Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
023.001. आनन्द्यानन्दीसौमनस्यं भवति/ 023.002. नन्दीसौमनस्ये सति सरागो भवति/ 023.002. नन्दीसरागे सति नन्दीसरागसम्योजनं भवति/ 023.003. नन्दीसरागसम्योजनसम्युक्तः पूर्ण भिक्षुराअरन्निर्वाणस्योच्यते/ 023.003. सन्ति पूर्ण श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्मा इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः/ 023.006. तांश्च भिक्षुर्दृष्ट्वा पूर्ववद् यावदारान्निर्वाणस्येति उच्यते/ 023.006. सन्ति तु पूर्ण चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि पूर्ववद् यवत् शुक्लपक्षेणान्तिके निर्वाणस्येति उच्यते/ 023.008. अनेन त्वं पूर्ण मया संक्षिप्तेनाववादेन चोदितः/ 023.008. कुत्रेच्छसि वस्तुं कुत्रेच्छसि वासं कल्पयितुम्? अनेनाहं भदन्त भगवता संक्षिप्तेनाववादेन चोदित इच्छामि श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु जनपदेषु वासं कल्पयितुम्/ 023.010. चण्डाः पूर्ण श्रोणापरान्तिका मनुष्या रभसाः कर्कशा आक्रोशका रोषकाः परिभाषकाः/ 023.011. सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्या संमुखं पापिकया असत्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः संमुखं पापिकया असात्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्निग्धका बत श्रोणापरान्तका मनुष्याः, ये मां संमुखं पापिकया असत्यया परुषया वाचा आक्रोशन्ति रोषयन्ति परिभाषन्ते/ 023.017. नो तु पाणिना वा लोष्टेन वा प्रहरन्तीति/ 023.017.
चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववत् यावत् परिभाषकाः/ 023.018. सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां पाणिना वा लोष्टेन वा प्रहरन्ति, नो तु दण्डेन वा शस्त्रेण वा प्रहरन्तीति/ 023.022. चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववद् यावत् परिभाषकाः/ 023.023. सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति--भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां दण्डेन वा शस्त्रेण वा प्रहरन्ति, नो तु सर्वेण सर्वं जीविताद् व्यपरोपयन्ति/ 023.027. चण्डाः पूर्ण श्रोणापरान्तका मनुष्या यावत् परिभाषकाः/ 023.027. सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद् व्यपरोपयिष्यन्ति, तस्य ते कथं भविष्यति? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद् व्यपरोयिष्यन्ति, तस्य मे एवं भविष्यति--सन्ति भगवतः श्रावका ये अनेन पूतिकायेनार्दीयमाना जेह्रीयन्ते, विजुगुप्समानाः शस्त्रमपि आधारयन्ति, विषमपि भिक्षयन्ति, रज्ज्वा बद्धा अपि म्रियन्ते, प्रपातादपि प्रपतन्त्यपि/ 023.032. भद्रका बत श्रोणापरान्तका मनुष्यकाः, स्नेहका <24>बत श्रोणापरान्तका मनुष्याः, ये मामस्मात्
पूतिकलेवरादल्पकृच्छ्रेण परिमोचयन्तीति/
024.002. साधु साधु पूर्ण, शक्यस्त्वं पूर्ण अनेन क्षान्तिसौरभ्येन समन्वागतः श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु वासं कल्पयितुम्/ 024.003. गच्छ त्वं पूर्ण, मुक्तो मोचय, तीर्णस्तारय, आश्वस्त आश्वसय, परिनिर्वृतः परिनिर्वापयेति//
024.005. अथायुष्मान् पूर्णो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः/ 024.006. अथायुष्मान् पूर्णस्तस्या एव रात्रेरत्ययात् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्/ 024.007. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः/ 024.008. यथापरिभुक्तशयनासनं प्रतिसमय्य समादाय पात्रचीवरम् येन श्रोणापरान्तका जनपदास्तेन चारिकां चरञ् श्रोणापरान्तकाञ् जनपदाननुप्राप्तः/ 024.010. अथायुष्मान् पूर्णः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रोणापरान्तकं पिण्डाय प्राविक्षत्/ 024.011. अन्यतमश्च लुब्धको धनुष्पाणिर्मृगयां निर्गच्छति/ 024.011. तेन दृष्टः/ 024.011. स संलक्षयति--अमङ्गलो ऽयं मुण्डकः श्रमणको मया दृष्ट इति विदित्वा आ कर्णाद् धनुः पूरयित्वा येनायुष्मान् पूर्णस्तेन प्रधावितः/ 024.013. स आयुष्मता पूर्णेन दृष्टः/ 024.013. दृष्ट्वा चेत्तरासङ्गं विवर्त्य कथयति--भद्रमुख, अस्य दुष्पूरस्यार्थे प्रविशामि, अत्र प्रहरेति/ 024.014. गाथां च भाषते-- 024.015. यस्यार्थे गहने चरन्ति विहगा गच्छन्ति बन्धं मृगाः संग्रामे शरशक्ततोमरधरा नश्यन्त्यजस्रं नराः/ 024.017. दीना दुर्दिनचारिणश्च कृपणा मत्स्या ग्रसन्त्यायसम् अस्यार्थे उदरस्य पापकलिले दूरादिहाभ्यागतः//5// इति//
024.019. स संलक्षयति--अयं प्रव्रजित ईदृशेन क्षान्तिसौरभ्येन समन्वागतः/ 024.019. किमस्य प्रहरामीति मत्वा अभिप्रसन्नः/ 024.020. ततो ऽस्यायुष्मता पूर्णेन धर्मो देश्यितः, शरणगमनशिक्षापदेशेषु च प्रतिष्ठापितः/ 024.021. अन्यानि च पञ्चोपासकशतानि कृतानि पञ्चोपासिकाशतानि/ 024.021. पञ्चविहारशतानि कारितानि, अनेकानि च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि अनुप्रदापितानि/ 024.023. तस्यैव च त्रिमासस्यात्ययात् तिस्रो विद्याः कायेन साक्षात्कृताः/ 024.023. अर्हन् संवृत्तः/ 024.024. त्रैधातुकवीतरागो यावत् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः//
024.025. यावदपरेण समयेन दारुकर्णिभ्रात्रोर्भोगास्तनुत्वं परिक्षयं पर्यादानं गताः/ 024.025. तौ कथयतह्--गतो ऽसौ अस्माकं गृहात् कालकर्णिप्रख्यः/ 024.026. आगच्छ, एकध्ये प्रतिवसामः/ 024.026. स कथयति--कतरो ऽसौ कालकर्णिप्रख्यह्? तौ कथयतह्--पूर्णकश्रीः/ 024.027. सा मम गृहान्निष्क्रान्ता/ 024.028. नासौ कालकर्णिप्रख्यः/ 024.028. तौ कथयतह्--श्रीर्वा भवतु कालकर्णी वा, आगच्छ एकध्ये प्रतिवसामः/ 024.029. स कथयति--युवयोरन्यायोपार्जितं धनम्, मम न्यायोपार्जितम्/ 024.029. नाहम् युवाभ्यां सार्धमेकध्ये वासं कल्पयामीति/ 024.030. तौ कथयतह्--तेन दासीपुत्रेण महासमुद्रमवतीर्यावतीर्य भोगाः समुदानीता येन त्वं भुञ्जानो विकत्थसे/ 024.031. कुतस्तव सामर्थ्यं महासमुद्रमवतर्तुमिति/ 024.031. स ताभ्यां मानं ग्राहितः/ 024.032. स संलक्षयति--अहमपि महासमुद्रमवतरामि/ 024.032. पूर्ववत् यावन्महासमुद्रमवतीर्णह्<25>/
025.001. यावत्तद्वहनं वायुना गोशीर्षचन्दनवनमनुप्रेरितम्/ 025.001. कर्णधारः कथयति--भवन्तः, यत्तत् श्रूयते गोशीर्षचन्दनवनमिति, इदं तत्/ 025.002. गृह्णन्तु अत्र यत्सारमिति/ 025.002. तेन खलु समयेन गोशीर्षचन्दनवनं महेश्वरस्य यक्षस्य परिग्रहो ऽभूत्/ 025.003. स च यक्षाणाम् यक्षसमितिं गतः/ 025.003. ततो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वोढुमारब्धानि/ 025.004. अद्राक्षीदप्रियाख्यो यो यक्षो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहतः/ 025.005. दृष्ट्वा च येन महेश्वरो यक्षः, तेनोपसंक्रान्तः/ 025.006. उपसंक्रम्य महेश्वरम् यक्षमिदमवोचत्--यत् खलु ग्रामणीर्जानीया गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहन्ति/ 025.007. यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति/ 025.007. अथ महेश्वरो यक्षो यक्षाणां समितिमसमितिं कृत्वा संजातामर्षो महान्तं कालिकावातभयं संजन्य येन गोशीर्षचन्दनवनं तेन संप्रस्थितः/ 025.009. कर्णधारेणारोचितम्--शृण्वन्तु भवन्तो जाम्बुद्वीपका वणिजह्--यत्तत् श्रूयते महाकालिकावातभयमिति, इदं तत्/ 025.010. किं मन्यध्वमिति? ततस्ते वणिजो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपा देवतायाचनं कर्तुमारब्धाः/ 025.012. शिववरुणकुबेरशक्रब्रह्माद्या सुरमनुजोरगयक्षदानवेन्द्राः/ 025.014. व्यसनमतिभयं वयं प्रपन्ना विगतभया हि भवन्तु नो ऽद्य नाथाः//6//
025.016. केचिन्नमस्यन्ति शचीपतिं नरा ब्रह्माणमन्ये हरिशंकरावपि/ 025.018. भूम्याश्रितान् वृक्षवनाश्रितांश्च त्राणार्थिनो वातपिशाचदस्थाह्(यक्षाह्?)//7//
025.020. दारुकर्णी अल्पोत्सुकस्तिष्ठति/ 025.020. वणिजः कथयन्ति--सार्थवाह, वयं कृच्छ्रसंकटसम्बाधप्राप्ताः/ 025.021. किमर्थमल्पोत्सुकस्तिष्ठसीति? स कथयति--भवन्तः, अहं भ्रात्रा अभिहितह्--महासमुद्रो ऽल्पास्वादो बह्वादीनवः/ 025.022. तृष्णान्धा बहवो ऽवतरन्ति, स्वल्पा व्युत्थास्यन्ति/ 025.022. न त्वया केनचित् प्रकारेण महासमुद्रमवतर्तव्यमिति/ 025.023. सो ऽहं तस्य वचनमवचनं कृत्वा महासमुद्रमवतीर्णः/ 025.024. किमिदानीं करोमि? कस्तव भ्राअता? पूर्णः/ 025.024. वणिजः कथयन्ति--भवन्तः, स एवार्यपूर्णः पुण्यमहेशाख्यः/ 025.025. तमेव शरणं प्रपद्याम इति/ 025.025. तैरेकस्वरेण सर्वैरेवं नादो मुक्तह्--नमस्तस्मै आर्याय पूर्णाय, नमो नमस्तस्मै आर्याय पूर्णायेति/ 025.026. अथ या देवता आयुष्मती पूर्णे ऽभिप्रसन्ना, सा येनायुष्मान् पूर्णस्तेनोपसंक्रान्ता/ 025.027. उपसंक्रम्य आयुष्मन्तं पूर्णमिदमवोचत्--आर्य, भ्राता ते कृच्छ्रसंकटसम्बाधप्राप्तः, समन्वाहरेति/ 025.028. तेन समन्वाहृतम्/ 025.029. तत आयुष्मान् पूर्णस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते श्रोणापरान्तके ऽन्तर्हितो महासमुद्रे वहनसीमायां पर्यङ्कं बद्ध्वा अवस्थितः/ 025.030. ततो ऽसौ कालिकावातः सुमेरुप्रत्याहत इव प्रतिनिवृत्तः/ 025.031. अथ महेश्वरो यक्षः संलक्षयति--पूर्वम् यत् किंचिद्वहनं कालिकावातेन स्पृश्यते, तत्तूलपिचुवत क्षिप्यते विशीर्यते च/ 025.032. इदानीं को योगो येन कालिकावातह् <26>सुमेरुप्रत्याहत इव प्रतिनिवृत्तह्? स इतश्चामुतश्च प्रत्यवेक्षितुमारब्धो यावत् पश्यति आयुष्मन्तं पूर्णं वहनसीमायां पर्यङ्कं बद्ध्वावस्थितम्/
026.002. दृष्ट्वा च पुनः कथयति--आर्य पूर्ण, किं विहेठयसीति? आयुष्मान् पूर्णः कथयति--जराधर्मो ऽहम्/ 026.003. किं मामेव विहेठयसि? यदि मयेदृशा गुणगणा नाधिगताः स्युर्भ्राता मे त्वया नामावशेषः कृतः स्यात्/ 026.004. महेश्वरो यक्षः कथयति--आर्य इदं गोशीर्षचन्दनवनं राज्ञश्चकरवर्तिनो ऽर्थाय धार्यते/ 026.005. किं मन्यसे ग्रामणीः किं वरं राजा चक्रवर्ती उत तथगतो ऽर्हन् सम्यक्सम्बुद्ध? किम् आर्य भगवांल् लोक उत्पन्नह्? उत्पन्नः/ 026.007. यदि एवम् यदपरिपूर्णं तत्परिपूर्यताम्/ 026.007. ततस्ते वणिजो गतप्रत्यागतप्राणा आयुष्मति पूर्णे चित्तमभिप्रसाद्य तद्वहनं गोशीर्षचन्दनस्य पूरयित्वा संप्रस्थिताः/ 026.008. अनुपूर्वेण सूर्पारकं नगरमनुप्राप्ताः//
026.010. तत आयुष्मान् पूर्णो भ्रातुः कथयति--यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तत्तस्य गम्यं भवति/ 026.011. त्वमेषां वणिजां रत्नसविभागं कुरु/ 026.011. अहमनेन गोशीर्षचन्दनेन भगवतो ऽर्थाय चन्दनमालं प्रासादं कारयामीति/ 026.012. तेन तेषां वणिजां रत्नैः संविभागः कृतः/ 026.013. तत आयुष्मान् पूर्णो गोशीर्षचन्दनेन प्रासादं मापयितुमारब्धः/ 026.013. तेन शिल्पानाहूयोक्ताह्--भवन्तः, किं दिवसे दिवसे पञ्च कार्षापणशतानि गृह्णीध्वमाहोस्वित् गोशीर्षचन्दनचूर्णस्य बिडालपदम्? ते कथयन्ति--आर्य गोशीर्षचन्दनचूर्णस्य बिडालपदम्/ 026.015. यावत् अल्पीयसा कालेन चन्दनमालः प्रासादः कृतः/ 026.016. राजा कथयति--बह्वन्तः, शोभनं प्रासादम्/ 026.016. सर्वजातकृतनिष्ठतः संवृत्तः/ 026.017. यत्तत्र संकलिका चूर्णं चावशिष्टम्, तत् पिष्ट्वा तत्रैव प्रलेपो दत्तः/ 026.018. ते च भ्रातर परस्परं सर्वे क्षमिता उक्ताश्च--बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयत/ 026.018. आर्य, कुत्र भगवान्? श्रावस्त्याम्/ 026.019. कियद्दूरमितः श्रावस्ती? सातिरेकम् योजनशतम्/ 026.019. राजानं तावदवलोकयामः/ 026.020. एवं कुरुत/ 026.020. ते राज्ञः सकाशमुपसंक्रान्ताः/ 026.020. उपसंक्रम्य शिरसा प्रणामं कृत्वा कथयन्ति--देव, इच्छामो वयं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयितुम्/ 026.021. देवो ऽस्माकं साहाय्यं कल्पयतु/ 026.022. राजा कथयति--ततः शोभनम्/ 026.022. तथा भवतु/ 026.022. कल्पयामि/ 026.022. तत आयुष्मान् पूर्णः शरणपृष्ठमभिरुह्य जेतवनाभिमुखं स्थित्वा उभे जानुमण्डले पृथिव्यां
प्रतिष्ठाप्य पुष्पाणि क्षिप्त्वा धूपं संचार्य आरामिकेन च सौवर्णभृङ्गारं ग्राहयित्वा आराधितुं प्रवृत्तः/ 026.025. विशुद्धशीलं सुविशुद्धबुद्धे भक्ताभिसारे सततार्थदर्शिन्/ 026.027. अनाथभूतान् प्रसमीक्ष्य साधो कृत्वा कृपामागमनं कुरुष्व//8// इति/ 026.029. ततस्तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि पुष्पमण्डपं कृत्वा जेतवने गत्वा स्थितानि दूउपो ऽभ्रकूटवदुदकं वैदूर्यशलाकावत्/ 026.030. आयुष्मानानन्दो निमित्तकुशलः/ 026.031. स कृतकरपुटो भगवन्तं पप्रच्छ--कुतो भगवन् निमन्त्रणमागतम्? सूर्पारकात् आनन्द नगरात्/ 026.032. कियद्दूरे भदन्त सूर्पारकं नगरम्? सातिरेकम् आनन्द <27>योजनशतम्/
027.001. गच्छामह्? आनन्द, भिक्षूनारोचय--यो युष्माकमुत्सहते श्वः सूर्पारकं नगरं गत्वा भोक्तुम्, स शलाकां गृह्णातु इति/ 027.002. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य शलाकां गृहीत्वा भगवतः पुरस्तात् स्थितः/ 027.003. भगवता शलाका गृहीता, स्थविरस्थविरैश्च भिक्षुभिः//
027.004. तेन खलु समयेनायुष्मान् पूर्णः कुण्डोपधानीयकः स्थविरः प्रज्ञाविमुक्तस् तस्यामेव परिषदि संनिषण्णो ऽभूत्/ 027.005. संनिपतितः/ 027.005. सो ऽपि शलाकां गृहीतुमारब्धः/ 027.005. तमायुष्मानानन्दो गाथया प्रत्यभाषत-- 027.007. नैतद्भोक्तव्यमायुष्मन् कोशलाधिपतेर्गृहे/ 027.008. अगारे वा सुजातस्य मृगारभवने ऽथवा//9//
027.009. साधिकम् योजनशतं सूर्पारकमितः पुरम्/ 027.010. ऋद्धिभिर्यत्र गन्तव्यं तूष्णी त्वं भव पूर्णक//10// इति//
027.011. स प्रज्ञाविमुक्तः/ 027.011. तेन ऋद्धिर् नोत्पादिता/ 027.011. तस्यैतदभवत्--येन मया सकलं क्लेशगणं वान्तं छर्दितं त्यक्तं प्रतिनिःसृष्टम्, सो ऽहं तीर्थिकसाधारणायाम् ऋद्ध्यां विषण्णः/ 027.012. तेन वीर्यमास्थाय ऋद्धिमुत्पाद्य यावदायुष्मानानन्दस् तृतीयस्थविरस्य शलाकां न ददाति, तावत् तेन गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता/ 027.014. ततो गाथां भाषते-- 027.015. वपुष्मत्तया श्रुतेन वा न बलात्कारगुणैश्च गौतम/ 027.016. प्रबलैरपि वान्मनोरथैः षडभिज्ञत्वमिहाधिगम्यते//11//
027.017. शमशीलविपश्यनाबलैर्विविधैर्ध्यानबलैः परीक्षिताः/ 027.018. जरया हि निपीडितयौवनाः षडभिज्ञा हि भवन्ति मद्विधाः//12// इति//
027.019. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां चैत्यशलाकाग्रहणे/ 027.020. तत्प्रथमतः शलाकां गृह्णताम् यदुत पूर्णः कुण्डोपधानीयकः स्थविरः/ 027.020. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द भिक्षूणामारोचय/ 027.021. किं चापि उक्तं मया--प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं विवृतपापैरिति, अपि तु तीर्थिकावस्तब्धं तन्नगरम्/ 027.023. यो वो यस्या ऋद्धेर्लाभी, तेन तया तत्र सूर्पारकं नगरं गत्वा भोक्तव्यमिति/ 027.023. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--आयुष्मन्तः, भगवानेवमाह--किं चापि उक्तं मया प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यमिति पूर्ववत् यावत् गत्वा भोक्तव्यमिति/ 027.026. ततः सूर्पारकराज्ञा सूर्पारकनगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं नानाविधसुरभिधूपघटिकासमलंकृतमामुक्तपट्टदामकलापं नानापुष्पाभिकीर्णं रमणीयम्/ 027.028. सूर्पारकस्य नगरस्याष्टादश द्वाराणि/ 027.028. तस्यापि राज्ञः सप्तदश पुत्राः/ 027.029. प्रत्येकमेकैकस्मिन् द्वारे परमया विभूत्या राजपुत्रा व्यवस्थिताः/ 027.029. मूलद्वारे च महता राजानुभावेन सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी च व्यवस्थितः/ 027.031. यावत् पत्रचारिका ऋद्ध्या हरितचारिका भाजनचारिकाश्चागताः/ 027.031. तान् दृष्ट्वा राजा कथयति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज <28>पत्रचारिका हरितचारिका भाजनचारिकाश्चैते, न तावत् भगवान्/
028.001. यावत् स्थविरस्थविरा भिक्षवो ऽनेकविधाभिर्ध्यानसमापत्तिभिः संप्राप्तः/ 028.002. पुनरपि पृच्छति--भदन्त पूर्ण, किं भगवानागतह्? आयुष्मान् पूर्णः कथयति--महाराज न भगवान्, अपि तु खलु स्थविरस्थविरा एव ते भिक्षव इति/ 028.004. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-- 028.005. सिंहव्याघ्रगजाश्वनागवृषभानाश्रित्य केचित् शुभान् केचिद्रत्नविमानपर्वततरूंश्चित्रान् रथांश्चोज्ज्वलान्/ 028.007. अन्ये तोयधरा इवाम्बरतले विद्युल्लतालंकृता ऋद्ध्या देवपुरीमिव प्रमुदिता गन्तुं समभ्युद्यताः//13//
028.009. गां भित्त्वा ह्युत्पतन्त्येके पतन्त्यन्त्ये नभस्तलात्/ 028.010. आसने निर्मिताश्चैके पश्य ऋद्धिमतां बलम्//14// इति//
028.011. ततो भगवान् बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य प्रज्ञप्त एवासने निषण्णः/ 028.012. यावद् भगवता गन्धकुट्यां साभिसंस्कारं पादो न्यस्तः, षड्विकारः पृथिवीकम्पो जातह्--इयं महापृथिवी चलति संचलति संप्रचलति/ 028.014. व्यधति प्रव्यधति संप्रव्यधति/ 028.014. पूर्वदिग्भाग उन्नमति, पश्चिमो ऽवनमति/ 028.015. पश्चिम उन्नमति, पूर्वो ऽवनमति/ 028.015. दक्षिण उन्नमति, उत्तरो ऽवनमति/ 028.015. उत्तर उन्नमति, दक्षिणो ऽवनमति/ 028.016. अन्त उन्नमति, मध्यो ऽवनमति/ 028.016. मध्य उन्नमति, अन्तो ऽवनमति/ 028.016. राजा आयुष्मन्तं पूर्णं पृच्छति--आर्य पूर्ण, किमेतत्? स कथयति--महाराज, भगवता गन्धकुट्यां साभिसंस्कारः पादो न्यस्तः, तेन षट्विकारः पृथिवीकम्पो जातः/ 028.018. ततो भगवता कनकमरीचिवर्णप्रभा उत्सृष्टा यया जम्बुद्वीपो विलीनकनकावभासः संवृत्तः/ 028.019. पुनरपि राजा विस्मयोत्फुल्ललोचनः पृच्छति--आर्य पूर्ण, इदं किम्? स कथयति--महाराज भगवता कनकमरीचिवर्णप्रभा उत्सृष्टेति//
028.021. ततो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः पञ्चभिरर्हच्छान्तैः सार्धं सूर्पारकाभिमुखः संप्रस्थितः/ 028.022. अथ वा जेतवननिवासिनी देवता, सा बकुलशाखां गृहीत्वा भगवतश्छायां कुर्वन्ती पृष्टतः संप्रस्थिता/ 028.023. तस्या भगवता आशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधकी धर्मदेशना कृता, यां श्रुत्वा तया देवतया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्/
028.025. यावदन्यतमस्मिन् प्रदेशे पञ्चमात्राणि घरिणीशतानि प्रतिवसन्ति/ 028.026. अद्राक्षुस्ता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्/ 028.028. सहदर्शनाच्च तासां भगवति महाप्रसाद उत्पन्नः/ 028.029. धर्मतैषा--न तथा द्वादशवर्षाभ्यस्तः शमथश्चित्तस्य कल्यतां जनयति अपुत्रस्य च पुत्रलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलहेतुकस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्/ 028.031. ततो भगवांस्तासां विनयकालमवेक्ष्य पुरस्ताद् भिक्षुसंघस्य <29>प्रज्ञप्त एवासने निषण्णः/
029.001. ता अपि भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः/ 029.001. ततो भगवता तासामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा यावत् स्रोताअपत्तिफलं साक्षात्कृतम्/ 029.003. ता दृष्टसत्यास् त्रिरुदानमुदानयन्ति--इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा नेष्टस्वजनबन्धुवर्गेण न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर्यद् भगवतास्माकं तत्कृतम्/ 029.005. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, प्रतिष्ठापिता वयं देवमनुष्येषु अतिक्रान्तातिक्रान्ताः/ 029.006. एता वयं भगवतं शरणं गच्छामो धर्मं च भिक्षुसंघं च/ 029.007. उपासिकाश्चास्मान् भगवान् धारयतु/ 029.007. तत उत्थायासनात् येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अहो बत भगवानस्माकं किंचिदत्र प्रयच्छेत् यत्र वयं कारां करिष्यामः/ 029.009. ततो भगवता ऋद्ध्या केशनखमुत्सृष्टम्/ 029.009. ताभिर्भगवतः केशनखस्तूपः प्रतिष्ठापितः/ 029.010. ततस्तया जेतवननिवासिन्या तस्मिन् स्तूपे यष्ट्यां सा बकुलशाखारोपिता/ 029.010. भगवांश्चोक्तह्--भगवन्, अहमस्मिन् स्तूपे कारां कुर्वन्ती तिष्ठामीति/ 029.011. सा तत्रैव आस्थिता/ 029.012. तत्र केचित् घरिणीस्तूप इति संजानते, केचित् बकुलमेधीति, यमद्यापि चैत्यवन्दका भिकवो वन्दन्ते/ 029.013. ततो भगवान् संप्रस्थितः//
029.014. यावदन्यस्मिन्नाश्रमपदे पञ्च ऋषिशतानि प्रतिवसन्ति/ 029.014. तत्तेषामाश्रमपदं पुष्पफलसलिलसम्पन्नम्/ 029.015. ते तेन मदेन मत्ता न किंचिन्मन्यन्ते/ 029.015. ततो भगवांस्तेषां विनयकालमवेक्ष्य तदाश्रमपदमुपसंक्रान्तः/ 029.016. उपसंक्रम्य तस्मादाश्रमपदात् पुष्पफलमृद्ध्या शामितम्, सलिलं शोषितम्, हरितशाड्वलं कृष्णं स्थण्डिलानि पातितानि/ 029.017. ततस्ते ऋषयः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः/ 029.018. ततो भगवता अभिहिताह्--महर्षयः, किमर्थं चिन्तापरास्तिष्ठतेति/ 029.018. ते कथयन्ति--भगवंस्त्वं द्विपादकं पुण्यक्षेत्रमिह प्रविष्टो ऽस्माकं चेदृशी समवस्था/ 029.019. भगवानाह--किम्? ते कथयन्ति--भगवन्, पुष्पफलसलिलसम्पन्नमाश्रमपदं विनष्टम् यथापौराणं भवतु/ 029.021. भवतु इत्याह भगवान्/ 029.021. ततो भगवता ऋद्धिः प्रस्रब्धा, यथापौराणं संवृत्तम्/ 029.021. ततस्ते परं विस्मयमुपगता भगवति चित्तमभिप्रसादयामासुः/ 029.022. ततो भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैः पञ्चभिरृषिशतैरनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता/ 029.024. ततो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 029.026. चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्/ 029.026. ततस्ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षवश्चरत ब्रह्मचर्यमिति/ 029.027. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटिप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेन अवस्थिताः/ 029.029. एहीति चोक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः/ 029.031. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन//15//
030.001. <30>तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैरिदमेव पञ्चगण्डकं पूर्ववत् यावदभिवाद्याश्च संवृत्ताः/ 030.002. यस्तेषाम् ऋषिरववादकः स कथयति--भगवन्, मया अनेन वेषेण महाजनकायो विप्रलब्धः/ 030.002. तम् यावदभिप्रसादयामि पश्चात् प्रव्रजिष्यामीति/ 030.003. ततो भगवान् पञ्चभिरृषिशतैः पूर्वकैश्च पञ्चभिर्भिक्षुःशतैरर्धचन्द्राकारोपगूढस्तत् एव ऋद्ध्या उपरि विहायसा प्रक्रान्तो ऽनुपूर्वेण मुसलकं पर्वतमनुप्राप्तः/ 030.005. तेन खलु समयेन मुसलके पर्वते वक्कली नाम ऋषिः प्रतिवसति/ 030.006. अद्राक्षीत् स ऋषिर्भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववत् यावत् समन्ततो भद्रकम्/ 030.007. सहदर्शनाच्चानेन भगवतो ऽन्तिके चित्तमभिप्रसादितम्/ 030.007. स प्रसादजातश्चिन्तयति--यन्न्वहं पर्वतादवतीर्य भगवन्तं दर्शनायोपसंक्रमिष्यामि/ 030.008. भगवान् वैनेयापेक्षया अतिक्रमिष्यति/ 030.009. यन्न्वहमात्मानं पर्वतान्मुञ्चेयमिति/ 030.009. तेन पर्वतादात्मा मुक्तः/ 030.009. असंमोषधर्माणो बुद्धा भगवन्तः/ 030.010. भगवता ऋद्ध्या प्रतीष्टः/ 030.010. ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा वक्कलिना अनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता/ 030.012. ततो भगवन्तमिदमवोचत्--लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावं पूर्ववत् यावत् भगवता एहिभिक्षुकया प्रव्राजितो यावदेवं स्थितो बुद्धमनोरथेन//
030.014. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रद्धाधिमुक्तानाम् यदुत वक्कली भिक्षुरिति/ 030.015. ततो भगवान् भिक्षुसहस्रपरिवृतो विचित्राणि प्रातिहार्याणि कुर्वन् सूर्पारकं नगरमनुप्राप्तः/ 030.016. भग्वान् संलक्षयति--यदि एकेन द्वारेण प्रविशामि, अपरेषां भविष्यति अन्यथात्वम्/ 030.017. यन्न्वहम् ऋद्ध्यैव प्रविशेयमिति/ 030.017. तत ऋद्ध्या उपरि विहायसा मध्ये सूर्पारकस्य नगरस्यावतीर्णः/ 030.018. ततः सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी ते च सप्तदश पुत्राः स्वकस्वकेन परिवारेण येन भगवांस्तेनोपसंक्रान्ताः, अनेकानि च प्राणिशतसहस्राणि/ 030.020. ततो भगवाननेकैः प्राणिशतसहस्रैरनुगम्यमानो येन चन्दनमालः प्रासादस् तेनोपसंक्रान्तः/ 030.021. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 030.022. स जनकायो भगवन्तमपश्यंश् चन्दनमालं प्रासादं भेत्तुमारब्धः/ 030.022. भगवान् संलक्षयति--यदि चन्दनमालः प्रासादो भेत्स्यते, दातृर्णां पुण्यान्तरायो भविष्यति/ 030.023. यन्न्वहमेनं स्फटिकमयं निर्मिनुयामिति/ 030.024. स भगवता स्फटिकमयो निर्मितः/ 030.024. ततो भगवता तस्याः परिषद् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषो ऽधिगतः/ 030.026. कैश्चिन्मोक्षभागीयानि कुशलमूलानि उत्पादितानि, कैश्चिन्निर्वेधभागीयानि, कैश्चित् स्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चित् श्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि/ 030.030. यद्भूयसा सा पर्षद् बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता//
030.031. अथ दारुकर्णी स्तवकर्णी त्रपुकर्णी च प्रणीतं खादनीयं भोजनीयं समुदानीय आसनानि प्रज्ञाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालम् <31>मन्यत इति/
031.001. तेन खलु समयेन कृष्णगौतमकौ नागराजौ महासमुद्रे प्रतिवसतः/ 031.001. तौ संलक्षयतह्--भगवान् सूर्पारके नगरे धर्मं देशयति/ 031.002. गच्छावः, धर्मं श्रोष्याव इति/ 031.002. ततस्तौ पञ्चनागशतपरिवारौ पञ्चनदीशतानि संजन्य सूर्पारकं नगरं संप्रस्थितौ/ 031.003. असंमोषधर्माणो बुद्धा भगवन्तः/ 031.004. भगवान् संलक्षयति--इमौ कृष्णगौतमौ नागराजौ यदि सूर्पारकं नगरमागमिष्यतः, अगोचरीकरिष्यतः/ 031.005. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--प्रतिगृहाण महामौद्गल्यायन तथागतस्यात्ययिकपिण्डपातम्/ 031.006. तत्कस्य हेतोह्? पञ्च मे मौद्गल्यायन आत्ययिकपिण्डपाताः/ 031.007. कतमे पञ्च? आगन्तुकस्य गमिकस्य ग्लानस्य ग्लानोपस्थायकस्योपधिवारिकस्य च/ 031.007. अस्मिंस्त्वर्थे भगवानुपाधौ वर्तते/ 031.008. अथ भगवान् मौद्गल्यायनसहायो येन कृष्णगौतमकौ नागराजौ तेनोपसंक्रान्तः/ 031.009. तौ कथयतह्--समन्वाहरत नागेन्द्रौ सूर्पारकं नगरमगोचरीभविष्यति/ 031.010. तौ कथयतह्--तादृशेन भदन्त प्रसादेन वयमागता यन्न शक्यमस्माभिः कुन्तपिपीलिकस्यापि प्राणिनः पीडामुत्पादयितुं प्रागेव सूर्पारकनगरनिवासिनो जनकायस्येति/ 031.012. ततो भगवता कृष्णगौतमकयोर् नागराजयोस्तादृशो धर्मो यं श्रुत्वा बुद्धं शरणं गतौ, धर्मं संघं च शरणं गतौ, शिक्षापदानि च गृहीतानि/ 031.013. भगवान् भक्तकृत्यं कर्तुमारब्धः/ 031.014. एकैको नागः संलक्षयति--अहो बत भगवान् मम पानीयं पिबतु इति/ 031.015. भगवान् संलक्षय्ति--यदि एकस्येइव पानीयं पास्यामि, एषां
भविष्यति अन्यथात्वम्/ 031.015. उपायसंविधानं कर्तव्यमिति/ 031.016. तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते--गच्छ मौद्गल्यायन, यत्र पञ्चानां नदीशतानां संभेदः, तस्मादुदकस्य पात्रपूरमानय/ 031.017. एवं भदन्तेति आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य यत्र पञ्चानां नदीशतानां संभेदस्तत्रोदकस्य पात्रपूरमादाय येन भगवांस्तेनोपसंक्रान्तः/ 031.019. उपसंक्रम्य भगवत उदकस्य पात्रपूरमुपनामयति/ 031.020. भगवता गृहीत्वा परिभुक्तम्/ 031.020. आयुष्मान् महामौद्गल्यायनः संलक्षयति--पूर्वमुक्तं भगवता--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बुद्वीपस्य दर्शयितारौ/ 031.022. एकेनांशेन पुत्रो मातरं द्वितीयेन पितरं पूर्णवर्षशतं परिचरेत्, यद्वा अस्यां महापृथिव्यां मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालं रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्त इति, एवम्रूपे वा विविधैश्वर्याधिपत्ये प्रतिष्ठापयत्, नेयता पुत्रेण मातापितरोः कृतं वा स्यादुपकृतं वा/ 031.025. यस्तु असावश्राद्धं मातापितरं श्रद्धासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, दुःशीलं शीलसम्पदि, मत्सरिणं त्यागसम्पदि, दुष्प्रज्ञं प्रज्ञासम्पदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वेति/ 031.028. मया च मातुर् न कश्चिदुपकारः कृतः/ 031.028. यदहं समन्वाहरेयं कुत्र मे माता उपपन्नेति/ 031.029. समन्वाहर्तुं संवृत्तः पश्यति मरीचिके लोकधातौ उपपन्ना/ 031.030. स
संलक्षयति--कस्य विनेया? पश्यति भगवतः/ 031.030. तस्यैतदभवत्--दूरं वयमिहागताः/ 031.031. यन्न्वहमेतमर्थं भगवतो निवेदयेयमिति भगवन्तमिदमवोचत्--उक्तं भदन्त भगवता पूर्वम्--दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ इति/ 031.032. तन्मम माता मरीचिके लोकधातौ उपपन्ना, <32>सा च भगवतो विनेया/
032.001. तदर्हति भगवांस् तां विनेतुमनुकम्पामुपादायेति/ 032.001. भगवान् कथयति--मौद्गल्यायन, कस्य ऋद्ध्या गच्छामह्? भगवन् मदीयया/ 032.002. ततो भगवानायुष्मांश्च महामौद्गल्यायनः सुमेरुमूर्ध्नि पादान् स्थापयन्तौ संप्रस्थितौ/ 032.003. सप्तमे दिवसे मरीचिकं लोकधातुमनुप्राप्तः/ 032.004. अद्राक्षीत् सा भद्रकन्या आयुष्मन्तं महामौद्गल्यायनं दूरादेव/ 032.004. दृष्ट्वा च पुनः ससम्भ्रमात् तत्सकाशमुपसंक्रम्य कथयति--चिराद्बत पुत्रकं पश्यामीति/ 032.005. ततो जनकायः कथयति--भदन्तो ऽयं प्रव्रजितो वृद्धः/ 032.006. इयं च कन्या/ 032.006. कथमस्य माता भवतीति? आयुष्मान् मौद्गल्यायनः कथयति--भवन्तः, मम इमे स्कन्धा अन्याः संवृद्धाः/ 032.007. तेन ममेयं मातेति/ 032.008. ततो भगवता तस्या भद्रकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तया भद्रकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशौलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्/ 032.010. सा दृष्टसत्या त्रिरुदानमुदानयति पूर्ववत् यावत् प्रतिष्ठापिता देवमनुष्येषु/ 032.011. आह च-- 032.012. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषदुष्टः/ 032.013. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गं च मयोपलब्धम्//16//
032.014. त्वदाश्रयाच्चाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः/ 032.015. प्राप्तं च कान्तं पदमार्यकान्तं तीर्णा च दुःखार्णवपारमस्मि//17//
032.016. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय/ 032.017. भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्//18//
032.018. अतिक्रान्ताहं भदन्त अतिक्रान्ता/ 032.018. एषाहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च/ 032.019. उपासिकां च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतां शरणं गतामभिप्रसन्नाम्/ 032.020. अधिवासयतु मे भगवानद्य पिण्डपातेन सार्धमार्यमहामौद्गल्यायनेनेति/ 032.020. अधिवासयति भगवांस् तस्या भद्रकन्यायास्तूष्णीभावेन/ 032.021. अथ सा भद्रकन्या भगवन्तमायुष्मन्तं च महामौद्गल्यायनं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धातहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय/ 032.024. भगवता तस्या धर्मो देशितः/ 032.024. आयुष्मान् महामौद्गल्यायनो भगवतः पात्रग्राहकः पात्रं निर्यातयति/ 032.025. भगवता अभिहितह्--मौद्गल्यायन गच्छामः/ 032.026. गच्छामो भगवन्/ 032.026. कस्य ऋद्ध्या? तथागतस्य भगवतः/ 032.026. यदि एवम्, समन्वाहर जेतवनम्/ 032.027. आगताः स्मो भगवन्, आगताः/ 032.027. मौद्गल्यायनस्ततो विस्मयावर्जितमतिः कथयति--किं नामेयं भगवन्न् ऋद्धिह्? मनोजवा मौद्गल्यायन/ 032.028. न मया भदन्त विज्ञातमेवं गम्भीरमेवं गम्भीरा बुद्धधर्मा इति/ 032.029. यदि विज्ञातमभविष्यत्, तिलशो ऽपि मे संचूर्णितशरीरेणानुत्तरायाः सम्यक्सम्बोधेश्चित्तं व्यावर्तितमभविष्यत्/ 032.030. इदानीं किं करोमि दग्धेन्धन इति//
032.031. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता पूर्णेन कर्म कृतम् येनाढ्ये महाधने महाभोगे कुले जातः, किं कर्म कृतम् येन <33>दास्याः कुक्षौ उपपन्नः, प्रव्रज्य च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? भगवानाह--पूर्णेन भिक्षवो भिक्षुणा कर्माणि कृतानि उपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थिताअनि अवश्यम्भावीनि/
033.003. पूर्णेन कर्माणि कृतानि उपचितानि/ 033.003. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतानि उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च/ 033.007. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि/ 033.008. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//19//
033.009. भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां च/ 033.011. बुद्धो भगवान् वाराणसीं नगरीमुपनिश्रित्य विहरति/ 033.012. तस्यायं शासने प्रव्रजितः/ 033.012. त्रिपिटकसंघस्य च धर्मवैयावृत्यं करोति/ 033.012. यावदन्यतमस्यार्हत उपधिवारः प्राप्तः/ 033.013. स विहारं संमर्ष्टुमारब्धः/ 033.013. वायुनेतश्चामुतश्च संकारो नीयते/ 033.013. स संलक्षयति--तिष्ठतु तावद् यावद्वायुरुपशमं गच्छतीति/ 033.014. वैयावृत्यकरेणासंमृष्टो विहारो दृष्टः/ 033.015. तेन तीव्रेण पर्यवस्थानेन खरवाक्कर्म निश्चारितम्--कस्य दासीपुत्रस्योपधिवार इति/ 033.015. तेन अर्हता श्रुतम्/ 033.015. स संलक्षयति--पर्यवस्थितो ऽयम्/ 033.016. तिष्ठतु तावत्/ 033.016. पश्चात् संज्ञापयिष्यामीति/ 033.017. यदा अस्य पर्यवस्थानं विगतं तदा तस्य सकाशमुपसंक्रम्य कथयति--जानीषे त्वं को ऽहमिति? स कथयति--जाने त्वं काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितो ऽहमपीति/ 033.018. स कथयति--यद्यप्येवं तथापि तु यन्मया प्रव्रज्य चरणीयं तत्कृतमहं सकलबन्धनाबद्धः/ 033.019. खरं ते वाक्कर्म निश्चारितम्/ 033.020. अत्ययमत्ययतो देशय/ 033.020. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति/ 033.021. तेनात्ययमत्ययतो देशितम्/ 033.021. यत्तेन नरक उपपद्य दासीपुत्रेण भवितव्यम्, तन्नरके नोपपन्नः/ 033.022. पञ्च तु जन्मशतानि दास्याः कुक्षौ उपपन्नः/ 033.022.
यावदेतर्ह्यपि चरमे भवे दास्या एव कुक्षौ उपपन्नः/ 033.023. यत् संघस्योपस्थानं कृतम्, तेनाढ्ये महाधने महाभोगे कुले जातः/ 033.024. यत्तत्र पठितं स्वाध्यायितं स्कन्धकौशलं च कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 033.025. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः/ 033.027. तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 033.028. इत्येवं वो भिक्षवः शिक्षितव्यम्//
033.029. इदमवोचद्भगवान्/ 033.029. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्निति//
033.030. इति श्रीदिव्यावदाने पूर्णावदानं द्वितीयम्//
********** अवदान 3 **********
034.001. दिव्3 मैत्रेयावदानम्/ 034.002. यदा राज्ञा भागधेन अजातशत्रुणा वैदेहीपुत्रेण नौक्रमो मातापित्रोर्मापितस्तदा वैशालकैर्लिच्छविभिर्भगवतो ऽर्थे नौक्रमो मापितः/ 034.003. नागाः संलक्षयन्ति--वयं विनिपतितशरीरा यन्नु वयं फणसंक्रमेण भगवन्तं नदी{दीम्} गङ्गामुत्तारयेम इति/ 034.004. तैः फणसंक्रमो मापितः/ 034.005. तत्र भगवान् भिक्षूनामन्त्रयते स्म--राजगृहात् श्रावस्तीं गन्तुम् यो युष्माकं भिक्षव उत्सहते राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेण नदीगङ्गामुत्तर्तुम्, स तेन तरतु, यो वा भिक्षवो वैशालकानां लिच्छवीनां नौसंक्रमेण, सो ऽपि तेनोत्तररु/ 034.007. अहमपि आयुष्मता आनन्देन भिक्षुणा सार्धं नागानां फणसंक्रमेण नदीं गङ्गामुत्तरिष्यामि/ 034.008. तत्र केचित् राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेणोत्तीर्णाः, केचित् वैशालिकानां लिच्छवीनां नौसंक्रमेण/ 034.010. भगवानपि आयुष्मता आनन्देन सार्धं नागानां फणसंक्रमेणोत्तीर्णः/ 034.010. अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-- 034.012. ये तरन्त्यर्णवं सरः सेतुं कृत्वा विसृज्य पल्वलानि/ 034.013. कोलं हि जनाः प्रबन्धिता उत्तीर्णा मेधाविनो जनाः//1//
034.014. उत्तीर्णो भगवान् बुद्धो ब्राह्मणस्तिष्ठति स्थले/ 034.015. भिक्षवो ऽत्र परिस्नान्ति कोलं बध्नन्ति श्रावकाः//2//
034.016. किं कुर्यादुदपानेन आपश्चेत् सर्वतो यदि/ 034.017. छित्त्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्//3// इति//
034.018. अद्राक्षीद्भगवानन्यतमस्मिन् भूभागे उन्नतोन्नतं पृथिवीप्रदेशम्/ 034.018. दृष्ट्वा च पुनरायुष्मन्तमामन्त्रयते--इच्छसि त्वमानन्द यो ऽसौ यूय ऊर्ध्वं व्यामसहस्रं तिर्यक् षोडशप्रवेधो नानारत्नविचित्रो वितः, तं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगतसमयः, यो ऽयं भगवान् यूपमुच्छ्रापयेत्, भिक्षवः पश्येयुः/ 034.022. ततो भगवता चक्रस्वतिकनन्द्यावर्तेन जालावनद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण पृथिवी परामृष्टा/ 034.024. नागाः संलक्षयन्ति--किमर्थं भगवता पृथिवी परामृष्टेति? यावत् पश्यन्ति यूयं द्रष्टुकामाः/ 034.024. ततस्तैरुच्छ्रापितः/ 034.024. भिक्षवो यूपं द्रष्टुमारब्धाः/ 034.025. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति/ 034.025. तत्र भगवान् भिक्षूनामन्त्रयते स्म--आरोहपरिणाहं निमित्तं भिक्षवो यूपस्य गृह्णीत, अन्तर्धास्यतीति/ 034.026. अन्तर्हितः/ 034.027. भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त भिक्षवो यूपं पश्यन्ति/ 034.027. आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति/ 034.028. किं तावत् वीतररागत्वादाहोस्वित् पर्युपासितपूर्वत्वात्? तद्यदि तावद् वीतरागत्वात्, सन्त्यन्ये ऽपि वीतरागाः/ 034.029. अथ पर्युपासितपूर्वत्वात्? कुत्र केन पर्युपासितमिति/ 034.030. भगवानाह--अपि भिक्षवो वीतरागत्वादपि पर्युपासितपूर्वत्वात्/ 034.030. कुत्रानेन पर्युपासितम्?
035.001. <35>भूतपूर्वं भिक्षवो राजाभूत प्रणादो नाम शक्रस्य देवेन्द्रस्य वयस्यकः/ 035.001. सो ऽपुत्रः पुत्राभिनन्दी करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितो ऽहमपुत्रश्च/ 035.002. ममात्ययाद् राजवंशसमुच्छेदो भविष्यतीति/ 035.003. ततः शक्रेण दृष्टः पृष्टश्च--मार्ष, कस्मात् त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति? स कथयति--कौशिल, अनेकधनसमुदितो ऽहमपुत्रश्च/ 035.005. ममात्ययाद् राजवंशस्योच्छेदो भविष्यति/ 035.005. शक्रः कथयति--मार्ष, मा त्वं चिन्तापरस्तिष्ठ/ 035.006. यदि कश्चित् च्यवनधर्मा देवपुत्रो भविष्यति, तत्ते पुत्रत्वे समादापयिष्यामीति/ 035.007. धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि संक्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ते, दौर्गन्धं मुखान्निश्चरति, उभाभ्यां कक्षाभ्यां स्वेदः प्रघरति, स्वे चासने धृतिं न लभते/ 035.009. यावदन्यतमस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भूतानि/ 035.010. स शक्रेण देवेन्द्रेणोक्तह्--मार्ष, प्रणादस्य राज्ञो ऽग्रामहिष्याः कुक्षौ प्रतिसंधिं गृहाणेति/ 035.011. स कथयति--प्रमादस्थानं कौशिकम्/ 035.011. बहुकिल्बिष्कारिणो हि कौशिक राजानः/ 035.012. मा अधर्मेण राज्यं कृत्वा नरकपरायणो भविष्यामीति/ 035.012. शक्रः कथयति--मार्ष, अहं ते स्मारयिष्यामि/ 035.013. प्रमत्ताः कौशलिक देवा रतिबहुलाः/ 035.013. एवमेतन्मार्ष/ 035.013. तथापि त्वहं भवन्तं स्मारयामि/ 035.014. तेन प्रणादस्य राज्ञो ऽग्रमहिष्याः कुक्षौ प्रतिसंधिर्गृहीता/ 035.014. यस्मिन्नेव दिवसे प्रतिसंधिर्गृहीता, तस्मिन्
दिवसे महाजनकायेन प्रणादो मुक्तः/ 035.015. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 035.016. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः/ 035.017. तस्य ज्ञातयः संगम्य समागम्य नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति/ 035.018. ज्ञातय ऊचुह्--यस्मिन्नेव दिवसे ऽयं दारको मातुः कुक्षिमवक्रान्तः, तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः/ 035.019. यस्मिन्नेव दिवसे जातस्तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः/ 035.020. तस्मात् भवतु दारकस्य महाप्रणाद इति नाम/ 035.021. तस्य महाप्रणाद इति नामधेयं व्यवस्थापितम्/ 035.021. महाप्रणादो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यांसंधात्रीभ्यां द्वाघ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्याम्/ 035.023. सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्ण्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 035.024. आशु वर्धते ह्रदस्थामिव पङ्कजम्/ 035.024. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः/ 035.025. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारीपरीक्षायाम्/ 035.026. सो ऽष्टासु परीक्षासूद्घट्टको वाचकः पटुप्रचारः पण्डितः संवृत्तः/ 035.027. स यानि तानि राअज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यासतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि,
तद्यथा--हस्तिशिक्षायामश्वपृष्ठे रथे शरे धनुषि प्रयाणे निर्याणे ऽङ्कुशग्रहे पाशग्रहे तोमरग्रहे यष्टिबन्धे पदबन्धे शिखाबन्धे दूरवेधे मर्मवेधे ऽक्षुण्णवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः//
035.032. धर्मता खलु न तावत् पुत्रस्य नाम प्रज्ञायते यावत् तातो जीवति/ 035.032. अपरेण समयेन <36>प्रणादो राजा कालगतः/
036.001. महाप्रणादो राज्ये प्रतिष्ठितः/ 036.001. स यावत्तावद् धर्मेण राज्यं कारयित्वा अधर्मेण कारयितुं प्रवृत्तः/ 036.002. ततः शक्रेण देवेन्द्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः समादापितः/ 036.003. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति/ 036.004. स यावत्तावद् धर्मेण राज्यं कारयित्वा पुनरपि अधर्मेण राज्यं कारयितुं प्रवृत्तः/ 036.004. द्विरपि शक्रेणोक्तह्--मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः/ 036.005. मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति/ 036.006. स कथयति--कौशिक, वयं राजानः प्रमत्ता इति रतिबहुलाः क्षणाद् विस्मरामः/ 036.007. किंचित्त्वमस्माकं चिह्नं स्थापय, यं दृष्ट्वा दानानि दास्यामः, पुण्यानि कारयिष्याम इति/ 036.008. न च शक्यते विना निमित्तेन पुण्यं कर्तुम्/ 036.008. ततः शक्रेण देवेन्द्रेण विश्वकर्मणो देवपुत्रस्याज्ञा दत्ता--गच्छ त्वं विश्वकर्मन् राज्ञो महाप्रणादस्य निवेशने/ 036.009. दिव्यं मण्डलवाटं निर्मिणु, यूपं चोच्छ्रापय/ 036.010. ऊर्ध्वं व्यामसहस्रेण तिर्यक् षोडशप्रवेधं नानारत्नविचित्रं सर्वसौवर्णमिति/ 036.011. ततो विश्वकर्मणा देवपुत्रेण महाप्रणादस्य राज्ञो निवेशने दिव्यो मण्डलवाटो निर्मितो यूपश्चोच्छ्रितः/ 036.012. ऊर्ध्वं व्यामसहस्रं नानारत्नविचित्रो दिव्यः सर्वसौवर्णः/ 036.012. ततो महाप्रणादेन राज्ञा दानशाला मापिता/ 036.013. तस्य मातुलो ऽशोको नाम यूपस्य परिचारको व्यवस्थितः/ 036.014. ततो यूपदर्शनोद्युक्तः सर्व एव जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति/ 036.015. ततः कृषिकर्मान्ताः
समुच्छिन्नाः/ 036.015. राज्ञः करप्रत्याया नोत्तिष्ठन्ते/ 036.016. अमात्यैः स्तोकाः करप्रत्याया उपनीताः/ 036.016. महाप्रणादो राजा पृच्छति--भवन्तः, कस्मात् स्तोकाः करप्रत्याया उपनीताह्? देव, जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति/ 036.018. कृषिकर्मान्ताः समुच्छिन्नाः/ 036.018. राज्ञः करप्रत्याया नोत्तिष्ठन्त इति/ 036.019. राजा कथयति--समुच्छिद्यतां दानशालेति/ 036.019. तैः समुच्छिन्ना/ 036.019. ततो ऽप्यसौ जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति/ 036.021. कृषिकर्मान्ताः समुच्छिन्नाः/ 036.021. तथापि करप्रत्याया नोत्तिष्ठन्ते/ 036.021. राजा पृच्छति--भवन्तः, दानशलाः समुच्छिन्नाः/ 036.022. इदानीं करप्रत्याया नोत्तिष्ठन्त इति/ 036.022. अमात्याः कथयन्ति--देव, जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं नीरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति/ 036.023. कृषिकर्मान्ताः समुच्छिन्नाः, यतः करप्रत्याया नोत्तिष्ठन्ते/ 036.024. ततो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा स यूपो नद्यां गङ्गायामाप्लावितः/ 036.025. किं मन्यध्वे भिक्षवो यो ऽसौ माप्रणादस्याशोको नाम मातुलः, एष एवासौ भद्दाली भिक्षुः/ 036.026. तत्रानेन पर्युपासितपूर्वः//
036.027. कुत्र भदन्त असौ यूपो विलयं गमिष्यति? भविष्यन्ति भिक्षवो ऽनागते ऽध्वनि अशीतिवर्षसहस्रायुषो मनुष्याः/ 036.028. अशीतिवर्षसहस्रायुषां मनुष्याणां शङ्खो नाम राजा भविष्यति सम्यमनी चक्रवर्ती चतुरन्तविजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः/ 036.029. तस्येमान्येवं रूपाणि सप्त रत्नानि भविष्यन्ति/ 036.030. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्/ 036.031. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 036.032. स इमामेव समुद्रपर्यन्तां पृथिवीमखिलामकणटकामनुत्पीडामदण्डेनाशस्रेण धर्मेण <37>समयेन अभिनिर्जित्याध्यावसिष्यति/
037.001. शङ्खस्य राज्ञो ब्रह्मायुर् नाम ब्राह्मणः पुरोहितो भविष्यति/ 037.002. तस्य ब्रह्मवती नाम पत्नी भविष्यति/ 037.002. सा मैत्रेयांशेन स्फुरित्वा पुत्रं जनयिष्यति मैत्रेयं नाम/ 037.003. ब्रह्मायुर्माणवो ऽशीतिमाणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयिष्यति/ 037.003. स तान् माणवकान् मैत्रेयाय अनुप्रदास्यति/ 037.004. मैत्रेयो माणवो ऽशीतिमाणवकसहस्राणि ब्राह्मणकान् मन्त्रान् वाचयिष्यति/ 037.005. अथ चत्वारो महाराजाश्चतुर्महानिधिस्थाह्-- 037.006. पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः/ 037.007. एलापत्रश्च गान्धारे शङ्खो वाराणसीपुरे//4//
037.008. एनं च यूपमादाय शङ्खस्य राज्ञ उपनामयिष्यन्ति/ 037.008. शङ्खो ऽपि राजा ब्रह्मायुषे ब्राह्मणायानुप्रदास्यति/ 037.009. ब्रह्मायुरपि ब्राह्मणो मैत्रेयाय माणवायानुप्रदास्यति/ 037.009. मैत्रेयो ऽपि माणवस्तेषां माणवकानामनुप्रदास्यति/ 037.010. ततस्ते माणवकास्तम् यूपं खण्डं खण्डं छित्त्वा भाजयिष्यन्ति/ 037.011. ततो मैत्रेयो माणवकस्तस्य यूपस्यानित्यतां दृष्ट्वा तेनैव संवेगेन वनं संश्रयिष्यति/ 037.011. यस्मिन्नेव दिवसे वनं संश्रयिष्यति, तस्मिन्नेव दिवसे मैत्रेयांशेन स्फुरित्वा अनुत्तरं ज्ञानमधिगमिष्यति/ 037.013. तस्य मैत्रेयः सम्यक्सम्बुद्ध इति संज्ञा भविष्यति/ 037.013. यस्मिन्नेव दिवसे मैत्रेयः सम्यक्सम्बुद्धो ऽनुत्तरज्ञानमधिगमिष्यति, तस्मिन्नेव दिवसे शङ्खस्य राज्ञः सप्तरत्नान्यन्तर्धास्यन्ते/ 037.014. शङ्खो ऽपि राजा अशीतिकोट्टराजसहस्रपरिवारो मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति/ 037.015. यदप्यस्य स्त्रीरत्नं विशाखा नाम, सापि अशीतिस्त्रीसहस्रपरिवारा मैत्रेयं सम्यक्सम्बुद्धं प्रव्रजितमनुप्रव्रजिष्यति/ 037.017. ततो मैत्रेयः सम्यक्सम्बुद्धो ऽशीतिभिक्षुकोटिपरिवारो येन गुरुपादकः पर्वतस्तेनोपसंक्रमिष्यति, यत्र काश्यपस्य भिक्षोरस्थसंघातो ऽविकोपितस्तिष्ठति/ 037.018. गुरुपादकपर्वतो मैत्रेयाय सम्यक्सम्बुद्धाय विवरमनुप्रदास्यति/ 037.019. यतो मैत्रेयः सम्यक्सम्बुद्धः काश्यपस्य भिक्षोरविकोपितमस्थिसंघातं दक्षिणेन पाणिना गृहीत्वा वामे पाणौ प्रतिष्ठाप्य एवं श्रावकाणां धर्मं देशयिष्यति--यो ऽसौ भिक्षवो वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम शास्ता लोक उत्पन्नस्तस्यायं श्रावकः काश्यपो नांना अल्पेच्छानां संतुष्टानां धूतगुणवादिनामग्रो, निर्दिष्टः/ 037.022. शाक्यमुनेः परिनिर्वृतस्यानेन शासनसंगीतिः कृता इति/ 037.023. ते दृष्ट्वा संवेगमापत्स्यन्ते--कथमिदानीमीदृशेनात्मभावेनेदृशा गुणगणा अधिगता इति/ 037.024. ते तेनैव संवेगेनार्हत्त्वं साक्षात्करिष्यन्ति/ 037.025. षण्णवतिकोट्यो ऽर्हतां भविष्यन्ति धूतगुणसाक्षात्कृताः/ 037.025. यं च संवेगमापत्स्यन्ते, तत्रासौ यूपो विलयं गमिष्यति//
037.027. को भदन्त हेतुः कः प्रत्ययो द्वयो रत्नयोर्युगपल्लोके प्रादुर्भावाय? भगवानाह--प्रणिधानवशात्/ 037.028. कुत्र भगवन् प्रणिधानं कृतम्? 037.029. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि मध्यदेशे वासवो नाम राजा राज्यं कारयति ऋद्धं स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 037.030. तस्य सदापुष्पफला वृक्षाः/ 037.030. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति/ 037.031. अतीव शस्यसम्पत्तिर्भवति/ 037.031. उत्तरापथे धनसंमतो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 037.033. तस्यापि सदापुष्पफला वृक्षाः/ 037.033. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति/ 037.033. अतीव <38>शस्यसम्पत्तिर्भवति/
038.001. यावदपरेण समयेन वासवस्य राज्ञः पुत्रो जातो रत्नप्रत्युप्तया शिखया/ 038.002. तस्य विस्तरेण जातिमहं कृत्वा रत्नशिखीति नामधेयं व्यवस्थापितम्/ 038.002. सो ऽपरेण समयेन जीर्णातुरमृतंसंदर्शनादुद्विग्नो वनं संश्रितः/ 038.003. यस्मिन्नेव दिवसे वनं संश्रितस्तस्मिन्नेव दिवसे ऽनुत्तरं ज्ञानमधिगतम्/ 038.004. तस्य रत्नशिखी सम्यक्सम्बुद्ध इति संज्ञोदपादि/ 038.004. अथापरेण समयेन धनसंमतो राजा उपरिप्रासादतलगतो ऽमात्यगणपरिवृतस्तिष्ठति/ 038.005. सो ऽमात्यानामन्त्रयते--भवतः, कस्यचिदन्यस्यापि राज्ञो राज्यमेवमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 038.007. सदापुष्पफला वृक्षाः/ 038.007. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति/ 038.008. अतीव शस्यसम्पत्तिर्भवति यथा अस्माकमिति? मध्यदेशाद् वणिजः पण्यमादायोत्तरापथं गताः/ 038.009. ते कथयन्ति--अस्ति देव मध्यदेशे वासवो नाम राजा इति/ 038.009. सहश्रवणादेव धनसंमतस्य राज्ञो ऽमर्ष उत्पन्नः/ 038.010. स संजातामर्षो ऽमात्यानामन्त्रयते--संनाहयन्तु भवन्तश्चत्रुअङ्गं बलकायम्/ 038.011. राष्ट्रापमर्दनमस्य करिष्याम इति/ 038.011. ततो धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूले ऽवस्थितः/ 038.013. अश्रौषीद्वासवो राजा--धनसंमतो राजा चत्रुअङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूले ऽवस्थित इति/ 038.014. श्रुत्वा च पुनः सो ऽपि चतुरङ्गं बलकायं संनाह्य
हस्तिकायमश्वकायं रथकायं पतिकायं गङ्गाया उत्तरे कूले ऽवस्थितः/ 038.016. अथ रत्नशिखी सम्यक्सम्बुद्धस्तयोर्विनयकालं ज्ञात्वा नद्या गङ्गायास्तीरे रात्रिं वासमुपगतः/ 038.017. रत्नशिखिना सम्यक्सम्बुद्धेन लौकिकं चित्तमुत्पादितम्/ 038.017. धर्मता खलु यदा बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति/ 038.019. अथ शक्रब्रह्मादयो देवा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्ताः/ 038.020. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः/ 038.020. तेषां वर्णानुभावेन महानुदारावभासः संवृत्तः/ 038.021. धनसंमतेन राज्ञा दृष्टः/ 038.021. दृष्ट्वा च पुनरमात्यान् पृच्छति--किमयं भवन्तो वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते महानुदारावभासह्? ते कथयन्ति--देव, वासवस्य राज्ञो विजिते रत्नशिखी नाम सम्यक्सम्बुद्धह् उत्पन्नः/ 038.023. तस्य शक्रब्रह्मादयो देवा दर्शनायोपसंक्रमन्ति/ 038.024. तेनैवोदारावभासः संवृत्तः/ 038.024. महर्द्धिको ऽसौ महानुभावः/ 038.024. तस्यायमनुभाव इति/ 038.025. धनसंमतो राजा कथयति--भवन्तः, यस्य विजिते ईदृशं द्विपादकं पुण्यक्षेत्रमुत्पन्नम्, यं शक्रब्रह्मादयो ऽपि देवा दर्शनायोपसंक्रामन्ति, तस्याहं कीदृशमनर्थं करिष्यामि? तेन तस्य दूतो ऽनुप्रेषितः/ 038.027. वयस्य, आगच्छ/ 038.027. न ते ऽहं किंचित् कारिष्यामि इति/ 038.027. पुण्यमहेशाख्यस्त्वम्, यस्य विजिते द्विपादकं पुण्यक्षेत्रं रत्नशिखी सम्यक्सम्बुद्धो ऽयम्/ 038.028.
शक्रब्रह्मादयो देवा दर्शनायोपसंक्रामन्ति/ 038.029. किं तु कण्ठाश्लेषं ते दत्वा गमिष्यामि/ 038.029. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति/ 038.030. वासवो राजा विश्वासं न गच्छति/ 038.030. स येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः/ 038.031. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 038.032. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--<39>मम भदन्त धनसंमतेन राज्ञा संदिष्टम्--प्रियवयसय आगच्छ, न ते ऽहं किंचित् करिष्यामि/
039.002. कण्ढा कण्ढाश्लेषं श्लेषं दत्व अगमिष्यामि/ 039.002. एवमावयोः परस्परं चित्तसौमनस्यं भवतीति/ 039.002. तत्र मया कथं प्रतिपत्तव्यम्? रत्नशिखी सम्यक्सम्बुद्धः कथयति--गच्छ महाराज, शोभनं भविष्यति/ 039.004. भगवन्, किं मया तस्य पादयोर् निपतितव्यम्? महाराज, बलश्रेष्ठा हि राजानः/ 039.004. निपतितव्यम्/ 039.005. अथ वासवो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः/ 039.006. येन धनसंमतो राजा तेनोपसंक्रान्तः/ 039.006. उपसंक्रम्य धनसंमतस्य राज्ञः पादयोर् निपतितः/ 039.007. ततो धनसंमतेन राज्ञा कण्ढे श्लेषं दत्त्वा विश्वासमुत्पाद्य प्रेषितः//
039.008. अथ वासवो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः/ 039.008. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 039.009. एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे राजानः पादयोर् निपतन्ति? राज्ञो महाराज चक्रवर्तिनः/ 039.011. अथ वासवो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी तथागतः सम्यक्सम्बुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन/ 039.013. अथ वासवो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति/ 039.016. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञो वासवस्य भक्तभिसारस्तेनोपसंक्रान्तः/ 039.018. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 039.018. अथ राजा वासवो रत्नशिखिनं सम्यक्सम्बुद्धं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 039.020. अनेकपर्यायेण शुचिना खादनीयेन भोजनीयेन स्वहस्तं समतर्प्य संप्रवार्य भगवन्तं रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर् निपत्य प्रणिधानं कर्तुमारब्धह्--अनेनाहं भदन्त कुशलमूलेन
राजा स्यां चक्रवर्तीति/ 039.023. तत्समनन्तरं च शङ्ख आपूरितः/ 039.023. ततो रत्नशिखी सम्यक्सम्बुद्धो वासवं राजानमिदमवोचत्--भविष्यसि महाराज अशीतिवर्षसहस्रायुषि प्रजायां शङ्खो नाम राजा चक्रवर्तीति/ 039.024. तत उच्चशब्दो महाशब्दो जातः/ 039.025. धनसंमतो राजा कोलाहलशब्दं श्रुत्वा अमात्यान् पृच्छति--किमेष भवन्तो वासवस्य राज्ञो विजिते कोलाहलशब्दः श्रूयते इति? तैरागम्य निवेदितम्--देव, रत्नशिखिना सम्यक्सम्बुद्धेन वासवो राजा चक्रवर्तिराज्ये व्याकृत इति जनकायो हृष्टतुष्टप्रमुदितः/ 039.028. तेन कोलाहलशब्दो जात इति/ 039.028. अथ धनसंमतो राजा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनोपसंक्रान्तः/ 039.029. उपसंक्रम्य रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 039.030. एकान्तनिषण्णो धनसंमतो राजा रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--कस्य भदन्त सर्वे चक्रवर्तिनः पादयोर् निपतन्ति? तथागतस्य महाराज अर्हतः सम्यक्सम्बुद्धस्य/ 039.032. अथ धनसंमतो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी सम्यक्सम्बुद्धस्तेनाञ्जलिम्<40> प्रणम्य रत्नशिखिनं सम्यक्सम्बुद्धमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन/
040.002. अधिवासयति रत्नशिखी सम्यक्सम्बुद्धो धनसंमतस्य राज्ञो ऽपि तूष्णीभावेन/ 040.003. अथ धनसंमतो राजा रत्नशिखिनः सम्यक्सम्बुद्धस्य तूष्णीभावेनाधिवासनं विदित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्य पादौ शिरसा वन्दित्वा रत्नशिखिनः सम्यक्सम्बुद्धस्यान्तिकात् प्रक्रान्तः//
040.006. अथ धनसंमतो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्सम्बुद्धस्य दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति/ 040.009. अथ रत्नशिखी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन धनसंमतस्य राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः/ 040.010. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 040.011. अथ धनसंमतो राजा सुखोपनिषण्णं रत्नशिखिनं सम्यक्सम्बुद्धं तत्प्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति/ 040.013. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य रत्नशिखिनं सम्यक्सम्बुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर् निपत्य सर्वमिमं लोकं मैत्रेणांशेन स्फुरित्वा प्रणिधानं कर्तुमरब्धह्--अनेनाहं कुशलमूलेन शास्ता लोके भवेयं तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति/ 040.016. रत्नशिखी सम्यक्सम्बुद्धः कथयति--भविष्यसि त्वं महाराज अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतो ऽर्हन् सम्यकस्म्बुद्ध इति/ 040.018. तत्प्रणिधानवशाद् द्वयो रत्नयोर्लोके प्रादुर्भावो भविष्यति//
040.019. इदमवोचद्भगवान्/ 040.019. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//
040.020. इति श्रीदिव्यावदाने मैत्रेयावदानं तृतीयम्//
********** अवदान 4 **********
041.001. दिव्4 ब्राह्मणदारिकावदानम्/ 041.002. भगवान् न्यग्रोधिकामनुप्राप्तः/ 041.002. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय न्यग्रोधिकां पिण्डाय प्राविक्षत्/ 041.002. कपिलवस्तुनो ब्राह्मणस्य दारिका न्यग्रोधिकायां निविष्टा/ 041.003. अद्राक्षीत् सा ब्राह्मणदारिका भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्/ 041.005. सहदर्शनादस्या एतदभवत्--अयं स भगवाञ् शाक्यकुलनन्दनश्चक्रवर्तिकुलाद् राज्यमपहाय स्फीतमन्तःपुरं स्फीतानि च कोशकोष्ठागाराणि प्रव्रजित इदानीं भिक्षामटते/ 041.006. यदि ममान्तिकात्सक्तुकभिक्षां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति/ 041.007. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, आकीर्यतामस्मिन् पात्र इति/ 041.008. ततो भूयस्या मात्रया तस्याः प्रसाद उत्पन्नः/ 041.009. जानाति मे भगवांश्चेतसा चित्तमिति विदित्वा तीव्रेण प्रसादेन भगवते सक्तुभिक्षां दत्तवती/ 041.010. ततो भगवता स्मितमुपदर्शितम्/ 041.010. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्परागपद्मरागवज्रवैडूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति/ 041.013. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहव हुहुवमुत्पलं पद्मं
महापद्ममवीचिपर्यन्तान् नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति/ 041.016. तेनानुगतास्तेषां सत्त्वानां तस्मिन् क्षणे कारणाविशेषाः, ते प्रतिप्रस्रभ्यन्ते/ 041.017. तेषामेवं भवति--किं नु वयं भवन्तम् इतश्च्युता आहोस्विदन्यत्रोपपन्ना इति/ 041.018. तेषां प्रसादसंजननार्थं भगवान्निर्मितम् {दर्शनम्} विसर्जयति/ 041.019. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति/ 041.020. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति/ 041.022. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकान् देवान् गत्वा त्रायस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो देवान् ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानभृहानतपान् सुदृशान् सुदर्शानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्घोषयन्ति/ 041.026. गाथाद्वयं च भाषन्ते-- 041.027. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 041.028. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः//1//
041.029. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 041.030. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//2//
042.001. <42>अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति/ 042.002. तद्यदि भगवानतीतं व्याकर्तुकामो भवति, पृष्ठतो ऽन्तर्धीयन्ते/ 042.003. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते/ 042.003. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते/ 042.004. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते/ 042.004. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते/ 042.005. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्ते/ 042.006. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते/ 042.006. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते/ 042.007. श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते/ 042.008. प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते/ 042.008. यदि अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषे ऽन्तर्धीयन्ते//
042.010. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्योर्णायामन्तर्हिताः/ 042.010. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- 042.012. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्क्रमितः कलापः/ 042.014. अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव//3//
042.016. गाथाद्वयं च भाषते-- 042.017. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः/ 042.019. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः//4//
042.021. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्/ 042.023. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः//5//
042.025. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः/ 042.027. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः//6// इति/ 042.029. भगवानाह--एवमेतदानन्द, एवमेतत्/ 042.029. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 042.030. सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 042.030. दृष्टा तवैषा सा आनन्द ब्राह्मणदारिका, यया <43>प्रसादजातया मह्यं सक्तुभिक्षानुप्रदत्ता ? दृष्टा भदन्त/
043.001. असावानन्द ब्राह्मणदारिका अनेन कुशलमूलेन त्रयोदश कल्पान् विनिपातं न गमिष्यति/ 043.002. किं तर्हि देवांश्च मनुष्यांश्च संवाच्यसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिम आत्मभावप्रतिलम्भे सुपर्णिहितो नाम प्रत्येकबुद्धो भविष्यति/ 043.004. सामन्तकेन शब्दो विसृतह्--अमुकया ब्राह्मणदारिका प्रसादजातया भगवते सक्तुभिक्षा प्रतिपादिता, सा भगवता प्रत्येकायां बोधौ व्याकृतेति/ 043.006. तस्याश्च स्वामी पुष्पसमिधामर्थायारण्यं गतः/ 043.006. तेन श्रुतं मम पत्न्या श्रमणाय गौतमाय सक्तुभिक्षा प्रतिपादिता, सा च श्रमणेन गौतमेन प्रत्येकायां बोधौ व्याकृता इति/ 043.008. श्रुत्वा पुनः संजातामर्षो येन भगवांस्तेनोपसंक्रान्तः/ 043.008. भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य भगवन्तमिदमवोचत्--अगमद्भवान् गौतमो ऽस्माकं निवेशनम्? अगमं ब्राह्मण/ 043.010. सत्यं भवते तया मम पत्न्या सक्तुभिक्षा प्रतिपादिता, सा च त्वया प्रत्येकायां बोधौ व्याकृता इति? सत्यं ब्राह्मण/ 043.011. त्वं गौतम चक्रवर्तिराज्यमपहाय प्रव्रजितः/ 043.011. कथं नाम त्वमेतर्हि सक्तुभिक्षाहेतोः संप्रजानन् मृषावादं संभाषसे, कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्येतत् फलमिति? तेन हि ब्राह्मण त्वमेव प्रक्ष्यामि, यथा ते क्षमते तथैवं व्याकुरु/ 043.014. किं मन्यसे ब्राह्मण अस्ति कश्चित्त्वया आश्चर्याद्भुतो धर्मो दृष्टह्? तिष्ठन्तु तावत् भो गौतम अन्ये आश्चर्याद्भुता धर्माः/ 043.015. यो मया अस्यामेव न्यग्रोधिकायामाश्चर्याद्भुतो धर्मो दृष्टः, स तावच्छ्रूयताम्/ 043.016. अस्यां भो गौतम
न्यग्रोधिकायां पूर्वेण न्यग्रोधो वृक्षो यस्य नांनेयं न्यग्रोधिका, तस्याधस्तात् पञ्च शकटशतानि असंसक्तानि तिष्ठन्ति अन्योन्यासम्बाधमानानि/ 043.018. कियत्प्रमाणं तस्य न्यग्रोधस्य फलम्? कियत् तावत्? केदारमात्रम्/ 043.018. नो भो गौतम किलिञ्जमात्रम्/ 043.019. तैलिकचक्रमात्रम्/ 043.019. शकटचक्रमात्रम्/ 043.019. गोपिटकमात्रम्/ 043.019. बिल्वमात्रम्/ 043.020. कपित्थमात्रम्? नो भो गौतम सर्षपचतुष्टयभागमात्रम्/ 043.020. कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्यायं महावृक्षो निर्वृत्त इति? श्रद्दधातु मे भवान् गौतमो मा वा/ 043.021. नैतत् प्रत्यक्षं क्षेत्रम्/ 043.022. तावद्भो गौतम निरुपहतं स्निग्धमधुरमृत्तिकाप्रदेशं बीजं च नवसारं सुखारोपितम्/ 043.023. कालेन च कालं देवो वृष्यते, तेनायं महान्यग्रोधवृक्षो ऽभिनिर्वृत्तः/ 043.023. अथ भगवानस्मिन्नुत्पन्ने गाथां भाषते-- 043.025. यथा क्षेत्रे च बीजेन प्रत्यक्षस्त्वमिह द्विज/ 043.026. एवं कर्मविपाकेषु प्रत्यक्षा हि तथागताः//7//
043.027. यथा त्वया ब्राह्मण दृषमेतदल्पं च बीजं सुमहांश्च वृक्षः/ 043.029. एवं मया ब्राह्मण दृष्टमेतत् अल्पं च बीजं महती च संपत्//8// इति//
043.031. ततो भगवता मुखात् जिह्वां निर् नमय्य सर्वं मुखमण्डलमाच्छादितम् यावत् केशपर्यन्तमुपादाय, स च ब्राह्मणो ऽभिहितह्--किं मन्यसे ब्राह्मण यस्य मुखात् जिह्वां निश्चार्य सर्वम् <44>मुखमण्डलमाच्छादयति, अपि त्वसौ चक्रवर्तिराज्यशतसहस्रहेतोरपि संप्रजानन् मृषावदां भाषेत? नो भो गौतम/
044.002. ततो ऽन्वेव गाथां भाषते-- 044.003. अप्येव हि स्यादनृताभिधायिनी ममेह जिह्वार्जवसत्यवादिता/ 044.005. तदेवमेतन्न यथा हि ब्राह्मण तथागतो ऽस्मीत्यवगन्तुमर्हसि//9//
044.007. अथ स ब्राह्मणो ऽभिप्रसन्नः/ 044.007. ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्--अतिक्रान्तो ऽहं भदन्त अतिक्रान्तः/ 044.010. एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च/ 044.010. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्/ 044.011. अथ स ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः//
044.013. इदमवोचद्भगवान्/ 044.013. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//
044.014. इति श्रीदिव्यावदाने ब्राह्मणदारिकावदानं चतुर्थम्//
********** अवदान 5 **********
045.001. दिव्5 स्तुतिब्राह्मणावदानम्/ 045.002. अथ भगवान् हस्तिनापुरमनुप्राप्तः/ 045.002. अन्यतमो ब्राह्मणो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव पर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनर्भगवन्तमभिगम्य गाथाभिः स्तोतुमारब्धह्-- 045.004. सुवर्णवर्णो नयनाभिरामः प्रीत्याकरः सर्वगुणैरुपेतः/ 045.006. देवातिदेवो नरदम्यसारथिस् तीर्णो ऽसि पारं भवसागरस्य//1// इति//
045.009. ततो भगवता स्मितमुपदर्शितम्/ 045.009. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, पूर्ववद् यावद् भगवत ऊर्णायामन्तर्हिताः/ 045.010. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- 045.012. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्न्ष्क्रमितः कलापः/ 045.014. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव//2//
045.016. गाथां च भाषते-- 045.017. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः/ 045.019. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः//3//
045.021. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्/ 045.023. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः//4//
045.025. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः/ 045.027. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः//5// इति//
045.029. भगवानाह--एवमेतदानन्द, एवमेतत्/ 045.029. नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 045.030. दृष्टस्ते आनन्द ब्राह्मणो येन तथागतो गाथया अभिष्टुतह्?<46> दृष्टो भदन्त/
046.001. असौ अनेन कुशलमूलेन विंशतिकल्पं विनिपातं न गमिष्यति/ 046.002. किं तु देवांश्च मनुष्यांश्च गत्वा संसृत्य पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे स्तवार्हो नाम प्रत्येकबुद्धो भविष्यति/ 046.003. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त अनेन ब्राह्मणेन भगवानेकया गाथया स्तुतो भगवता च प्रत्येकायां बोधौ व्याकृत इति/ 046.005. भगवानाह--न भिक्षव एतर्हि, यथा अतीते ऽध्वनि अनेनाहमेकया गाथया स्तुतः, मया च पञ्चसु ग्रामवरेषु प्रतिष्ठापितः/ 046.006. तच्छृणु{त}, साधु च सुष्ठु च मनसि कुरु{त}, भाषिष्ये//
046.008. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 046.009. स चातीव कविप्रियः/ 046.009. वाराणस्यामन्यतमो ब्राह्मणः कविः/ 046.010. स ब्राह्मण्योच्यते--ब्राह्मण शीतकालो वर्तते/ 046.010. गच्छ, अस्य राज्ञः कच्चिदनुकूलं भाषितं कृत्वा कदाचित् किंचित् शीतत्राणं संपद्यत इति/ 046.011. स संप्रस्थितः/ 046.012. यावद्राजा हस्तिस्कन्धारूढो निर्गच्छति/ 046.012. स ब्राह्मणः संलक्षयति--किं तावद्राजानं स्तुनोमि आहोस्विद् हस्तिनागमिति/ 046.013. तस्यैतदभवत्--अयं हस्तिनागः सर्वलोकस्य प्रियो मनापश्च/ 046.014. तिष्ठतु तावद्राजा, हस्तिनागं तावदभिष्टौमीति/ 046.014. गाथां च भाषते-- 046.015. एरावणस्याकृतितुल्यदेहो रूपोपपन्नो वरलक्षणैश्च/ 046.017. लक्षे प्रशस्तो ऽसि महागजेन्द्र वर्णप्रमाणेन सुरूपरूप//6// इति//
046.019. ततो राजा अभिप्रसन्नो गाथां भाषते-- 046.020. यो मे गजेन्द्रो दयितो मनापः प्रीतिप्रदो दृष्टिहरो नराणाम्/ 046.022. तं भाषसे वर्णपदानि तस्य ददामि ते ग्रामवराणि पञ्च//7// इति//
046.024. किं मन्यध्वे भिक्षवो यो ऽसौ हस्तिनागः, अहमेव तेन कालेन तेन समयेन/ 046.025. तदाप्यहमनेनैकया गाथया स्तुतः, मया चायं पञ्चग्रामवरेषु प्रतिष्ठापितः/ 046.025. एतर्हि अनेनैकगाथया स्तुतः, मयापि चायं प्रत्येकबोधौ व्याकृत इति//
046.027. इदमवोचद्भगवान्/ 046.027. आत्तमनसस् ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//
046.028. इति श्रीदिव्यावदाने स्तुतिब्राह्मणावदानं पञ्चमम्//
********** अवदान 6 **********
047.001. दिव्6 इन्द्रनामब्राह्मणावदानम्/ 047.002. भगवाञ् श्रुघ्नामनुप्राप्तः/ 047.002. श्रुघ्नायामिन्द्रो नाम ब्राह्मणः प्रतिवसति/ 047.002. स च रूपयौवनश्रुतमनुप्राप्तो न ममास्ति कश्चित् तुल्य इत्यतीव विकत्थते/ 047.003. भगवांश्चान्यतमस्मिन् प्रदेशे पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णो धर्मं देशयति/ 047.004. अश्रौषीदिन्द्रो नाम ब्राह्मणह्--श्रमणो गौतमः श्रुघ्नामनुप्राप्त इति/ 047.005. तस्यैतदभवत्--श्रमणो गौतमः श्रूयते ऽभिरूपो दर्शनीयः प्रासादिक इति/ 047.006. गच्छामि पश्यामि किं ममान्तिकादभिरूपतर आहोस्विन्नेति/ 047.007. स निर्गतो यावत् पश्यति भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहसरातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्/ 047.009. दृष्ट्वा च पुनरस्यैतदभवत्--किं चापि श्रमणो गौतमो ममान्तिकादभिरूपतरः, नोच्चतर इति/ 047.010. स भगवतो मूर्धानमवलोकयितुमारब्धो यावन्न पश्यति/ 047.010. स ऊर्ध्वतरं प्रदेशमारूढः/ 047.011. तत्र भगवानिन्द्रं ब्राह्मणमामन्त्रयते--अलं ब्राह्मण, खेदमापत्स्यसे/ 047.011. यदि सुमेरुमूर्धानमपि अभिरुह्य तथागतस्य मूर्धानमवलोकयसि, तथा सुतरां खेदमापत्स्यसे, न च द्रक्ष्यसि/ 047.013. अपि तु न त्वया श्रुतं ससुरासुरजगदनवलोकितमूर्धानो बुद्धा भगवन्त इति? अपि तु यदीप्ससि तथागतस्य शरीरप्रमाणं द्रष्टुम्, तव गृहे ऽग्निहोत्रकुण्डं तस्याधस्ताद्गोशीर्षचन्दनमयी यष्टिरुपतिष्ठते, तामुद्धृत्य मापय/ 047.015. तत्तथागतमातापैतृकस्याश्रयस्य प्रमाणमिति/
047.015. इन्द्रो ब्राह्मणः संलक्षयति--एतदस्याश्चर्यं न कदाचिन्मया श्रुतम्, गच्छामि पश्यामीति/ 047.016. त्वरितत्वरितगतो ऽग्निहोत्रकुण्डकस्याधस्तात् खनितुमारब्धः/ 047.017. सर्वं तथैव/ 047.017. सो ऽभिप्रसन्नः/ 047.017. स संलक्षयति--नूनं श्रमणो गौतमः सर्वज्ञः/ 047.018. गच्छामि पर्युपासितुमिति/ 047.018. स प्रसादजातो येन भगवांस्तेनोपसंक्रान्तः/ 047.019. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः/ 047.020. ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यथैन्द्रेण ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्/ 047.022. स दृष्टसत्यः कथयति--अतिक्रान्तो ऽहं भदन्त, अतिक्रान्तः/ 047.023. एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च/ 047.023. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतम्/ 047.024. अभिप्रसन्नो ऽथेन्द्रो ब्राह्मण उत्थायासनात् एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं गोशीर्षचन्दनमय्या यष्ट्या महं प्रज्ञपयेयमिति/ 047.026. भगवानाह--गच्छ ब्राह्मण अनुज्ञातं प्रज्ञपयसि/ 047.027. ततस्तेन विविक्तावकाशे महता सत्कारेणासौ यष्टिरुच्छ्रापिता, महश्च प्रज्ञपितः/ 047.028. अन्यैरपि ब्राह्मणगृहपतिभिः कुशलमधिष्ठानाय भवत्विति विदित्वा कुला बद्धा(?)/ 047.029. इन्द्रेण ब्राह्मणेन यष्ट्या महः प्रज्ञपित इति इन्द्रमह
इन्द्रमह इति संज्ञा संवृत्ता//
047.030. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--आगमय आनन्द येन तोयिका/ 047.030. एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रत्यश्रौषीत्/ 047.031. अथ भगवांस्तोयिकामनुप्राप्तः/ 047.031. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति/ 047.032. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैह् <48>समलंकृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्/
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
