Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/19

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

दिव्यावदान

Thông tin
GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नगरद्वारं गतः/ 071.015. यावद्बद्धं नगरं पश्यति/ 071.016. दृष्ट्वा च पुनरुद्यानं गत्वा चिन्तयति -- यद्यप्यहं नगरमद्राक्षम्, तदपि शून्यम्/ 071.017. कदा बदरद्वीपस्य महापत्तनस्यागमनायाध्वा भविष्यतीति विदित्वा शयितः/ 071.017. अथ सा पूर्वदेवता सुप्रियं महासार्थवाहं दुर्मनसं विदित्वा रात्र्याः प्रत्यूषसमय उषसंक्रम्य समाश्वास्य उत्कर्षयति -- साधु साधु महासार्थवाह, निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि मनुष्यामनुष्यागम्यानि/ 071.020. संप्राप्तो ऽसि बदरद्वीपमहापत्तनं मनुष्यामनुष्यानवचरितं महेशाख्य पुरुषाध्युषितम्/ 071.021. किं तर्हि न साम्प्रतमप्रमादः करणीयः/ 071.021. इन्द्रियाणि च गोपयितव्यानि चक्षुरादीनि, कायगता स्मृतिर्भावयितव्या/ 071.022. श्वोभूते नगरद्वारं त्रिकोटयितव्यम्/ 071.022. ततश्चतस्रः किन्नरकन्या निर्गमिष्यन्ति अभिरूपा दर्शनीयाः प्रसादिकाश्चातुर्यमाधुर्यसम्पन्नाः सार्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाताः सर्वालंकारविभूषिता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः/ 071.025. तास्त्वामत्यर्थमुपलालयन्ति, एवं च वक्ष्यन्ति -- एतु महासार्थवाहः/ 071.025. स्वागतं महासार्थवाह, अस्माकमस्वामिनीनां स्वामी भव, अपतिकानां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽत्राणानां त्राणो ऽशरणानां शरणमपरायणानां परायणः/ 071.027. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि, प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भमुसारगल्वो लोहितिका दक्षिणावर्ताः/ 071.028. एतानि च ते रत्नानि/

071.030. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व/ 071.031. तत्र ते तासु मातृसंज्ञ्ना उपस्थापयितव्या, भगिनीसंज्ञ्ना दुहितृसंज्ञ्ना उपस्थापयितव्या/ 071.032. दशाकुशलाः कर्मपथा विगर्हितव्याः, दश कुशलाः कर्मपथाः संवर्णयितव्याः/ 071.032. सुबह्वपि ते <72>प्रलोभ्यमानेन रागसंज्ञ्ना नोत्पादयितव्या/

072.001. सचेदुत्पादयिष्यसि तत्रैवानयेन व्यसनमापत्स्यसे/ 072.002. सूपस्थितस्मृतेस्तव सफलः श्रमो भविष्यति/ 072.002. यद्यपि ते सुभाषितस्यार्घमणिं प्रयच्छेयुः, ततस्त्वया निपुणं प्रष्टव्याह् -- अस्य रत्नस्य भगिन्यः को ऽनुभाव इति/ 072.003. एवं द्वितीयं किन्नरनगरमनुप्राप्तस्याष्टौ किन्नरकन्या निर्गमिष्यन्ति, तासां पूर्विकानामन्तिकादभिरूपतराश्च/ 072.005. तत्रापि ते एषानुपूर्वी करणीया/ 072.005. यावच्चतुर्थकिन्नरनगरप्राप्तस्य ते द्वात्रिंशत् किन्नरकन्या निर्गमिष्यन्ति तासां पूर्विकानामन्तिकादभिरूपतराश्च दर्शनीयतराश्च प्रासादिकतराश्चाप्सरसह् -- प्रतिस्पर्धिन्यः/ 072.007. शतसहस्रशोभिता भविष्यन्ति/ 072.007. तत्रापि ते एषैवानुपूर्वी करणीया/ 072.007. इत्युक्त्वा सा देवता तत्रैवान्तर्हिता//

072.009. अथ सुप्रियो महासार्थवाहः प्रमुदितमनाः सुखप्रतिबुद्धः काल्यमेवो ऽत्थाय सौवर्णं किन्नरनगरमनुप्राप्तः/ 072.010. द्वारमूलमुपसंक्रम्य त्रिकोटयति/ 072.010. ततः सुप्रियेण महासार्थवाहेन त्रिकोटिते द्वारे चतस्रः किन्नरकन्या निर्गता अभिरूपा दर्शनीयाः प्रासादिकाश्चातुर्यमाधुर्यसम्पन्नाः सर्वाङ्गप्रत्यङ्गोपेताः परमरूपाभिजाता हसितरमितपरिचारितनृत्तगीतवादित्रकलास्वभिज्ञ्नाः/ 072.013. ता एवमाहुह् -- एतु महासार्थवाहः/ 072.013. स्वागतं महासार्थवाह/ 072.013. अस्माकमस्वामिनीनां स्वामी भव, अपतीनां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽशरणानां शरणो ऽत्राणानां त्राणो ऽपरायणानां परायणः/ 072.015. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि च/ 072.016. जाम्बुद्वीपकानि रत्नानि, तद्यथामणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालरजतजातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताह् एतानि च/ 072.018. त्वं चास्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व/ 072.018. अथ सुप्रियं महासार्थवाहं सूपस्थितस्मृतिं ताः किन्नरकन्याः सर्वाङ्गैरनुपरिगृह्य सौवर्णं किन्नरनगरं प्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति/ 072.020. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्/ 072.022. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यम् यत्रेदानीं दहरश्च भवान् धर्मकामश्च/ 072.023. न च कामेषु सज्जसे वा बध्यसे वा/ 072.023. प्रभूतैश्च रत्नैश्च

प्रवारयन्ति/ 072.023. धर्मदेशनावर्जिताश्च एकं सौभासिनिकं रत्नमनुप्रयच्छन्ति/ 072.024. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः को ऽनुभाव इति/ 072.025. ताः कथयन्ति -- यत्खलु सार्थवाह जानीयाह् -- तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषित इदं मणिरत्नं ध्वजाग्रे आरोप्य योजनसहस्रं सामन्तकेन यो येनार्थी भवति हिरण्येन वा सुवर्णेन वा अन्नेन वा वस्त्रेण वा पानेन वा अलंकारविशेषेण वा द्विपादेन वा चतुष्पादेन वा यानेन वा वाहनेन वा धनेन वा धान्येन वा, स चित्तमुत्पादयतु, वाचं च निश्चारयतु/ 072.029. सहचित्तोत्पादाद् वाग्निश्चारणेन यथेप्सिताश्चोपकरणविशेषा आकाशादवतरिष्यन्ति/ 072.030. अयमस्य रत्नस्यानुभावः/ 072.030. अथ सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य सौवर्णात् किन्नरनगरात् प्रतिनिष्क्रान्तः/ 072.032. अद्राक्षीत् सुप्रियो <73>महासार्थवाहो रूप्यमयं किन्नरनगरमारामसम्पन्नं वनसम्पन्नं पुष्करिणीसम्पन्नम्/

073.001. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारेऽष्टौ किन्नरकन्या निर्गताः/ 073.002. ता अप्येवमाहुह् -- एतु महासार्थवाहः/ 073.003. स्वागतं महासार्थवाहाय/ 073.003. अस्माकमस्वामिकानां स्वामी भव, पूर्वद्यावत्ताभिरपि धर्मदेशनावर्जिताभिस्तद्विशिष्टतरं द्विसाहस्रयोजनवर्षकं मणिरत्नमनुप्रदत्तम्/ 073.004. तत्रापि सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया क्थया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य रूप्यमयात् किन्नरनगरात् प्रतिनिष्क्रान्तो यावत् तृतीयं वैडूर्यमयं किन्नरनगरमनुप्राप्तः/ 073.007. तत्रापि सुप्रियेण सार्थवाहेन त्रिकोटिते द्वारे षोडश किन्नरकन्या निर्गताः, तासां पूर्विकानामन्तिकादभिरूपतराश्च प्रासादिकतराश्च/ 073.008. ता अपि धर्मदेशनावर्जितास्तत एव विशिष्टतरं सौभासिनिकं त्रिसाहस्रयोजनिकं रत्नमनुप्रयच्छन्ति/ 073.009. ततः सुप्रियो महासार्थवाहस्तस्य रत्नस्य प्रभावान्वेषी कथयति -- अस्य रत्नस्य भगिन्यः कोऽनुभाव इति? किन्नरकन्याः कथयन्ति -- पूर्ववत्/ 073.011. सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृभगिनीदुहितृवत् प्रतिसंमोद्य तृतीयात् किन्नरनगरात् प्रतिनिष्क्रान्तः/ 073.013. अद्राक्षीत् सुप्रियो महासार्थवाहश्चतुर्थं चतूरत्नमयं किन्नरनगरमारामोद्यानप्रासाददेवकुलपुष्करिणीतडागसुविभक्तरथ्यावीथीचत्वरशृङ्गाटकान्तरापणसुरचितगन्धोज्ज्वलं नानागीतवादितयुवतिमधुरस्वरवज्रवैडूर्यशातकुम्भमयप्राकारतोरणोपशोभितम्/ 073.015. द्वारं त्रिराकोटयति/ 073.015. ततः सुप्रियेण

सार्थवाहेन त्रिराकोटिते द्वारे द्वात्रिंशत् किन्नरकन्या निर्गताः, तासां पूर्विकाणामन्तिकादभिरूपतराश्च दर्शनीयतराश्चाप्सरसःप्रतिस्पर्धिन्यः शतसहस्रशोभिताः/ 073.017. ता अप्येवमाहुह् -- एतु महासार्थवाहः/ 073.018. स्वागतं महासार्थवाहाय/ 073.018. असमाकमस्वामिकानां स्वामी भव, अपतीनां पतिरलयनानां लयनो ऽद्वीपानां द्वीपो ऽशरणानां शरणो ऽत्राणानां त्रणो ऽपरायणानां परायणः/ 073.020. इमानि च ते ऽन्नगृहाणि पानगृहाणि वस्त्रगृहाणि शयनगृहाण्यारामरमणीयानि वनरमणीयानि पुष्करिणीरमणीयानि/ 073.021. प्रभूतानि च जाम्बुद्वीपकानि रत्नानि, तद्यथा -- मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः/ 073.023. एतानि च ते वयं च/ 073.023. अस्माभिः सार्धं क्रीडस्व रमस्व परिचारयस्व/ 073.023. तत्रापि सुप्रियो महासार्थवाहः सूपस्थितस्मृतिस्ताः किन्नरकन्या विविधैर्धर्मपदव्यन्ञ्जनैः परितोषयामास/ 073.025. तुष्टाश्च ताः किन्नरकन्याः सुप्रियं महासार्थवाहं सर्वाङ्गैरनुपरिगृह्य चतूरत्नमयं किन्नरनगरमनुप्रवेश्य प्रासादमभिरोप्य प्रज्ञ्नप्त एवासने निषादयन्ति/ 073.026. निषण्णः सुप्रियो महासार्थवाहो दशाकुशलान् कर्मपथान् विगर्हति, दश कुशलान् कर्मपथान् संवर्णयति, सुबह्वपि प्रलोभ्यमानो न शक्यते स्खलयितुम्/ 073.028. तुष्टाश्च ताः किन्नरकन्याः कथयन्ति -- आश्चर्यम् यत्रेदानीं दहरश्च भवान् धर्मकामश्च/ 073.029. न च कामेषु सज्जसे वा बध्यसे वा/ 073.029. प्रभूतैश्च रत्नैः प्रवारयन्ति/ 073.030. ता अपि धर्मदेशनावर्जिताः सौभासिनिकं

जाम्बुद्वीपप्रधानमनर्घ्येयमूल्यमनन्तगुणप्रभावं बदरद्वीपमापत्तने सर्वस्वभूतं रत्नमनुप्रयच्छन्ति/ 073.031. एवं च कथयन्ति -- इदमस्माकं महासार्थवाह मणिरत्नं बदरेण भ्रात्रा किन्नरराज्ञ्ना अनुप्रदत्तम्, अस्मिन् बदरद्वीपमहापत्तने <74>चिह्नभूतमालक्ष्यभूतं मण्डनभूतं च/

074.001. ततः सुप्रियो महासार्थवाहः कथयति -- अस्य रत्नस्य को ऽनुभाव इति? ताः कथयन्ति -- यत्खलु महासार्थवाह जानीयाह् -- इदं मणिरत्नं तदेव पोषधोषितो ध्वजाग्रे बद्ध्वा आरोप्य कृत्स्ने जम्बुद्वीपे घण्टावघोषणं करणीयम् -- शृण्वन्तु भवन्तो जम्बुद्वीपनिवासिनः स्तीमनुष्याः, युष्माकम् यो येनर्थी उपकरणविशेषेण हिरण्येन वा सुबर्णेन वा रत्नेन वा अन्नेन वा पानेन वा वस्त्रेण वा भोजनेन वा अलंकारविशेषेण वा द्विपदेन वा चतुष्पदेन वा वाहनेन वा यानेन वा धनेन वा धान्येन वा स चित्तमुत्पादयतु, वचनं च निश्चारयतु/ 074.007. सहचित्तोत्पादाद्वाग्निश्चारणेन च यथेप्सिताश्चोपकरणविशेष अस्य रत्नस्यानुभावादाकाशादवतरिष्यन्ति/ 074.008. अयं तु प्रतिविशेषह् -- यानि चास्य लोकस्य भवन्ति महाभयानि, तद्यथा -- राजतो वा चैरतो वा अग्नितो वा उदको वा मनुष्यतो वा अमिष्यतो वा सिंहतो वा व्याघ्रतो वा द्वीपतरक्षुतो वा यक्ष्यराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनतो वा, ईतयोपद्रवो वा, उपसर्गो वा, अनावृष्टिर्वा दुर्भिक्षभयानि वा, अस्मिन्नुच्छ्रिते रत्नविशेषे इम ईरयोपद्रवा न भविष्यन्ति/ 074.012. इर्युक्त्वा ताः किन्नरकन्याः सुप्रियं महासार्थवाहं संराधयामासुह् --- साधु साधु महासार्थवाह, निस्तीर्णानि महासमुद्रपर्वतनदीकान्ताराणि/ 074.013. पूरिता ते दृढसुप्रतिज्ञा/ 074.014. सफलीकृता ते श्रद्धा/ 074.014. ते गोपितानीन्द्रियाणि/ 074.014. साधिता बदरद्वीपमहापत्तनयात्रा/ 074.015. अधिगतं ते सर्वजनमनोरथसम्पादकं जम्बुद्वीपप्रधानं रत्नविशेषम्/ 074.015. अपि तु येन त्वं पथेनागतः, अमनुष्यास्तावत्, प्रलयं गच्छेयुः

प्रागेव मनुष्याः/ 074.016. अन्यदेव वयं सन्मार्गं व्यपदेक्ष्यामः क्षिप्रं वाराणसीगमनाय/ 074.017. तच्छृणु, मनसि कुरु, भाषिष्यामह् -- इतः पश्चिमे दिग्भागे सप्त प्रतानतिक्रम्य महापर्वत उच्चः/ 074.018. तस्मिन् पर्वते लोहिताक्षो नाम राक्षसः प्रतिवसति रौद्रः परप्राणहरः/ 074.019. स च पर्वतो ऽमनुष्यवचरितः कृष्णमन्धकारं सविस्फुलिङ्गं वायुं मोक्षयति/ 074.020. तत्र ते एतदेव रत्नं ध्वजाग्रे ऽवरोपयित्वा गन्तव्यम्/ 074.020. रत्नप्रभावाच्च ते ईतयो विलयं गमिष्यन्ति/ 074.021. महापर्वतमतिक्रम्य अपरपर्वतः/ 074.021. तस्मिन् पर्वते ऽग्निमुखो नागः प्रतिवसति/ 074.022. स तव गन्धमाघ्राय सप्त रात्रिंदिवसान्यशनिं पातयिष्यति/ 074.022. तत्र रत्नगुहां समन्विष्य प्रवेष्टव्यम्/ 074.023. सप्तरात्रस्य चात्ययाद्दुष्टनागः स्वपिष्यति/ 074.023. शयिते दिष्टनागे पर्वतमधिरोढव्यम्/ 074.023. तत्र द्रक्ष्यसि समं भूमिप्रदेशमकृष्टोप्तं च तण्डुलफलशालिमकणकमतुषं शुचिं निष्फुटिगन्धिकं चतुरङ्गुलपर्यवनद्धम्/ 074.025. यस्तमष्टम्यां पन्ञ्चदश्यां वा बालाहोऽश्वराजः परिभुज्य सुखी अरोगो बलवान् प्रीणितेन्द्रियः पूर्वकायमभ्युन्नमय्योदानमुदानयति -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि, स त्वयोपसंक्रम्य इदं स्याद्वचनीयम् -- अहं पारगामी, मां पारं नय, मां स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय/ 074.028. अथ स सुप्रियो महासार्थवाहस्ताः किन्नरकन्या धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य मातृदुहितृवत् प्रतिसमोद्य यथोद्दिष्टेन मार्गेण यथोक्तेन विधिना

अनुपूर्वेण तं भूमिप्रदेशमनुप्राप्तः/ 074.030. स च बालाहोऽश्वराजश्चरन्नेवमाह -- कः पारगामी, कः पारगामी, कं पारं नयामि, स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्रापयामि? ततः सुप्रियो महासार्थवानो येन बालाहो ऽश्वराजस्तेनोपसंक्रान्तः/

075.001. <74>उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन बालाहो ऽश्वराजस्तेनान्ञ्जलिं प्रणम्य बालाहमश्वराजमिदवोचत् -- अहं पारगामी, अहं पारगामी, नय माम्/ 075.003. स्वस्तिक्षेमाभ्यां वाराणसीमनुप्रापय/ 075.003. एवमुक्ते बालाहो ऽश्वराजः सुप्रियं महासार्थवाहमिदमवोचत् -- न ते महासार्थवाह मम पृष्ठाधिरूढेन दिशो नावलोकयितव्याः, निमीलिताक्षेण ते स्थेयम्/ 075.005. इत्युक्त्वा बालाहोऽश्वराजः पृष्ठमुपनामयति/ 075.005. अथ सुप्रियो महासार्थवाहो बालाहस्याश्वराजस्य पृष्ठमधिरुह्य यथानुशिष्टो ऽल्पैश्च क्षणलवमुहूर्तैर्वाराणसीमनुप्राप्तः/ 075.006. स्व उय्हाने ऽवतरितः/ 075.007. अवतीर्य सुप्रियो महासार्थवाहो बालाहाश्वराजपृष्ठाद्बालाहाश्वराजं त्रिप्रदक्षिणीकृत्य पादाभिवन्दनं करोति/ 075.008. ततो बालाहो ऽश्वराजः सुप्रियं महासार्थवाहं संराधयामास -- साधु साधु महासार्थवाह/ 075.009. निस्तीर्णानि ते महासमुद्रपर्वतनदीकान्ताराणि/ 075.009. पूरिता ते दृढप्रतिज्ञ्ना/ 075.010. सफलीकृतस्ते ऽध्वा/ 075.010. गोपितानीन्द्रयाणि/ 075.010. साधिता ते बदरद्वीपमहापत्तनयात्रा/ 075.010. अधिगतस्ते सर्वजनमनोरथसम्पादको जम्बुद्वीपस्य प्रधानो रत्नविशेषः/ 075.011. एवं हि परहितार्थमभ्युद्यताः कुर्वन्ति सत्त्वविशेषाः/ 075.012. इत्युक्त्वा बालाहो ऽश्वराजः प्रक्रान्तः/ 075.012. अथाचिरप्रक्रान्ते बालाहे ऽश्वराजनि सुप्रियो महासार्थवाहः स्वगृहं प्रविष्टः/ 075.013. अश्रौषुर्वाराणसीनिवासिनः पौरा ब्रह्मदत्तश्च काशिराजह् -- सुप्रियो महासार्थवाहः पूर्णेन वर्षशतेन संसिद्धयात्रः पूर्णमनोरथः

स्वगृहमनुप्राप्त इति/ 075.015. श्रुत्वा च पुनर्ब्रह्मदत्तः काशिराज आनन्दितः/ 075.015. पौरवर्गः सुप्रियं सार्थवाहं संराधयामास/ 075.016. अश्रौषीत् तत् पूर्वकं चौरसहस्रमन्यश्च जनो धनार्थी -- सुप्रियो महासार्थवाहः संसिद्धयात्रः परिपूर्णमनोरथ आगत इति/ 075.017. स्रुत्वा च पुनरुपसंक्रम्य सुप्रियं महासार्थवाहमिदमवोचन् -- परिक्षीणधनाः स्म इति/ 075.018. एवमुक्ते महासार्थवाहस्तान् सर्वान् मैत्रेण चक्षुषा व्यवलोक्य विज्ञ्नापयति -- गच्छतु भवन्तः स्वकस्वकेषु विजितेषु/ 075.019. यो येनार्थी उपकरणविशेषेण भवति, स तस्यार्थे चित्तमुत्पादयतु, वाचं च निश्चारयतु/ 075.020. श्रुत्वा च पुनः प्रक्रान्तः/ 075.020. अथ सुप्रियो महासार्थवाहस्तदेव पोषधे पन्ञ्चदश्यां शिरःस्नात उपोषधोषितो यत्तत्प्रथमलब्धं मणिरत्नं ध्वजाग्रे आरोप्य वाचं च निश्चारयति, योजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्ते, सहाभिधानच्च यो येनार्थी तस्य तद्वर्षं भवति/ 075.023. ततः परिपूर्णमनोरथास्ते सत्त्वाः/ 075.024. तच्चौरसहस्रं सुप्रियेण महासार्थवाहेन दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः//

075.025. अत्रान्तरात् कालगते ब्रह्मदत्ते काशिराजनि पौरामात्यैः सुप्रियो महासार्थवाहो राजाभिषेकेणाभिषिक्तः/ 075.026. महाभिषिक्तेन सुप्रियेण महाराज्ञ्ना द्वितीयं मणिरत्नं ध्वजाग्रे आरोप्य पूर्वविधिना द्वीयोजनसहस्रसामन्तकेन यथेप्सितानि सत्त्वानामुपकरणान्युत्पद्यन्तामिति सहाभिधानाच्च यो येनार्थी तस्य तद्वर्षति/ 075.028. तृतीयेन मणिरत्नेन यथोक्तेन विधिना ध्वजाग्रोच्छ्रितेन यथेप्सितोपकरणविशेषवर्षणानि संपन्नानि/ 075.029. एवं त्रियोजनसहस्रसामन्तकेनोपकरणैः स्त्रीमनुष्याः संतर्पिताः/ 075.030. ततो ऽनुपूर्वेण जम्बुद्वीपैश्वर्यभूतेन सुप्रियेण महाराज्ञ्ना तदेव पोषधे पन्ञ्चदश्यां शिरःस्नातेनोपोषधोषितेन कृत्स्ने जम्बुद्वीपे घण्टावघोषणं कृत्वा उपकरणोत्पन्नाभिलाषिणां स्त्रीमनुष्याणां जम्बुद्वीपनिवासिनाम् यन्मणिरत्नं बदरद्वीपमहापत्तनसर्वस्वभूतम् यथेप्सितम् <76>सर्वोपकरणवर्षिणं ध्वजाग्रे आरोपयामास/

076.001. समनन्तरं ध्वजाग्रावरोपिते तस्मिञ् जम्बुद्वीपप्रधानमणिरत्ने कृत्स्नो जम्बुद्वीपनिवासी महाजनकायो यथेप्सितैरुपकरणविशेषैः संतर्पितः/ 076.003. उपकरणसंतर्पितश्च जम्बुद्वीपनिवासी जनकायः सुप्रियेण राज्ञ्ना दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः/ 076.004. ततो ज्येष्ठं कुमारं राज्यैश्वर्याधिपत्ये पर्तिष्ठाप्य राजर्षिब्रह्मचर्यं चरित्वा चतुरो ब्रह्मान् विहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारी ब्रह्मलोकसभागतायां चोपपन्नो महाब्रह्मा संवृत्तः//

076.007. भगवनाह -- किं मन्यध्वे भिक्षवो यो ऽसौ सुप्रियो नाम महासार्थवाहः, अहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तितवान्/ 076.008. यत्तच्चौरसहस्रम्, एतदेव भिक्षसहस्रम्/ 076.009. या सा पूर्वदेवता, काश्यपः सम्यक्सम्बुद्धो बोधिसत्त्वभूतः स तेन कालेन तेन समयेन/ 076.010. यश्चासौ मघो महासार्थवाहः, एष एव शारिपुत्रो भुक्षुः स तेन का लेन तेन समयेन/ 076.011. यश्चासौ नीलादो नाम महायक्षः, एष एवानन्दो भिक्षुस्तेन कालेन तेन समयेन/ 076.012. यश्चासौ चन्द्रप्रभो यक्षः, एष एवानिरुद्धो भिक्षुः स तेन कालेन तेन समयेन/ 076.012. यश्चासौ लोहिताक्षो नाम महायक्षः, स एष एव देवदत्तस्तेन कलेन तेन समयेन/ 076.013. यश्चासौ अग्निमुखो नाम नागः, एष एव मारः पापीयान् स तेन कलेन तेन समयेन/ 076.014. यश्चासौ बालाहो ऽश्वराजः, मैत्रेयो बोद्धिसत्त्वस्तेन कालेन तेन समयेन/ 076.015. तदा तावन्मया भिक्षवो दृढप्रतिज्ञ्नेन प्रतिज्ञ्नापूरणार्थं सप्तवारांश्चौरसहस्रात् सार्थः परित्रातः/ 076.016. अपरितुष्टांश्च चौरान् विदित्वा दृढप्रतिज्ञ्ना कृता/ 076.017. कृत्वा चानेकैर्दुष्करशतसहस्रैर्बदरद्वीपमहापत्तनस्य यात्रां साधयित्वा चौरसहस्रप्रमुखं कृत्स्नं जम्बुद्वीपं धनेन संतर्पयित्वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापितः/ 076.019. इदानीमपि मया अनेकैर्दुष्करशतसहस्रैरनुत्तरं ज्ञ्नानमधिगम्य मैत्रायता करुणया सप्तकृत्वश्चौरसहस्रसकाशात् सार्थः परित्रातः/ 076.020. अपरितुष्टं च चौरसहस्रं विदित्वा यावदाप्तं धनेन संतर्पयित्वा अत्यन्तनिष्ठे ऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः/ 076.021. अनेकानि च देवमनुष्यशतसहस्राणि यक्षराक्षसप्रेतपिशाचकुम्भाण्डपूतनकटपूतनकोटिशतसहस्राणि शरणगमनशिक्षापदेषु प्रतिष्ठापितानि//

076.024. इदमवोचद्भगवान्/ 076.024. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

076.025. इति श्रीदिव्यावदाने सुप्रियावदानमष्टमम्//

********** अवदान 9 **********

077.001. दिव्9 मेन्धकग्र्हप्तिविभूतिपरिच्छेदः/

077.002. श्रावस्त्यां निदानम्/ 077.002. तेन खलु समयेन भद्रंकरे नगरे षड् जना महापुण्याः प्रतिवसन्ति--मेण्ढको गृहपतिर् मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी/ 077.004. कथं मेण्ढको गृहपतिर्ज्ञातो महापुण्यह्? स यदि रिक्तकानि कोशकोष्ठागाराणि पश्यति, सहदर्शनादेव पूर्यन्ते/ 077.005. एवं मेण्ढको गृहपतिर्ज्ञातो महापुण्यः/ 077.005. कथं मेण्ढकपत्नी? सा एकस्यार्थाय स्थालिकां साधयति, शतानि सहस्राणि च भुञ्जते/ 077.006. एवं मेण्ढकपत्नी/ 077.006. कथं मेण्ढकपुत्रह्? तस्य पञ्चशतिको नकुलको कट्यां बद्धस्तिष्ठति/ 077.007. स यदि शतं सहस्रं वा परित्यजति, तदा पूर्ण एव तिष्ठति, न परिक्षीयते/ 077.008. एवं मेण्ढकपुत्रः/ 077.008. कथं मेण्ढकस्नुषा? सा एकस्यार्थाय गन्धं संपादयति, शतसहस्रस्य पर्याप्तिर्भवति/ 077.009. एवं मेण्ढकस्नुषा/ 077.010. कथं मेण्ढकदासह्? स यदैकं हलसीरं कृषति, तदा सप्त सीराः कृष्टा भवन्ति/ 077.010. एवं मेण्ढकदासः/ 077.010. कथं मेण्ढकदासी महापुण्या? सा यदैकं वस्तु रक्षति, तत्सप्तगुणं स्यात्/ 077.011. यदा एकमात्रं प्रतिजागर्ति, तदा सप्त मात्राः संपद्यन्ते/ 077.012. एवं मण्ढकदासी महापुण्या//

077.013. धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रतिहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य षट्कृत्वो रात्रिंदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते--को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसम्बाधप्राप्तः, को ऽपायनिंनः, को ऽपायप्रवणः, को ऽपायप्राग्भारः, कमहमपायमार्गाद्व्युत्थाप्य स्वर्गफले मोक्षे च प्रतिष्ठापयेयम्, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम्, कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयामि, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य पक्वानि विमोचयेयम्, कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर्विशोधयेयम्/ 077.025. अप्येवातिक्रमेद्वेलां सागरो मकरालयः/ 077.026. न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्//1//

077.027. सर्वज्ञसंताननिवासिनी हि 077.028. कारुण्यधेनुर्मृगयत्यखिन्ना/ 077.029. वैनेयवत्सान् भवदुर्गनष्टान् 077.030. वत्सान् प्रणष्टानिव वत्सला गौः//2//

077.031. भगवान् संलक्षयति--अयं मेण्ढको गृहपतिः सपरिवारो भद्रंकरे नगरे प्रतिवसति/ 077.032. तस्य वैनेयकालं पक्वमिव गण्डं शस्त्राभिनिपातमवेक्षते/ 077.032. यन्न्वहं भद्रंकरेषु जनपदेषु चारिकाम् <78>चरेयम्/

078.001. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय--तथागतो भिक्षवो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति/ 078.002. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि प्रतिगृह्णातु इति/ 078.003. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--तथागत आयुष्मन्तो भद्रंकरेषु जनपदेषु चारिकां चरिष्यति/ 078.005. यो युष्माकमुत्सहते तथागतेन सार्धं भद्रंकरेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि प्रतिगृह्णातु इति/ 078.006. एवमायुष्मन्निति ते भिषव आयुष्मत आनन्दस्य प्रतिश्रुत्य पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति//

078.008. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारः, वृषभ इव गोगणपरिवृतः, सिंह इव दंष्ट्रगणपरिवारः, हंसराज इव हंसगणपरिवृतः, सुपर्ण इव पक्षिगणपरिवृतः, विप्र इव शिष्यगणपरिवृतः, सुवैद्य इवातुरगणपरिवृतः, शूर इव योधगणपरिवृतः, देशिक इवाध्वगणपरिवृतः, सार्थवाह इव वणिग्गणपरिवृतः, श्रेष्ठीव पौरजनपरिवृतः, कोट्टराज इव मन्त्रिय्गणपरिवृतः, चक्रवर्तीव पुत्रसहस्रपरिवृतः, चन्द्र इव नक्षत्रगणपरिवृतः, सूर्य इव रश्मिसहस्रपरिवृतः, धृतराष्ट्र इव गन्धर्वगणपरिवृतः, विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतः, धनद इव यक्षगणपरिवृतः, वेमचित्तिरिवासुरगणपरिवृतः, शक्र इव त्रिदशगणपरिवृतः, ब्रह्मेव ब्रह्मकायिकपरिवृतह्, स्तिमित इव जलनिधिः, सजल इव जलनिधिः, विमद इव गजपतिः, सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैरशीत्यानुव्यञ्जनैर्विराजतगात्रो दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिः स्मृत्युपस्थानैर्महाकरुणया च/ 078.019. एवमनेकगुणगणसमन्वागतो बुद्धो भगवाञ् जनपदचारिकया भद्रंकरं नगरं संप्रस्थितः/ 078.020. यदा भगवता श्रावस्त्यां महाप्रातिहार्यं विदर्शितम्, निर्भर्त्सिता आनन्दिता देवमनुष्याः, तोषितानि सज्जनहृदयानि, तदा भग्नप्रभावास्तीर्थ्याः प्रत्यन्तान् संश्रिताः/ 078.022. ततः केचिद्भद्रंकरं नगरं गत्वा अवस्थिताः/

078.023. तैः श्रुतं श्रमण गौतम आगच्छतीति/ 078.023. श्रुत्वा च पुनर्व्यथितास्ते परस्परं कथयन्ति--पूर्वं तावद्वयं श्रमणेन गौतमेन मध्यदेशान्निर्वासिताः/ 078.024. स यदीहागमिष्यति, नियतमितो ऽपि निर्वासयिष्यति/ 078.025. तदुपायसंविधानं कर्तव्यमिति/ 078.025. ते कुलोपकरणशाला उपसंक्रम्य कथयन्ति--धर्मलाभो धर्मलाभः/ 078.026. ते कथयन्ति--किमिदम्? अवलोकिता गमिष्यामः/ 078.026. कस्यार्थाय? दृष्टा अस्माभिर्युष्माकं संपत्तिः, यावद्विपत्तिं न पश्यामः/ 078.027. आर्यकाः, अस्माकं विपत्तिर्भविष्यति/ 078.028. भवन्तः, श्रमणो गौतमः क्षुराशनिं पातयन्ननेका अपुत्रिका अपतिकाश्च कुर्वन्नागच्छति/ 078.029. आर्याः, यद्येवम्, यस्मिन्नेव काले स्थातव्यं तस्मिन्नेव काले ऽस्माकं परित्यागस् त्रियते/ 078.030. तिष्ठत, न गन्तव्यम्/ 078.030. ते कथयन्ति--किं वयं न तिष्ठामह्? न यूयमस्माकं श्रोष्यथ/ 078.030. आर्याः कथयत, श्रोष्यामः/ 078.031. ते कथयन्ति--भद्रंकरसामन्तकेन सर्वजनकायमुद्वास्य भद्रंकरं नगरं प्रवासयत/ 078.032. शाद्वलानि कृंषत/ 078.032. स्थण्डिलानि पातयत/ 078.032. पुष्पफलवृक्षं छेदयत/ 078.032. पनीयानि <79>विषेण दूषयत/

079.001. ते कथयन्ति--आर्याः, तिष्ठत, सर्वमनुतिष्ठाम इति/ 079.001. ते ऽवस्थिताः/ 079.001. ततस्तैर्भद्रंकरनगरसामन्तकेन सर्वो जनकाय उद्वास्य भद्रंकरं नगरं प्रवासितः, शाद्वलानि कृष्टानि, स्थण्डिलानि पातितानि, पुष्पफलवृक्षाश्छिन्नाः, पानीयानि विषदूषितानि/ 079.003. ततः शक्रो देवेन्द्रः संलक्षयति--न मम प्रतिरूपम् यदहं भगवतो ऽसत्कारमध्युपेक्षेयम्/ 079.004. येन नाम भगवता त्रिभिः कल्पासंख्येयैरनेकैर् दुष्करशतसहस्रैः षट् पारमिताः परिपूर्यानुत्तरज्ञानमधिगतम्, स नाम भगवान् सर्वलोकप्रतिविशिष्टः सर्ववादविजयी शून्ये जनपदे चारिकं चरिष्यति/ 079.007. यन्न्वहं भगवतः सश्रावकसंघस्य सुखस्पर्शार्थाय औत्सुक्यमापद्येयमिति/ 079.007. तेन वातबलाहकानां देवपुत्राणामाज्ञा दत्ता--गच्छत भद्रंकरनगरसामन्तकेन, विषपानीयानि शोषयत इति/ 079.009. वर्षबलाहकानां देवपुत्राणामाज्ञा दत्ता--आष्टाङ्गोपेतस्य पानीयस्यापूर्यतेति/ 079.009. चातुर्महाराजिका देवा उक्ताह्--यूयं भद्रंकराणां जनपदानां वासयतेति/ 079.010. ततो वातबलाहकैर्देवपुत्रैर्विषदूषितानि पानीयानि {शोषितानि}, वर्षबलाहकैस्तान्येव कूपोदपानवापीसरस्तडागान्यष्टाङ्गोपेतस्य पानीयस्य पूरितानि/ 079.012. चातुर्महाराजिकैर्देवैर्भद्रंकरनगरसामन्तकं सर्वमावासितम्/ 079.012. जनपदा ऋद्धाः स्फीताः संवृत्ताः/ 079.013. तीर्थ्यैर् नगरजनकायसमेतैरवचरकाः प्रेषिताह्--गत्वा पश्यत कीदृशा जनपदा इति/ 079.014. ते गताः पश्यन्त्यतिशयेन जनपदान् ऋद्धान् स्फीतान्/ 079.014. तत आगत्य कथयन्ति--भवन्तः, न कदाचिदस्माभिरेवम्रूपा जनपदा

ऋद्धाः स्फीता दृष्टपूर्वा इति/ 079.015. तीर्थ्याः कथयन्ति--भवन्तः, वो यस्तावदचेतनान् भावानन्वावर्तयति, स युष्मान्नान्वावर्तयिष्यतीति? कुत एतत्? सर्वथा अवलोकिता भवन्तः, अपश्चिमं वो दर्शनम्, गच्छाम इति/ 079.017. ते कथयन्ति--आर्याः, तिष्ठत, किम् युष्माकं श्रमणो गौतमः करोति? सो ऽपि प्रव्रजितः, यूयमपि प्रव्रजिता भिक्षाचराः/ 079.019. किमसौ युष्माकं भिक्षां चरिष्यतीति? तीर्थ्याः कथयन्ति--समयेन तिष्ठामो यदि यूयं क्रियाकारं कुरुत--न केनचिच्छ्रमणं गौतमं दर्शनायोपसंक्रमितव्यम्/ 079.020. य उपसंक्रामति, स षष्टिकार्षापणो दण्ड्य इति/ 079.021. तैः प्रतिज्ञातं क्रियाकारश्च कृतः//

079.022. ततो {भगवान्} जनपदचारिकां चरन् भद्रंकरं नगरमनुप्राप्तः/ 079.022. भद्रंकरे नगरे विहरति दक्षिणायतने/ 079.023. तेन् खलु समयेन कपिलवस्तुनो ब्राह्मणदारिका भद्रंकरे नगरे परिणीता/ 079.024. तया प्राकारस्थया भगवानन्धकारे दृष्टः/ 079.024. सा संलक्षयति--अयं भगवाञ् शाक्यकुलनन्दनः शाक्यकुलाद्राज्यमपहाय प्रव्रजितः/ 079.025. स इदानीमन्धकारे तिष्ठति/ 079.025. यद्यत्र सोपानं स्यात्, अहं प्रदीपमादायावतरेयमिति/ 079.026. ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय सोपानं निर्मितम्/ 079.027. ततो हृष्टतुष्टप्रमुदिता प्रदीपमादाय सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्ता/ 079.027. उपसंक्रम्य भगवतः पुरस्तात् प्रदीपं स्थापयित्वा पादौ शिरसा वन्दित्वा निषण्णा धर्मश्रवणाय/ 079.028. ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चत्रुआर्यसत्यसम्प्रतिवेधिकी पूर्ववद्यावच्छरणगतामभिप्रसन्नामिति/ 079.030. अथ भगवांस्तां दारिकामिदमवोचत्--एहि त्वं दारिके येन मेण्ढको गृहपतिस्तेनोपसंक्रम, उपसंक्रम्यैवं मद्वचनादारोग्यापय, एवं च वद--गृहपते, त्वामुद्दिश्याहमिहागतः, त्वं च द्वारं बद्ध्वा स्थितः/ 079.032. युक्तमेतदेवमतिथेः प्रतिपत्तुम् यथा त्वम् <80>प्रतिपन्न इति? यदि कथयति--गणेन क्रियाकारः कृत इति, वक्तव्यह्--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति/

080.002. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते/ 080.003. न शक्नोषि षष्टिकार्षापणं दत्त्वा आगन्तुमिति? एवं भदन्तेति सा दारिका भगवतः प्रतिश्रुत्य संप्रस्थिता/ 080.004. यथापरिज्ञातैव केनचिदेव मेण्डकस्य गृहपतेः सकाशं गता/ 080.005. गत्वा च कथयति--गृहपते भगवांस्त आरोग्ययति/ 080.005. स कथयति--वन्दे बुद्धं भगवन्तम्/ 080.006. गृहपते, भगवानेवमाह--त्वामेवाहमुद्दिश्यागतः, त्वं च द्वारं बद्ध्वा अवस्थितः/ 080.007. युक्तमेतदेवमतिथेः प्रतिपत्तुम् यथा त्वं प्रतिपन्न इति? स कथयति--दारिके, गणेन क्रियाकारः कृतह्--न केनचिच्छ्रमणं गौतमं दर्शनाय उपसंक्रमितव्यम्/ 080.008. य उपसंक्रामति, स गणेन षष्टिकार्षापणो दण्ड्य इति/ 080.009. गृहपते, भगवान् कथयति--तव पुत्रस्य पञ्चशतिको नकुलकः कट्यां बद्धस्तिष्ठति/ 080.010. स यदि शतं वा सहस्रं वा व्ययीकरोति, पूर्यत एव, न परिक्षीयते/ 080.011. न शक्नोषि त्वं षष्टिकार्षापणं दत्वा आगन्तुमिति? स संलक्षयति--न कश्चिदेतज्जानीते/ 080.011. नूनं सर्वज्ञः स भगवान्/ 080.012. गच्छामीति/ 080.012. स षष्टिकार्षापणान् द्वारे स्थापयित्वा ब्राह्मणदारिकोपदिष्टेन सोपानेनावतीर्य येन भगवांस्तेनोपसंक्रान्तः/ 080.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय/ 080.014. ततो भगवता मेण्ढकस्य गृहपतेराशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा मेण्ढकेन गृहपतिना यावच्छ्रोतापत्तिफलं साक्षात्कृतम्/ 080.016. स

दृष्टसत्यः कथयति--भगवन्, किमेषो ऽपि भद्रंकरनगरनिवासी जनकाय एवंविधानां धर्माणां लाभीते? भगवानाह--गृहपते, त्वामागम्य भूयसा सर्व एव जनकायो लाभीते/ 080.018. ततो मेण्ढको गृहपतिर्भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः/ 080.019. स्वगृहं गत्वा नगरमध्ये कार्षापणानां राशिं व्यवस्थाप्य गाथां भाषते-- 080.021. यो द्रष्टुमिच्छति जिनं जितरागदोषं निर्बन्धमप्रतिसमं करुणावदातम्/ 080.023. सो ऽनिश्चरेण हृदयेन सुनिश्चितेन क्षिप्रं प्रयातु धनमस्य मया प्रदेयम्//3// इति//

080.025. जनकायः कथयति--गृहपते, श्रेयः श्रमणस्य गौतमस्य दर्शनम्? स कथयति--श्रेयः/ 080.026. ते कथयन्ति--यद्येवम्, गणेनैवं क्रियाकारः कृतो गण एव उद्घाटयतु/ 080.026. को ऽत्र विरोधह्? ते क्रियाकारमुद्घाट्य निर्गन्तुमारब्धाः/ 080.027. ततः परस्परं संघट्टनेन न शक्नुवन्ति निर्गन्तुमिति वज्रपाणिना यक्षेण विनेयजनानुकम्पया वज्रः क्षिप्तः/ 080.028. प्राकारस्य खण्डः पतितः/ 080.029. अनेकानि प्राणिशतसहस्राणि निर्गतानि, कानिचित् कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि/ 080.030. ते गत्वा भगवतः पादाभिवन्दनं कृत्वा पुरतो निषण्णाः/ 080.031. यावद्भगवतः सामन्तकेन पर्षत् संनिपतिता/ 080.031. अथ बघवांस्तां पर्षदमभ्यवगाह्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषद्यानेकसत्त्वसंतानकुशलमूलसमारोपिकां धर्मदेशनां कृतवान्, याम् <81>श्रुत्वा कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि/

081.002. भगवतो ऽचि{तश्चि}रं धर्मं देशयतो भोजनकालो ऽतिक्रान्तः/ 081.002. मेण्ढको गृहपतिः कथयति--भगवन् भक्तकृत्यं क्रियतामिति/ 081.003. भगवानाह--गृहपते, भोजनकालो ऽतिक्रान्त इति/ 081.003. स कथयति--भगवन्, किमकाले कल्पते? भगवानाह--धृतगुडशर्करापानकानि चेति/ 081.004. ततो मेण्ढकेन गृहपतिना शिल्पिन आहूय उक्ताह्--भगवतो ऽकालखाद्यकानि शीघ्रं सज्जीकुरुतेति/ 081.006. तैरकालकानि सज्जीकृतानि/ 081.006. ततो मेण्ढकेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽकालखाद्यकैरकालपानकैश्च संतर्पितः/ 081.007. ततो भगवान् मेण्ढकं गृहपतिं सपरिवारं सत्येषु प्रतिष्ठापितं कर्वटनिवासिनं जनकायम् यथाभव्यतया विनीय प्रक्रान्तः//

081.009. इदमवोचद्भगवान्/ 081.009. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

081.010. इति श्रीदिव्यावदाने मेण्ढकगृहपतिविभूतिपरिच्छेदो नवमः//

********** अवदान 10 **********

082.001. दिव्10 मेण्ढकावदानम्/

082.002. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त मेण्ढकेन मेण्ढकपत्न्या मेण्ढकपुत्रेण मेण्ढकस्नुषया मेण्ढकदासेन मेण्ढकदास्या कर्म कृतम् येन षडभिज्ञाता महापुण्याः संवृत्ताः, भगवतो ऽन्तिके सत्यानि दृष्टानि, भगवांश्चैभिरारागितो न विरागित इति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि/ 082.006. एभिः कर्माणि कृतान्युपचितानि/ 082.007. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च/ 082.010. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 082.011. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//1//

082.012. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्करोगापगतं शालीक्षुगोमहिषीसम्पन्नमखिलमकण्टकम्/ 082.014. एकपुत्रमिव राज्यं पालयति/ 082.015. तेन खलु समयेन वाराणस्यां नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता/ 082.016. त्रिविधं दुर्भिक्षं भविष्यति--चञ्चु श्वेतास्थि शलाकावृत्ति च/ 082.016. तत्र चञ्चु उच्यते--समुद्गके तस्मिन् मनुष्या बीजानि प्रक्षिप्य अनागते सत्त्वापेक्षया सथापयन्ति/ 082.017. मृता नाम अनेन ते बीजकायं करिष्यन्तीति/ 082.018. इदं समुद्गकं बद्ध्वा चञ्चु उच्यते/ 082.018. श्वेतास्थि नाम दुर्भिक्षम्--तस्मिन् काले मनुष्या अस्थीन्युपसंहृत्य तावत् क्वाथयन्ति, यावत् तान्यस्थीनि श्वेतानि संवृत्तानीति/ 082.019. ततस्तत्क्वाथं पिबन्ति/ 082.020. इदं श्वेतास्थि दुर्भिक्षमित्युचयते/ 082.020. शलाकावृत्तिर् नाम--तस्मिन् काले मनुष्याः खलु बिलेभ्यो धान्यगुडकानि शलाकया आकृष्य बहुदकस्थाल्यां क्वाथयित्वा पिबन्ति/ 082.021. इयं शलाकासम्बद्धत्वाच्छलाकावृत्तिरित्युच्यते/ 082.022. ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः/ 082.023. नैमित्तिकैर्द्वादशवर्षिका अनावृष्टिर्व्याकृता शलाकावृत्ति दुर्भिक्षं चञ्चु श्वेतास्थि च/ 082.024. येषां वो द्वादशवर्षिकं भक्तमस्ति, तैः स्थातव्यम्/ 082.025. येषां नास्ति, ते यथेष्टं गच्छन्तु/ 082.025. विगतदुर्भिक्षभयाः सुभिक्षे पुनरप्युपागमिष्यन्ति/ 082.026. तस्मिन्श्च समये वाराणस्यामन्यतमो

गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णपरिवारः/ 082.027. तेन कोष्ठागारिक आहूय उक्तह्--भोः पुरुष, भविष्यति मे सपरिवाराणां मे सपरिवाराणां द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य भविष्यतीति/ 082.028. स तत्रैवावस्थितः/ 082.028. समन्तरानुबद्धं चैतत् दुभिक्षम्/ 082.029. तस्य कोशकोष्ठागाराः परिक्षीणाः/ 082.029. सर्वश्च परिजनः कालगतः/ 082.029. आत्मना षष्ठो व्यवस्थितः/ 082.030. ततस्तेन गृहपतिना कोशकोष्ठागराणि शोधयित्वा धान्यप्रस्थ उपसंहृतः/ 082.031. सो ऽस्य पत्न्या स्थाल्यां प्रक्षिप्य साधितः/ 082.031. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनभक्ता एकदक्षिणीया लोकस्य/ 082.032. यावदन्यतमः प्रत्येकबुद्धो <83>जनपदचारिकां चरन् वाराणसीमनुप्राप्तः/

083.001. स पूर्वाह्णे निवास्य पात्रचीवरमादाय वाराणसीं पिण्डाय प्रविष्टः/ 083.002. स च गृहपतिरात्मना षष्ठो ऽवस्थितो भोक्तुम्/ 083.002. स च प्रत्येकबुद्धो ऽनुपूर्वेण पिण्डपातमटंस् तस्य गृहपतिर् निवेशनमनुप्राप्तः/ 083.003. स तेन गृहपतिना दृष्टश्चित्तप्रासादिकः कायप्रासादिकश्च/ 083.004. दृष्ट्वा च पुनः संलक्षयति--एतदप्यहं परित्यज्य नियतं प्राणैर्वियोक्ष्ये/ 083.005. यन्न्वहं स्वप्रत्यंशमस्मै प्रव्रजिताय दद्यामिति/ 083.005. तेन भार्या अभिहिता--भद्रे, यो मम प्रत्यंशस्तमहमस्मै प्रव्रजितायानुप्रयच्छामीति/ 083.006. स संलक्षयति--मम स्वामी न परिभुङ्क्ते, कथमहं परिभोक्ष्य इति/ 083.007. सा कथयति--आर्यपुत्र, अहमपि प्रत्यंशमस्मै प्रयच्छामि/ 083.007. एवं पुत्रेण स्नुषया दासेन दास्या च विचार्य स्वस्वप्रत्यंशाः परित्यक्ताः/ 083.008. ततस्तैः सर्वैः संभूय प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः/ 083.009. कायिकी तेषां महात्मनां धर्मदेशना, न वाचिकी/ 083.009. स विततपक्ष इव हंसराज उपरि विहायसमुद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः/ 083.010. आशु पृथग्जनावर्जनकरी ऋद्धिः/ 083.011. ते मूलनिकृत्ता इव द्रुमाः पादयोर् निपत्य प्रणिधानं कर्तुमारब्धाः/ 083.012. गृहपतिः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यदि रिक्तकानि कोशकोष्ठागाराणि सहदर्शनान्मे पूर्णानि स्युह्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति/ 083.014. पत्नी प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे

सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्यार्थाय स्थालीं पचेयम्, सा शतेनापि परिभुज्येत, सहस्रेणापि, न परिक्षयं गच्छेत्, यावन्मया प्रयोगो ऽप्रतिप्रश्रब्धः, इत्येवंविधानां च धर्माणां लाभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति/ 083.018. पुत्रः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन पञ्चशतिको नकुलकः कट्यामुपरिबद्धस्तिष्ठेत्, यदि च शतं वा सहस्रं वा ततो व्ययं कुर्यात्, पूर्ण एव तिष्ठेत्, मा परिक्षयं गच्छेत्--एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विराअगयेयमिति/ 083.022. स्नुषा प्रणिधानं कर्तुमारब्धा--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकस्य गन्धम् योजयेयम्, शतं वा गन्धं घ्रास्यति, तं न च परिक्षयं गच्छेयुर्यावन्मया अप्रतिप्रश्रब्धम्--एवंविधानां धर्माणां लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति/ 083.025. दासः प्रणिधानं कर्तुमारब्धह्--यन्मया एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकहलसीरं कृषेयम्, सप्त सीराः कृष्टाः स्युह्--एवंविधानां धर्माणां च लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति/ 083.028. दासी प्रणिधानं कर्तुमारब्धा--एवंविधे सद्भूतदक्षिणीये कारः कृतः, अनेनाहं कुशलमूलेन यद्येकां मात्रमारभेयम्, सप्त मात्राः संपद्येरन्--एवंविधानां धर्माणां च लभिनी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति/

083.030. तैश्चैवं प्रणिधानं कृतम्/ 083.031. स च महात्मा प्रत्येकबुद्धस्तेषामनुकम्पया ऋद्ध्या उपरि विहायसा राजकुलस्योपरिष्टात् संप्रस्थितः//

084.001. <84>तेन खलु समयेन राजा ब्रह्मदत्त उपरिप्रासादतलगतस्तिष्ठति/ 084.001. तस्य ऋद्ध्या गच्छतो राज्ञो ब्रह्मदत्तस्योपरि च्छाया निपतिता/ 084.002. स ऊर्ध्वमुखो निरीक्षितुमारब्धः/ 084.002. पश्यति तं प्रत्येकबुद्धम्/ 084.003. तस्यैतदभवत्--कस्याप्यनेन महात्मना ऋद्धिमहालाङ्गलैर्दारिद्र्यमूलान्युत्पाटितानि/ 084.004. बलवती आशा/ 084.004. ततो ऽसौ गृहपतिः कोशकोष्ठागाराणि प्रत्यवेक्षितुमारब्धो यावत्पूर्णानि पश्यति/ 084.005. स पत्नीमामन्त्रयते--मम तावत् प्रणिधानं पूर्णम्, युष्माकमपीदानीं पश्याम इति/ 084.006. ततो दास्या धान्यानामेकां मात्रामारब्धा परिकर्मयितुम्, सप्त मात्राः संपन्नाः/ 084.007. प्रातिवेश्यैरनेकैश्च प्राणिशतसहस्रैः परिभुक्तम्, तथैवावस्थिता/ 084.008. तथैव पुत्रस्य स्नुषाया दासस्य प्रणिधिः सिद्धा/ 084.009. ततो गृहपतिना घण्टावघोषणं कारितं वाराणस्याम्--यो भवन्तो ऽन्नेनार्थी, स आगच्छतु इति/ 084.010. वाराणस्यामुच्चशब्धो महाशब्धो जातः/ 084.010. राज्ञा श्रुतम्/ 084.010. कथयति--किमेष भवन्त उच्चशब्दो महाशब्द इति? अमात्यैः समाख्यातम्--देव, अमुकेन गृहपतिना कोशकोष्ठागाराणि उद्धाटितानीति/ 084.012. राजा तमाहूय कथयति--यदा एव लोकः कालगतः, तदा त्वया कोशकोष्ठागाराण्युद्धाटितानीति/ 084.013. देव, कस्य कोशकोष्ठागाराण्युद्धाटितानि? अपि तु अद्यैव मे बीजमुप्तमद्यैव फलदायकमिति/ 084.014. राजा पृच्छति--यथा कथम्? स एतत् प्रकरणं विस्तरेणारोचयति/ 084.015. राजा कथयति--गृहपते, त्वया असौ महात्मा पिण्डकेन प्रतिपादितह्? देव मयैव प्रतिपादितः/ 084.016. सो ऽभिप्रसन्नो गाथां

भाषते-- 084.017. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्/ 084.018. यत्रोप्तं बीजमद्यैव अद्यैव फलदायकम्//2// इति/ 084.019. किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिर्गृहपतिपत्नी गृहपतिपुत्रो गृहपतिस्नुषा गृहपतिदासो गृहपतिदासी, अयमेव मेण्ढको गृःपतिर् मेण्ढकपत्नी मेण्ढकपुत्रो मेण्ढकस्नुषा मेण्ढकदासो मेण्ढकदासी च/ 084.021. यदेभिः प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन षड् महापुण्या जाताः, ममान्तिके दृष्टसत्यानि/ 084.022. अहं चैभिः प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टः शास्ता आरागितो न विरागितः/ 084.023. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः/ 084.025. तस्मात्तर्हि एवं शिक्षितव्यम्, यदेकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 084.026. इत्येवं वो भिक्षवः शिक्षितव्यम्//

084.027. इदमवोचद्भगवान्/ 084.027. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

084.028. इति श्रीदिव्यावदाने मेण्ढकावदानं दशमम्//

********** अवदान 11 **********

085.001. दिव्11 अशोकवर्नावदानम्/

085.002. एवं मया श्रुतम्/ 085.002. एकस्मिन् समये भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर् नागैरसुरैर्यक्षैर्गौडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवाञ् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशाल्यां विहरति स्म मर्कटसहस्रदतीरे कूटागारशालायाम्/ 085.006. तेन खलु समयेन वैशालिका लिच्छवय इदमेवम्रूपं क्रियाकारमकार्षुह्--पञ्चदश्यां भवन्तः पक्षस्य अष्टम्याअं चतुर्दश्यां च प्राणिनो हन्तव्या यत्कारणमेयुर्मनुष्या मांसमन्वेषन्त इति/ 085.008. तेन खलु समयेन अन्यतमो गोघातको महान्तं वृषभमादाय नगरान्निष्क्रमति प्रघातयितुम्/ 085.009. तमेनं महाजनकायः पृष्ठतः पृष्ठतः समनुबद्धो मांसार्थी कथयति--शीघ्रमेनं वृषं घातय, वयं मांसेनार्थिन इति/ 085.010. स कथयति--एवं करिष्यामि, किं तु मुहूर्तमुदीक्षध्वमिति/ 085.011. ततो वृष ईदृशमनार्यं वचो दुरुक्तं श्रुत्वा भीतस्त्रस्तः संविग्नह् आहृष्टरोमकूप इतश्चामुतश्च संभ्रान्तो निरीक्षते, चिन्तयति च--को मां कृच्छ्रसंकटसम्बाधप्राप्तमत्राणमशरणमिष्टेन जीवितेनाच्छादयेदिति/ 085.013. स चैवं विह्वलवदनस्त्राणान्वेषी तिष्ठति/ 085.014. भगवांश्च पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविशत्/ 085.015. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं

सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकमम्/ 085.017. सहदर्शनैश्चास्य भगवतो ऽन्तिके चित्तमभिप्रसन्नम्/ 085.017. प्रसन्नचित्तश्च संलक्षयति--प्रासादिको ऽयं सत्त्वविशेषः/ 085.018. शक्ष्यत्येषो मम प्राणपरित्राणं कर्तुम्/ 085.019. यन्न्वहमेनमुपसंक्रमेयमिति/ 085.019. अथ स वृषो भगवत्यवेक्षावान् प्रतिबद्धचित्तह् एषो मे शरणमिति सहसैव तानि दृढानि वरत्रकाणि बन्धनानि च्छित्त्वा प्रधावन् येन भगवांस्तेनोपसंक्रान्तः/ 085.021. उपसंक्रम्योभाभ्यां जानुभ्यां भगवतः पादयोर् निपत्य पादौ जिह्वया निलेढुमारब्धः/ 085.022. स चास्य रौद्रकर्मा गोघातकः पृष्ठतः पृष्ठतः समनुबद्ध एव शस्त्रव्यग्रहस्तः/ 085.022. ततो भगवांस्तं रौद्रकर्माणं गोघातकमिदमवोचत्--कुरुष्व त्वं भोः पुरुष अनेन गोवृषभेण सार्धं सात्म्यम्/ 085.024. जीवितेनाच्छादयेति/ 085.024. स कथयति--नाहं भदन्त प्रभवाभ्येनं जीवितेनाच्छादयितुम्/ 085.024. तत्कस्य हेतोह्? मया एष बहुना मूल्येन क्रीतः/ 085.025. पुत्रदारं च मे बहु पोषितव्यमिति/ 085.025. भगवानाह---यदि मूल्यं दीयते, प्रतिमुञ्चसीति?/ 085.026. स कथयति--प्रतिमोक्ष्यामि भगवन्निति/ 085.026. अथ भगवाम्ल्लौकिकचित्तमुत्पादयति--अहो बत शक्रो देवेन्द्रस्त्रीणि कार्षापणसहस्राण्यादायागच्छेदिति/ 085.028. सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः कार्षापणसहस्रत्रयमादाय भगवतः पुरस्तादस्थात्/ 085.029. अथ भगवाञ् शक्रं देवेन्द्रमिदमवोचत्--अनुप्रयच्छ कौशिक अस्य गोघातकस्य त्रिगुणं मूल्यम्/ 085.030. अदाच्छक्रो देवेन्द्रस्तस्य गोघातकस्य

कार्षापणत्रयसहस्रं वृषमूल्यम्/ 085.030. अथ गोघातकः कार्षापणसहस्रयं वृषमूल्यं गृहीत्वा हृष्टस्तुष्टः प्रमुदितो भगवतः पादौ शिरसा वन्दित्वा तं गोवृषं बन्धनान्मुक्त्वा प्रक्रान्तः/ 085.032. शक्रो देवेन्द्रो भगवतः पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः//

086.001. <86>अथ गोवृषो गतप्रत्यागतप्राणो भूयस्या मात्रया भगवत्यभिप्रसन्नो भगवन्तं त्रिः प्रदक्षिणीकृत्य पृष्ठतः पृष्ठतः समनुबद्धो भगवतो मुखं व्यवलोकयमानो ऽस्थात्/ 086.002. अथ भगवान् स्मितमकार्षीत्/ 086.003. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्पपरागपद्मरागवज्रवैडूर्यमुअसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति/ 086.006. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मपर्यन्तान् नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति/ 086.008. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते/ 086.009. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति/ 086.009. तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति/ 086.010. तेषां निर्मितं दृष्ट्वा एवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति/ 086.011. अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति/ 086.012. ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिर् गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति/ 086.013. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति/ 086.017. गाथाद्वयं भाषन्ते-- 086.018. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 086.019. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः//1//

086.020. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 086.021. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//2// इति/ 086.022. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति/ 086.023. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते/ 086.024. अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते/ 086.024. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले-न्तर्धीयन्ते/ 086.025. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते/ 086.025. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते/ 086.026. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्ते/ 086.027. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते/ 086.027. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते/ 086.028. देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्ते/ 086.029. श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते/ 086.029. प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते/ 086.030. अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषे ऽन्तर्धीयन्ते/ 086.031. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायामन्तर्हिताः//

086.032. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-- 086.033. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः/

087.001. <87>अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव//3//

087.003. गाथां च भाषिते-- 087.004. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः/ 087.006. नाकारणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिना जितारयः//4//

087.008. तत्कालं स्वयमधिगम्य धीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्/ 087.010. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः//5//

087.012. नाकस्माल्लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः/ 087.014. यस्यार्थे स्मितमुपदर्शयन्ति धीरा स्तं श्रोतुं समभिलषन्ति ते जनौघाः//6// इति//

087.016. भगवानाह--एवमेतदानन्द, एवमेतत्/ 087.016. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 087.017. दृष्टस्ते आनन्द अयं गोवृषह्? दृष्टो भदन्त/ 087.017. एष आनन्द गोवृषस्तथागतस्यान्तिके प्रसन्नचित्तः सप्तमे दिवसे कालं कृत्वा चात्रुमहाराजिकेषु देवेषूपपत्स्यते/ 087.019. वैश्रवणस्य महाराजस्य पुत्रो भविष्यति/ 087.019. ततश्च्युत्वा त्रायस्त्रिंशेषु देवेषूपपत्स्यते/ 087.020. शक्रस्य देवेन्द्रस्य पुत्रो भविष्यति/ 087.020. ततश्च्युत्वा यामेषु देवेषूपपत्स्यते/ 087.020. यामस्य देवस्य पुत्रो भविष्यति/ 087.021. ततश्च्युत्वा तुषितेषु देवेषूपपत्स्यते/ 087.021. स तुषितस्य देवस्य पुत्रो भविष्यति/ 087.022. ततश्च्युत्वा निर्माणरतिषु देवेषूपपत्स्यते/ 087.022. सुनिर्मितस्य देवपुत्रस्य पुत्रो भविष्यति/ 087.022. ततश्च्युत्वा परिनिर्मितवशवर्तिषु देवेषूपपत्स्यते/ 087.023. वशवरतिनो देवपुत्रस्य पुत्रो भविष्यति/ 087.023. तदनया संतत्या नवनवतिकल्पसहस्राणि विनिपातं न गमिष्यति/ 087.024. ततः कामावचरेषु देवेषु दिव्यं सुखमनुभूय पश्चिमे भवे पश्चिमे निकेते समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे मनुष्यत्वं प्रतिलभ्य राजा भविष्यति अशोकवर्णो नाम चक्रवर्ती चतुरर्णवान्तविजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः/ 087.027. तस्येमान्येवम्रूपाणि सप्त रत्नानि भविष्यन्ति/ 087.027. तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्/ 087.028. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणा परसैन्यप्रमर्दकानाम्/

087.029. इमामेव समुद्रपर्यन्तां महापृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्म्येण समयेनाभिनिर्जित्य अध्यावत्स्यति/ 087.031. सो ऽपरेण समयेन दानानि दत्वा चक्रवर्तिराज्यमपहाय केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि ...षम्यगेव श्रद्धया अगारादनगारिकां प्रव्रज्य प्रत्येकां बोधिं साक्षात्करिष्यति, अशोकवर्णो नाम प्रत्येकबुद्धो भविष्यति/ 087.033. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--किं भदन्त अनेन गोवृषेण कर्म कृतम् येन तिर्यग्योनावुपपन्नः, किं कर्म कृतम् येन दिव्यमानुषसुखमनुभूय <88>प्रत्येकां बोधिमधिगमिष्यति? भगवानाह--अनेनैव आनन्द गोवृषेण कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यम्भावीनि/

088.002. गोवृषेण कर्माणि कृतान्युपचितानि/ 088.003. को ऽन्यः प्रत्यनुभविष्यति? न ह्यानन्द कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभाशुभानि च/ 088.006. न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि/ 088.007. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//7//

088.008. भूतपूर्वमानन्द अतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्/ 088.010. स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति, अन्यतमस्मिन् वनषण्डे/ 088.010. तस्य नातिदूरे षष्टिभिक्षवः प्रतिवसन्त्यारण्यकाः पिण्डपातिकाः/ 088.011. सर्वे च वीतरागा विगतद्वेषा विगतमोहा यावत् पञ्चमात्राणि धूर्तकशतानि तेन तेनाहिण्ड्यमानानि तं प्रदेशमनुप्राप्तानि/ 088.013. तेषामेतदभवत्--एते हि प्रव्रजिता महात्मानह् ईदृशेषु स्थानेष्वभिरमन्ते/ 088.013. यद्येषां जीवितोपच्छेदं न करिष्यामः, न भूय एतस्मिन् प्रदेशे स्वस्थैर्विहर्तव्यं भविष्यति/ 088.014. यद्यप्येते महात्मानः सर्वसत्त्वहितोदयप्रवृत्ता न परेषामारोचयिष्यन्ति, तथाप्येषां प्रधानपुरुषा उपसंक्रमिष्यन्ति/ 088.016. ते ऽस्माकं राज्ञः समर्पयिष्यन्ति/ 088.016. तत्रास्माभिश्चारकावरुद्धैर्मर्तव्यं भविष्यति/ 088.017. कथमत्र प्रतिपत्तव्यमिति? एकस्तत्रैव निर्घृणहृदयस्त्यक्तपरलोकः/ 088.017. स कथयति--अघातयित्वा एतान् कुतः क्षेम इति? तैस्ते जीविताद्व्यपरोपिताः/ 088.018. ते चैतत्कर्म कृत्वा पापकमकुशलमेकनवतिकल्पानपायेषूपपन्नाः/ 088.019. यद्भूयसा तु नरकेषु तिर्यग्योनौ उपपन्नाश्च सन्तो नित्यं शस्त्रेण प्रघातिताः/ 088.020. तत्र यो ऽसौ चौरस्तेषां समादापकः, स एवायं गोवृषः/ 088.020. तस्य कर्मणो विपाकेन इयन्तं कालं न कदाचित् सुगतौ उपपन्नः/ 088.021. यत्पुनरिदानीं ममान्तिके चित्तं प्रसादितम्, तस्य कर्मणो विपाकेन दिव्यं मानुषं सुखमनुभूय प्रत्येकां बोधिमधिगमिष्यति/ 088.023. एवं हि आनन्द तथागतानां चित्तप्रसादो ऽप्यचिन्त्यविपाकः, किं पुनः प्रणिधानम्/ 088.024. तस्मात्तर्हि आनन्द एवं शिक्षितव्यम् यत्स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततो ऽच्छटासंघातमात्रमपि तथागतमाकारतः समनुस्मरिष्यामीत्येवं ते आनन्द शिक्षितव्यम्//

088.026. अथायुष्मान् आनन्दो भगवतो भाषितमभ्यानन्द्यानुमोद्य भिक्षूणां पुरस्ताद्गाथा भाषते-- 088.027. अहो नाथस्य कारुण्यं सर्वज्ञस्य हितैषिणः/ 088.028. सुकृतेनैव वात्सल्यम् यस्येदृशमहोद्भुतम्//8//

088.029. आपन्नो हि परं कृच्छ्रं गोवृषो येन मोचितः/ 088.030. व्याकृतश्च भवे दिव्ये प्रत्येकश्च जिनो ह्यसौ//9// इति//

088.031. इदमवोचद्भगवान्/ 088.031. आत्तमनसस्ते भिक्षवो भाषितमभ्यनन्दन्//

088.032. इति श्रीदिव्यावदाने ऽशोकवर्णावदानमेकादशमम्//

********** अवदान 12 **********

089.001. दिव्12 प्रातिहार्यसूत्रम्/

089.002. स भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर् नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो बगवाञ् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो दिव्यानां मानुष्याणां च भगवाननुपलिप्तो विहरति पद्मपत्रमिवाम्भसा//

089.007. तेन खलु समयेन राजगृहे नगरे षट् पूर्णाद्याः शास्तारो ऽसर्वज्ञाः सर्वज्ञमानिनः प्रतिवसन्ति स्म/ 089.008. तद्यथा--पूर्णः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैरट्टीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रन्थो ज्ञातिपुत्रः/ 089.009. अथ षण्णां पूर्णादीनां तीर्थ्यानां कुतूहलशालायां संनिषण्णानां संनिपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः -- यत्खलु भवन्तो जानीरन्--यदा श्रमणो गौतमो लोके ऽनुत्पन्नः, तदा वयं सत्कृताश्चाभूवन् गुरुकृताश्च मानिताश्च पूजिताश्च राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानाम्/ 089.013. लाभीनश्चाभूवंश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्/ 089.014. यदा तु श्रमणो गौतमो लोके उत्पन्नः, तदा श्रमणो गौतमः सत्कृतो गुरुकृतो मानितः पूजितो राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां जनपदानां धनिनां श्रेष्ठिनां सार्थवाहानाम्/ 089.015. लाभी च श्रमणो गौतमः सश्रावकसंघश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्/ 089.017. अस्माकं च लाभसत्कारः सर्वेण सर्वं समुच्छिन्नः/ 089.017. वयं स्म ऋद्धिमन्तो ज्ञानवादिनः/ 089.018. श्रमणो ऽपि गौतमो रिद्धिमाञ् ज्ञावादीत्यात्मानं प्रतिजानीते/ 089.018. अर्हति ज्ञावादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 089.019. यद्येकं श्रमणो गौतमो ऽनुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे/ 089.020. द्वे श्रमणो गौतमः, वयं चत्वारि/ 089.020. चत्वारि श्रमणो गौतमः, वयमष्टौ/ 089.021. अष्टौ श्रमणो

गौतमः, वयं षोडश/ 089.021. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणं विदर्शयिष्यामः/ 089.023. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः/ 089.024. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 089.024. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य प्राक्रान्तम्, न च कदाचिदवतारो लब्धः/ 089.026. यन्न्वहं तीर्थ्यानां प्रहरेयम्/ 089.026. इति विदित्वा पूरणवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा मस्करिणं गोशालीपुत्रमामन्त्रयते--यत्खलु मस्करिञ् जानीयाह्--अहं रिद्धिमाञ् ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ् ज्ञानवादीत्यात्मानं परिजानीते/ 089.029. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 089.030. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्वे/ 089.031. द्वे श्रमणो गौतमः, अहं चत्वारि/ 089.031. चत्वारि श्रमणो गौतमः, अहमष्टौ/ 089.031. अष्टौ श्रमणो गौतमः, अहं षोडश/ 089.032. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो <90>गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणमुत्तरं मनुष्यधर्मं रिद्धिप्रातिहार्यं विदर्शयिष्यामः/

090.002. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि/ 090.003. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 090.004. अथ मारस्य पापीयस एतदभवत्--असकृदसकृन्मया श्रमणस्य गौतमस्य पराक्रान्तम्, न च कदाचिदवतारो लब्धः/ 090.005. यन्न्वहं तीर्थ्यानां प्रहरेयम्/ 090.005. इति विदित्वा मस्करिवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कृत्वा संजयिनं वैरट्टीपुत्रमामन्त्रयते--यत्खलु संजयिञ् जानीयाह्--अहं रिद्धिमाञ् ज्ञानवादी, श्रमणो गौतमो रिद्धिमाञ् ज्ञानवादीत्यात्मानं प्रतिजानीते/ 090.008. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 090.009. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्वे/ 090.010. द्वे श्रमणो गौतमः, अहं चत्वारि/ 090.010. चत्वारि श्रमणो गौतमः, अहमष्टौ/ 090.011. अष्टौ श्रमणो गौतमः, अहं षोडश/ 090.011. षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं तद्द्विगुणमुत्तरं मनुष्यधर्मप्रातिहार्यं विदर्शयिष्यामि/ 090.013. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि/ 090.014. तत्र मे भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 090.015. एवमन्योन्यं सर्वे विहेठिताः/ 090.015. एकैक एवमाह--रिद्धेर्लाभी नाहमिति//

090.016. पूरणाद्याः षट् शास्तारः सर्वज्ञज्ञानिनो येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रामन्/ 090.017. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचन्--यत्खलु देव जानीयाह्--वयम् ऋद्धिमन्तो ज्ञानवादिनः/ 090.018. श्रमणो ऽपि गौतमो रिद्धिमाञ् ज्ञानवादीत्यात्मानं प्रतिजानीते/ 090.018. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 090.019. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे/ 090.020. द्वे श्रमणो गौतमः, वयं चत्वारि/ 090.021. चत्वारि श्रमणो गौतम, वयमष्टौ/ 090.021. अष्टौ श्रमणो गौतमः, वयं षोडश/ 090.021. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्रिगुणं रिद्धिप्रातिहार्यं विदर्शयिष्यामः/ 090.023. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः/ 090.024. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मन्ष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 090.025. एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तीर्थ्यानिदमवोचत्--यूयमपि शवा भूत्वा भगवता सार्धं रिद्धिं प्रारभध्वे? अथ पूरणाद्याः षट् शास्तारो ऽसर्वज्ञाः सर्वज्ञानज्ञानिनो ऽर्धमार्गे राजानं मागधं श्रेण्यं बिम्बिसारं विज्ञापयन्ति--वयं स्मो देव रिद्धिमन्तो ज्ञानवादिनः/ 090.028. श्रमणो ऽपि गौतमो रिद्धिमाञ् ज्ञानवादीत्यात्मानं प्रतिजानीते/ 090.029. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 090.030. यावत् तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 090.031. एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तांस्तीर्थिकपरिव्राजकानिदमवोचत्--यद्येवं त्रिरप्येतमर्थं विज्ञापयिष्यथ, निर्विषयान् वः करिष्यामि/ 090.032. अथ तीर्थ्यानामेतदभवत्--अयं राजा <91>मागधः श्रेण्यो बिम्बिसारः श्रमणस्य गौतमस्य श्रावकः/

091.001. बिम्बिसारस्तिष्ठतु/ 091.001. राजा प्रसेनजित् कौशलो मध्यस्थः/ 091.002. यदा श्रमणो गौतमः श्रावस्तीं गमिष्यति, तत्र वयं गत्वा श्रमणं गौतममुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्ये आह्वयिष्यामः/ 091.003. इत्युक्त्वा प्रक्रान्ताः//

091.004. अथ राजा मागधः श्रेण्यो बिम्बिसारो ऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष क्षिप्रम्/ 091.005. भद्रं यानं योजय, यत्राहमधिरुह्य भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै/ 091.006. एवं देवेति स पुरुषो राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रान्तः/ 091.007. उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति/ 091.008. अथ राजा मागधः श्रेण्यो बिम्बिसारो भद्रं यानमभिरुह्य राजगृहान्निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय/ 091.010. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत्/ 091.011. अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमद्राक्षीत्/ 091.012. तदन्तरा पञ्च ककुदान्यपनीय तद्यथा--उष्णीषं छत्रं खड्गमणिं वालव्यजनं चित्रे चोपानहौ, स पञ्च ककुदान्यपनीय येन भगवांस्तेनोपसंक्रान्तः/ 091.013. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 091.014. एकान्तनिषण्णं विदित्वा राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 091.015. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 091.016. अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः//

091.019. अथ भगवत एतदभवत्--कुत्र पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्? देवता भगवत आरोचयन्ति--श्रुतपूर्वं भदन्त पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति/ 091.021. भगवतो ज्ञानदर्शनं प्रवर्तते--श्रावस्त्यां पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति/ 091.022. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, भिक्षूणामारोचय/ 091.023. तथागतः कोशलेषु जनपदेषु चारिकां चरिष्यति/ 091.024. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि धावतु सीव्यतु रञ्जयतु/ 091.025. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तः कोशलेषु जनपदेषु चारिकां चरिष्यति/ 091.026. यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चरितुम्, स चीवराणि धावतु सीव्यतु रञ्जयतु इति/ 091.027. ते भिक्षव आयुष्मत आनन्दस्य प्रत्यश्रौषुः/ 091.028. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्टगणपरिवृतो राजहंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो<92> देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव

पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो वेमचित्र इवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमिव इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो ऽनेकैरावेणिकैर्बुद्धधर्मैर्महता भिक्षुसंघेन च पुरस्कृतो येन श्रावस्ती तेन चारिकां प्रक्रान्तः/

092.007. अनेकैश्च देवताशतसहस्रैरनुगम्यमानो ऽनुपूर्वेण चारिकां चरञ् श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे//

092.010. अश्रौषुस्तीर्थ्याः श्रमणो गौतमः श्रावस्तीं गत इति/ 092.010. श्रुत्वा च पुनः श्रावस्तीं संप्रस्थिताः/ 092.011. ते श्रावस्तीं गत्वा राजानं प्रसेनजित्कौशलमिदमवोचन्--यत्खलु देव जानीथाह्--वयम् ऋद्धिमन्तो ज्ञानवादिनः/ 092.012. श्रमणो गौतमो ऋद्धिमाञ् ज्ञावादीत्यात्मानं प्रतिजानीते/ 092.013. अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयितुम्/ 092.013. यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे/ 092.014. द्वे श्रमणो गौतमः, वयं चत्वारि/ 092.015. चत्वारि श्रमणो गौतमः, वयमष्टौ/ 092.015. अष्टौ श्रमणो गौतमः, वयं षोडश/ 092.015. षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्त्रिगुणमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामः/ 092.017. उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः/ 092.018. तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 092.019. एवमुक्ते राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--आगमयन्तु तावद्भवन्तो यावदहं भगवन्तमवलोकयामि/ 092.020. अथ राजा प्रसेनजित् कौशलो ऽन्यतमं पुरुषमामन्त्रयते--गच्छ त्वं भोः पुरुष/ 092.021. क्षिप्रं भद्रं यानं योजय/ 092.022. अहमभिरुह्य अद्यैव भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै/ 092.022. एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा प्रसेनजित्

कौशलस्तेनोपसंक्रान्तः/ 092.024. उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत्--युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यते/ 092.025. अथ राजा प्रसेनजित् कौशलो भद्रं यानमभिरुह्य श्रावस्त्या निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं पर्युपासनाय/ 092.027. तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतार्य पादाभ्यामेव आरामं प्रविश्य येन भगवांस्तेनोपसंक्रान्तः/ 092.028. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 092.029. एकान्ते निषण्णो राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्--इमे भदन्त तीर्थ्या भगवन्तमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाह्वयन्ते/ 092.030. विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्/ 092.031. निर्भर्त्सयतु भगवांस्तीर्थ्यान्/ 092.031. नन्दयतु देवमनुष्यान्/ 092.031. तोषयतु सज्जनहृदयमनांसि/ 092.032. एवमुक्ते भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--नाहं महाराज <93>एवं श्रावकाणां धर्मं देशयामि एवम् यूयं भिक्षव आगतागतानां ब्राह्मणगृहपतीनामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयतेति/

093.002. अपि तु अहमेवं श्रावकाणां धर्मं देशयामि--प्रतिच्छन्नकल्याणा भिक्षवो विहरत विवृतपापा इति/ 093.003. द्विरपि त्रिरपि राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्--विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्/ 093.004. निर्भर्त्सयतु तीर्थ्यान्/ 093.005. नन्दयतु भगवान् देवमनुष्यान्/ 093.005. तोषयतु सज्जनहृदयमनांसि/ 093.005. धर्मता खलु बुद्धानां भगवतां जीवतां तिष्ठतां ध्रियमाणानाम् यापयताम् यदुत दशावश्यकरिणीयानि भवन्ति/ 093.007. न तावद्बुद्धा भगवन्तः परिनिर्वान्ति यावन्न बुद्धो बुद्धं व्याकरोति, यावन्न द्वितीयेन सत्त्वेनापरिवर्त्यमनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितं भवति, सर्वबुद्धवैनेया विनीता भवन्ति, त्रिभाग आयुष उत्सृष्टो भवति, सीमाबन्धः कृतो भवति, श्रावकयुगमग्रतायां निर्दिष्टं भवति, सांकाश्ये नगरे देवतावतरणं विदर्शितं भवति, अनवतप्ते महासरसि श्रावकैः सार्धं पूर्विका कर्मप्लोतिर्व्याकृता भवति, मातापितरौ सत्येषु प्रतिष्ठापितौ भवतः, श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति/ 093.012. अथ भगवत एतदभवत्--अवश्यकरणीयमेतत्तथागतेनेति विदित्वा राजानं प्रसेनजितं कौशलमामन्त्रयते--गच्छ त्वं महाराज/ 093.013. इतः सप्तमे दिवसे तथागतो महाजनप्रत्यक्षमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति हिताय प्राणिनाम्/ 093.014. अथ राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्--यदि भगवाननुजानीयात्, अहं भगवतः प्रातिहार्यमण्डपं कारयेयम्/ 093.016. अथ भगवत एतदभवत्--कतरस्मिन् प्रदेशे पूर्वकैः

सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति? देवता भगवत आरोचयन्ति--अन्तरा भदन्त श्रावस्तीमन्तरा च जेतवनमत्रान्तरात् पूर्वकैः सम्यक्सम्बुद्धेर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्/ 093.019. भगवतो ऽपि ज्ञानदर्शनं प्रवर्तते--अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तरात् पूर्वकैः सम्यक्सम्बुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्/ 093.020. अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन/ 093.021. अथ राजा प्रसेनजित् कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवन्तमिदमवोचत्--कतमस्मिन् भदन्त प्रदेशे प्रातिहार्यमण्डपं कारयामि? अन्तरा च महाराज श्रावस्तीमन्तरा च जेतवनम्/ 093.023. अथ राजा प्रसेनजित् कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः//

093.026. अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--यत्खलु भवन्तो जानीरन्--इतः सप्तमे दिवसे भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति/ 093.027. अथ तीर्थ्यानामेतदभवत्--किं पुनः श्रमणो गौतमः सप्तभिर्दिवसैरनधिगतमधिगमिष्यति, अथ वा निष्पलायिष्यति, अथ वा पक्षपर्येषणं कर्तुकामह्? तेषामेतदभवत्--न ह्येव श्रमणो गौतमो निष्पलायिष्यति, नाप्यनधिगतमधिगमिष्यति/ 093.030. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः/ 093.031. वयमपि तावत् पक्षपर्येषणं करिष्यामः/ 093.031. इति विदित्वा रक्ताक्षो नाम परिव्राजक इन्द्रजालाभिज्ञः स आहूतः/ 093.032. रक्ताक्षस्य परिव्रजकस्यैतत् प्रकरणं विस्तरेणारोचयन्ति, एवं चाहुह्--<94>यत्खलु रक्ताक्ष जानीयाह्--श्रमणो गौतमो ऽस्माभिरिद्ध्या आहूतः/

094.001. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति/ 094.001. नूनं श्रमणो गतमः पक्षपर्येषणं कर्तुकामः/ 094.003. त्वमपि तावत् सब्रह्मचारिणां पक्षपर्येषणं कुरुष्व/ 094.003. तेन तथेति प्रतिज्ञातम्/ 094.003. अथ रक्ताक्षः परिव्राजको येन नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकास्तेनोपसंक्रान्तः/ 094.004. उपसंक्रम्य नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतमो ऽस्माभिरिद्ध्या आहूतः/ 094.006. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शायिष्यामीति/ 094.007. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः/ 094.008. भवद्भिरपि ब्रह्मचारिणां साहाय्यं करणीयम्/ 094.008. सप्तमे दिवसे युष्माभिर्बहिः श्रावस्त्या निर्गन्तव्यम्/ 094.009. तैस्तथेति प्रतिज्ञातम्/ 094.009. अथान्यतमस्मिन् पर्वते पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति/ 094.010. अथ रक्ताक्षः परिव्राजको येन ते ऋषयस्तेनोपसंक्रान्तः/ 094.011. उपसंक्रम्य तेषामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु भवन्तो जानीरन्--श्रमणो गौतम ऋद्ध्या आहूतः/ 094.012. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति/ 094.013. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः/ 094.013. भवद्भिरपि सब्रह्मचारिणां साहाय्यं करणीयम्/ 094.014. सप्तमे दिवसे युष्माभिः श्रावस्तीमागन्तव्यम्/ 094.014. तैस्तथेति प्रतिज्ञातम्/ 094.015. तेन खलु समयेन सुभद्रो नाम परिव्राजकः

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.