Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35
- Tác giả
- हरिभट्ट
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भुजवीर्यपराजितं जितारेः परदेशं बलिनो बलानि यस्य अभिसस्रुर् उदीर्णतुङ्गवृद्धेः सलिलानीव तटान्तम् अम्बुराशेः // HJm_20.2
अपरस्परडिण्डिमैः स्वनद्भिः करिणो यस्य वितन्यमानकोपाः वशगाः परितः प्रयाणकाले कथम् अप्य् अङ्कुशधारिणां बभूवुः // HJm_20.3
तस्यैवंविधबलोदयस्य नरपतेः सपत्नैर् अखण्डितमानस्य खण्डधारो नाम द्विजातिर् अमात्यो बभूव । स च राजा कुलसंततिविच्छेदभीरुः कदाचिद् अनेकान् देवताविशेषांस् तनयार्थम् उपयाचते स्म । ततः खण्डधारस् तं राजानम् उवाच । प्रविशतु देवो ऽन्तःपुरम् अहं देवस्य पुत्रार्थं देवतां समुपासिष्ये राज्यं च प्रतिपालयिष्यामीति । तथेति च राजाभिधायान्तःपुरं प्रविश्य विषयपरायणो बभूव । खण्डधारो ऽपि च स्वनामाङ्कं सर्वपरिच्छेदजातं राज्यम् अनुशशास । कलिङ्गराजो ऽपि च विविधनृत्तगीतावलोकनश्रवणापहृतहृदयः सुरपतिर् इवाप्सरोगणपरिवृतो ऽवरोधनजनमध्यगतो विजहार ।
मनोहराव् आर्द्रमधूकपाण्डू समुद्गिरन्ताव् इव कान्तिम् इन्दोः कस्याश्चिद् आदर्शनिबद्धदृष्टेः सपत्त्रलेखाव् अकरोत् कपोलौ // HJm_20.4
अपश्यद् अन्यां स्तिमितायताक्षीं स्मितेन किंचिच्चलिताधराग्राम् नवोत्पलावस्थितम् उत्पलेन तिरोदधानां चकितं द्विरेफम् // HJm_20.5
पराङ्मुखीं कांचिद् अधिष्ठितासनां मनोहरालेख्यपटावलोकिनीम् उपेत्य निःशब्दपदं स भूपतिश् चकार हस्तद्वयसंवृतेक्षणाम् // HJm_20.6
विधुन्वतीं पाणिम् अलं मयेति भियास्वनाम् अस्फुरिताभिधानाम् स्तनौ दुकूलेन तिरोदधानां जग्राह दूतीम् अपि वेपिताङ्गीम् // HJm_20.7
त्वम् एव मे भाविनि जीवितं परं निधेहि दृष्टिं मयि वल्गुहासिनि इति ब्रुवन् कांचिद् अवाङ्मुखीं स्थितां प्रसादयामास कथंचिद् अङ्गनाम् // HJm_20.8
किंचिच्चलन्मुखरनूपुरभूषणेन पादेन कुट्टिमतलं लिखतीं सलीलम् कर्णे जगाद किम् अपि प्रमदां हसन्तीं लक्ष्यीकृतो ऽन्यवनितानयनेषुपातैः // HJm_20.9
अथ तस्य नरपतेर् एवम् अखण्डविषयसुखानुभाविनस् ताः शुद्धान्तमत्तकाशिन्यो विविधमृदुहसितकथाक्रोधेर्ष्याभ्रूभङ्गमनोहरैर् विलासैर् अतीव हृदयम् आचिक्षिपुः ॥
परिहासकालचलितोन्नतभ्रुवः स्मितचन्द्रिकापरिगताननेन्दवः त्रिवलीविजिह्मतनुरोमराजयो न मनो हरन्ति वद कस्य योषितः // HJm_20.10
स्फुरितप्रकाशदशनावलीरुचः परितः क्षरन्त्य इव कान्तिम् ऐन्दवीम् न हरन्ति कं नु लवलीसुगन्धयः प्रमदाजनस्य मदमण्डना गिरः // HJm_20.11
वदनेन्दवः श्रवणरुद्धदृष्टयः परपुष्टकण्ठरुचयः शिरोरुहाः परिणामितालफलसंनिभाः स्तना न मनोहरं किम् इव नाम योषिताम् // HJm_20.12
न गतास् त एव लघुतां जगत्त्रये सुखिनस् त एव सुधियस् त एव च बहुदोषसर्पनिचितानि संश्रिता न विलासिनीविषलतावनानि ये // HJm_20.13
अथ काले गच्छति देव्य् आपन्नसत्त्वा बभूव ।
तस्या गुणनिधौ वृद्धिं याते गर्भे दिने दिने अग्रयोः संभृतक्षीरौ जग्मतुः श्यामतां स्तनौ // HJm_20.14
जानुनोर् उपरि न्यस्य पाणी पल्लवकोमलौ दृष्ट्वा भर्तारम् उत्तस्थौ सा कथंचिद् इवासनात् // HJm_20.15
अद्य प्रसविनी स्यान् नु श्वो वेति सकुतूहलः पुत्रार्थी भूपतिः स्निग्धं ताम् अपश्यत् पुनः पुनः // HJm_20.16
अथ विशुद्धे ऽहनि साक्ष्णां निधिम् इव स्वप्रभयावभासितनृपतिभवनान्तरम् अमरकुमाराकारम् अखिलभुवनालंकारभूतं तनयम् असूत ।
शरीरप्रभया चान्द्रीं स जहार यतः प्रभाम् तस्याकारि ततो नाम चन्द्र इत्य् एव बन्धुभिः // HJm_20.17
अन्यासाम् अपि त्रिंशन्मात्राणां राज्ञीनां तनया जज्ञिरे । अथाष्टवर्षदेशीयांश् चन्द्रेण कुमारेण सह कुमारान् क्षत्रविद्याग्रहणाय कस्मैचिद् गुरवे निवेदयामास । सर्वांश् च तान् कुमारान् मृगयादिव्यसनपरायणान् अनेकैः कलागुणैस् तेजसा भुजबलेन च चन्द्रः कुमारो ऽतिशिष्ये ।
जायन्ते गुणबान्धवाः सुमतयः श्लाघ्यं गरिम्णां पदं रूढं लाघवदोष एव महतां केषांचिद् आ जन्मनः दृश्यन्ते हि नरा महत्य् अपि कुले जाताः समानाः शुना किं नोदन्वत इद्धरत्ननिचयाच् छम्बूक उत्पद्यते // HJm_20.18
समाना नीलता सत्यं शिखिचन्द्रेन्द्रनीलयोः सा तु रत्नगता श्लाघ्या कल्याणं हि सदाश्रयः // HJm_20.19
विद्यन्ते न गुणाः पुंसि क्वचिद् आकृतिमत्य् अपि इन्द्रनीलाकृतिं काचो वहन्न् अपि न तद्गुणः // HJm_20.20
अथ स राजा बोधिसत्त्वं यौवराज्ये ऽभिषिच्य तेभ्यो ऽपि च कुमारेभ्यः किंचिद् देशम् अदात् । अथ च चन्द्रो मनुजाधिपानुमतः सह भ्रातृभिः स्वदेशं गत्वा खण्डधारनामाङ्कानि दृष्ट्वोवाच । सर्वथा नाममात्रेणास्मत्पिता राजा खण्डधार एवात्राधिपतिर् इति । कुमारा ऊचुः । नन्व् अपनीयेदं खण्डधारनाम स्वानि स्वानि स्वदेशे नामानि वयं सर्वोपकरणेषु लेखयामः । तथेति च प्रतिपन्ने चन्द्रेण प्रथमं चन्द्रनामारोप्य पश्चाद् आत्मीयानि नामानि ते लेखयामासुः । तच् च तथा निर्वृत्तं विज्ञाय खण्डधारः परं कोपम् आगम्य ब्राह्मणान् संनिपात्य रहस्य् अवोचत् । अपहृतम् अनेन मे राजपुत्रेणाधिपत्यम् । तद् इदम् अत्र प्राप्तकालं केनचिद् उपांशुना चन्द्रः प्राणैर् वियोजनीय इति । पश्यन्तु भवन्तः ।
लघीयः प्राज्यं वा फलम् अभिमतं प्राप्तुमनसा निरीहेण स्थातुं क्षणम् अपि न युक्तं मतिमता कुलालो दण्डेन भ्रमयति न चेच् चक्रम् अनिशं शरावः कुम्भो वा न हि भवति सत्याम् अपि मृदि // HJm_20.21
ब्राह्मणा ऊचुः । त्वम् एवोपायम् अत्र वस्तुनि शक्तो ऽधिगन्तुम् इति । खण्डधार उवाच । यद्य् एवं ततो यदि कथंचिद् अयं राजा स्वप्नं भवताम् अग्रतो निवेदयेत् ततो युष्माभिर् वक्तव्यं देव खण्डधारः स्वप्नफलाभिज्ञः । स एष प्रष्टव्य इति । तथेति च ब्राह्मणाः प्रतिपेदिरे । अथ कदाचित् स राजा स्वप्नदर्शनोद्विग्नहृदयस् तेभ्यो ब्राह्मणेभ्यः स्वप्नं निवेदयामास । ब्राह्मणैश् च खण्डधारः स्वप्नाध्यायवेदीति निर्दिष्टः । ततः स राजा खण्डधारम् आहूय स्वप्नम् इति निवेदयामास ।
स्वप्ने किलाद्य पुरम् एतद् अशेषम् अन्त्रैर् आवेष्टितं परिविधूसरदीनलोकम् बद्ध्वा निपीडिततनुः कुनयेन चाहं क्षिप्तश् चिताभुवि कडेवरसंकुलायाम् // HJm_20.22
तद् अस्य तावत् स्वप्नस्य गुरवः फलम् आख्यातुम् अर्हन्तीति । खण्डधार उवाच । देव कष्टः खलु स्वप्नस्य विपाको दृश्यते ।
राज्याद् वा महतो भ्रंशं स्वप्नस् तत् सूचयत्य् अयम् मासद्वयेन गन्तव्यं दिष्टान्तम् अथवा त्वया // HJm_20.23
श्रुत्वा वचस् तस्य स भूमिपालो विप्रस्य विप्रोषितकान्तिशोभः मर्तव्यम् इत्य् आगतसाध्वसत्वान् नोद्यानभूमौ न गृहे ऽभिरेमे // HJm_20.24
विचिन्त्यमानं मरणं प्रकृत्या करोति दूरे ऽपि मनोविषादम् समुत्फणाशीविषदुर्निरीक्ष्यं शरीरिणां किं पुनर् अत्युपोढम् // HJm_20.25
अथ स राजा खण्डधारम् उवाच । भवेत् पुनः कश्चिद् उपायो येनाहं राज्यपरिभ्रंशं न प्राप्नुयाम् अकालमरणं वेति । खण्डधार उवाच । तेन खलु देवः श्रोतुम् अर्हत्य् उपायम् इति । सह चन्द्रेण कुमारेण सर्वकुमारा यज्ञकर्मण्य् आलब्धव्या अन्ये च चतुष्पदाः प्राणिनः ।
तल्लोहितस्य शुकतुण्डविलोहितस्य पूर्णां वितानभुवि पुष्करिणीं विशालाम् भूपाल यद्य् अवतरिष्यसि तन् न राज्याद् भ्रंशं गमिष्यसि परेतपतेर् वशं वा // HJm_20.26
अथ स राजा पुनर् अपि मे जीवतः पुत्रा गुणवत्तरा भविष्यन्तीति विचिन्त्य तान् कुमारान् निगडबद्धान् आनीय खण्डधारम् उवाच । प्रारभ्यताम् आध्वरं कर्मेति ।
ततः कुमारेषु भृशं विषादिषु प्रवर्तिते कर्मणि साप्ततन्तवे महीभुजो ज्येष्ठसुताद् विनाकुलः स मन्त्रिधूर्तो निजगाद पार्थिवम् // HJm_20.27
नृचन्द्र चन्द्रः स भवच्छरीरजो बलावलिप्तो यदि नागमिष्यति तदा शुभध्वंसि विधानम् आध्वरं भविष्यतीदं न फलाय भूयसे // HJm_20.28
राजोवाच । गुरुजनभक्तः खलु चन्द्रः कुमारस् तन् न ममाज्ञां लङ्घयिष्यति । दूतम् अस्मै प्रहेष्यामीति । तथेति च प्रतिपन्ने खण्डधारेण स राजा दूतम् आहूयोवाच । गच्छ यत्र तत्रावस्थितं चन्द्रं ब्रूहि शीघ्रं भवता मत्सकाशम् आगन्तव्यम् इति । तथेति स च दूतः परिगृहीतराजशासनो बोधिसत्त्वसकाशम् आजगाम । स च महात्मा सपरिजनः सुरभिमासप्रारब्धसहकारमञ्जरीकम् अतिमुक्तकाशोकतिलकगन्धाधिवासितलतामण्डपम् अखण्डशोभं विलासवसतिम् इव वसन्तलक्ष्म्याः किंचिद् उद्यानं प्रविश्यात्मानं विनोदयामास । प्रतीहारनिवेदितो ऽभ्यनुज्ञातप्रवेशश् च दूतः प्रततबाष्पकणवर्षिणा मुखेन प्रणम्य चन्द्रं कथम् अपि तम् अनेकसत्त्वविनाशायोपचरितम् अध्वरवृत्तान्तम् आख्याय तां राजाज्ञां निवेदयामास । ततो बोधिसत्त्वं सुहृदो बान्धवाश् चैवम् ऊचुः । सर्वम् इदं तव नाशाय दुरात्मनः खण्डधारस्य च्छन्दविचेष्टितम् । महाधूर्तस्य यतेर् इव शान्ता च शरीरक्रिया राक्षसस्येव चाशुद्धम् अन्तःकरणम् । अहो दुरात्मनां चरितानि सर्वथा ।
प्रशान्तवेषे ऽपि विरूक्षमानसे न दुर्जने विश्वसनीयम् अण्व् अपि बको हि तिष्ठन्न् अपि निश्चलस् तटे परिस्फुरन्तीं शफरीं न हन्ति किम् // HJm_20.29
उपनयति विषादं धैर्यम् अप्य् आश्रितानां जनयति परिमोहं तापम् अन्तर् विधत्ते अहिविषम् इव दंशप्राप्तम् एकान्ततीव्रं चरितम् अभजनीयं दुःसहं दुर्जनस्य // HJm_20.30
तद् आज्ञापयतु कुमारो यावद् एनं दुरात्मानं रक्षोवृत्तिम् अफलब्राह्मणनामानं खण्डधारकं बद्ध्वानयामः परेतनाथवशं वा प्रापयाम इति । बोधिसत्त्व उवाच । सत्यं ममापि खण्डधारं प्रति किंचिद् अभ्युत्थितः कोप आसीत् । स तु मे हुतवह इव सलिलधारया क्षमयोपशान्तिं नीतः । यदि चास्मत्प्राणैर् गुरवश् चिरजीविनो भवन्ति ननु कृतार्था वयम् इति तद् अलम् अत्रभवतां खण्डधारं प्रति कोपेन यास्याम्य् एवाहम् । अथ स दूतो विस्मयाद् इत्य् अवोचत् । अहो महद् आश्चर्यं सर्वथा कुमारः परमार्थक्षमी । कुतः ।
उत्तिष्ठन्तं यस्य वैरिक्षयाय क्रोधव्यालं क्षान्तिविद्या रुणद्धि श्रेयःप्राप्तो बद्धशुद्धाशयानां लब्धालोकः सो ऽग्रणीः क्षान्तिभाजाम् // HJm_20.31
अथ बोधिसत्त्वो बाष्पसलिलकणमुचा स्वपरिजनेनानुगम्यमानो रथवरम् आरुह्य यज्ञमध्यगतं पितरम् आगम्य चोवाच ।
त्यक्तो ऽस्मि यदि तातेन स्वजीवितगवेषिणा मम देहम् इमं यज्ञपशुताम् उपकल्पय // HJm_20.32
मया त्यक्तो ऽसि पुत्रेति ब्रुवाणस्य महीपतेः चन्द्रस्योपरि दुःखेन निपेतुर् बाष्पबिन्दवः // HJm_20.33
यदा चिरम् अपि स्थित्वा गन्तव्यं मृत्युगोचरम् तदा परविनाशेन को वाञ्छेद् आयुषः स्थितिम् // HJm_20.34
अथ खण्डधारस् तान् ऋत्विज उवाच । शृण्वन्तूपाध्यायाः प्रथमाहुतौ पात्यमानायां चन्द्रः कुमारः प्राग् आनद्धव्यः पश्चाद् इमे कुमारा इति ।
इति ब्रुवाणम् उद्ग्रीवाः खण्डधारं व्यलोकयन् कुमाराः सुकुमाराङ्गाः शार्दूलं हरिणा इव // HJm_20.35
अथ ते कुमाराः कृताञ्जलयो बोधिसत्त्वम् इति विज्ञापयामासुः ।
त्वयि स्थिते भ्रातरि लोकवत्सले महात्मनि ज्यायसि तुङ्गचेतसि पशून् इवास्मान् कथम् एष निर्घृणो यमक्षयं नेष्यति खण्दधारकः // HJm_20.36
अथ तेषां भ्रातॄणां वचनम् आकर्ण्य दुःखायमानहृदयो बोधिसत्त्वो मैत्रीसमन्वितं समाधिम् आललम्बे ।
समाधिना तस्य विशुद्धचेतसः समाहतानाम् च समाहितात्मनः भुजङ्गनीलानि सविस्मयात्मनां नृपात्मजानां निगडानि पुस्फुटुः // HJm_20.37
निगडस्फुटनविस्मिते च तस्मिन् राजनि किम् इदम् इति च जातविमर्शे तत्र खण्डधारके ।
उदियाय पयोगुरुः पयोदः पिदधद् द्यां शितिकण्ठकण्ठनीलः स्फुरितप्रभया तडिद्भृकुट्या कुपितो राक्षसवज् जगर्ज चोच्चैः // HJm_20.38
खगमुक्तविभग्नपादपानि ध्वनिमन्ति प्रचलच्छिलातलानि शिखराणि निपातयन् गिरीणां प्रववौ वह्निसखः प्रचण्डवेगः // HJm_20.39
प्रमुमोच ततो घनाघनं तद् घनजालं घनम् अश्मनां समूहम् भृशम् आकुलचेतसां द्विजानां मखमध्ये प्रणवध्वनिः शशाम // HJm_20.40
परिपाटलयन् पयोधराणाम् उदराणि प्रभया पयोगुरूणि द्रुतम् अस्तम् इयाय पार्थिवस्य व्यसनं द्रष्टुम् अशक्नुवन्न् इवार्कः // HJm_20.41
कुपितैर् इव शातकुम्भकुम्भाः क्रतुभूमौ निहिताः प्रताड्यमानाः उपलैस् त्वरितं दिवः पतद्भिः कृतभङ्गाः परिचक्वणुश् चलन्तः // HJm_20.42
प्रशशाम भयाद् इवाध्वराग्निः परितः प्रस्फुरिताकुलस्फुलिङ्गः गलितश्लथपाण्डुधूमजालो गगनाद् अश्मभिर् आहतः पतद्भिः // HJm_20.43
करिणां गुरुलोहकोशबद्धा रदनाः श्लिष्टमृदस् तटाभिघातात् उपलाभिहताः परिक्वणन्तो मुमुचुः प्रस्फुरितत्विषः स्फुलिङ्गान् // HJm_20.44
निपपात शिखी निवासयष्टेः कृकवाकुर् विरसं ररास भीतः उपलाभिहताश् च लोलनेत्रा विविशुश् छेकमृगा गृहोदराणि // HJm_20.45
शिशिरं जलदानिलं पिपासुः पृथुवल्मीकविनिर्गतार्धभोगः फणम् आशु सफूत्कृतं वितन्य प्रविवेशाश्मभिर् आहतो भुजङ्गः // HJm_20.46
परिहृत्य तु बोधिसत्त्वम् आरात् सकुमारं निपतत्सु वेगवत्सु उपलेषु नृपः सखण्डधारो भवनं भीतजनाकुलं प्रतस्थे // HJm_20.47
सचिवस्य महीपतेश् च यातोस् तडिदुद्द्योतविभाविते ऽर्धमार्गे अशनिः शिरसी बिभेद भेदच्युतमस्तिष्कलवोपदिग्धकेशे // HJm_20.48
मृतम् अश्रुमती जनान् निशम्य क्षितिपालं क्षितिपालपूजिताज्ञम् मृदुचित्ततयातिदुःखभारात् सहसा जीवितम् उत्ससर्ज देवी // HJm_20.49
अथ भीतजनोज्झितान्तरालं भवनं भूमिपतेः स्फुटत्कपाटम् उपलाभिहतं पपात सद्यः कनकस्तम्भविभङ्गजातनादम् // HJm_20.50
मृतौ भवेताम् अथ किं नु जीवितौ शठाशयौ पार्थिवखण्डधारकौ इति स्फुरद्भिः परितः पयोधरा रुषेव विद्युन्नयनैर् व्यलोकयन् // HJm_20.51
अथ प्रभातसमये बोधिसत्त्वः पित्रोर् अग्निसंस्कारं कृत्वा दत्तनिवापसलिलाञ्जलिः संविग्नमतिर् अहो सूक्तम् इदं बुद्धानां भगवताम् उत्पन्नप्रध्वंसिनः सर्वभावा इति विचिन्त्य तान् भ्रातॄन् उवाच ।
मां पुत्रवृक्षं संवृद्ध्यै सा सिक्त्वा स्नेहवारिणा अनवाप्तफला मत्तः क्व याता जननी मम // HJm_20.52
पृथिवीं पृथिवीपालः पालयित्वा पिता मम क्व यातः खण्डधारेण सह खण्डितधर्मणा // HJm_20.53
स्मरणीयविभूतीदं पतितस्तम्भतोरणम् शोचन्तीव गुरोः सद्म विच्युताः शालभञ्जिकाः // HJm_20.54
इमा विषमसंपातस्फुटिता गलितेष्टकाः आत्मानम् इव शोचन्ति धूसराश् चित्रभित्तयः // HJm_20.55
किं नु संगीतशालेयम् उत वासगृहं भवेत् कृच्छ्राद् इत्य् अनुमीयन्ते भागा भग्नस्य वेश्मनः // HJm_20.56
आसीद् इह गृहं स्थाने श्रीमत् तस्य महीपतेः इत्य् उत्सुको जनः शोकाद् अन्येभ्यः कथयिष्यति // HJm_20.57
निःश्रीकम् उपलाघातपरेतशुककोकिलम् इदं च भवनोद्यानं ध्यायतीव महीपतेः // HJm_20.58
अनिष्ठितसुखाशानां विपत्तिं प्रतिपालयन् इतिशब्दः समाप्त्यर्थः सोत्कण्ठ इव तिष्ठति // HJm_20.59
पुंसाम् अच्छिन्नकृत्यानां करिष्यति करोति च चकार च समाप्त्यर्थम् इतिशब्दम् अनित्यता // HJm_20.60
स्थितायां मय्य् अपि व्योम नित्यम् इत्य् अभिधीयते इत्य् ऊर्ध्वम् इव पश्यन्ती क्रोधात् तिष्ठत्य् अनित्यता // HJm_20.61
अपराधीनवृत्तित्वाद् उपलब्धमनःशमाः अपास्तबान्धवस्नेहा निःसङ्गाः सुखम् आसते // HJm_20.62
संकल्पाद् विषयाभिलाषिणि जने तृष्णा करोत्य् आस्पदं तृष्णाबद्धमना निकारमलिनं बध्नाति सेवाञ्जलिम् सेवार्तः परम् आरिराधयिषया निघ्नो भवत्य् अन्धवन् निघ्नो दुःखपरम्परापरिभवक्लेशैर् अधिष्ठीयते // HJm_20.63
कृच्छ्राल् लब्धम् अपि क्रमेण भवति प्रभ्रंशि भूयः सुखं तद्भ्रंशे परितापम् एति पुरुषश् चित्तानलं ज्वालयन् दुःखस्यास्य भवानुबन्धजननी हेतुः शठा जालिनी ते ऽत्यन्तं सुखिनो मनःसु निहिता यैः सम्यग् अल्पेच्छता // HJm_20.64
ततो ऽहं राज्यम् उत्सृज्य बहुव्यसनकण्टकम् शान्त्यै शान्तिपथस्थानं गमिष्यामि तपोवनम् // HJm_20.65
अथाभिषिच्यानुजम् आहितक्रियं द्विजातिभिर् भ्रातरम् उद्यताशिषम् विहाय लक्ष्मीं तपसो विवृद्धये वनाय वव्राज स धीरमानसः // HJm_20.66
तद् एवं तेन भगवता बोधिसत्त्वभूतेनापकारिण्य् अपि क्षमा न शिथिलीकृतेति विचिन्त्य श्रेयोगवेषिभिः क्षान्तिबलैर् भवितव्यम् इति ॥
॥ चन्द्रजातकं दशमम् ॥
22. मृग
न विना वीर्यात् तन्व् अपि फलम् ईप्सितम् आप्यते जगद्भूत्यै / इति खेदम् अगणयित्वा व्यायच्छन्ते महाभागाः // HJm_22.1*
तद्यथानुश्रूयते क्वचिद् अमलसलिलवाहिन्या वेतसपङ्क्तिश्यामतीरलेखया मद्गुकुलानुगम्यमानचकितमीनकुलाकुलाम्भस्तलया प्रसारितदुकूलधवलपुलिनया निम्नगया परिक्षिप्तभूधरपार्श्वे क्वचिद् दावानलार्धदग्धपरिणतामलकाक्षबदराकीर्णवसुधातले मरकतसूचीहरितदर्भाङ्कुरोपचिते क्वचिद् वराहावतरणसंत्रासपरिप्लुतदर्दुरपरिमुच्यमानपल्वलतटान्ते ऽन्यत्र मृगपिशिताध्मातप्रसुप्तशार्दूलाध्यासितगुहामुखे विविधवल्लीवलयपरिवेष्टितनिम्नकुटिललेखाङ्किततरुस्कन्धे घनपलाशवंशीवनरोधान्धकारनिकुञ्जे गहनान्तरे बोधिसत्त्वो मृगयूथाधिपतिर् बभूव । तेन च महात्मना राज्यम् इव सद्वृत्तेन नरपतिनानुपाल्यमानं हरिणयूथम् अकुतोभयं महतीं वृद्धिम् अगमत् ।
हरिणं हरकण्ठनीलपृष्ठं हरिसत्त्वं हरितं तृणं दशन्तम् सदसत्पथवेदिनं मृगास् ते तम् उपाध्यायम् इवान्वगुः सुशिष्याः // HJm_22.2
अथ कदाचित् प्रियमृगयस्य तन् मृगयूथं व्याधसकाशात् कस्यचिद् अवनिपतेः श्रुतिपथम् आजगाम । स च राजा गृहीतधन्वा तुरगवराधिरोही सैन्यपरिवृतस् तद् वनम् आगम्य दूरात् तं मृगयूथम् आलोकयामास ।
विहाय रोमन्थनम् उन्मुखस्थिरः स कृष्णसारः शरपातशङ्कितान् मृगान् निनीषुं शरगोचरं नृपं विलोकयामास चमूपुरःसरम् // HJm_22.3
विलोक्य संभूतखलीननिस्वनं जिघांसु तत् सैन्यम् अधिज्यकार्मुकम् मृगैः परीतो भयलोलदृष्टिभिः स यूथभर्तेदम् अचिन्तयद् ध्रुवम् // HJm_22.4
महीपतिः पाति सुखं सुखार्थिनीं प्रजाम् अनुत्पन्नभयां शुभाश्रयात् अचिन्तयित्वात्मगतं परिश्रमं स रक्षिता यो व्यसने ऽपि रक्षति // HJm_22.5
अमून् भयभ्रान्तविलोललोचनान् परिस्रवच्छोणितसिक्तभूतलान् मृगान् पुरस्तात् पततः स्फुरत्तनून् विलोकयिष्यामि कथं शराहतान् // HJm_22.6
मृगांस् तद् एनान् मृगयाविनोदिनो न यावद् आघ्नन्ति शितैः शिलीमुखैः बलेन तावद् भयलोलचक्षुषां प्रयत्नम् एषां करवाणि रक्षणे // HJm_22.7
इदम् वनम् अनेन सैन्येन सर्वतः परिक्षिप्तं तत् कतमया दिशा मृगयूथं निर्वाहयामीति समन्ततो ऽवलोक्याचिन्तयत् । भवतु लब्ध उपायः । इमां गिरिसरितम् उल्लङ्घ्य स्वस्ति मृगेभ्यः स्याद् इति तर्कयामि । न चैकेन क्रमेणैते हरिणाः शक्यन्त एतां शीघ्रसलिलवाहिनीं समुद्रपत्नीं उल्लङ्घितुम् इति । तद् इदम् अत्र प्राप्तम् अस्याः सरितो मध्यावस्थितस्य मम पृष्ठे क्रमं दत्त्वा सुखम् एते मृगा यास्यन्तीति विचिन्त्य क्वचित् तटतरुशिखाप्रस्खलितसलिलायाः परिभ्रमदावर्तमध्यभ्रान्तविशीर्णफेनसङ्घायास् तस्याः क्षितिधरसरितो मध्यम् अवगाह्य स्थिरयित्वात्मानं स महात्मा तान् मृगान् उवाच ।
परिप्लुत्य तटाद् अस्माद् दत्त्वा पृष्ठे क्रमं मम यात यातभयाः शीघ्रं स्वयूथ्याः संकटाद् इतः // HJm_22.8
शरीरं विशरारुत्वाद् धर्माभावाच् च फल्गु मे युष्मन्निर्वाहणात् सारं लप्स्यते सुचिराद् इदम् // HJm_22.9
परोपकारविमुखो यदा कायः कलिस् तदा यदा त्व् अन्यद्धितालम्बी कायरत्नम् इदं तदा // HJm_22.10
परिपातुम् अहं भयात् समर्थो यदि युष्मान् नृपसैनिकानुबद्धान् सफलो ऽद्य भवेत् ततः पृथिव्यां मम यूथाधिपतित्वशब्द एषः // HJm_22.11
आगम्यतां तद् अधुना ननु तावद् एव युष्मासु यावद् इषवो न पतन्ति शाताः पृष्ठं ममाचलसरिज्जलसेतुभूतम् आरुह्य निस्तरत सैन्यभयाद् अमुष्मात् // HJm_22.12
अथ ते हरिणा मरणभीता यूथपतिपृष्ठे क्रमं दत्त्वा नदीसलिलम् उल्लङ्घ्य द्वितीयं कूलम् उपगन्तुम् आरेभिरे ।
यथा यथा तस्य भृशं निपेतुः पृष्ठे मृगास् त्रासविलोलनेत्राः तथा तथासौ मृगयूथभर्ता खुरान् स्थिरत्वं प्रसभं निनाय // HJm_22.13
रुधिरम् अथ मृगाणां पत्युर् उत्खातमांसात् खुरपुटपरिभिन्नात् तस्य चक्षार पृष्ठात् मृगकुलम् अचलान्तं गच्छद् आलोक्य चारात् स रुजम् अगणयित्वा प्रीतिम् एवाललम्बे // HJm_22.14
परिपालितसत्त्वानाम् उपायेन बलेन वा रुणद्धि महतां दुःखं अन्तःप्रीतिपरम्परा // HJm_22.15
अथ स राजा हरिणनिस्तरणाय सरित्सलिलमध्यसंक्रमीभूतात्मानं यूथपतिम् आलोक्य विस्मयम् आगम्य शरासनेषु शरान् संदधानं सेनाजनम् उवाच । यः खलु कश्चिन् मृगम् आहन्यात् सो ऽस्मद्द्रोहीति ।
अथाववादम् आकर्ण्य स जनस् तस्य भूपतेः बाणविश्लेषिणः सद्यश् चकार धनुषो गुणान् // HJm_22.16
बोधिसत्त्वो ऽपि च किं नु निस्तीर्णाः सर्वे मृगाः स्युर् न वेति पश्चाद् आलोकयन्न् अपश्यद् एकम् अतीव भयचञ्चलाक्षम् अतिक्रान्तं यूथम् आलोकयन्तम् असामर्थ्याद् अनुत्सहमाणं क्रमं दातुं कतमया दिशा गच्छामीति दोलायमानहृदयं हरिणशावकम् आलोक्य च परमां करुणाम् आललम्बे ।
जहीहि शङ्कां न हि बोधिसत्त्वो भवन्तम् उत्स्रक्ष्यति बालम् एकम् द्विरेफशब्दैर् इति पुष्पवन्त आश्वासयामासुर् इव द्रुमास् तम् // HJm_22.17
अथ यूथपतिः प्रत्युत्तीर्य तस्मात् सलिलात् तं मृगशावकम् उवाच ।
अङ्गाधिरुह्य मत्पृष्ठं विमुञ्च मरणव्यथाम् भवन्तं सरितः पारं नेष्याम्य् अहम् इतस् तटात् // HJm_22.18
उद्धर्तुं वीर्यम् आरब्धं येन लोकं भवार्णवात् स त्वां नोत्तारयिष्यामि कथम् एकं नदीजलात् // HJm_22.19
अथ तेनाधिरूढो ऽसौ मृगशावेन वीर्यवान् जगाहे करुणालम्बी सरितं वीचिमालिनीम् // HJm_22.20
अमूनि पृष्ठे तव विक्षतानि रुजं न गाढां जनयन्ति कच्चित् इति ब्रुवाणेव समुत्तरन्तं परामृशत् तम् सरिद् ऊर्मिहस्तैः // HJm_22.21
अथ यूथाधिपतिस् तं मृगशावकम् उत्तार्य तस्याः सरितः प्रहर्षविशाललोचनया मात्रा संयोजयामास ।
कृत्वाथ जानुनी भूमौ मृगशावः पिपासितः जग्राह त्वरितं मातुः संभूतप्रस्रुती स्तनौ // HJm_22.22
सा चैनं परिवृत्तास्या स्तन्यपानचलाननम् आलिलेह मुहुः स्नेहाज् जिह्वया चलिताग्रया // HJm_22.23
अथ बोधिसत्त्वः परिश्रमवशात् खुरक्षतवेदनया चावसन्नशरीरप्रयत्नः ।
कथंचिद् अन्विष्य खुराङ्कशाद्वलां शनैर् मृगाणां पदवीं समाकुलः निविश्य मन्दं रुधिरोक्षितः क्षितौ क्षणं विशश्राम स संभृतश्रमः // HJm_22.24
इमां दशां निर्घृणयाद्य वत्स सत्या जनन्यापि मयासि नीतः इति क्षताङ्गं करुणानुतापाद् भृशं रुरोदेव तम् ईक्षमाणा // HJm_22.25
स च राजा तां सरितम् उत्तीर्य सपरिजनस् तुरगाद् अवतीर्य विस्मितमनास् तं महात्मानम् उपससाद । स यूथाधिपती राजानम् आलोक्याब्रवीत् ।
अभ्युत्थानार्हम् आलोक्य यत् त्वां नाहं समुत्थितः नादाक्षिण्यं तद् एतन् मे श्रमेणास्म्य् अवसादितः // HJm_22.26
अथ स राजा सविस्मयम् उपविश्य कुशलं पृष्ट्वा यूथपतिम् इति संराधयन्न् उवाच ।
निर्व्रीडैः परम् उपहन्तुम् उद्यतास्त्रैर् भोगेच्छातिमिरनिरुद्धबुद्धिनेत्रैः धर्मज्ञो हरिणमुनिः कृपासहायो मादृक्षैर् नरपशुभिस् त्वम् अर्चनीयः // HJm_22.27
बिभर्ति भृत्यान् नृप आत्मरक्षणं विधित्सुर् आयोधनकालनिर्भयान् स्वयूथरक्षापटुना तु सर्वथा नयेन ते भूमिभुजां जितो नयः // HJm_22.28
चित्रं किम् अत्र बहवो यदि भूमिपालं भृत्या रणान्तरगतं परिपालयन्ति एकेन नाम हरिणा बहवस् त्वयामी यत् पालिताः खलु तद् अद्भुतम् एतद् अत्र // HJm_22.29
बहुगुणकरुणान्विता तवेयं गुणविकलां करुणावियोगलघ्वीम् हरिण हरिणता विशेषलाभाद् अवहसतीव मनुष्यतां ममैताम् // HJm_22.30
इत्य् अभिसंराध्य स राजा यूथपतिम् अपृच्छत् । कीदृशं पुनर् अनेन परोपकारपटुना वीर्येण भवान् पदम् अभिलषति । बोधिसत्त्व उवाच ।श्रूयतां महाराज ।
बुद्धत्वम् अधिगन्तुं मे वीर्यं वीर्यवतां वर यथाशक्ति मृगत्वे ऽपि सतीदं नावसीदति // HJm_22.31
यथा मयामी हरिणा भयाकुलाः प्रतारिता भीमरयान् नदीजलात् तथा बहुक्लेशसमाकुलं जगत् प्रतारयेयं भवदुःखतोयधेः // HJm_22.32
न च महाराज शक्यते वीर्यपराङ्मुखेन बलवताप्य् अभिलषितं पदम् अभिगन्तुम् । पश्य ।
आलस्यात् ससहायो ऽपि न गच्छत्य् उदयं जनः हस्ताग्रात् स्खलितो भूमौ तोयार्द्र इव कन्दुकः // HJm_22.33
अपि च ।
विपश्चिताप्य् अलसधिया सुखाश्रयं न शक्यते पदम् अभिगन्तुम् उच्छ्रितम् अवाहितं वहनम् अरित्रधारिभिश् चिराद् अपि व्रजति न पारम् अम्बुधेः // HJm_22.34
राजोवाच । सम्यग् अभिहितं मृगयूथाधिपतिना । कुतः ।
जातस्यापि कुले विशुद्धयशसि प्रख्यातभोगोदये प्राप्तस्यापि सभासु पण्डितधुराम् अग्र्यां विपश्चित्तया आलस्यान् न मनोरथः सकृद् अपि प्राप्नोति पुंसः फलं लक्ष्यं नैति गुणार्पितो ऽपि विशिखः क्षेप्तुः प्रयत्नाद् विना // HJm_22.35
तद् इत्थं वीर्यावलम्बिना भवता शक्यम् अधिगन्तुं बौद्धं पदम् इति ।
ये शान्तं पदम् आरुरुक्षव इह क्लेशैर् अभिन्नाशयास् त्वत्तः प्राक् कृतिनः कृतप्रणिधयो बोधौ घटन्ते जनाः तेषां वर्त्मनि वाजिनाम् इव परिश्रान्त्या शनैर् धावताम् आजानेय इवोज्झितश्रमभयो भावी भवान् अग्रिमः // HJm_22.36
बिभ्राणं परिवेषिणीं वितमसां देहत्विषां संहतिं धर्मं धर्मकथाभिलाषिणि मुहुः प्रख्यापयन्तं जने छिन्नक्लेशनिबन्धनं गुणधनैर् अभ्यर्चितं सूरिभिस् त्वां बुद्धत्वम् उपागतं गतभवं द्रक्ष्यन्ति धन्या जनाः // HJm_22.37
इति स राजा बोधिसत्त्वम् अभिसंराध्योवाच । अहो भवन्तम् एवं धर्माभिमुखम् आलोक्य ममापि धर्माभिलाष उत्पन्नः ।
तद् आचक्ष्व महाबुद्धे धर्मं धर्मविदां वर सेव्यमानेन शुद्धेन येन यायां न दुर्गतिम् // HJm_22.38
बोधिसत्त्व उवाच । यद्य् एवम् अतः श्रोतुम् अर्हति महाराजः ।
अवद्याद् विनिवृत्तिश् च प्रवृत्तिश् च शुभाश्रये धर्मतत्त्वम् इदं सम्यग् आख्यातं ख्यातबुद्धिभिः // HJm_22.39
स्फुटीकृते ऽपि तत्त्वे ऽस्मिन् प्रकाशितशुभाशुभे यो गच्छति विमार्गेण सो ऽन्धः सत्य् अपि चक्षुषि // HJm_22.40
इति प्रज्ञाप्रदीपेन विलोकितमहापथः भजस्व भजमानानि कर्माणि क्लेशहानये // HJm_22.41
क्षितीश क्षपिताज्ञान क्षितिं धर्मेण पालय तीक्ष्णदण्डाद् भूमिपालान् नित्यम् उद्विजते जनः // HJm_22.42
यदि यशसि मृणालभङ्गशुक्ले जगदवभासिनि ते ऽस्ति काचिद् इच्छा फलम् अभिमतम् आप्तुकामता वा बिभृहि गुणाभरणं ततो विशुद्धम् // HJm_22.43
अथ स नरपतिर् अहो भवतो ऽनया धर्मदेशनया प्रह्लादितम् इदं मे हृदयम् इत्य् अभिधाय परां प्रीतिम् आजगाम ।
ततो यूथपतेस् तस्य खुरक्षतसमुत्थया आविष्टस्य रुजा गुर्व्या निमिमीलतुर् अक्षिणी // HJm_22.44
तस्याथ नृपतिः कृत्वा-चितां चन्दनदारुभिः अग्निसंस्कारम् अकरोत् कृतिनः पुण्यजन्मनः // HJm_22.45
अथ तत्र गते सुहृदीव दिवं हरिणे करुणाविमलप्रकृतौ अनुशोच्य चिरं वसुधाधिपतिः पुरम् आगमद् आशु वितानमनाः // HJm_22.46
तस्मिन् मृगे मृगवधूसदृशेक्षणाभिः सत्त्वोपकारकुशले कुशलान्विताभिः ज्ञाताव् इव व्युपरते विरतक्रियाभिर् अच्छिन्नम् अश्रु मुमुचे वनदेवताभिः // HJm_22.47
प्रावेपताथ वसुधा चलिताद्रिशृङ्गा वातानिलेन परिवर्धितसागरोर्मिः भ्रान्तद्विरेफशबलश् च विकीर्णगन्धो मन्दारपुष्पनिकरो नभसः पपात // HJm_22.48
निर्वाणकाले च भगवता भिक्षूनां पुरस्ताद् इदं जातकम् अभ्यधायि ।
मृगयूथाधिपस् तत्र वने ऽभूवम् अहं तदा परिव्राट् च सुभद्रो ऽयं बभूव मृगशावकः // HJm_22.49
भगवतश् च प्राक् परिनिर्वृते तत्र सुभद्रे परिव्राजके भिक्षवः पप्रच्छुः । कानि पुनः कर्माणि सुभद्रेण कृतानि यत् सर्वश्रावकेभ्यः पश्चाद् अर्हत्फलं प्राप्य प्रथमम् एव च भगवतः परिनिर्वृत इति । भगवान् आह ।
काश्यपो नाम बुद्धो ऽभूज् ज्ञेयसागरपारगः नाम्नाशोको ऽभवद् भिक्षुः स्वस्रीयस् तस्य तायिनः // HJm_22.50
सुलभं मे परं ज्योतिर् मातुले सुगते सति अशोकः परिचिन्त्येति न व्यायच्छत मुक्तये // HJm_22.51
देशान्तरम् अशोके ऽथ गते गतपुनर्भवः काश्यपो निर्वृतौ चेतः कृतवान् कृतिणां वरः // HJm_22.52
ततः स्थिते ऽशोकतरोर् अधस्ताद् अशोकभिक्षौ विनिबद्धशोका महीरुहे तत्र कृताधिवासा मुमोच मुक्ताद्युति देवताश्रु // HJm_22.53
भविष्यतीत्य् अद्य विचिन्तयन्त्या जिनस्य निर्वाणम् अनिर्वृतायाः पपात पाराशरिणः शरीरे तस्यास्रम् उष्णं वनदेवतायाः // HJm_22.54
निरभ्रम् एतद् गगनं कुतो नु ममेदम् अम्भः पतितं शरीरे इति ब्रुवन्न् उन्मुखम् ईक्षमाणः स देवतां तां रुदतीम् अपश्यत् // HJm_22.55
पप्रच्छ चैनां परिदीनदीनां किं देवते रोदिषि जातशोका सा चास्य कण्ठस्खलिताभिधाना भिक्षोः कथंचित् कथयां बभूव // HJm_22.56
महामुनिः कारुणिको जगद्धितं विहाय दग्धानुशयेन्धनो वशी प्रदाय निर्वास्यति काश्यपो ऽधुना जनाय शोकं कृपणेति रोदिमि // HJm_22.57
अकम्पिते वादिवचःपतङ्गकैः परिप्रकाशीकृतसत्पथापथे मुनिप्रदीपे परिनिर्वृतिं गते जगत्त्रयव्यापि तमो भविष्यति // HJm_22.58
निशम्य चेदं वनदेवतावचः स मर्मणीवाभिहतः शितेषुणा पपात भूमौ विनिमीलितेक्षणश् चिरात् समुत्थाय च पर्यदेवत // HJm_22.59
अपृच्छद् एनं वनदेवतोत्सुका प्रचक्ष्व भिक्षो किम् इति प्ररुद्यते स मातुलो मे भगवान् इति व्यथां कथं न यास्यामि स चेदम् अब्रवीत् // HJm_22.60
मनोहरं वाक्कुसुमं जिनद्रुमाद् गृहीतम् अत्यल्पम् इदं प्रमादिना जगत्त्रयक्लेशपरंपराहरं मया न लब्धं फलम् अल्पबुद्धिना // HJm_22.61
इदम् मनःसद्मनि मे कृताश्रयं निरोधकं मुक्तिपथस्य दारुणम् विभिद्य कस्मान् न गतो ऽसि निर्वृतिं तथागतेन्दोर् वचनांशुभिस् तमः // HJm_22.62
अथ सा देवता तं भिक्षुम् इदम् अवोचत् । अलम् अलम् अतिविषादेन । यावन् न निर्वाणम् उपगच्छति स भगवांस् तावद् एव भवन्तं मन्त्रप्रभावाद् आकाशेन नेष्यामीति । अनुकम्पितः स्याम् अहं भवत्येत्य् उक्तवति तत्र तथागतभागिनेये सा देवता तस्माद् अशोकान् मन्त्रपरिजप्तानि कुसुमान्य् आदाय ममैनम् अशोककुसुमाञ्जलिम् ईक्षमाणो नभसा गच्छन्तीम् माम् अनुगच्छेत्य् उवाच ।
अथान्वगात् तां नभसा स देवताम् अशोकपुष्पाञ्जलिबद्धलोचनः क्षणेन चागम्य तथागतान्तिकं जगाद बाष्पं विसृजन् मुहुर् मुहुः // HJm_22.63
प्रमादिनं बालम् अपेतधीप्लवं निमग्नम् अज्ञानमहापयोनिधौ मुनीन्द्र मां दुःखमहोर्मिपीडितं क्षणाद् अनुत्तार्य कथं नु गच्छसि // HJm_22.64
इति ब्रुवाणं परिगद्गदाक्षरं क्षरन्तम् अस्रं कलुषीकृतेक्षणम् क्षणाद् विमोक्षाय निवर्त्य कापथात् पथा विशुद्धेन निनाय तं जिनः // HJm_22.65
अथार्हत्फलभागिनं भागिनेयं कृत्वा सकलं च लोकं वचनांशुभिः प्रकाश्य काश्यपः सम्यक्संबुद्धः परिनिर्ववौ । परिनिर्वृते च तत्र भगवति शोकवशीकृतेषु सुरासुरकिन्नरमहोरगयक्षमनुष्येषु नभसः परिपतति मन्दारकुसुमवर्षे सा देवता शोकवशाद् इति तत् तद् विलपितुम् आरेभे ।
सिंहासनोपविष्टस्य वाक्पुष्पानि विमुञ्चतः कस्य श्रोष्यति लोको ऽयं धर्मार्थी धर्मदेशनाम् // HJm_22.66
त्वयि नाथ परं ज्योतिः प्राप्ते ऽस्तम् इव भास्करे तमसा दुर्निवारेण निमीलितम् इदं जगत् // HJm_22.67
अद्य त्वयि गते शान्तिम् अशान्तेन मनोभुवा जगन् मोहयितुं नूनं पुनर् आरोपितं धनुः // HJm_22.68
गते मुनौ शान्तिम् अनाश्रया वयं क्व विश्रमिष्याम उदीर्णमन्यवः गुणैर् इति ज्ञेयपथानुगामिना मुनीन्द्र विक्रुष्टम् इव त्वया विना // HJm_22.69
भवन्तं बोधाय प्रणिधिम् अवलम्ब्य त्रिभुवने भ्रमन्तं सत्त्वार्थं स्थिरधियम् अहं नोज्झितवती परित्यज्य त्वं मां किम् इति जननीं वत्सल गतः प्रयाते त्वय्य् एवं रुदितम् इव दीनं करुणया // HJm_22.70
अथ स भिक्षुर् अभ्यधात् । अलम् अलं देवते विषादेन न क्वचिद् इयम् अनित्यता न प्रहरति यत्रेदृशस्यापि भगवतो वज्रगुरुसारस्याभाव इति । अथ सा देवता कथंचिद् आत्मानं धीरयित्वा प्रणिधिम् इति चकार ।
माम् आगम्य यथानेन भिक्षुणासादितं फलम् तथा शाक्यमुनेः शिष्यः पश्चिमः स्याम् अहं तदा // HJm_22.71
अर्हत्फलं समासाद्य निर्वाणसमये मुनेः तस्मात् प्राक् परिनिर्वायां सोढुं शोकम् अशक्नुवन् // HJm_22.72
अथ भगवांस् तेषां भिक्षूणां पुरस्ताद् इदं वर्णयित्वा पुनर् उवाच ।
यासाव् अशोकनिलया बभूव वनदेवता स परिव्राट् सुभद्रो ऽयं भद्रचेता महामतिः // HJm_22.73
प्रणिधानवशाद् एष मम श्रावकतां गतः प्रथमं मम निर्वाणात् तस्माद् एव च निर्वृतः // HJm_22.74
इति जातकम् एतद् अद्भुतं विधिवच् छाक्यमुनिप्रकाशितम् विदुषां मनसः प्रशान्तये प्रथनीयं मधुराभिधायिना // HJm_22.75
परहितकरणार्थं ख्यापितातिप्रतिज्ञैर् अपि विपदि न मुक्तो वीर्यसंनाहबन्धः इति परिविगणय्य प्राप्तुम् अत्यन्तनिष्ठां भुवनहितविधाने मा स्म गातालसत्वम् // HJm_22.76
॥ इति मृगजातकम् ॥
24. मूलिकजातकम्
रिपुम् अपि नोपेक्षन्ते करुणामृदुचेतसो गदग्रस्तम् / लोकस्य बन्धुभूताः किं पुनर् अच्छिन्नजन्मानम् // HJm_24.1*
तद्यथानुश्रूयते समधिगतवेदवेदाङ्गतिहासः परमार्थज्ञः परमार्थाभिलाषी सर्वसत्त्वानुकम्पी मूलिको नाम ब्राःमणो बोधिसत्त्वो बभूव । स च महात्मा व्याधिमतां व्याधिप्रशमनाय हिमवन्मन्दरपरियात्रसह्यविन्ध्यवनान्तराण्य् ओषधिनिमित्तं विचचार ।
आलोकयन्न् अथ भुजङ्गमवेष्टितानि सान्द्राणि चन्दनवनानि निदाघकाले शृङ्गाग्रविस्खलनजर्जरिताग्रजालं बभ्राम सिद्धनिलयं मलयं कदा चित् // HJm_24.2
हारीततुण्डपरिखण्डितविद्युतानि पश्यन् नवानि मरिचानि दरीमुखेषु जिघ्रन् समीरचलितं कुसुमाधिवासम् अध्यास्त खेदविगमाय शिलां स धीरः // HJm_24.3
कृतपरिश्रमविनोदश् च समुत्थाय महौषधीनां खनित्रेण मूलानि चखान । बद्ध्वा च महान्तम् औषधभारं गच्छाम्य् अधुनाउषधप्रदानेन जनम् अनामयं करिष्यामीति विचिन्त्य मलयात् प्रतिष्ठमानो गाढग्लानिपरिपाण्डुतनुशरीरम् उपान्तनिहितकमण्डलुपात्रं परिणततृणसंस्तरोपविष्टम् अग्रतोनिषण्णहरिणमिथुनम् अभिनवसंध्यासदृशचीवरप्रावृताङ्गम् उपशान्तेन्द्रियं प्रत्येकबुद्धम् अद्राक्षीत् ॥
आलोक्य शान्तम् अथ तं विनयावलम्बी स्कन्धान् महान्तम् अवतार्य स मूलभारम् भक्तिप्रसादभरम् उद्गिरतेव दूराद् आलग्नभूमिरजसा शिरसा ववन्दे // HJm_24.4
.... .... .... .... hjm_24.5
स ब्राह्मणश् चैनम् अपृच्छद् एवं पश्याम्य् अहं ग्लानशरीरम् आर्यम् आरूढरोगाभिभवप्रतन्व्या प्रत्येकबुद्धस् तम् उवाच वाचा // HJm_24.6
इदं च वल्मीकसमं शरीरं उत्पादितं कर्मपरंपराभिः कुर्व्वद्भिर् आधिं जगताम् अनेकैर् अध्यासितं व्याधिभुजङ्गमैश् च // HJm_24.7
इयं जराकेशरिणी यदा च शरीरम् आक्रामति मानकस्य मदं विषादाद् विगतेन्द्रियार्थस् तदास्य चित्तद्विरदो जहाति // HJm_24.8
ततो परो मृत्युर् अकारणारिः कुटीरकं देहमयं भनक्ति भग्ने हि यस्मिन् भवति क्षणेन सर्वक्रियाणां विरतिर् जनस्य // HJm_24.9
इमैस् त्रिभिर् मृत्युजरागदारिभिः प्रबाध्यते कर्मसमीरितैर् जनः अनन्तरक्लेशहुताशसम्भवो भवो यम् आर्यैर् अत एव नेष्यते // HJm_24.10
इति विचार्य विचारपटुर् भवान् प्रतिभयान् भुजगप्रतिमान् भवान् शमपथे विनिवेश्य मनोरथं समधिरोहतु वीर्यमयं रथं // HJm_24.11
अथ बोधिसत्त्वः अहो सुभाषितम् इत्य् अभिधाय तं प्रत्येकजिनम् अभिमन्त्र्याब्रवीत् ।
सुभाषितमणेः प्राप्तिर् अविद्यातिमिरच्छिदः नान्यत्र स्वच्छगम्भीरधीतोयान् साधुसागरात् // HJm_24.12
सुपुरुषपरिचोदितस्य धर्मे पटुतरतां पुरुषस्य याति वीर्यं वहनम् इव समीरणप्रणुन्नं सलिलनिधौ स्थितदक्षकर्णधारं // HJm_24.13
ततो ऽहं भदन्तं तावत् परिचरिष्यामि यावद् अस्माद् ग्लान्यान् महाकान्ताराद् इव समुत्तीर्ण इत्य् अभिधाय गगनमध्यप्रत्यासन्ने स्फुरदङ्शुमण्डले विवस्वति तरुच्छायानिलीनेषु श्वासवशपरिस्फुरत्प्रकाशजिह्वातालुषु श्वेतापाङ्गेषु पल्वलसलिलावतरणसमुत्सुकेषु सजलजलधरनीलेषु वनमहिषयूथेषु सुरभिशिशिरचन्दनतरुविटपान् सुतरां परिवेष्टयत्सु भुजगेषु तीक्ष्णतरातपालिङ्गनसंतप्तपांसुनिकरेषु पथिकजनविमुच्यमानेष्व् अध्वसु मलयतरुगृहपतिविश्राणितं परिपाकमृदुसुरभिविविधफलपिण्डपातम् आनीय ।
स पलाशैः पलाशस्य महद् आतपवारणम् कृत्वा प्रत्येकबुद्धस्य दधारातपशान्तये // HJm_24.14
न चिन्तयति यः खेदम् उपायकुशलो वणिक् लभते विपुलं लाभं चतस्रः संभ्रमन् दिशः // HJm_24.15
बोधिसत्त्वो विचिन्त्येति तस्य कर्तुम् उपासनाम् न क्षुधं नातपं तीव्रं न च खेदम् अजीगणत् // HJm_24.16
बुधान् उपासीत न चेज् जगद्गुरून् आवाप्नुयान् नैव जनः सुभाषितम् धनाय यो गच्छति रत्नमेदिनीं स युज्यते रत्नविशेषसम्पदा // HJm_24.17
इति स परिचरंस् तम् आर्यवृत्तं कुशलफलोपचयाय धीरसत्त्वः प्रतिदिवसम् उपाचितप्रसादः सफलम् अमन्यत साध्व् अजन्मलाभम् // HJm_24.18
अथ स प्रत्येकजिनो बोधिसत्त्वस्य द्विगुणतरप्रसादजननार्थम् अम्बरतलम् उत्पत्य तत् तत् प्रातिहार्यम् अदर्शयत् ॥
परिविस्फुरदङ्शुपरीततनुः पयसीव ततान नभस्य् अमले शुशुभे च सुवर्णगिरिप्रतिमः कमलासनमध्यगतः स वशी // HJm_24.19
प्रविवेश मुहुः परिभिद्य महीम् उदियाय शनैः सवितेव पुनः अनयच् च स योगबलाद् बहुतां युगपद् भुजयोः सलिलज्वलनौ // HJm_24.20
स्पृशति स्म विलोलनखद्युतिना कमलप्रतिमेन करेण रविम् बहुताम् अगमद् गतजन्मभयस् सलिलेष्व् इव शुद्धवपुस् तपनः // HJm_24.21
तम् इति प्रसमीक्ष्य महर्द्धिबलं द्युतिमन्तम् अनुष्णमरीचिम् इव सुचिरं स्तिमितीकृतनेत्रयुगो द्विजमुख्यतमः स जगाद मुदम् // HJm_24.22
तं प्रातिहार्यरमणीयतरप्रभावं प्रत्येकबुद्धम् अवलोक्य दृढप्रसादैः विद्याधरैर् मुमुचिरे नभसा व्रजद्भिः पुष्पाणि केशररजःकपिशोदराणि // HJm_24.23
अथ बोधिसत्त्वः क्षितितलविनिहितजानुः प्रमोदापूर्यमाणहृदयः शिरसि विनिवेशिताञ्जलिस् तं प्रत्येकजिनं प्रभास्वरैर् वचनमणिभिर् अभ्यर्चयाम् आस ॥
इमाम् आलोक्य भवतः प्रातिहार्यवतीं तनुम् ब्रह्मापि विस्मयं यायान् मादृक् किम् उ पृथग्जनः // HJm_24.24
दर्शितप्रातिहार्येण भवता दीप्ततेजसा इदम् अध्यासितं व्योम द्विसूर्यम् इव लक्ष्यते // HJm_24.25
योगिनां त्वादृशाम् एतद् ऋद्धिमाहात्म्यम् अद्भुतम् परानुग्रहनिष्पत्तिपटूनां व्यक्तिम् अर्छति // HJm_24.26
आत्मार्थं भासते नेन्दुः प्राचीमुखविशेषकः परार्था एव महताम् उदयाः शुद्धचेतसाम् // HJm_24.27
यदि नाहम् उपागमिष्यम् एनं मलयं चन्दनपादपान्धकारम् न भवत्समुपासनासमुत्थं कुशलं मुक्तिपथस्य बीजम् आप्स्यम् // HJm_24.28
मदनुग्रहकाम्यया दधानस् तनुम् एताम् अतनुप्रभावगुर्व्वीम् मलयाद्रिवनान्तरे स्थितो ऽसि क्षपितक्लेश गदच्छलेन नूनम् // HJm_24.29
दधतीद्धरुचो मणिं समुद्राः स्फटिकच्छेदसितं पयः पयोदाः महतीं फलसम्पदं च वृक्षाश् चिरम् आयुश् च भवादृशाः परार्थम् // HJm_24.30
वाक्तन्तुभिस् तव गुणस्तुतिपुष्पमालां संग्रन्थ्य यत् कुशलमूलफलं मयाप्तम् प्रज्ञास्पदं दशबलत्वम् अवाप्य तेन भूयासम् अस्य जगतो भवभङ्गहेतुः // HJm_24.31
अथ स प्रत्येकबुद्धः तस्य ब्राहमणस्य बुद्धत्वाय प्रणिधिम् आकर्ण्य प्रमुदितमनास् तत्रैवान्तरधीयत । बोधिसत्त्वो ऽपि च महान्तम् इव लाभम् अधिगम्य
प्रत्येकबुद्धपदपांसुम् असौ निवेश्य मूर्ध्नि प्रसादसमुदीरितरोमकूपः आत्तौषधिर् मलयशैलवनान्तरालाल् लोकस्य रोगम् अपनेतुम् अगाज् जनान्तम् // HJm_24.32
तद् एवं स भगवान् बोधिसत्त्वभूतः सकललोकस्य क्लेशव्याधिम् अपहर्तुकामः करुणाप्रोत्साहितवीर्यबलः स्वखेदम् अगणयित्वा ग्लानम् प्रत्येकबुद्धं परिचचारेत्य् अतः कुशलफलम् अभिलषता कुलपुत्रेण ग्लानपरिचर्यायान् नानादरेण भवितव्यम् इति ॥
॥ मूलिकजातकं चतुर्थं ॥
26. जाज्वलिजातकम्
ध्यानप्रदीपभासा लब्धालोको ऽपि नैति निर्वाणम् / यद् बोधिं प्राप्तुमनास् तत् सत्त्वहितानुबन्धाय // HJm_26.1*
तद्यथानुश्रूयते । समधिगतवेदतत्त्वो विविधशास्त्राभ्यासविमलमतिर् अनेकासु विद्वत्सदःसु प्रसृतकीर्तिः स्वसमयव्यापारपरायणो गृहाश्रमम् अध्यावसन् कदा चित् बोधिसत्त्वो जाज्वली नाम ब्राह्मणो बभूव । स च महात्मा विदितगार्हस्थ्यदोषः प्रशमसुखाभिलाषी परिपूर्णविभवे ऽपि भवने रतिम् अलभमानः कदा चिद् एवम् अचिन्तयत् ॥
विभवे सति जायते मदः सति तस्मिन् प्रशमः कुतो भवेत् असति प्रशमे गतत्रपो मलिनं कर्म समीहते जनः // HJm_26.2
मुहुर् अप्रियसंप्रयोगदुःखं मुहुर् आधिः प्रियविप्रयोगकाले द्रविणार्जनखिन्नमानसानां यदि वाञ्छा विफला ततो विषादः // HJm_26.3
गृहिणाम् इति नित्यम् आकुलानां स्वजनस्नेहनिबद्धमानसानाम् सुखम् इत्य् अफलाभिमानभाजां तनुर् अप्य् अस्ति न निर्वृतिर् गृहेषु // HJm_26.4
गृहसंज्ञकम् इत्य् अपास्य कष्टं त्वरितं बन्धनम् एतद् आत्मकामः तपसाम् अभिवृद्धये वनान्तं प्रशमस्थानम् अहं ततः श्रयिष्ये // HJm_26.5
इति स चिन्तयित्वा महात्मा परित्यज्य गृहवासं स्तिमितसलिलवाहिन्या कुसुमिततटतरुशोभितया शास्त्राभ्यासनिर्मलयेव प्रज्ञया निम्नगयालङ्कृतभूधरैकदेशे विस्रब्धहरिणगणदशनदष्टशाद्वलरमणीये नलिनीवननिलीनकलहंसकादम्बचक्रवाकोपशोभिते योगिमनोऽनुकूले क्व चिद् अतिमहति वनान्तरे कृष्णाजिनशबलीकृतवक्षःस्थलः स्थानविशेषलाभपरितुष्टयेव ब्राह्म्या श्रियालिङ्गितमूर्तिर् मूर्तिमान् इव संतोषः कं चिद् विटपिनम् आश्रित्य योगाबद्धमनास् तपश् चरितुम् आरेभे ॥
ध्यानैकतानमनसा विजितेन्द्रियेण संतोषलाभसुखिना करुणान्वितेन यस् तेन संश्रित उदारधिया द्विजेन मेने मुदेव स तरुस् तरुतां कृतार्थाम् // HJm_26.6
तृणास्तरणम् आस्तीर्य नासाप्राहितलोचनः दध्यौ स ध्यायिनाम् अग्र्यो ध्येयम् एकाग्रमानसः // HJm_26.7
वीर्यपारमितामार्गवाहनोपचितश्रमम् ध्यानपारमिता धीरं व्यशिश्रमद् इवाथ तम् // HJm_26.8
कामेभ्यो ऽकुशलेभ्यश् च धर्मेभ्यो ऽवस्थितं पृथक् सवितर्कविचारं च विशुद्धात्मा विवेकजम् // HJm_26.9
कृतप्रीतिसुखास्वादम् आस्वादितशमामृतः स लेभे प्रथमं ध्यानं ध्याता मार्गस्य लब्धये // HJm_26.10
अवितर्काविचारं च विचारकुशलस् ततः सो ऽध्यात्मसंप्रसादाच् च द्वितीयं ध्यानम् आददे // HJm_26.11
विरज्य च शनैः प्रीतेः स्मृतिमान् समुपेक्षकः धीरः कायसुखास्वादी तृतीयं ध्यानम् आप सः // HJm_26.12
उपेक्षापरिशुद्धं च प्रहाणात् सुखदुःखयोः विरागाच् च ततः प्रीतेश् चतुर्थं ध्यानम् आययौ // HJm_26.13
एवम् असाव् उत्पादितचतुर्ध्यानो मूर्तिवत्येव करुणयालिङ्गितमूर्तिर् उपशमपरायणस् तत्र वने तिरश्चाम् अपि बन्धुर् इव विश्रम्भहेतुर् आसीत् ॥
मृगाः कपोताः शिखिनश् चकोराः भद्राशया व्यालमृगाश् च ते ते विहृत्य शिष्या इव काननान्ते विशश्रमुस् तस्य समीपम् एत्य // HJm_26.14
अथ तस्य महात्मनः कदा चिद् आबद्धपर्यङ्कस्य चरणसमीपावस्थितमृगमिथुनस्य ध्याननिश्चलनयनस्य प्रत्यासन्नप्रसवा कपोती तृणानि तनूनि च दारुशकलानि चञ्च्वादाय विनिबद्धजटाकलापमौलौ शिरसि निलीय किञ्चिन्निम्नमध्यकुलायं रचयित्वा तत्राण्डानि मुक्त्वा तृणबीजाश्वत्थफलाद्याहारकाङ्क्षिणी नभः समुत्पत्य वनान्तरेषु विहृत्य पुनः पुनर् आगम्य च तान्य् अण्डान्य् अवष्टभ्यावतस्थे ॥
ततः कपोतीतनुपिञ्छसंकुले तदङ्गसंपीडनसंभृतोष्मणि कुलायके ऽण्डानि विपाटलाङ्गकाः कपोतपोताः परिभिद्य निर्ययुः // HJm_26.15
विलोक्य शावान् अथ तान् कपोतिका मुहुर् जिघत्साविवृताग्रतुण्डकान् अचिन्तयित्वा महतीं निजां क्षुधं प्रियङ्गुनीवारफलैः पुपोष सा // HJm_26.16
कपोतकास् ते प्रभवत्तनूरुहा गृहीतबीजाम् अवलोक्य मातरम् मुहुर् मुखानि प्रच(2)लाग्रपक्षकाः प्रसारयाम् आसुर् उदीरितस्वराः // HJm_26.17
ध्यानावसानसमये ऽथ समित्फलार्थं शान्तेन्द्रियो जिगमिषुः स मुनिर् वनान्तम् दृष्ट्वा गृहीततृणवृक्षफलां कपोतीं तस्थौ कुलायवति मूर्ध्नि निलीयमानाम् // HJm_26.18
अथ बोधिसत्त्वो नियतम् अत्र मम जटाभारे विरचिततृणकाष्ठशकलालया प्रसूतेयं कपोती । यदि चाहम् उत्थाय समिधां कन्दमूलफलानां चाहरणाय गमिष्यामि ततो नियतम् एषा तपस्विनी स्थानम् इदम् आगम्य ॥
अनीक्षमाणाद्य कपोतपोतकान् इमान् प्रकाशीकृतताम्रतालुकान् निलीय वृक्षेषु शुचा मुहुर् मुहुर् नभः समुत्पत्य परिभ्रमिष्यति // HJm_26.19
अहो जन्मशतभ्रान्तिवासनैषानुवर्तते तिरश्चाम् अप्य् अपत्येषु संरूढो यद् अपह्नवः // HJm_26.20
यदि न स्युर् अपत्यानि मित्रं वा बन्धुर् एव वा स्वताक्षः स्यात् स्वताभावान् निर्बीजो ऽपह्नवः कुतः // HJm_26.21
असत्य् अपह्नवे चेतः परिवृण्वन्ति नाधयः असत्स्व् आधिषु निःसङ्गः सुखम् आस्ते शमान्वितः // HJm_26.22
उत्पाद्यापत्यसंज्ञानि दुःखानि क्लेशमोहितः खेदम् एति जनो मूढः पश्चात्तापेन तापितः // HJm_26.23
अनस्य् अनिच्छन्न् अपि गौर् बलीयसा यथा बलाच् छाकटिकेन योज्यते शुभाशुभेनैष कुबुद्धिर् अस्यते तथा भवोदन्वति कर्मणा जनः // HJm_26.24
तस्मात् कपोतशिशवो न भवन्ति यावद् अस्मज्जटालयगताः प्रविरूढपक्षाः ध्यानामृतोपचितचित्तशरीरतुष्टिः तिष्ठामि तावद् इह निश्चलमूर्तिर् एव // HJm_26.25
इति विचिन्त्य बोधिसत्त्वः कपोतशावकानुकम्पया क्षुधम् अविगणय्य पुनः पर्यङ्कम् आबध्य ध्यानसुखेनात्मानं प्रीणयाम् आस । प्रविरूढपक्षेषु कपोतशावकेषु मात्रा सह गगनं उत्प्लुत्य गतेषु तत्समीपनिवासिनी देवता समुपगम्य बोधिसत्त्वम् आलोक्य विस्मयसमध्यासितमतिर् अहो महात्मनो ऽस्य महर्षेः सत्त्वेष्व् अनुकम्पा यत् प्राक्तनात् ध्यानाद् उत्थाय कपोतकपरिरक्षणाय पुनर् अपि ध्यानेनात्मानं निश्चलीकृत्यायम् अवस्थितः ॥ न चैष महात्मा गतेष्व् अप्य् एतेषु कपोतकेषु कुलायम् इमं शिरस्तः समपनेष्यति । तद् अहम् एवास्य जटामुकुटविरचितम् एनं कपोतालयम् अपनेष्यामीति विचिन्त्य ॥
विकीर्णम् अन्तः क्व चिद् अण्डखण्डैः सा तं कुलायं मुनिसत्तमस्य शनैः शनैः पल्लवकोमलेन करद्वयेनापनिनाय मूर्ध्नः // HJm_26.26
गतायाम् च तस्यां देवतायां बोधिसत्त्वो ध्यानाच् चित्तम् अपनीय शिरसो लघुत्वम् अवेत्यैवं चिन्तयाम् आस ॥
प्ररूढपक्षेषु कपोतकेषु गतेषु मात्रा सह काननान्तम् केनापि भक्तिप्रवणेन नूनं तदालयो मे शिरसो ऽपनीतः // HJm_26.27
इति विचिन्त्योत्थाय स महात्मा समित्कुशकुसुमफलान्य् आनीय कृताभिषेकः ॥
हुत्वाग्निं स्फुरदुदितार्चिषं दिनार्धे व्यापङ्कं फलम् उपयुज्य बद्धगन्धम् नासाग्रस्थितनयनस् तरोर् अधस्ताद् आरेभे पुनर् अपि योगम् एकचित्तः // HJm_26.28
तद् एवम् ध्यानविलोकिततत्त्वः क्षमो ऽपि निर्वाणम् उपगन्तुं स भगवान् बोधिसत्त्वभूतो लोकहिताय बहूपद्रवे ऽपि संसारे परिभ्रान्तवान् इति विचिन्त्य बुद्धे भगवति परः प्रसाद उत्पादनीय इति ॥
॥ जाज्वलिजातकं षष्ठम् ॥
32. सिंह
तृणम् अपि रक्षन्ति बुधा यत्नेन महीयसान्यनिक्षिप्तम् / प्रज्ञागुरवः किं पुनर् अश्रान्ताः प्राणिनिक्षेपम् // HJm_32.1*
तद्यथानुश्रूयते धौतरजतस्तम्भानुरूपसतुहिनशिखराग्रस्खलनपरिजर्जरीकृतजलधरस्य मुक्ताचूर्णनिकरधवलप्रालेयोपरिव्याधगणानुसृतचमरखुरमार्गस्य हरवृषभविषाणोल्लेखविषमीकृतविविधकुक्षेर् अनेकभूर्जसरलदेवदारुनमेरुपद्मकवनश्यामनिकुञ्जस्य प्रसृतनिर्झरसलिलक्षालितमूलभूमेः क्षणदासमयज्वलितमहौषधित्वात् कृतप्रदीपसहस्रस्येव विद्याधरमिथुनपरिभोगसुरभीकृतमानससरस्तीरपर्यन्तलतागृहकान्तरस्य क्वचित् केसरितलप्रहारविनिपातितभीतप्रस्फुरितन्यङ्कुचरणक्षेपोत्खाततृणस्य क्वचिद् उमाचरणतलालक्तकाण्कितशाद्वलश्यामभूमेर् अन्यत्र शकुनितुण्डखण्डितपरिणततरुफलाकीर्णोपवनान्तरस्य पवनवितन्यमानोच्चावचकुसुमगन्धसुरभेः सुरभिमासप्रारब्धविटपिमुकुलाङ्कुरस्य कुररविनिपातशब्दभीतशकुनिकुलविमुच्यमानगङ्गातीरसलिलस्य सलीलकिन्नरमिथुनगीतश्रवणनिश्चलमृगकुलस्य तुङ्गशिखरतया क्षीरसागरस्येवोच्चताम् उपगतस्य हिमगिरेर् एकदेशे सादरम् इव तरुभिः कुसुमार्चितद्वारशिलातलां हरिततृणाङ्कुरोद्भेदश्यामपर्यन्तां विकचकमलेन सरसाभ्यलंकृतसमीपाम् अनतिमहतीं गुहाम् अध्यावसन्न् अतिबहलहरिद्रासलिलाभिषिक्तदुकूलसूत्रपरिपिङ्गकेसरनिरुद्धकन्धरः किसलयसुकुमारलोलतरजिह्वः किंचित्परिम्लानातिमुक्तककुसुमराशिपरिपाण्डुविग्रहः शशिकलाकोटिकुटिलतीक्ष्णदंष्ट्रः पृथूरस्कः पीवरप्रकोष्ठः प्रतनुमध्यः स्फुरितखदिराङ्गारकपिलनयनयुगलः श्येनतुण्डवृजिननखाङ्कुरः श्यामप्रान्तवालधिर् अलंकार इव तुहिनगिरेर् अनिन्दिताङ्गो नाम कदाचिद् अनुत्त्रासितद्विरदमृगो मृगाधिपतिर् बोधिसत्त्वो बभूव ।
अवेत्य तस्याथ निसर्गभद्रतां मुनेर् इव प्राणिषु भद्रचेतसः स्वभावभद्राः कमनीयलोचना मुदा मृगा बन्धुम् इवैनम् अन्वयुः // HJm_32.2
शमान्वितः केसरवल्कलाकुलो मृगानुयातो मृगराजतापसः शनैः स निष्क्रम्य गुहोटजान्तराच् चखाद पक्वानि फलानि शाखिनाम् // HJm_32.3
फलोपयोगाय वनान्तरे चरन् स खेलगामी चलचारुकेसरः महागृहस्थैर् अतिथिप्रियैर् इव प्रतीक्ष्यते स्मातिथिवन् महीरुहैः // HJm_32.4
गुहान्तरान् निष्पततो हिमात्यये प्रकाशतालोर् अतिमात्रजृम्भणात् ततान तस्याङ्गसुखं पुरः शनैर् दिवाकरः प्राभृतवन् नवातपम् // HJm_32.5
अयं मृगाणां पतिर् अत्र भूधरे पतत्रिणां तार्क्ष इवोरुविक्रमः इतीव तस्योपरि जातसंभ्रमा निशाकरच्छत्त्रम् अधारयन् निशा // HJm_32.6
पपौ स यस्यां सरिति क्षपाकरप्रसन्नम् अम्भः शिशिरं तटस्थितः कृतार्थम् आत्मानम् अमन्यतेव सा स्फुटं जहासेव च फेनपङ्क्तिभिः // HJm_32.7
हिमाचलस् तेन विशुद्धचेतसा महात्मना केसरिणा समाश्रितः महान्तम् आत्मानम् अतीव भासतो मुदेव मेने कनकाचलाद् अपि // HJm_32.8
क्व च भुवनभयंकरं हरित्वं क्व च करुणास्य गरीयसी मृगेषु इति मुनिम् इव तं स्थितं हिमाद्रौ मृगरिपवो ऽपि मृगाधिपं प्रणेमुः // HJm_32.9
अथ कदाचित् तस्य मृगपतेर् अवनिपतेर् इव सलीलम् आसन्नकुसुमितलतानर्तकीकिसलयाङ्गुलिसमाहन्यमानमधुकरश्रेणिवीणाशब्दरमणीये प्रसृतनिर्झरमृदङ्गध्वनिप्रवर्तितमयूरलासके गुहाद्वारे समुपविष्टस्य पुरस्तान् निष्पीदितालक्तकगुलिकापरिपाटलमुखम् अभिनवामलकीफलानुरूपनयनम् आत्तपरिणतोदुम्बराभ्यां शावकाभ्याम् अध्यासितस्कन्धं फलरसार्द्रमलिनकराङ्गुलीकं वानरमिथुनम् अभिप्रणम्योवाच ।
अनिन्दितम् अहो कर्म तव वाक्कायचेतसाम् अनिन्दिताङ्ग इत्य् एतत् त्वन्नामानुगुणं स्मृतम् // HJm_32.10
अहो त्यागक्षमावीर्यगाम्भीर्यकरुणादयः त्वद्गुणाः गुणिनां श्रेष्ठ मुनीन् अप्य् अतिशेरते // HJm_32.11
अहो वृत्तेन शुद्धेन भवतः शुद्धचेतसः परं मार्दवम् आनीतं क्रूराणाम् अपि मानसम् // HJm_32.12
धन्यो ऽयं धन्यहिमवान् हिमच्छन्नशिलातलः इति धीरस्वभावेन यस् त्वया समुपाश्रितः // HJm_32.13
तस्माद् इमौ शिशू भीमव्यालदर्शनभीरुकौ निक्षिप्य त्वयि गच्छावो वनम् आवां फलार्थिनौ // HJm_32.14
उपादाय फलं यावद् आव्रजावो वनान्तरात् रक्षणीयौ त्वया तावद् एतौ चपलगात्रकौ // HJm_32.15
कापेयं चपलत्वं च तुल्यकालम् इदं द्वयम् तस्माद् आभ्यां कृता बाधा सोढव्या भवता क्षणम् // HJm_32.16
दुःखान्य् अपि गरीयांसि परार्थप्रतिपत्तये सहन्त एव धीमन्त आत्मसौख्यानपेक्षिणः // HJm_32.17
भयम् इच्छति यो हर्तुम् अत्यन्तम् भीरुचेतसाम् मनःसंतापिनीं पीडां स कथं न सहिष्यते // HJm_32.18
इति समभिहितः स तेन सिंहः कपिमिथुनेन सुताभिरक्षणाय नृप इव पररक्षणक्षमो ऽपि क्षणम् इदम् आकुलतां गतः प्रदध्यौ // HJm_32.19
शक्यते हि महान् अपि कनकराशिर् अन्यनिक्षिप्तो ऽभिरक्षितुम् । कथम् इमौ चपलप्रकृती वानरशिशू रक्षणीयाव् इति । अथ वा येन मया सकलम् एव संसारभयाज् जगत् परिपालनीयं सो ऽहम् एतौ न परिपालयिष्यामीति न तु युक्तम् इदं मया वितर्कयितुम् इति स महात्मा विनिश्चित्य तत् प्रवङ्गमिथुनम् उवाच ।
तद् गच्छतं तुहिनशैलम् इमं विगाह्य तुङ्गैः स्नुभिर् गगनमध्यम् इवोल्लिखन्तम् स्वादूनि शीघ्रतरम् आनयतं फलानि प्रेम्णा शिशुद्वयम् इदं परिपालयामि // HJm_32.20
अथ तत् कपिमिथुनं बोधिसत्त्वसमीपे तत् पुत्रकद्वयं विनिक्षिप्य सान्त्वयित्वा च त्वरिततरगमनं फलोपनयनाय हिमवद्वनान्तराणि परिबभ्राम । अचिरगतयोश् च तयोः कप्योस् तस्मिन् महात्मनि केसरिणि पितरीव तौ कपिशावौ प्रेमाबबन्धतुः । अनिन्दिताण्गश् च ताभ्यां परिणतिस्वादूनि शिथिलदशनप्रान्तगृहीतानि फलानि प्रायच्छत् । तौ च प्रकृतिचपलतया तस्य महात्मनस् तां तां विहेठनां चक्रतुः ।
गुहाजिरोपान्तवने मनोहरे हरेः सुषुप्सोः सुखशीतमारुते रुतेन तौ वानरशावकौ मुहुर् मुहूर्तनिद्रासुखम् अस्य जघ्नतुः // HJm_32.21
निद्रानिमीलिते किंचित् पुनस् तस्य विलोचने अङ्गुलिभ्यां तुतुदतुः स्फुलिङ्गापिङ्गतारके // HJm_32.22
सुखं तस्योपविष्टस्य स्थित्वाचकितम् अन्तिके प्रान्ते लाङ्गूलम् आदाय समाचकृषतुर् मुहुः // HJm_32.23
सटां व्यालम्ब्य पृष्ठं च तस्यारुह्य पुनः पुनः सहजाच् चापलाद् दूरम् उत्पत्योत्पत्य पेततुः // HJm_32.24
विद्यमानेष्व् अपि पुरः प्रभूतेषु फलेषु तौ जिघत्सोर् आननात् तस्य समाचिक्षिपतुः फलम् // HJm_32.25
इति दुश्चेष्टितं तत् तत् तयोर् वानरशावयोः करुणाभद्रचित्तत्वात् स सेहे पुत्रयोर् इव // HJm_32.26
सर्वत्र समचित्तानां सुखदुःखानपेक्षिणाम् सतां सर्वधुरीणानां न क्वचित् खिद्यते मनः // HJm_32.27
अथ कदाचिद् अतिपरुषविपुलपक्षसंघातः कुटिलकर्कशनखाग्रः प्रकृतिरौद्रनयनः क्वचिद् अलब्धपिशिताहारः परिभ्रम्य गगनतलं निशातक्षुरतीक्ष्णतुण्डः क्षुरको नाम गृध्रः सशब्दवेगः सहसावपत्य तौ बोधिसत्त्वसमीपवर्तिनौ फलास्वादेन चलितधवलतनुदन्तपङ्क्ती वानरशिशू भयविवृतविकृतमुखकौ विरसतरव्याहृती चरणाभ्याम् आदाय त्वरिततरम् अन्तरीक्षम् उत्पत्य हिमगिरिशिखरे व्यलीयत । बोधिसत्त्वो ऽपि च कष्टं कष्टम् इत्य् अभिधाय यद्य् अहम् एनं गृध्रं पराक्रमेणाभिद्रवेयं पुनर् अयम् उत्पत्यान्यत्र विषमतरे शिखरे निलीय प्रवगशिशुद्वयम् इदम् विपादयेत् । सर्वथा नेदं कपिशिशुद्वयं मया शक्यते द्रष्टुम् ।
अभिवर्धितवेदनाकुलाक्षं विरसव्याहृतिलक्ष्यतालुरन्ध्रम् उदरस्रुतशोनितार्द्ररोम क्षुधितश्येनविलुप्यमानमांसम् // HJm_32.28
अनेन गृध्रेण विलुप्तमांसके प्रकामम् अस्मिन् कपिशावकद्वये फलान्य् उपादाय तयोर् उपेतयोः किम् अद्य शक्ष्याम्य् अभिधातुम् अग्रतः // HJm_32.29
पातुं गतौ चपलकौ सरसो जलं नु वृक्षं फलार्थम् अभिरुह्य नु किं निविष्टौ स्याताम् इमां किम् अथ वाद्रिगुहां प्रविष्टौ व्यालेन केनचिद् उतात्र विपादितौ तौ // HJm_32.30
तूष्णीं स्थितो मृगपते किम् अधोमुखस् त्वम् आचक्ष्व ताव् इह शिशू क्व गतौ भवेताम् इत्थं तयोः प्रवगयोः परिदीनदृष्ट्योः श्रोष्यामि विह्वलपदानि कथं वचांसि // HJm_32.31
उपलभ्य चिरात् तयोर् अभावं सुतयोः कुन्दविपाण्डुदन्तपङ्क्त्योः समुपेत्य शुचा करिष्यतस् तौ बडिशोत्तारितमीनवेपनानि // HJm_32.32
तद् इदम् अत्र प्राप्तकालं मन्ये ।
यावद् व्याघ्रनखाङ्कुराकृतिभृता चञ्च्वा विभिद्योदरे गृध्रो ऽयं कपिशावयोर् भयवतोर् अन्त्राणि नाकर्षति गत्वा तावद् अहं हिमाद्रिशिखरप्रान्तं निवेश्योन्मुखः सान्त्वेनैनम् उपायपूर्वकम् अहं नेष्यामि धर्म्यां स्थितिम् // HJm_32.33
इति विचिन्त्य स महात्मा गृध्रसमीपम् आगम्योवाच । भो शकुनिवर मम हस्ते पितृभ्याम् एतौ शावकौ निक्षिप्तौ तन् न युक्तं भवतो विवृतदशनदीनमुखकौ विरसस्वरौ विपादयितुम् एनाव् इति ।
नूनं तवाप्य् अपत्यानि भूतपूर्वाणि सन्ति वा यादृशो भवतस् तेषु स्नेहो ऽन्यस्यापि तादृशः // HJm_32.34
इति कारुण्यम् आलम्ब्य मा वधीः कपिशावकौ तृप्तिर् आत्यन्तिकी नास्ति भुक्त्वाप्य् एनौ तवातुरौ // HJm_32.35
धिग् अहो जीवितं तस्य धिग् आत्मस्नेहम् ईदृशम् यः शरीरकलेः पुष्टिं करोति परहिंसया // HJm_32.36
अज्ञानाज् जायते स्नेहः सदोषे ऽपि शरीरके तत्पुष्टये करोत्य् अज्ञो निमित्तकर्म दुर्गतेः // HJm_32.37
आत्मात्मीयविनाभावाद् यः शून्यं सर्वम् ईक्षते तस्याभूतविकल्पोत्थं न रुणद्धि मनस् तमः // HJm_32.38
तमोऽभावाद् यदा तत्त्वम् आसादयति कोविदः तदा भवति मोक्षाय शुभाशुभपराङ्मुखः // HJm_32.39
सिंहान् नान्यो मांसभुक् कश्चिद् अस्ति क्रूरो वेति स्पष्टम् एतत् पृथिव्याम् सैंहीं कष्टां योनिम् अप्य् आश्रितो ऽहं नेच्छाम्य् एतां प्राणिहिंसाम् अधर्म्याम् // HJm_32.40
मृगम् इह गहने मृगेन्द्रजुष्टे मृगरिपुणाभिहतं स्वयं मृतं वा खगवर नभसि भ्रमन् निरीक्ष्य द्रुतगतिर् अत्स्यसि तस्य मांसम् एत्य // HJm_32.41
क्षुधम् अपि महतीं ततो ऽधिवास्य ज्वलनशिखाम् इव देहम् उत्तपन्तीम् नरकनिपतनाय मा स्म कार्षीर् अकुशलम् ईदृशम् उज्झिताप्रमादः // HJm_32.42
अन्तःसत्त्वास्थिसंधिस्फुटनतटतटाशब्दहुंकारभीमाः संतन्वन्तः स्फुलिङ्गानिकरम् उरुशिखालोहितध्यामभीमाः लोलज्वालाकलापा नरकहुतभुजः सूरिभिः कथ्यमानाः कुर्वन्त्य् आधिं जनस्य श्रवणम् अपि गताः किं पुनः संस्पृशन्तः // HJm_32.43
आयस्यां कूणिताक्षं ज्वलितहुतवहस्पर्शसंतापितायां कुम्भ्यां गाढं नदन्तं क्वथितपरिचलत्तैलपूर्णास्यकण्ठम् आलोक्यालेख्यभित्तौ लिखितम् अपि नरं नारकं पच्यमानं हिंस्रो ऽपि क्रूरभावात् क इव न विरमेद् दुर्गतिप्राप्तिहेतोः // HJm_32.44
श्रुत्वा दुर्गतिदुःखानि विरमत्य् अशुभान् न यः सो ऽनद्धापुरुषाकारः पाषाणहृदयो ऽपि वा // HJm_32.45
अथ स गृध्रो बोधिसत्त्वधर्मदेशनाप्रसादितमतिर् अभिप्रणम्योवाच । मृगपते प्रकाशितम् इदम् भवता बाललक्षणम् । पण्डितलक्षणम् इदानीं व्याख्यातुम् अर्हसीति । अथ बोधिसत्त्वः प्रसन्नमनसम् एनम् अवेत्योवाच । यद्य् एवम् अतः श्रूयतां पण्डितलक्षणम् इति ।
अलाभे लाभे वा सुहृदि हितवाचि द्विषति वा स्तुतौ निन्दायां वा महति विभवे वा विपदि वा विकारं यो नायात्य् उपशमविशुद्धेन मनसा स्थितः स प्राज्ञानाम् उपरि सवितेव द्युतिमताम् // HJm_32.46
अथवा किम् अनेन भवतः पण्डितलक्षणश्रवणेन । विमुच्येताम् एतौ कपिशावकाव् आत्मानम् एवाहं ते प्रदास्यामीति ।
त्वम् अद्धि मांसं पिब शोणितं च ममाक्षिणी चोद्धर निश्चलस्य इतीदम् उक्त्वा विनिमीलितेक्षणश् चिरं विनिष्कम्पतनुर् बभूव सः // HJm_32.47
दध्वान दुन्दुभिर् अथ ध्वनिना दिगन्तान् आपूरयन् सुरपतेः पुरमध्यवर्ती गृध्राय दत्ततनुम् आनमितैः शिरोभिः सिंहं स्थिता नभसि तुष्टुविरे च सिद्धाः // HJm_32.48
चचाल भूश् चलितसुवर्णभूधरा विसिस्मिये त्रिदशगणः सवासवः उदीरितस्तुतिभिर् अहीश्वरैर् अपि प्रपातितास् तदुपरि पुष्पवृष्टयः // HJm_32.49
अथ केसरिणो गुहान्तिके निदधौ वानरशावकौ खगः नखभिन्नतनू विनिश्चलौ भयमूर्च्छाविनिमीलितेक्षणौ // HJm_32.50
शनैर् उपागम्य च बोधिसत्त्वम् उत्थापयामास स गृध्रवर्यः स्थितो ऽग्रतस् तस्य विनीतभावो जगाद भक्त्या स्तुतिम् ईदृशीं च // HJm_32.51
दयालुता क्वेयम् अहो तवोच्छ्रिता क्व सिंहतेयं जगतो भयंकरी चिराय केनापि विशेषहेतुना भवान् मुनिः को ऽपि मृगाधिपायते // HJm_32.52
प्रज्ञावलम्बि यस्यैव समदुःखसुखं मनः स एव प्राणमूल्येन क्रीणात्य् आपद्गतं परम् // HJm_32.53
त्वादृशा न भवेयुश् चेत् स्थिराः सज्जनसेतवः दुःखोदन्वति मज्जेयुर् अगाधे महति प्रजाः // HJm_32.54
इमाम् आकर्ण्य कल्याणीं भवतो धर्मदेशनाम् अद्यारभ्य करिष्यामि वैरिष्व् अपि दयाम् अहम् // HJm_32.55
पृच्छामि च भवन्तं किं पुनर् अनेन तपसा पदम् अभिलषसीति । बोधिसत्त्व उवाच ।
अनादिसंसारविवर्तनश्रमप्रबाधनादुःखपरंपराहतम् जगत् समुद्धर्तुम् इदं भवोदधेस् तथागतत्वाय ममायम् आदरः // HJm_32.56
गृध्र उवाच । ईदृङ् महाप्रज्ञस्य भवतो न दुर्लभं बौद्धं पदं सर्वथा ।
गम्भीरैर् अदुरासदैः सदसतां विज्ञातृभिः कर्मणां शास्त्राविष्कृतबुद्धिभिः परहितव्यापारसक्तात्मभिः साध्वीनाम् अवगन्तृभिर् भवभिदां ताथागतीनां गिरां मोहच्छेदि भवे भवे भवतु नो युष्मद्विधैः संगतम् // HJm_32.57
गुहान्तिके मया तत्र स्थापितौ कपिशावकौ तस्मान् माम् अधुना साधो विसर्जयितुम् अर्हसि // HJm_32.58
बोधिसत्त्व उवाच । अहो पटुविज्ञानो ऽसि यत् त्वयायम् अस्मदुपदेशो गृहीतः ।
बोध्यं बन्धुगिरा स्फुटीकृतम् अपि स्थूलं न गृह्णाति यः सूक्ष्मे वस्तुनि तस्य शास्त्रविषये व्यर्थं मतिः खिद्यते द्रष्टुं यस्य न शक्तिर् अस्ति भवनद्वारं प्रकाशे सति च्छिद्रं सूक्ष्मतरं स जाततिमिरः सूच्याः कथं द्रक्ष्यति // HJm_32.59
उपदेष्टरि सत्य् अपि प्रमादी न हि बालो मतिवामतां जहाति ऋजुताम् उपनीतम् अप्य् अभीक्ष्णं पुनर् आगच्छति वक्रतां श्वपुच्छम् // HJm_32.60
उपदिष्टपथः प्रसन्नशास्त्रैर् अनवाचीनमतिर् न यात्य् अमार्गम् पटुभद्रमनाः परीतदेहः पटुभिर् वेणुधरैर् इव द्विपेन्द्रः // HJm_32.61
अयम् अक्षगणः सुसंयतो न विकारं कुरुते विपश्चितः सुगृहीतफणो भुजङ्गमो न हि शक्नोत्य् अपराद्धुम् अण्व् अपि // HJm_32.62
अपकारफलं जनस्य गाढं पदम् ऐश्वर्यम् असज्जने तनोति हरितालम् अहेर् निषिक्तम् अन्तर् वदने तीव्रतरं विषं करोति // HJm_32.63
जितम् इन्द्रियवैरिभिः प्रमादाज् जनम् इच्छा विनिपातयत्य् अनर्थे प्रविलीनसुवर्णदर्शनीया शलभं दीप्तिर् इव स्फुरन्तम् अग्नौ // HJm_32.64
अविपश्चितम् इन्द्रियार्थसक्तिः पुरुषं पातयति स्वधर्ममार्गात् श्लथबन्धनरुद्धनाभिमूलं फलम् अग्राद् इव पादपस्य पक्तिः // HJm_32.65
न चेद् भवेयुः प्रकृतिप्रबाधना विषद्रुमाशीविषशस्त्रवह्नयः असज्जनस्याविलतीक्ष्णचेतसः समा भवेत् केन पुनः सहोपमा // HJm_32.66
अकारणक्रोधक उष्णभाषणः खलो भृकुट्या विषमीकृतेक्षणः अनेकरन्ध्रोत्थितभीमपन्नगः करोति वल्मीक इवाधिकं भयम् // HJm_32.67
निशातया रोषशिलातले दृढं परोपघाताय मुदाभ्युदीर्णया दुनोति कं नाम न गोचरं गतं गतत्रपो वागसिधारया खलः // HJm_32.68
शठत्वसंनाहभृतः खलाश् चिरं दुरावराश् चेन्द्रियसैन्यमध्यगाः अरुंतुदाः साधुजने ऽपि निष्कृपाः कृपाणधाराम् इव पातयन्ति गाम् // HJm_32.69
बुधो न विश्वासम् इयाद् असज्जने विनीतवेषे ऽपि मनोज्ञवाच्य् अपि सुरूपदेहो ऽपि कलस्वनो ऽपि सन् न किं मयूरः स्फुरतो ऽत्ति पन्नगान् // HJm_32.70
यदीष्यते चित्तकुटुम्बपोषणं चिराय वा धीमहिषीविवर्धनम् अतो विपश्चिज्जलदोदये सति प्रकीर्यतां सद्गुणबीजम् आत्मनि // HJm_32.71
चिराय सत्संगतशुद्धमानसो न यात्य् असत्संगतम् आत्मवान् नरः मनोहरेन्दीवरपुष्पगोचरो न जातु भृङ्गः कुणपे निलीयते // HJm_32.72
रणगतस्य यथा रतिर् उद्भवत्य् अनपराद्धशरस्य धनुष्मतः गुणशरैर् अतिदूरनिपातिभिः प्रहतदोषरिपोः सुधियस् तथा // HJm_32.73
अतिविशुद्धम् अहार्यम् अकृत्रिमं गुणविभूषणम् आर्यजनार्चितम् समुपलभ्य नरस्य न जायते सुरवराभरणेष्व् अपि विस्मयः // HJm_32.74
सुखम् अत्यन्तम् अन्विच्छन् गुणानां वा समुद्भवम् असज्जनम् अतस् त्यक्त्वा कल्याणं मित्रम् आश्रयेत् // HJm_32.75
न जातु प्रीतये साधोर् अनार्यजनसंगतम् स्नातस्य तीर्थसलिलैः शुक्लेतरम् इवाम्बरम् // HJm_32.76
संपर्केण तमोभिदाम् जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतिं विहाय मलिनाम् आलम्बते भद्रताम् यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपां पत्युः पयः क्षारताम् // HJm_32.77
तद् गम्यताम् यथासुखम् इति बोधिसत्त्वेनाभिहितः स पक्षी तं महात्मानं प्रदक्षिणीकृत्य गगनतलम् उत्पत्य परिभ्रमन् ददर्श रुधिराभिरक्तनखमुखश्मश्रुणा व्याघ्रेणोपयुज्यमानमांसम् उपचितमेदःपीवरस्कन्धम् अभिनवमुस्तास्वादनसुरभीकृतवदनान्तरालम् अवनितलोत्किरणमलिनकुटिलदंष्ट्राद्वयम् ईषत्पङ्कोपदिग्धशरीरम् अनतिदूरावस्थितगृध्रमण्डलपरिवृतम् उपान्ततरुनिलीनमुखरवायसगणावलोक्यमानं वराहतरुणम् । आलोक्य चैवम् अचिन्तयद् यावद् अयं व्याघ्रः कृताहारपर्याप्तिर् भूत्वा स्वनिलयं गच्छति तावद् अहम् एकान्ते तिष्ठामीति स्थित्वा च क्रमेण ।
शार्दूले प्रमनसि तत्र लब्धतृप्तौ संगत्या स्ववसतिम् आगते सलीलम् वाराहं पलम् उपयुज्य बद्धमेदः श्येनो ऽपि स्वनिलयम् आजगाम तूर्णम् // HJm_32.78
मृगपतिर् अपि भानौ किंशुकोत्तंसरागे स्थितवति कनकाद्रेर् मूर्ध्नि भास्वन्मयूखे तरुविटपकुलायालीनचञ्चद्विहङ्गचलितमृदुसटान्तः स्वं निवासं जगाम // HJm_32.79
दृष्ट्वा च तौ क्षुरकनखविभिन्नतनू तनूभूतचेष्टौ मूर्च्छावशविनिमीलितनयनौ कपिशिशू दुःखायमानहृदयो भवतु सलिलाभिषेकेणानयोर् मूर्च्छापनोदं करिष्यामीति विचिन्त्य ।
निरुद्धम् अम्भस्तटसेविभिर् विभिर् निरन्तरम् पल्लवविद्रुमैर् द्रुमैः शनैर् उपेतालि कुशेशयाशया व्यगाहतापिञ्जरकेसरः सरः // HJm_32.80
अवगाह्य च तत् सरो महद् द्रुतम् उत्तीर्य विलम्बिकेसरः स गुहान्तिकम् आगमन् मुहुश् चरणन्यासविभुग्नशाद्वलम् // HJm_32.81
शितगृध्रनखक्षताङ्गयोर् अथ शाखामृगशावयोस् तयोः उपरि त्वरितं स केसरं सलिलस्रावि दुधाव केसरी // HJm_32.82
हरिकेसरवारिसिच्यमानौ गुरुमूर्च्छापगमाद् उपेतसंज्ञौ उदमीलयतां विलोचनानि स्फुरितोत्तानमुखौ प्रवङ्गशावौ // HJm_32.83
गृध्रातिभीतपरिवेपितकातराङ्गौ तौ तस्थतुर् मृगपतेश् चरणान्तम् एत्य आलोलपल्लवमनोहरयाथ सो ऽपि स्नेहेन तौ रसनया मुहुर् आलिलेह // HJm_32.84
वृन्तच्युतं परिणतं फलम् आदयित्वा प्रेम्णा मुहुः स्वतनयाव् इव सान्त्वयित्वा खद्योतदीपतरलां स्वगुहां प्रविश्य सुष्वाप तौ स परिरभ्य सुखं निशायाम् // HJm_32.85
क्रमेण च परिम्लानमालतीकुसुमशेखरपरिधूसरनिशाकरपरिमुच्यमानपश्चिमदिग्भागायां स्ववसतिस्थानोत्थितमात्रहरिणदशनादश्यमानतृणाङ्कुरायां पूर्वसंध्यासंरज्यमानसागरसलिलायां प्रविरलीभवन्नक्षत्रगणायां कमलवनप्रबोधरमणीयतरसलिलाशयायां तरुविटपावतरणचलितशिखिकलापमनोहरतरवनान्तरायाम् अपगतायां रात्रौ गुहासमीपतरुलताकुसुमपर्यन्तसंचारिणीभिर् अलिकुलावलीभिः सादरम् उपगीयमान इवानिन्दितकर्मानिन्दिताङ्गः ।
तपने तपनीयकुम्भवद् दिशम् आक्रामति शातमन्यवीम् शनकैः कपिशावकान्वितः स्फुरितालम्बिसटो विनिर्ययौ // HJm_32.86
अथ गृहीतफलं फललुब्धकौ स्वतनयाव् अवलोकयितुं मुदा मृगपतेर् वसतिं द्रुतम् उत्सुकं प्रवगयोर् मिथुनं द्रुतम् आगमत् // HJm_32.87
उपगतं गतमानमदोदयो मृदुपदं मृदुवाक् करुणान्वितम् कृतनमस्कृति तन् मिथुनं हरिः कुशलपूर्वम् अभाषत लोकवित् // HJm_32.88
कपिशावकयोः सर्वम् यथावृत्तम् अनुक्रमात् ततश् चरमम् आचख्यौ गृध्रापहरणं तयोः // HJm_32.89
अतिक्रान्ताम् अथ श्रुत्वा व्यापदं पुत्रयोः शुचा गृध्रक्षतानि गात्राणि तयोः पस्पृशतुः कपी // HJm_32.90
ऊचतुश् चेदम् आर्द्रार्द्रं स्तुतियुक्तं मृगाधिपम् भवता रक्षता पुत्राव् आवाम् अपि सुरक्षितौ // HJm_32.91
तन्वन् धर्मकथागङ्गां चिह्नितो गुणसानुभिः यशस्तुहिनसंछन्नो जङ्गमस् त्वं हिमाचलः // HJm_32.92
ये न मान्ति तनोर् अन्तर् असंख्या भवतो गुणाः मन्ये केसरतां प्राप्य ते ऽमी बहिर् अवस्थिताः // HJm_32.93
स्तिमितम् उदधेः क्षुभ्णात्य् अम्भः पतत्रिपतिः पतञ् जलदपटलच्छन्नस्येन्दोः प्रसर्पति न द्युतिः तव पुनर् अघव्युच्छेदिन्यां स्थितौ स्थितम् अन्यतां न तु गमयितुं चेतः शुद्धं रजस्तमसी क्षमे // HJm_32.94
पालयित्वा सुताव् एताव् आवयोर् यच् छुभं त्वया प्राप्तं तेनातिमहता लभस्व प्रार्थितं फलम् // HJm_32.95
तद् इमाव् उपगृह्य पुत्रकौ भवता यत्नवताभिपालितौ बहुबन्धुपरीतगह्वरां वसतिं याव वनान्तरे निजाम् // HJm_32.96
तेन प्रोक्तौ यातम् इत्य् उत्सुकौ तौ कृत्वा भक्त्या वन्दनां तस्य साधोः शान्तस्थानात् पुत्रकारूढपृष्ठौ मन्दं मन्दं जग्मतुः काननान्तम् // HJm_32.97
यातोः पित्रोः पृष्ठमध्याधिरूढौ लग्नौ गाढं स्कन्धरोम्णां समूहे व्यावर्त्येषल् लोचनान्य् उत्सुकौ तौ भूयो भूयो दृष्टवन्तौ मृगेन्द्रम् // HJm_32.98
तं निक्षेपं सर्वनिक्षेपसारं सारप्रज्ञागोचरः सो ऽर्पयित्वा स्कन्धाद् भारं स्थापयित्वेव भूमौ खेदच्छेदाद् भूयसीं प्रीतिम् आप // HJm_32.99
नान्यत् कष्टतरं किंचित् प्राणिनिक्षेपधारणात् प्रत्यर्पणाच् च तस्यैव नान्यद् अस्ति सुखम् नृणाम् // HJm_32.100
तद् एवं तेन भगवता तिर्यग्गताव् अपि वर्तमानेन सुचिरम् अभिरक्षितः प्राणिनिक्षेपः । तदवस्थेनापि च प्रज्ञापरिचयः कृत इति विचिन्त्य
यस् तेन धर्मनिक्षेपो निक्षिप्तः साधु तायिना पालनीयः स युष्माभिर् अत्यन्तं सुखम् इच्छुभिः // HJm_32.101
॥ इति सिंहजातकम् ॥
35. शाक्यसिंह
विजहति दिव्यम् अपि सुखं त्रिभुवनहितकाम्यया महात्मानः / परदुःखं हि गरीयो दुःखयति दयावतां चेतः // HJm_35.1*
तद्यथानुश्रूयते सकलपारमिताधिगमात् प्रत्यासन्नबोधिः स्वप्रभयावभासिताङ्गः कदाचिद् बोधिसत्त्वस् तुषितभवने समुदपादि । स च महात्मा तन्निवासिनां देवानां धर्म्यया कथया सन्मार्गम् अभिप्रकाश्यैवम् अचिन्तयत् । कृतयुगे हि धर्मपरायणो लोकः सुखम् अवतार्यते सत्पथम् । अस्मिंस् तु कलियुगे मदमानलोभरागद्वेषमोहवशीकृताः प्राणिनः सुखलवमोहितात्मानो दुर्गतिपरायणाः । तन् मया युक्तं बोधिम् अवगम्य संसाराज् जगद् उद्धर्तुम् इति । मध्यदेशे च श्रद्धाविशुद्धमना लोकः । यश् चैष शुद्धोदनः कपिलवस्तुनि महानगरे नरपतिर् अयम् अतीव सच्चरितेन महर्षीन् अप्य् अतिशेते । तद् अस्यैवाग्रमहिष्या मायायाः कुक्षौ जन्मपरिग्रहं करिष्यामीति विचिन्त्य निशि सुप्तायाः स्वप्ने ।
कृत्वा हिमाद्रिधवलं गुरुषड्विषाणं दानाधिवासितमुखं द्विरदस्य रूपम् शुद्धोदनस्य वसुधाधिपतेर् महिष्याः कुक्षिं विवेश स जगद्व्यसनक्षयाय // HJm_35.2
अथ देवी महामाया राज्ञे तं स्वप्नं निवेदयामास । देव स्वप्ने किल ममाद्य शरदम्बुधरावदातः षड्दन्तो गजेन्द्रो दक्षिणं कुक्षिं भित्त्वोदरं प्रविष्ट इति । ततः स राजा तं स्वप्नं स्वप्नफलविदां द्विजातीनां पुरस्ताद् वर्णयामास । ते च ब्राह्मणास् तम् ऊचुः । महाराज चक्रवर्ती ते पुत्रो भविष्यतीति । स च राजा प्रतीतमनास् तान् द्विजातीन् सत्कृत्य विससर्ज ।
सान्तःपुरजना देवी कदाचिद् अथ लुम्बिनीम् जगामानुमते राज्ञः संभूतोत्तमदोहदा // HJm_35.3
शाखाम् आलम्बमानायाः पुष्पभारावलम्बिनीम् देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ // HJm_35.4
तं जातमात्रम् अथ काञ्चनयूपगौरः प्रीतः सहस्रनयनः शनकैर् अगृह्णात् मान्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान् निर्मले च विनिपेततुर् अम्बुधारे // HJm_35.5
संस्थापितो बलभिदा जगदेकनाथो धीरः क्रमेण भुवि सप्तपदानि गत्वा अत्यद्भुतां गिरम् इमां निजगाद शान्तां जन्मेदम् अन्त्यम् इति मे तमसाम् अभावात् // HJm_35.6
तस्य प्रभाथ मुषिताशिशिरांशुदीप्तिः शान्तात्मनो वसुमतीम् अवभासयन्ती इद्धैः पतङ्गशशिनोः किरणैर् अभेद्यं भीमान्धकारनरकेषु तमो बिभेद // HJm_35.7
अयम् अयम् महात्मा धर्मराजो ऽभिषिक्त इति प्रमुदितमनोभिर् अमरैश् चाम्बरतले दुन्दुभयो ऽभिजघ्निरे । शिबिकाम् चाधिरुह्य देवी बोधिसत्त्वम् आदाय स्वभवनम् अगमत् । अथात्यद्भुतविस्मितमनाः शुद्धोदनः सर्वबन्धनमोक्षं कारयित्वा समुच्छ्रितध्वजपताकविचित्रविपणिमार्गम् अतिसुरभिगन्धोदकोक्षितवसुधातलम् अभिनवकुसुमोपहारशबलरथ्यान्तरं कपिलवस्तुनगरम् अकारयत् ।
शबलहरिणकृत्तिच्छादितस्कन्धदेशं निचयम् अनलभासाम् उद्वहन्तम् जटानाम् असितम् अनसितानां कर्मणाम् संनिधानं क्षितिपतिर् अशृणोत् खाद् आपतन्तं जनेभ्यः // HJm_35.8
अथ स राजाभ्युत्थाय तं महर्षिं विदितबोधिसत्त्वजन्मानं प्रविशन्तम् अभिगम्याभिवाद्यार्घप्रदानादिना च सत्कारेण सत्कृत्य कृतासनपरिग्रहं चैनं कुशलं पृष्ट्वा धात्र्यङ्कगतं बोधिसत्त्वं दर्शयन्न् उवाच । भगवन् दृश्यतां तावद् अयं मे तनयः किं दीर्घायुः स्याद् इति । अथासितो बोधिसत्त्वम् आलोक्य चैवम् अचिन्तयत् ।
यथायं लक्षणैः स्पष्टैर् भूषणैर् इव भूषितः जगद्दुःखापनोदाय तथा बुद्धो भविष्यति // HJm_35.9
यदायं भविता बुद्धो यास्यामि मरणं तदा श्रोष्यन्त्य् अस्मात् कथां धर्म्यां ये ते धन्याः शरीरिणः // HJm_35.10
इति चिन्तयतस् तस्य महर्षेः शुद्धचेतसः नयने नतपक्ष्माग्रे बभूवतुर् उदश्रुणी // HJm_35.11
अथ शुद्धोदनः साश्रुनयनम् असितम् अवलोक्य ससंभ्रमम् उवा- च । नियतम् अयम् अल्पायुः । तेन भगवान् साश्रुलोचनः सम्वृत्तः । कष्टम् अविकसितम् एव मे तनयकमलम् इदम् अन्तकद्विरदपतिर् उन्मूलयिष्यति । असितो ऽब्रवीत् । अलम् अलं महाराज शोकेन । अहम् आत्मानम् अनुशोचामि । यदायं विषयान् उत्सृज्य जरामरणग्रस्तान् देहिनो ऽवलोक्य संविग्नमनास् तपोवनं गत्वा बुद्धो भविष्यति तदाहं पञ्चत्वम् उपयास्यामीत्य् अतो मम शोकेन साश्रुम् इदं चक्षुः कृतम् इत्य् अभिधाय गते तस्मिन् महर्षौ सिद्धार्थ इति नाम बोधिसत्त्वस्य कृत्वाचिरेणैव कालेन गुरुसकाशाद् अधिगतसर्वविज्ञानस्य तस्य सदृशात् कुलाद् यशोधरां नाम वरयित्वा वधूम् आनिनाय । कथम् अयं जरामरणरोगानभिज्ञ एव मे तनयः स्याद् इति विचिन्त्य शुद्धोदनो ऽन्तर्भवन एवान्तःपुरमध्यवर्तिनम् अविच्छिन्ननृत्तगीतावलोकनश्रवणपरायणं बोधिसत्त्वं कारयामास । स च यशोधरायां राहुलं नाम तनयं जनयित्वा कदाचिद् गीतोपनिबद्धानि प्रमदवनानि श्रुत्वा बहिर्निष्क्रमणाय बुद्धिं कृत्वा पित्राभ्यनुज्ञातो रथवरम् अधिरुह्य कृतशोभां कपिलवस्तुवीथीम् आलोकयन् परिचचार ।
श्रुत्वाथ तं परिजनान् नयनाभिरामं साक्षान् मनोभवम् इव श्रवणायताक्षम् तद्दर्शनं प्रति समुत्सुकमानसानां चेष्टा बभूव विविधा नगराङ्गनानाम् // HJm_35.12
अथ काचिद् असमाप्तमण्डनार्द्रतिलकाभ्यलंकृतललाटमध्या श्रवणपरिच्युतकुवलयोत्थायाञ्जितैकविलोचना गृहीतशलाकेन कमलानुकारिणा हस्तेन पश्यैनम् अनङ्गानुकारिणम् कुमारं गच्छन्तम् इति सख्यै दर्शयामास । काचित् पुनर् अहो भाग्यवती यशोधरा यास्य धर्मचारिणीति विचिन्त्य चिरम् एनं स्तिमितनयनापश्यत् । अपरा पुनः करद्वयावलम्बितगवाक्षस्तम्भशालभञ्जिकेव भृशम् अशोभत । किम् एवं राजपुत्रदर्शनकुतूहलाद् अतित्वरितं गच्छसि । समुत्क्षिपैनम् अर्धबद्धं स्तनतटात् पतन्तं हारम् अयं त्वम् अहो चपलेति ब्रुवाणः कुपितो गुरुजनः पश्यति । किम् इति निर्व्रीडासीति काचिद् अपराम् उपालब्धवती । काचित् पुनर् गुरुपयोधरैकदेशे संस्पर्शेनार्धापावृतं कपाटम् अनुजग्राहेव । नैकाकिन्यास् तवैव कुमारदर्शनकुतूहलं दीयताम् तावद् अन्तरम् अहम् अपि कुतूहलवती राजपुत्रं द्रष्टुकामा काचिद् इत्य् अभाषत ।
कुमारं द्रष्टुकामानां तासाम् इति विसर्पणात् मेखलानूपुरध्वानो भवनेषु व्यतन्यत // HJm_35.13
गच्छन् नरेन्द्रतनयो ऽथ पथि क्रमेण दण्डार्पितप्रचलपाणिम् अपेतकान्तिम् वृद्धं व्यलोकयद् अतीव सितोत्तमाङ्गं शुद्धाधिवासपरिनिर्मितम् आनताङ्गम् // HJm_35.14
अथ बोधिसत्त्वः सारथिम् अपृच्छत् कथय तावत् कः पुनर् अयम् आरोपितधनुरानतपरिदुर्बलाङ्गः परिणतकाशकुसुमसितशिरसिजः शिरःप्रकम्पेण किम् अपि प्रलयन्न् इवालोक्यते । सारथिर् उवाच । कुमार जरा नाम सर्वलोकव्यापिनी शरीरेन्द्रियपाटवहारिणी मदनकथातिरस्करणी कुपितेव यूनाम् यौवनमदम् उत्सारयति ययैष इमाम् अवस्थां नीत इति । अथ स महात्मा पुनर् उवाच । यदि जरा तारुण्यम् एवं विनाशयति का नाम रतिर् अस्मिन् परिणामिनि देहे । सूत उवाच । कुमार न केवलं जरा व्याधिर् अपि धातुक्षोभसंभूतो देहिनां महान् अनर्थः । ततो ऽपरो मृत्युर् नाम सर्वक्रियापहरणपटुर् अनर्थतरो यः परिचिन्त्यमानो ऽपि शरीरिणां महद् दुःखम् उत्पादयति । बोधिसत्त्व उवाच ।
त्रिभिर् इमैर् अनुबद्धम् अहो जगन् मरणरोगजरारिभिर् अन्वहम् महति नाम भये सति दारुणे कथम् इदम् विषयैकपरायणम् // HJm_35.15
इति निवर्तय सूत रथं लघु व्रज गृहाय पुनः किम् इहास्यते मरणरोगजरापरिशङ्किनो मम भविष्यति नोपवने रतिः // HJm_35.16
अथ राजा संविग्नमनसं बोधिसत्त्वं श्रुत्वा तां चासितस्य वाचम् अनुस्मृत्य भविष्यत्तनयवियोगाशङ्कितमनाः सारथये संदिदेश । प्रमदवनम् एव कुमारो नेतव्य इति । स च सारथिः प्रसभम् एनम् उपवनम् एव प्रविश्याभिहितवान् । द्रष्टुम् अर्हत्य् आयुष्मान् इह हि ।
किंचित् किंचित् कुसुमहसितव्यक्तिशोभावतीनां मन्दं मन्दं मलयमरुता सर्पता नर्तितानाम् आभान्त्य् आसाम् उपवनलताकन्यकानां विजिह्माः पर्यन्तेषु भ्रमदलिकुलश्रेणिवेण्यः क्वणन्त्यः // HJm_35.17
अथ बोधिसत्त्वो रथाद् अवतीर्य जरामरणरोगचिन्तापर्याकुलमतिर् अन्तःशल्य इव द्विरदपतिर् इत्य् अब्रवीत् । धैर्यच्छिदस्
तनुधियाम् विरसावसानाः शान्तात्मभिः परिहृता भुजगा इवोग्राः यूनो ऽपि मन्मथपरस्य जगत्सपत्नाः पर्याकुलं न हि मनो विषया हरन्ति // HJm_35.18
अथ स राजा नृत्तगीतकुशलाः प्रकाशाङ्गना बोधिसत्त्वहृदयापकर्षणाय तद् उपवनम् प्राहिणोत् । ताश् च कुमारम् अभिगम्य मदजनितप्रागल्भ्यास् तां तां चेष्टाम् आविश्चक्रुः । अथ काचिद् एनम् उक्तवती पश्य कुमार । वान्त्य्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
