव्स्त्यां जेतवने ऽनाथपिण्डदस्यारामे/ 021.017. स तं हृदि कृत्वा तैः सार्धं महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागतः/ 021.017. भ्रातास्य भविलः संलक्षयति--परिखिन्नो ऽयं महासमुद्रगमनेन, निवेशो ऽस्य कर्तव्य इति/ 021.018. स तेनोक्तह्--भ्रातः, कथय कतरस्य धनिनः सार्थवाहस्य वा तवार्थाय दुहितरं प्रार्थयामीति/ 021.019. स कथयति--नाहं कामैरर्थी/ 021.020. यद्यनुजानासि, प्रव्रजामीति/ 021.020. स कथयति--यदास्माकं गृहे वार्ता नास्ति, तदा न प्रव्रजितः/ 021.021. इदानीं कामार्थं प्रव्रजसि/ 021.021. पूर्णः कथयति--भ्रातः, तदानीं न शोभते, इदानीं तु युक्तम्/ 021.022. स तेनावश्यं निर्बन्धं ज्ञात्वानुज्ञातः/ 021.022. स कथयति--भ्रातः, महासमुद्रो बह्वादीनवो ऽल्पास्वादः/ 021.023. बहवो ऽवतरन्ति, अल्पा व्युत्तिष्ठन्ति/ 021.023. सर्वथा न त्वया महासमुद्रमवतर्तव्यम्/ 021.023. न्यायोपार्जितं ते प्रभूतं धनमस्ति, एषां तु तव भ्रातृर्णामन्यायोपर्जितम्/ 021.024. यद्येते कथयन्ति एकध्ये वसामेति, न वस्तव्यम्/ 021.025. इत्युक्त्वोपस्थायकमादाय श्रावस्तीं संप्रस्थितः/ 021.025. अनुपूर्वेण श्रावस्तीमनुप्राप्तः//

021.026. श्रावस्त्यामुद्याने स्थितेन अनाथपिण्डदस्य गृहपतेर्दूतो ऽनुप्रेषितः/ 021.026. तेन गत्वा अनाथपिण्डदस्य गृहप्तेरारोचितम्--गृहपते, पूर्णः सार्थवाह उद्याने तिष्ठति गृहपतिं द्रष्टुकाम इति/ 021.028. अनाथपिण्डदो गृहपतिः संलक्षयति--नूनं जलयानेन खिन्न इदानीं स्थलयानेनागतः/ 021.029. ततः पृच्छति--भोः पुरुष, कियत्प्रभूतं पण्यमानीतम्/ 021.029. स कथयति--कुतो ऽस्य पण्यम्? उपस्थायकद्वितीयः/ 021.030. स चाहं च/ 021.030. अनाथपिण्डदः संलक्षयति--न मम प्रतिरूपम् यदहं प्रधानपुरुषमसत्कारेण प्रवेशयेयमिति/ 021.031. स तेन महता सत्कारेण प्रवेशित उद्वर्तितः स्नापितो भोजितः/ 021.032. स्वैरालापेणावस्थितयोरनाथपिण्डदः पृच्छति--<22>सार्थवाह, किमागमनप्रयोजनम्? अपूर्वेण गृहपते इच्छामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति/

022.002. ततो ऽनाथपिण्डदो गृहपतिः पूर्वं कायमभ्युन्नमय्य दक्षिणं बाहुं प्रसार्योदानमुदानयति--अहो बुद्धः/ 022.003. अहो धर्मः/ 022.003. अहो संघस्य स्वाख्यातता/ 022.003. यत्रेदानीमीदृशाः प्रधानपुरुषा विस्तीर्णस्वजनबन्धुवर्गमपहाय स्फीतानि च कोशकोष्ठागाराणि आकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावमिति/ 022.005. ततो ऽनाथपिण्डदो गृःपतिः पूर्णं सार्थवाहमादाय येन भगवांस्तेनोपसंक्रान्तः/ 022.006. तेन खलु समयेन भगवाननेकशताया भिक्षुपरिषदः पुरस्तान्निषण्णो धर्मं देशयति/ 022.007. अद्राक्षीद् भगवाननाथपिण्डदं गृहपतिं सप्राभृतमागच्छन्तम्/ 022.008. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवो ऽनाथपिण्डदो गृहपतिः सप्राभृत आगच्छति/ 022.009. नास्ति तथागतस्यैवंविधः प्राभृतो यथा वैनेयप्राभृत इति/ 022.010. ततो ऽनाथपिण्डदो गृहपतिर्भगवतः पादाभिवन्दनं कृत्वा पूर्णेन सार्थवाहेन सार्धमेकान्ते निषण्णः/ 022.011. एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--अयं भदन्त पूर्णः सार्थवाह आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 022.012. तं भगवान् प्रव्राजयतु उपसम्पादयेदनुकम्पामुपादायेति/ 022.013. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन/ 022.014. ततो भगवान् पूर्णं सार्थवाहमामन्त्रयते--एहि भिक्षो चर ब्रह्मचर्यमिति/ 022.014. स भगवतो वाचावसाने मुण्डः संवृत्तः संघाटिप्रावृतः पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावास्थितः/ 022.017. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरीतदेहः/ 022.019. सद्यः प्रशान्तेन्द्रिय एव तस्थौ एवं स्थितो बुद्धमनोरथेन//4//

022.021. अथापरेण समयेनायुष्मान् पूर्णो येन भगवांस्तेनोपसंक्रान्तः/ 022.021. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्/ 022.022. एकान्ते स्थित आयुष्मान् पूर्णो भगवन्तमिदमवोचत्--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतो ऽन्तिकात् संक्षिप्तेन धर्मं श्रुत्वैको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरेयम्/ 022.024. यदर्थं कुलपुत्राः केशश्मश्रूणि अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति, तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्टधर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य प्रव्रजयेयम्--क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति/ 022.027. एवमुक्ते भगवानायुष्मन्तं पूर्णमिदमवोचत्--साधु पूर्ण, साधु खलु त्वं पूर्ण यस्त्वमेवं वदसि--साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु पूर्ववद्यावन्नापरमस्माद् भवं प्रजानामीति/ 022.029. तेन हि पूर्ण शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये//

022.031. सन्ति पूर्ण चक्षुर्विज्ञेयानि रूपाणीष्टकानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि/ 022.032. तानि चेद्भिक्षुर्दृष्ट्वाभिनन्दति अभिवदाति अध्यवस्यति अध्यवसाय <23>तिष्ठति, तानि अभिनन्दतो ऽभिवदतो ऽध्यवसतो ऽध्यवसाय तिष्ठत आनन्दी भवति/

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.