Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/19

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

दिव्यावदान

Thông tin
GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पञ्चाभिज्ञः/ 094.015. तस्य कुशिनगर्यामावसथो ऽनवतप्ते महासरसि दिवा विहारः/ 094.016. अथ रक्ताक्षः परिव्राजको येन सुभद्रः परिव्राजकस्तेनोपसंक्रान्तः/ 094.017. उपसंक्रम्य एतत्प्रकरणं विस्तरेणारोचयति, एवं चाह--यत्खलु सुभद्र जानीयाह्--श्रमणो गौतमो ऽस्माभिह् ऋद्ध्या आहूतः/ 094.018. स कथयति--इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति/ 094.019. नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः/ 094.019. त्वया सब्रह्मचारिणां साहाय्यं करणीयम्/ 094.020. सप्तमे दिवसे त्वया श्रावस्तीमागन्तव्यम्/ 094.020. सुभद्रेणाभिहितम्--न शोभनं भवद्भिः कृतम् यद्युष्माभिः श्रमणो गौतमो रिद्ध्या आहूतः/ 094.021. तत्कस्य हेतोह्? मम तावत् कुशिनगर्यामावासो ऽनवतप्ते महासरसि दिवा विहारः/ 094.022. श्रमणस्य गौतमस्य शारिपुत्रो नाम शिष्यस्तस्य चुन्दो नाम श्रामणेरकस्तस्यापि तत्रैवानवतप्ते महासरसि दिवा विहारः/ 094.024. न तथानवतप्तकायिका देवता अपि कारान् कर्तव्यान् मन्यन्ते यथा तस्य/ 094.025. एको ऽयं समयः/ 094.025. इहाहं कुशिनगरीं पिण्डाय चरित्वा पिण्डपातमादाय अनवतप्तं महासरसं गच्छामि/ 094.026. तस्य ममानवतप्तकायिका देवता अनवतप्तान्महासरसः पानीयमुद्धृत्य एकान्ते न प्रयच्छति/ 094.027. चुन्दः श्रमणोद्देशः पांशुकूलान्यादायानवतप्तं महासरो गच्छति/ 094.027. तस्यानवतप्तकायिका देवता पांशुकूलानि धावयित्वा तेन पानीयेनात्मानं सिञ्चति/ 094.028. यस्य तावद्वयं शिष्यप्रतिशिष्यकयापि न तुल्याः, स युष्माभिरुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाहूतः/ 094.029. न शोभनं

भवद्भिः कृतम् यच्छ्रमणो गौतमो रिद्धिप्रातिहार्येणाहूतः/ 094.030. एवमहं जाने यथा महर्द्धिकः श्रमणो गौतमो महानुभाव इति/ 094.031. रक्तक्षेणाभिहितम्--त्वं तावच्च्रमणस्य गौतमस्य पक्षं वदसि/ 094.032. त्वया तावन्न गन्तव्यम्/ 094.032. सुभद्रेणाभिहितम्--नैव गमिष्यामीति//

095.001. <95>अथ राज्ञः प्रसेनजितः कौशलस्य कालो नांना भ्राता अभिरूपो दर्शनीयः प्रासादिकः श्राद्धो भद्रः कल्याणाशयः/ 095.002. स राज्ञः प्रसेनजितः कौशलस्य निवेशनद्वारेणाभिनिष्क्रामति/ 095.003. अन्यतमया चावरुद्धिकया प्रासादतलगतया राजकुमारं दृष्ट्वा स्रग्दामं क्षिप्तम्/ 095.004. तत् तस्योपरि निपतितम्/ 095.004. मित्रारिमध्यमो लोकः/ 095.004. तै राज्ञे निवेदितम्--यत्खलु देव जानीथाः--कालेन देवस्यान्तःपुरं प्रार्थितम्/ 095.005. राजा प्रसेनजित् कौशलश्चण्डो रभसः ककर्शः/ 095.006. तेनापरीक्ष्य पौरुषेयाणामाज्ञा दत्ता--गच्छन्तु भवन्तः/ 095.006. शीघ्रं कालस्य हस्तपादांश् छिन्दन्तु/ 095.007. एवं देवेति पौरुषेयै राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य कालस्य वीथीमध्ये हस्तपादाश्छिन्नाः/ 095.008. स आर्तस्वरं क्रन्दते, दुःखां तीव्रां खरां कटुकाममनापां देवनां वेदयते/ 095.008. कालं राजकुमारं दृष्ट्वा महाजनकायो विक्रोष्टुमारब्धः/ 095.009. पूरणादायश्च निर्ग्रन्थास्तं प्रदेशमनुप्राप्ताः/ 095.010. कालस्य ज्ञातिभिरभिहितम्--एतमार्याः कालं राजकुमारं सत्याभियाचनया यथापौराणं कुरुध्वमिति/ 095.011. पूरणेनाभिहितम्--एष श्रमणस्य गौतमस्य श्रावकः/ 095.011. श्रमणधर्मेण गौतमो यथापौराणं करिष्यति/ 095.012. अथ कालस्य राजकुमारस्यैतदभवत्--कृच्छ्रसंकटसम्बाधप्राप्तं मां भगवान् न समन्वाहरतीति विदित्वा गाथां भाषते-- 095.014. इमामवस्थां मम लोकनाथो न वेत्ति संबाधगतस्य कस्मात्/ 095.016. नमो ऽस्तु तस्मै विगतज्वराय सर्वेषु भूतेष्वनुकम्पकाय//1//

095.018. असंमोषधर्माणो बुद्धा भगवन्तः/ 095.018. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--गच्छ त्वमानन्द संघाटिमादाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कालो राजभ्राता तेनोपसंक्राम/ 095.020. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवं वद--ये केचित् सत्त्वा अपदा वा द्विपदा वा बहुपदा वा अरूपिणो वा रूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यायते/ 095.023. ये केचिद् धर्मा असंस्कृता वा संस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः/ 095.025. अनेन सत्येन सत्यवाक्येन तव शरीरम् यथापौराणं स्यात्/ 095.025. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य संघाटीमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन राजभ्राता कालस्तेनोपसंक्रान्तः/ 095.027. उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवमाह--ये केचित् सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावन्नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्सम्बुद्धस्तेषां सत्त्वानामग्र आख्यातः/ 095.029. ये केचिद्धर्माः संकृता वा असंस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः/ 095.030. ये केचित् संघा वा गणा वा पूगा वा पर्षदो वा, तथागतश्रावकसंघस्तेषामग्र आख्यातः/ 095.031. अनेन सत्येन सत्यवाक्येन तव शरीरम् यथापौराणं भवतु/ 095.032. सहाभिधानात् कालस्य राजकुमारस्य शरीरम् यथापौराणं संवृत्तम्, <96>यथापि तत्र बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन/

096.001. कालेन कुमारेण तेनैव संवेगेन अनागामिफलं साक्षात्कृतम् ऋद्धिश्चापि निर्हृता/ 096.002. तेन भगवत आरामो निर्यातितः/ 096.002. स भगवत उपस्थानं कर्तुमारब्धः/ 096.003. यत्रास्य शरीरं गण्डगण्डं कृतं तस्य गण्डक आरामिक इति संज्ञा संवृत्ता/ 096.004. अथ राज्ञा प्रसेनजिता कौशलेन सर्वोपकरणैः स प्रवारितः/ 096.004. कालेनाभिहितम्--न मम त्वया प्रयोजनम्/ 096.005. भगवत एवोपस्थानं करिष्यामीति//

096.006. राज्ञा प्रसेनजिता कौशलेन अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तराद्भगवतः प्रातिहार्यमण्डपः कारितः शतसहस्रहस्तह् .... चतुर्णां मण्डपो विततः/ 096.007. भगवतः सिंहासनं प्रज्ञप्तम्/ 096.008. अन्यतीर्थिकश्रावकैरपि पूर्णादीनां निर्ग्रन्थानां प्रत्येकप्रत्येकमण्डपः कारितः/ 096.009. राज्ञा प्रसेनजिता कौशलेन सप्तमे दिवसे यावज्जेतवनं यावच्च भगवतः प्रातिहार्यमण्डपो ऽन्तरात् सर्वो ऽसौ प्रदेशो ऽपगतपाषाणशर्करकठल्यो व्यवस्थितः/ 096.010. धूपचूर्णान्धकारः कृतः/ 096.011. छत्रध्वजपताकागन्धोदकपरिषिक्तो नानापुष्पाभिकीर्णो रमणीयः/ 096.011. अन्तरान्तरा च पुष्पमण्डपाः सज्जीकृताः//

096.013. अथ भगवान् सप्तमे दिवसे पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्/ 096.014. श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिश्राम्य बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसंलयनाय/ 096.015. अथ राजा प्रसेनजित् कौशलो ऽनेकशतपरिवारो ऽनेकसहस्रपरिवारो ऽनेकशतसहस्रपरिवारो येन भगवतः प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः/ 096.017. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः/ 096.017. तीर्थ्या अपि महाजनकायपरिवृता येन मण्डपस्तेनोपसंक्रान्ताः/ 096.018. उपसंक्रम्य प्रत्येकप्रत्येकस्मिन्नासने निषण्णाः/ 096.019. निषद्य राजानं प्रसेनजितं कौशलमिदमवोचन्--यत्खलु देव जानीयाह्--एते वयमागताः/ 096.020. कुत्र एतर्हि श्रमणो गौतमह्? तेन भवन्तो मुहूर्तमागमयत/ 096.020. एष इदानीं भगवानधिगमिष्यति/ 096.021. अथ राजा प्रसेनजित् कौशल उत्तरं माणवमामन्त्रयते--एहि त्वमुत्तर, येन भगवांस्तेनोपसंक्राम/ 096.023. उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च/ 096.024. एवं च वद--राजा भदन्त प्रसेनजित् कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं कालं मन्यते/ 096.025. एवं देवेत्युत्तरो माणवो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य येन भगवांस्तेनोपसंक्रान्तः/ 096.026. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः/ 096.027.

एकान्तनिषण्ण उत्तरो माणवो भगवन्तमिदमवोचत्--राजा भदन्त प्रसेनजित् कौशलो भगवतः पादौ शिरसा वन्दते, अल्पाबाधतां च पृच्छति अल्पातङ्कतां च लघूत्थानतां च यात्रं च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च/ 096.030. सुखी भवतु माणव राजा प्रसेनजित् कौशलस्त्वं च/ 096.030. राजा भदन्त प्रसेनजित् कौशल एवमाह--इमे भदन्त तीर्थ्या आगता यस्येदानीं भगवान् कालं मन्यते/ 096.031. एवमुक्ते भगवानुत्तरं माणवमिदमवोचत्--माणव एषो ऽहमद्यागच्छामि/ 096.032. भगवता तथाधिष्ठितो यथोत्तरो <97>माणवस्तत् एवोपरिविहायसा प्रक्रान्तः, येन राजा प्रसेनजित् कौशलस्तेनोपसंक्रान्तः/

097.002. अद्राक्षीद्राजा प्रसेनजित् कौशल उत्तरं माणवकमुपरि विहायसा आगच्छतम्/ 097.002. दृष्ट्वा च पुनस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 097.003. यूयमपि विदर्शयत/ 097.004. तीर्थ्याः कथयन्ति--महाजनकायो ऽत्र महाराज संनिपतितः/ 097.004. किं त्वं ज्ञास्यसि केनैतद् विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते ऽर्गडच्छिद्रेणार्चिषो निर्गत्य भगवतः प्रातिहार्यमण्डपे निपतिताः, सर्वश्च प्रातिहार्यमण्डपः प्रज्वलितः/ 097.007. अद्राक्षुस्तीर्थ्या भगवतः प्रातिहार्यमण्डपं प्रज्वलितम्, दृष्ट्वा च पुनः प्रसेनजितं कौशलमिदमवोचन्--एष इदानीं महाराज श्रमणस्य गौतमस्य प्रातिहार्यमण्डपः प्रज्वलितः/ 097.009. गच्छ इदानीं निर्वापय/ 097.009. अथ सो ऽग्निरस्पृष्ट एव वारिणा सर्वप्रातिहार्यमण्डपमदग्ध्वा स्वयमेव निर्वृतो यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन/ 097.010. अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 097.012. यूयमपि विदर्शयत/ 097.012. तीर्थ्याः कथयन्ति--महाजनकायो ऽत्र महाराज संनिपतितः/ 097.013. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टाः, येन सर्वलोक उदारेणावभासेन स्फुटो ऽभूत्/ 097.014. अद्राक्षीद्राजा प्रसेनजित् कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्/ 097.015. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/

097.016. यूयमपि विदर्शयत/ 097.016. तीर्थ्याः कथयन्ति--महाजनकायो ऽत्र महाराज संनिपतितः/ 097.017. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता कनकमरीचिकावभासा उत्सृष्टा येन सर्वलोक उदारेणावभासेन स्फुटो ऽभूत्/ 097.019. अद्राक्षीद्राजा प्रसेनजित् कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्/ 097.019. दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 097.020. यूयमपि विदर्शयत/ 097.021. तीर्थ्याः कथयन्ति--महाजनकायो ऽत्र महाराज संनिपतितः/ 097.021. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन वा गौतमेन? गण्डकेनारामिकेनोत्तरकौरवाद् द्वीपात् कर्णिकारवृक्षमादाय भगवतः प्रातिहार्यमण्डपस्याग्रतः स्थापितः/ 097.023. रत्नकेनाप्यारामिकेन गन्धमादनादशोकवृक्षमानीय भगवतः प्रातिहार्यमण्डपस्य पृष्ठतः स्थापितः/ 097.024. अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 097.025. यूयमपि विदर्शयत/ 097.026. तीर्थ्याः कथयन्ति--महाजनकायो ऽत्र संनिपतितः/ 097.026. किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन? भगवता साभिसंस्कारेण पृथिव्यां पादौ न्यस्तौ/ 097.028. महापृथिवीचालः संवृत्तः/ 097.028. अयं त्रिसाहस्रमहासाहस्रो लोकधातुरियं महापृथिवी षड्विकारं कम्पति प्रकम्पति संप्रकम्पति/ 097.029. चलति संचलति संप्रचलति/ 097.029. व्यथति संव्यथति संप्रव्यथति/ 097.030. पूर्वावनमति पश्चिमोन्नमति/ 097.030. {पूर्वोन्नमति

पश्चिमावनमति/} 097.031. दक्षिणोन्नमति उत्तरावनमति/ 097.031. उत्तरोन्नमति दक्षिणावनमति/ 097.031. मध्ये उन्नमति अन्ते ऽवनमति/ 097.032. मध्ये ऽवनमति अन्ते उन्नमति/ 097.032. इमौ सूर्यचन्द्रमसौ भासतस्तपतो विरोचतः/

098.001. <98>विचित्राणि च आश्चर्याद्भुतानि प्रादुर्भूतानि/ 098.001. गगनतलस्था देवता भगवत उपरिष्टाद्दिव्यान्युत्पलानि क्षिपन्ति पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति, दिव्यानि च वादित्राणि संप्रवादयन्ति, चैलविक्षेपं चाकार्षुः//

098.005. अथ तेषाम् ऋषीणामेतदभवत्--किमर्थं महापृथिवीचालः संवृत्त इति/ 098.005. तेषामेतदभवत्--नूनमस्माकं सब्रह्मचारिभिः श्रमणो गौतमो रिद्ध्या आहूतो भविष्यतीति विदित्वा पञ्च ऋषिशतानि श्रावस्तीं संप्रस्थितानि/ 098.007. तेषामागच्छतां भगवता एकायनो मार्गो ऽधिष्ठितः/ 098.008. अद्राक्षुस्ते ऋषयो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं मूर्तिमन्तमिव धर्मं हव्यावसिक्तमिव हुतवहं काञ्चनभाजनस्थमिव प्रदीपं जङ्गममिव सुवर्णपर्वतं नानारत्नविचित्रमिव सुवर्णरूपं स्फुटपटुमहाविमलविशुद्धबुद्धिं बुद्धं भगवन्तम्/ 098.010. दृष्ट्वा च पुनर् न तथा द्वादशवर्षे ऽभ्यस्तशमथो योगाचारस्य चित्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रः प्रतिलम्भो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथा तत्प्रथमतपूर्वबुद्धारोपितकुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्/ 098.013. अथ ते ऋषयो येन भगवांस्तेनोपसंक्रान्ताः/ 098.014. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिताः/ 098.014. एकान्तस्थितास्ते ऋषयो भगवन्तमिदमवोचन्--लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्/ 098.016. चरेम वयं भगवतो ऽन्तिके प्रव्रज्य ब्रह्मचर्यम्/ 098.016. ते भगवता ब्राह्मेण स्वरेणाहूताः--एत भिक्षवश्चरत ब्रह्मचर्यम्/ 098.017. सहाभिधानान्मुण्डाः संवृत्ताः संघाटीप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थिताः/ 098.019. एहीति चोक्ताश्च तथागतेन मुण्डाश्च संघाटिपरीतदेहाः/ 098.021. सत्य(द्यः) प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन//2//

098.023. अथ भगवान् दिव्यमानुष्येण पूजासत्कारेण सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन्नर्हत्परिवारो सप्तभिश्च निकायैः संपुरस्कृतो महता च जनौघेन येन प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः/ 098.025. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 098.025. भगवतः कायाद्रश्मयो निर्गत्य सर्वं प्रातिहार्यमण्डपं सुवर्णवर्णावभासं कृतवत्यः/ 098.026. अथ लूहसुदत्तो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु/ 098.028. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि/ 098.029. निर्भर्त्सयिष्यामि तीर्थ्यान्/ 098.029. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्/ 098.030. तोषयिष्यामि सज्जनहृदयमनांसि/ 098.030. न त्वं गृहपते एभिह् ऋद्ध्या आहूतः, अपि त्वहं तीर्थ्यैः रिद्ध्या आहूतः/ 098.031. अहमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि/ 098.032. स्थानमेतद्विद्यते यत्तीर्थ्या एवं वदेयुः--नास्ति श्रमणस्य गौतमस्योत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्<99>/

099.001. श्रावकस्यैषा गृहिणो ऽवदातवसनस्य ऋद्धिरिति/ 099.001. निषीद त्वं गृहपते यथास्वके आसने/ 099.002. निषण्णो लूहसुदत्तो गृहपतिर्यथास्वके आसने/ 099.002. यथा लूहसुदत्तो गृहपतिरेवं कालो राजभ्राता, रम्भक आरामिकः, ऋद्धिलमाता उपासिका श्रमणोद्देशिका, चुन्दः श्रमणोद्देशः, उत्पलवर्णा भिक्षुणी/ 099.004. अथायुष्मान् महामौद्गल्यायन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अल्पोत्सुको भगवान् भवतु/ 099.005. अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि/ 099.006. तीर्थ्यान् निगृह्णिष्यामि/ 099.006. सह धर्मेण नन्दयिष्यामि देवमनुष्यान्/ 099.007. तोषयिष्यामि सज्जनगृहृदयमनांसि/ 099.007. प्रतिबलस्त्वं मौद्गल्यायन तीर्थ्यान् सहधर्मेण निगृहीतुम्/ 099.008. अपि तु न त्वं तीर्थ्यैर् रिद्ध्या आहूतः/ 099.008. अहमेषामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि हिताय प्राणिनाम्/ 099.009. निर्भर्त्सयिष्यामि तीर्थ्यान्/ 099.009. नन्दयिष्यामि देवमनुष्यान्/ 099.010. तोषयिष्यामि सज्जनहृदयमनांसि/ 099.010. निषीद त्वं मौद्गल्यायन यथास्वके आसने/ 099.011. निषण्ण आयुष्मान् महामौद्गल्यायनो यथास्वके आसने/ 099.011. तत्र भगवान् राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषते उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्--अहं भदन्त भगवन्तमध्येषे उत्तरे

मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्/ 099.015. भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम् {विदर्शयतु} हिताय प्राणिनाम्/ 099.016. निर्भर्त्सयतु तीर्थ्यान्/ 099.017. नन्दयतु देवमनुष्यान्/ 099.017. तोषयतु सज्जनहृदयमनांसि/ 099.017. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्नासने ऽन्तर्हितः पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति तद्यथा--चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति/ 099.020. तेजोधातुमपि संपद्यते/ 099.020. तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्यर्चींषि कायान्निश्चरन्ति तद्यथा नीलपीतानि लोहितान्यवदातानि मञ्जिष्ठानि स्फटिकवर्णानि/ 099.021. अनेकान्यपि प्रातिहार्याणि विदर्शयति/ 099.022. अधःकायं प्रज्वालयति, उपरिमात् कायाच्छीतला वारिधाराः स्यन्दन्ते/ 099.023. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां दिशीति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः/ 099.024. निषद्य भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्--इयं महाराज तथागतस्य सर्वश्रावकसाधारणा ऋद्धिः/ 099.026. तत्र भगवान् द्विरपि राजानं प्रसेनजितं कौशलमामन्त्रयते--को महाराज तथागतमध्येषते ऽसाधारणायाम् ऋद्ध्यामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्? अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अहं भदन्त भगवन्तमध्येषे ऽसाधारणायाम् ऋद्ध्यामुत्तरे मनुष्यधर्मे

ऋद्धिप्रातिहार्यं हिताय प्राणिनाम्/ 099.030. निर्भर्त्सयतु तीर्थ्यान्/ 099.031. नन्दयतु देवमनुष्यान्/ 099.031. तोषयतु सज्जनहृदयमनांसि//

099.032. भगवता लौकिकं चित्तमुत्पादितम्/ 099.032. धर्मता खलु बुद्धानां भगवताम् यदि लौकिकं चित्तमुत्पादयन्ति, अन्तशः कुन्तपिपीलिको ऽपि प्राणी भगवतह् चेतसि चित्तमाजानन्ति/

100.001. <100>अथ लोकोत्तरचित्तमुत्पादयन्ति, तत्रागतिर्भवति प्रत्येकबुद्धानामपि, कः पुनर्वादः श्रावकाणाम्? अथ शक्रब्रह्मादीनां देवानामेतदभवत्--किमर्थं भगवता लौकिकं चित्तमुत्पादितम्? तेषामेतदभवत्--श्रावस्त्यां महाप्रातिहार्यं विदर्शयितुकामो हिताय प्राणिनाम्/ 100.004. अथ शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि भगवतश्चेतसा चित्तमाज्ञाय तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुञ्चयेत्, एवमेव शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि च देवलोके ऽन्तर्हितानि, भगवतः पुरतस्तस्थुः/ 100.006. अथ ब्रह्मादयो देवा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणं पार्श्वं निश्रित्य निषण्णाः/ 100.008. शक्रादयो देवा भगवन्तं त्रिः प्रदक्षिणीक्त्य भगवतः पादौ शिरसा वन्दित्वा वामं पार्श्वं निश्रित्य निषण्णाः/ 100.009. नन्दोपनन्दाभ्यां नागराजाभ्यां भगवत उपनामितं निर्मितं सहस्रपत्रं शकटचक्रमात्रं सर्वसौवर्णं रत्नदण्डं पद्मम्/ 100.010. भगवांश्च पद्मकर्णिकायां निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य/ 100.011. पद्मस्योपरि पद्मं निर्मितम्/ 100.012. तत्रापि भगवान् पर्यङ्कनिषण्णः/ 100.012. एवमग्रतः पृष्ठतः पार्श्वतः/ 100.012. एवं भगवता बुद्धपिण्डी निर्मिता यावदकनिष्ठभवनमुपादाय बुद्धा भगवन्तो पर्षन्निर्मितम्(?)/ 100.013. केचिद्बुद्धनिर्माणाश्चंक्रम्यन्ते, केचित् तिष्ठन्ति, केचिन्निषीदन्ति, केचिच्छायां कल्पयन्ति, तेजोधातुमपि समापद्यन्ते, ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कुर्वन्ति/ 100.015. अन्ये प्रश्नान् पृच्छन्ति, अन्ये विसर्जयन्ति/ 100.016. गाथाद्वयं भाषन्ते-- 100.017. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने/ 100.018. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः//3//

100.019. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति/ 100.020. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति//4//

100.021. भगवता तथा अधिष्ठितम् यथा सर्वलोको ऽनावृतमद्राक्षीद्बुद्धावतंसकं यावदकनिष्ठभवनमुपादाय अन्ततो बालदारका अपि, यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन//

100.024. तत्र भगवान् भिक्षूनामन्त्रयते स्म--तावत् प्रतिगृह्णीत भिक्षवो ऽनुपूर्वे स्थिताया बुद्धपिण्ड्या निमित्तम्/ 100.025. एकपदे ऽन्तर्धास्यन्ति/ 100.025. यावदेकपदे ऽन्तर्हिता/ 100.025. अथ भगवांस्तम् ऋद्ध्यभिसंस्कारं प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः/ 100.026. निषद्य भगवांस्तस्यां वेलायां गाथां भाषते-- 100.028. तावदवभासते कृमिर्यावन्नोदयते दिवाकरः/ 100.029. विरोचन उद्गते तु वैरव्यार्तो(?) भवति न चावभासते//5//

100.030. तावदवभासितमास तार्किकैर्यावन्नोदितवांस्तथागतः/ 100.031. संबुद्धावभासिते तु लोके न तार्किको भासते न चास्य श्रावकः//6//

100.032. अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 100.033. यूयमपि विदर्शयध्वम्/ 100.033. एवमुक्ते तीर्थ्यास्तूष्णींभूता यावत् <101>प्रयाणपरमाः स्थिताः/

101.001. द्विरपि प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्--विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्/ 101.002. यूयमपि विदर्शयध्वम्/ 101.002. एवमुक्ते तीर्थ्या अन्योन्यं विघट्टयन्त एवाहुः--त्वमुत्तिष्ठ त्वमुत्तिष्ठेति/ 101.003. न कश्चिदप्युत्तिष्ठति//

101.004. तेन खलु पुनः समयेन पाञ्चिको महासेनापतिस्तस्यामेव पर्षदि संनिपतितो ऽभूत् संनिपतितः/ 101.005. अथ पाञ्चिकस्य यक्षसेनापतेरेतदभवत्--चिरमपि ते इमे मोहपुरुषा भगवन्तं विहेठयिष्यन्ति भिक्षुसंघं चेति विदित्वा तुमुलं वातवर्षं संजनय्य महान्तमुत्सृष्टवान्/ 101.006. तुमुलेन वातवर्षेण तीर्थ्याणां मण्डपा अदर्शनपथे क्षिप्ताः/ 101.007. तीर्थ्या ह्यशनिवर्षेण बाध्यमाना दिशो दिग्भ्यो विचलन्ति/ 101.008. अनेकानि प्राणिशतसहस्राण्यतिवर्षेण बाध्यमानानि येन भगवांस्तेनोपसंक्रान्ताः/ 101.009. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णानि/ 101.009. भगवता तथा अधिष्ठितम् यथा तस्यां पर्षद्येकवारिबिन्दुर् न पतितः/ 101.010. एकान्तनिषण्णान्यनेकानि प्राणिशतसहस्राण्युदानमुदानयन्ति--अहो बुद्धः, अहो धर्मः, अहो संघः/ 101.011. अहो धर्मस्य स्वाख्यातता/ 101.012. पाञ्चिकेन यक्षसेनापतिना तीर्थ्या अभिहिताह्--एते यूयं मोहपुरुषा भगवन्तं शरणं गच्छध्वं धर्मं च भिक्षुसंघं च/ 101.013. ते निष्पलायमानाः कथयन्ति--एते वयं पर्वतं शरणं गच्छामः, वृक्षाणां कुड्यानामारामाणां च शरणं गच्छामः//

101.015. अथ भगवांस्तस्यां वेलायां गाथां भाषते-- 101.016. बहवः शरणम् यान्ति पर्वतांश्च वनानि च/ 101.017. आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः//6//

101.018. न ह्येतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्/ 101.019. नैतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते//7//

101.020. यस्तु बुद्धं च धर्मं च संघं च शरणं गतः/ 101.021. आर्यसत्यानि चत्वारि पश्यति प्रज्ञया यदा//8//

101.022. दुःखं दुःखसमुत्पन्नं निरोधं समतिक्रमम्/ 101.023. आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनाम्//9//

101.024. एत{द्वै} शरणं श्रेष्ठमेतच्छरणमुत्तमम्/ 101.025. एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते//10//

101.026. अथ पूरणस्यैतदभवत्--श्रमणो गौतमो मदीयाञ् श्रावकानन्वावर्तयिष्यति/ 101.026. इति विदित्वा निष्पलायन् कथयति--अहम् युष्माकं शासनसर्वस्वं कथयिष्यामि/ 101.027. यावद् दृष्टिगतान् ग्राहयितुमारब्धः/ 101.028. यदुत अन्तवाम्ल्लोकः, अनन्तः, अन्तवांश्चानन्तवांश्च, नैवान्तवान्नानन्तवान्, स जीवस्तच्छरीरमन्यो जीवो ऽन्यच्छरीरमिति/ 101.029. ते कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः/ 101.030. पूरणो ऽपि भीतो निष्पलायितुमारब्धः/ 101.030. स निष्पलायन् पण्डकेन प्रतिमार्गे दृष्टः/ 101.031. पण्डको दृष्ट्वा गाथां भाषते--

102.001. <102>कुतस्त्वमागच्छसि मुक्तपाणि रथकारमेष इव निकृत्तशृङ्गः/ 102.003. धर्मं ह्यभिज्ञाय जिनप्रशस्तमाहिण्डसे कोलिकगर्दभो यथा//11//

102.005. पूरणः प्राह-- 102.006. गमनाय मे समयः प्रत्युपस्थितः कायस्य मे बलवीर्यम् {न?} किंचित्/ 102.008. स्पृष्टाश्च भावाः सुखदुःखते मे अनावृतं ज्ञानमिहार्हताम्//12//

102.010. दूरापगतो ऽस्मि .... परतिमिरापनुदश्च तृषं पतति/ 102.012. आचक्ष्व मे दूषिक एतमर्थं शीतोदका कुत्र सा पुष्किरिणी//13//

102.014. नपुंसकः प्राह-- 102.015. एषा खलु शीता पुष्किरिणी नलिनी च विराजति तोयधारा/ 102.017. श्रमणाधम हीनासत्पुरुष त्वमिमां ननु पश्यसि पुष्करिणीम्//14//

102.019. पुराणः प्राह-- 102.020. न त्वं नरो नापि च नारिका त्वं श्मश्रूणि च ते नास्ति न च स्तनौ तव/ 102.022. भिन्नस्वरो ऽसि न च चक्रवाकह् एवं भवान् वातहतो निरुच्यते//15//

102.024. अथ पूरणो निर्ग्रन्थो वालुकाघटं कण्ठे बद्ध्वा शीतिकायां पुष्किरिण्यां पतितः/ 102.024. स तत्रैव कालगतः//

102.026. अथ ते निर्ग्रन्थाः पूरणं मृगयमाणाः प्रतिमार्गे गणिकां दृष्ट्वा पृच्छन्ति--भद्रे, कंचित् त्वमद्राक्षीर्गच्छन्तमिह पूरणं धर्मशाटप्रतिच्छन्नं कटच्छव्रतभोजनम्? गणिका प्राह-- 102.028. आपायिको नैरयिको मुक्तहस्तावचारकः/ 102.029. श्वेताभ्यां पाणिपादाभ्यामेष ध्वंसति पूरणः//16//

102.030. भद्रे मैवं वोचस्त्वं नैतत्तव सुभाषितम्/ 102.031. धर्मशाटप्रतिच्छन्नो धर्मं संचरते (संश्रयते?) मुनिः//17//

102.032. गणिका प्राह-- 102.033. कथं स बुद्धिमान् भवति पुरुषो व्यञ्जनान्वितः/ 102.034. लोकस्य पश्यतो यो ऽयं ग्रामे चरति नग्नकः//18//

103.001. <103>यस्यायमीदृशो धर्मः पुरस्ताल्लम्बते दशा/ 103.002. तस्य वै श्रवणौ राजा क्षुरप्रेणावकृन्ततु//19//

103.003. अथ ते निर्ग्रन्था येन शीतिका पुष्किरिणी तेनोपसंक्रान्ताः/ 103.003. अद्राक्षुस्ते निर्ग्रन्थाः पूरणं काश्यपं पुष्किरिण्यां मृतम्/ 103.004. कालगतं दृष्ट्वा च पुनः पुष्किरिण्या उद्धृत्य एकान्ते छोरयित्वा प्रक्रान्ताः//

103.006. भगवता बुद्धनिर्माणो निर्मितो द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो मुण्डः संघाटीप्रावृतः/ 103.007. धर्मता खलु बुद्धा भगवन्तो निर्मितेन सार्धं निश्चयं कुर्वन्ति/ 103.007. यं खलु श्रावको निर्मितमभिनिर्मिमीते, यदि श्रावको भाषते, निर्मितो ऽपि भाषते/ 103.008. श्रावके तूष्णीभूते निर्मितो ऽपि तूष्णीभवति/ 103.010. एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः/ 103.011. एकस्य तूष्णीभूतस्य सर्वे तूष्णीभवन्ति ते//20//

103.012. भगवान् निर्मितं प्रश्नं पृच्छति, भगवान् व्याकरोति/ 103.012. एषा हि धर्मता तथागतानामर्हतां सम्यक्सम्बुद्धानाम्//

103.014. भगवता तस्य महाजनकायस्य तथा अभिप्रसन्नस्य आशयं चानुशयं च धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधकी धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि कैश्चिदुष्म(?)गतान्यधिगतानि मूर्धानः क्षान्तयो लौकिका अग्रधर्माः/ 103.017. कैश्चित्स्रोतापत्तिफलं साक्षात्कृतं सकृदागामिफलमनागामिफलम्/ 103.017. कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 103.018. कैश्चिच्छ्रावकमहाबोधौ बीजान्यवरोपितानि/ 103.018. कैश्चित् प्रत्येकायां बोधौ बीजान्यवरोपितानि/ 103.019. यद्भूयसा सा पर्षद् बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता/ 103.020. अथ भगवांस्तां पर्षदं बुद्धनिंनां धर्मप्रवणां संघप्राग्भारां व्यवस्थाप्योत्थायासनात् प्रक्रान्तः//

103.022. धन्यास्ते पुरुषा लोके ये बुद्धं शरणं गताः/ 103.023. निर्वृतिं ते गमिष्यन्ति बुद्धकारकृतौ जनाः//21//

103.024. ये ऽल्पानपि जिने कारान् करिष्यन्ति विनायके / 103.025. विचित्रं स्वर्गमागम्य ते लप्स्यन्ते ऽमृतं पदम्//22//

103.026. इदमवोचद्भगवान्/ 103.027. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

103.028. इति श्र्रीदिव्यावदाने प्रातिहार्यसूत्रं द्वादशमम्//

********** अवदान 13 **********

104.001. दिव्13 स्वागतावदानम्/

104.002. बुद्धो भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे/ 104.002. तेन खलु पुनः समयेन शिशुमारगिरौ बोधो नाम गृहपतिः प्रतिवसति आढ्यो महाधानो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी/ 104.004. तेन सदृशात् कुलात् कलत्रमानीतम्/ 104.005. स तया सार्धं क्रीडति रमते परिचारयति/ 104.005. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता/ 104.006. सा उपरिप्रासादतलगता अयन्त्रितोपचारा धार्यते, कालर्तुकैश्चोपकरणैरनुविधीयते, वैद्यप्रज्ञप्तैश्चाहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः/ 104.008. हारार्धहारभूषितगात्रा अप्सरेव नन्दनवनचारिणी मञ्चान्मञ्चं पीठात्पीठमनवतरन्ती अधरिमां भूमिम्/ 104.010. न चास्याः किंचिदमनोज्ञशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय/ 104.010. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता/ 104.011. दारिका जाता अभिरूपा दर्शनीया प्रादादिका सर्वाङ्गप्रत्यङ्गोपेता/ 104.012. तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातिमहं कृत्वा वर्णसंस्थानविशेषानुरूपं नामधेयं व्यपस्थापितम्/ 104.013. सा धात्र्यङ्कगता उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सरिपिमण्डेनान्यैश्च चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 104.014. आशु वर्धते ह्रदस्थमिव पङ्कजम्/ 104.015. यदा महती संवृत्ता, तदा रूपिणी यौवनानुरूपया आचारविहारचेष्टया देवकन्येव तद्गृहमवभासमाना सुगृत्सम्बन्धिबान्धवानामन्तर्जनस्य च प्रीतिमुत्पादयति/ 104.016. तस्यास्तादृशीं विभूतिं श्रुत्वा नानादेशनिवास्राजपुत्रा अमात्यपुत्रा गृहपतिपुत्रा धनिनः श्रेष्ठिपुत्राः सार्थवाहपुत्राश्च भार्यार्थम् याचनकान् प्रेषयन्ति/ 104.018. यथा यथा चासौ प्राथ्यते, तथा तथा बोधो गृहपतिः सुतरां प्रीतिमुत्पादयति/ 104.019. संलक्षयति--मया एषा न कस्यचिद्रूपेण देया, न शिल्पेन, नाप्याधिपत्येन, किं तु यो मम कुलशीलेन वा धनेन वा सदृशो भवति, तस्य मया दातव्येति/ 104.020. स चैवं चिन्तयति//

104.021. अनाथपिण्डदेन गृहपतिना श्रुतम् यथा शिशुमारगिरौ बोधो गृहपतिस्तस्य दुहिता एवं रूपयौवनसमुदिता, सा नानादेशनिवासिनां राजामात्यगृहपतिधनिनां श्रेष्ठिसार्थवाहपुत्राणामर्थाय प्रार्थ्यत इति/ 104.023. श्रुत्वा च पुनरस्यैतदभवत्--अहमपि तावत् तां पुत्रस्यार्थाय प्रार्थयामि/ 104.024. कदाचिद् बोधो गृहपतिर्दद्यादिति विदित्वा तस्या याचनकाः प्रेषिताः/ 104.024. बोधेन गृहपतिना अनाथपिण्डदस्य गृहपतेः समुदाचारधनसम्पदं च विचार्य दत्ता/ 104.025. अनाथपिण्डदेन गृहपतिना महता श्रीसमुदयेन पुत्रस्य परिणीता/ 104.026. यावत् पुनरपि बोधस्य गृहपतेः पत्न्या सार्धं क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता/ 104.027. यमेव दिवसमापन्नसत्त्वा संवृत्ता, तमेव दिवसं बोधस्य गृहपतेरनेकान्यनर्थशतानि प्रादुर्भूतानि/ 104.028. तेन नैमित्तिका आहूय पृष्टाह्--भवन्तः, पश्यत कस्य प्रभावान्ममानर्थशतानि प्रादुर्भूतानि/ 104.029. नैमित्तिका विचार्यैकमतेनाहुह्--गृहपते, य एष तव पत्न्याः कुक्षिमवक्रान्तः, अस्यैष प्रभावः/ 104.030. तदस्य परित्यागः क्रियताम्/ 104.031. इति श्रुत्वा बोधो गृहपतिः परं विषादमापन्नः/ 104.031. कथयति--भवन्तः, स्वागतं न परित्यक्ष्यामीति/ 104.032. नैमित्ताः स्वस्तीत्युक्त्वा प्रक्रान्ताः/ 104.032. अथ बोधो गृहपतिर्वियोगसंजनितदौर्मनस्यो ऽपि<105> लोकापवादभयादभ्युपेक्ष्यावस्थितः/

105.001. यथा यथासौ गर्भो वृद्धिं गच्छति, तथा तथा बोधस्य गृहपतेरुत्तरोत्तरातिशयेनानर्थशतान्युत्पद्यन्ते/ 105.002. स संलक्षयति--क एतानि शृणोति? उद्यानं गत्वा तिष्ठामीति विदित्वा तेन पौरुषेया उक्ताह्--यदि मे कश्चिन्महाननर्थ उत्पद्यते, स श्रावयितव्यो नान्य इत्युक्त्वा उद्यानं गत्वा अवस्थितो यावदस्यासौ पत्नी प्रसूता/ 105.005. दारको जातः/ 105.005. अन्यतमः पुरुषस्त्वरितं त्वरितं बोधस्य गृहपतेः सकाशं गतः/ 105.005. तेनासौ दूरत एव दृष्टः/ 105.006. स संलक्षयति--यथायं त्वरितत्वरितमागच्छति, नूनं महाननर्थः प्रादुर्भूतः/ 105.007. इति विदित्वा ससम्भ्रमः पृच्छति--भोः पुरुष, किं त्वरित्वरितमागच्छसीति? स कथयति--गृहप्ते, दिष्ट्या वर्धसे, पुत्रस्ते जात इति/ 105.008. स कथयति--भोः पुरुष, यद्यपि मे पुत्रो ऽनर्हशतान्युत्पाद्य जातः, तथापि स्वागतमस्येति/ 105.009. तदनन्तरमेव द्वितीयपुरुषस्तथैव त्वरितत्वरितमश्रुपर्याकुलेक्षणो बोधस्य गृहपतेः सकाशं गतः/ 105.010. सो ऽपि तेनानर्थतया ससम्भ्रमेण पृष्टह्--भोः पुरुष, किं त्वरितत्वरितमागच्छसीति? स बाष्पोपरुध्यमानगद्गदकण्ठः करुणादीनविलम्बिताक्षरं कथयति--गृहपते, गृहे ऽग्निरुत्थितः/ 105.012. सर्वं स्वापतेयं दग्धमिति/ 105.012. स मुहुर्मुहुरनर्थश्रवणदृढीकृतचित्तसंततिः कथयति--भोः पुरुष, प्राप्तव्यमेतत्/ 105.013. अलं विषादेन, तूष्णीं तिष्ठेति/ 105.014. अथ तस्य ज्ञातयो लोकधर्मानुवृत्त्या अवज्ञापूर्वकेन नामधेयं व्यवस्थापयितुमारब्धाह्--किं भवतु दारक्स्य नामेति/ 105.015. तत्रैके कथयन्ति--यत्कुलसदृशं

तत्क्रियतामिति/ 105.015. अपरे कथयन्ति--येन बोधस्य गृहपतेः कुक्षिगतेनैवानेकधनसमुदितं गृहं निधनमुपनीतम्, तस्य कीदृशं कुलसदृशं नाम व्यवस्थाप्यते? अपि तु अयं पित्रा जातमात्रः स्वागतवादेन समुदाचरितः, तस्मादस्य स्वागत इति नाम भवतु इति/ 105.018. तस्य स्वागत इति नामधेयं व्यवस्थापितम्/ 105.018. यथा यथा स्वागतो वृद्धिमुपयाति, तथा तथा बोधस्य गृहपतेर्धनधान्यहिरण्यसुवर्णदासीदासकर्मकरपौरुषेयास्तनुत्वं परिक्षयं पर्यादानं गच्छन्ति/ 105.020. यावदपरेण समयेन बोधो गृहपतिः कालगतः/ 105.021. साप्यस्य पत्नी कालगता/ 105.021. तद्गृहं प्रतिसंस्कृतं पुनरग्निना दग्धम्/ 105.022. ये ऽप्यस्य पौरुषेयाः पण्यमादाय देशान्तरगता महासमुद्रम् यावत्तीर्णाः, ततः केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीजातम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां चौरैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राज्ञा विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्/ 105.026. केचिद्बोधस्य गृहपतेः प्राणवियोगं श्रुत्वा तत्रैव अवस्थिताः/ 105.027. ज्ञातीनामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैवावस्थिताः स्वागतस्य वाचमपि न प्रयच्छन्ति/ 105.028. दासीदासकर्मकरपौरुषेया अपि केचित् कालगताः, केचिन्निष्पलायिताः, केचिदन्याश्रयेण तत्रैवावस्थिताः सन्तः स्वागतस्य नामापि न गृह्णन्ति/ 105.030. किं तु बोधस्यैका पुराणवृद्धा दासी कृतज्ञतया स्वागतस्योपस्थानं कुर्वन्ती तिष्ठति/ 105.031. तया स

लिप्यक्षरचार्यस्याक्षराणि शिक्षयितुमुपन्यस्तः/ 105.031. सा संलक्षयति--बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयम्<106> पर्यादानं गतम्/

106.001. स्वागतो ऽहं चावस्थिताः/ 106.001. तज्जिज्ञास्यामि तावत् कस्यापुण्येनायमुपप्लवः, किं स्वागतस्य आहोस्विन्ममेति/ 106.002. तया स्वागतस्य नांना स्थाल्यां तण्डुलान् प्रक्षिप्य भक्तार्थम् योजिता विनष्टाः/ 106.003. तत आत्मनो नांना तथैव योजिताः, शोभनं भक्तं संपन्नम्/ 106.004. सा संलक्षयति--असौ मन्दभाग्यः/ 106.004. एतमागम्य बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयं परिक्षयं पर्यादानं गतम्/ 106.006. अहं पुनर् न यास्यामीति/ 106.006. कृतः स्थास्यामीति? अत्र प्राप्तकालं सर्वथा यावत् प्राणवियोगो न भवति तावन्निष्पलायेयेम्/ 106.007. इति विदित्वा यत्तत्र किंचित् सारमस्ति, तमादाय निष्पलायिता/ 106.008. तस्मिञ् शून्ये गृहे श्वानः प्रविश्य कलहं कर्तुमारब्धाः/ 106.008. यावदन्यतमो धूर्तपुरुषस्तेन प्रदेशेनातिक्रामति/ 106.009. स श्वानकलहं श्रुत्वा संलक्षयति--बोधस्य गृहपतेर्गृहे श्वानः कलिं कुर्वन्ति/ 106.010. किं तदन्यं भवेत्? पश्यामि तावदिति/ 106.010. स तत्र प्रविष्टो यावत् पश्यति शून्यम्/ 106.011. सो ऽपि तस्माद्यत् किंचिच्छेषावशेषमस्ति, तमादाय प्रक्रान्तः//

106.012. ततः स्वागतो भोजनवेलां ज्ञात्वा लेखशालायाः स्वगृहमागतो भोक्तुमिति यावत् पश्यति शून्यम्/ 106.013. स भोक्तुकामावर्जितसंततिह्(?) क्षुधासंजनितदौर्मनस्यः शब्दापयितुमारब्धह्--अम्ब अम्बेति/ 106.014. न कश्चिद्वचनं ददाति/ 106.014. स तद्गृहमतिश्चामुतश्च व्यवलोक्य नैराश्यमापन्नो निष्क्रान्तः/ 106.015. तस्य गृहस्य नातिदूरे ऽन्यगृहम्/ 106.015. तस्मिन् स्वागतस्य ज्ञातस्तिष्ठन्ति/ 106.015. स तेषां सकाशं गतो यावत्तत्र कलिः प्रादुर्भूतः/ 106.016. ते कलहं कृत्वा व्युपशान्ताः परस्परं कथयन्ति--भवन्तः, पूर्वमस्माकमन्योन्यं दृष्ट्वा स्नेहो भवति, इदानीं तु द्वेषः/ 106.017. पश्यध्वं कश्चिदन्य आगतः स्यादिति/ 106.018. ते समन्वेषितुमारब्धा यावत् पश्यन्ति स्वागतम्/ 106.018. तत्रैके कथयन्ति--भवन्तः, स्वागतः प्रविष्ट इति/ 106.019. अपरे कथयन्ति--नायं स्वागताः, किं तु दुरागतः, इममागम्यास्माकं कलिः प्रादुर्भूत इति/ 106.020. स तैर्ग्रीवायां गृहीत्वा निष्कासितो ऽन्यत्र गतः/ 106.021. तस्मादपि निष्कासितो यावत् क्रोडमल्लानां मध्ये प्रविष्टः/ 106.021. ते यत्र यत्र भैक्षार्थिकाः प्रविशन्ति, तत्र निर्भर्त्स्यन्ते निष्कास्यन्ते च/ 106.022. ते नैराश्यमापन्ना रिक्तहस्तका रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः/ 106.023. ते ऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वे यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका आगच्छामः/ 106.024. इदानीं को योगो येन वयं रिक्तहस्तका रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं को ऽपि मन्दभाग्यो ऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति/

106.027. अपरे कथयन्ति--गतमेतत्/ 106.027. द्विधा भूत्वा प्रविशाम इति/ 106.027. ते परस्मिन् दिवसे द्विधा प्रविष्टाः/ 106.028. तत्र येषां मध्ये स्वागतस्ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लाश्च यथानिलयमागताः/ 106.029. ते त्वन्ये पूर्णहस्ता पूर्णमल्लका आगताः/ 106.030. ये ते रिक्तहस्तका रिक्तपात्रा आगतास्ते भूयो द्विधा भूत्वा प्रविष्टाः/ 106.030. तत्र तेषामपि येषां मध्ये स्वागतस्ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः/ 106.031. ते भूयो द्विधा भूता एवम् यावत् स्वागतक्रोडमल्लकौ प्रविष्टौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ/ 106.032. ते त्वन्ये पूर्णहस्ताह् <107>पूर्णमल्लका आगताः/

107.001. ततस्ते क्रोडमल्लकाः सर्वे संभूय संकल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्यो ऽस्माकं मध्ये प्रविष्ठो येन वयं रिक्तहस्ता रिक्मल्लकाश्चागताः/ 107.002. निष्कासयाम एनमिति/ 107.003. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः//

107.004. अत्रान्तरे यावच्छ्रावस्तेयो वणिजो बोधस्य गृहपतेर्वयस्यः पण्यमादाय शिशुमारगिरिमनुप्राप्तः/ 107.005. तेन स्वागतो मल्लकेन हस्तगतेन पीठीं गतो मुखबिम्बकेन प्रत्यभिज्ञात उक्तश्च--पुत्र त्वं बोधगृहपतेः पुत्र इति? स कथयति--तात, अहं तस्य पुत्रो दुरागत इति/ 107.006. स मुहूर्तं तूष्णीं स्थित्वा अश्रुपर्याकुलेक्षणः कथयति--पुत्र, तौ तव मातापितरौ कालगतौ? ते ज्ञातयह्? स आह--तेषामपि केचित् कालगताः केचिदिहैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति/ 107.008. ते दासीदास्कर्मकरपौरुषेयाह्? तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचिदिहैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति/ 107.010. यदवशिष्टं धनं तदपि किंचिदग्निना दग्धम्/ 107.011. ये वणिक्पौरुषेयाः पण्यं गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः, तत्रापि केषांचित् पण्यमपण्यीभूतम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां तस्कैरद्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राज्ञो विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्/ 107.015. केचित् तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः/ 107.015. स दीर्घमुष्णं च निश्वस्य कथयति--पुत्र श्रावस्तीं किं न गच्छसि? तात, किं तत्रगतस्य भविष्यति? पुत्र, तत्रानाथपिण्डदो गृहपतिः, तस्य पुत्रेण तव भगिनी परिणीता/ 107.017. सा तव योगोद्वहनं करिष्यतीति/ 107.017. स कथयति--तात, यद्येवं गच्छामीति/ 107.018. तेन तस्य द्वौ कार्षापणौ दत्तौ, उक्तश्च--पुत्र, आभ्यां तावदात्मानं

संधारय, यावदहं पण्यं विसर्जयामि/ 107.019. मया सार्धं गमिष्यसि/ 107.019. तेन तौ कार्षापणौ खुस्तवस्त्रान्ते बद्ध्वा स्थापितौ, कर्मविपाकेन विस्मृतौ/ 107.020. तथैवासौ कुतश्चित् किंचिदारागयति किंचिन्नारागायति/ 107.021. क्षुधया पीड्यमानो ऽवस्थितः/ 107.021. यावदसौ वणिक् पण्यं विसर्जयित्वा प्रतिपण्यमादाय स्वागतं वैस्मृत्य संप्रस्थितः/ 107.022. स्वागतो ऽपि तेन सार्धं संप्रस्थितः/ 107.023. यावत् ते सार्थकाः कलिं कर्तुमारब्धाः, बलीवर्दा योद्धुमारब्धाः/ 107.023. सार्थिकाः कथयन्ति--भवन्तः, प्रत्यवेक्षत सार्थम्/ 107.024. मा असौ दुरागतो ऽत्रागतः स्यादिति/ 107.024. तैः प्रत्यवेक्षमाणैरसौ दृष्टः/ 107.024. ते तं खटुचपेटादिभिस्ताडयित्वा अर्धचन्द्रकारेण ग्रीवायां गृहीत्वा निष्कासितुमारब्धाः/ 107.025. स निष्कासितः/ 107.026. निष्क्रम्यमाणो विक्रोष्टुमारब्धः/ 107.026. सार्थवाहस्तं कोलाहलशब्दं श्रुत्वा निरीक्षितुमारब्धः, यावत् पश्यति तं निष्कास्यमानम्/ 107.027. स कथयति--भवन्तः, मा एनं निष्कासयत, ममैष वयस्यपुत्रो भवतीति/ 107.028. ते कथयन्ति--सार्थवाह, यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, कथं तेन सार्धं गच्छामह्? सर्वथा त्वं सार्थस्य स्वामी/ 107.029. यद्येष गच्छति, वयं न गच्छाम इति/ 107.030. सार्थवाहस्तं कथयति--पुत्र, महाजनविरोधो ऽत्र भवति/ 107.030. सार्थकाः क्षुभिताः/ 107.031. त्वं पश्चाद्वासोद्धातिकया गच्छ, अहं तवार्थे आहारं स्थापयामीति/ 107.031. स मातापितृवियोगप्रतिस्पर्धिना पूर्वकर्मापराधप्रभावेण दुःखदौर्मनस्येन

संतापितमनाः साश्रुकण्ठस्तूष्णीमवस्थितः/

108.001. <108>सार्थः संप्रस्थितः/ 108.001. सो ऽपि वासोद्धातिकया गन्तुमारब्धः/ 108.001. स सार्थवाहस्तस्याहारं पत्रपुटके बद्ध्वा किंचिद्भूमौ पांशुना प्रतिच्छाद्य स्थापयति, किंचिद्वृक्षशाखापत्रैरवच्छाद्य/ 108.002. तत्र यं भूमौ स्थापयति, स शृगालैरन्यैश्चतुष्पादौर्भक्ष्यते/ 108.003. यं वृक्षशाखासु, स पक्षिभिः शाखामृगैश्च भक्ष्यते/ 108.004. ततः किंचिदारागयति किंचिन्नारागयति/ 108.004. अस्थानमनवकाशो यच्चरमभविकः सत्त्वो ऽसम्प्राप्ते विशेषाधिगमे सो ऽन्तरा कालं कुर्यात्/ 108.005. स कृच्छ्रेण श्रावस्तीमनुप्राप्तः/ 108.005. बहिः श्रावस्त्यामुदपानोपकण्ठके विश्रान्तः/ 108.006. यावत् तस्य भगिन्याः सन्तिका प्रेष्यदारिका उदकार्थिनी कुम्भमादाय गता/ 108.007. स तया मुखबिम्बकेन प्रत्यभिज्ञातः/ 108.007. सा चिरं निरीक्ष्य हीनदीनवदना कथयति--दारक, त्वं बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्र इति? स कथयति--एवं मां भगिनीजनः संजानीत इति/ 108.009. सा अश्रुपर्याकुलेक्षणा बाष्पोपरुध्यमानकण्ठा उरसि प्रहारं दत्त्वा करुणादीनविलम्बिताक्षरं प्रष्टुमारब्धा/ 108.010. तौ तव मातापितरौ कालगतौ? कालगतौ/ 108.011. ते ज्ञातयह्? स कथयति--तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति/ 108.012. ते दासीदासकर्मकरपौरुषेयाह्? तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति/ 108.014. यदपि धनजातं तदपि किंचिदग्निना दग्धम्, किंचिदन्यपौरुषेया गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः/ 108.015.

तत्रापि केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीभूतम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राजनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्, केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः/ 108.019. सा दीर्घमुष्णं च निश्वस्य कथयति--इहैव तिष्ठ यावत्ते भगिन्याः कथयामीति/ 108.020. तया गत्वा तस्याः प्रयच्छन्नं कथितम्/ 108.020. कीदृशेन पण्येनेति? सा कथयति--कुतो ऽस्य पण्यम्? दण्डमस्य हस्ते मल्लकश्चेति/ 108.021. तया तस्यार्थं महार्हाणि वस्त्राणि दत्तानि/ 108.021. कार्षापणांश्च दत्त्वा उक्ता च--स वक्तव्यो यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैव कार्षापणान् दद्याः/ 108.023. मा ज्ञातीनां प्रतर्क्यो भविष्यतीति/ 108.023. सा वस्त्राण्यादाय कार्षापणांश्च तस्य सकाशं गता कथयति--इमानि ते वस्त्राणि कार्षापणाश्च भगिन्या प्रेषितानि, कथयति च--यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैतत्कार्षापणान् दद्याः/ 108.025. मा ज्ञातीनां प्रतर्क्यो भविष्यसि/ 108.026. स कथयति--शोभनमेव भवति/ 108.026. इत्युक्त्वा तूष्णीमवस्थितः/ 108.027. दारिका प्रक्रान्ता/ 108.027. स संलक्षयति--अनाथपिण्डदो गृहपतिर्विस्तीर्णस्वजनपरिवारः/ 108.027. अस्माकमपि पिता विस्तीर्णपरिवारः/ 108.028. तेषाममेकैकशो वार्तां प्रत्यवेक्षते/ 108.028. भगिन्या चिरमालापो भविष्यति/ 108.029. स च मार्गपरिश्रमखिन्नेन क्षुधार्तेन न शक्यते कर्तुम्/ 108.029. पुरोभक्षिकां

तावत् करोमि/ 108.030. तृप्तः सुखालापम् उद्यानं गत्वा शयितः/ 108.031. आचरितं श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते/ 108.032. ते यदि सुप्तं पुरुषं पश्यन्ति, पादेन घट्टयन्ति/ 108.032. स यदि प्रतिविबुध्यते<109>, तमेवं वदन्ति--भोः पुरुष, न त्वया श्रुतम् यथा श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते? ते यदि सुप्तं पुरुषं पश्यन्ति, वदन्ति--उत्तिष्ठ गच्छेति/

109.002. यदि न प्रतिविबुध्यते, मुषित्वा गच्छन्ति/ 109.003. तैः पादेन घट्टितो न प्रतिविबुध्यते/ 109.003. मुषित्वा प्रक्रान्ताः/ 109.003. स विगतमद्यमदः प्रतिबुद्धो यावत् पश्यति तान्येवानन्तकानि(?) प्रावृत्यावस्थितः/ 109.004. ततो ऽस्य भगिनी संलक्षयति--अतिचिरयत्यसौ/ 109.005. नूनमत्र कारणेन भवितव्यमिति/ 109.005. तस्यासौ दारिका पुनः प्रेषिता--दारिके गच्छ, चिरयत्यसौ, पश्य किमर्थं नागच्छतीति/ 109.006. सा गता यावत् पश्यति मुषितकं तेनैव वेषेणावस्थितम्/ 109.007. सा त्वरितत्वरितं गता तस्याः कथयति--आर्ये, मुषितस्तेनैव वेषेण तिष्ठतीति/ 109.008. सा संलक्षयति--यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्सम्बन्धिबान्धवं गृहं विनष्टम्, यदि तमिह प्रवेशयामि, स्थानमेतद्विद्यते यन्मयापि श्वशुरगृहमनयेन व्यसनमापत्स्यते/ 109.010. नासाविह प्रवेशयितव्यः/ 109.010. इति विदित्वा तयाप्युपेक्षितः//

109.011. तस्यापि पूर्वकर्मापराधाद्विस्मृतम्/ 109.011. स क्रोडमल्लकानां मध्ये प्रविष्टः/ 109.011. ते यत्र यत्र भैक्षार्थिनः प्रविशन्ति, तत्र तत्र निर्भत्स्यन्ते च निष्कास्यन्ते च/ 109.012. नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः/ 109.013. ते ऽन्योन्यं पृच्छन्ति--भवन्तः, वयं पूर्वम् यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका गच्छामः/ 109.014. इदानीं को योगो येन वयं रिक्तहस्ता रिक्तमल्लका नैराश्यमापन्ना इहागता इति? तत्रैके कथयन्ति--नूनं को ऽपि मन्दभाग्यो ऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति/ 109.016. अपरे कथयन्ति--द्विधा भूत्वा प्रविशाम इति/ 109.017. ते ऽपरस्मिन् दिवसे द्विधा भूत्वा प्रविष्टाः/ 109.017. तत्र येषां मध्ये स्वागतः, ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाश्चागताः/ 109.018. ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगता/ 109.019. ये रिक्तहस्ता रिक्तमल्लका आगताः, ते भूयो द्विधा भूत्वा प्रविष्टाः/ 109.020. तेषामपि येषां मध्ये स्वागतः, ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः/ 109.020. ते भूयो द्विधा भूता एवम् यावत् स्वागतो ऽन्यश्च क्रोडमल्लकः प्रविष्टः/ 109.021. तौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ, ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगताः/ 109.022. ते क्रोडमल्लकाः सर्वे संभूय संजल्पं कर्तुमारब्धाह्--भवन्तः, अयं मन्दभाग्यसत्त्वो ऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लकाश्चागताः/ 109.024. निष्कासयाम एनमिति/ 109.024. स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः//

109.025. अत्रान्तरे ऽनाथपिण्डदेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः/ 109.026. तेन दौवारिकाणामाज्ञा दत्ता--न तावत् कस्यचित् क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्/ 109.027. पश्चात् तान् भोजयिष्यामीति/ 109.027. क्रोडमल्लका ये तस्य गृहं प्रतिशरणभूतास्ते सर्वे संनिपतिताः प्रवेष्टुमारब्धाः/ 109.028. दौवारिकेण विरोधिताः/ 109.029. कथयन्ति--भोः पुरुष, अस्माकमेव नांना अयं गृहपतिः प्रज्ञायते अनाथपिण्डदो गृहपतिरिति/ 109.030. तत् किमिदमिति कृत्वा अस्मान् विधारयसीति? स कथयति--गृहपतिना आज्ञादत्ता--न तावत् कस्यचित् क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्/ 109.032. पश्चात् तान् भोजयिष्यामीति/ 109.032. ते कथयन्ति--भवन्तः, न कदाचिद्वयं विधार्यमाणाह्<110>/

110.001. तं पश्यत मा अत्रार्या दुरागत आगतो भवेदिति/ 110.001. ते समन्वेष्टितुमारब्धा यावत् पश्यन्त्येकस्मिन् प्रदेशे निलीयावस्थितम्/ 110.002. ततस्तैः कोलाहलशब्दः कृतह्--अयं भवन्तः स दुरागतो निलीनस्तिष्ठतीति/ 110.003. स तैः प्रभूतान् प्रहारान् दत्वा निष्कासितस्तीव्रेण च पर्यवस्थानेन शिरसि मल्लकेन प्रहारो दत्तः/ 110.004. तस्य शिरो भग्नम्/ 110.004. स निवर्त्य विप्रलपितुमारब्धः/ 110.005. ततस्तैर्हस्तपादेषु गृहीत्वा संकारकूटे क्षिप्तह्--दुरागत अत्र तिष्ठेति/ 110.005. स रुधिरेण प्रघरता तस्मिन् संकारकूटे ऽवस्थितः/ 110.006. यावद्भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः/ 110.008. अद्राक्षीद्भगवान् स्वागतं परुषरूक्षाङ्गुलिदीर्घकेशं रजसावचूर्णितगात्रं कृशमल्पस्थानं मलिनजीर्णवासोनिवसितं शिरसा भग्नेन रुधिरेण प्रघरता अन्यैश्च व्रणैश्चाकीर्णैः, मक्षिकाभिरुपद्रुतैः संकारकूटे निपतितम्/

110.010. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः/ 110.011. तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था/ 110.011. तत्र भगवांस् तं स्वागतमामन्त्रयते--आकाङ्क्षसे वत्स पात्रशेषम्? भगवन्/ 110.012. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--स्वागतस्य ते आनन्द पात्रशेषः स्थापयितव्यमिति/ 110.013. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्//

110.015. अथ भगवान् येनानाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः/ 110.015. उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 110.016. अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय/ 110.019. आयुष्मत आनन्दस्य तत्पात्रशेषं स्वागताय विस्मृतम्/ 110.019. असंमोषधर्माणो बुद्धा भगवन्तः/ 110.020. भगवता उत्थापितम्/ 110.020. आयुष्मानानन्दो भगवतः पात्रं गृहीतुमारब्धो यावत् पश्यति तत्र पात्रशेषं न संस्थापितम्/ 110.021. दृष्ट्वा च स्मृतिरुत्पन्ना/ 110.021. स धर्मतत्त्वो वचसा(?) अथ रोदितुमारब्धः/ 110.022. भगवानाह--कस्मात् त्वमानन्द रोदिषीति/ 110.022. स कथयति--न मया भदन्त भगवतः कदाचिदाज्ञा प्रत्यूढपूर्वेति/ 110.023. किं कृतम्? स्वागतस्य पात्रशेषं न स्थापितमिति/ 110.024. भगवानाह--न त्वया आनन्द ममाज्ञा प्रतिस्मृता, अपि तु स्वागतस्यैव तानि कर्माणि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि येन तव विस्मृतम्/ 110.026. अलं विषादेन/ 110.026. गच्छ, तं शब्दापयेति/ 110.026. स गत्वा शब्दापयितुमारब्धः/ 110.026. अनेकैः प्रतिवचनं दत्तम्/ 110.027. स्वागतस्य तदपि विस्मृतम् यद्भगवता प्रतिज्ञातम्--तव पात्रशेषं स्थापयिष्यामीति/ 110.028. स संलक्षयति--को ऽप्ययं पुण्यकर्मा भगवता त्रैलोक्यगुरुणा समन्वाहृतः शब्दत इति/ 110.028. आयुष्मता आनन्देन गत्वा भगवत आरोचितम्/ 110.029. भगवन् स्वागत इत्युक्त्वा अनेकैः प्रतिवचनं दत्तम्/ 110.030. न जाने कं शब्दापयामीति/ 110.030. भगवानाह--गच्छ आनन्द, गत्वा कथय--यो बोधस्य गृहपतेः शुशुमारगिरीयस्य पुत्रः स्वागतः, स आगच्छतु इति/ 110.031. आयुष्मता आनन्देन गत्वोच्चैः शब्दैरुक्तह्--यो बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्रः स्वागतः, स आगच्छतु इति/ 110.032. तेन पुतुर् नामश्रवणादात्मनो नाम स्मृतम्/ 110.032. स शनैर्दण्डविष्टम्भनयोगादुत्थाय गाथां भाषते--

111.001. <111>भ्रष्टः स्वागतशब्दो ऽयं कुतः पुनरिहागतः/ 111.002. नूनंश्रेयसो नाशः श्रेयसश्च समुद्भवः//1//

111.003. तेषां सर्वज्ञ नाथो ऽसि ये हि त्वां शरणं गताः/ 111.004. तेषां स्वागतमार्याणाम् ये च ते शासने रताः//2//

111.005. अहं तु भाग्यरहितः सर्वबन्धुविवर्जितः/ 111.006. शोच्यः कष्टां दशां प्राप्तः शोकशल्यसमर्पितः//3// इति/ 111.007. अथायुष्मानानन्दस्तमादाय येन भगवांस्तेनोपसंक्रान्तः/ 111.007. उपसंक्रम्य भगवन्तमिदमवोचत्--अयं भदन्त स्वागत इति/ 111.008. स भगवता क्षुधासंजनितदौर्मनस्यः समाश्वासितः, उक्तश्च--पुत्र, इमं पात्रशेषं परिभुङ्क्ष्वेति/ 111.009. स तं दृष्ट्वा संलक्षयति--यद्यप्यहं भगवता त्रैलोक्यगुरुणा दैवात् समन्वाहृतः, तदपि स्तोकः पात्रशेषः स्थापितः/ 111.010. किमत्र भोक्ष्य इति/ 111.011. भगवांस्तस्य चेतसा चित्तमाज्ञाय कथयति--वत्स, यदि त्वं सुमेरुमात्रैः पिण्डैः समुद्रसदृशेन कुष्किणा परिभोक्ष्यसे, तथाप्यव्ययं तन्न परिक्षयं गमिष्यति, यावत्तृप्तः परिभुङ्क्ष्व यथासुखमिति/ 111.013. तेन तावद् भुक्तम् यावत् तृप्त इति/ 111.013. तत्संतर्पितेन्द्रियो भगवतो मुखं व्यवलोकयितुमारब्धः/ 111.014. भगवानाह--वत्स स्वागत, तृप्तो ऽसि? तृप्तो ऽस्मि भगवन्/ 111.014. वत्स, यद्येवमपश्चिमं कवलं गृहाण, अन्तर्धास्यत्येष पात्र इति/ 111.015. तेनापश्चिमकवलो गृहीतः, सो ऽन्तर्हितः/ 111.015. भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः/ 111.016. चरमभविकः स सत्त्वो भगवन्तं पृष्टतः पृष्टतः समनुबद्धः/ 111.017. यावद्भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 111.017. सो ऽपि भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 111.018. भगवान् संलक्षयति--पुष्पाणामेनं प्रेषयामि, कर्मापनयो ऽस्य कर्तव्य/ 111.019. इति विदित्वा स्वागतमामन्त्रयते--वत्स स्बागत, सन्ति ते

कार्षापणाह्? न सन्ति भगवन्/ 111.020. वत्स स्वागत, वस्त्रान्तं निरीक्षस्व/ 111.020. वस्त्रान्तं निरीक्षितुमारब्धो यावत् पश्यति द्वौ कार्षापणौ/ 111.021. स कथयति--भगवन्, द्वौ कार्षापणौ/ 111.021. वत्स गच्छ, गण्डकस्यारामिकस्य सकाशान्नीलोत्पलानि गृहीत्वा आगच्छेति/ 111.022. स्वागतस्तस्य सकाशं गतः/ 111.022. स तं दूरादेव दृष्ट्वा पर्यवस्थितः/ 111.023. स संलक्षयति--आगतो ऽयं दूरागतः/ 111.023. नियतं ममानर्थो भवति/ 111.023. इति विदित्वा सपरुषं कथयति--दुरागत, किमर्थं र्वमिहागच्छसीति/ 111.024. स गाथां भाषते-- 111.025. नीलोत्पलैरस्ति कार्यं मे तथान्यैर् नापि पङ्कजैः/ 111.026. मुनीन्द्रस्य तु दूतो ऽहं सर्वज्ञस्य यशस्विनः//4//

111.027. इत्युक्त्वा प्रतिनिवर्तितुमारब्धः/ 111.027. सो ऽपि गाथां भाषते-- 111.028. एह्येहि यदि दूतो ऽसि तस्य शान्तात्मनो मुनेः/ 111.029. पूज्यः स नरदेवानां पूज्यः पूज्यतमैरपि//5//

111.030. इत्युक्त्वा स कथयति--बुद्धदूतस्त्वम्? बुद्धदूतः/ 111.030. किमर्थमागतह्? पुष्पार्थम्/ 111.030. यदि बुद्धदूतस्त्वम्, गृहाण यथेप्सितम्/ 111.031. नीलोत्पलानां भारमादाय भगवतः सकाशमागतः/

112.001. <112>भगवानाह--वत्स, भिक्षूणां चारय/ 112.001. स भिक्षूणां चारयितुमारब्धः/ 112.001. भिक्षवो न प्रतिगृह्णन्ति/ 112.002. भगवानाह--गृह्णीध्वं भिक्षवः सर्वसौगन्धम्/ 112.002. चक्षुर्भ्यां कर्मापनयो ऽस्य कर्तव्य इति/ 112.003. भिक्षुभिर्गृहीतानि/ 112.003. गृहीत्वा पुष्पितानि/ 112.003. तेनापूर्वं नीलकृत्स्नमुत्पादितं पूर्वम्/ 112.003. स वृद्धान्ते स्थित्वा तानि पुष्पाणि दृष्ट्वा सुतरां निरीक्षितुमारब्धः/ 112.004. तस्य तन्नीलकृत्स्नमामुखीभूतम्/ 112.005. ततस्तं भगवानाह--वत्स, किं न प्रव्रजसीति? स कथयति--प्रव्रजामि भगवन्निति/ 112.005. भगवता प्रव्रजित उपसम्पादितो मनसिकारश्च दत्तः/ 112.006. तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 112.008. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः/ 112.010. सेन्द्रोपेन्द्राणां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः/ 112.011. सो ऽर्हत्त्वं प्राप्तो विमुक्तिसुखप्रतिसंवेदी तस्यां वेलायां गाथां भाषते-- 112.012. उपायपाशैर्वीरेण बद्ध्वाहं तत्त्वदर्शिना/ 112.013. कारुण्यादुद्धृतो दुःखाज्जीर्णः पङ्कादिव द्विपः//6//

112.014. स्वागतो ऽहमभूवं प्राक्ततः पश्चाद्दुरागतः/ 112.015. आगतो ऽस्मि पुरा नाथ श्रुत्वा वाक्यं तवोत्तमम्//7//

112.016. साम्प्रतं स्वागतो व्यक्तम् {संवृत्तो न दुरागतह्}/ 112.017. साम्प्रतं काञ्चनं देहं धारयामि निराश्रवम्//8//

112.018. रत्नानि प्रतिलेभे हि स्वर्गं मोक्षं च काङ्क्षताम्/ 112.019. श्रेष्ठा कल्याणमित्राणां सदा सेवा हितैषिणाम्//9// इति/ 112.020. यदा आयुष्मान् स्वागतः स्वाख्याते धर्मविनये प्रव्रजितः, तदा सामन्तकेन शब्दो विसृतह्--श्रमणेन गौतमेनासौ दुरागतः क्रोडमल्लकः प्रव्रजितः/ 112.021. तीर्थ्यैः श्रुतम्/ 112.021. ते ऽवध्यायन्ति क्षिपन्ति विवादयन्ति--श्रमणो भवन्तो गौतम एवमाह--सामन्तप्रासादिकं मे शासनमिति/ 112.023. अत्र किं सामन्तप्रासादिकमित्यस्य यत्रेदानीं दुरागतप्रभृतयो ऽपि क्रोडमल्लकाः प्रव्रजन्तीति? अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्/ 112.024. भगवान् संलक्षयति--सुमेरुप्रख्यो महाश्रावके महाजनकायः प्रसादं प्रवेदयते/ 112.025. तद्गुणोद्भावनमस्य कर्तव्यम्, कुत्र कर्तव्यम्? यत्रैव पतितः/ 112.026. इति ज्ञात्वा आनन्दमामन्त्रयते स्म--गच्छ आनन्द भिक्षूणामारोचय--तथागतो भिक्षवो भर्गेषु जनपदेषु चारिकां चरिष्यति/ 112.027. यो युष्माकमुत्सहते तथागतेन सार्धं भर्गेषु चारिकां चर्तुम्, स चीवरकाणि गृह्णातु इति/ 112.028. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति--भगवानायुष्मन्तो भर्गेषु जनपदेषु चारिकां चरिष्यति/ 112.029. यो युष्माकमुत्सहते भगवता सार्धं भर्गेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि गृह्णातु इति/ 112.031. अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकह् <113>प्रसादिकपरिवारो वृषभ इव गोगणपरिवृतो

गज इव कलभपरिवृतः सिंह इव दंष्टृगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमति इव जलनिधिः सजल इव जलधरो विमद इव गजपरिः सुदान्तेन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतो ऽशीत्यानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर् वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतिभिर्महाश्रावकैः परिवृतो ऽन्येन च महता भिक्षुसंघेन येन शुशुमारगिरिस्तेनोपसंक्रान्तः/

113.013. अनुपूर्वेण चारिकां चरञ् शुशुमारगिरिमनुप्राप्तः/ 113.014. शुशुमारगिरौ विहरति भीषणिकावने मृगदावे/ 113.014. अश्रौषुः शुशुमारगिरीयका ब्राह्मणगृहपतयह्--भगवान् भर्गेषु जनपदेषु चारिकां चरञ् शुशुमारगिरिमनुप्राप्तः शुशुमारगिरौ विहरति भीषणिकावने मृगदाव इति/ 113.016. श्रुत्वा च पुनः संघात् संघं पूगात्पूगं संगम्य शुशुमारगिरेर् निष्क्रम्य येन भगवांस्तेनोपसंक्रान्ताः/ 113.017. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः/ 113.018. शुशुमारगिरीयकान् ब्राहमणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 113.019. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादापयति समुत्तेजयति संप्रहर्ष्य तूष्णीम्/ 113.020. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन/ 113.022. अधिवासयति भगवाञ् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन/ 113.023. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः/ 113.025. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनकानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयन्ति--समयो भदन्त, सज्जं भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/ 113.028. अथ भगवान्

पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां भक्ताभिसारस्तेनोपसंक्रान्तः/ 113.030. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः/ 113.030. शुशुमारगिरीयका ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्पयन्ति संप्रवारयन्ति/ 113.032. अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन <114>भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय/

114.002. अथ भगवाञ् शुशुमारगिरीयकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 114.004. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्//

114.005. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त नानादेशेषु नानाधिष्ठानेषु ते ते दुष्टनागा दुष्टयक्षाश्च विनीताः/ 114.006. अयं भदन्त अश्वतीर्थिको नागो ऽस्माकमवैराणां वैरी असपत्नानां सपत्नो ऽद्रुग्धानां द्रुग्धः/ 114.007. नित्यमस्माकं जातानि जातानि शस्यानि विनाशयति, स्त्रीपुरुषदारकदारिकागोमहिषानजैडकांश्च/ 114.008. अहो बत भगवांस्तं विनयेदनुकम्पामुपादायेति/ 114.009. अधिवासयति भगवाञ् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनाम्/ 114.010. तूष्णीभावेनाधिवासयति/ 114.010. अथ भगवाञ् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेनाधिवास्य उत्थायासनात् प्रक्रान्तः/ 114.011. अथ भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 114.012. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, भिक्षूणामेवमारोचय, शलाकां चारय--यो युष्माकमुत्सहते अश्वतीर्थिकं नागं विनेतुम्, स शलाकां गृह्णातु इति/ 114.014. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षुसंघस्यारोचयित्वा बुद्धप्रमुखे भिक्षुसंघे शलाकां चारयितुमारब्धः/ 114.015. भगवता शलाका न गृहीता/ 114.015. स्थविरा भिक्षवः समन्वाहर्तुं संवृत्ताह्--किमर्थं भगवता शलाका न गृहीता इति? पश्यन्त्यायुष्मतः स्वागतस्य गुणोद्भावनां कर्तुकामः/ 114.017. तैरपि न गृहीता/ 114.017. आयुष्मान् स्वागतः समन्वाहर्तुं प्रवृत्तह्--किं कारणं भगवता शलाका न गृहीता स्थविरस्थविरैश्च भिक्षुभिरिति? पश्यति मम गुणोद्भावनां कर्तुकामः/ 114.019. तच्छास्तुर्मनोरथं पूरयामि, गृह्णामि शलाकामिति/ 114.019.

तेनार्धासनं मुक्त्वा गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता/ 114.020. जानकाः पृच्छका बुद्धा भगवन्तः/ 114.021. पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्--कतरेणानन्द भिक्षुणा शलाका गृहीतेति? स कथयति--स्वागतेन भदन्तेति/ 114.022. भगवानाह--गच्छ आनन्द, स्वागतं भिक्षुमेवं वद--दुष्टनागो ऽसौ, कायेन्द्रियं ते रक्षितव्यमिति/ 114.023. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः/ 114.024. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--आयुष्मन् स्वागत, भगवानेवमाह--दुष्टनागो ऽसौ, कायेन्द्रियं ते रक्षितव्यमिति/ 114.025. स कथयति--आयुष्मन्नानन्द अकोप्या शास्तुराज्ञा/ 114.026. अपि तु यादृशो ऽश्वतीर्थिको नागः, ईदृशानां नागानामिक्षुवेणुनडवद्यदि पूर्णो जम्बुद्वीपः स्यात्, तथापि मे ते रोमापि नेञ्जयितुं समर्थाः स्युः, प्रागेवाश्वतीर्थिको नागः कायेन्द्रियस्योपरोधं करिष्यतीति/ 114.028. आयुष्मानानन्द आरोग्यमित्युक्त्वा प्रक्रान्तः//

114.029. अथायुष्मान् स्वागतस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय शुशुमारगिरिं पिण्डाय प्राविक्षत्/ 114.030. शुशुमारगिरिं पिण्डाय चरित्वा येनाश्वतीर्थिकस्य नागस्य भवनं तेनोपसंक्रान्तः/ 114.031. अद्राक्षीदश्वतीर्थिको नाग आयुष्मन्तं स्वागतं दूरादेव/ 114.031. दृष्ट्वा च पुनः संलक्षयति--किमनेने श्रमणकेन मम मृतिप्रवृत्तिर् येन मे भवनमागच्छतीति? पुनः संलक्षयति--<115>आगन्तुरयम्, आगच्छतु तावदिति/

115.001. अथायुष्मान् स्वागतस्तस्य ह्रदं गत्वा पात्रचीवरमेकान्तमुपसंक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य जीर्णपर्णकानि समुदानीय निषद्य भक्तकृत्यं कर्तुमारब्धः/ 115.003. अश्वतीर्थिकेन नागेनासावतिथिरिति कृत्वाध्युपेक्षितः/ 115.003. आयुष्मान् स्वागतः संलक्षयति--नासंक्षोभिता दुष्टनागा दमथमागच्छन्ति/ 115.004. संक्षोभयाम्येनमिति/ 115.004. तेन पात्रं पक्षाल्य तत्पात्रोदकं तस्मिन् ह्रदे प्रक्षिप्तम्/ 115.005. स संक्षुब्धः/ 115.005. स संलक्षयति--अयं मया श्रमण आगच्छन्नध्युपेक्षितः, भुञ्जानो ऽप्युपेक्षितः, अनेन मम भवने उच्छिष्टोदकं छोरितम्/ 115.007. नामावशेषमेनं करोमीति तीव्रेण पर्यवस्थानेन पर्यवस्थितः/ 115.007. उपरिविहायसमभ्युद्गम्य आयुष्मतः स्वागतस्योपरि चक्रकणपपरशुभिन्दिपालादीनि प्रहरणानि क्षेप्तुमारब्धः/ 115.008. आयुष्मान् स्वागतो मैत्रीसमापन्नः/ 115.009. तान्यस्य दिव्यान्युत्पलपद्मकुमुदपुण्डरीकमन्दारकाणि पुष्पाणि भूत्वा काये निपतन्ति/ 115.010. अश्वतीर्थिको नागो ऽङ्गारवर्षमुत्स्रष्टुमारब्धः/ 115.010. तदपि दिव्यानि पुष्पाणि मान्दारकाणि भूत्वा काये निपतितुमारब्धम्/ 115.011. अश्वतीर्थिको नागः पांसु वर्षितुमारब्धः/ 115.012. तदपि दिव्यान्यगुरुचूर्णानि तमालपत्रचूर्णानि भूत्वा निपतितुमारब्धम्/ 115.013. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावाद्धूमयितुमारब्धः/ 115.013. आयुष्मानपि स्वागत ऋद्ध्यनुभावाद्धूमयितुमारब्धः/ 115.014. अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावात् प्रज्वलितः/ 115.015. आयुष्मानपि स्वागतस्तेजोधातुं समापन्नः/ 115.015. इति तत्राश्वतीर्थिकस्य नागस्य

क्रोधस्यानुभावेनायुष्मतः स्वागतस्य ऋद्ध्यनुभावेन महानवभासः प्रादुर्भूतो यं दृष्ट्वा शुशुमारगिरीयका ब्राह्मणगृहपतयः संभ्रान्ताह् इतश्चामुतश्च निरीक्षितुमारब्धाः/ 115.017. कथयन्ति--एष भवन्तो भगवानश्वतीर्थिकं नागं विनयति, आगच्छत पश्याम इति/ 115.018. अनेकानि प्राणशतसहस्राणि निर्गतानि/ 115.019. भिक्षवो ऽपि तमुदारावभासं तत्रस्था एव निरीक्षितुमारब्धाः/ 115.019. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामभीक्ष्णं तेजोधातुं समापद्यमानानाम् यदुत स्वागतो भिक्षुरिति/ 115.021. यदाश्वतीर्थिको नागो विगतमददर्पः क्षीणप्रहरणश्च संवृत्तः, तदा निष्पलायितुमारब्धः/ 115.022. आयुष्मता स्वागतेन समन्ततो ऽग्निर् निर्मितः/ 115.022. अश्वतीर्थको नागो याम् यां दिशं गच्छति, तां तां दिशमादीप्तां प्रदीप्तां संप्रज्वलितामेकज्वालीभूतां पश्यति/ 115.023. स इतश्चामुतश्च नैर्माणिकेनाग्निना पर्याकुलीकृतो ऽत्राणः सर्वमशान्तं पश्यति नान्यत्रायुष्मत एव स्वागतस्य समीपं शान्तं शीतिभूतम्/ 115.025. स येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः/ 115.025. उपसंक्रम्य आयुष्मन्तं स्वागतमिदमवोचत्--अहं भदन्त स्वागत/ 115.026. किं मां विहेठयसीति? स कथयति--जराधर्मा नाहं त्वां विहेठयामि, अपि तु त्वमेव मां विहेठयसि/ 115.027. यदि मया एवंविधा गुणगणा नाधिगता अभविष्यन्, अद्याहं त्वया नामावशेषः कृतो ऽभविष्यमिति/ 115.028. स कथयति--भदन्त स्वागत, आज्ञापयतु, किं मया करणीयम्? भद्रमुख, भगवतो ऽन्तिकं गत्वा शरणगमनशिक्षापदानि गृहाणेति/ 115.030. स कथयति--भदन्त

स्वागत, शोभनम्, एवं करोमीति/ 115.030. अथायुष्मान् स्वागतो ऽश्वतीर्थनागमादाय येन भगवांस्तेनोपसंक्रान्तः/ 115.031. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 115.032. एकान्तनिषण्ण आयुष्मान् स्वागतो भगवन्तमिदमवोचत्--अयं सो ऽश्वतीर्थिको<116> नाग इति/

116.001. तत्र भगवानश्वतीर्थिकं नागमामन्त्रयते--त्वं तावद्भद्रमुख, पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनौ उपपन्नः/ 116.002. स त्वमेतर्हि हतप्रहतनिविष्टः परप्राणहरः परप्राणोपरोधेन जीविकां कल्पयसि/ 116.003. इतश्च्युतस्य ते का गतिर्भविष्यति, का उपपत्तिः, को ऽभिसम्परायह्? इति/ 116.004. स कथयति--भगवन्, आज्ञापय, किं मया करणीयमिति/ 116.005. भगवानाह--ममान्तिकाच्छरणशिक्षापदानि गृहाण, शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छेति/ 116.006. स कथयति--एषो ऽहं भगवन्तं शरणं गच्छामि, शिक्षापदानि च गृह्णामि, अद्याग्रेण च शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छामीति/ 116.008. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयः प्रभूतमभिसारं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ताः/ 116.009. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः/ 116.009. एकान्तनिषण्णाः शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचत्--भगवता भदन्त अश्वतीर्थिको नागो विनीतह्? भगवानाह--न मया ब्राह्मणगृहपतयो ऽश्वतीर्थको नागो विनीतः, अपि तु स्वागतेन भिक्षुणा/ 116.012. कतमेन भदन्त? इहनिवासिनैव बोधस्य गृहपतेः पुत्रेण/ 116.012. संपत्तिकामो लोको विपत्तिप्रतिकूलः/ 116.013. तत्रैके कथयन्ति--अस्माकमसौ भ्रातुः पुत्रो भवति/ 116.013. अपरे कथयन्ति--अस्माकं भगिनेय इति/ 116.014. अपरे कथयन्ति--अस्माकं वयस्यपुत्र इति/ 116.014. अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्--अधिवासयत्वस्माकं भगवान् भदन्तस्वागतमागम्य भक्तं सप्ताहेन सार्धं भिक्षुसंघेनेति/ 116.017. अधिवासयति भगवाञ् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन/ 116.018. अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः//

116.020. शुशुमारगिरौ अन्यतमो ब्राह्मण अहितुण्डिको बोधस्य गृहपतेर्वयस्यः/ 116.020. सो ऽश्वतीर्थिकस्य नागस्य भयान्निष्पलाय्य श्रावस्तीं गतः/ 116.021. स राज्ञा प्रसेनजिता कौशलेन हस्तिमध्यस्योपरि विश्वासिकः स्थापितः/ 116.022. स केनचिदेव करणीयेन शुशुमारगिरिमनुप्राप्तः/ 116.022. तेन श्रुतम् यथा स्वागतेन भिक्षुणा बोधस्य गृहपतेः पुत्रेणाश्वतीर्थिको नागो विनीत इति/ 116.023. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः/ 116.024. उपसंक्रम्यायुष्मतः स्वागतस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 116.025. स ब्राह्मण आयुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यस्वागत श्वो ऽन्तर्गृहे भक्तेनेति/ 116.026. आयुष्माअन् स्वागतः कथयति--ब्राह्मण, मामागम्य शुशुमारगिरीयकैर्ब्राह्मणगृहपतिभिर्बुद्धप्रमुखो भिक्षुसंघो भक्तेन सप्ताहेनोपनिमन्त्रितः/ 116.027. नाहमधिवासयामि/ 116.028. ब्राह्मणः कथयति--आर्य, यदि साम्प्रतं नाधिवासयसि, यदा श्रावस्तीगतो भवसि, तदा मम गृहे तत्प्रथमतः पिण्डपातः परिभोक्तव्य इति/ 116.029. कथयति--एवमस्तु इति/ 116.029. ब्राह्मणः पादाभिवन्दनं कृत्वा प्रक्रान्तः/ 116.030. अथ भगवान् यथाभिरम्यं शुशुमारगिरौ विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः/ 116.031. अनुपूर्वेण चारिकां चरञ् श्रावस्तीमनुप्राप्तः/ 116.031. श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे/ 116.032. अश्रौषीदनाथपिण्डदो गृहपतिर्भगवान् भर्गेषु जनपदचारिकाम्<117> चरञ् श्रावस्तीमनुप्राप्तः, इहैव विहरत्यस्माकमेवाराम इति/

117.001. श्रुत्वा च पुनः श्रावस्त्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः/ 117.002. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 117.003. एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति/ 117.004. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्/ 117.005. अनाथपिण्डदो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति/ 117.007. अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन/ 117.008. अथानाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः/ 117.010. अश्रौषीत् स ब्राह्मणो भगवान् भर्गेषु जनपदचारिकां चरन्निहानुप्राप्त इहैव विहरति जेतवने ऽनाथपिण्डदस्याराम इति/ 117.011. श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः/ 117.011. उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्--अधिवासयतु मे आर्यः श्वो ऽन्तर्गृहे भक्तेनेति/ 117.012. अधिवासयत्यायुष्मान् स्वागतस्तस्य ब्राह्मणस्य तूष्णीभावेन/ 117.013. अथ स ब्राह्मण आयुष्मन्तः स्वागतस्य तूष्णीभावेनाधिवासनां विदित्वा उत्थायासनात् प्रक्रान्तः/ 117.014. अथानाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.