Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
048.002. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्याभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यतीति/ 048.003. अथ निपेत्याभिवादयिष्यामि, पुण्यपरिहाणिर्भविष्यति/ 048.003. तत् को ऽसौ उपायः स्यात् येन मे कर्मपरिहाणिर् न स्यान्नापि पुण्यपरिहाणिरिति/ 048.004. तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि/ 048.005. एवं न कर्मपरिहाणिर् न पुण्यपरिहाणिरिति/ 048.006. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तमिति/ 048.007. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--भवक्षयकरः क्षणम्/ 048.007. एष ब्राह्मणः/ 048.007. सचेदस्यैवं सम्यक्सम्प्रत्ययज्ञानदर्शनम् अहमनेनोपक्रमेण वन्दितो भवेयम्, एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत्/ 048.010. तत्कस्य हेतोह्? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितो ऽस्थिसंघातस्तिष्ठति/ 048.011. अथायुष्मानानन्दो लघुलध्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासने/ 048.012. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवता इति/ 048.014. निषण्णो भगवान् प्रज्ञप्त एवासने/ 048.014. निषद्य भिक्षूनामन्त्रयते स्म--इच्छथ कालः, एतस्य सुगत समयः, यं भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयेत्/ 048.017. दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति/ 048.017. ततो भगवता लौकिकं चित्तमुत्पादितम्/ 048.017. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिका अपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति/ 048.019. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकचित्तमुत्पादितमिति? पश्यन्ति--काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकाम इति/ 048.021. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितशरीरसंघात उच्छ्रापितः/ 048.021. तत्र भगवान् भिक्षूनामन्त्रयते स्म--उद्गृह्णीत भिक्षवो निमित्तम्/ 048.022. अन्तर्धास्यति/ 048.022. अन्तर्हितः//
048.023. राज्ञा प्रसेनजिता श्रुतं भगवता श्रावकाणां दर्शनायाविकोपितं काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातं समुच्छ्रितमिति/ 048.024. श्रुत्वा च पुनः कुतूहलजातः सहान्तःपुरेण कुमारैरमात्यैर्भटबलाग्रैर् नैगमजानपदैश्च द्रष्टुं संप्रस्थितः/ 048.025. एवं विरूढकः, अनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपितः, विशाखा मृगारमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि/ 048.027. यावदसौ अनतर्हितः/ 048.027. तैः श्रुतम्--अनतर्हितो ऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातुरविकोपित इति/ 048.029. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति/ 048.029. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः/ 048.030. एवं च चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात् कियत् पुण्यं भविष्यतीति/ 048.031. अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते--
049.001. <49>शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति/ 049.003. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्//1//
049.005. अन्यतमेन उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः/ 049.005. एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत् पुण्यमाख्यातं भगवता अन्यत्र/ 049.006. मृत्तिकापिण्डस्य कियत् पुण्यं भविष्यतीति? अथ भगवांस्तस्यापि चेतसा चित्तमाज्ञाय भाषते-- 049.008. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति/ 049.010. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मृत्तिकपिण्डमेकम्//2//
049.012. ततः श्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्तिकापिण्डसमारोपणं कृतम्/ 049.012. अपरैस्तत्र मुक्तपुष्पाण्यवक्षिप्तानि, एवं च चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत् पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत् पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- 049.016. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति/ 049.018. यो बुद्धचैत्येषु प्रसन्नचित्तह् आरोपयेन्मुक्तसुपुष्पराशिम्//3//
049.020. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत् पुण्यमुक्तम्/ 049.021. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- 049.023. शतंसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति/ 049.025. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्//4//
049.027. अपरैस्तत्र प्रदीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत् पुण्यमुक्तम्/ 049.028. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
050.001. <50>शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य समा भवन्ति/ 050.003. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्//5//
050.005. अपरैस्तत्र गन्धाभिषेको दत्तः/ 050.005. एवं चेतसा चित्तमभिसंस्कृतम्--प्रदीपस्य भगवता इयत् पुण्यमुक्तम्/ 050.006. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- 050.008. शतंसहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति/ 050.010. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्//6//
050.012. अपरैस्तत्र च्छत्रध्वजपताकारोपणं कृतम्/ 050.012. एवं च ... चेतसा चित्तमाज्ञाय गाथां भाषते-- 050.013. तिष्ठन्तं पूजयेद्यञ्च यञ्चापि परिनिर्वृतम्/ 050.014. समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता//7//
050.015. एवं ह्यचिन्तिया बुद्धा बुद्धधर्मा^प्यचिन्तिया/ 050.016. अचिन्तिये प्रसन्नानां विपाको ऽपि अचिन्तियः//8//
050.017. तेषामचिन्तियानामप्रतिहतधर्मचक्रवर्तिनाम्/ 050.018. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्//9// इति//
050.019. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषो ऽधिगतः/ 050.021. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ, कैश्चिन्मूर्धागतानि, कैश्चिन्मूर्धानः, कैश्चिदुष्णगतान्यासादितानि, कैश्चित् सत्यानुलोमाः क्षान्तयः, कैश्चित्स्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागमिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 050.023. यद्भूयसा बुद्धनिंना धर्मप्रवणाः संघप्राग्भारा व्यवस्थापिताः//
050.025. अथ अनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अत्र महं प्रज्ञायेयम्/ 050.026. अनुजानामि गृहपते, प्रज्ञापयितव्यम्/ 050.026. ततो ऽनाथपिण्डदेन गृहपतिना महः प्रज्ञापितः/ 050.027. तोयिकामह इति संज्ञा संवृत्ता//
050.028. इदमवोचद्भगवान्/ 050.028. आत्तमनसस् ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//
050.029. इति श्रीदिव्यावदाने इन्द्रनामब्राह्मणावदानं षष्ठम्//
********** अवदान 7 **********
051.001. दिव्7 नगरावलम्बिकावदानम्/
051.002. अथ भगवान् कोशलेषु जनपदेषु चारिकां चरञ् श्रावस्तीमनुप्राप्तः/ 051.002. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे/ 051.003. अश्रौषीदनाथपिण्डदो गृहपतिह्--भगवान् कोशलेषु जनपदेषु चारिकां चरञ् श्रावस्तीमनुप्राप्तः/ 051.004. श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्याराम् इति/ 051.005. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः/ 051.005. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 051.006. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 051.007. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 051.008. अनाथपिण्डदो गृहपतिह् उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भुक्तेन सार्धं भिक्षुसंघेन इति/ 051.010. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन/ 051.011. अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स्वनिवेशनं तेनोपसंक्रान्तः/ 051.013. उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते--न तावद्भोः पुरुष तीर्थ्यानां प्रवेशो दातव्यो यावद् बुद्धप्रमुखेन भिक्षुसंघेन भुक्तं भवति/ 051.014. ततः पश्चादहं तीर्थ्यानां दास्यामीति/ 051.015. एवमार्येति दौवारिकः पुरुषो ऽनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत्/ 051.016. अनाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं
खादनीयभोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/ 051.018. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन अनाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः/ 051.020. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 051.020. अथ अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 051.022. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय//
051.025. अथायुष्मान् महाकाश्यपो ऽन्यतमस्मादारण्यकाच्छयनासनात् दीर्घकेशश्मश्रुर्लूहचीवरो जेतवनं गतः/ 051.026. स पश्यति जेतवनं शून्यम्/ 051.026. तेनोपधिवारिकः पृष्टह्--कुत्र बुद्धप्रमुखो भिक्षुसंघ इति/ 051.027. तेन समाख्यातम्--अनाथपिण्डदेन गृहापतिनोपनिमन्त्रित इति/ 051.027. स संलक्षयति--गच्छामि, तत्रैव पिण्डपातं परिभोक्ष्यामि, बुद्धप्रमुखं च भिक्षुसंघं पर्युपासिष्यामीति/ 051.028. सो ऽनाथपिण्डदस्य गृहपतेर् निवेशनं गतः/ 051.029. अतो दौवारिकेन उक्तह्--आर्य तिष्ठ, मा प्रवेक्ष्यसि/ 051.030. कस्यार्थाय? अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता--मा तावत् तीर्थ्यानां प्रवेशं दास्यसि, यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्/ 051.031. ततः पश्चात् तीर्थ्यानां दास्यामि इति/ 051.031. अथायुष्मान् महाकाश्यपः संलक्षयति--तस्य मे लाभाः सुलब्धाः, यन्मां श्राद्धा ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय<52> इति न जानन्ते/
052.001. गच्छामि, कृपणजनस्यानुग्रहं करोमीति विदित्वा उद्यानं गतः/ 052.001. स संलक्षयति--अद्य मया कस्यानुग्रहः कर्तव्य इति/ 052.002. यावदन्यतमा नगरावलम्बिका कुष्ठाभिद्रुता सरुजार्ता पक्वगात्रा भिक्षामटति/ 052.003. स तस्याः सकाशमुपसंक्रान्तः/ 052.003. तस्याश्च भिक्षायामायासः संपन्नः/ 052.004. तया आयुष्मान् महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकः शान्तेन ईर्यापथेन/ 052.005. सा संलक्षयति--नूनं मया एवंविधे दक्षिणीये कारा कृता, येन मे इयमेवम्रूपा समवस्था/ 052.005. यदि आर्यो महाकाश्यपो ममान्तिकादनुकम्पामुपादाय आचामं प्रतिगृह्णीयात्, अहमस्मै दद्यामिति/ 052.007. तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्--यदि ते भगिनि परित्यक्तम्, दीयतामस्मिन् पात्र इति/ 052.008. ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे दत्तम्/ 052.009. मक्षिका च पतिता/ 052.009. सा तामपनेतुमारब्धा/ 052.009. तस्यास्तस्मिन्नाचामे ऽङ्गुलिः पतिता/ 052.009. संलक्षयति--किं चाप्यार्येण मम चित्तानुरक्षया न च्छोरितः, अपि तु न परिभोक्ष्यतीति/ 052.010. अथायुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव प्रत्यक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्/ 052.012. स संलक्षयति--किं चापि आर्येण मम चित्तानुरक्षया परिभुक्तम्, नानेनाहारेणाहारकृत्यं करिष्यति इति/ 052.013. अथायुष्मान् महाकाश्यपस्तस्याश्चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्--भगिनि प्रामोद्यमुत्पादयसि, अहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामि इति/ 052.014. तस्या अतीव औद्बिल्यमुत्पन्नम्--ममार्येण महाकाश्यपेन पिण्डपातः प्रतिगृहीत इति/
052.015. तत आयुष्मती महाकाश्यपे चित्तमभिप्रसाद्य कालं गता तुषिते देवनिकाये उपपन्ना/ 052.016. सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती चित्तमभिप्रसादयन्ती कालं च कुर्वाणा/ 052.017. नो तु दृष्टा कुत्रोपपन्ना इति/ 052.018. स नरकान् व्यवलोकयितुमारब्धो न पश्यति, तिर्यक् च प्रेतं च मनुष्यांश्चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यावन्न पश्यति/ 052.019. तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नो तूपरिष्टात्/ 052.020. अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः/ 052.020. उपसंक्रम्य गाथाभिगीतेन प्रश्नं पप्रच्छ-- 052.022. चरतः पिण्डपातं हि काश्यपस्य महात्मनः/ 052.023. कुत्रासौ मोदये नारी काश्यपाचामदायिका//1//
052.024. भगवानाह-- 052.025. तुषिता नाम ते देवाः सर्वकामसमृद्धयः/ 052.026. यत्रासौ मोदते नारी काश्यपाचामदायिका//2// इति//
052.027. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--इमे च तावन्मनुष्याः पुण्यापुण्यानामप्रत्यक्षदर्शिनो दानानि ददति, पुण्यानि कुर्वन्ति/ 052.028. अहं प्रत्यक्षदर्शनेन पुण्यानां स्वपुण्यफले व्यवस्थितः कस्मात् दानानि न ददामि, पुण्यानि वा न करोमि? अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी/ 052.030. यन्न्वहमेनं पिण्डकेन प्रतिपादयेयम्/ 052.030. इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्/ 052.031. अवचीरविचीरकं काकाभिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिमार्य उदूढशिरस्कः सणशाटिकानिवासितः स्फटितपाणिपादो वस्त्रं वायितुमारब्धह्<53>/
053.001. शची अपि देवकन्या कुविन्दनर्या वेशधारिणी तसरिकां कर्तुमारब्धा/ 053.001. पार्श्वे चास्या दिव्या सुधा सज्जीकृता तिष्ठति/ 053.002. अथायुष्मान् महाकाश्यपः कृपणानाथवनीपकजनानुकम्पको ऽनुपूर्वेण तद्गृहमनुप्राप्तः/ 053.003. दुःखितको ऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसादितम्/ 053.004. शक्रेण देवानामिन्द्रेण दिव्यया सुधया पूरितम्/ 053.004. अथायुष्मतो महाकाश्यपस्यैतदभवत्-- 053.006. दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः/ 053.007. सुविरुद्धमिति कृत्वा जातो मे हृदि संशयः//3// इति//
053.008. धर्मता ह्येषा--असमन्वाहृत्य अर्हतां ज्ञानदर्शनं न प्रवर्तते/ 053.008. स समन्वाहर्तुं प्रवृत्तः/ 053.009. यावत् पश्यति शक्रं देवेन्द्रम्/ 053.009. स कथयति--कौशिक, किं दुःखितजनस्यान्तरायं करोषि, यस्य ते भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आरूढो यथापि तत्तथागतेनार्हता सम्यक्सम्बुद्धेन/ 053.011. आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि? इमे तावत् मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति/ 053.012. अहं प्रत्यक्षदर्शी एव पुण्यानां कथं दानानि न ददामि? ननु चोक्तं भगवता-- 053.014. करणीयानि पुण्यानि दुःखा ह्यकृतपुण्यता/ 053.015. कृतपुण्यानि मोदन्ते अस्मिम्ल्लोके परत्र च//4//
053.016. ततः प्रभृति आयुष्मान् महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः/ 053.017. अथ शक्रो देवेन्द्र आकाशस्थश्चायुष्मतो महाकाश्यपस्य पिण्डपातं चरतो दिव्यया सुधया पात्रं पूरयति/ 053.018. आयुष्मानपि महाकाश्यपः पात्रमधोमुखं करोति/ 053.018. अन्नपानं छोर्यते/ 053.018. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति/ 053.019. भगवानाह--तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति//
053.021. सामन्तकेन शब्दो विसृतह्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः, सा च तुषिते देवनिकाये उपपन्ना इति/ 053.022. राज्ञा प्रसेनजिता कौशलेन श्रुतम्--अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः/ 053.023. सा तुषिते देवे उपपन्ना इति/ 053.024. श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः/ 053.024. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 053.025. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 053.027. अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेन इति/ 053.029. अधिवासयति भगवान् राज्ञः प्रसेनजितस् तूष्णीभावेन/ 053.030. अथ राजा प्रसेनजित् कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तः/ 053.031. अथ राजा प्रसेनजित् कौशलस्तामेव रात्रिं प्रणीतं खादनीयं भोजनीयं समुदानीयं काल्यमेवोत्थाय आसनानि <54>प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/
054.002. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितः कौशलस्य भक्ताभिसारस्तेनोपसंक्रान्तः/ 054.004. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 054.004. अथ राजा प्रसेनजित् कौशलः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति/ 054.006. अन्यतमश्च क्रोडमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति--अयं राजा प्रत्यक्षदर्शीम् एव पुण्यानां स्वे पुण्यफले प्रतिष्ठापितो ऽतृप्त एव पुण्यैर्दानानि ददाति, पुण्यानि करोति/ 054.008. अथ राजा प्रसेनजित् कौशलो ऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय/ 054.011. ततो भगवता अभिहितह्--महाराज, कस्य नांना दक्षिणामादिशामि? किं तव, आहोस्विद्येन तवान्तिकात् प्रभूततरं पुण्यं प्रसूतमिति? राजा संलक्षयति--मां भगवान् पिण्डपातं परिभुङ्क्ते/ 054.013. को ऽन्यो ममान्तिकात् प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति--भगवन् येन ममान्तिकात् प्रभूततरं पुण्यं प्रसूतं तस्य भगवान् नांना दक्षिणामादिशतु इति/ 054.014. ततो भगवता क्रोडमल्लकस्य नांना दक्षिणा आदिष्टा/ 054.015. एवम् यावत् षड्दिवसान्/ 054.015. ततो ऽन्यदिवसे राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--मम भगवान् पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना
दक्षिणामादिशति इति/ 054.017. सो ऽमात्यैर्दृष्टः/ 054.017. ते कथयन्ति--किमर्थं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति? राजा कथयति--भवन्तः, कथं न चिन्तापरस्तिष्ठामि, यत्रेदानीं स भगवान् मम पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नांना दक्षिणामामादिशतीति? तत्रैको वृद्धो ऽमात्यः कथयति--अल्पोत्सुको भवतु/ 054.020. वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नांना दक्षिणामादिशतीति/ 054.021. तैः पौरुषेयाणामाज्ञा दत्ता यतः श्वो भवद्भिः प्रणीत आहारः सज्जीकर्तव्यः प्रभूतश्चैव समुदानयितव्यो यथोपार्धं भिक्षूणां पात्रे पतति उपार्धं भूमौ इति/ 054.023. अमात्यैरपरस्मिन् दिवसे प्रभूत आहारः सज्जीकृतः प्रणीतश्च/ 054.023. ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धः/ 054.024. उपार्धं भिक्षूणां पात्रे पतति, उपार्धं भूमौ/ 054.025. ततः क्रोडमल्लकाः प्रधाविताह्--भूमौ निपतितं गृह्णीम इति/ 054.025. ते परिवेषकैर् निवारिताः/ 054.026. ततः क्रोडमल्लकः कथयति--यद्यस्य राज्ञः प्रभूतमन्नम्, स्वापतेयमस्ति, सन्त्यन्ये ऽपि अस्मद्विधा दुःखितका आकाङ्क्षन्ते/ 054.027. किमर्थं न दीयते? किमनेनापरिभोगं छोरितेन इति/ 054.027. तस्य क्रोडमल्लकस्य चित्तविक्षेपो जातह्--न शक्यं तेन तथा चित्तं प्रसादयितुम् यथा पूर्वम्/ 054.028. ततो राजा बुद्धप्रमुखं भिक्षुअसंघं भोजयित्वा न मम नांना दक्षिणामादिशतीति विदित्वा दक्षिणामश्रुत्वैव प्रविष्टः/ 054.030. ततो भगवता राज्ञः प्रसेनजितः कौशलस्य नांना दक्षिणा आदिष्टा-- 054.031. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं
सनैर्गमम्/ 054.032. पश्यसि(?) फलं हि रूष्किकाया अलवणिकायाः कुल्माषपिण्डिकायाः//5//
055.001. <55>अथायुष्मानानन्दो भगवन्तमिदमवोचत्--बहुशो बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कौशलस्य निवेशने भुक्त्वा नांना दक्षिणामादिष्टा/ 055.002. नाभिजानामि कदाचिदेवम्रूपां दक्षिणामादिष्टपूर्वाम्/ 055.003. भगवानाह--इच्छसि त्वमानन्द राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयः/ 055.005. अयं भगवान् राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिं वर्णयेत्, भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति इति/ 055.006. तत्र भगवान् भिक्षूनामन्त्रयते स्म-- 055.007. भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्पटके गृहपतिः प्रतिवसति/ 055.007. तेन सदृशात् कुलात् कलत्रमानीतम्/ 055.008. स तया सार्धं क्रीडति रमते परिचारयति/ 055.008. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः/ 055.009. स उन्नीतो वर्धितः पटुः संवृत्तः/ 055.009. यावदसौ गृहपतिः पत्नीमामन्त्रयते--भद्र, जातो ऽस्माकमृणहारको धनहारकश्च/ 055.010. गच्छामि पण्यमादाय देशान्तरमिति/ 055.011. सा कथयति--आर्यपुत्र, एतत् कुरुष्व इति/ 055.011. स पण्यमादाय देशान्तरं गतः/ 055.011. तत्रैवानयेन व्यसनमापन्नः/ 055.012. अल्पपरिच्छदो ऽसौ गृहपतिः/ 055.012. तस्य गृहपतेर्धनजातं परिक्षीणम्/ 055.012. सो ऽस्य पुत्रो दुःखितो जातः/ 055.013. तस्य गृहपतेर्वयस्यकः/ 055.013. तेन तस्य दारकस्य माता अभिहिता--अयं तव पुत्रः क्षेत्रं रक्षतु, अहमस्य सुखं भुक्तेन योगोद्वहनं करिष्यामि/ 055.014. एवं भवतु/ 055.015. स तस्य क्षेत्रं
रक्षितुमारब्धः/ 055.015. स तस्य सुखं भक्तकेन योगोद्वहनं कर्तुमारब्धः/ 055.015. यावदपरेण समयेन पर्वणी प्रत्युपस्थिता/ 055.016. तस्य दारकस्य माता संलक्षयति--अद्य गृहपतिपत्नी सुहृत्सम्बन्धिबान्धवाः सह श्रमणब्राह्मणभोजनेन व्यग्रा भविष्यति/ 055.017. गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामि इति/ 055.018. सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेशयति/ 055.018. सा रुषिता कथयति--न तावच्छ्रमणब्राह्मणेभ्यो ददामि ज्ञातीनां वा, तावत् प्रेष्यमनुष्याय ददामि? अद्य तावत् तिष्ठतु, श्वो द्विगुणं दास्यामीति/ 055.020. ततस्तस्य दारकस्य माता संलक्षयति--मा मे पुत्रो बुभुक्षितकः स्थास्यतीति/ 055.021. तया आत्मनो ऽर्थे ऽलवणिका कुल्माषपिण्डका संपादिता/ 055.022. सा तामादाय गता/ 055.022. तेन दारकेण दूरत एव दृष्टा/ 055.022. स कथयति--अम्ब, अस्ति किंचिन्मृष्टं मृष्टम्? सा कथयति--पुत्र, यदेव प्रातिदैवसिकं तदप्यद्य नास्ति/ 055.023. मया आत्मनो ऽर्थे ऽलवणिका कुल्माषपिण्डिका साधिता/ 055.024. तामहं गृहीत्वा आगता/ 055.024. एतां परिभुङ्क्ष्वेति/ 055.025. स कथयति--स्थापयित्वा गच्छस्वेति/ 055.025. सा स्थापयित्वा प्रक्रान्ता//
055.026. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रन्तशयनासनभक्ता एकदक्षिणीया लोकस्य/ 055.027. यावदन्यतमः प्रत्येकबुद्धस्तत्प्रदेशमनुप्राप्तः/ 055.027. स तेन दृष्टः कायप्रासादिकश्चित्रप्रासादिकश्च शान्तेर्यापथवर्ती/ 055.028. स संलक्षयति--नूनं मया एवंविधे सद्भूते दक्षिणीये कारा न कृता, येन मे ईदृशी समवस्था/ 055.029. यद्ययं ममान्तिकादलवणिकां कुल्माषपिण्डिकां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति/ 055.030. ततो ऽसौ प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्--भद्रमुख, सचेत्ते परित्यक्तम्, दीयतामस्मिन् पात्र इति/ 055.032. ततस्तेन तीव्रेण प्रसादेन सा अलवणिका कुल्माषपिण्डका तस्मै प्रत्येकबुद्धाय प्रतिपादिता//
056.001. <56>किं मन्यध्वे भिक्षवो यो ऽसौ दरिद्रपुरुषः, एष एवासौ राजा प्रसेनजित् कौशलस्तेन कालेन तेन समयेन/ 056.002. यदनेन प्रत्येकबुद्धायालवणिका कुल्माषपिण्डका प्रतिपादिता, तेन कर्मणा षट्कृत्वो देवेषु त्रायस्त्रिंशेषु राज्यैश्वर्याधिपत्यं कारितवान्, षट्कृत्वो ऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्ध्नाभिषिक्तः, तेनैव च कर्मणा अवशेषेण एतर्हि राजा क्षत्रियो मूर्ध्नाभिषिक्तः संवृत्तः/ 056.005. सो ऽस्य तमहं संधाय कथयामि-- 056.006. हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमनम्/ 056.007. पश्यसि फलं हि रूक्षिकाया अलवणिकाया कुल्माषपिण्डकायाः// इति/ 056.008. सामन्तकेन शब्दो विसृतह्--भगवता राज्ञः प्रसेनजितो ऽलवणिकां कुल्माषपिण्डकामारभ्य कर्मप्लोतिर्व्याकृता इति/ 056.009. राज्ञापि प्रसेनजिता श्रुतम्/ 056.009. स येन भगवांसेतेनोपसंक्रान्तः/ 056.010. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 056.010. एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदरश्यति समादापयति समुत्तेजयति संप्रहर्षयति/ 056.012. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 056.012. अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तेरासङ्गं कृत्वा भगवन्तमिदमवोचत्--अधिवासयतु मे भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेनेति/ 056.015. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन/ 056.015. ततो राज्ञा प्रसेनजिता कौशलेन बुद्धमुखाय भिक्षुसंघाय त्रैमास्यं शतरसं भोजनं
दत्तम्/ 056.016. एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेणाच्छादितः/ 056.017. तैलस्य च कुम्भकोटिं समुदानीय दीपमाला अभ्युद्यतो दातुम्/ 056.018. तत्र भक्ते पूजायां च महान् कोलाहलो जातः/ 056.018. यावदन्यतमा नगरावलम्बिका अतीव दुःखिता/ 056.019. तया क्रोडमल्लकेन भिक्षामटन्त्या उच्चशब्धः श्रुतः/ 056.019. श्रुत्वा च पुनः पृच्छति--भवन्तः, किमेष उच्चशब्दो महाशब्द इति/ 056.020. अपरैः समाख्यातम्--राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखो भिक्षुअस्ंघस्त्रैमास्यं भोजितः, एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेण आच्छादितः, तैलस्य कुम्भकोटिं च समुदानीय दीपमाला अभ्युद्यतो दातुमिति/ 056.022. ततस्तस्या नगरावलम्बिकाया एतदभवत्--अयं तावद्राजा प्रसेनजित् कौशलः पुण्यैरतृप्तो ऽद्यापि दानानि ददाति, पुण्यानि करोति/ 056.024. यन्न्वहमपि कुतश्चित् समुदानीय भगवतः प्रदीपं दद्यामिति/ 056.024. तया खण्डमल्लके तैलस्य स्तोकम् याचयित्वा प्रदीपं प्रज्वाल्य भगवतश्चङ्क्रमे दत्तः/ 056.025. पादयोर् निपत्य प्रणिधानं कृतम्--अनेनाहं कुशलमूलेन यथायं भगवाञ् शाक्यमुनिर्वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम शास्ता लोक उत्पन्नः, एवमहमपि वर्षशतायुषि प्रजायां शाक्यमुनिरेव शास्ता भवेयम्/ 056.028. यथा चास्य दारिपुत्रमौद्गल्यायनाग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायकः, शुद्धोदनः पिता, माता महामाया, राहुलभद्रः कुमारः पुत्रः/ 056.029. यथायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति, एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति/ 056.030. यावत् सर्वे ते दीपा नैर्वाणाः/ 056.031. स तया प्रज्वलितः प्रदीपः
प्रज्वलत्येव/ 056.031. धर्मता खलु बुद्धानां भगवताम्--न तावदुपस्थायकाः प्रतिसम्लीयन्ते न यावद्बुद्धा भगवन्तः प्रतिसम्लीना इति/ 056.032. अथायुष्मानानन्दः संलक्षयति--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति/ 056.033. यन्न्वहं दीपम् <57>निर्वापयेयमिति/
057.001. स हस्तेन निर्वापयितुमारब्धो न शक्नोति/ 057.001. ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोति निर्वापयितुम्/ 057.002. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--किमेतदानन्देति/ 057.003. स कथयति--भगवन्, मम बुद्धिरुत्पना--अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति/ 057.004. यन्न्वहं दीपं निर्वापयेयमिति/ 057.004. सो ऽहं हस्तेन निर्वापयितुमारब्धो न शक्नोमि, ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोमीति/ 057.005. भगवानाह--खेदमानन्द आपत्स्यसे/ 057.006. यदि वैरम्भका अपि वायवो वायेयुः, ते ऽपि न शक्नुयुर् निर्वापयितुं प्रागेव हस्तगतश्चीवरकर्णिको व्यजनं वा/ 057.007. तथा हि--अयं प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वलितः/ 057.008. अपि तु आनन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धः/ 057.009. शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम्, आनन्दो भिक्षुरुपासकः, शुद्धोदनः पिता, महामाया माता, कपिलवस्तु नगरम्, राहुलभद्रः कुमारः पुत्रः/ 057.011. सापि धातुविभागं कृत्वा परिनिर्वास्यतीति//
057.012. इदमवोचद्भगवान्/ 057.012. आत्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्//
057.013. इति श्रीदिव्यावदाने नगरावलम्बिकावदानं सप्तमम्//
********** अवदान 8 **********
058.001 दिव्8 सुपिर्यावदान
058.002. बुद्धो भवाञ् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैर्ब्राह्मणैर्गृहपतिभिः श्रेष्ठिभिः सार्थवाहैर्देवैर् नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवांल् लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः/ 058.005. तत्र खलु वर्षावासं भगवानुपग्तो जेतवने अनाथपिण्डदस्यारामे/ 058.006. अथ तदैव प्रवारणायां प्रत्युपस्थितायां संबहुलाः श्र्तावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः/ 058.007. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तो निषण्णाह् 058.008. एकान्तनिषण्णान् संबहुलाञ् श्रावस्तीनिवासिनो वणिजो भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 058.010. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 058.011. अथ संबहुलाः/ 058.011. श्रावस्तीनिवासिनो वणिजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रकान्ताः, येनायुष्मानानन्दस्तेनोपसंक्रान्ताः/ 058.012. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः/ 058.013. संबहुलाञ् श्रावस्तीनिवासिनो वणिज आयुष्मानानन्दो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 058.015. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 058.016. अथ ते वणिज उत्थायासनेभ्यह् एकांसमुत्तरासङ्गं कृत्वा येनायुष्मानानन्दस्तेनान्ञ्जलिं
प्रणम्य आयुष्मन्तमानन्दमिदमवोचन् -- किंचित्ते आर्यानन्द श्रुतं वर्षोषितो भगवान् कतमेषु जनपदेषु चारिकां चरिष्यतीति, यद्वयं तद्यात्रिकं भाण्डं समुदानीमहे ? धर्मता चैषा षण्महानगरनिवासिनो वणिजो यस्यां दिशि बुद्धा भगवन्तो गन्तुकामा भवन्ति, तद्यात्रिकभाण्डं समुदानयन्ति/ 058.020. स कथयति -- बुद्धं भगवन्तं किं न पृच्छथ ? दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः/ 058.021. न शक्नुमो वयं भगवन्तं प्रष्टुम्/ 058.021. ममापि भवन्तो दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः/ 058.022. अहमपि न शक्नोमि भगवन्तं प्रष्टुम्/ 058.022. यदि भदन्तानन्दस्यापि दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः, कथं भदन्तानन्दो जानीते ऽमुकां दिशं भगवान् गमिष्यतीति ? निमित्तेन वा भवन्तः परिकथया वा/ 058.024. कथं निमित्तेन ? यां दिशं भगवान् गन्तुकामस्ततो ऽभिमुखो निषीदति, एवं निमित्तेन/ 058.025. कथं परिकथया ? तेषां जनपदानां वर्णं भाषते, एवं परिकथया/ 058.026. कुतोमुखो भदन्तानन्द भगवान् निषीदति, कतमेषां च जनपदानां वर्णं भाषते ? मगधाभिमुखो भवन्तो भगवान् निषीदति, मागधकानां जनपदानां वर्णं भाषते/ 058.027. अपि तु भवन्तो ऽष्टादशानुशंसा बुद्धचारिकायाम्/ 058.028. कतमे ऽष्टादश ? नाग्निभ्यं नोदकभ्यं न सिंहभ्यं न व्याघ्रभ्यं न द्वीपितरक्षुपरचक्रभ्यं न चौरभयं न गुल्मतरपण्यातियात्राभ्यं न मनुष्यामनुष्यभयम्/ 058.030. कालेन च कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश् चावभासाः प्रज्ञ्न्यायन्ते, आत्मव्याकरणानि च श्रूयन्ते, धर्मसम्भोग
आमिषसम्भोगोऽ/ 058.031. पाबाधा च बुद्धचन्द्रिका//
059.001. <059>अथ संबहुलाः श्रावस्तीनिवासिनो वणिजह् आयुष्मतह् आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्ताः/ 059.003. धर्ता खलु बुद्धा भगवन्तो जीवन्तो ध्रियन्तो यापयन्तो महाकरुणया संचोद्यमानाः परानुग्रहप्रवृत्ताः कालेन कालमरण्यचारिकां चरन्ति, नदीचारिकां पर्वतचारिकां श्मशानचारिकां जनपद चारिकां चरन्ति/ 059.005. अस्मिंस्त्वर्थे बुद्धो भगवान् मगधेषु जनपदचारिकां चर्तुकामस्तदेव प्रवारणां प्रवारयित्वा आयुष्मन्तमानदामामन्त्रयते स्म -- गच्छ आनन्द, भिक्षूणामारोचय इतः सप्तमे दिवसे तथागतो मगधेषु जनपदेषु चारिकां चारिष्यति/ 059.007. यो युष्माकम् उत्सहते तथागतेन सार्धं जनपदचारिकां चर्तुम्, स चीवरकर्म करोतु/ 059.008. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति -- भगवानायुष्यन्त इतः सप्तमे दिवसे मगधेषु जनपदेषु चारिकां चरिष्यति/ 059.009. यो युष्माकमुत्सहते भगवता सार्धं मगधेषु जनपदेषु चारिकां चर्तुम्, स चीवरकर्म करोतु/ 059.011. अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः संबहुलैश्च श्रावस्तीनिवासिभिर्वणिग्ब्राह्मणगृहपतिभिः सार्धं मगधेषु जनपदेषु चारिकां प्रक्रान्तः//
059.013. अथ संबहुलाश्च श्रावस्तीनिवासिनो वणिजो येन भगवांस्तेनोपसंक्रान्ताः/ 059.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचन् -- अधिवासयत्वस्माकं भगवान् यावच्च श्रावस्ती यावच्च राजगृहम्, अत्रान्तरा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन/ 059.016. अधिवासयति भगवान् संबहुलानां श्रावस्तीनिवासिनां वणिजां तूष्णीभावेन/ 059.017. अथ संबहुलाः श्रावस्तीनिवासिनो वणिजो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः//
059.019. अथ संप्रस्थिते बुद्धे भगवति अन्तरा च श्रावस्तीमन्तरा च राजगृहम्, अत्रान्तरान्महाटव्यां चौरसहस्रं प्रतिवसति/ 059.020. अद्राक्षीत्तच्चौरसहस्रं भगवन्तं सार्थपरिवृतं भिक्षुसंघपुरस्कृतम्/ 059.021. दृष्ट्वा च पुनः परस्परं कथयन्ति -- गच्चतु भगवान् सश्रावकसंघः/ 059.021. शेषं सार्थं मुषि ष्यामः/ 059.022. इत्यनुविचिन्त्य सर्वे जवेन प्रसृता येन सार्थः/ 059.022. भगवता अभिहितह् -- किमेतद्भवन्तः समारब्धम् ? चौराः कथयन्ति -- वयं स्मो भदन्त चौरा अटवीचराः/ 059.023. नासमाकं कृषिर् न वाणिज्या न गौरक्ष्यम्/ 059.024. अनेनोपक्रमेण जीविकां कल्पयामः/ 059.024. गच्छतु भगवान् सश्रावकसंघः/ 059.024. शेषं सार्थं मुषिष्यामः/ 059.025. भगवानाह -- ममैष सार्थः संनिश्रितः/ 059.025. अपि तु सकलस्य सार्थस्य परिगणय्य सुवर्णं गृह्णीध्वम्/ 059.026. तथा भवत्विति चौरसहस्रेण प्रतिज्ञ्नातम्/ 059.026. अस्मिन् सार्थे ये उपासका विणिजस्तैः कृत्स्नस्य सार्थस्य मूल्यं गणय्य चौराणां निवेदितम् इयन्ति शतानि सहस्राणि चेति/ 059.028. ततस्तेषां चौराणां सार्थनिष्क्रयार्थं भगवता निधानं दर्शितम्/ 059.029. ततस्तेन चौरसहस्रेण सार्थमूल्यप्रमाणं सुवर्णं गृहीतम्, अवशिष्टं तत्रैवान्तर्हितम्/ 059.029. एवं भगवता सार्थश्चौरसहस्रात् प्रतिमोक्षितः//
059.031. अनुपूर्वेण भगवान् राजगृहमनुप्राप्तः/ 059.031. पुनरपि भगवान् सार्थपरिवृतो भिक्षुसंघ पुरस्कृतो राजगृहात् श्रावस्तीं संप्रस्थितः/ 059.032. तथैव चौरसहस्रसकाशात् सार्थो निष्क्रीतः/
060.001. <60>एवं द्वित्रिचतुष्पन्ञ्चषड्वारांश्च चैरसहस्रसकाशादागमनगमनेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्/ 060.002. सप्तं तु चारं भगवान् सार्थरहितो भिक्षुसंघपुरस्कृतः शावस्त्या राजगृहं संप्रस्थितः/ 060.003. अद्राक्षीच्चौरसहस्रं बुद्धं भगवन्तं सार्थविरहितं भिक्षुसंघपरिवृतम्/ 060.003. दृष्ट्वा च पुनः परस्परं संलपन्ति -- भगवान् गच्छतु, भिक्षुसंघं मुषिष्यांः/ 060.004. तत्कस्य हेतोह् ? एषो हि भगवान् सुवर्णप्रदः/ 060.005. इत्युक्त्वा सर्वजवेन प्रधाविता भिक्षून् मुषितुमारब्धाः/ 060.005. भगवता चाभिहिताह् -- वत्साः, मम एते श्रावकाः/ 060.006. चौराः कथयन्ति -- जानास्येव भगवान् -- वयं चौरा अटवीचराः/ 060.007. नास्माकं कृषिर् न वणिज्या न गौरक्ष्यम्/ 060.007. अनेन वयं जीविकां कल्पयामः/ 060.008. ततो भगवता चौराणां महानिधानं दर्शितम्, एवं चोक्ताह् -- वत्साः, यावदाप्तं धनं गृह्णीथेति/ 060.009. ततस्तेन चौरसहस्रेण तस्मान्महानिधानाद्यावदाप्तं सुवर्णमादत्तम्, अवशिष्टं तत्रैवान्तर्हितम्/ 060.010. अथ भगवांस्तच्चौरसहस्रम् यावदाप्तं धनेन संतर्पयित्वा ततो ऽनुपूर्वेण राजगृहमनुप्राप्तः/ 060.011. ततस्तेषां चौराणां बुद्धिरुत्पन्ना -- या काचिदस्माकं श्रीसौभाग्यसम्पत्, सर्वासौ बुद्धं भगवन्तमागम्य/ 060.012. यन्नु वयं भगवन्तं सश्रावकसंघमस्मिन् प्रदेशे भोजयेम इति/ 060.012. अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतां महाकारुणिकानामेकरक्षाणामेकवीराणामद्वयवादिनां शमथविपश्यनाविहारिणां त्रिविधदमथवस्तुकुशलानां चतुरृद्धिपादचरणतलसुप्रितिष्ठितानां
चतुरोघोत्तीर्णानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां दशबलबलिनां चतुर्वैशारद्यविशारदानामुदारार्षभसम्यक्सिंहनादनादिनां पन्ञ्चाङ्गविप्रहीणानां पन्ञ्चस्कन्ध विमोचकानां पन्ञ्चगतिसमतिक्रान्तानां षडायतनभेदकानां संघातविहारिणां षट्पारमितापरिपूर्णयशसां सप्तबोध्यङ्गकुसुमाढ्यानां सप्तसमाधिपरिष्कारदायकानामार्याष्टाङ्गमार्गदेशिकानामार्यमार्गपुद्गलनायकानां नवानुपूर्वसमापत्तिकुशलानां नवसम्योजनविसम्योजनकानां दशदिक्परिपूर्णयशसां दशशतवशवर्तिप्रतिविशिष्तानां त्रीरात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसेन बुद्धचक्षुषा लोकम् व्यवलोकयन्तिकस्यानवरोपितानि कुशलमूलान्यवरोपयामि, कस्यावरोपितानि विवर्धयामि, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, कं कृच्छ्रसंकटसम्बाधात् परिमोचयामि, को ऽपायनिंनः, को ऽपायप्रवणः, को ऽपायप्राग्भारः, कमहमपायाद् व्युत्थाप्य स्वर्गे मोक्षफले च प्रतिष्ठापयामि, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छामि, कस्य बुद्धोत्पादविभूषितं लोकं सफलीकरोमि, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्टापयेयम्, को हीयते को वर्धते/ 060.027. अप्येवातिक्रमेद्वेलां सागरो मकरालयः/ 060.028. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्//1//
060.029. यथा हि माता प्रियमेकपुत्रकं ह्यवेक्षते रक्षति चास्य जीवितम्/ 060.031. तथैव वैनेयजनं तथगतो ह्यवेक्षते रक्षति चास्य संततिम्//2//
061.001. <61>सर्वज्ञ्नसंताननिवासिनी हि कारुण्यधेनुर्मृगयत्यखिन्ना/ 061.003. वैनेयवत्सान् भवदुःखनष्टान् वत्सान् प्रणष्टनिव वत्सला गौः//3//
061.005. ततो भगवांस्तेषां चौराणां वैनेयकालमपेक्ष्य राजगृहादनुपूर्वेण भिक्षुगणपरिवृतो भिक्षुगणपुरस्कृतो दान्तो दान्तपरिवारः शान्तः शान्तपरिवारश्चन्दनश्चन्दनपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारः पूर्ववत् यावन्महाकरुणया समन्वागतस् तां सालाटवीमनुप्राप्तः/ 061.008. अद्राक्षीत्तच्चौरसहस्रं बुद्धं भगवन्तं सश्रावकसंघं दूरादेवागच्छन्तम्/ 061.008. दृष्ट्वा च पुनश्चित्तान्यभिप्रसाद्य येन भगवांस्तेनोपसंक्रान्तः/ 061.009. उपसंक्रम्य भगवतः पादयोर् निपत्य भगवन्तमिदमवोद्चन् -- अधिवासयतु अस्माकं भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन/ 061.011. अधिवासयति भगवांस्तस्य चौरसस्रस्य तूष्णीभावेन/ 061.011. अथ चौरसहस्रं भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकान् प्रक्रान्तम्//
061.013. अथ तच्चौरसहस्रं तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञ्नप्य उदकमणीन् प्रतिष्ठाप्य, भगवतो दूतेन कालमारोचयति -- समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यसे/ 061.015. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य चौरसहस्रस्य भक्ताभिसारस्तेनोपसंक्रान्तः/ 061.017. अथ तच्चौरसहस्रं बुद्धप्रमुखस्य भिक्षुसंघस्य चन्दनोदकेन पादौ प्रक्षालयामास/ 061.018. अथ भगवान् प्रक्षालितपाणिपादः पुरस्ताद्भिक्षुसंघस्य प्रज्ञ्नप्त एवासने निषण्णः/ 061.019. निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतराण्यासनानि गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय/ 061.019. अथ भगवता तेषामाशयानुशयं विदित्वा धातुं प्रकृतिं च ज्ञ्नात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा तेन चौरसहस्रेण तस्मिन्नेवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञ्नानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्/ 061.024. दृष्टसत्याश्च कथयन्ति -- इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञ्ना न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् नेष्टैर् न स्वजनबन्धुवर्गेण यदस्माभिर्भगवन्तं कल्याणमित्रमागम्य/ 061.025. उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापिता देवमनुष्येषु, पर्यन्तीकृतः संसारः, उच्छोषिता रुधिराश्रुसमुद्राः, उत्तीर्णा अश्रुसागराः,
लङ्घिता अस्थिपर्वताः/ 061.027. लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 061.028. चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्/ 061.028. ततो भगवता ब्रह्मेण स्वरेणाभिहिताह् -- एत वत्साः, चरत ब्रह्मचर्यम्/ 061.029. वाचावसाने भगवतो मुण्डाः संवृत्तस्त्रैधातुकवीतरागाः समलोष्टकान्ञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञ्नाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपरान्मुखाः/ 061.031. सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश्च संवृत्ताः//
062.001. <62>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह् -- पश्य भदन्त भगवता इदं चौरसहस्रं सप्तवारं धनेन संतर्पयित्वा अत्यन्तनिष्ठे ऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितम्/ 062.003. भगवानाह -- न भिक्षव एतर्हि, यथा अतीते ऽप्यध्वनि मया अस्यैव चौरसहस्रस्य सकाशादनेकभाण्डसहस्रः सार्थो निष्क्रीतः, न च शकिताः संतर्पयितुम्/ 062.004. ततो मया अनेकैर्दुष्करशतसहस्रैर्देवमनुष्यदुष्प्राप्यां शक्रब्रह्माद्यैरपि दुरधिगमां बदरद्वीपयात्रां वर्षशतेन साधयित्वा एतदेव चौरसहस्रमारभ्य कृत्स्नो जाम्बुद्वीपः सुवर्णरजतवैडूर्यस्फटिकाद्यै रत्नविशेषैर्मनोरथेप्सितैश्चोपकरणविशेषैः संतर्पयित्वा दशभिः कुशलैः कर्मपथैः प्रतिष्ठापितः/ 062.007. तच्छ्रुणुत -- भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव जम्बुद्वीपे वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति स्म ऋद्धं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगतम्/ 062.010. प्रियमिवैकपुत्रकमिव राज्यं कारयति/ 062.010. तेन खलु समयेन वाराणस्यां प्रियसेनो नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो वैश्रवणधनप्रतिस्पर्धी/ 062.012. तेन सदृशात् कुलात् कलत्रमानीतम्/ 062.012. स तया सार्धं क्रीडते रमते परिचारयति/ 062.013. अथ अन्यतम उदारपुण्यमहेशाख्यः सत्त्वो ऽन्यतमस्मात् प्रणीताद्देवनिकायाच्चयुत्वा तस्याः प्रजापत्याः कुक्षिमवक्रान्तः/ 062.014. पन्ञ्चावेणीया धर्मा इहैकत्ये पण्डितजातीये मातृग्रामे/ 062.015. कतमे पन्ञ्च? रक्तं
पुरुषं जानाति, कालं जानाति ऋतुं जानाति, गर्भमवक्रान्तं जानाति, यस्याः सकाशाद्गर्भो ऽवक्रामति तं जानाति, दारकं जानाति दारिकां जानाति/ 062.017. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति/ 062.017. सचेद्दारिका भवति, वामं कुक्षिंनिश्रित्य तिष्ठति/ 062.018. सा आत्तमनाः स्वामिन आरोचयति -- दिष्ट्या आर्यपुत्र वर्धस्व, आपन्नसत्त्वास्मि संवृत्ता/ 062.019. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति/ 062.020. सो ऽप्यात्तमनात्तमना उदानमुदानयति -- अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्/ 062.021. जातो मे स्यान्नावजातः/ 062.021. कृत्यानि मे कुर्यात्/ 062.021. भृतः प्रतिभरेत्/ 062.021. दायाद्यं प्रतिपद्येत/ 062.022. कुलवंशो मे चिरष्ठितिकः स्यात्/ 062.022. अस्माकं चाप्यतीतकालगतानामुद्दिश्य दानानि दत्वा पुण्यानि कृत्वा नांना दक्षिणामादिशेत् -- इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति/ 062.024. आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति -- उष्ण उष्णोपकरणैः शीते शीतोपकरणैर्वैद्यप्रज्ञ्नप्तैराहारैर् नातिशीतैर् नात्युष्णैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः/ 062.026. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मन्ञ्चान्मन्ञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्/ 062.027. न चास्याकिंचिदमनोज्ञ्नशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय/ 062.028. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 062.029. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः
कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासो दृढकठिनशरीरो महानग्नबलः/ 062.031. तस्य ज्ञ्नातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिरात्रिंदिवसानि तस्य जातस्य जातो महं कृत्वा नामधेयं व्यवस्थापयन्ति -- किं भवतु दारकस्य नाम? अयं दारकः प्रियसेनस्य <63>सर्थवाहस्य पुत्रः/
063.001. तद्भवतु दारकस्य नाम सुप्रिय इति/ 063.001. सुप्रियो दारको ऽष्टाभ्यो धात्रीभ्य उपन्यस्तो द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्/ 063.003. सो ऽष्टाभिर्धात्रीभुरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैष्चोत्तप्तोत्तपैरुपकरणविशेषैः/ 063.004. आशु वर्धते ह्रदस्थमिव पङ्कजम्//
063.005. यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः/ 063.005. संख्यायां गणनायां मुद्रायामुद्धारे न्यासे 063.006. निक्षेपे हस्तिपरीक्षायामश्वपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां वस्त्रपरीक्षायां पुरुषपरीक्षायां स्त्रीपरीक्षायाम्/ 063.007. नानापण्यपरीक्षासु पर्यवदातः सर्वशास्त्रज्ञ्नः सरवकलाभिज्ञ्नः सर्वशिल्पज्ञ्नः सर्वभूतरुतज्ञ्नः सर्वगतिगतिज्ञ्नह् उद्धट्टको वाचकः पण्डितः पटुप्रचारः परमतीक्ष्णनिशितबुद्धिः संवृत्तो ऽग्निकल्प इव ज्ञ्नानेन/ 063.009. स यानि तानि राज्ञ्नां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरुधनुःषु उपयाने निर्याणे ऽङ्कुशग्रहे तोमरग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधेऽक्षुण्णवेधे मर्मवेधे दृढप्रहारितायाम्/ 063.013. पन्ञ्चसु स्थानेषु कृतावी संवृत्तः/ 063.013. धर्मता चैषा -- न तावत् पुत्रस्य नाम निर्गच्छति यावत् पिता ध्रियते/ 063.014. अथापरेण समयेन प्रियसेनः सार्थवाहो ग्लानीभूतः/ 063.014. स मूलगण्डपुत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव/ 063.016. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः/ 063.017. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्//4//
063.018. इति स कालधर्मेण सम्युक्तः/ 063.018. कालगते प्रियसेने सार्थवाहे ब्रह्मदत्तेन काशिराज्ञ्ना सुप्रियो महासार्थवाहत्वे ऽभिषिक्तः/ 063.019. तेन सार्थवाहभूतेन इयमेवम्रूपा महाप्रतिज्ञ्ना कृता -- सर्वत्त्वा मया धनेन संतर्पयितव्याः/ 063.020. अल्पं च देयं बहवश्च याचकाः/ 063.020. ततो ऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्/ 063.021. अथ सुप्रियो महासार्थवाहः संलक्षयति -- अल्पं च देयं बहवश्च याचकाः/ 063.022. ततो ऽल्पैरहोभिस्तद्धनं परिक्षयं पर्यादानं गतम्/ 063.022. यन्न्वहं सामुद्रम् यानपात्रं समुदानीय महासमुद्रमवतरेयं धनहारिकः/ 063.023. ततः सुप्रियो महासार्थवाहः सामुद्रयानपात्रं समुदानीय पञ्चमात्रैर्वणिक्शतैः सार्धं महासमुद्रमवतीर्णः/ 063.024. ततो ऽनुपूर्वेण रत्नद्वीपं गत्वा रत्नसंग्रहं कृत्वा स्वस्तिक्षेमाभ्यां महासमुद्रादुत्तीर्य स्थलजैर्वहित्रैर्भाण्डमारोप्य वाराणस्यभिमुखः संप्रस्थितः/ 063.026. अटवीकान्तारमध्यगतश्चौरसहस्रेणासादितः/ 063.026. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः/ 063.027. सुप्रियेण च सर्वाहेनावलोक्याभिहिताह् -- किमेतद्भवन्तः समारब्धम्? चौराः कथयन्ति -- सार्थवाह, त्वमेकः स्वस्तिक्षेमाभ्यां गच्छ, अवशिष्टं सार्थं भुषिष्यामः/ 063.028. सार्थवाहः कथयति ममैष भवन्तः सार्थः संनिश्रितः/ 063.029. नार्हन्ति भवन्तो मुषितुम् । एवमुक्ताश्चौराः कथयन्ति -- वयं स्मः सार्थवाहचौरा अटवीचराः/ 063.030. नास्माकं कृषिर् न वाणिज्या न गौरक्ष्यम्/ 063.030. अनेन वयं जीविकां कल्पयामः/ 063.031. तेषां सुप्रियः सार्थवाहः कथयति -- सार्थस्य मूल्यं भवन्तो गण्यताम्/ 063.032. अहमेषामर्थे मूल्यं दास्यामीति/ 063.032. ततस्ते वणिजः परस्परं मूल्यं गणयित्वा चौराणां निवेदयन्ति<64> -- इयन्ति शतानि सहस्राणि चेति/
064.001. ततः सुप्रियेण सार्थवाहेन भाण्डनिष्क्रयार्थे स्वं द्रव्यमनुप्रदत्तम्/ 064.002. चौरसकाशात् सार्थः परित्रातः/ 064.002. एवं द्विस्त्रिश्चतुःपन्ञ्चषड्वारांस् तस्यैव चौरसहस्रस्य सकाशात् सुप्रियेण सार्थवाहेन सार्थः परित्रातो मूल्यं चानुप्रदत्तम्/ 064.003. यावत् सप्तं तु वारं सुप्रियः सार्थवाहो महासमुद्रमवतीर्णः/ 064.004. ततः संसिद्धयानपात्रो ऽभ्यागतो ऽटवीकान्तारमध्यगतस्तेनैव चौरसहस्रेणासादितः/ 064.005. ततस्ते चौरा मुषितुकामाः सर्वजवेन प्रसृताः/ 064.006. सुप्रियेण च सार्थवाहेनावलोक्याभिहिताह् -- सुप्रियो ऽहं भवन्तः सार्थवाहः/ 064.006. चौराः कथयन्ति -- जानास्येव महासार्थवाह वयं चौरा अटवीचराः/ 064.007. नास्माकं कृषिर् न वाणिज्यं न गौरक्ष्यम्/ 064.008. अनेन वयं जीविकां कल्पयामः/ 064.008. ततः सुप्रियेण सार्थवाहेन पूर्विकां प्रतिज्ञ्नामनुस्मृत्य दृढप्रतिज्ञ्नेन तस्य चौरसहस्रस्य भाण्डमनुप्रदत्तम्/ 064.009. सुप्रियो महासार्थवाहः संलक्षयति -- इमे चौरा लब्धं लब्धमर्थजातसंनिचयं कुर्वन्ति/ 064.010. मया च महती प्रतिज्ञ्ना कृता सर्वसत्त्वा धनेन मया संतर्पयितव्या इति/ 064.011. सो ऽहमिमं चौरसहस्रं न शक्नोमि धनेन संतर्पयितुम्/ 064.011. कथं पुनः सर्वसत्त्वान् धनेन संतर्पयिष्यामीति चिन्तापरो मिद्धमवक्रान्तः//
064.013. अथ तस्य महात्मन उदारपुण्यमहेशाख्यस्योदारचेतसोपपन्नस्य सर्वसत्त्वमनोरथपरिपूरकस्य लोकहितार्थमभ्युद्गतस्य अन्यतरा महेशाख्या देवता उपसंक्रम्य समाश्वासयति -- मा त्वं सार्थवाह खेदमापद्यस्व/ 064.015. ऋद्धिष्यति ते प्रणिधिरिति/ 064.015. अस्ति खलु महासार्थवाह अस्मिन्नेव जम्बुद्वीपे बदरद्वीपो नाम महापत्तनो ऽमनुष्यावचरितो महेशाख्यमनुष्याधिष्ठितः/ 064.016. सन्ति तस्मिन् बदरद्वीपे प्रधानानि रत्नानि सर्वसत्त्वविचित्रमनोरथपरिपूरकाणि/ 064.017. यदि महासार्थवाहो बदरद्वीपयात्रां साधयेत्, एवमिमां महतीं प्रतिज्ञ्नां प्रतिनिस्तरेत/ 064.018. इयं हि महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुस्तरा, प्रगेव मनुष्यभूतस्य/ 064.019. इत्युक्तवा सा देवता तत्रैवान्तर्हिता/ 064.019. न च शकिता सुप्रियेण महासार्थवाहेन सा देवता प्रष्टुम् -- कतरस्यां दिशि बदरद्वीइपः कथं वा तत्र गम्यत इति/ 064.021. अथ सुप्रियस्य सात्र्थवाहस्य सुप्तप्रतिबुद्धस्य एतदभवत् -- अहो बत मे सा देवता पुनरपि दर्शयेत्, दिशं चोपायं च व्यपदिशेद् बदरद्वीपमहापत्तनस्य गमनायेति चिन्तापरो मिद्धमवक्रान्तः/ 064.023. अथ सा देवता तस्य महात्मन उदारपुण्यमहेशाख्यस्य दृढोदारप्रतिज्ञ्नस्योदारवीर्यपराक्रमनामनिक्षिप्तोत्साहतां विदित्वा उपसंक्रम्य एवमाह -- मा त्वं सार्थवाह खेदमापद्यस्व/ 064.025. अस्ति खलु महासार्थवाह पश्चिमे दिग्भागे पन्ञ्चान्तरद्वीपशतानि समतिक्रम्य सप्त महापर्वताः, उच्चैश्च प्रगृहीताश्च सप्त च महानद्यः/ 064.026. तान् वीर्यबलेन लङ्घयित्वा अन्तरोद्दानमनुलोमप्रतिलोमद्वयमावर्तः शङ्खनाभः
शङ्खनाभी च नीलोदस्तारकाक्षश्च पर्वतौ नीलग्रीव एव च वैरम्भा ताम्राटवी वेम्णुगुल्मः सप्त पर्वताः सकण्टकाः क्षारनदी त्रिशङ्कुह् अयस्किलमष्टादशवक्रो नदीश्लक्ष्ण एव च धूमनेत्रमुदकं सप्तशीविषपर्वता नदी भवति पश्चिमा/ 064.029. अनुलोमो प्रतिलोमो नाम महासमुद्रः/ 064.030. अनुलोमप्रतिलोमे महासमुद्रे मनुष्यानवचरिते अनुलोमप्रतिलोमा वायवो वान्ति/ 064.031. तत्र यो ऽसौ पुरुषो भवति महेशाख्यो महेशाख्यदेवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन महान्तं प्लवमास्थाय अनुलोमप्रतिलोममहासमुद्रमवतरति<65>/
065.001. स यन्मासेन गच्छति, तदेकेन दिवसेन प्रत्याह्रियते/ 065.001. एवं द्विस् त्रिः/ 065.001. ह्रियमाणश्च प्रत्याह्रियमाणश्च यदि मध्यमामुदकधारां प्रतिपद्यते, एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गम्योत्तरति, निस्तरति, अभिनिष्क्रमति/ 065.003. अनुलोमप्रतिलोमं महासमुद्रं समतिक्रम्य अनुलोमप्रतिलोमो नाम पर्वतः/ 065.004. अनुलोमप्रतिलोमे महापर्वते ऽमनुष्यावचरिते ऽनुलोमप्रतिलोमा नाम वायवो वान्ति, यैः पुरुषस्तिमिरीकृतनेत्रो नष्टसंज्ञ्नः संतिष्ठते/ 065.005. स वीर्यबलेनात्मानं संधार्य तस्मादेव महापर्वतादमोघां नामौषधीं समन्विष्य गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनुलोमप्रतिलोमं नाम महापर्वतमभिनिष्क्रमितव्यम्/ 065.007. सचेदेतं विधिमनुतिष्ठते, नास्य संमोहो भवति, स्वस्तिक्षेमेणातिक्रमत्यनुलोमप्रतिलोमं महापर्वतम्/ 065.008. सचेदेवं विधिं वा नानुतिष्ठति औषधीं वा न लभते, लब्ध्वा वा न गृह्णाति, स षण्मासान् मुह्यति, उन्मादमपि प्राप्नोति, उच्छ्रित्य वा कालं करोति/ 065.010. अनुलोमप्रतिलोमं महापर्वतं समतिक्रम्य आवर्तो नाम महासमुद्रः/ 065.011. तत्र वैरम्भका वायवो वान्ति यैस्तदुदकं भ्राम्यते/ 065.011. तत्र यो ऽसौ पुरुषो भवत्युदारपुण्यविपाकमहेशाख्यो देवतापरिगृहीतः, स महता पुण्यबलेन वीर्यबलेन चित्तबलेन कायबलेन महान्तं प्लवमास्थाय आवर्तं महासमुद्रमवरति/ 065.013. स एकस्मिन्नावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते/ 065.014. योजनं गत्वा द्वितीये आवर्ते उन्मज्जते/ 065.015. स तस्मिन्नप्यावर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते/ 065.015. एवं द्वितीये
तृतीये चतुर्थे पन्ञ्चमे षष्ठे आवर्ते सप्तकृत्वो भ्रामयित्वा निरुध्यते, योजनं गत्वा उन्मज्जते/ 065.016. एवमसौ मैत्रीबलपरिगृहीतो लोकहितार्थमभ्युद्गत उत्तरति निस्तरत्यभिनिष्क्रामति/ 065.017. आवर्तं महासमुद्रमभिनिष्क्रम्य आवर्तो नाम पर्वतो ऽमनुष्यावचरितः/ 065.018. तत्र शङ्खो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरो महाबलो महाकायः/ 065.019. तस्योपरिष्टाद्योजनमात्रे शङ्खनाभी नामौषधी दिवा धूमायते रात्रौ प्रज्वलति/ 065.020. सा नागपरिगृहीता तिष्ठति/ 065.020. स खलु नागो दिवा स्वपिति रात्रौ चरति/ 065.020. तत्र तेन पुरुषेण दिवा सुखसुप्तस्य नागस्य आत्मानं समनुरक्षता नागशरीरमविहेठयता औषधिबलेन मन्त्रबलेन पुण्यबलेन शङ्खनाभी औषधी ग्रहीतव्या/ 065.022. गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य आवर्तः पर्वतो ऽधिरोढव्यः/ 065.023. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमेणातिक्रामति आवर्तं पर्वतमविहेठितः शङ्खनाभेन राक्षसेन/ 065.024. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं शङ्खनाभो राक्षसः पन्ञ्चत्वमापादयति/ 065.025. आवर्तं पर्वतमतिक्रम्य नीलोदो नाम महासमुद्रः/ 065.026. गम्भीरो ऽयं गम्भीरावभासः/ 065.026. नीलोदे महासमुद्रे ताराक्षो नाम राक्षसः प्रतिवसति रक्तनेत्रः प्रदीप्तशिरोरुहो विकृतचरणदशननयनः पर्वतायतकुक्षिः/ 065.027. सचेत् स्वपिति, विवृतान्यस्य नेत्राणि भवन्ति, तद्यथा अचिरोदितो भास्करः/ 065.028. औदारिकाश्चास्य आश्वासप्रश्वासा गुरुगुरुकाः प्रवर्तन्ते यथा मेघस्य गर्जतो ऽशन्यां च स्फूर्जत्यां
शब्दः/ 065.030. यदा जागर्ति, निमीलितान्यस्य भवन्ति नेत्राणि/ 065.030. तत्र तेन पुरुषेण तस्मादेव समुद्रकूलान्महामकरिनामौषधीं समन्विष्य गृह्य नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य महानतं प्लवमास्थाय सुप्तं ताराक्षं दकराक्षसं विदित्वा पूर्वबुद्धभाषितामेरण्डां नाम महाविद्यामुच्चारयता <66>मन्त्रपदां दकराक्षससमीपेन गन्तव्यम्
066.001. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं ताराक्षो दकराक्षस ओजं वा घट्टयति, चित्तं वा क्षिपति, सर्वेण वा सर्वं जीविताद्व्यपरोपयति/ 066.003. नीलोदं महासमुद्रं समतिक्रम्य नीलोदो नाम महापर्वतः/ 066.003. तत्र नीलग्रीवो नाम राक्षसः प्रतिवसति पन्ञ्चशतपरिवार उग्रतेजा रौद्रः परप्राणहरः/ 066.004. नीलोदो महापर्वत एकनीलो ऽखण्डो ऽच्छिद्रो ऽसुषिरः संवृत एकघनः/ 066.005. अपीदानीमनिमिषं पश्यतो नेत्राणि व्याबाधयते, मूर्च्छां च संजनयति/ 066.006. तस्योपरिष्टाद्योजनमात्रे ऽमोघा नामौषधी विचित्ररूपा/ 066.007. सा नागपरिगृहीता तिष्ठति/ 066.007. स खलु नागो दृष्टिविषो ऽपि श्वासविषो ऽपि स्पर्शविषो ऽपि दंष्ट्राविषो ऽपि/ 066.008. यदा स्वपिति, तदा धूमायते/ 066.008. यः खलु तेन धूमेन मृगो वा पक्षी वा स्पृश्यते, स पन्ञ्चत्वमापद्यते/ 066.009. तत्र तेन पुरुषेण शिरःस्नातेनोपोषितेन मैत्रायता करुणायता अव्यापन्नेन चित्तेनात्मानं समनुरक्षता नागशरीरमविहेठयता औषधी ग्रहीतव्या/ 066.010. नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य अनेन विधिना जानतानुष्ठितेन नीलोदः पर्वतो ऽभिरोढव्यः/ 066.011. तिमिरं न भविष्यति, मूर्च्छा च न भविष्यति/ 066.012. न चास्य गुह्यकाः शरीरे प्रहरिष्यन्ति/ 066.012. सचेदेतां विधिं नानुतिष्ठति, औषधीं वा न लभते, लब्धां वा न गृह्णाति, तमेनं नीलग्रीवो राक्षसः पन्ञ्चत्वमापादयिष्यति/ 066.014. नीलोदं पर्वतं समतिक्रम्य वैरम्भो नाम महासमुद्रः/ 066.014. वैरम्भे महासमुद्रे वैरम्भा नाम वायवो वान्ति यैस्तदुदकं
क्षोभ्यते, यत्रागतिर्मकरकच्छपवल्लकशिशुमारादीनां प्रेतपिशाचकुम्भाण्डकटपूतनादीनां कः पुनर्वादो मनुष्याणाम्/ 066.016. तमुत्सृज्य उत्तरेण वैरम्भस्य महासमुद्रस्य महती ताम्राटवी अनेकयोजनायामविस्तारा/ 066.017. तस्यास्ताम्राटव्या मध्ये महत् सालवनं महच्चोदपानम्/ 066.018. तत्र ताम्राक्षो नाम अजगरः प्रतिवसति रौद्रः परप्राणहरः परमदुर्गन्धः पन्ञ्चयोजनायामः/ 066.019. स षण्मासान् स्वपिति/ 066.019. यदा स्वपिति, तदा अस्य योजनं सामन्तकेन लालास्य स्फरित्वा/ 066.020. तिष्ठति, यदा जागर्ति, अल्पास्य लाला भवति/ 066.020. तस्योपरिष्टान्महान् वेणुगुल्मः/ 066.021. तस्मिन् वेणुगुल्मे महत्यश्मशिला/ 066.021. तां विर्यबलेन उत्पाट्य गुहा/ 066.021. तस्यां गुहायां संमोहनी नामौषधी/ 066.022. सा रात्रिंदिवसं प्रज्वलति/ 066.022. तां गृहीत्वा नेत्रे अन्ञ्जयित्वा शिरसि बद्ध्वा समालभ्य सुप्तं ताम्राक्षमजगरं विदित्वा औषधीबलेन मन्त्रबलेन वा अजगरभवनसमीपेन गन्तव्यम्/ 066.024. सचेदेतां विधिमनुतिष्ठति, स्वस्तिक्षेमाभ्यामतिक्रम्य अविहेठितस्ताम्राक्षेणाजगरेण ततः पश्चान्मूलफलानि भक्षयता गन्तव्यम्/ 066.025. महतीं ताम्राटवीमतिक्रम्य सप्त पर्वताः कण्टकवेणुप्रतिच्छन्नाः/ 066.026. तत्र तेन पुरुषेण ताम्रपट्टैः पादौ बद्ध्वा तान् पर्वतान् वीर्यबलेन लङ्घयित्वा सप्त क्षारनद्यः/ 066.027. तासां तीरे महाशाल्मलीवनम्/ 066.027. ततः शाल्मलीफलकैः प्लवं बद्ध्वा अभिरुह्यातिक्रमितव्या अस्पृशता पानीयम्/ 066.028. सचेत् स्पृशेत्, तदङ्गं शीर्यते/ 066.028. सप्त क्षारनदीः समतिक्रम्य त्रिशङ्कुर् नाम पर्वतः/ 066.029. त्रिशङ्कौ पर्वते
त्रिशङ्कवो नाम कण्टकास्तीक्ष्णाः सुतीक्ष्णाः/ 066.030. ततस्तेन पुरुषेण ताम्रपट्टैर्वेत्रपाशैः पादौ बद्ध्वा अतिकरमितव्यम्/ 066.030. त्रिशङ्कुपर्वतमतिक्रम्य त्रिशङ्कुर् नाम नदी/ 066.031. त्रिशङ्कवो नाम कण्टकास्तीक्ष्णा अष्टादशाङ्गुला उदके ऽन्तर्गतास्तिष्ठन्ति/ 066.031. तत्र तेन पुरुषेण शाल्मलीफलकैः प्लवं बद्ध्वा अतिक्रमितव्यमस्पृशता पानीयम्/ 066.032. सचेत् पतति, <67>तत्रैवानयेन व्यसनमापद्यते/
067.001. यथा त्रिशङ्कुः पर्वतः, एवं त्रिशङ्कुका नाम नदी/ 067.001. एवमयस्किलः पर्वतो ऽयस्किला नाम नदी/ 067.002. अयस्किलानदीमतिकर्म्य अष्टादशवक्रो नाम पर्वतः/ 067.003. उच्छ्रितश्च सर्वतः संवृतो ऽद्वारकश्च/ 067.003. अस्य न किंचित् निस्तरणमन्यत्र वृक्षाग्राद् वृक्षमधिरुह्य गन्तव्यम्/ 067.004. अष्टादशवक्रं पर्वतमतिक्रम्य अष्टादशवक्रिका नाम नादी ग्राहमकराकुला संवृता च/ 067.005. तत्र वेत्रपाशं बद्ध्वा अतिक्रमितव्यम्/ 067.005. सचेत् पतति, अनयेन व्यसनमापद्यते/ 067.006. अष्टादशवक्रिकां नदीमतिक्रम्य श्लक्ष्णो नाम पर्वतः/ 067.006. श्लक्ष्णः पर्वतो मृदुरुच्छ्रितो ऽद्वारकश्च/ 067.007. न चास्य किंचिन्निस्तरणम्/ 067.007. तत्रायस्कीलानां कोट्यातिक्रमितव्यम्/ 067.007. श्लक्ष्णं पर्वतमतिक्रम्य श्लक्ष्णा नाम नदी ग्राहमकराकुला/ 067.008. संवृता च सा नदी/ 067.008. तत्र वेत्रपाशान् बद्ध्वा अतिकरमितव्यम्/ 067.009. सचेत् पतति, अनयेन व्यसनमापद्यते/ 067.009. श्लक्ष्णां नदीमतिक्रम्य धूमनेत्रो नाम पर्वतो धूमायते संधूमायते/ 067.010. येन खलु तेन धूमेन मृगा वा पक्षिणो वा स्पृश्यन्ते, पन्ञ्चत्वमापद्यन्ते/ 067.011. धूमनेत्रः पर्वत उच्छ्रितो महाप्रपातो ऽद्वारकश्च/ 067.011. तत्र तेन पुरुषेण गुहा पर्येषितव्या/ 067.012. गुहां समन्विष्य तेनात्र गुहाद्वारमौषधिबलेन मन्त्रबलेन च मोक्तव्यम् /
067.012. सा च खलु गुहा आशीविषपरिपूर्णा तिष्ठति/ 067.013. ते खलु आशीविषा दृष्टिविषा अपि, स्पर्शविषा अपि/ 067.014. धूमनेत्रस्य पर्वतस्योपरिष्टान्महदुदकपल्वलम्/ 067.014. तस्मिन्नुदकपल्वले महत्यश्मशिला/ 067.014. तां वीर्यबलेनओत्पाट्य गुहा/ 067.015. तस्यां गुहायां संजीवनी नामौषधी ज्योतीरसश्च मणिर्दीपप्रभासः/ 067.016. तामौषधीं गृहीत्वा सशीर्षपादं समालभ्य तां चौषधीं गृहीत्वा गुहा प्रवेष्टव्या/ 067.016. औषधीबलेन मन्त्रबलेन औषधीप्रभावाच्चाशीविषाः काये न क्रमिष्यन्ति/ 067.017. एवं हि तस्मात् पर्वतान्निस्तरणं भविष्यति/ 067.018. धूमनेत्रपर्वतमतिक्रम्य सप्ताशीविषपर्वताः/ 067.018. औषधीबलेन मन्त्रबलेन च सप्ताशीविषपर्वता अतिक्रमितव्याः/ 067.019. सप्ताशीविषपर्वतानतिक्रम्य सप्तशीविषनद्यः/ 067.019. तीक्ष्णगन्धा नाम तत्राशीविषाः/ 067.020. तत्र तेन पुरुषेण मांसपेश्यन्वेषितव्या/ 067.020. तासामाशीविषनदीनां तीरे शाल्मलीवनम्/ 067.021. ततः शाल्मलीफलकैः प्लवं बद्ध्वा मांसपेश्या आत्मानमाच्छाद्य अधिरोढव्यम्/ 067.022. ततस्ता आशीविषा मांसगन्धेन पारात् पारं गमिष्यन्ति/ 067.022. सप्ताशीविषमतिक्रम्य महान् सुधावदातः पर्वतः, उच्चश्च प्रगृहीतश्च/ 067.023. सो ऽधिरोढव्यस् तत्र द्रक्ष्यसि महान्तं सौवर्णभूमिं पृथिवीप्रदेशं पुष्पफलच्छायावृक्षोपशोभितम्/ 067.024. रोहितकाञ् जनपदान् ऋद्धांश्च क्षेमांश्च सुभिक्षांश्च आकीर्णबहुजनमनुष्यांश्च/ 067.025. रोहितकं च महानगरं द्वादशयोजनायामं सप्तयोजनविस्तृतं सप्तप्राकारपरिक्षिप्तं द्वाषष्टिद्वारोपशोभितं भवनशतसहस्रविराजितं
सुविविक्तरथ्यावीथिचत्वरशृङ्गाटकान्तरापणम्/ 067.027. वीणा वल्लिका महती सुघोषकैः श्रोत्राभिरामैश्च गीतध्वनिभिरनुपरतप्रयोगं नानापण्यसंवृद्धं नित्यप्रमुदितजनौघसंकुलं त्रिदशेन्द्रोपेन्द्रसदृशोद्यानसभापुष्करिणीसम्पन्नं कादम्बहंसकारण्डवचक्रवाकोपशोभिततडागं रोहितकं महाराजाध्युषितं महापुरुषवणिग्निसेवितम्/ 067.030. यत्र मघः सार्थवाहः प्रतिवसति अभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो मेधावी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी द्वीपान्तरद्वीपगमनविधिज्ञ्नो महासमुद्रयानपात्रयायी<68>/
068.001. स ते बदरद्वीपमहापत्तनस्य प्रवृत्तिमाख्यास्यति, निमित्तानि, च दर्शयिष्यति/ 068.002. यथोक्तं च विधिमनुष्ठास्यसि, न च खेदमापत्स्यसे/ 068.002. एवं महासार्थवाह परमदुष्करकारक इमां सुमेरुमलयमन्दरसदृशीं दृढां प्रतिज्ञ्नां निस्तरिष्यसि/ 068.003. इयं च महाप्रतिज्ञ्ना शक्रब्रह्मादीनामपि दुष्करा, प्रागेव मनुष्यभूतानाम्//
068.005. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता/ 068.005. अथ सुप्रियः सार्थवाहः सुप्तप्रतिबुद्धो देवतावचनं श्रुत्वा परमविस्मयमापन्नश्चिन्तयति -- नूनमनया देवतया अनेकैरेवंविधैः परमदुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा भविष्यति/ 068.007. यदि तावत् साधिता, दुष्करकारिका इयं देवता/ 068.008. अथ साध्यमाना, दृष्टाः परमदुष्करकारकास्ते मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधिता/ 068.009. अतिदुष्करं चैतदस्माभिः करणीयम्/ 068.009. अथवा यद्यप्यहं लोकहितार्थे प्रतिपद्येयम्, सफलो मे परिश्रमः स्यात्/ 068.010. यथा अनेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनयात्रां सधयिष्यामि, परं लोकानुग्रहं करिष्यामि/ 068.011. ते ऽपि मनुष्याः, यैरनेकैर्दुष्करशतसहस्रैर्बदरद्वीपयात्रा साधितपूर्वा/ 068.012. अहमपि मनुष्यः/ 068.012. तैः साधिता/ 068.012. कस्मादहं न साधयिष्यामीत्यनुविचिन्त्य सुप्रियो महासार्थवाहो दृढप्रतिज्ञ्नो दृढवीर्यपराक्रमो ऽनिक्षिप्तोत्साह उदारपुण्यविपाकमहेशाख्यो/ 068.014. लोकहितार्थमभ्युद्गतो यथोपदिष्टोद्देशस्मृतिपरिगृहीतो दृढप्रतिज्ञ्नां समनुस्मृत्य महता वीर्यबलेन एकाकी अद्वितीयव्यवसायो यथोपदिष्टानि पन्ञ्चान्तरद्वीपशतानि समतिक्रामति/ 068.016. सप्त महापर्वतान्, सप्त महानद्यो विस्तरेण सर्वाणि संकटानि यथोक्तेन विधिना मूलकन्दफलाहारो गुणवति फलके बद्ध्वा परिपूर्णैर्द्वादशभिर्वर्षै रोहितकं महानगरमनुप्राप्तः/ 068.018. उद्याने स्थित्वा अन्यतमं पुरुषमामन्त्रयते -- कश्चिद्भोः पुरुष अस्मिन् रोहितके महानगरे मघो नाम सार्थवाहः प्ररिवसति?
स एवमाह -- अस्ति भोः पुरुष/ 068.019. किं तर्हि महाव्याधिना ग्रस्तः/ 068.020. स्थानमेतद्विद्यते यत्तेनैवाबाधेन कालं करिष्यतीति/ 068.020. अथ सुप्रियस्य महासार्थवाहस्यैतदभवत् -- मा हैव मघो महासार्थवाहो ऽदृष्ट एव कालं कुर्यात्/ 068.021. को मे व्यपदेशं करिष्यति तस्य बदरद्वीपमहापत्तनस्य गमनायेति विदित्वा त्वरितत्वरितम् येन मघस्य सार्थवाहस्य निवेशनं तेनोपसंक्रान्तः/ 068.023. स द्वारे निवार्यते, न लभते प्रवेशं महासार्थवाहदर्शनाय/ 068.024. धर्मता खलु कुशला बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु/ 068.024. ततो वैद्यसंज्ञ्नां घोषयित्वा प्रविष्टः/ 068.025. अद्रक्षीत् सुप्रियो महासार्थवाहो ऽरिष्टाध्यायेषु विदितवृत्तान्तह् -- मघः सार्थवाहः षड्भिर्मासैः कालं करिष्यतीति विदित्वा सुप्रियो महासार्तह्वाहो ऽधीत्य वैद्यमतानि स्वयमेव मूलगण्डपत्रपुष्पफलभैषज्यान्यानुलोमिकानि व्यपदिशति स्म व्याधिव्युपशमार्थम्/ 068.028. परं चैनं तोषयति चित्राक्षरव्यन्ञ्जनपदाभिधानैः, शास्त्रबद्धाभिः, कथाभिः, नानाश्रुतिमनोरथाख्यायिकाभिः संरन्ञ्जयति/ 068.029. दाक्ष्यदाक्षिण्यचातुर्यमाधुर्योपेतमुपस्थानकर्मणि सत्पुत्र इव पितरं भक्त्या गौरवेण शुश्रूषते/ 068.030. ततो मघस्य सार्थवाहस्य क्षेमणीयतरं चाभूद्यापनीयतरं च/ 068.031. संज्ञ्ना अनेन प्रतिलब्धा/ 068.031. अथ मघो महासार्थवाहः प्रतिलब्धसंज्ञ्नः सुप्रियं महासार्थवाहमिदमवोचत् -- कुतो भवाञ् ज्ञ्नानविज्ञ्नानसम्पन्नो ऽभिरूपो दर्शनीयः प्रासादिकः पण्डितो व्यक्तो <69>मेधावी पटुप्रचारः सर्वशास्त्रज्ञ्नः सर्वशास्त्रविशारदः
सर्वकलाभिज्ञ्नः सर्वभूतरुतज्ञ्न इङ्गितज्ञ्न? किं जात्या भवान्? किंगोत्रह्? केन वा कारणेन अमनुष्यावचरितं देशमभ्यागतह्? एवमूक्तः सुप्रियः सार्थवाहः कथयति -- साधु साधु महासार्थवाह/
069.003. काले ऽस्मि महासर्थवाहेन जातिकुलगोत्रागमनप्रयोजनं पृष्टः/ 069.004. अथ सुप्रियो महासार्थवाहो मघाय सार्थवाहाय जातिकुलगोत्रागमनप्रयोजनं विस्तरेणारोचयति स्म, परं चैनं विज्ञ्नापयति -- सार्वाहानुभावादहं बदरद्वीपमहापत्तनं पश्येयम्/ 069.006. एवमहं स्यात् परिपूर्णमनोरथो निस्तीर्णदृढप्रतिज्ञ्नः सर्वसत्त्वमनोरथपरिपूरकः/ 069.007. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्याश्रुतपूर्वां परहितार्थमभ्युद्यतां दृढप्रतिज्ञ्नां श्रुत्वा परमविस्मयजातो ऽनिमिषदृष्टिः सुचिरं निरीक्ष्य सुप्रियं महासार्थवाहमिदमवोचत् -- तरुणश्च भवान् धर्मकामश्च/ 069.009. आश्चर्यममानुषपराक्रमं ते पश्यामि, यो नाम भवाञ् जम्बुद्वीपादमनुष्यावचरितं पर्वतसमुद्रनद्योत्तरणं कृत्वा इहागतः, यत्रामनुष्याः प्रलयं गच्छन्ति, प्रागेव मनुष्याः/ 069.011. देवं तद्भवन्तं पश्यामि देवान्यतमं वा मनुष्यवेषधारिणम्/ 069.012. न ते किंचिद्दुस्तरमसाध्यं वा/ 069.012. अपि तु अहं महाव्याधिना ग्रस्तो मुमूर्षुः/ 069.012. भवांश्चायातः/ 069.013. अपि तु को भवतो ऽर्थे परहितार्थे ऽभ्युद्यतस्यात्मपरित्यागमपि न कुर्यात्? तेन हि वत्स क्षिप्रं मङ्गलपोतं समुदानय, संवरं चारोपय, यदावयोर्यात्रायनं भविष्यतीति/ 069.014. एवं सार्थवाहेति सुप्रियो महासार्थवाहो मघाय महासार्थवाहाय प्रतिश्रुत्य मङ्गलपोतं समुदानीय संवरं चारोप्य येन मघो महासार्थवाहस्तेनओपसंक्रान्तः/ 069.016. उपसंक्रम्य मघं सार्थवाहमिदमवोचत् -- देव समुदानीतो मङ्गलपोतः, संवरं चारोपितम्, यस्येदानीं महासार्थवाहः कालं मन्यते/
069.017. अथ मघो महासार्थवाहो वदरद्वीपमहापत्तनगमनकृतबुद्धिः स्वजनबन्धुवर्गपुत्रदारमित्रामात्यज्ञ्नातिसालोहितैः सभृत्यवर्गेण च रोहितकराज्ञ्ना च निवार्यमाणो ऽपि गुणवति फलके बद्ध्वा आशु सुप्रियसार्थवाहसहायो मङ्गलपोतमभिरुह्य महासमुद्रमवतीर्णः/ 069.020. अथ मघो महासार्थवाहः सुप्रियस्य महासार्थवाहस्य कथयति -- अहं बाढग्लानो न शक्यामि स्थियो गन्तुम्/ 069.021. तदर्हसि शय्यां कल्पयितुम् यत्राहमपाश्रितो गमिष्यामीति/ 069.022. अपि तु अस्मिन् महासमुद्रे यावदेवंविधानि निमित्तानि भवन्ति उदकस्य वर्णसंस्थानानि च मम निवेदयितव्यानि/ 069.023. यथा अनेकानि योजनशतानि गत्वा अद्राक्षीत् सुप्रियो महासार्थवाह एकपाण्डरं पानीयम्/ 069.024. दृष्ट्वा पुनर्मघाय सार्थवहायारोचयति -- यत्खलु महासार्थवाह जानीयाः, एकपाण्डरं पानीयं पश्यामि/ 069.025. एवमुक्ते मघः सार्थवाहः कथयति -- नैतन्महासार्थवाह एकपाण्डरं पानीयम्/ 069.026. अपि तु पश्यसि त्वं दक्षिणकेन महत्सुधापर्वतम् यदिदं तस्यैतदनुभावेन पानीयं रन्ञ्जितम्/ 069.027. यत्रैकविंशतिधातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैडूर्यान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते/ 069.029. इदं बदरद्वीपमहापत्तनस्य प्रथमनिमित्तम्/ 069.029. पुनरपि गच्छन् पश्यति सुप्रियो महासार्थवाहः शस्त्रवर्णं पानीयम्/ 069.030. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत् खलु महासार्थवाह जानीयाह् -- शस्त्रवर्णं पानीयं दृश्यते/ 069.031. मघः सार्थवाहः कथयति -- नैतच्छस्त्रवण पानीयम्/ 069.032. पश्यसि त्वं
दक्षिणकेण महच्छस्त्रपर्वतम्/ 069.032. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्/
070.001. <70>अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यदेके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते/ 070.002. इदं बदरद्वीपमहापत्तनस्य द्वितीयं निमित्तम्/ 070.003. एवं लोहपर्वतास्ताम्रपर्वता रूप्यपर्वताः सुवर्णपर्वताः स्फटिकपर्वता वैदूर्यपर्वताः/ 070.004. अद्राक्षीत् सुप्रियो महासार्थवाहो नीलपीतलोहितावदातं पानीयम्, अन्तर्जले च दीपार्चिषः पश्यति दीप्यमानाः/ 070.005. दृष्ट्वा च पुनर्मघाय सार्थवाहायारोचयति -- यत्खलु महासार्थवाह जानीयाह् -- नीलपीतलोहितावदातं पानीयं दृश्यते, अन्तर्जले च दीपार्चिषो दीप्यमानाः/ 070.007. एवेमुक्ते मघो महासार्थवाहः कथयति -- नैतन्महासार्थवाह नीलपीतलोहितावदातं पानीयम्, नाप्येते दीपा इव दीप्यन्ते/ 070.008. पश्यसि त्वं दक्षिणकेन चतूरत्नमयं पर्वतम्/ 070.009. तस्यैतदनुभावेन पानीयं रन्ञ्जितम्/ 070.009. ये ऽप्येते दीपा इव दीप्यन्ते, एते ऽन्तर्गता औषध्यो दीप्यन्ते/ 070.010. अत्राप्यनेकानि धातुगोत्राणि, यं पक्त्वा सुवर्णरूप्यवैदूर्यस्फटिकान्यभिनिर्वर्तन्ते, यत्रैके जाम्बुद्वीपका मनुष्या रत्नान्यादाय प्रतिनिवर्तन्ते/ 070.011. इदं बदरद्वीपमहापत्तनस्य दशमं निमित्तम्/ 070.012. अपि तु महासार्थवाह इयन्त्येवाहं बदरद्वीपमहापत्तनस्य दश निमित्तानि जाने गमनं प्रति, अतः परेण न जाने/ 070.013. एवमुक्ते सुप्रियो महासार्थवाहः कथयति -- कदा बदरद्वीपमहापत्तनस्य गमनायान्तो भविष्यति? एवमुक्ते मघः सार्थवाहः कथयति -- मयापि सुप्रिय बदरद्वीपमहापत्तनं कार्त्स्येन न दृष्टम्/ 070.015. अपि तु मया श्रुतं पौराणानां
महासार्थवाहानामन्तिकाज्जीर्णानां वृद्धानां महल्लकानाम् -- इतो जलमपहाय पश्चिमां दिशं स्थलेन गम्यते/ 070.017. तेन चैवमभिहितम्, मरणान्तिकाश्चास्य वेदनाः प्रादुर्भूताः/ 070.017. ततः सुप्रियाय महासार्थवाहाय कथयति -- मरणान्तिका मे वेदनाः प्रादुर्भूताः/ 070.018. एतत्त्वं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बद्ध्वा मच्छरीरे शरीरपूजां कुरुष्व/ 070.019. ततः सुप्रियो महासार्थवाहस्तं मङ्गलपोतं तीरमुपनीय वेत्रपाशं बध्नाति/ 070.020. अत्रान्तरे मघो महासार्थवाहः कालगतः/ 070.021. अथ सुप्रियो महासार्थवाहो मघं सार्थवाहं कालगतं विदित्वा स्थले उत्थाप्य शरीरे शरीरपूजं कृत्वा चिन्तयति -- मङ्गलपोतमारुह्य यास्यामीति/ 070.022. स च पोतो वायुना वेत्रपाशं छित्त्वा अपहृतः/ 070.023. ततः सुप्रियो महासार्थवाहश्चतूरत्नमयस्य पर्वतस्य दक्षिणेन पार्श्वेनाटव्यां स्थलेन संप्रस्थितो मूलफलानि भक्षयमाणः/ 070.024. अनेकानि योजनानि गत्वा अद्राक्षीत् श्लक्ष्णं पर्वतमनुपूर्वप्रवणमनुपूर्वप्राग्भारम्/ 070.025. न शक्यते ऽभिरोढुम्/ 070.025. ततः सुप्रियो महासार्थवाहो मधुना पादौ प्रलिप्याभिरूढश्च, अवतीर्णश्च, अनेकानि योजनानि गत्वा मूलफलाहारो गतः/ 070.027. स तत्र पश्यति महान्तं पर्वतमुच्चं च प्रगृहीतं च/ 070.027. निःसरणं पर्येषमाणो न लभते, न चास्य कश्चिन्निःसरणव्यपदेष्टा/ 070.028. ततश्चिन्तापरः शयितः/ 070.028. तत्र च पर्वते नीलादो नाम यक्षः प्रतिवसति/ 070.029. स संलक्षयति -- अयं बोधिसत्त्वो लोकहितार्थमुद्यतः परिक्लिश्यते, यन्न्वहमस्य साहाय्यं कल्पयेयम्/ 070.030. इदमनुचिन्त्य
सुप्रियं महासार्थवाहमिदमवोचत् -- इतो महासार्थवाह पूर्वेण योजनं गत्वा त्रीणि पर्वतशृङ्गाण्यनुपूर्वनिंनान्यनुपूर्वप्रवणान्यनुपूर्वप्राग्भाराणि/ 070.032. तत्र त्वया वेत्रशिटाम्(?) बद्ध्वा अतिक्रमितव्यम्/ 070.032. अथ सुप्रियो महासार्थवाहः सुप्तप्रबुद्धो वेत्रशिटाम् <71>बद्ध्वा तानि पर्वतशृङ्गाण्यतिक्रान्तः/
071.001. भूयः संप्रस्थितो ऽद्राक्षीत् सुप्रियो महासाथवाहः स्फटिकपर्वतं श्लक्ष्णं निरालम्बमगम्यं मनुष्यमात्रस्य/ 071.002. न चास्योपायं पश्यति तं पर्वतमभिरोहणायेति विदित्वा चिन्तापरो ऽहोरात्रमवस्थितः/ 071.003. तस्मिंश्च पर्वते चन्द्रप्रभो नाम यक्षः प्रतिवसति/ 071.004. स चिन्तापरं सार्थवाहं विदित्वा लोकहितार्थमभ्युद्यतं महायानसम्प्रस्थितं प्रसन्नचित्तं चोपेत्याश्वासयति -- न खलु महासार्थवहेन विषादः करणीय इति/ 071.005. पूर्वेण क्रोशमात्रं गत्वा महच्चन्दनवनम्/ 071.006. तस्मिंश्च चन्दनवने महत्यश्मशिला/ 071.006. तां वीर्यबलेनोत्पाट्य गुहां द्रक्ष्यसि/ 071.007. तस्यां गुहायां प्रभास्वरा नामौषधी पन्ञ्चगुणोपेता/ 071.007. तया गृहीतया नास्य काये शस्त्रं क्रमिष्यति, अमनुष्याश्चावतारं न लप्स्यन्ते, बलं च वीर्यं च संजनयति, आलोकं च करोति/ 071.009. तेनालोकेन द्रक्ष्यसि चतूरत्नमयं सोपानम्/ 071.009. तेन सोपानेन स्फटिकपर्वतमतिक्रमितव्यम्/ 071.010. स्फटिकपर्वतमतिक्रान्तस्य ते प्रभास्वरा औषध्यन्तर्धास्यति/ 071.010. तत्र ते न शोचितव्यं न क्रन्दितव्यं न परिदेवितव्यम्/ 071.011. अथ चन्द्रप्रभो यक्षः सुप्रियं महासार्थवाहं समनुशास्य तत्रैवान्तर्हितः/ 071.012. अथ सुप्रियो महासार्थवाहश्चन्द्रप्रभेण महायक्षेण समाश्वास्य आदेशितमार्गो यथोक्तेन विधिना स्फटिकपर्वतमतिक्रान्तः/ 071.013. अतिक्रान्तस्य चास्य प्रभास्वरा औषध्यन्तर्हिता/ 071.014. भूयः संप्रस्थितो ऽद्राक्षीत् सुप्रियो महासार्थवाहः सौवर्णं महानगरमारामसम्पन्नं पुष्करिणीसम्पन्नम्/ 071.015. ततः सुप्रियो महासार्थवाहो
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
