Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
द्वाविंशत्यवदानकथा
- Thông tin
- GRETIL — Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ततस् ते ऽमात्याः कृतकरपुटा राजानं विज्ञापयन्ति / दुर्लभो महाराज धर्मः श्रूयते महाराज बुद्धानां लोक उत्पादाद् धर्मस्योत्पादो भवतीति // ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्ठावघोषणं कारितम् / यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि महता सत्कारेण सत्करिष्यामीति // ततो बहवः काला अतिक्रान्ता न कश् चिद् धर्मदेशक उपलभ्यते // ततः स राजा धर्महेतोर् उत्कण्ठति परित्रस्यति // ततः शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते / स पश्यति राजानं धर्महेतोर् विहन्यमानम् / तस्यैतद् अभवत् / यन् न्व् अहं सुरूपं राजानं मीमांसेय इति // ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत् // ननु धर्माभिलाषी भवान् अहं ते धर्मं (दक्: 234) वक्ष्यामीति // ततः स राजा धर्मश्रवणात् प्रीतिप्रामोद्यजातो अक्षम् एतद् उवाच // ब्रूहि गुह्यक धर्मान् श्रोष्यामीति //
गुह्यक उवाच // सुखितस्य बत महाराज धर्मा अभिलषन्ति / बुभूक्षितो ऽस्मि भोजनं तस्मान् मे प्रयच्छेति // ततः श्रुत्वा राजा पौरुषान् आमन्त्रयाम् आस //
आनीयन्तम् अस्य भक्ष्यभोज्यप्रकारा इति // यक्ष उवाच // मा राजन्, मानुष्यकेन अदनेनाहं तृप्तिं न भवामि / अपि तु स्वाभिप्रायं शृणु //
अत्यन्तोष्माणि मांसानि नवानि रुधिराणि च / इत्य् अन्नपान पद्माक्ष यक्षाणाम् अक्षतव्रत // dak_23.20 //
सद्योहतमांसरुधिरं भक्षो ऽहम् एतं सुन्दरम् एकपुत्रकं प्रयच्छेति //
श्रुत्वा राजा परं विषादम् आपन्नः / कदा चित् कर्हि चिन् मे ऽद्य धर्मशब्द आसादितः सो ऽप्य् अनर्घेण मूल्येनेति // ततः सुन्दरकुमारस् तम् उपश्रुत्य पितुः पादयोर् निपत्य राजानं विज्ञापयाम् आस // मर्षय देव पूर्यतां देवस्याभिप्रायं प्रयच्छ मां गुह्यकायाहरार्थम् इति // ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तं (दक्: 235) धर्मस्यार्थे यक्षाय दत्तवान् // ततो यक्षेणर्द्धिबलाधानाद् राज्ञः पर्षदश् च यथादर्शितं यथाङ्गानि प्रत्यङ्गानि पृथग् विकृत्य विकृत्य भक्षितानि रुधिरं च पीयमानम् / दृष्ट्वा राजा धर्माभिलाषी न विषादम् आपन्नः // स गुह्यको राजानाम् उवाच // अतृप्तो ऽस्मि भो पार्थिव भूयो मे प्रयच्छेति // ततो राजा तस्मै दयितां भार्यां दत्तवान् / सापि तेनैवाकारेण दर्शिता / ततो भूयो राजानम् उवाच // भोः पार्थिवाद्यापि तृप्तिं न लभत इति // ततो राजा यक्षम् उवाच // वत्स दत्तो मे एकपुत्रको भार्या च यावत् किं भुयः प्रार्थयस इति // गुह्यक उवाच //
स्वशरीरं मे प्रयच्छानेन तृप्तिम् उपयास्यामीति // राजोवाच // यदि स्वशरीरं ते प्रदास्यामि कथं पुनर् धर्मं श्रोष्यामि / किं नु पूर्वं मे धर्मं वद पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति // ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ठाप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः //
प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् / प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् // dak_23.21 //
इति //
ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच // इदं गुह्यक मे शरीरं यथेष्टं क्रियताम् इति // ततः शक्रो देवेन्द्रो राजानं मेरुवद् अकम्प्यम् अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच // साधु साधु सत्पुरुष दृढसंनाहस् त्वं नचिराद् अनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे / अयं च ते इष्टजनसमागम इति //
ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत् // साधु साधु कौशिक कृतो ऽस्माकं धर्माभिप्रायपूरितश् चेति //
भगवान् आह // किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूवाहं सः / सुन्दरकुमार आनन्दः / सुन्दरका एषैव यशोधरा / तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः प्राग् एवेदानीम् / तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम् / यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामो (दक्: 237) धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्य् एवं वो भिक्षवः शिक्षितव्यम् इति //
इति द्वाविंशतिकावदानकथायां दानकथा //
[xxiv.] पुण्योत्साहावदानसूत्र
अथ श्रीभगवान् बुद्धः सर्वज्ञस् तान् सभाश्रितान् सर्वांल् लोकान् समालोक्य पुनः सद्धर्मम् आदिशत् //
शृण्वन्तु कुलपुत्रा यत् संबोधिज्ञानसाधनम् / सद्धर्मं तन् मयाख्यातं सत्त्वानां भद्रकारनं // dak_24.1 //
प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये / संबोधिप्रणिधिं कृत्वा कर्तव्यं दानम् ईप्सितम् // dak_24.2 //
ततो विरम्य पापेभ्यो दशभ्यो ऽपि समादरात् / शुद्धशीलं समाधाय चरितव्यं सुसंवरम् // dak_24.3 //
ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः / क्षान्तिव्रतं सदा धृत्वा चैतव्यं जगद्धितम् // dak_24.4 //
ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने / पापमित्ररतिं त्यक्त्वा साधनीयं महद्गुणम् // dak_24.5 //
तत इष्टाशयं त्यक्त्वा कामभोगविरागिणः / सुधीरचित्तम् आधाय ध्यातव्यं त्रिजगद्धितम् // dak_24.6 //
ततो ऽमित्रसंरागं त्यक्त्वा संबोधिरागिणा / प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे // dak_24.7 //
एताः पारमिताः षड्ढाः पूरयित्वा यथाक्रमम् / सर्वान् मारगणाञ् जित्वा संबोधिज्ञानम् आप्स्यते // dak_24.8 //
तत एवं महाभिज्ञः श्रीसंपद्वीर्यसद्गुणैः / सर्वसत्त्वहितं कृत्वा संबुद्धपदम् आप्स्यते // dak_24.9 //
एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ / एवं पारमिताः सर्वाः पूरयेध्वं यथाक्रमम् // dak_24.10 //
संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः / त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते // dak_24.11 //
एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः / अर्हन्तः प्राप्य संबोधिं संबुद्धपदम् आप्स्यथ // dak_24.12 //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि भिक्षवः / एवम् अस्त्य् इति प्राभाष्य प्राभ्यनन्दन् प्रबोधिताः // dak_24.13 //
सभा सर्वावती सा ऽपि श्रुत्वैतत् संप्रसादिताः / तथेति प्रतिवन्दित्वा प्राभ्यनन्दत् प्रबोधिताः // dak_24.14 //
इति श्रीद्वाविंशत्यवदानकथायां पुण्योत्साहावदानसूत्रं समाप्तम् //
ये धर्म हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः // शुभम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
