Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/19

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

दिव्यावदान

Thông tin
GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भक्तम् यस्येदानीं भगवान् कालं मन्यत इति/ 117.017. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य निवेशनं तेनोपसंक्रान्तः/ 117.018. तेनापि ब्राह्मणेनायुष्मतः स्वागतस्य प्रणीत आहारः सज्जीकृतः/ 117.019. आयुष्मानपि स्वागतः पूर्वाह्णे निवास्य पात्रचीवरमादाय येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्तः/ 117.020. उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः/ 117.021. एकान्तनिषण्ण आयुष्मान् स्वागतस्तेन ब्राह्मणेन प्रणीतेनाहारेण संतर्पितः/ 117.021. स ब्राह्मणः संलक्षयति--आर्येण स्वागतेन प्रणीत आहारः परिभुक्तः, नो जरयिष्यति, पानकमस्मै प्रयच्छामि/ 117.023. इति विदित्वा आयुष्मन्तं स्वागतमिदमवोचत्--आर्य, प्रणीतस्ते आहारः परिभुक्तः/ 117.024. पानकं पिब/ 117.024. पानं जरयिष्यतीति/ 117.024. स कथयति--शोभनम्/ 117.024. एवं करोमीति/ 117.024. तेन पानकं सज्जीकृत्य हस्तिमदादङ्गुलिः प्रक्षिप्ता/ 117.025. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते/ 117.025. आयुष्मता स्वागतेन तत्पानकं पीतम्/ 117.026. ततो दक्षिणादेशनां कृत्वा प्रक्रान्तः श्रावस्तीवीथीं किलिञ्जच्छन्नाम्/ 117.027. स तामतिक्रान्त आतपेन स्पृष्टो मद्यक्षिप्तः पृथिव्यां निपतितः/ 117.027. असंमोषधर्मणो बुद्धा भगवन्तः/ 117.028. भगवता सुपर्णिका कुटिर् निर्मिता--मैतं कश्चिद् दृष्ट्वा शासने ऽप्रसादं प्रवेदयिष्यतीति/ 117.029. अनाथपिण्डदः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन स्वहस्तेन संतर्पयति संप्रवारयति/ 117.030. अनेकपर्यायेण स्वहस्तं संतर्प्य

संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय/ 117.032. अथ भगवाननाथपिण्डदं गृहपतिं धर्म्यया कथया <118>संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः/

118.001. अनुपूर्वेण तत्प्रदेशनुप्राप्तः/ 118.002. अथ भगवांस्तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य भिक्षूनामन्त्रयते स्म--अयं स भिक्षवः स्वागतो भिक्षुर्येनाश्वत्रीर्थिको नागस्तावच्चण्डो विनीतः/ 118.003. किमिदानीमेष शक्तो दुर्भुक्तस्यापि विषमपनेतुम्? नो भदन्त इति/ 118.004. भिक्षवः, इमे चान्ये चादीनवा मद्यपाने/ 118.004. तस्मान्न भिक्षुणा मद्यं पातव्यं दातव्यं वा/ 118.005. अथ भगवानायुष्मन्तं स्वागतं मद्यवशात् सुप्तमुत्थाप्येदमवोचत्--स्वागत, किमिदम्? असमन्वाहारो भगवन्, असमन्वाहारः सुगत/ 118.006. ततो भगवानायुष्मन्तं स्वागतमादाय विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 118.007. निषद्य भिक्षूनामन्त्रयते स्म--मां भो भिक्षवः शास्तारमुद्दिश्य भवद्भिर्मद्यमपेयमदेयमन्ततः कुशाग्रेणापि//

118.009. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता स्वागतेन कर्म कृतम् येनाढ्ये कुले महाधने महाभोगे जातह्? किं कर्म कृतम् येन क्रोडमल्लको जातः, दुरागत इति च संज्ञा संवृत्ता? किं कर्म कृतम् येन भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, तेजोधातुं समापद्यमानानां चाग्रतायां निर्दिष्टह्? भगवानाह--स्वागतेनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि/ 118.014. स्वागतेन कर्माणि कृतान्युपचितानि/ 118.015. को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च/ 118.018. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि/ 118.019. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्//10//

118.020. भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी/ 118.021. सो ऽपरेण समयेन सुहृत्सम्बन्धिबान्धवपरिवृतो ऽन्तर्जनपरिवृतश्चोद्यानभूमिं निर्गतः/ 118.022. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य/ 118.023. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः/ 118.024. सो ऽध्वपरिश्रमाद्धातुवैषम्याश्च ग्लानः पिण्डार्थी तदुद्यानं प्रविष्टः/ 118.025. स गृहपतिस्तं दृष्ट्वा पर्यवस्थितः/ 118.025. तेन पौरुषेयाणामाज्ञा दत्ता--भवन्तः, निष्कासयतैनं प्रव्रजितमिति/ 118.026. तेषां न कश्चिदुत्सहते निष्कासयितुम्/ 118.027. तेन गृहपतिना भूयसा पर्यवस्थितेन स महात्माअ स्वयमेव ग्रीवायां गृहीत्वा निष्कासितः, उक्तश्च--क्रोडमल्लकानां मध्ये प्रतिवसेति/ 118.028. स दुर्बलप्राणो भूमौ निपतितः/ 118.028. स संलक्षयति--हतो ऽयं तपस्वी गृहपतिरुपहतश्च/ 118.029. अभ्युद्धारो ऽस्य कर्तव्यः/ 118.029. इति विदित्वा उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः/ 118.030. आशु पृथग्जनस्य रिद्धिरावर्जनकरी/ 118.031. स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति--अवतरावतर महादक्षिणीय, मम दुश्चरितपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति/ 118.032. स तस्यानुग्रहार्थमवतीर्णः/ 118.032. तेन तस्य <119>पूजासत्कारं कृत्वा प्रणिधानं कृतम्--यन्मया एवंविधे सद्भूतदक्षिणीये ऽपकारः कृतः, मा अस्य कर्मणो भागी स्याम्/

119.002. यत्तूपकारः कृतः, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति//

119.005. भगवानाह--किं किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिरेव, असौ स्वागतो भिक्षुस्तेन कालेन तेन समयेन/ 119.006. यदनेन प्रत्येकबुद्धे काराः कृताः, तेनाढ्ये महाधने महाभोगे कुले जातः/ 119.007. यदपकारः कृतः, तेन पञ्चजन्मशतानि क्रोडमल्लको जातः/ 119.007. यावदेतर्ह्यपि चरमभविको ऽपि तत्क्रोडमल्लक एव जातः/ 119.008. यत्प्रणिधानं कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 119.009. अहमनेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः/ 119.010. भूयो ऽपि काश्यपे भगवति सम्यक्सम्बुद्धे प्रव्रजितो बभूव/ 119.011. यस्य भिक्षोरन्तिके प्रव्रजितः, स भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः/ 119.012. तत्रानेन यावदायुर्ब्रह्मचर्यं चारितम्, न च कश्चिद्गुणगणो ऽधिगतः/ 119.013. स मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धे ऽनुत्तरे दक्षिणीये यादवायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगुणो ऽधिगतः, अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो माणवो व्याकृतह्--भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति, तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्/ 119.017. यथा माम् उपाध्यायो भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः, एवं मामपि स भगवाञ् शाक्यमुनिः शाक्याधिराजो ऽभीक्ष्णं तेजोधातुं समापद्यमानानामग्रं निर्दिशेदिति/ 119.019. तत्प्रणिधानवशादेतर्हि तथागतेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः/ 119.020. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः/ 119.022. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्मण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः/ 119.023. इत्येवं भो भिक्षवः शिक्षितव्यम्//

119.024. इत्यवोचद्भगवान्/ 119.024. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

119.025. इति श्रीदिव्यावदाने स्वागावदानं नाम त्रयोदशमम्//

********** अवदान 14 **********

120.001. दिव्14 सूकरिकावदानम्/

120.002. धर्मता खलु च्यवनधर्मणो देवपुत्रय्स पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि क्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ति, दौर्गन्धं कायेन निष्क्रामति, उभाभ्यां कक्षाभ्यां स्वेदः प्रादुर्भवन्ति, च्यवनधर्मा देवपुत्रः स्व आसने धृतिं न लभते/ 120.003. अथान्यतमश्च्यवनधर्मा देवपुत्रः पृथिव्यामावर्तते, संपरिवर्त्यैवं चाह--हा मन्दाकिनी, हा पुष्करिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पुण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन, इति करुणकरुणं परिदेवते स्म/ 120.007. अद्राक्षीच्छक्रो देवानामिन्द्रस्तं देवपुत्रमत्यर्थं पृथिव्यामावर्तन्तं परिवर्तन्तम्/ 120.008. दृष्ट्वा पुनर्येन स देवपुत्रस्तेनोपसंक्रान्तः/ 120.009. उपसंक्रम्य तं देवपुत्रमिदमवोचत्--हा कस्मात् त्वं मार्ष अत्यर्थं पृथिव्यामावर्तसे, संपरिवर्तसे, करुणकरुणं परिदेवसे--हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन इति करुणकरुणं परिदेवसे? एवमुक्ते देवपुत्रः शक्रं देवानामिन्द्रमिदमवोचत्--एषो ऽहं कौशिक दिव्यं सुखमनुभूय इतः सप्तमे दिवसे राजगृहे नगरे सूकर्याः कुक्षौ उपपत्स्यामि/ 120.014. तत्र मया बहूनि वर्षाण्युच्चारप्रस्रावः परिभोक्तव्य इति/ 120.014. अथ शक्रो देवानामिन्द्रः कारुण्यतया तं देवपुत्रमिदमवोचत्--एहि त्वं मार्ष, बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति/ 120.016. अथ स देवपुत्रस्तिर्यग्योन्युपपत्तिभयभीतो मरणभयभीतश्च शक्रं देवानामिन्द्रमिदमवोचत्--एषो ऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्/ 120.019. अथ स देवपुत्रस्त्रिशरणपरिगृहीतो भूत्वा च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः//

120.021. धर्मता खलु अधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोर्ध्वम्/ 120.021. अथ शक्रो देवानामिन्द्रस्तं देवपुत्रमवलोकयति--किमसौ देवपुत्रः सूकरिकायाः कुक्षौ उपपन्नो न वेति/ 120.022. यावत् पश्यति--नोपपन्नस्तिर्यक्प्रेतेषु/ 120.023. नरकेषूपपन्न इति पश्यति/ 120.023. नोपपन्नः/ 120.023. मनुष्याणां सभागतायामुपपन्न इति पश्यति/ 120.024. नोपपन्नः/ 120.024. चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशांश्चावलोकयितुमारब्धः/ 120.025. तत्रापि नाद्राक्षीत्/ 120.025. अथ शक्रो देवानामिन्द्रः कुतूहलजातो येन भगवांस्तेनोपसंक्रान्तः/ 120.026. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 120.026. एकान्तनिषण्णः शक्रो देवानामिन्द्रो भगवन्तमिदमवोचत्--इहाहं भदन्त अद्राक्षमन्यतमं देवपुत्रं च्यवनधर्माणं पृथिव्यामावर्तमानं करुणकरुणं च परिदेवमानम्--हा मन्दाकिनि, हा पुष्किरिणि, हा वापि, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलाशिला, हा देवसभा, हा सुदर्शन इति/ 120.029. तमेनमेवं वदामि--कस्मात् त्वं मार्ष अत्यर्थं शोचसि परिदेवसे क्रन्दसि उरसि ताडयसि संमोहापद्यस इति? स एवमाह--एषो ऽहं कौशिक दिव्यं सुखमपहाय इतः सप्तमे दिवसे राजगृहे नगरे सूकरिकायाः कुक्षौ उपपत्स्यामि/ 120.031. तत्र मया <121>बहूनि वर्षाणि उच्चारप्रस्रावः परिभोक्तव्यं भविष्यति/

121.001. तमेनमेवं वदामि--एहि त्वं मार्ष बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति/ 121.003. स एवमाह--एषो ऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्/ 121.004. इत्युक्त्वा स देवपुत्रः कालगतः/ 121.005. कुत्रासौ भदन्त देवपुत्र उपपन्नह्? भगवानाह--तुषिता नाम कौशिक देवाः सर्वकामसमृद्धयः/ 121.006. तत्रासौ मोदते देवो गत्वेह शरणत्रयम्/ 121.006. अथ शक्रो देवानामिन्द्र आत्तमानास्तस्यां वेलायामिमां गाथां गाथां भाषते-- 121.008. ये बुद्धं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.009. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//1//

121.010. ये धर्मं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.011. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//2//

121.012. ये संघं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.013. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//3//

121.014. अथ भगवाञ् शक्रस्य देवानामिन्द्रस्य भाषितमनुसंवर्णयन्नेवमाह--एवमेतत् कौशिक, एवमेतत्/ 121.016. ये बुद्धं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.017. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//4//

121.018. ये धर्मं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.019. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//5//

121.020. ये संघं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्/ 121.021. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते//6//

121.022. अथ शक्रो देवानामिन्द्रो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्राञ्जलिकृतसम्पुटो भगवन्तं नमस्यमानस्तत्रैवान्तर्हितः//

121.024. इदमवोचद्भगवान्/ 121.024. आत्तमनसस्ते भिक्षवो ऽभ्यनन्दन्//

121.025. इति श्रीदिव्यावदाने सूकरिकावदानं चतुर्दशमम्//

********** अवदान 15 **********

122.001. दिव्15 चक्रवर्तिव्याकृतावदानम्/

122.002. बुद्धो भगवाञ् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे/ 122.002. धर्मता खलु बुद्धानां भगवतां जीवतां ध्रियमाणानाम् यापयतां केशनखस्तूपा भवन्ति/ 122.002. यदा बुद्धा भगवन्तः प्रतिसम्लीना भवन्ति, तदा भिक्षवः केशनखस्तूपे पुजां कृत्वा केचित् पुण्डाय प्रविशन्ति, केचिद्ध्यानविमोक्षसमाधिसमापत्तिसुखान्यनुभवन्ति/ 122.005. तेन खलु समयेन बुद्धो भगवांस् तथागतमाकारतः समनुस्मरंश्चित्तमभिप्रसादयति--इत्यपि स भगवांस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारिथः शास्ता देवमनुष्याणां बुद्धो भगवानिति/ 122.009. अथ भगवान् सायाह्णे प्रतिसम्लयनाद्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 122.010. अद्राक्षीद्भगवांस्तं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्/ 122.011. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--पश्यत यूयं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त/ 122.012. अनेन भिक्षुणा यावती भूमिराक्रान्ता अधो ऽशीतियोजनसहस्राणि यावत् काञ्चनचक्रमित्यत्रान्तरा यावत्यो वालुकास्तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि/ 122.014. अथ तेषां भिक्षूणामेतदभवत्--पुरुषमात्रायाम् यावद्गर्तायां न शक्यते वालुका गणयितुम्, कृतः पुनरशीतियोजनसहस्राणि यावत् काञ्चनचक्रमिति/ 122.016. कः शक्यते इयत्कालं संसारे संसरितुमिति/ 122.016. अथ ते भिक्षवो न भूयः केशनखस्तूपे कारां कर्तुमारब्धाः/ 122.017. अथ भगवांस्तेषां भिक्षूणां चेतसा

चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म--अनवराग्रो भिक्षवः संसारो ऽविद्यानीवरणानां सत्त्वानां तुष्णासम्योजनानां तृष्णार्गलबद्धानां दीर्घमध्वानं संधावतां संसरताम्/ 122.019. पूर्वा कोट्तिर् न प्रज्ञायते दुःखस्य/ 122.020. आयुष्मानुपाली बुद्धं भगवन्तं पप्रच्छ--यदुक्तं भगवता अस्य भिक्षोरियत्पुण्यस्कन्ध इति, कुत्र भदन्त इयत्पुण्यस्कन्धस्तनुत्वं परिक्षयं पर्यादानं गमिष्यति? नाहमुपालिन्न् इतो बहिः समनुपश्याम्येव क्षतिं चोपहतिं च यथा सब्रह्मचारी सब्रह्मचारिणो ऽन्तिके/ 122.023. तत्रोपालिन्न् इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति/ 122.023. तस्मात्तर्हि ते उपालिन्न् एवं शिक्षितव्यम्, यद्दग्धस्थूणाया अपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काये//

122.026. इदमवोचद्भगवान्/ 122.026. आत्तमनसस्ते भिक्षवो ऽभ्यनन्दन्//

122.027. इति श्रीदिव्यावदाने अन्यतमभिक्षुश्चक्रवर्तिव्याकृतः पञ्चदशमम्//

********** अवदान 16 **********

123.001. दिव्16 शुकपोतकावदानम्/

123.002. श्रावस्त्यां निदानम्/ 123.002. तेन खलु समयेन अनाथपिण्डदेन गृहप्तिना द्वौ शुकशावकौ प्रतिलब्धौ/ 123.003. तेन निवेशनं नीत्वा आलापितौ पोषितौ संवर्धितौ मानुषालापं च शिक्षापितौ/ 123.004. तयोश्चायुष्मानानन्दो ऽभीक्ष्णमागत्य चतुरार्यसत्यसम्प्रतिवेधिकीं धर्मदेशनां करोति--यदुत इदं दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदिति/ 123.005. स्थविरस्थविरा अपि भिक्षवो ऽनाथपिण्डदस्य गृहपतेर् निवेशनमुपसंक्रामन्ति शारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतयः/ 123.007. तेषां कालानुकालमुपसंक्रामतां ताभ्यां शुकशावकाभ्यां नामानि परिज्ञातानि/ 123.008. यावदपरेण समयेनायुष्माञ् शारिपुत्रो ऽनाथपिण्डदस्य गृहपतेर् निवेशनमनुप्राप्तः/ 123.011. अद्राष्टां तौ शुकशावकौ आयुष्मन्तं शारिपुत्रम्/ 123.009. दृष्ट्वा अन्तर्जनमामन्त्रयतह्--एष भदन्तः स्थविरः शारिपुत्र आगच्छति, आसनमस्य प्रज्ञापयतेति/ 123.010. एवमायुष्मन्तं महामौद्गल्यायनं काश्यपं रैवतमायुष्मन्तमानन्दं दृष्ट्वा कथयतह्--एषो ऽस्माकमाचार्यानन्द आगच्छति, आसनमस्य प्रज्ञापयतेति/ 123.012. यावदपरेण समयेन भगवाननाथपिण्डदस्य गृहपतेर् निवेशनमनुप्राप्तः/ 123.012. अद्राष्टां तौ शुकशावकौ भगवन्तं दूरादेवागच्छन्तं प्रासादिकं प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तमत्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्/ 123.014. दृष्ट्वा च पुनस्त्वरितत्वरितमन्तर्जनमामन्त्रयतह्--एष भदन्तो भगवानागच्छति, आसनमस्य प्रज्ञापयतेति हृष्टमधुरस्वरेण निकूजतः/ 123.016. अथ

भगवांस्तयोरनुग्रहार्थं प्रविश्य प्रज्ञप्त एवासने निषण्णः/ 123.016. निषद्य भगवता शुकशावकौ चतुरार्यसत्यसम्प्रतिवेधिकया धर्मदेशनया शरणगमनशिक्षापदेषु प्रतिष्ठापितौ/ 123.018. अथ भगवाञ् शुकशावकौ अन्तर्जनं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः/ 123.019. तौ चान्तर्जनस्य विहरतः प्रमादविहारिणौ बिडालेन प्राणिना गृहीतौ/ 123.020. विह्वलवदनौ च्छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु नमो बुद्धाय, नमो धर्माय, नमः संघायेत्युक्त्वा कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ//

123.022. अथ भगवानन्यतमस्मिन् प्रदेशे स्मितमकार्षीत्/ 123.022. अद्राक्षीदायुष्मानानन्दो भगवन्तं स्मितं प्राविष्कुर्वन्तम्/ 123.023. दृष्ट्वा च पुनर्भगवन्तमिदमवोचत्--नाहेतुप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 123.024. को भदन्त हेतुः कः प्रत्ययः स्मितस्य प्राविष्करणे? एवमेतदानन्द, एवमेतत्/ 123.025. नाहेतुप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति/ 123.026. दृष्टौ त्वया आनन्द तौ शुकशावकौ? दृष्टौ भदन्त/ 123.026. तौ आनन्द शुकशावकौ मम समनन्तरप्रक्रान्तस्य बिडालेन प्राणिना जीविताद् व्यपरोपितौ/ 123.027. तौ बुद्धधर्मसंघावलम्बनया स्मृत्या कालगतौ चातुर्महाराजकायिकेषु देवेषूपपन्नौ//

123.029. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षन्/ 123.030. अश्रौषुः संबहुला भिक्षवः श्रावस्तीं पिण्डाय प्रचरन्तो ऽनाथपिण्डदस्य गृहपतेर् निवेशने शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति बिडालेन प्राणिना व्यपरोपितौ<124> इति/

124.001. श्रुत्वा च पुनः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्ताः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्ताः/ 124.002. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः/ 124.003. एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन्--इह वयं भदन्त संबहुला भिक्षवः पूर्ववद् यावदनाथपिण्डदस्य गृहपतेर् निवेशने द्वौ शुकशावकौ--नमो बुद्धाय, नमो धर्माय, नमः संघायेति कुर्वाणौ बिडालेन प्राणिना जीविताद्व्यपरोपितौ इति/ 124.006. तयोर्भदन्त का गतिः, कोपपत्तिः, को ऽभिसम्परायह्? भगवानाह--तौ भिक्षवः शुकशावकौ तस्य शरणगमनस्य विपाकेन षट्त्रिंशत्कृत्वश्चातुर्महाराजकायिकेषु देवेषूपपत्स्येते, षट्त्रिंशत्कृत्वस्त्रायस्त्रिंशेषु, यामेषु, तुषितेषु, निर्माणरतिषु, परनिर्मितवशवर्तिषु देवेषूपपस्त्येते/ 124.009 ततस्तावत् षट्सु कामावचरेषु देवेषु सत्त्वा व्यपसंसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे आत्मभावप्रतिलम्भे मनुष्यप्रतिलाभं लब्ध्वा प्रत्येकां बोधिमभिसम्भोत्स्येते, धर्मश्च सुधर्मश्च प्रत्येकबुद्धौ भविष्यतः/ 124.011. एवं हि भिक्षवो महाफलं धर्मश्रवणं महानुशंसकम्, कः पुनर्वादो धर्मदेशना धर्माभिसमयो वा/ 124.012. तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम् यन्नो धर्मश्रवणाभिरता भविष्यामः/ 124.013. इत्येवं वो भिक्षवः शिक्षितव्यम्//

124.014. इदमवोचद्भगवान्/ 124.014. आतमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्//

124.015. इति श्रीदिव्यावदाने शुकपोतकावदानं षोडशम्//

********** अवदान 17 **********

125.001. दिव्17 मान्धातावदानम्/

125.002. एवं मया श्रुतम्/ 125.002. एकस्मिन् समये भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्/ 125.003. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत्/ 125.004. वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य येन चापालचैत्यं तेनोपसंक्रान्तः/ 125.005. उपसंक्रम्यान्यतमं वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय/ 125.006. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालचैत्यं सप्ताम्रकम् {बहुपत्रकम्} गौतमन्यग्रोधः शालवनं धुरानिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्/ 125.008. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्/ 125.008. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत् कल्पावशेषं वा/ 125.010. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः/ 125.011. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा/ 125.011. एवमुक्ते आयुष्मानानन्दस्तूष्णीम्/ 125.012. द्विरपि त्रिरपि भगवानायुष्मन्तमानन्दमामन्त्रयते--रमणीया आनन्द वैशाली वृजिभूमिश्चापालं चैत्यं सप्ताम्रकं बहुपत्रकं गौतमन्यग्रोधः शालवनं धुरनिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्/ 125.014. चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्/ 125.014. यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत् कल्पावशेषं वा/ 125.016. तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः/ 125.016. आकाङ्क्षमाणस्तथागतः

कल्पं वा तिष्ठेत् कल्पावशेषं वा/ 125.017. द्विरपि त्रिरपि आयुष्मानानन्दस्तूष्णीम्/ 125.017. अथ भगवत एतदभवत्--स्फूटो ऽभवदानन्दो भिक्षुर्मारेण पापीयसा यत्रेदानीम् यावत् त्रिरपि औदारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तमाज्ञातुम् यथापि ततः स्फुटो मारेण पापीयसा/ 125.020. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ त्वमानन्द, अन्यतरवृक्षमूलं निश्रित्य विहर, मा उभावपि आकीर्णविहारिणौ भविष्यावः/ 125.021. एवं भदन्तेत्यायुष्मानानन्दो भग्वतः प्रतिश्रुत्य अन्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय/ 125.022. स मारः पापीयान् येन भगवांस्तेनोपसंक्रान्तः/ 125.023. उअप्संक्रम्य भगवन्तमिदमवोचत्--परिनिर्वातु भगवान्/ 125.023. परिनिर्वाणकालस्मयः सुगतस्य/ 125.024. कस्मात् त्वं पापीयन्न् एवं वदसि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य? एको ऽयं भदन्त समयह्--भगवानुरुबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूले ऽचिराभिसम्बुद्धः/ 125.026. सो ऽहम् येन भगवांस्तेनोपसंक्रान्तः/ 125.026. उपसंक्रम्य भगवन्तमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य/ 125.027. भगवानेवमाह--न तावत् पापीयन् परिनिर्वास्यामि, यावन्न मे श्रावकाः पिण्डता भविष्यन्ति व्यक्ता विनीता विशारदाः, अलमुत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहीतारः, अलं स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उअपासिकाः/ 125.030. वैस्तारिकं च ते ब्रह्मचर्यं चरिष्यन्ति बाहुजन्यं पृथुभूतम् यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्/ 125.031. एतर्हि भदन्त भगवतः

श्रावकाः पण्डिता व्यक्ता विनीता विशारदा अलमुत्पन्नोत्पन्नानां परप्रवादितां सहधर्मेण <126>निग्रहीतारः, स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उपासिकाः/

126.002. वैस्तारिकं च ते ब्रह्मचर्यं बाहुजन्यं पृथुभूतम् यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्/ 126.003. तस्मादहमेवं वदामि--परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य/ 126.004. अल्पोत्सुकस्त्वं पापीयन् भव/ 126.004. निचिरस्येदानीं तथागतस्य त्रयाणां वर्षिकाणां मासानामत्ययान्निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति/ 126.005. अथ मारस्य पापीयस एतदभवत्--परिनिर्वास्यते बत श्रमणो गौतमः//

126.006. इति विदित्वा हृष्टस्तुष्टः प्रमुदित उदग्रः प्रीतिसौमनस्यजातस्तत्रैवान्तर्हितः//

126.007. अथ भगवत एतदभवत्--कस्तथागतस्य संमुखं वैनेयह्? सुप्रियो गन्धर्वराजा सुभद्रश्च परिव्राजकः/ 126.008. तयोस्त्रयाणां वर्षिकाणां मासानामत्ययादिन्द्रियपरिपाको भविष्यति सुखाधिष्ठानं वा/ 126.009. शक्यं श्रावकवैनेयस्तथागतेन विनयितुं न तु तथागतवैनेयः श्रावकेण//

126.010. अथ भगवत एतदभवत्--यन्न्वहं तद्रूपं समाधिं समापद्येयम् यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृजेयम्/ 126.011. अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्स्रष्टुमारब्धः/ 126.012. समनन्तराधिष्ठितेषु जीवितसंस्कारेषु महापृथिवीचालो ऽभूदुल्कापाता दिशोदाहाः/ 126.013. अन्तरिक्षे देवदुन्दुभयो ऽभिनदन्ति/ 126.014. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु कामावचरेषु देवेषु षण्निमित्तानि प्रादुर्भूतानिपुष्पवृक्षः शीर्णाः, रत्नवृक्षाः शीर्णाः, आभरणवृक्षाः शीर्णाः, भवनसहस्राणि प्रकम्पितानि, सुमेरुशृङ्गानि विशीर्णानि, दैवतानि वादित्रभाण्डानि पराहतानि/ 126.016. अथ भगवांस्तस्मात् समाधेर्व्युत्थाय तस्या वेलायां गाथां भाषते-- 126.018. तुल्यमतुल्यं च संभवं बवसंस्कारमपोत्सृजन्मुनिः/ 126.019. अध्यात्मरतः समाहितो ह्यभिनित्कोशमिवाण्डसम्भवः//1//

126.020. समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु षट् कामावचरा देवाः क्रियाकारं कृत्वा भगवतो ऽन्तिकं प्रक्रान्ता दर्शनाय वन्दनाय/ 126.021. भगवता तादृशी धर्मदेशना कृता यदनेकैर्देवताशतसहस्रैः सत्यानि दृष्टानि, दृष्टसत्याः स्वभवनमनुप्राप्ताः/ 126.022. समनन्तरोत्सृष्टेष्वायुःसंस्कारेष्वनेकानि पर्वतकन्दरगिरिगुहाभ्यो ऽनेकानि ऋषिशतसहस्राण्यागतानि/ 126.023. ते भगवता ऽएत भिक्षवश्चरत ब्रह्मचर्यम्ऽ प्रव्रजिताः/ 126.024. तैर्योजयद्भिर्घटद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 126.024. समनन्तरोत्सृष्टेष्वायुःसंस्कारोष्वनेका नागयक्षगन्धर्वकिन्नरमहोरगा भगवतः सकाशमुपसंक्रान्ता भगवतो दर्शनाय/ 126.026. भगवता तेषामेवंविधा धर्मदेशना कृता यदनेकैर् नागयक्षगन्धर्वकिन्नरैर्महोरगैः शरणगमनशिक्षापदानि गृहीतानि यावत् स्वभवनमनुप्राप्ताः//

126.028. अथायुष्मानानन्दः सायाह्णे ऽभिसम्लयनाद्व्युत्थाय येन भगवांस्तेनोपसंक्रान्तः/ 126.028. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थाद्/ 126.029. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--को भदन्त हेतुः कः प्रत्ययो महतः पृथिवीचालस्य? अष्टौ इमे आनन्द अष्टौ प्रत्यया महतः पृथिवीचालस्य/ 126.031. कतमे ऽष्टौ? इयमानन्द महापृथिवी अप्सु प्रतिष्ठिता, आपो वायौ प्रतिष्ठिताः, वायुराकाशे प्रतिष्ठितः/ 126.032. भवत्यानन्द समयो यदाकाशे यदाकाशे विषमा <127>वायवो वान्ति, आपः क्षोभयन्ति, आपः क्षुब्धाः पृथिवीं चालयन्ति/

127.001. अयमानन्द प्रथमो हेतुः प्रथमः प्रत्ययो महतः पृथिवीचालस्य/ 127.002. पुनरपरमानन्द भिक्षुर्महर्द्धिको भवति महानुभावः/ 127.003. स आकाङ्क्षमाणः पृथिवीं चालयति/ 127.004. देवता महर्द्धिका भवति महानुभावा/ 127.004. सापि परित्तां पृथिवीसंज्ञामधितिष्ठति अप्रमाणां चाप्संज्ञम्/ 127.005. साप्याकाङ्क्षमाणा पृथिवीं चालयति/ 127.005. अयं द्वितीयो हेतुर्द्वितीयः प्रत्ययो महतः पृथिवीचालस्य/ 127.006. पुनरपरमानन्द/ 127.006. यस्मिन् समये बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्त्वा मातुः कुक्षिमवक्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति/ 127.008. या लोकस्य लोकान्तरिका अन्धास्तमसो ऽन्धकारतमिस्रा यत्रामू सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 127.010. तत्र ये सत्त्वा उपपन्नाः, ते तया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ते--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 127.012. अयमानन्द तृतीयो हेतुस्तृतीयः प्रत्ययो महतः पृथिवीचालस्य/ 127.013. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो मातुः कुक्षेर् निष्क्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति/ 127.014. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 127.016. तत्र ये सत्त्वा उपपन्नाः, ते तया आभया

अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 127.018. अयमानन्द चतुर्थो हेतुश्चतुर्थः प्रत्ययो महतः पृथिवीचालस्य/ 127.019. पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो ऽनुत्तरं ज्ञानमधिगच्छति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति/ 127.020. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता पि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 127.023. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 127.024. अयमानन्द पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिवीचालस्य/ 127.025. पुनरपरमानन्द यस्मिन् समये तथागतस्त्रिपरिवर्तद्वादशाकारं धर्मचक्रं परिवर्तयति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति/ 127.027. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 127.029. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 127.031. अयमानन्द षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवीचालस्य/ 127.032.

पुनरपरमानन्द यस्मिन् समये तथागतो जीवितसंस्कारानधिष्ठाय <128>आयुःसंस्कारनुत्सृजति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयो ऽभिनदन्ति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति/

128.003. या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभयाअ आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 128.005. तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 128.006. अयमानन्द सप्तमो हेतुः सप्तमः प्रत्ययो महतः पृथिवीचालस्य/ 128.007. पुनरपरमानन्द नचिरस्येदानीं तथागतस्य निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति/ 128.008. अथ तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयो ऽभिनन्दन्ति, सर्वश्चायं लोक उदारेणावभासेन यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति/ 128.012. तत्र ये सत्त्वा, उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति--अन्ये ऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्ये ऽपीह भवन्तः सत्त्वा उपपन्ना इति/ 128.014. अयमानन्द अष्टमो हेतुरष्टमः प्रत्ययो महतः पृथिवीचालस्य//

128.015. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--यथा खल्वहं भदन्त भगवता भासितस्यार्थमाजानामि, इहैव भगवता जीवितसंस्कारानधिष्ठाय आयुहसंस्कारा उत्सृष्टा भविष्यन्ति/ 128.017. भगवानाह--एवमेतदानन्द, एवमेतत्/ 128.017. एतर्हि आनन्द तथागतेन जीवितसंस्कारानधिष्ठाय आयुःसंस्कारा उत्सृष्टाः/ 128.018. संमुखं मे भदन्त भगवतो ऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम्--यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठत्, कल्पावशेषं वा/ 128.020. भगवता भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः/ 128.021. आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा/ 128.021. तिष्ठतु भगवान् कल्पम्, तिष्ठतु सुगतः कल्पावशेषं वा/ 128.022. तवैवानन्द अपराधस्तवैव दुष्कृतम् यस्त्वं तथायतस्य यावत् त्रिरप्यौदारे अवभासनिमित्ते प्राविष्कृते न शक्नोषि तन्निमित्तं प्रतिश्रावयितुम्, अपि ततः स्फुटो मारेण पापीयसा/ 128.024. किमन्यस्य आनन्द भाषेत तथागतस्तां वाचम् या स्याद् द्विधा? नो भदन्त/ 128.025. साधु साधु आनन्द, अस्थानमेतदानन्द अनवकाशो यत् तथागतस्तां वाचं भाषेत या स्याद्द्विधा/ 128.026. गच्छ त्वमानन्द, यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपातय/ 128.027. एवं भदन्त/ 128.027. आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपात्य येन भगवांस्तेनोपसंक्रान्तः/ 128.029. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्/ 128.030. एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्--यावन्तो भदन्त भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, सर्वे ते उपस्थानशालायां निषण्णाः संनिपतिताः, यस्येदानीं भगवान् कालं मन्यते/ 128.032. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः/

129.001. <129>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्/ 129.001. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावदलमेव भिक्षवः सर्वसंस्कारान् संस्करितुमलम्/ 129.003. विरमन्तु तस्मात् तर्हि भिक्षवः/ 129.003. एतर्हि वा मे ऽत्ययाद्ये ते धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ते भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या वाचयितव्या ग्राहयितव्या यथैव तत्र ब्रह्मचर्यं विरस्थितिकं स्याद्बहुजन्यं पृथुभूतम् यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्/ 129.006. एतर्हि भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ये भिक्षुभिरुद्गृह्य पर्यवापय् तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतम् यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्/ 129.009. यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः/ 129.011. इमे ते भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतम् यावद्देवमनुष्येभ्यः सम्यक्सम्प्रकाशितम्/ 129.013. आगमय आनन्द येन कुशिग्रामकम्/ 129.014. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्/ 129.014. भगवान्

वैशालीवनमभिसरन् दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति/ 129.015. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--नाहेत्वप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन नागावलोकितमवलोकयन्ति/ 129.017. को भदन्त हेतुः, कः प्रत्ययो नागावलोकितस्य? एवमेतदानन्द, एवमेतत्/ 129.018. नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धा दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयन्ति/ 129.019. इदमानन्द तथागतस्यापश्चिमं वैशालीदर्शनम्/ 129.019. न भूय आनन्द तथागतो वैशालीमागमिष्यति/ 129.020. परिनिर्वाणाय गमिष्यति मल्लानामुपवर्तनम् यमकशालवनम्/ 129.021. अथान्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते-- 129.022. इदमपश्चिमकं नाथ वैशाल्यास्तव दर्शनम्/ 129.023. न भूयः सुगतो बुद्धो वैशालीमागमिष्यति//2//

129.024. निर्वाणाय गमिष्यति मल्लानामुपवर्तनम् यमकशालवनम्/ 129.024. यदा ह भगवता वाग् भाषिता इदमपश्चिमकं वैशाल्या दर्शनम्, तदा अनेकाभिर्वैशालीवननिवासिनीभिर्देवतैरश्रुपातः कृतः/ 129.026. स्थविरानन्दः कथयति--न भगवन्नमेघेनैव वर्षासु प्रवृष्टह्? भगवानाह--वैशालिवननिवासिनीभिर्दैवतैर्मम वियोगादश्रुपातः कृतः/ 129.027. ता अपि देवता(?) वैशाल्यां शब्दो निश्चारितह्--भगवान् परिनिर्वाणाय गच्छति, न भूयो भगवान् वैशालीमागमिष्यति/ 129.029. देवतानां शब्दं श्रुत्वा अनेकानि वैशालिकानि प्राणिशतसहस्राणि भगवत्सकाशमुपसंक्रान्तानि/ 129.030. भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा एवंविधा धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि गृहीतानि/ 129.031. कैश्चिच्छ्रोतापत्तिफलं कैश्चित् सकृदागमिफलं कैश्चिदनागामिफलं प्राप्तम्/ 129.032. कैश्चित् प्रव्रजित्वा अर्हत्त्वं प्राप्तम्/ 129.032. कैश्चिच्छ्रावकबोधौ<130> चित्तमुत्पादितम्/

130.001. कैश्चित् प्रत्येकायां बोधौ चित्तमुत्पादितम्/ 130.001. कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितम्/ 130.002. कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि/ 130.002. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता/ 130.003. स्थविरानन्दः कृताञ्जलिपुटो भगवन्तमिदमवोचत्--पश्य भदन्त यावत् त्वम्/ 130.004. भगवता परिनिर्वाणाय प्रस्थितेनानेकानि देवताशतसहस्राणि सत्येषु प्रतिष्ठापितानि/ 130.005. अनेकाभ्यः पर्वतकन्दरगिरिगुहाभ्यो ऽनेकानि ऋषिशतसहस्राण्यागतानि/ 130.006. भगवता एते भिक्षवः प्रव्रजिताः/ 130.006. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 130.007. अनेकैर्देवनागयक्षगन्धर्वकिन्नरमहोरगैः शरणगमनशिक्षापदानि गृहीतानि/ 130.008. अनेकानि वैशालकानि प्राणिशतसहस्राणि स्रोताअपत्तिफले प्रतिष्ठापितानि/ 130.009. केचित् सकृदागमिफले, केचिदनागामिफले, केचित् प्रव्राजितः/ 130.010. प्रव्रजित्वा अर्हत्त्वं प्राप्तम्/ 130.010. केचिच्छरणगमनशिक्षापदेषु प्रतिष्ठापिताः/ 130.010. अत्र आनन्द किमाश्चर्यं मया एतर्हि सर्वज्ञेन सर्वाकारज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन अस्ततृष्णेन निरुपादानेन सर्वाहंकारममकारास्मिमानाभिनिवेशानुशयप्रहीणेन एवंविधं वैनेयकार्यं कृतम्/ 130.012. यन्मया अतीते ऽप्यध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण यन्मया मरणान्तिकया वेदनया स्पृष्टेन एवंविधा परिकर्मकथा कृता, यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय, ऋषयः प्रव्रजित्वा चत्वारो ब्रह्मविहारान्

भावयित्वा कल्पवृन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः/ 130.016. तच्छ्रुणु-- 130.017. भूतपूर्वमानन्द उपोषधो नाम राजा बभूव/ 130.017. उपोषधस्य राज्ञो मूर्ध्नि पिट्टको जातो मृदुः सुमृदुः, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा/ 130.018. न कंचिदाबाधं जनयति/ 130.018. पक्वः स्फुटितः/ 130.019. कुमारो जातो ऽभिरूपो दर्शनीयः प्रासादिको द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः/ 130.019. उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि/ 130.020. सर्वासां स्तनाः प्रसृताः/ 130.020. एकैका कथयति--मां धय मां धय/ 130.020. मूर्धतो जातो मूर्धात इति संज्ञा संवृत्ता/ 130.021. मां धय मां धय मान्धात इति संज्ञा संवृत्ता/ 130.021. अन्ये कथयन्ति--केचिन्माधात इति संजानीते/ 130.022. मान्धातस्य कुमारस्य कुमारक्रीडायां क्रीडतः षट् चक्राश्च्युताः/ 130.023. यौवराज्ये प्रतिष्ठितस्य षट् चक्राश्च्युताः/ 130.023. मान्धाता जनपदान् गतः/ 130.023. जनपदान् गतस्य पिता ग्लानीभूतः/ 130.024. स मूलपत्रगण्डपुष्पभैषज्यैरुपस्थीयमानो हीयत एव/ 130.024. ततस्तैरमात्यैः संदेशो विसर्जितह्--पिता ते ग्लानीभूतः/ 130.025. आगच्छतु/ 130.025. देवराज्यं प्रतीच्छ/ 130.025. तस्यानागच्छतस् तस्यानागच्छतः पिता कालगतः/ 130.026. तैरमात्यैः पुनः संदेशो विसर्जितह्--पिता ते कालधर्मणा सम्युक्तः/ 130.026. आगच्छ, देवराज्यं प्रतीच्छस्व/ 130.027. ततो ऽसौ संलक्षयति--यदि मम पिता कालगतः, किं भूयो ऽहं गच्छामीति? ततो भूयः संदेशो ऽभ्यागतः/ 130.028. आगच्छ, देवराज्यं प्रतीच्छ/ 130.028. स कथयति--यदि मम धर्मेण राज्यं

प्राप्स्यते, इहैव राज्याभिषेक आगच्छतु/ 130.029. ततस्ते अमात्यैः कथयन्ति--रत्नशिलया देव प्रयोजनं भवति/ 130.030. तस्य च दिवौकसो नाम यक्षः पुरोजवः/ 130.030. तेन रत्नशिला आनीता/ 130.031. यदा रत्नशिला आनीता, ततस्ते अमात्या भूयः कथयन्ति--देव श्रीपर्यङ्केनात्र प्रयोजनं भवति/ 130.032. ततस्तेनैव दिवौकसेन श्रीपर्यङ्क आनीतः/ 130.032. ततस्ते अमात्या भूयः कथयन्ति--<131>देवाधिष्ठानमध्ये ऽभिषेकः क्रियते/

131.001. स कथयति--यदि मम धर्मेण राज्यं प्राप्स्यते, इहैवाधिष्ठानमागच्छतु/ 131.002. ततो ऽधिष्ठानं स्वयमेव तत्प्रदेशं गतम्/ 131.002. स्वयमागतं स्वयमागतं साकेतसाकेतमिति संज्ञा संवृत्ता/ 131.003. पश्चात् ते ऽमात्या भटबलाग्रनैगमजनपदाश्चाभिषेकं गृहीत्वा आगताः/ 131.004. ते कथयन्ति--अभिषेकं देव प्रतीच्छस्व/ 131.004. स कथयति--मम मनुष्याः पट्टं बन्धिष्यन्ति? यदि धर्मेण राज्यं प्राप्स्यते, अमनुष्याः पट्टं बन्धन्तु/ 131.005. ततो ऽमनुष्यैः पट्टो बद्धः/ 131.005. तस्य सप्त रत्नानि प्रादुर्भूतानि, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं परिणायकरत्नं स्त्रीरत्नं गृहपतिरत्नमेव सप्तमम्/ 131.007. पूर्णं चास्य सहस्रं पुत्राणां शूराणां वीराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम्/ 131.008. वैशालीसामन्तकेन रमणीयं वनखण्डम्/ 131.008. तत्र पञ्च ऋषिशतानि पञ्चाभिज्ञानि ध्यायन्ति/ 131.009. तत्र वनखण्डे प्रभूताः पक्षिणो मृगाश्च प्रतिवसन्ति/ 131.009. शब्दकण्टकानि च ध्यानानि/ 131.010. ते च पक्षिणो ऽवतीर्यमाणा अवतीर्यमाणाः शब्दं कुर्वन्ति/ 131.010. दुर्मुखो नाम ऋषिः/ 131.010. स कुपितः/ 131.011. तेनोक्तम्--बकानां पक्षाणि शीर्यन्ताम्/ 131.011. यदा तेषाम् ऋषिकोपेन पक्षाणि शीर्णानि, ततस्ते पादोद्धारकेण प्रस्थिताः/ 131.012. स च राजा जनपदाननुसंसार्य पश्यति पादोद्धारकेण गच्छतः/ 131.013. यतस्ते ऽमात्याः पृष्टाह्--कस्मात् पादोद्धारकेण गच्छन्ति? पश्चात् ते ऽमात्याः कथयन्ति--देव, शब्दकण्टकानि ध्यानानीति एतेषाम् ऋषिकोपेन पक्षाणि शीर्णानि/ 131.014. ततो राज्ञा अभिहितम्--एवंविधा अपि ऋषयो भवन्ति, येषां सत्त्वानामन्तिके नास्त्यनुकम्पा? ततो राज्ञा अमात्याः संदिष्टाह्--गच्छन्तु भवन्तः, ऋषीणामेवं वदन्तु--तत्र गच्छत यत्राहं न वसया(सा?)मीति/ 131.017. यतस्तैरमात्यैह् ऋषयो ऽभिहिताः/ 131.017. राजा समादिशति--न मम राज्ये वस्तव्यम्/ 131.018. गच्छन्तु भवन्तो यत्राहं न वसया(सा?)मीति/ 131.018. ततस्ते संलक्षयन्ति--एषो ऽयं चतुर्द्वीपेश्वरः/ 131.019. गच्छामो वयं सुमेरुपरिखण्डम्/ 131.019. ते तत्र गत्वा अवस्थिताः//

131.020. राज्ञो मूर्धातस्यामात्याश्चिन्तकास्तुलका उपपरीषकाः/ 131.020. चिन्तयित्वा तुलयित्वोपपरीक्ष्य पृथक् पृथगुत्काः शिल्पस्थानकर्मस्थानानि मापयितुम्/ 131.021. चिन्तका इमे तुलका उपपरीक्षका इति मन्त्रजा मन्त्रजा इति संज्ञा/ 131.022. तैरारब्धानि कर्षणकर्माणि कर्तुम्/ 131.022. यतः स राजा पश्यति जनपदाननुसंसार्याकृष्यान् कर्मान्तान् कुर्वतः/ 131.023. यतो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? ततस्तैरमात्यै राजा अभिहितह्--एते देव मनुष्याः शास्यादीनि कृषन्ति, ततो ओषधयो भविष्यन्ति/ 131.025. यतश्च स राजा कथयति--मम राज्ये मनुष्याः कृषिष्यन्ति? ततस्तेनोक्तम्--अप्ताविंशतिबीजजातीनां देवो वर्षतु/ 131.026. सहचित्तोत्पादादेव राज्ञो मूर्धातस्य सप्ताविंशतिबीजजातिर्देवो वृष्टः/ 131.027. राज्ञा मूर्धातेन जनपदाः पृष्टाह्--कस्यैतानि पुण्यानि? तैरभिहितम्--देवस्य चास्माकं च/ 131.028. यतस्ते मनुष्याः कर्पासवातानारब्धा मापयितुम्, भूयो ऽपि च राज्ञा मूर्धातेन जनपदाननुसंसार्य तेन पृष्टाः/ 131.029. ततो राज्ञा अभिहितम्--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, मनुष्याः कर्पासवातान् मापयन्ति/ 131.030. पश्चात् राज्ञा अभिहितम्--कस्यार्थे? तैरमात्यैरभिहितम्--देव, वस्त्राणामर्हे/ 131.031. ततो राज्ञा तेनोक्तम्--मम राज्ये मनुष्याः कर्पासवातान् मापयिष्यन्तीति कर्पासमेव देवो वर्षतु/ 131.032. सहचित्तोत्पादादेव<132> राज्ञो मूर्धातस्य कर्पासानेव देवो वृष्टः/

132.001. स च राजा जनपदान् पृच्छति/ 132.001. कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च/ 132.002. पश्चात् तेन जनेन तत्कर्पासं कर्तितुमारब्धम्/ 132.003. स राजा कथयति--किमेते मनुष्याः कर्वन्ति? तैरमात्यैरभिहितम्--देव सूत्रेण प्रयोजनम्/ 132.004. ततो राज्ञा अभिहितम्--मम राज्ये मनुष्याः कर्तिष्यन्ति? सूत्रमेव देवो वर्षतु/ 132.004. सहचित्तोत्पादादेव राज्ञो मान्धातस्य सूत्रमेव देवो वृष्टः/ 132.005. स च राजा कथयति--कस्यैतानि पुण्यानि? यतस्ते कथयन्ति--देवस्य चास्माकं च/ 132.006. यतस्तैरनुपूर्वेण वस्त्राण्यारब्धानि वापयितुम्/ 132.006. स राजा कथयति--किमेते मनुष्याः कुर्वन्ति? तैरमात्यैरभिहितम्--देव, वस्त्राणि वापयन्ति, वस्त्रैः प्रयोजनम्/ 132.008. यतो राजा संलक्षयति--मम राज्ये मनुष्या वस्त्राणि वापयिष्यन्ते? वस्त्राण्येव देवो वर्षतु/ 132.009. सहचित्तोत्पादादेव राज्ञो मान्धातस्य वस्त्राण्येव देवो वृष्टः/ 132.009. स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च/ 132.010. यतः स राजा संलक्षयति--मनुष्या मम पुण्यानां प्रभावं न जानन्ति/ 132.011. अथ राज्ञो मान्धातस्यैतदभवत्/ 132.011. अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च/ 132.012. सन्ति मे सप्त रत्नानि, तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नमेव सप्तमम्/ 132.014. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 132.015. अहो बत मे ऽन्तःपुरे सप्ताहं हिरण्यवर्षं पतेत्, एककार्षापणो ऽपि बहिर् न

निपतेत्/ 132.015. सहचित्तोत्पादादेव राज्ञो मान्धातस्यान्तःपुरे सप्ताहं हिरण्यवर्षं वृष्टम्/ 132.016. एककार्षापणो ऽपि बहिर् न निपतितो यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतपुण्यस्य कृतकुशलस्य स्वकं पुण्यफलं प्रत्यनुभवतः/ 132.018. यतः स राजा कथयति--कस्यैतानि पुण्यानि? ते कथयन्ति--देवस्य चास्माकं च/ 132.019. यतो राजा स राजा कथयति--क्षुण्णा भवन्तो यदि युष्माभिः पूर्वमेवाभिहितमभविष्यद्देवस्य पुण्यानीति, मया सकलं जम्बुद्वीपं रत्नैरभिवृष्टमभविष्यत्/ 132.020. अपि तु यो युष्माकं रत्नैरर्थी, स यावदीप्सितानि रत्नानि गृह्णातु//

132.022. तस्य तत्र मूर्धातस्य राज्ञो महाराज्यं कारयतः षट् चक्राश्च्युताः/ 132.022. राज्ञो मूर्धातस्य दिवौकसो यक्षः पुरोजवः/ 132.023. स राज्ञा मूर्धातेनोक्तह्--अस्ति किंचिदन्यद्वीपे नाज्ञापितम् यद्वयमाज्ञापयेम? यतः पश्चाद्दिवौकसेनाभिहितह्--अस्ति देव पूर्वविदेहो नाम द्वीपः, ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यः/ 132.025. स्वयं नु देवो गत्वा तमप्याज्ञापयेत्/ 132.025. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च/ 132.027. अस्ति मे सप्त रत्नानि तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्/ 132.028. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 132.029. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्/ 132.029. श्रूयते अथ खलु पूर्वविदेहो नाम द्वीपः/ 132.030. यन्न्वहं तमपि गत्वा समनुशासेयम्/ 132.030. सहचित्तोत्पादादेव राजा मान्धात उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः/ 132.031. अगमद्राजा मान्धातः पूर्वविदेहद्वीपम्/ 132.032. प्रत्यष्ठाद्राजा मान्धाता पूर्वविदेहद्वीपे/ 132.032. समनुविष्टवान् <133>राजा मूर्धातः पूर्वविदेहं द्वीपम्/

133.001. तस्य तत्र समनुशासतः षट् चक्राश्च्युताः/ 133.001. भूयः स राजा दिवौकसम् यक्षमामन्त्रयति--अस्ति दिवौकसं किंचिदन्यद्वीपे नाज्ञापितम्? दिवौकस आह--अस्ति देव अपरगोदानीयं नाम द्वीपम् ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 133.004. यन्नु देवस्तमपि गत्वा समनुशासेत्/ 133.004. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुदीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च/ 133.005. सन्ति च मे सप्त रत्नानि/ 133.005. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 133.006. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम् यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतकुशलस्य स्वपुण्यफलं प्रत्यनुभवतः/ 133.008. श्रूयते अपरगोदानीयं नाम द्वीपम् ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 133.009. यन्न्वहं तमपि गत्वा समनुशासेयम्/ 133.009. सहचित्तोपादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः/ 133.011. अगमद्राजा मान्धाता अपरगोदानीयं द्वीपम्/ 133.011. अनुशास्ति राजा मान्धाता अपरगोदानीयम्/ 133.012. तस्य समनुशासतः षट् चक्राश्च्युताः/ 133.012. यतः स राजा मान्धाता दिवौकसम् यक्षं पृच्छति--अस्ति कश्चिदन्यद्वीपो नाज्ञापितह्? आगतो ऽस्मि पूर्वान्/ 133.013. अस्ति देव उत्तरकुरुर् नाम द्वीपः/ 133.014. किं चापि ते मनुष्या अममा अपरिग्रहाः/ 133.014. यन्नु देवो गत्वा स्वकं भटबलाग्रं समनुशासेत्/ 133.015. अथ राज्ञो

मान्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपम् ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 133.016. सन्ति मे सप्त रत्नानि/ 133.016. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 133.017. वृष्टमेव सप्ताहमन्तःपुरे हिरण्यवर्षम्/ 133.018. श्रूयते उत्तरकुरुर् नाम द्वीपः/ 133.018. किंचापि ते मनुष्या अममा अपरिग्रहाः/ 133.018. यन्न्वहं तत्रापि गत्वा स्वं भटबलाग्रं समनुशासेयम्/ 133.019. सहचित्तोत्पादादेव राजा मान्धाता सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजव उपरिविहायसेनाभ्युद्गतः/ 133.020. अद्राक्षिद्राजा मान्धातः सुमेरुपार्श्वेनानुयायंश् चित्रोपचित्रान् वृक्षानापीडकजातान्/ 133.021. दृष्ट्वा च पुनर्दिवौकसम् यक्षमामन्त्रयते स्म--किमेतद्दिवौकस चित्रोपचित्रान् वृक्षानापीडकजातान्/ 133.022. एते देव उत्तरकौरवाणां मनुष्याणां कल्पदूष्यवृक्षाः, यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावृण्वन्ति/ 133.024. देवो ऽप्यत्रैव गत्वा कल्पदूष्यानि प्रावरीतु/ 133.024. श्रुत्वा च पुना राजा मान्धाता अमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यश्चित्रोपचित्रान् वृक्षानापीडकजातान्? एवं देव/ 133.026. एते ग्रामण्य उत्तरकौरवाणां मानुष्याणां कल्पदूष्यवृक्षा यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावरन्ति/ 133.027. यूयमप्यत्र गत्वा कल्पदूष्ययुगानि प्रावरध्वम्/ 133.027. अद्राक्षीद्राजा मान्धाता सुमेरुपार्श्वेनानुयायञ् श्वेतश्वेतं पृथिवीप्रदेशम्? एतद्देव उत्तरकौरवकाणां मनुष्याणामकृष्टोप्तं तण्डुलफलशालिम् यत उत्तरकौरवका मनुष्या अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जन्ति/

133.030. देवो ऽप्यत्र गत्वा अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जतु/ 133.031. अगमद्राजा मान्धाता उत्तरकुरुद्वीपम्/ 133.032. प्रत्यष्टाद्राजा मान्धाता उत्तरकुरौ द्वीपे/ 133.032. समनुशास्ति राजा मान्धाता उत्तरकुरौ द्वीपे स्वकम् <134>भटबलाग्रम्/

134.001. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.001. अथ राजा मान्धाता दिवौकसम् यक्षमामन्त्रयते--अस्ति किंचिदन्यद्वीपमनाज्ञापितमिति? नास्ति देव/ 134.002. श्रूयन्ते देवास्त्रायस्त्रिंशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः/ 134.003. यन्नु देवो देवांस्त्रायस्त्रिंशान् दर्शनायोपसंक्रमेत्/ 134.004. अथ राज्ञो मूर्धातस्यैतदभवत्--अस्ति मे जम्बुद्वीपम्, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च/ 134.005. अस्ति मे सप्त रत्नानि/ 134.006. पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्/ 134.006. वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्/ 134.007. समनुशिष्टो मे अपरगोदानीयो द्वीपः/ 134.008. समनुशिष्टं मे उत्तरकुरुद्वीपे स्वकं भटबलाग्रम्/ 134.008. श्रूयन्ते देवास्त्रायंस्त्रिशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः/ 134.009. यन्न्वहं देवांस्त्रायास्त्रिंशान् दर्शनायोपसंक्रमेयम्/ 134.010. सहचित्तोत्पादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः सप्तरत्नपुरोजवः पुत्रसहस्रपरिवृतः/ 134.011. सुमेरुः पर्वतराजा सप्तकाञ्चनपर्वतपरिवृतः/ 134.012. अथ राजा निमिंधरे पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.012. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.013. निमिंधरात् पर्वतात् विनतके पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.013. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.014. विनतकात् पर्वतादश्वकर्णगिरौ पर्वते प्रत्यष्ठात्

काञ्चनमये/ 134.015. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.015. अश्वकर्णगिरेरपि पर्वतात् सुदर्शने पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.016. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.017. सुदर्शनात् पर्वतात् खदिरके पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.017. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.018. खदिरकात् पर्वतादीषाधारे पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.018. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.019. ईषाअधारात् पर्वताद्युगंधरे पर्वते प्रत्यष्ठात् काञ्चनमये/ 134.020. तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः/ 134.021. युगंधरात् पर्वतादुपरिविहायसमभ्युद्गतः/ 134.021. तत्र सुमेरुपरिषण्डायां पञ्च ऋषिशतानि ध्यापयन्ति/ 134.021. तैः स राजा दृष्ट आगच्छन्/ 134.022. ते कथयन्ति--अयमसौ भवन्तः कलिराजा आगच्छति/ 134.022. तत्र दुर्मुखो नाम ऋषिः/ 134.023. तेन गृह्योदकस्याञ्जलिः क्षिप्तः/ 134.023. विष्कम्भितं भटबलाग्रम्/ 134.023. तस्य चाग्रतः परिणायकरत्नमनुयाति/ 134.024. तेन ऋषयो ऽभिहिताह्-- 134.025. गच्छथ ब्राह्मण्यको ऽयं नैतत् सर्वत्र सिध्यति/ 134.026. मूर्धाता नृपतिर्ह्येषो नैते वैशालिका बकाः//3//

134.027. अथ राजा तस्मिञ् शासने ऽभ्यागतः कथयति--केनैतद्विष्कम्भितं भटबलाग्रम्? तेनोक्तम्--ऋषिभिर्देव तं भटबलाग्रं विष्कम्भितम्/ 134.028. पश्चाद् राज्ञा अभिहितम्--किमेषाम् ऋषीणां सर्वं प्रियमिति? परिणायकरत्नेनोक्तम्--जटा ऋषीणां सर्वेष्टाः/ 134.029. ततो राज्ञा अभिहितम्--ऋषीणां जटाः शीर्यन्ताम्, मम च भटबलाग्रं विहायसा गच्छतु/ 134.030. तेषाम् ऋषीणां जटाः शीर्णाः, राज्ञश्च मूर्धातस्य भटबलाग्रं विहायसेन प्रस्थितम्/ 134.031. सुमेरुः पर्वतराजा अशीतियोजनसहस्राण्यधस्तात् काञ्चनमय्यां भूमौ प्रतिष्ठितो ऽशीतियोजनसहस्राण्युदकादभ्युद्गत<135> ऊर्ध्वमधश्च षष्टियोजनशतसहस्रं पार्श्वं पार्श्वमषीतियोजनसहसराणि तद्भवति समन्तपरिक्षेपेण विंशत्यधिकानि त्रीणि योजनशतसहस्राणि/

135.002. अभिरूपो दर्शनीयः प्रासादिकश्चतूरत्नमयः/ 135.003. तस्य मूर्ध्नि देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरम्/ 135.003. देवानां त्रायस्त्रिंशानां पञ्च रक्षाः स्थापिताह्--उदकनिश्रिता नागाः, करोटपाणयो देवाः, मालाधारा देवाः, सदामत्ता देवाः, चत्वारश्च महाराजानः/ 135.005. तस्य राज्ञो मूर्धातस्योदकनिश्रितैर् नागैर्बलकायो विष्कम्भितः/ 135.006. राजा च मूर्धातस्तत्स्थानमागतः/ 135.006. तेनोक्तम्--केनैतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--देव, उदकनिश्रितैर् नागैः/ 135.007. राजा कथयति--तिर्यञ्चो मम युध्यन्ति? तेन ह्युदकनिश्रिता एव मे नागाः पुरोजवा भवन्तु/ 135.008. ततस्ते नागा राज्ञो मूर्धातस्याग्रतो ऽनुयायिनो जाताः/ 135.009. तेषां नागानामनुसम्यायतां करोटपाणयो देवाः संप्राप्ताः/ 135.009. यतो नागैस्तैः करोटपाणिभिर्देवैः सार्धं मिश्रिभावं गत्वा पुनस्तद्बलाग्रं स्तम्भितम्/ 135.010. राज्ञा मूर्धातेनोक्तम्--केनैतद्भटबलाग्रं स्तम्भितम्? ते कथयन्ति--देव, एते करोटपाणयो देवाः/ 135.011. एतैर्भटबलाग्रं स्तम्भितम्/ 135.012. राजा मूधातः कथयति--एते ऽप्येव मे करोटपाणयो देवाः पुरोजवा भवन्तु/ 135.012. यतस्ते ऽग्रतः प्रधाविताः/ 135.013. पश्चात् तेषां नागैः सार्धं धावतां मालाधारा देवाः संप्राप्ताः/ 135.013. मालाधारैर्देवैस्ते पृष्टाह्--किं भवन्तो धावतह्? ते कथयन्ति--एष मनुष्यराजा आगच्छति/ 135.014. यतस्तैः स्मभूय नागैर्देवैश्च पुनस्तद्बलाग्रं स्तम्भितम्/ 135.015. राजा च मान्धातस्तत्स्थानमनुप्राप्तः/ 135.015. तेनोक्तम्--किमेतद्भवन्तह्? ते कथयन्ति--देव, मालाधारैर्देवैः/ 135.016. राजा

कथयति--मालाधारा देवाः पुरोजवा मे भवन्तु/ 135.017. यतो मालाधारा देवास्तैर् नागैर्देवैश्च सार्धं मूर्धातस्याग्रतः प्रधाविताः/ 135.018. तेषां धावतां सदामत्तका देवाः संप्राप्ताः/ 135.018. सदामत्तैर्देवैः पृष्टाह्--किं भवन्तो धावतह्? तैर् नागैः करोटपाण्यादिभिश्च देवैरभिहिताह्--एष मनुष्यराजा आगच्छति/ 135.019. यतो भूयः सदामत्तैर्देवैः करोटपाण्यादिभिश्च देवैर् नागैः सार्धं मिश्रीभावं कृत्वा भटबलाग्रं विष्कम्भितम्/ 135.020. राजा च मूर्धातस्तत्स्थानमनुप्राप्तः/ 135.021. तेनोक्तम्--किमेतद्भटबलाग्रं विष्कम्भितम्? ते कथयन्ति--एते देव सदामत्ता देवाः/ 135.022. राज्ञा अभिहितम्--सदामत्ता एव मे देवाः पुरोजवा भवन्तु/ 135.022. यतः सदामत्ता देवास्तैः सार्धं देवैर् नागैश्चाग्रतः प्रधाविताः/ 135.023. तेषां धावतां चात्रुमहाराजिका देवाः संप्राप्ताः/ 135.024. तैरुक्तम्--किमेतद्भवन्तो धावतह्? यतो नागादिभिर्देवैरग्रतो ऽनुयायिभिरभिहिताह्--एष मनुष्यराजा आगच्छति/ 135.025. चत्वारो महाराजानः संलक्षयन्ति/ 135.025. पुण्यमहेशाख्यो ऽयं सत्त्वः/ 135.026. नास्य शक्यं विरोद्धुमिति/ 135.026. ततस्तैश्चतुर्भिर्महाराजैस्त्रायस्त्रिंशानामारोचितम्--एष भवन्तो मनुष्यराजा मूर्धात आगच्छति/ 135.027. त्रायस्त्रिंशा देवाः संलक्षयन्ति--पुण्यविपाअकमहेशाख्यो ऽअयं सत्त्वः/ 135.027. नास्य विरोद्धव्यम्/ 135.028. अर्घेणास्य प्रत्युद्गच्छामः/ 135.028. ततस्ते त्रायस्त्रिंशा देवा अर्घेण प्रत्युद्गताः/ 135.028. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहन्नीलनीलां वनराजिं मेधराजिमिवोन्नताम्/ 135.029. दृष्ट्वा च पुनर्दिवौकसम्

यक्षमामन्त्रयते--किमेतद्दिवौकस नीलनीला वनराजिर्मेघराजिरिवोन्नता? एषा देव देवानां पारिजातको नाम कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान् मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूतास् त्रीडन्ति रमन्ते परिचारयन्ति/ 135.032. देवो ऽप्यत्र गत्वा दिव्यैह् <136>पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतस् त्रीडतु रमतां परिचारयतु/

136.001. श्रुत्वा च पुना राजा मूर्धातो ऽमात्यानामन्त्रयते--पश्यथ यूयं नीलनीलां वनराजिं मेघराजिमिवोन्नताम्? एवं देव/ 136.003. एष देवानां त्रायस्त्रिंशानां पारिजातकः कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान् मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति/ 136.005. यूयमपि ग्रामण्यो ऽत्र गत्वा दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडत रमत परिचारयत/ 136.006. अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहञ् श्वेतश्वेतमभ्रकूटमिवोन्नतम्/ 136.007. दृष्ट्वा च पुनर्दिवौकसम् यक्षमामन्त्रयते--किमेतद्दिवौकस श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एषा देव देवानां त्रायस्त्रिंशानां सुधर्मा नाम देवसभा, यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति/ 136.010. देवो ऽप्यत्र गमिष्यतु/ 136.010. श्रुत्वा च पुनरमात्यानामन्त्रयते--पश्यथ यूयं ग्रामण्यः श्वेतश्वेतमभ्रकूटमिवोन्नतम्? एवं देव/ 136.011. एषा त्रायस्त्रिंशानां सुधर्मा नाम देवसभा यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति/ 136.013. यूयमपि ग्रामण्यो ऽत्र गमिष्यथ/ 136.014. देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरमर्धतृतीयानि योजनसहस्राण्यायामेन अर्धतृतीयानि योजनसहस्राणि विस्तरेण समन्ततः परिक्षेपेण दशयोजनसहस्राणि सप्तभिः काञ्चनमयैः प्राकारैः परिक्षिप्तम्/ 136.016. ते प्राकारा अर्धतृतीयानि

योजनान्युच्छ्रयेण/ 136.016. तेषु प्राकारेषु चतुर्विधाः षो(खो)डका मापिताः सुवर्णमया रूप्यमया वैडूर्यमया स्फटिकमयाः/ 136.018. ऊर्ध्वी एका निबद्धा संक्रमणका/ 136.018. सुदर्शननगरे ऽभ्यन्तरे भूमिभागो ऽभिरूपो दर्शनीयः प्रासादिकश्चित्रः सुचित्र एकैकचित्रधातुशतेन मृदुः सुमृदुस् तद्यथा तुलपिचुर्वा/ 136.020. कर्पासपिचुर्वा/ 136.020. प्रक्षिप्ते पादे अवनमत्युत्क्षिप्ते पादे उन्नमति दिव्यैर्मन्दारवैः पुष्पैर्जानुमात्रेण ओघेन संस्तीर्णः/ 136.021. वायुसम्योगाश्च पौराणान्यवकीर्यन्ते, नवानि पुष्पाणि समाकीर्यन्ते/ 136.022. सुदर्शने नगरे एकोनद्वारसहस्रम्/ 136.022. द्वारे द्वारे पञ्चशतानि नीलवाससाम् यक्षाणां स्थापितानि संनद्धानि सन्ति चित्रकलापानि यावदेव देवानां त्रायस्त्रिंशानामारक्षणार्थमत्यर्थं शोभनार्थम्/ 136.024. सुदर्शनस्य नगरस्य वीथ्यह् अर्धतृतीयानि योजनसहस्राण्यायामेन विस्तरेण द्वादश योजनान्यभिरूपा दर्शनीयाः प्रासादिकाः कनकवालुकास्तीर्णाश्चन्दनवारिपरिषिक्ता हेमजालावनद्धाः/ 136.026. सामन्तकेन विविधाः पुष्किरिण्यो मापिताः/ 136.026. ता पुष्करिण्यश्चतुर्विधैरिष्टकैश्चिताः सुवर्णमयै रूप्यमयैः स्फटिकमयैर्वैडूर्यमयैः/ 136.027. वेदिकायाः स्फटिकमया सूची आलम्बनमधिष्ठानम्/ 136.028. स्फटिकमय्या वैडूर्यमयी सूची आलम्बनमधिष्ठानम्/ 136.028. ताः पुष्किरिण्यः पूर्णाः शीतलेन वारिणा क्षौद्रकल्पेनाम्बुना उत्पलपद्मकुमुदपुण्डरीकसंछन्ना विविधैर्जलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैः कामरूपिभिर् निकूजताः/ 136.030. सामन्तके विविधाः पुष्पवृक्षाः फलवृक्षाः सुजाताः सुसंस्थिता आपीडकजाताः, तद्यथा दक्षेण

मालाकारेण वा मालाकारान्तेवासिना वा माला वा अग्रस्थितावतंसकानि वा सुरचितानि/ 136.032. विविधैः स्थलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैह् <137>कामरूपिभिरभिनिकूजिताः/

137.001. सुदर्शने नगरे चतुर्विधाः कल्पदूष्यवृक्षा नीलाः पीता लोहिता अवदाताः/ 137.002. कल्पदूष्यवृक्षैश्चतुर्विधानि तुण्डिचेलानि/ 137.002. तैस्तुण्डिचेलैश्चत्रुविधानि कल्पदूष्यानि नीलानि पीतानि लोहितान्यवदातानि/ 137.003. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति/ 137.004. चतुर्विधा आभरणवृक्षा हस्तोपगाः पादोपगा गुह्याः प्रकाशिताः/ 137.005. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद् हस्ते प्रादुर्भवन्ति/ 137.006. चतुर्विधा वाद्यभाण्डवृक्षा वेणुवल्लरिसुघोषकाः/ 137.006. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद् हस्ते प्रादुर्भवन्ति/ 137.007. चतुर्विधापि च सुधा, नीला पीता लोहिता अवदाता/ 137.008. यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद् धस्ते प्रादुर्भवन्ति/ 137.008. मधु माधवः कादम्बरी पारिपानम्/ 137.009. गृहाः कूटागारा हर्म्याः प्रासादा स्वासनका अवलोकनका संक्रमणकाः/ 137.010. नारीगणविराजितमप्सरःसहस्रसंघनिषेवितं तूर्यनादाभिनादितमुपेतमन्नपानम्/ 137.010. यत्र त्रायस्त्रिंशाः क्रीडन्ति रमन्ते परिचारयन्ति, स्वकं पुण्यफलं प्रत्यनुभवन्ति/ 137.011. देवानां त्रायस्त्रिंशानां सुधर्मा देवसभा त्रीणि योजनशतान्यायामेन त्रीणि योजनशतानि विस्तरेण समन्तपरिक्षेपेण नवयोजनशतानि अभिरूपा दर्शनीया प्रासादिका स्फटिकमयी, अर्धपञ्चमानि योजनानि तस्मान्नगरीतो ऽभ्युद्गता/ 137.014. तत्र देवानां त्रायस्त्रिंशानामासनानि प्रज्ञप्तानि, यत्र पृथक् द्वात्रिंशतीनामुपेन्द्राणामासनानि, त्रयस्त्रिंशतिमं शक्रस्य देवानामिन्द्रस्य/ 137.015. तेषामेव देवानां सर्वान्ते मूर्धातस्य

राज्ञ आसनं प्रज्ञप्तम्/ 137.016. पश्चादेवास्त्रायस्त्रिंशा मूर्धातस्य राज्ञो ऽर्घं गृह्य प्रत्युद्गताः/ 137.017. तत्र ये पुण्यमहेशाख्याः सत्त्वा अनुपूर्वेण प्रविष्टाह् अवशिष्टा बहिः स्थिताः/ 137.017. यतः स राजा मूर्धातः संलक्षयति--यान्येतान्यासनानि प्रज्ञप्तकानि, एतेभ्यो यदन्तिममासनम्, एतन्मम भविष्यति/ 137.019. अथ राज्ञो मूर्धातस्यैतदभवत्--अहो बत मे शक्रो देवानामिन्द्रो ऽर्धासनेनोपनिमन्त्रयते/ 137.020. सहचित्तोत्पदादेव शक्रो देवानामिन्द्रो राज्ञो मान्धातुरर्धासनमदात्/ 137.021. प्रविष्टो राजा मूर्धातः शक्रस्य देवानामिन्द्रस्यार्धासने/ 137.021. न खलु राज्ञो मूर्धातस्य शक्रस्य देवानामिन्द्रस्यैकासने निषण्णयोः कश्चिद्विशेषो वा, अभिप्रायो वा नानाकरणं वा, यदुत आरोहपरिणाहौ वर्णपुष्कलता स्वरगुप्त्या स्वरगुप्तेः, नान्यत्र शक्रस्य देवानामिन्द्रस्यानिमिषतेन/ 137.024. राज्ञो मूर्धातस्य देवेषु त्रायस्त्रिंशेषु तिष्ठतः षट्त्रिंशाश्चक्राश्च्युताः/ 137.024. तत्र च तेषां देवानां देवासुरसंग्रामं भवति/ 137.025. तत्र यद्यसुराः पराजयन्ते, पश्चादसुरपुर्यां द्वाराणि बध्नन्ति/ 137.025. देवानामपि पञ्च रक्षाः पराजयन्ते/ 137.026. ते ऽपि देवपुर्यां द्वाराणि बध्नन्ति/ 137.026. तेषामेवं देवासुराणां परस्परतः संभ्रम उत्पन्नः/ 137.027. यतो राज्ञा मूर्धातेन त्रायस्त्रिंशानामुक्तम्--किमेतद्भवन्तो ऽतीव संभ्रमजाता देवाह्? त्रायस्त्रिंशैरुक्तम्--एतैरसुरैरस्माकं पञ्च रक्षा भग्नाः, यतो ऽस्माभिर्द्वाराणि बद्धानि/ 137.029. यतो मूर्धातेन राज्ञा उक्तम्--आत्मपुरुषाः, आनयन्तु भवन्तो धनुः/ 137.029. यतस्तस्य धनुरानीतम्/ 137.030. तेन

पश्चाद्द्धनुर्गृह्य गुणशब्दः कृतः/ 137.030. तस्य च धनुषो गुणशब्दः कृतः/ 137.031. असुरैः श्रुतः/ 137.031. तं श्रुत्वा असुरा कथयन्ति--कस्यैष गुणशब्दह्? तैः श्रुतम्--राज्ञो मूर्धातस्यैष गुणशब्दः/ 137.032. ते तं शब्दं श्रुत्वा विस्मयमापन्नाः/ 137.032. पश्चाद्राजा मूर्धातो निर्गतस्तस्मादेवनगरात् <138>तेषां देवानामसुरैर्भग्नकानां स्वं च कायं संनह्य/

138.001. धर्मता च पुनरेषां देवासुराणाम् युध्यतां रथा वैहायसेन तिष्ठन्ति/ 138.002. तेषामन्योन्यं न कस्यचिदधिको वा हीनो वा/ 138.002. राज्ञो मूर्धातस्य सर्वेषामप्यसुराणां वैहायसमभ्युद्गम्योपरिस्थितः/ 138.003. पश्चात् ते ऽसुराः कथयन्ति--क एषो ऽस्माकमुपरिविहायसमभ्युद्गतह्? यतस्तैः श्रुतम्--मनुष्यराजा एष मूर्धातो नाम/ 138.004. पश्चात् ते संलक्षयन्ति--पुण्यविपाकमहेशाख्यो ऽयं सत्त्वो यस्यास्माकमुपरिवैहायसं रथो गच्छति/ 138.005. जिता भग्नाः पराजिताः परापृष्ठीकृता आसुरीं पुरीं प्रविष्टाः/ 138.006. पश्चाद्राजा मूर्धातः कथयति--कस्य जयह्? यतो ऽमात्याः कथयन्ति देवस्य जयः/ 138.007. स राजा संलक्षयति--अहमेव देवानां त्रायस्त्रिंशानां सकाशादभ्यधिकः/ 138.008. तस्य राज्ञो मूर्धातस्यैतदभवति--एतदस्ति मे जम्बुद्वीपः, अस्ति मे सप्त रत्नानि, अस्ति मे सहस्रं पुत्राणाम्, वृष्टं मे ऽन्तःपुरे सप्ताहं हिरण्यवर्षम्, समनुशिष्टं मे पूर्वहिदेहम्, समनुशिष्टं मे ऽपरगोदानीयं द्वीपम्, समनुशिष्टं मे उत्तरकुरुषु स्वकं भटबलाग्रम्, अधिष्ठितं मे ऽस्ति देवांस्त्रायस्त्रिंशान्, प्रविष्टो ऽस्मि सुधर्मां देवसभाम्, दत्तं मे शक्रेण देवेन्द्रेणार्धसनम्/ 138.012. अहो बताहं शक्रं देवानामिन्द्रमस्मात् स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्/ 138.013. सहचित्तोत्पादाद्राजा मूर्धातस्तस्मात् ऋद्धितः परिभ्रष्टो जम्बुद्वीपेषु प्रत्यष्ठात्/ 138.014. स्वरमाबाधं स्पृष्टवान्/ 138.014. प्रगाढां देवानां मरणान्तिकीम्/ 138.014. अथ राज्ञो मूर्धातस्यामात्यगणमहामात्या राज्यकर्तारो मन्त्रसहजीविनो येन राजा

मूर्धातस्तेनोपसंक्रान्ताः/ 138.016. उपसंक्रम्य राजानं मूर्धातमिदमवोचन्--भविष्यन्ति खलु देवस्यात्ययात् पश्चिमा जनपदाह्? परिपृष्टवन्तह्--राज्ञा मूर्धातेन मरणसमये किं व्याकृतम्? सचेद् वो ग्राम्ण्यो ममात्ययात् कश्चिदुपसंक्रम्यैवं पृच्छेत्--किं भवन्तो राज्ञा मूर्धातेन मरणसमये व्याकृतम्, तेषामिदं स्याद्वचनीयाम्--राजा भवन्तो मूर्धातो रत्नैः समन्वागतो ऽभूत्/ 138.019. चतसृभिश्च मानुषिकाभी ऋद्धिभिश्चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारयित्वा देवांस्त्रायस्त्रिंशानधिरूढः/ 138.021. अतृप्त एव पञ्चानां कामगुणानां कालगतः/ 138.022. न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते/ 138.023. अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पिण्डतः//4//

138.024. अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति/ 138.025. तृष्णाक्षये रतो भवति सम्यक्सम्बुद्धश्रावकः//5//

138.026. पर्वतो ऽपि सुवर्णस्य समो हिमवता भवेत्/ 138.027. नालमेकस्य तद्वित्तमिति विद्वान् समाचरेत्//6//

138.028. यः प्रेक्षति दुःखमितोनिदानं कामेषु जातु स कथं रमते/ 138.030. लोके हि शल्यमुपाधिं विदित्वा तस्यैव धीरो विनयाय शिक्षेत्//7//

139.001. <139>यदा च पुनस्तेन जनकायेन श्रुतं राजा मूर्धातो ग्लानो मरणावस्थित इति, ततस्ते ऽमात्या जनपदाश्चानेकानि प्राणिशतसहस्राणि राजानं मूर्धातमुपसंक्रम्य दर्शनाय/ 139.002. यतस्तेन राज्ञा तस्य जनस्य तावदेवंविधा धर्मदेशना कृता--कामेष्वादीनवकथा गृहाश्रमपदस्यादीनवो भाषितः, तथा कामो जुगुप्सितो यथा अनेकानि प्राणिशतसहस्राणि ऋषीणामन्तिके प्रव्रज्य गृहाश्रमपदान्यपहाय वनं संश्रिताः, ऋषिभिः प्रव्रजित्वा चत्वारि ब्रह्मविहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः/ 139.006. यावच्च जम्बुद्वीपे यावच्च पूर्वविदेहे द्वीपे यावच्चापरगोदानीये द्वीपे यावच्चोत्तरकुरुषु यावच्च सप्तसु काञ्चनमयेषु पर्वतेषु यावच्च देवांस्त्रायस्त्रिंशानधिरूडः, अत्रान्तरे चतुर्दशोत्तरं शक्रशतं च्युतम्/ 139.009. शक्रस्य भिक्षवो देवानामिन्द्रस्यायुषः प्रामाणम् यन्मनुष्याणां वर्षमेकं देवानां त्रायस्त्रिंशानामेकरात्रिंदिवसम्/ 139.011टेन रात्रिंदिवसेन त्रिंशद्रात्रकेन मासेन द्वादशमासेन संवत्सरेण दिव्यं वर्षसहस्रं देवानां त्रायस्त्रिंशानामायुषः प्रमाणम्/ 139.012. तद्भवति मानुषिकया गणनया तिस्रो वर्षलक्षाः षष्टिश्च वर्षसहस्राणि//

139.014. यस्मिन्नानन्द समये राजा मूर्धातो देवांस्त्रायस्त्रिंशानधिरूढः, एवंविधं चित्तमुत्पादितम्--अहो बत मे शक्रो देवानामिन्द्रो ऽर्धासनेनोपनिमन्त्रयते, काश्यपो भिक्षुस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव/ 139.016. यस्मिन् खल्वानन्द समये राज्ञो मूर्धातस्यैवंविधं चित्तमुत्पन्नम्--यन्न्वहं शक्रं देवानामिन्द्रमस्मात् स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्, काश्यपः सम्यक्सम्बुद्धस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव/ 139.019. महेशाख्ये सत्त्वे चित्तं प्रदूषितम्, तस्मादृद्धेः परिभ्रष्टो जम्बुद्वीपे प्रत्यष्ठात्, खरमाबाधं स्पृष्टवान्, प्रागाढां वेदनां मरणान्तिकीम्/ 139.020. यो ऽसौ राजा मूर्धातः, अहमेवानन्द तेन कालेन तेन समयेन/ 139.021. तत्र तावन्मया आनन्द सरागेण सद्वेषेण समोहेन अपरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण मरणकालसमये तावदेवंविधा परिकथा कृता यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय ऋषिभ्यः प्रव्रजित्वा कामेषु कामच्छन्दं व्यपहाय तद्बहुलविहारिणो ब्रह्मलोकमुपपादिताः/ 139.024. इदानीं सर्वज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन निर्वाणाय संप्रस्थितेन तावदेवंविधा धर्मदेशना कृता, यदनेकानि देवता शतसहस्राणि सत्येषु प्रतिष्ठापितानि/ 139.026. अनेकानि ऋषिशतसहस्राणि एतभिक्षव इति प्रव्रजितानि/ 139.027. तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं प्राप्तम्/ 139.027. अनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः शरणगमनशिक्षापदेषु व्यवस्थापिताः/ 139.028. अनेकानि वैशालिकानि प्राणिशतसहस्राणि येषां केचित्स्रोतापत्तिफले व्यवस्थापिताः, केचित् सकृदागामिफले, केचिदनागामिफले, कैश्चित् प्रव्रजित्वा^र्हत्त्वं प्राप्तम्, कैश्चित् श्रावकबोधौ, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादितानि, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि//

140.001. <140>भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कानि भदन्त कर्माणि कृतानि राज्ञा मूर्धातेन येषां कर्मणां विपाकेन सहचित्तोत्पादादेव सप्ताहमन्तःपुरे हिरण्यवर्षं वृष्टम्? भगवानाह-- 140.004. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि सर्वाभिभूर् नाम तथागतो ऽर्हंल् लोके उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्/ 140.006. तेन खलु समयेन अन्यतरः श्रेष्ठिदारको ऽचिरप्रतिष्ठितः/ 140.006. तत्र विषये धर्मता--या अचिरोढा दारिका भर्तरि प्रवहणकेन प्रतिप्रदीयते, सा चतूरत्नमयैः पुष्पैरवकीर्य बद्धका स्वामिने प्रदीयते/ 140.008. सा च भर्तारमादाय स्वगृहं गच्छति/ 140.008. स च श्रेष्ठिदारकश्चतूरत्नमयानि पुष्पाणि प्रतिगृह्य यानमधिरुह्य श्वशुरगृहमनुप्रस्थितः/ 140.009. तस्य गच्छतो ऽभिमुखं सर्वाभिभूः सम्यक्सम्बुद्धो जनपदेषु चर्यां चरन्ननुपूर्वेणाभ्यागतः/ 140.010. तं दृष्ट्वा द्वात्रिंशल्लक्षणालंकृतमसेचनकदर्शनमतीव प्रसाद उत्पन्नः/ 140.011. यतो ऽसौ प्रसादीकृतचेता यानादवतीर्य तं भगवन्तं तैश्चतूरत्नमयैः पुष्पैरवकिरिति/ 140.012. तानि सर्वाभिभुवा सम्यक्सम्बुद्धेनाधिष्ठितानि तथा यथा शकटचक्रमात्राण्यभिनिर्वृत्तानि/ 140.013. तानि वितानं बद्ध्वा गच्छतो ऽनुगच्छन्ति, तिष्ठतस्तिष्ठन्ति/ 140.013. स प्रसादजातो गाथां भाषते-- 140.015. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः/ 140.017. तीर्णश्च तारयेयं महाजनौघान् अतारिता ये पूर्वकैर्जिनेन्द्रैः//8//

140.019. सर्वाभिभूर्मे भगवान् महर्षिरवकीर्णः पुष्पैः सुमनोरमैश्च/ 140.021. प्रणिधिश्च मे तत्र कृता उदारा आकाङ्क्षता वा इदमग्रबोधिम्//9//

140.023. तस्यैव कर्मणो विपाकतो मे प्राप्त हि मे बोधिः शिवा अनुत्तरा/ 140.025. वृष्टं च सप्ताहहिरण्यवर्षं मूर्धातस्य राज्ञो महाबलस्य//10//

140.027. तस्यैव कर्मणो विपाकतो मे नगरमपि सौवर्णकाञ्चनं बभूव महासुदर्शनस्य रमणीया कुशावती नाम पुरी बभूव//

140.029. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशं भदन्त राज्ञा मूर्धातेन कर्म कृतम् यस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्, देवांस्त्रायस्त्रिंशानधिरूढह्? भगवानाह--

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.