Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

द्वाविंशत्यवदानकथा

Thông tin
GRETIL — Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भगवञ् श्रोतुम् इच्छामि बुद्धानां धर्मम् उत्तमम् / अवितथवादी बुद्धो हि सत्यवादी तथागतः // dak_16.4 //

न रागलिप्तो न च द्वेषलिप्तो न मोहलिप्तो यथ शुद्धनिष्कः / सर्वेषु तीर्थेष्व् अथ गाङ्गवारि पवित्रभूतः कलुषैर् विहीनः // dak_16.5 //

धर्मावकाशं ^ _ ददस्व मह्यं वयं हि मूढापरिमुक्तज्ञानाः / संबोधिज्ञानं जिन देहि मे मुने तेनैव सत्त्वान् परिमोचयेयम् // dak_16.6 //

भगवान् आह /

साधु साधु द्विजश्रेष्ठ साधु साधु सुभाषितः / नयानयज्ञ धर्मज्ञ शीलं धरतु तावतम् // dak_16.7 //

दिव्यं प्रयाति शीलेन सुष्ठु लाभं प्रवर्तते / यशोमित्र ससंपत्ति शीलं धर द्विजोत्तम // dak_16.8 //

शीलं किं तु //

अद्रोहः सर्वजन्तूनां कर्मणा मनसा गिरा / अनुग्रहश् च ज्ञानं च, शीलम् एतत् द्विजोत्तम // dak_16.9 //

न च द्वेषसमं पापंन च क्षान्तिसमं तपः / तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः // dak_16.10 //

क्षमया स्वर्गसंवासः स्वर्गगामी स नित्यशः / महालक्ष्मीं समासाद्य स भवेद् मोक्षगामिकः // dak_16.11 //

हृदा संभावनाध्यानं परमात्मानं द्विजोत्तम / ये ध्यायन्ति प्रयत्नेन ते यान्ति परमां गतिम् // dak_16.12 //

मोहान्धकारं संहार्य बुद्धिसूर्यप्रकाशकः / बुद्धत्वपदम् आप्नोति सततं मोक्षगो भवेत् // dak_16.13 //

प्रज्ञया पुण्यम् आप्नोति प्रज्ञया धर्मसंयुतः / अनन्तज्ञानं संप्राप्य बुद्धज्ञानं प्रवर्तते // dak_16.14 //

परोपकारं कुर्वन्ति ये नराः शुद्धमानसाः / सुखदुःखं परे ज्ञात्वा सुखम् आप्नोति सर्वदा // dak_16.15 //

स्वदुःखं परदुःखं वा स्वकं तुल्यं च कारयेत् / स्वदुःखलघुतां प्राप्य परदुःखं गरीयसम् // चकम्पे परदुःखेन महीकम्पाद्रिराड् इव // dak_16.16 // धमकार्यं सुकार्यं वा सुचित्तैर् उपदेशयेत् / कापथेषु गते काले यस्य चित्तं निवर्तयेत् // dak_16.17 //

के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः / स्वदुःखसुखयोस् तुल्यं रक्षयेद् दुःखच्छेदनात् // dak_16.18 //

परोपकारकं ज्ञेयं तत्परः पुण्यभाग् भवेत् / तेन परोपकारेण धर्मेण सुखम् आप्यते / सुखेन धर्मं साध्यन्ते धर्मेण मोक्षं साध्यते // dak_16.19 //

यद् यत् कार्यं समुत्पन्ने तत् तत् कार्यं समारभेत् / परोपकारकं ज्ञेयं बोधिज्ञानपरायणाः // dak_16.20 //

एतच् छ्रुत्वा ब्राह्मणो भगवन्तम् एवम् आह //

के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः / स्वदुःखं स्वसुखं तुल्यं केन संचरते भुवि // dak_16.21 //

(दक्: 164) भगवान् आह //

भूतपूर्वं ब्राह्मण कस्मिंश् चिच् छालवती नाम जनपदः परमविस्तारी मनोहरा सर्वलोकाभिपूर्णा ऋद्धा स्फीता सुभिक्षा च दर्शनीया व्यपगतडमरा तस्कररोगापगता / शालीक्षुगोमहिषीसस्यसंपन्नायां जनपदे सर्वंददो नाम भूपतिर् आसीत् // स च भूपतिः करुणाशयः सर्वप्रदो निःसङ्गत्यागप्रकृतिर् मेधावी साधुः सुशीइअ अशठो ऽकुटिलो व्यपगतरागद्वेषमोहो ऽनुन्नतः कोमलमधुरस्निग्धवाचा अतिथिवनीपकप्रीतिः सर्वलोकप्रियदर्शनः // तस्मात् तस्य राज्ञो यशस सर्वलोकेषु विख्यातः / वनीपकानाम् आशापरिपूरितचिन्तामणिसादृशः // स सर्वराज्यं विषयोपभोगं संसारम् असारं दृष्ट्वात्र स्थातुं मनो न रमते //

स सर्वराज्यलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्यतमविविक्तम् आश्रमपदम् अलंचकार //

आहूयमान इव पल्लविनां द्रुमाणां शाखाकरैः स्वकुसुमाभरणाभिरामाइः / शान्तं वनान्तम् उपगम्य स भूपतीन्द्रः प्राप्तो ऽमृतं नृपसुखैर् अनवाप्तपूर्वम् // 22 //

साक्षाद् ऋषिर् इव ध्यानं प्रविश्य सुखेन तिष्ठति //

अथ तस्य प्रभावातिशयं दृष्ट्वा सुरेश्वरो देवेन्द्रस् तस्य तपःप्रभावप्रहाणान् मनसि त्रासभयाकुलात् सुरलोकाद् अवतीर्णः शकुनिनिर्माणरूपं कृत्वा शरधनू धृत्वा शरेण तं प्रहारार्थं कपोतम् एकं वेगतरेणापहान्तः / तपोवनस्थनृपतेर् अङ्के पतितः // अथ स राजा करुणाशयस् तं दृष्ट्वा, स भूपतिः परमप्रीत्या स्वाङ्के दधानः // स कपोत अमित्रभयाकुलः प्राणान्तम् इव हृत्कम्पेन स्थितः // अथानन्तरं शक्रो देवेन्द्रो नैषादरूपम् अभिनिर्माय तत्समीपम् उपधावितः परमपरिश्रमम् इव महाश्वासं प्रवर्तयन् एनं पृच्छितवान् //

देहि त्व मे कपोतं महाजवेनागतो ऽहम् आहारम् / अद्यान्नं न प्राप्तं कथम् अनन्नेन जीवामि // dak_16.23 //

तपस्विन् //

राजोवाच //

कथं त्यजामि ते भद्र मयि शरणम् आगतम् / सुखदुःखं च सर्वेषां कथं न ज्ञायसे भवान् // dak_16.24 //

मयि शरणागतकपोतं कथं तुभ्यं भक्षाय ददाम्य् अहम्, अनीत्ययोग्यम् एतत् //

नैषाद उवाच // यदीमं कपोतं न त्यजसे, ममाहारामिषं दद / न चेद् अहम् एव मरिष्यामि शापं दत्त्वेति //

एवम् उक्ते स राजा नैषादम् उवाच // शरणम् अभिगतं गुप्त्यर्थं तवाभिप्रायं यथा भवति तथा पूरयामि //

नैषाद उवाच // साधु भूपेन्द्र, एवम् एव स एष कपोतं तुलया तुलयित्वा यत्य् अस्ति कपोतस्यामिषम्, अन्यस्यामिषं मे देहीति //

राजोवाच //

कथं हिंस्य परात्मानं दास्याम्य् अस्मै कथं नु भो / स्वात्मानं च परात्मानं सुखदुःखं च तुल्यकम् // dak_16.25 //

विहिंस्य परजीवं च किं धर्मं च तपोव्रतम् / परोपकारः कथं स्याच् च विहिंस्य पर आत्मनि // dak_16.26 //

अत एवम् अहं दास्ये स्वदेहस्यामिषं ध्रुवम् / एकलोपैकपोष्येण, उपकारः कथं भवेत् // dak_16.27 //

अथ नैषादस् तस्य शुद्धाशयदृढम् अभिसमीक्ष्य तुलानिर्माणम् आदाय पुरतो निषद्य, एनम् उवाच //

क्षुत्क्षामतृषार्तो ऽहं बहुविलंबितेन किं विभो / तस्मात् तूर्णम् इमं देहि न ददासि व्रजाम्य् अहम् // dak_16.28 //

इति निशम्य ततो भूपः कपोतं एके स्थाप्य स्वदेहमांसं विकर्त्य तुलायां प्रक्षिपति // ततो नैषादरूपः शक्र ऋद्ध्या कपोतं गुरुतरं कृत अभूत् //

ततः क्षेपक्षेपेण पूरितकपोतो गुरुतरः स्यात् / तथाप्य् अस्य नृपतेः प्रियपक्षीरक्षणसत्याधिष्ठानेनास्खलितचित्तप्रेमय् अस्थ्यवशेषं कृत्वा तुलायाम् अवधारितः // ततो नैषादरूपः शक्रस् तं दृष्ट्वा, आवर्जितमनाः स कथयति // साधु साधु महात्मन् साधुस्वभाव एष परस्य कारणात् स्वजीवम् अपि अगणयित्वा परार्थकृतस् त्वं, किम् अभिलाषितेनेदृशं दुष्करं कृतम् //

सो ऽवोचत् //

नैवास्ति काङ्क्षा मे किं चिद् अनुत्तरसंबोधिं प्राप्य सत्त्वान् उद्धारयामि //

इति श्रुत्वा स नैषादः स्वयं वपुः संपश्य तम् उवाच //

राजंस् तव चित्तमीमांसार्थम् अहं विचरामि / भद्र यथा तवाभिप्रायं तथास्तु, यथा पौराणं तथा शरीरम् अस्तु // इत्य् उक्त्वा शक्रवेषेण आशिषं दत्त्वा एवम् अस्तु स्वभवनं प्रक्रान्तः //

तेन समयेन राजा बभूवाहं स नान्यो द्रष्टय्यः / प्राणिपक्षिषु सत्त्वेषु समचित्तेन चरितः / इदानीं संसारे महत् सुखं भुक्त्वा तथागतभूतेन सत्त्वेषु धर्मो देशितः //

अथ पुष्करशालिप्रमुखास् ते ब्राह्मणशिस्यका द्वात्रिंशत् तथागतवचनम् आकर्ण्य प्रीतिसौमनस्यजाता भगवन्तम् ऊचुः // भगवंस् तव शासने प्रवर्जिष्यामः प्रसन्नं कुरु //

अथ भगवांस् तेषाम् आशयधातुं प्रकृतिं च ज्ञत्व तेषाम् एवम् आह //

सचेद् आकाङ्क्षसि निषीदेति // तेषां च / एहि भिक्षव इत्य् उक्ते यत् किं चित् तीर्थिकलिङ्गं सर्वम् एव तत्क्षणम् एवान्तरधात् // त्रिचीवरं पात्रं च प्रादुरभूत् // अथोच्छिन्नो केशस् तद् यथापि नामासंख्येयवर्षशतोपसंपन्नस्य भिक्षोर् ईर्यपथः सुसंवृतो ऽभूत्, सैव तेषां प्रवर्ज्याभूत् सोपसंपत् सभिक्षुभावेण //

एकस्य तथागतेषु मात्सर्यचित्तस्य भिक्षोश् चीवरं न प्रादुर्भूतं पात्रं च //

अथ खलु भिक्षवस् तस्यां वेलायां तथागतस्य चरणयोर् निपत्य विज्ञापयन्ति स्म // तथागतस्यान्तिके शास्त्ट्संज्ञाप्रेम च प्रसादगौरवं चोत्पादयति स्म //

अथ स एकश् चीवरनप्रादुर्भूतेन पुनर् अपि तया व्रीडया तथागतस्य चरणयोर् प्रणिपत्य विज्ञापयाम् आस // कथम् एतद् भगवन् ममैकस्य चीवरं नोत्पादितम् //

(दक्: 169) भगवान् आह //

भूतपूर्वं तथागतेषु प्रणामकाले मात्सर्यदोषाद् इति // एवम् उक्ते निश्वस्य क्षमार्थनां कृत्वा तथागतं प्रणामितः // तदा भगवतो ऽनुभावेन चीवरं प्रादुर्भूतम् // तत्क्षणम् एव मलिनीभूतम् // तं दृष्ट्वा व्रीडावर्जितमना भिक्षुर् भगवन्तम् एवम् आह // भगवन् केन कर्मणा ममैकस्य चीवरं न प्रादुर्भूतं, प्रादुर्भूते पुनर् मलिनीभूतम् / को हेतुः कः प्रत्ययः //

भगवान् आह //

भूतपूर्वं भिक्षव अतीते ऽध्वन्य् असंख्येयकल्पे दीपंकरेण पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धः स संघेन सह जनपदचारिकां चरन्न् अन्यतममहाजनपदं प्राप्तः // तत्र महाजनपदे वीथिमध्ये स्थित्वा धर्मं देशितवान् // तदा सर्वनागरास् तत्रोपसंक्रान्ता धर्मकथां श्रुतवन्तः // अथ सोमकौमुदिर् नाम ब्राह्मणो महाविद्वाञ् शिष्यगनैः सार्धं तां वार्त्तां श्रुत्वा येन पद्मोत्तरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवन्तं प्रणम्य पुरतः स्थित्वा धर्मं शृण्वन्ति // तदा प्रसादजाताः सर्वे ते तथागतशासने प्रव्रज्याग्रहणं चकारयाम् आसुः // ते तथागतस्यान्तिके शास्तृसंज्ञाप्रेमगौरवजातेन भगवतश् चरणयोर् निपतयन्ति स्म /

तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्यस् त्वम् असि / त्वयैकेन तथागतप्रणामकाले मात्सर्यचित्तेन इति भावितः / श्रमणवन्दनम् अकृते किं भविष्यति इति //

तेन मात्सर्यकृतेन, अनेकवर्षशतसहस्रलोकैर् निन्दनीयजन्म भूत्वा, महान् आशीविष उपपन्नः / अद्यापि तवाशीविषकङ्कालम् अस्तीति कालञ्जरपर्वतस्य कन्दरायां महोच्छ्रयप्रमाणं पर्वत इव तिष्ठति // ततः शतवर्षात्ययाद् दरिद्रकुले जातस् तत्पश्चात् तीर्थिको जटाधारी भिक्षुको ऽभूत् // तदा पाटलिपुत्रनगरे केन चिद् गृहस्तेन तीर्थिकान् भोजनार्थं रसरसाग्रोपेतैर् आहारं सज्जीकृत्य तीर्थिकान् आहूय स्वाभिप्रायं तीर्थिकान् भोजितः / त्वया द्वादश प्रस्थानि क्षीरोदनं भुक्तम् / तथापि पूर्णोदरो नाभूत् // तदा सर्वे जनाः प्रेतभैक्षुकं मन्यन्ते // तदनन्तरं त्वया व्रीडया निश्वस्य चिन्तयति // धिक् जीवितम् इति मत्वा तस्मात् स्थानात् प्रक्रान्तः / तत इहैव जन्मनि च्युत्वा मानुष्यं जन्म प्राप्तवान् // तदासौ ब्राह्मणः शिष्यगणैः सार्धम् आगच्छन्तं पश्यन् ते मिलित्वा इहागताः //

तथागतप्रणाममात्सर्यकृतपापेन तादृशं दुःखं अनुभूय अद्यापि तत्पापशेषेण प्रणामो न कृतस् तेनैव हेतुना चीवरादिकं न प्रादुर्भूतं मलिनीभूतं च //

तदा स भिक्षुर् एवम् एव भगवन् ममापराधम् अत्ययं प्रतिगृह्नातु इत्य् उक्त्वा गौतमस्य पादयोः प्रणिपत्य तिष्ठति // तदा भगवतो ऽनुभावेन तस्य पापात् परिमुक्तो ऽभूत् / चीवरं च मलिनं त्यज्य यथापूर्ववद् भवति // एवं भिक्षव मा यूयं तथागतम् आयुष्मन्तं मानसा च वादेन समुदाचरिष्ठव्यम् // हे भिक्षव इदानीं ममान्तिके चित्तप्रसादजात अनेन कुशलमूलेन चार्हत्त्वं प्राप्त इति //

पुनर् अपि भिक्षून् आमन्त्र्यैवम् आह //

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्यत्वभूतेन पद्मोत्तरतथागतप्रणामकाले मात्सर्यदोसेण ईदृशं दुःखम् अनुभूतम् // सो ऽहं सोमकौमुदिब्राह्मणो यूयं मम शिष्याः // इदानीम् अपि यूयं मम शिष्या अभूवन् // मया चानेकतथागतेषूपासितेन कुशलेन संसारे ऽनन्तसुखम् अनुभूय तथागतपदं प्राप्तम् // तस्माद् भिक्षवस् तथागते अनुमोदयितव्याः सेवयितव्यास् तथागतस्य गुणानुशंसा देशितव्या, तथागतं प्रणामयितव्याः //

तथागतानां प्रणामस्य महाफलानुशंसा तच् छृणुत //

यच् चक्रवर्ती क्षितिपप्रधानैः कृताञ्जलिः कुण्डालचारुगण्डैः / भक्त्या सुमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः //

dak_16.29 //

ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् / हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम् // dak_16.30

//

प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपोहति / सुगतिनियतां लोके नृणां करोति च संततिं फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया // dak_16.31 //

चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः / संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम् // dak_16.32

//

एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् / बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत् // dak_16.33 //

कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः / कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः // dak_16.34 //

एवं शिक्षितव्यं कृष्णानि कर्माण्य् अपास्य शुक्लेष्व् एव स्वाभोगः करणीय इत्य् एवं भिक्षवः शिक्षितव्यं // इदं अवोचद् भगवान् आत्मना च भिक्षवो भाषितम् अभ्यनन्दन्न् इति //

इति द्वाविंशत्यवदानकथायां प्रणामकथा सोडसमः परिच्छेदः //

xvii. उज्ज्वालिकादानकथा

अथ खलु भगवान् लोकानुकम्पको लोकज्ञो लोकशास्ता सर्वज्ञो ध्यानसुखे विजहार // तेन समयेन वैशालीनगर्यां महोपद्रवाः प्रादुर्भूताः //

तदात्र पौरलोकाश् च सर्वे कामातिलालसाः / यथाकामं रसं भुक्त्वा प्राचरन् पापसंगतम् // dak_17.1 //

ततः क्षत्रियो ऽप्य् एवं कामभोगाभिमोहितः / प्रमदागणसंरक्तो नीतिधर्मनिरादरः // dak_17.2 //

दृष्त्वा स सुन्दरीं कान्ताम् अगम्याम् अपि मोहितः / बलेनापि समाकृष्य बुभुजे स्वेच्छया मुदा // dak_17.3 //

तथाते सर्वपौराश् च सर्वे ऽतिक्लेशिताशयाः / सद्धर्माणि प्रतिक्षिप्य प्राचरन् कामभोगिनः // dak_17.4 //

स्वकुलधर्ममर्यादं त्यक्त्वाचरन् यथेच्छया / सत्यधर्मं प्रतिक्षिप्य चेरुर् मत्तद्विपा इव // dak_17.5 //

तथा नारीगणाश् चापि कामक्लेशाकुलाशयाः / स्वकुलधर्मम् उत्सृज्य प्राचरन्ति यथेप्षितम् // dak_17.6 //

तदात्र बहवो दुष्टाश् चौरा धूर्ताः प्रगल्भिकाः / साधुजनान् प्रतिक्षिप्याचरन् धर्मनिरादराः // dak_17.7 //

तदैव पापसंचारात् सर्वत्राप्य् अचरत् कलिः / सद्धर्मो दुर्बलीभूतो नीचवद् विलयं ययौ // dak_17.8 //

तदात्र प्रबलीभूते कलिसंचार वर्तिते / दृष्ट्वा लोकाधिपाः सर्वे ऽभवन् दुष्टपराङ्मुखाः // dak_17.9 //

एवम् अन्ये ऽपि देवाश् च सर्वत्राणपराङ्मुखाः / तेषां संदर्शनं कर्तुम् अपि नैव ववाञ्छिरे // dak_17.10 //

तेषां त्रातुं तदेको ऽपि न शसक कथं चन / एवम् अत्र महोत्पातं प्रावर्तत समन्ततः // dak_17.11 //

सर्वक्लेशाहतात्मानः प्रचक्रु विग्रहं मिथः / तेषां पापविशेषेण प्रादुर्भूता उपद्रवाः // dak_17.12 //

ततो ऽन्धकाराश् च प्रादुर्भूता मेघैश् छन्नाः / महती चाकालवाताशनिर् मेघैर् गुडुगुडायते / विद्युतश् च निश्चरन्ति / दश दिशश् चाकुलीभूतास् तमोऽन्धकारश् च प्रादुर्भूतः / चन्द्रसूर्यौ न प्रभास्वरौ भवतः / वातवृष्टिः प्रवायति / जलाकुलीभूता प्रलयकालम् इव पृथिवी न दृधा च कैश् चिद् भूतैर् आविष्टाभूत् // तदा सर्वजनकाया भीताः संविग्नमनसः / ये के चिद् ब्राह्मणगृहपतयो ब्रह्माणं नमस्यन्ति / के चिन् महेश्वरं नारायणं शक्रं माणिभद्रं हारीतिं चन्द्रसूर्यग्रहनक्षत्रान् नमस्यमाना याचयन्ति // के चिन् नदीह्रदसरस्तडागवापीकूपादीनि परियाचयन्ति / तथापि न कश् चित् परित्राणं भवति //

(दक्: 176) अथ के चिद् बुद्धधर्मसंघाभिप्रसन्ना बुद्धधर्मसंघान् नमस्यन्ति //

भगवन् सर्वदर्शी त्वं / कथम् अस्माद् वयम् एवंरूपाद् उपद्रवतो भयस्थानात् परिमुच्येम /

भगवन् नाथ ईदृशाद् उपद्रवात् त्राता भव //

इत्य् उक्त्वा बौद्धाय नमस्कारं कृत्वा चिन्तापरो व्यवस्थितः // अत्रान्तरे नास्ति किं चिद् बुद्धानां भगवताम् अविदितम् अविज्ञातम् / धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तिकानाम्, एकाकाररक्षाणां, शमथविपश्यनाविहारिणां, त्रिदमथवस्तुकुशलानां, चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां, पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां, षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां, सप्तबोध्यङ्गकुसुमाढ्यानां, अष्टाङ्गमार्गदर्शानां नवानुपूर्वविहारसमापत्तिकुशलानां, दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रिरात्रेस् त्रिदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते / को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंबाधप्राप्तः कस्य दुःखपङ्कनिमग्नस्य हस्तोद्धारं दद्याम् उद्धारयेयम् इति //

अथ तत्क्षणम् एव प्रतिसरन्न् अभ्युत्थाय, आयुष्मदानन्दप्रमुखान् भिक्षुसंघान् आमन्त्रयते स्म // भो भिक्षव आनन्दप्रमुखा वैशालीनगरीं गत्वा ममाज्ञया मम वचनेन वैशालीनगरीं गत्वा वीथीमध्ये निषण्णा इमां गाथां भाषयत / तदावश्यं सर्वविघ्नभूतग्रहाः प्रतिप्रशब्धेयुः सर्वोपद्रवा दुष्टसत्त्वाः पलायिष्यन्ति / तद्यथा / इमाश् च गाथाः /

विसरत विसरत दुष्टसत्त्वा मुञ्चत मुञ्चत मा तिष्ठन्तु, ईतिर् व्युपशाम्यतु //

इति उद्दिश्य भिक्षुगणान् विसर्जयाम् आस //

अथ ते भिक्षवो भगवतश् चरणयोः प्रणिपत्य भगवतः वचनं शिरसा निधाय, इमा विघ्नोत्सारणधारणी हृदयगता // तत्क्षणम् एवर्द्ध्या च वैहायसाद् आनन्दप्रमुखाः पञ्चशतभिक्षुगणा लोहितपक्षराजहंस इव गगणदेशात् तं विषयम् अनुप्राप्ताः // अथानन्दप्रमुखा भिक्षुगणा वैशालीनगरीं गत्वा वीथीमध्ये स्थित्वा ब्रह्मस्वरेण एकमतेनैकस्वरेण इमां गाथां भाषितुम् आरब्धाः //

(दक्: 178) इमाश् च गाथाः //

विसरत विसरत / बुद्धो लोकानुकम्पक आज्ञापयति / मुञ्चत मुञ्चत म तिष्ठन्तु / ईतिर् व्युपशाम्यतु / निर्गच्छत निर्गच्छत / बुद्धः पर्विशति महादेवातिदेवगुरुः / सेन्द्राश् च देवाः सब्रह्मकाः सप्रजापतिकश् चत्वारश् च लोकपालाः प्रविशन्ति अनेकानि च देवतासहस्राणि / असुरेन्द्राश् च अनेकानि असुरशतसहस्राणि प्रतिवसन्ति / बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रभविष्यन्ति सर्वसत्त्वानाम् अर्थे / ते चो मा अनर्थं करिष्यन्ति //

निर्गच्छत निर्गच्छत / क्षिप्रं पलायत / यदि दुष्टचित्ता न परायेत, नश्यत // ये मैत्रचित्ता नापराधकामा रक्षां चानुवर्तितुकामास् ते तिष्ठन्तु प्रविशन्तु / बुद्धो लोकानुकम्पक एवम् आज्ञापयति सर्वसत्त्वहिताध्याशयो मैत्रीविहारी कारुणिकविहारी मुदिताविहरी उपेक्षाविहारी //

एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः / सर्वेषां देवतानां च भूतानां च हितैषिणाम् // dak_17.13 //

ज्ञानेनार्थोत्तमेनाद्य तथा धर्मतयापि च / जगताम् ईतयः सर्वाः शाम्यन्त्व् आरोग्यम् अस्तु वः // dak_17.14 //

इति भाष्यमाणे सर्वभूतगणाः संत्रस्ताः सम्विग्नमनसो दश दिशः पलायित्वा विलयं गता दुष्टसत्त्वा विहेथचित्ताः कुपितचित्ताः प्रतिप्रशब्धा अभूवन् // तदा च विहायसि घनविद्युवातवृष्टिजलाकुलप्रशान्ताभूत् //

फलपुष्पप्रतिमण्डितसुरसस्वादूनि चाभूवन् //

एवं बुद्धानुभावेन तस्यां नगर्यां सर्वोपद्रवदुर्भिक्षं प्रशान्त्य, सर्व ऋतवो यथाभिप्रायं काले तथा समृध्यति काले वर्षति काले वायवः प्रवायन्ति //

तदा सर्वजनकायाः प्रहर्षजाताः सर्वभिक्षुगणान् वासेन भक्तेन निमन्त्रिता अभूवन् //

अथ खलु भिक्षव आनन्दप्रभृतयो वर्षात्ययाच् छरदः शरदात्ययाच् चतुर्मासात्ययाच् छिशिरः समायातः तदा जनकायान् एवम् आह // वयम् अपि मासचतुष्टयम् अगमत् अत्रास्थिता गुरोर् अन्तिकं गच्छामः //

इत्य् उक्ते सर्वजनकाया भिक्षुगणान् गमनकालम् अपि ज्ञात्वा सत्कृत्य पूजयित्वा मानयित्वा विसर्जयाम् आसुः //

अथ ते भिक्षवो धीरतया नगरं नगराच् चंक्रम्यमाणा अन्यतमजनपदविषयम् अनुप्राप्ताः //

अथ तस्मिञ् जनपदे महाढ्यो धनकनकसमृद्धो महाभोगो विस्तीर्णपरिग्रहो महात्यागो महापरिवारः शुद्धाशयो धर्मात्मा परोपकारी श्रमणब्राह्मणवणीपकेष्व् अभिरतो दुःखीनां दुःखतारको महाकरुणादृष्टः शुद्धचेतो नाम श्रेष्ठी द्वात्रिंशताभिर् वनिताभिः परिवृतः सुखलीलया तिष्ठति // काले त्यागः काले उपाभोगः // स श्रेष्ठी तान् भिक्षून् समागतान् दृष्ट्वा शीतार्तेनागतम् इति ज्ञात्वातिकरुणाभिभूतः सादरैर् अग्निमथे नीत्वा उज्ज्वालिकां प्रज्वाल्य ददाति / तेन श्रेष्ठिना बहवो ऽग्निमठाः कारिताः सन्ति / तस्मात् पञ्चशतभिक्षुगणा अग्नितापैः संतर्पिताः // ततः पश्चाद् अन्नाहाराः प्रदत्ताः / ते भिक्षवस् तद् अन्नं न भुक्ताः / तद् दृष्ट्वा स श्रेष्ठी तान् उवाच // केन भिक्षवो मया दत्तान्नं नोपभुक्तम् //

भिक्षव ऊचुः // बुद्धो भिक्षवो यम् अकाले न भोक्तव्यं सूर्यास्तनिशाकालम् इति //

ततः स श्रेष्ठी तथेत्य् उक्त्वा गृहं प्रविशति //

अथ स रात्र्यत्ययात् प्रातःकाले यथायोग्यानुसारैः पिण्डपात्रादि दत्त्वा तान् सत्कारयाम् आस //

अथ ते भिक्षवस् तं गृहीत्वा तस्मै शुद्धाशिषं दत्त्वा गमिष्याम इत्य् आरोच्य तस्मात् स्थानान् निष्क्रान्ताः / निष्क्रम्य येन गृद्धकूते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः //

अथानन्दभिक्षुर् उत्थायासनाद् भगवतः प्रतः स्थित्वैवम् आह // भगवन् सर्वज्ञ यथा भवदाज्ञा तथा वैशालीनगर्यां सर्वा ईतयः प्रशान्ता अभूवन् //

तव प्रभावाद् इति कृत्वा वयम् अत्रागता स्म //

भगवान् आह // साधु साधु आनन्द साधु साधु भिक्षवः / एवं परार्थकृते उद्योगकरणीयम् //

पुनर् भगवन्तम् आनन्द आह //

भगवन् वैशालीनगर्यां निवृत्तकाले ऽन्यतमजनपदविषयम् अनुप्राप्ताः / तां नगरीं वयम् अगमत् / अन्यतमश्रेष्ठी आढ्यो ऽस्मान् शीतवातपरिश्रमाद् आगतान् दृष्ट्वा सादरेणाहूय, आदाव् अग्निमठे प्रणीयाग्निं प्रज्वाल्य ददाति / बहवो ऽग्निमठाः सन्ति // श्रेष्ठी परमधार्मिको ऽसौ पुरुसः / ये ये श्रमणब्राह्मणतीर्थिकाश् चागतास् तेभ्यः सर्वेभ्य उज्ज्वालिकाम् प्रज्वाल्य ददाति हेमन्तशिशिरकाले ऽसौ श्रद्धया //

भगवान् आह // महाफलानुशंसा उज्ज्वालिकायाः शिशिरागमे ऽमृतोपमा तस्मान् महाफलानुशंसा उज्ज्वलिकायाः शृणुत भिक्षवः कथयामि //

नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः / यत् क्रीडन्ति क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास् तत् स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः //

dak_17.15 //

ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् / उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके //

dak_17.16 //

गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिर् आलिङ्गिताः / स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास् तद् दत्त्वार्यगनाय शीतसमये चोज्ज्वालिकां श्रद्धया // dak_17.17 //

जित्वा रिपून् ये गजवाजियुक्ताः पृथ्वीं समन्ताद् अनुशासयन्ति / दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम् // dak_17.18 //

ते तादृशं चेत् फल प्राप्तुकामा उज्ज्वालिकां ये मनुजाः प्रदेयुः / हेमन्तशीते ऽग्निमठानि कृत्वा भिक्ष्वादये चार्यगणाय नित्यम् // dak_17.19 //

इति द्वाविंशत्यवदानकथायाम् उज्ज्वालिकादानकथा सप्तदशमः परिच्छेदः //

xviii. दीपकथा

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //

भगवञ् छ्रोतुम् इच्छामि, दीपदानस्य यत् फलम् / स्तूपे वा बुद्धबिम्बे वा वद लोकार्थहेतवे // dak_18.1 //

भगवान् क्षणं तूष्णीम् आस्थाय पर्षदं समालोक्य च मैत्रेयम् आमन्त्र्यैवम् आह //

शृणु मैत्रेय वक्ष्यामि लोकानां हितहेतवे / यच् छ्रुतं तत्कथां भव्यां श्रुत्वा प्रामोद्य जायते // dak_18.2 //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वानि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरनसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान् // स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति स्म // यावद् विपश्वी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस् तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितो ऽभूत् क्रोशम् उच्चत्वेन //

यत्रानेकानि प्राणिशतसहस्राणि कालं कृत्वा स्वर्गमोक्षपरायणानि भवन्ति //

तत्र स्तूपे महोत्साहो वर्तते / श्रद्धा ब्राह्मणगृहपतयो विचित्रैर् गन्धमाल्यविलेपनैश् छत्त्रध्वजपताकाभिः पूजाभिः कुर्वन्ति स्म //

अथापरेण समयेनास्यां नगर्याम् अन्यतमः पुरुषः करचरणयिहीनः कुष्ठशरीरः कुत्रापि गमनम् असमर्थः / ताम् एव वार्त्तां प्रतिश्रुत्य तस्यैतद् अभवत् //

अहो ब्राह्मणगृहपतय इमं स्तूपं प्रतिपूजयन्ति / तथाहम् एवं पूजयेयं पादपाणिविहीनो गमनासमर्थः कथं गच्छेयम् // इत्य् उक्त्वा तस्य बुद्धिर् उत्पन्ना // अद्य रात्रौ स्वकायविभवबलस्थाम संजनय्य गृहान् निष्क्रमयेयं निष्क्रम्य च यदि समर्थम् अस्ति तावत् प्रदक्षिणीक्रीयते //

इत्य् उक्त्वा रात्रौ चन्द्रचन्द्रिकाविराजमाने प्रभास्वरे कायस्थामबलं संजनय्य स्तूपस्य समीपं बलाधानेनानुप्राप्तः // स स्त्यानमिद्धव्यथया परिपीडितगात्रो निश्वस्य भूमौ निपातितः // अथ स पुरुष इमं स्तूपं नमस्कृत्य स्वयम् एवम् अङ्गपरिवर्तनेन प्रदक्षिणीकर्तुम् आरब्धः / ततस् ताम् एव रात्रिं सम्पूर्णम् अष्टोत्तरशतप्रदक्षिणं चकार // अथास्य पुरुषस्य बौद्धप्रभावात् तत्क्षणं पादाङ्गुली सम्यक् भूत्वागताः / तथा करपल्लवः स्वजो ऽभूत् / शरीरे कुष्ठा प्रश्रब्धा / पूर्वकर्मावरणं प्रणश्य अनेन दुष्करव्रतकुशलमूलेन शुद्धशरीरो ऽभूत् //

अथ स पुरुषः प्रसादजातः पुनर् अपि स्तूपे ऽष्टाङ्गप्रणामं कृत्वाथ प्रभाते मनोह्लादितः प्रहसितवदनः स्वगृहं प्रत्यागतः // अथ स्वगृहे पत्न्यादिपरिजनस् तम् आगतं दृष्ट्वावर्जितमना ऊचुः // अहो क्व गतो ऽसि / कथं ते शरीरो दुष्कृतैः परिमुक्तः स्वस्थदेहो ऽहो भाग्यातिशयस्य कर्म यथैव पुनर्जन्म तथैव प्राप्तः / वैद्योषधैर् असंस्पृष्टः केन कुष्ठः प्रमुच्यते //

स आह //

वैद्योषधैः किं क्रियते महारोगप्रशान्तये / बुद्धेषु कृतपुण्येन तस्मात् पापं प्रमुञ्चति // dak_18.3 //

अथ स खलु पुरुषस् तस्मिन् स्तूपे लक्षधा प्रदक्षिणं कृतः / तथा कृते स चिन्तयति स्म // यन् न्व् अहं भगवतः स्तूपं तथाविधैः पूजयाभ्यर्य किम् एव न च पूजा नूनं यथात्मभावपरित्यागेनेति // अङ्गीकृतम् इति //

तदनन्तरं मासे मासे शुक्लाष्टम्यां चतुर्दश्यां पञ्चदश्याम् उपोषधव्रतं वर्षम् एकं यथाविधिना पूजा कृता // ततः कार्त्तिकपूर्णमास्याम् आरभ्याश्विनपूर्णमासीपर्यन्तम् उपवास्य स्वात्मभावं दीपयितुम् आरब्धवान् //

तत आकाशाच् छब्दो निश्चारित इदं वाचम् उदीरयन् // एवम् आत्मभावं परित्यागं मा कुरु महादुष्करं परमदुष्करम् / त्वं च सर्वसत्त्वप्रियदर्शनबोधिसत्त्वसदृशो न भवति / तस्मात् त्वया न सुकरं कर्तुम् //

स आह // कथम् एतत् //

पुनर् आकाशाद् एवम् उवाच //

भूतपूर्वं भगवांश् चन्द्रविमलसूर्यप्रभासश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् / तस्य भगवतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पशतसहस्राणि आयुःप्रमाणम् अभूत् / तेषां बोधिसत्त्वानां महासत्त्वानां श्रावकानां तावद् एवायुःप्रमाणम् अभूत् // तस्य पूजाकर्मणे सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायां तथारूपं सर्वसत्त्वरूपदर्शनं नाम समाधिं समापद्य तस्य समाधेः प्रभावात् समनन्तरसमापन्नस्याथ तावद् एवोपर्य् अन्तरीक्षान् मन्दारवमहामन्दारवाणां पुष्पानां महान्तं पुष्पवर्षम् अभिप्रवृष्टम् // कालानुसारणचन्दनमेघः कृत उरगसारचन्दनवर्षम् अभिप्रवृष्टम् / तादृशः सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्व इमां सहालोकधातुं गन्धेन स्फारितः //

अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वः स्मृतिमान् संप्रजानंस् तस्मात् समाधेर् व्युत्थितः / व्युत्थाय चैवं चिन्तयाम् आस // न तथा ऋद्धिप्रातिहार्यं संदर्शनेन भगवतः पूजा कृता भवति यथात्मभावपरित्यागेनेति //

अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायाम् अगुरुतुरुष्ककुन्दुरुकं संभज्य चम्पकतैलं पिबति स्म // सततसमितं गन्धं भक्षयतः सुगन्धतैलं पिबतो द्वादशवर्षपर्यन्तान्य् अभूवन् / ततः स द्वादशवर्षाणाम् अत्ययात् तं स्वम् आत्मभावं दिव्यवस्त्रैः परिवेष्ट्य गन्धतैलप्लुतं कृत्वा कायं प्रज्वालयाम् आस तथागतस्य पूजकर्मणे ऽस्य च सद्धर्मपुण्डरीकपूजार्थम् // अथ खलु तस्य बोधिसत्त्वस्य ताभिः कायप्रदीपमुक्तज्वलाप्रभाभिर् अशीतिगङ्गानदीवालुकासमा लोकधातवः स्फुटा अभूवन् // तेषु लोकधातुष्व् अशीतिगङ्गानदीवालुकासमास् तथागताः साधुकारं ददन्ति स्म // साधु साधु कुलपुत्र परमदुष्कर बोधिसत्त्वानां वीर्यारम्भ भूता तथागतपूजा धर्मपूजा / तथा पुष्पधूपगन्धमाल्यविलेपनच्छत्त्रध्वजपटाकपूजा इदं कुलपुत्राग्रदानं तथा राज्यप्रियपुत्रभार्यादिपरित्यागदानं न /

इयं पुनः कुलपुत्र विशिष्टाग्रा पूजा तस्मात् परम् अन्यन् नास्तीति // ते बुद्धा इमां वाचं भाषित्वा तूष्णीम् अभूवन् //

तेन समयेन सर्वसत्त्वाप्रियदर्शनो नाम बोधिसत्त्वस्यात्मभावदीप्यमानस्य द्वादशवर्षसहस्राणाम् अत्ययेन प्रशान्तो ऽभूत् // अथ ततश् च्युत्वा तस्य सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे उपपन्न औपपादुकः सर्वलक्षणगुणोपेत उत्सङ्गे पर्यङ्केन प्रादुर्भूतो ऽभूत् //

एवंरूपेण त्वया वीर्यारम्भं कर्तुं न सुकरम् / तस्मात् त्वम् आत्मभावानुरूपेण मनसा चिन्त्य स्वम् आत्मप्रकृतिं संसाज्य दिव्यवस्त्रेण परिवेष्ट्य षण्णवत्यङ्गुलायामप्रमाणेन महादीपनाम्ना प्रज्वालय तथा चापि दीपमालां प्रज्वालय // एवंरूपेणाकाशाद् उदीरितं तेन चोक्तम् // भवन् कस् त्वम् //

स आह // अहं भगवान् स्वरूपो नान्यो द्रष्टव्यः // पुनर् अपि हर्षजातः स आह //

भगवन्न् आत्मप्रतिज्ञां कथं लघयेयम् / येनात्मभावपरित्यागेन प्रज्वाल्य ममात्मभावेन सुष्ठु कृतं न मात्रा न पित्रा नान्यदेवताभिः ल् अपि तु तवानुभावाद् अद्यैव कर्मावरणं क्षयं गतम् //

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / अद्यैवारोपितं बीजम् अद्यैव प्राप्त संपदम् // dak_18.4 //

तस्माद् भगवन् स्वजीवितम् अगणयित्वा स्वात्मभावं परिदीपयितुम् इच्छामि //

पुनर् अप्य् आकाशाच् छब्दो निश्चचार //

साधु साधु पुरुषर्सभ त्वं दृढप्रतिज्ञो मया यथादृष्टं तथा कुरु / तथा कृते त्वत्कीर्तिर् यावत् संसारस् तिष्ठति तावत् तिष्ठतु / तथा कृते मारेण यस्यापि चित्तं स्खलितुं समर्थंन स्यात् //

इत्य् उक्ते स आकाशं व्यवलोकयति स्म / स पश्यति बुद्धबिम्बम् / क्षणेनान्तर्हितो ऽभूत् // अथ स पुरुसः प्रीतिप्रामोद्यजात आकाशं व्यवलोक्य कृताञ्जलिं प्रणिपत्य स्थितः // अथ स पुरुषः सत्यम् एव निश्चित्य स्वात्मभावेन दिव्यश्वेतवस्त्रेण परिवेष्ट्य स्वाङ्गप्रमाणेन सुगन्धद्रव्येणोपलिप्य महादीपेत्य् उक्त्वा विपश्विनस् तथागतस्य धातुस्तूपे दीपं प्रज्वालयाम् आस / दीपमालां चापि प्रकुर्वन्ति / कार्त्तिकमासम् एकं निरन्तरं सत्कारयाम् आस //

ततः स पुरुषस् तेन कुशलमूलेन च प्रणिधानवशाद् दीपार्चिषलोकधातौ दीपराजो नाम प्रत्येकबुद्ध उपपन्नः पञ्चाभिज्ञाप्राप्तः // ततः स प्रत्येकबुद्धः संसारम् असारम् इति ज्ञात्वा विद्युद् इव प्रातिहार्यं कृत्वा विहायसं सप्ततालमात्रम् अभ्युद्गम्य च तेजोधातुं समापद्योल्केव परिनिर्वाति स्म // यत् तस्य पित्तश्लेष्ममांसास्थिस्नायुरुधिरं तत् सर्वं तेजसा पर्यवदातम् अगमच् छुद्धशरीरो ऽभूत् // एवंरूपेण संसारे ऽनन्तसुखम् अनुप्राप्य निर्वाणभूमिं गच्छति स्म //

दीपदानस्य महापुण्यता महानुशंसा प्रतिलभ्यते ऽनेकविपाका भिक्षवः //

पुनर् विस्तरेण शृणुत //

धराधरतिरस्कृतं परमदूरदेशस्थितं सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् / कराग्र इव स स्थितं यद् अनिरुद्धदृष्टं दिशो ददर्श सुगते महाद्युतिप्रदीपदानात् फलम् // dak_18.5 //

दूरं सूक्ष्मं व्यवस्थितं दृश्यं पश्यन्ति ये जनाः / जिनप्रदीपमालायास् तत् फलं मुनयो जगुः // dak_18.6 //

दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या / राजा यच् चक्रवर्त्ल् मणिकिरणशतैर् भासयन् गां प्रयाति तत् सर्वं दीपदानाद् भवति तनुभृतां बुद्धभट्टारकाय // dak_18.7 //

लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः / यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने दत्त्वा तद् दीपमालां प्रभवति सुफलं शस्तृचैत्ये नराणाम् // dak_18.8 //

एवं बहुगुणं मत्वा दीपदानप्रभावतः / चैकम् अपि प्रदद्याद् यस् तत् सर्वं फलम् ईहया // dak_18.9 //

सुरूपो भवति नयनाभिरामो नारीनराणां अभिवीक्षणीयो भवति // एवम् एव भिक्षवो मनुजैर् महद्भिर् नित्यम् एव पूजाकर्मकाले दीपैः सह कर्म कर्तव्यम् //

देवार्चने भोजने सम्यक् पादप्रक्षालणेन च / देवगेहे प्रवेशेषु शयनेषु तथैव च // dak_18.10 //

शीलाभरणयुक्तेन सर्वकर्म प्रशस्यते / आत्मशोचं पुनः कुर्याद् बाह्यं शोचं च लौकिकम् // dak_18.11 //

लौकिकलोकोत्तरं लोके यः करोति पवित्रमान् / इहलोके यशस्वी च परलोके परं सुखम् // dak_18.12 //

भिक्षव एवं शिक्षितव्यं लोके अनुशासनीयम् //

इति द्वाविंशत्यवदानकथायां दीपकथा अष्टादशः परिच्छेदः //

xix. विहारकथा

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् /

भगवञ् छ्रोतुम् इच्छामि विहारदानस्य यत् फलम् / कस्मै चिद् आर्यश्रेष्ठाय गृहादि सुगताय च // dak_19_1 //

भगवान् आह //

शृणु मैत्रेय विहारप्रासादिकास् तथागतसंबुद्धवासाय कारयन्ति तत्फलानुशंसां दर्शयिष्यामि //

अथ तस्मिन् समये तथागतानुभावेन राजगृहनगरजनकायाः सर्वे भगवतो दर्शनकामा अभूवन् // तत् तथा भूत्वा सर्वे मागधा जनकाया गृद्धकूटे समायन्ति / तस्मिन् पर्षदि ये च देवा नागा असुरा यक्षा गन्धर्वाः किन्नरा महोरगाः संनिपतिता अभूवन् सा च पर्षदा बुद्धवैनेय-उदारचित्ताः साञ्जलिं बुद्धं नमस्कुर्वन्ति // अद्य भगवता कीदृशं प्रातिहार्यं दर्शयिष्यतीति विचिन्त्य स्थिताः // ततो भगवत एतद् अभवत् //

इदानीं राज्ञाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः / स्वयम् एव च राज्यं प्रतिष्ठितः / तदा ये ऽश्रद्धास् ते बलवन्तो जाताः श्रद्धास् तु दुर्बलाः संवृत्ताः //

यावद् अन्यतमो वृद्धामात्यो ऽश्रद्धो भगवतः शासनविद्वेषी / स अजातशत्रुर् ब्राह्मणेभ्यो यज्ञम् आरब्धो यष्टुम् // तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपतितानि / तैः क्रियाकारः कृतः // न कैश् चिच् छ्रमणगौतमं दर्शनायोपसंक्रमितव्यम् / यदीह गच्छतीति पूजासत्कारं मा कुरुत / पिण्डपात्रं मा प्रयच्छत //

अथ ते ब्राह्मणा वृता वरेयुः समग्राः संमोदमाना वीथिमध्ये वेदोक्तेन विधिना शक्रम् आयाचितुं प्रवृत्ताः / एह्य् एहि देवेन्द्रेति //

अथानन्तरे नास्ति किं चित् बुद्धानां भगवताम् अविदितम् अदृष्टम् अविज्ञातम् / बुद्धचक्षुषा पश्यति भगवन् // इमे ब्राह्मणाः पूर्वारोपितकुशलमूला गृहीतमोक्षमार्गाश् चरितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसाराद् अकल्याणमित्रसंसर्गात् / इदानीं मच्छासने विद्वेषन्ति / यन् न्व् अहम् एषां विनयहेतोर् औत्सुक्यम् आपद्येय येनार्थं, यन् न्व् अहं शक्रं देवेन्द्रं मरुद्गणपरिवृतम् आह्वानयेयम्, यद्दर्शनाद् एषां कुशलमूलवृद्धिः स्याद् इति // बत भो शक्र देवेन्द्र मरुद्गणसहाय गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेति //

सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृत आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृता गोशीर्षचन्दनमयस्तम्भम् आदाय हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर् नादं कुर्वणाः / भगवतो ऽर्थे गोशीर्षचन्दनमयं विहारम् अभिसंस्कृतवन्तः / ततस् तस्मिन् विहारे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण शयनासनेन दिव्यगन्धमाल्यविलेपनपुष्पधूपैः सत्कृतो गुरुकृतो मानितः पूजितः // अथ एष शब्दो राजगृहे नगरे समन्ततो विसृतः // गृद्धकूटे शक्रो देवेन्द्रो मरुद्गणेन सह भगवतो विहारम् अभिसंस्कृत्य सर्वदेवगणैर् मानितः पूजित इति // यं श्रुत्वानेकानि प्राणिसहस्राणि संनिपतितानि // ततो भगवान् आवर्जिता ब्राह्मणा इति विदित्वा - - सर्वे क्रियाकारं भित्त्वा येन गृद्धकूटपर्वते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य, एकान्ते निषण्णाः // अथ ते ब्राह्मणा भगवतस् तां दिव्यां विभूतिं दृष्ट्वा परं विस्मयम् आपन्ना इमां चिन्ताम् आपेदे // नूनं बुद्धो भगवांल् लोके ऽग्र्यो यन् नु नाम सेन्द्रैर् देवैः पूज्यत इत्य् आवर्जितमना पुनर् भगवतः पुरतो निषण्णा अभूवन् //

ततो भगवन् तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान् / यां श्रुत्वा षष्ट्या च ब्राह्मणसहस्राणि विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् / अनेकैश् च प्राणिशतसहस्रैर् भगवति श्रद्धा प्रति लब्धा // ततो भिक्षवो ये च मनुष्या देवगणास् तस्मिन् विहारे ऽत्यर्थं प्रसादम् उत्पादितास् ते तं विहारं त्यक्त्वान्यत्राभिगमनमनो नोत्सहन्ते //

ततो भगवांस् तं प्रासादम् {अन्तर्धापितं} अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान् // संसार एवम् अनित्यता तस्मात् संसारः शून्यं पञ्चस्कन्धम् एव शून्यं सर्वम् अनित्यता // यां श्रुत्वानेकैर् ब्राह्मणैर् भगवन्तंम् आर्यसत्यदर्शनं कृतम् // अनेकैश् च प्राणिशतसहस्रैर् मनुष्यैः श्रोतापत्तिफलान्य् अनुप्राप्तानि / कैश् चित् सकृदागामिफलानि / कैश् चिद् अनागामिफलानि / कैश् चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं / कैश् चिच् छ्रावकबोधौ चित्तम् उत्पादितम् / कैश्चित् प्रत्येकबोधौ / कैश् चिद् अनुत्तरायां सम्यक्संबोधौ / सर्वा च सा पर्षद् बुद्धनिम्ना धर्मश्रवणा संघप्राग्भारा व्यवस्थिता //

ततस् ते भिक्षवो भगवते दिव्यपूजादर्शनाद् आवर्जितमनसो भगवन्तं पप्रच्छुः // कुत्रेमानि भगवता कुशलमूलानि कृतानीति // भगवन् आह //

तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि येन तथागतस्यैवंविधा पूजा // इच्छथ भिक्षवः श्रोतुम् // एवं भदन्तेति तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ऽहम् //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि सुरेन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / स जनपदचारिकां चरन्न् अन्यतमराजधानीम् अनुप्राप्तः // सा राजधानी तीर्थिकावष्टब्धा //

अश्रौषीद् अन्यतमो राजा क्षत्रियो मूर्ध्नाभिषिक्तः सुरेन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति // श्रुत्वा च पुनर् माहत्य राजर्द्ध्या महता राजानुभावेन समन्वागतो येन सुरेन्द्रदमनः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः सुरेन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ (दक्: 199) शिरसा वन्दित्वैकान्ते निषण्णः / एकान्ते निषण्णं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं सुरेन्द्रदमनः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति //

अथ स राजा क्षत्रियो मूर्ध्नाभिषिक्त उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथ्व्यां प्रतिष्ठाप्य येन सुरेन्द्रदमनः सम्यक्संबुद्धस् तेनाञ्जलिं प्रणम्य सुरेन्द्रदमनसम्यक्संबुद्धम् इदम् अवोचत् // अधिवासयतु मे भगवंस् त्रैमास्यवासाय / अहं भगवन्तम् उपस्थास्यामि चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति //

भगवान् आह // अस्ति ते महाराज विजिते कश्चिद् विहारो यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति // राजोवाच // नास्ति भगवन् / किं तर्हि तिष्ठतु भगवन् / अहं विहारं करिष्यामि यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्ति // ततो राज्ञा तथागतस्यार्थे विहारः कारितो ऽभूत् / आविद्धप्राकारतोरणो गवाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित आस्तरणोपेतो जलाधारसंपूर्णस् तरुगणपरिवृतो नानापुष्पफलोपेतः / तथा कृत्वा च भगवतः सश्रावकसंघस्य निर्यातितो ऽधीष्टश् च भगवान् महाप्रातिहार्यं प्रति //

ततो भगवता सुरेन्द्रदमनसम्यक्संबुद्धेन राज्ञो ऽध्येषणं विदर्शितं नानाप्रातिहार्यं कृतं बुद्धावतंसविक्रीडितम् / यद्दर्शनाद् राजा सामात्यनैगमजनपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्तपराः संवृत्ताः // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः / मयास्य सुरेन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता / तस्य मे कर्मणो विपाकेन संसारे ऽनन्तसुखम् अनुभूतम् / इदानीं मे तथागतस्य सत इयं शासनशोभा // तस्मात् तर्हि भिक्षवः शिक्षितव्यम् //

तथागतं सत्करिष्यामः //

महानुशंसा तथागतस्य विहारप्रासादगृहाणि दानस्य महाफलानुशंसा //

पुनः शृणुत //

सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयगीतिगिरा रमन्ते / शुद्धान्तपालवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात् // dak_19_2

//

प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात् संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति / प्रासादे वैजयन्ते प्रवरमणिमयस्तम्भभित्तौ प्रियाभिः सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव // dak_19_3 //

श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानम् / दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम् //

dak_19_4 //

महानुशंसा विहारदानस्य महाफलानुशंसा / इत्य् एवं भिक्षवः शिक्षितव्यम् इति //

इति द्वाविंशत्यवदानकथायं विहारकथा ऊनविंशतितमः परिच्छेदः //

xx. सुवर्णाभावदान

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् //

भगवंश् चैत्यबिम्बस्य भजनोद्भव किं फलम् / तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकाभिबोधने // dak_20.1 //

भगवान् आह // शृण्व् अजित साधु सुष्ठु मनसिकुरु भाषिष्ये ऽहं स्तूपसत्कारजं पुण्यं महत्तरम् //

तद्यथानुश्रूयते //

भूतपूर्वं मैत्रेयैकस्मिन् समये कपिलवस्तुनि महानगर्यां न्यग्रोधारामे महता संघेन सार्धं विहरति स्म / तस्मिन्न् अवसरे तत्र कपिलवस्तुन्य् अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी / तेन सदृशात् कुलात् कलत्रम् आनीतम् / स तया सार्धं क्रीडति रमति परिचारयति / तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता / सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता / दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तमानुष्यवर्णः संप्राप्तश् च दिव्यं सुवर्णं जाम्बूनदनिष्कसदृशः / सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम् / तद्दर्शनान् (दक्: 203) मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्त्वाः परं विस्मयम् आगताश् चिन्तयन्ति च कुतो ऽयम् ईदृशः सत्त्वविशेष इति // तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते / किं भवतु दारकस्य नामेति // ज्ञातय ऊचुः // यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्, तस्माद् भवतु दारकस्य सुवर्णाभ इति नाम // ततः सुवर्णाभो दारक अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः / द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां / सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् / स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः //

यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य क्रीडति / ततस् तस्यैव मार्गात् संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति / ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्तीति / तैर् उक्तं न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति / सुवर्णाभस्य (दक्: 204) बुद्ध इति श्रुत्वाश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपान्य् आहृष्टानि परमं च कुतूहलम् उत्पन्नम् / तस्यैतद् अभवत् / यन् न्व् अहम् अपि भगवन्तं दर्शनायोपसंक्रमेयम् इति / सो ऽपि न्यग्रोधारामं गच्छति / ततः स ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम् / सहदर्शनाच् चास्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय / तस्य भगवता धर्मो देशितः / स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः / यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् तेनाञ्जलिं प्रणंय भगवन्तम् इदम् अवोचत् / लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यम् उपसंपदां भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति // ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुं प्रसार्य सुवर्णाभदारकम् इदम् अवोचत् / एहि कुमार चर ब्रह्मचर्यम् इति //

एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः / सद्यः प्रशान्तेन्द्रिय एव स्थाने यथा स्थितो बुद्धमनोरथेन // dak_20.2 //

यावत् सप्ताहावरोपितकेशश्मश्रुर् द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः / तस्य भगवता मनसिकारो दत्तः / तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् / अर्हन् संवृत्तस् तेजोधातुवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखस् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः //

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / कानि भदन्त सुवर्णाभेन पुण्यानि कृतानि येनैवंविधं महोत्तमफलं प्राप्तम् इति // भगवान् आह /

सुवर्णाभेनैव कर्माणि कृतानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यंभावीनि / सुवर्णाभेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति / न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्यधातौ पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च /

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् // dak_20.3 //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मानुष्याणां च बुद्धो भगवान् / स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति / यावद् विपश्वी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिवृतः / ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन / स्तूपमहश् च प्रज्ञप्तः /

यावद् अन्यतमो गृहपतिस् तस्मिन् स्तूपमहे वर्तमाने निर्गतः / तेन तस्मात् स्तूपात् सौवर्ण आदर्शः पतितो दृष्टः / स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः / गन्धधूपपुष्पार्चनं कृत्वा पादयोर् निपत्य प्रणिधानं कृतम् / अहम् अप्य् एवंविधानां गुणनां लाभी भविष्यामि / एवंविधम् एव शास्तारम् आरागयेयम् इति //

भगवान् आह // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीद् अयं स सुवर्णाभः / यत् तेन विपश्विनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास् तेनास्यैवंविधो रूपविशेषः संवृत्तो यत् प्रणिधानं कृतं तद् इहैव जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति //

भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाक एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस् तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् //

इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति //

इति द्वाविंशत्यवदानकथायां सुवर्णाभावदान विंशतितमः परिच्छेदः //

xxi. वपुष्मानवदान

अथावोचन् मुनीन्द्रो ऽसौ सक्यसिंहो गुणाकरः / भिक्षुगणं समालोक्य वपुष्मानवदानकम् // dak_21.1 //

भिक्षव ऊचुः //

भगवन् सर्वविच् छास्त श्रुत्वास्माकं शुभां गिरम् / यद् बुद्धे कृतपुण्यानां पुनर् वक्तुं त्वम् अर्हसि // dak_21.2 //

भगवान् आह // शृणुत भिक्षवः पुनर् अप्य् एकस्मिन् समये तत्र कपिलवस्तुनि महानगरे ऽन्यतमः शाक्यः प्रतिवसति / स आढ्यो महाधनो महापरिवारो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी / तेन सदृशात् कुलात् कलत्रम् आनीतम् / स तया सार्धं क्रीडति रमते परिचारयति / तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको गौर अतिक्रान्तो मानुष्यवर्णम् असंप्राप्तश् च दिव्यवर्णं चास्यवपुः शूक्ष्मत्वङ् महेशाख्यः प्राप्तोच्छुद्धकायश् च / तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं किं भवतु दारकस्य नामेति //

ज्ञातय ऊचुः / यस्माद् अस्य दिव्यवपुस् तस्माद् भवतु दारकस्य वपुष्मान् इति नामेति //

वपुष्मान् दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम् / सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् / स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः सर्वलोकैश् च पूज्यो मान्यो ऽभिवाद्यश् च / ततो वपुष्माण् यान् यान् अपि स प्रदेशान् गत्वा क्रामति ते ते ऽस्य मेध्या भवन्त्य् एवंविधः पुण्यमहेशाख्यः // यावद् अपरेण समयेन न्यग्रोधारामं गतः // अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तप्रसादितः प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषन्णो धर्मश्रवणाय // तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतूरार्यसत्यसंप्रतिवेधिकी (दक्: 210) धर्मदेशना कृता / यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् / स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रवजितः / तेन युज्यमानेन घटमानेन सर्वसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् / अर्हन् संवृत्तस् त्रैधातुकवीतरागः समलोष्टकान्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः //

अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / कानि भदन्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्त्वं च प्राप्तम् इति //

भगवान् आह / वपुष्मता भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि / वपुष्मता कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति /

न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपत्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च /

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् // dak_21.3 //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति / यावद् विपश्यी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः / ततो राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन / तत्र च राज्ञा बन्धुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः / यावद् अन्यतमस्मिन् दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टस् तत्र तेन पुष्पाणि म्लानानि दृष्टानि रजसा वर्णश् च मलिनीकृतः / ततस् तेन बुद्धगुणान् अनुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा (दक्: 212) स्तूपः संमृष्टो निर्माल्यं चापनीतम् / ततो ऽपगतरजं स्तूपं निर्मलं दृष्ट्वा प्रसादजातः पादयोर् निपत्य प्रणिधानं कृतवान् // अनेनाहं कुशलेन चित्तोत्पादेन एवंविधानां गुणानां लाभी भविस्यामि / एवंविधम् एव शास्तारम् आरागयेयम् मा विरागयेयम् इति //

भगवान् आह // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीद् अयं स वपुष्मान् / यतस् तेन स्तूपः संमृष्टः तेनाभिरूपः संवृत्तो यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति // भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः / एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः / तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् //

// भिक्षवः पुनश् च शृणुत //

ये च निर्माल्यम् आकृष्य शोधयित्वात्र सर्वतः / समुपाश्रित्य सेवन्ते संबुद्धभक्तिमानसाः // dak_21.4 //

निर्मुक्तक्लेशशोकास् ते दर्शनीयाः शुभेन्द्रियाः / श्रीमन्तः पुण्डरीकास्या भवेयुर् बोधिचारिण इति // dak_21.5 //

तच् छ्रुत्वा भिक्षवः सर्वे तथागतेति संप्रमोदिताः / बभूवुस् ते ऽपि चात्यर्थं स्तूपभक्तिपरायणाः // dak_21.6 //

इति द्वाविंशत्यवदानकथायां वपुष्मानवदान एकविंशतितमः परिच्छेदः //

xxii. चन्दनावदान

अथ खलु भिक्षवो भगवन्तम् एतद् अवोचत् //

भगवंस् तव सद्वाणीं श्रुत्वा प्रमोदं प्राप्तवान् / तथान्यः केन किंविधौ पूजाभक्तिपरायणः // dak_22.1 //

जनो ऽस्ति वा तथा भूयो ब्रूहि मे शास्तः //

भगवान् आह // शृणुत भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं मघदेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः / तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णं चैत्यं भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः / कस्य भगवन्न् अयं स्तूप इति //

भगवान् आह // चन्दनो नाम प्रत्येकबुद्धो बभूव / तस्येति // भिक्षव ऊचुः / कुतो भगवंश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति // भगवान् आह // इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् च // एवं भदन्त // तेन हि भिक्षवः शृणुत साधु सुष्ठु च मनसिकुरुत भाषिष्ये // भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयन्ति / ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च (दक्: 215) प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति / सो ऽपुत्रः पुत्राभिनन्दी शिवरुद्रवरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते / तद्यथारामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहितदेवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते / अस्ति चैष लोकप्रवादः / यद् आयाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति / तच् च नैवं / यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् / तद्यथा राज्ञाश् चक्रवर्तिनः / अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च / स चैवम् आयाचनपरस् तिष्ठति / तस्य चोद्याने महापद्मिनी / तत्र पद्मम् अतिप्रमाणं जातम् / तद् दिवसे दिवसे वर्धते न तु फुल्लति / तत आरामिकेण राज्ञे निवेदितम् / राज्ञा उक्तः परिरक्ष्यताम् एतत् पद्मम् इति //

यावद् अपरेण समयेन सूर्योदये तत् पद्म विकसितं तस्य च पद्मस्य कर्णिकायां दारकःपर्यङ्कं बद्ध्वावस्थितः / अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्त्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोनः संगतभ्रूस् तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः (दक्: 216) समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः / तस्य मुखात् पद्मगन्धो वाति / शरीराच् च चन्दनगन्धः / तत आरामिकेण राज्ञे निवेदितम् / तच् छ्रुत्वा राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः / सहदर्शनात् तेन दारकेण राजा संभाषितः / एहि तात अहं ते ऽपुत्रस्य पुत्र इति // ततो राजा हृष्टतुष्टप्रमुदित उवाच / एवम् एव पुत्र यथा वदसीति //

ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान् // यत्र च स दारकः पादौ स्थापयति तत्र पद्मानि प्रादुर्भवन्ति //

ततस् तस्य चन्दन इति नाम कृतम् // यदानुपूर्वेण चन्दनो दारको महान् संवृत्तो यौवनीभूतस् तदा नागरै राजा विज्ञप्तः / इहास्माकं देव नगरपर्व प्रत्युपस्थितं तद् अर्हति देव चन्दनं कुमारम् उत्स्रष्टुम् अस्माभिः सह पर्वानुभविष्यति / पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति // राजाह //

एवम् अस्त्व् इति // ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयीति नगरपर्व प्रत्यनुभवितुम् / तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि (दक्: 217) प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च तान्य् एकरश्मिनिश्चरितानि / तैश् च सूर्यरश्मिभिः स्पृष्टमात्राणि ग्लायन्ति शुष्यन्ति च // अथ तस्य शुद्धसत्त्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः / यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते ऽर्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति / एवम् इदम् अपि तथा शरीरम् इति //

तस्यैवं चिन्तयतस् तुलयत उपपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्या धर्मा अभिमुखीभूताः / तेन तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता // यावच् छुद्धावासकायिकैर् देवैस् तस्मै काषायाण्य् उपनामितानि / तानि च प्रावृत्य गगणतलम् उत्पतितो विचित्राणि च ज्वलनवर्षणतपनविद्युत्तनप्रातिहार्याणि कर्तुं प्रवृत्तः / यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महाप्रसादः प्रतिलब्धः / विचित्राणि च कुशलमूलान्य् अवरोपितान्य् अभूत् //

भगवान् आह // अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति // भिक्षवो भदन्तं पप्रच्छुः // कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति //

भगवन् आह // भूतपूर्वं भिक्षवः काश्यपो नाम सम्यक्संबुद्धो बभूव विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / स बुद्धः सकलबुद्धकार्यं कृत्वा निरुपदिशेषे निर्वाणधातौ व्यवस्थितः // तत्रानेन चन्दनेन पूर्वस्मिन् काले केशनखस्तूपं कारितं, काश्यपे भगवति प्रसादजातेन प्रव्रजितः / तत्र स्तूपे गन्धावसेकः कृतः पुष्पाणि चावरोपितानि प्रत्येकबोधौ चानेन मार्गो भावितः / ततः स प्रत्येकबुद्धो बुद्धकार्यं कृत्वा शुद्धाशयत्वात् सो ऽपि निर्वाणम् अगमत् // ततस् तस्य शिष्यास् तस्यैव नाम्ना चैत्यं कारितवान् / तस्यैव चैत्य इति निवेदितः // तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् / इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति //

इति द्वाविंशत्यवदानकथायां चन्दनावदान द्वाविंशतितमः पन्च्छेदः //

(दक्: 219) संग्रहश्लोकाः

संग्रहश्लोकाः //

पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः / बिम्बस्नामं तथा गन्धं छत्त्रं धात्वावरोपणम् // 1 //

मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् / प्रणामोज्ज्वालिकादीपं विहारम् अवतंसकम् // 2 //

निर्माल्यापं चन्दनं च इत्य् एत बहुधा भ्र्शं / कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने // 3 //

xxiii. दानकथा

(1) वस्त्र

अथ खलु भिक्षवो भगवन्तम् एतद् अवोचत् //

भगवञ् छ्रोतुम् इच्छामि यत् पुरान्यकृतं तथा / तत् सर्वं गद्यतां वीर लोकानां पुण्यवृद्धये // dak_23.1 //

इत्य् उक्ते भगवान् आह शाक्यसिंहो दयाकरः / भिक्षवः श्रूयतां पुण्यं लोकानां पुण्यवृद्धये // dak_23.2 //

दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् // dak_23.3 //

विभवसमुदयं वा दीप्तिम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा / यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् // dak_23.4 //

श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्य / श्रद्धाकरेण रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः //

dak_23.5 //

विभूतिभिर् यथा भ्रष्टो ऽनैश्वर्यपदम् आप्तवान् / तथा श्रद्धेन्द्रियैर् भ्रष्टो न बोधिपदम् आप्नुयात् // dak_23.6 //

तस्मान् नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु / निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम् //

dak_23.7 //

दानं चतुर्विधं प्रोक्तं दरिद्रस्य शिशोर् अपि / सुपात्रे च सुक्षेत्रे च विशेषं दानसद्वरम् // dak_23.8 //

दीनाः कुवाससो मूढाः कपालाङ्कितपाणयः / दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम् // dak_23.9 //

दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः / दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनं दत्तं न कस्मै चन // dak_23.10 //

इति मत्वा नरास् तस्माद् दानैव प्रयतां कुरु / तेन दानात् परं बन्धुर् अन्यो नास्ति भवालये // dak_23.11 //

भूतपूर्वं भिक्षवः कस्मिंश् चित् समये महता संघेन सार्धं श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे / यदानाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितं क्रमेण कोटीशतं भगवच्छासने दत्तम् तदा तस्य बुद्धिर् अभवत् // किम् अत्राश्चर्यं (दक्: 222) यद् अहं दानानि ददामि पुण्यानि वा करोमि यन् न्व् अहं दरिद्रजनानुग्रहार्थं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम् / एवं मे महाजनानुग्रहः कृतो भविष्यति बहु चानेन पुण्यं प्रसूतं भविष्यतीति // ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः / राज्ञा सर्वस्यां श्रावस्त्यां घण्ठावघोषणा कारिता / शृण्वन्तु भदन्तः श्रावस्तीनिवासिनः पौरा अद्य सप्तमे दिवसे ऽनाथपिन्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः / यस्य वो यन्मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति // यावत् सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दभिक्षणं कर्तुं प्रवृत्तः / तत्र येषां यन्मात्रो विभवस् ते तन्मात्रं दातुं प्रवृत्ताः / के चिद् धर्षं प्रयान्ति के चित् कटकं के चित् केयुरं के चिज् जातरूपमालां के चिद् अङ्गुलिमुद्रां के चिन् मुक्ताहारं (दक्: 223) के चिद् धिरण्यं के चित् सुवर्णं के चिद् अन्तशः कार्षापणम् / गृहपतिर् पै परानुग्रहार्थं प्रतिगृह्णाति //

यावद् अन्यतमा स्त्री परमदरिद्रा / तया त्रिभिर् मासैः कृच्छ्रेःअ पटक उपार्जितः / सा तं पटकं प्रावृत्य वीथिम् अवतीर्णा ऽनाथपिण्डदश् च तया दूरत एवागच्छञ् शङ्खपटहैर् वाद्यमानैर् अवलोकितः / तयान्यतम उपासकः पृष्टः / यदि तावद् अयं गृहपतिर् आढ्यो महाधनो महाभोगो ऽन्तर्भौमानि निगूढान्य् अपि निधानानिपश्यति / कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति // सा उपासकेनोक्ता / परानुग्रहार्थं ये ऽसमर्था भगवन्तं सश्रावकसंघं भोजयितुं तेषाम् अर्थे ऽनुग्रहं करोति / कथं बहवः समेता भगवन्तं प्रतिपादयेषुर् इति // ततस् तस्या दारिकाया बुद्धिर् उत्पन्ना / अहं तावद् अकृतपुण्या न मे शक्तिर् अस्ति यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयितुम् / यन् न्व् अहम् अत्र किं चिद् अनुप्रदद्याम् इति // सा स्वकं विभवम् अवलोकयन्ती न किं चित् पश्यति ऋते पटकात् / सा चिन्तयितुं प्रवृत्ता / यद्य् अहम् इहस्थैव पटकं प्रदास्यामि नग्ना भविष्यामि / यन् न्व् अहं (दक्: 224) शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति //

ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अपनीयानाथपिण्डदस्योपरि क्षिप्ता / ततः पटकं दृष्ट्वा गृहपतिना सा संलक्षिता / नूनम् अस्या एषैव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति //

तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता / गच्छन्तु भवन्तो ऽवलोकयन्तु केनायं पटकः क्षिप्त इति // तैर् अवलोकिता यावद् उत्कुटुका निषण्णा / ततस् तैः पृष्टा तया चोक्तम् / यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्रभयभीतया तथागतप्रमुखे भिक्षुसंघे दत्त इति // ततस् तैर् अनाथपिण्डदाय निवेदितम् / ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेन सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता // ततः सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना / उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि यानि न कस्य चिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा / धर्मता खलु देवपुत्रस्य देवकन्याय वाचिरोपसंपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते / कुतश् च्युताः कुत्रोपपन्नाः केन कर्मणेति / सा पश्यति मनुष्येभ्यश् च्युता (दक्: 225) प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतः पटकप्रदानाद् इति // ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्रा मणिरत्नचित्रचूडा कुङ्कुमतमालपत्त्रस्पृक्कादिसंमृष्टगात्रा ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुन्डरीकमन्दारकाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय // अथ भगवान् पटप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञत्व तादृशीं चतुरार्यसंप्रतिबोधिकीं धर्मदेशनां कृतवान् यां श्रुत्वा पटप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् // सा दृष्टसत्या त्रिर् उदानम् उदानयति / इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिः नेष्टेन स्वजनभन्धुवर्गेण न पूर्यप्रेतैर् श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् / उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु / आह च //

तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः / अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः // dak_23.12 //

त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि //

dak_23.13 //

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय / भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम् // dak_23.14 //

इति //

अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा / परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखं दिवं जगाम // dak_23.15 //

अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता //

ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति / तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः / यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः / किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्राश् चत्वारो लोकपाला उपसंक्रान्ता इति // भगवान् आह / न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः / अपि त्व् अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटदानं कृत्वा कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना सर्वसुखभोगवस्त्रं प्राप्तवतीति / सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता तस्या मया धर्मो देशितः / दृष्टसत्या च ततः स्वभवनं गता इति // तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् / यद् बुद्धधर्मसंघेषु कारान् करिष्यामो नापकारान् इत्य् एवं वो भिक्षवः शिक्षितव्यम् //

तच् छ्रुत्वा भिक्षवः सर्वे प्राभ्यनन्दन् प्रबोधिताः //

(2) शिबि

अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वं समामन्त्र्याह / शृणु मैत्रेय पुनर् अपि दानस्य फलानुशंसां वक्ष्यामि // साधु भगवन्न् इति भगवांस् तस्यैतद् अवोचत् //

पुण्यं नराणां तमसि प्रदीपो भयेषु रक्षा व्यसनेषु बन्धुः / रुजासु भैषज्यम् अनुत्तरं च प्लवं च संसारमहासमुद्रे // dak_23.16 //

दरिद्रनाशनं दानं शीलं दुर्गतिनिवारणम् / अज्ञाननाशनं प्रज्ञा भावना भवनाशनम् // dak_23.17 //

शुद्धेन मनसा द्रव्यं स्वं ददाति यदा पुमान् / तत्क्षणं कुशलस्कन्धो दानम् इत्य् अभिधीयते // dak_23.18 //

दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् / तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः // dak_23.19 //

मैत्रेयतथागतेन पूर्वबोधिसत्त्वभूतेन दानपारमिता परिपूरिता करचरणनयनोत्तमाङ्गमांसासृक्प्रियपुत्रभार्यादुहितृराज्याङ्गसुखभोगस्वशरीरम् अपि परित्यागेन दानपारमिता परिपूरिता परार्थहेतोस् तेनैव तथागतैश्वर्यपदं प्राप्तम् //

तद्यथानुश्रूयते //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति स्म / ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकन्ठकम् एकपुत्रम् इव राज्यं पालयति // स च शिबी राजा श्रद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गत्यागी च महति त्यागचित्ते परिवर्तते // स काल्यम् एवोत्ताय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिकेभ्यः प्रयच्छति वस्त्रं वस्त्रार्थिकेभ्यो धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडादीनां परित्यागं करोति //

न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति // सो ऽन्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजनपदानाम् // अथ राज्ञः शिबेर् एतद् अभवत् / संतर्पिता अनेन मनुष्यभूताः / क्षुद्रजन्तवो ऽवषिष्टाः केन संतर्पयितव्या इति // स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे /

तस्यैतद् अभवत् / क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति / स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् (दक्: 230) तत्रोपसृष्टकायः प्रतिष्ठते प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति //

अथ शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते //

तस्यैतद् अभवत् // किम् अयं शिबिराजा सत्त्वानाम् अर्थम् एवं करोति उत करुणया यन् न्व् अहम् एनं जिज्ञासेय इति // ततो भिन्नाञ्जनमसिवर्णगृद्धवेशम् आत्मानम् अभिनिर्माय राज्ञः शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्य् उत्पाटयितुं प्रवृत्तः / न च तथापि राजा संत्रासम् आपद्यते / किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति / वत्स यन् मदीयाच् छरीरात् प्रयुज्यसे तेन प्रणयः क्रियताम् इति // तत आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेशम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा कथयति // साधु पार्थिव दीयतां मे ते नयद्वयम् इति // राजोवाच // महाब्राह्मण गृह्यतां यद् अभिरुचितम् / न मे ऽत्र विघ्नः कश् चिद् अस्तीति गृह्यताम् // ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेशम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् उत्साहयन्न् उवाच // साधु साधु पार्थिव सुनिश्चिता ते बुद्धिर् अप्रकम्प्यस् ते प्रणिधिर् अनुगताते सत्त्वेषु (दक्: 231) महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशरदो नचिरात् त्वम् अनेन व्यवसायेनानुत्तरां सम्यक्संबोधिम् अभिसम्ंबुद्ध्यसे // इत्य् उक्त्वा शक्रो देवेन्द्रस् तत्रैवान्तर्दधानो ऽभूत् //

भगवान् आह // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूवाहं सः / तदानीम् अपि मे पुण्यमैः संस्कारैस् तृप्तिर् नास्ति प्राग् एवेदानीम् / तस्मात् तर्हि भिक्षवः शिक्षितव्यं यद् दानानि दास्यामः पुण्यानि करिष्यामः // इत्य् एवं भिक्षवः शिक्षितव्यम् //

यत्पूर्वजन्मसुकृतदानानुभावेन दानबलेन तथागतो ऽर्हन् सम्यक्संबुद्धो भवामि इति //

(3) सुरूप

पुनर् अपि भगवान् भिक्षुसंघान् आमन्त्र्य चतसृणां पर्षदां मध्ये मधुरमधुरं धर्मं देशयति स्म / क्षौद्रं मध्व् इवानेडकम् अनेकशता पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिञ्जमानैर् इन्द्रैः / तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः / पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्त्वा आदारेण श्रोतव्यं मन्यन्त इति // भगवान् आह // यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश् चोद्गृहीतश् च तच् छृणुत साधु सुष्ठु च मनसिकुरुत भाषिष्ये //

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति स्म // ऋद्धं च स्फीतं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्ठकम् एकपुत्रकम् इव राज्यं पालयति / स च राजा श्रद्धो भद्रः कल्याणाशय आत्महितपराहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते / तस्य राज्ञः (दक्: 233) सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्र इस्तः कान्तः प्रियो मनापः क्षान्त्यभियुक्तः //

अथापरेण समयेन राज्ञः सुरूपस्य धर्मे ऽभिलाष उत्पन्नः / तेन सर्वे ऽमात्याः संनिपात्योक्ताः / पर्येषत मे ग्रामण्यो धर्मं मे धर्मो रोचित इति //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.