Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला, 1-8, 11-12, 19-20, 22, 24, 26, 32, 35

Tác giả
हरिभट्ट
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एते मलयानिलाः सुरभयः पुष्पद्रुमाकम्पिनश् चूतस्य भ्रमरः प्रदक्षिणयति प्रोद्भेदिनीं मञ्जरीम् चापारोपणदीर्घसूत्रकम् इमं स्वस्थं त्वया स्थीयते शङ्के चोदयतीति पुष्पधनुषं तारध्वनिः कोकिलः // HJm_35.19

अपि च ।

स्वरजःकृताङ्गरागा बाला सहकारमञ्जरीकन्या / भ्रमरवरेण भ्रमता क्षणम् इव परिहीयते तन्वी // HJm_35.20*

अपरा पुनर् एनम् उवाच ।

शिलीमुखं भुक्तलतावधूजनं विलोक्य तत्पुष्परजोविधूसरम् समीरणाकम्पितबालपङ्कजा मुहुर् मुहुस् तर्जयतीव पद्मिनी // HJm_35.21

काचित् त्व् एनम् अब्रवीत् ।

गच्छाम्य् अहं तव कृते कुसुमानि यावद् एतानि सूक्ष्ममकरन्दनिरन्तराणि मद्दृष्टिबाधिनम् अशान्तगतिद्विरेफं दूरात् कुमार विनिवारय तावद् एव // HJm_35.22

अपरा पुनः सहासम् अभितः स्थित्वैनम् अभ्यधात् ।

आधूतं बकुलज्यया मधुकरव्याधूतकिञ्जल्कया विन्यस्योरसि शङ्खभङ्गधवलच्छायं धनुः कौसुमम् गाम्भीर्याद् अवधीरयन्तम् अबलास् त्वाम् आजिघांसुः स्मरः पौष्पं बाणम् ऋजूकरोति नियतं संमीलितैकेक्षणः // HJm_35.23

बोधिसत्त्व उवाच । अलम् अलं भगिन्य एभिर् असत्प्रलापैः । न खलु मम संविग्ने मनसि सलिलधारा इव हुतभुजि शृङ्गारकथाः समवकाशम् अधुना लभन्ते ।

भगिन्य इति तत् तस्य निशम्य वचनं स्त्रियः मुखानि नमयामासुस् त्रपया त्यक्तविभ्रमाः // HJm_35.24

ह्रीतं तद् युवतिकदम्बकं विदित्वा संविग्नं नृपतनयं च शुद्धबुद्धिम् तूणीरे नियतम् इषून् निधाय पौष्पान् सव्रीडं धनुर् अवतारितं स्मरेण // HJm_35.25

अथ बोधिसत्त्वस् तत्र प्रमदवने रतिम् अलभमानो ऽस्तम् उपेयुषि सवितरि रथवरम् अधिरुह्य ताश् चाङ्गना भवनम् आजग्मुः । ततो बोधिसत्त्वः शृङ्गारकथाम् अवमन्यमानः शयनतले विनिविश्य जरामरणरोगान् एव मनसि निधाय चिन्तापरो बभूव । ततः शुद्धावासैस् तस्य महात्मनः संवेजनाय शयनपालिकानाम् सद्य एव निद्रावक्तव्यता क्रियते स्म । तत्र च कासांचिद् अविरलशब्दश्वासवशप्रकाशदशनानि विगलितलालालवव्याप्तपर्यन्तानि वदनान्य् अभूवन् । अन्परासां च कुट्टिमतलपर्यस्तानि प्रशिथिलविगलितदुकूलतया प्रव्यक्तोरूणि पयोधरोपरिव्यवकीर्णहाराणि निक्षिप्तविषमभुजलतानि मृतानाम् इव शरीराण्य् आसन् । अपरा च मुरजपुष्करविनिवेशितद्विगुणबाहूपधानविनिहितानना विष्टराद् विनिपत्य तथैव शिष्ये । कस्याश्चिन् निद्रापहृताङ्गुलियत्नात् कराद् अधरविश्लिष्टप्रथमरन्ध्रः प्रमदानयनतारकानीलो वंशः पपात । द्विरदविलोडितानाम् इव कमलिनीनां विविधावस्थं तासां च रूपम् आलोक्य हसितम् इव यष्टिप्रदीपैः । अथ बोधिसत्त्वस् तासाम् युवतीनां निन्दां कृत्वाभ्युत्थाय निष्क्रम्य च्छन्दकम् उत्थाप्योवाच ।

इमं समुत्तर्तुमना भवार्णवं तपोवनं गन्तुम् अहं समुद्यतः अतस् त्वम् अस्मद्व्यवसायसिद्धये महाजवं कन्थकम् अश्वम् आनय // HJm_35.26

छन्दकश् च शुद्धाधिवासैश् चोद्यमानस् तद् राजशासनम् अनादृत्य तथेति प्रतिश्रुत्य वामकक्ष्याविनिहितासिः कन्थकम् अश्ववरम् आनिना- य । बोधिसत्त्वाधिरूढं तम् अश्वं पश्चाद् वध्र्यावलम्बिना च्छन्दकेन सह यक्षकुमाराः करतलविनिहितखुरं प्रभातसमये नभसा महर्षेर् अराडस्याश्रमसमीपम् अवतारयामासुर् इति ।

अथ व्युदस्याभरणानि विग्रहात् स भासितानि स्फुटरत्नतेजसा तरङ्गिनः कोकिलकण्ठमेचकांश् चकर्त खड्गेन शनैः शिरोरुहान् // HJm_35.27

तं छन्दकः समवलोक्य निरस्तभूषं स्वच्छं जलाशयम् इवापहृतारविन्दम् संतापितः प्रबलशोकहुताशनेन मुक्तानिभान् नयनवारिकणान् मुमोच // HJm_35.28

बोधिसत्त्व उवाच । न खलु धर्मोन्मुखे सुहृदि स्वजने वा तपोवनाभिप्रस्थिते विषादं कर्तुम् अर्हति सज्जनः । तद् गच्छ मम गुरुजनम् एवं ब्रूहि ।

अथवेयम् तनुः क्षीणा तीव्रेण तपसा मम मया वा तत् पदं लब्धं यद् दृष्टं तत्त्वदर्शिभिः // HJm_35.29

छन्दकश् च तथेति बोधिसत्त्वम् अभिप्रणम्याश्वम् आभरणानि चादाय क्रमेण नगरम् आगम्य तं बोधिसत्त्वसंदेशं नरपतये निवेदयामास । श्रुत्वा च तस्य विनिश्चयं सहान्तःपुरेण शुद्धोदनो बहुविधं विललाप । बोधिसत्त्वश् च लुब्धकरूपधारिणो देवपुत्रात् स्वेन शशिकिरणरुचिना वसनयुगेन काषाये वाससी क्रीत्वा परिधाय शनैः शनैर् अराडस्याश्रमं जगाम । दृष्ट्वा च बोधिसत्त्वम् आगच्छन्तम् अराडः स्वागतं स्वागतम् इत्य् अभिधाय स्वम् उटजम् आनीय वेत्रासने समुपवेश्य कुशलपूर्वकम् आलापं चकार । ततो बोधिसत्त्वस् तम् अपृच्छत् ।

कीदृशो भवताम् धर्मः कथम् वा सो ऽधिगम्यते तत्त्वं मे द्रष्टुकामाय वक्तुम् अर्हति सत्तमः // HJm_35.30

अराड उवाच । श्रोतुम् अर्हति महाभाग इति । प्रकृतिविकारयोर् जन्मजरामृत्यवस् तत्त्वम् इत्य् अभिहितम् । प्रकृतिश् च पञ्च महाभूतान्य् अहंकारो व्यक्तं चेति । विकारश् चेन्द्रियाणि तदर्थाश् च पाणिपादवाक्पायूपस्थं मन इत्य् अस्य क्षेत्रं विजानाति । तत् क्षेत्रज्ञ इत्य् अभिधीयते । क्षेत्रज्ञं चात्मानम् अवचक्षते तत्त्वविदः । यच् चोत्पादावसानान् मरणधर्मात्मकं तद् व्यक्तम् इति बोद्धव्यम् अव्यक्तम् एतद्विपर्ययाद् इति । अज्ञानं कर्म तृष्णा च संसारहेतवो विज्ञेयाः । त्रितये चावस्थितो जन्तुर् न सत्त्वम् अतिक्रम्य वर्तते । विप्रत्ययाहंकारसंदेहाभिसंप्लवाविशेषानुपायसङ्गाभ्यवपाताः । विप्रत्ययो नाम विपरीतप्रवर्तनम् । अहम् अभिदधाम्य् अहं वेद्मीत्य् एवमाद्य् अहंकारः । यस् त्व् असंदिग्धान् अपि भावान् मृत्पिण्डवद् एकीभावेन पश्यति स संदेह इति मन्तव्यः । यद् एव चाहं तान्य् एवामूनि मनोबुद्धिकर्माणि । यश् चैष गणः सो ऽहम् इत्य् अभिसंप्लवम् उदाहरन्ति । अविशेषः पुनः प्रतिबुद्धाप्रतिबुद्धयोर् अविशेषज्ञता प्रकृतीनां च सो ऽविशेष इति बोद्धव्यः । स्वाहाकारवषट्कारप्रोक्षणाभ्युक्षणादयो ह्य् अनुपाय इति बोद्धव्यः । यत्र वस्तुनि सक्तिम् उपेत्य् अमेधा मनोवाग्बुद्धिकर्मभिः सो ऽभिष्वङ्ग इत्य् अभिधीयते । ममेदम् अस्याहम् इति यद् दुःखम् अभिमन्यते सो ऽभ्यवपातः । प्राणिनां संसारहेतुर् आलस्यं नाम । तमो मोहो मृत्युजन्मनी । महामोहः काम इति संज्ञितः । तामिस्रं च क्रोध इत्य् अवगम्यताम् । विषादः पुनर् अन्धतामिस्रम् अभिधीयते । अनयाविद्यया पञ्चपर्वया बालिशो बद्धमना जात्यादौ महति दुःखे पुनः पुनर् आवर्तते । तत्र चाहं द्रष्टा श्रोता मन्ता कार्यकारणं चेत्य् एवम् अवगम्य संसारे परिभ्रमति । एभिश् च हेतुभिर् जन्मस्रोतःप्रवृत्तिर् दृष्टा हेत्वभावाज् जन्माभाव इति । तत्र च मोक्षकामः प्रतिबुद्धाप्रतिबुद्धौ व्यक्ताव्यक्ते च जानीयात् । एतच् चतुष्टयम् अवगम्य क्षेत्रज्ञः सर्वदुःखनिर्मुक्तः पदम् अक्षरम् अवाप्नोतीति ।

त्यक्त्वादितो भवनिबन्धनम् आदिबीजम् आदाय लिङ्गम् अपवृत्तसुखाभिलाषः संतोषवान् पदम् अनुत्तमम् आप्तुकामः शीलं विशुद्धम् उपगृह्य वसेद् वनान्ते // HJm_35.31

पश्चाच् च रागवैराग्यप्रभवे भयक्षेमे विदित्वा निगृह्य सर्वेन्द्रियग्रामं मनःशमम् आलम्ब्य ततः कामेभ्यो विविक्तं व्यापादादिभ्यश् च विवेकजं प्रथमं ध्यानं सवितर्कम् आप्नोति । स चैवंविधेन कामद्वेषविगर्हिणा शमेनान्वितो ब्रह्मलोकम् अधिगच्छति । तांश् च वितर्कान् मनःसंक्षोभकरान् अवेत्य तद्विरहितं प्रीतिसुखात्मकं द्वितीयं ध्यानम् आसादयति । तया च प्रीत्या ह्रियमाणमना देवेष्व् आभास्वरेषूपपद्यते । यः पुनस् तस्मात् प्रीतिसुखाच् चित्तम् उच्चालयति स तृतीयं सुखप्रीतिरहितं ध्यानम् आप्नोति । तत् तृतीयध्याननिमग्नमनाश् च शुभकृत्स्नेष्व् अमरेषु जन्म प्रतिलभते । तादृशं च सुखम् आसाद्य यो व्यपेक्षां करोति स चतुर्थं सुखदुःखविरहितं ध्यानम् उपलभते । तच् च दीर्घत्वाद् आयुषः केचिन् मुक्तिम् एवाध्यवस्यन्ति । कस्मात् सुखदुःखविच्छेदाच् चेतसश् चाव्यापारात् । अस्य च ध्यानस्य बृहत्फलैर् देवैः सामान्यं फलम् आचक्षते विद्वांसः । तस्माच् च समाधेर् व्युत्थितः शरीरिणां दोषान् आलोक्य शरीरविनिवृत्तिहेतोर् ज्ञानम् अधिगच्छति । तद् अपि च ध्यानम् अपहाय विशेषकाङ्क्षी रूपाद् अपि विरज्यते । यानि चास्मिन् दुःखानि शरीरे विद्यन्ते तान्य् आदौ बुद्ध्या समवलोकयंस् ततो घनेष्व् अपि द्रव्येष्व् आकाशाधिमुक्तिम् उत्पादयति । आकाशगतं चात्मानम् अभिसंक्षिप्यानन्तम् आकाशम् आलोकयन् विशेषाद् अधिगमाद् आत्मकौशलाद् आत्मानम् आत्मनि संक्षिप्य किंचिन् नास्तीत्य् आकिंचन्य इति संज्ञाम् उपगतः शरीरविरहान् मुक्त इत्य् अभिधीयते । बोधिसत्त्व उवाच ।

यदि चेतयितास्त्य् एव कुतो मुक्तिर् भविष्यति तस्मिन् सति प्रवर्तन्ते कुशलाकुशलक्रियाः // HJm_35.32

यथा च सलिलभूमिविरहान् न बीजं केनचित् प्रविरूढम् आलोकितं तत्प्रत्ययाच् च दृष्टं विरोहद् एवम् आत्मापि गृहीतव्यः । कर्माज्ञानतृष्णात्यागाच् च यो निश्चीयते मोक्षः सति चात्मनि तत्परित्यागम् नोपलभामहे । तदपरित्यागाच् च कुतो मोक्ष इत्य् अहंकारपरित्यागश् च सत्य् आत्मनि कुतो भवेत् । सति चाहंकारे स्थितम् एवेदं जन्मस्रोतसीत्य् अभिधाय ।

अराडस्याश्रमात् तस्मान् निष्क्रम्य स महामतिः तपोभिर् दुष्करैस् तीव्रैः शोषयामास विग्रहम् // HJm_35.33

नानेन तपसा तत्त्वाधिगमो भवतीति च मत्वोत्थाय परिदुर्बलशरीरो बोधिसत्त्वो नैरञ्जनायां सरिति स्नात्वा सुनन्दाप्रतिपादितं पिण्डम् अभ्यवहृत्य कालेन भुजगराजेनाभिष्टुतः ।

स चाषपङ्क्त्याततनीलपक्षया परीतदेहः परिपाटलाङ्गया सरोरुहाणां प्रचलत्पलाशया स्रजेव नीलोत्पलपत्त्रमिश्रया // HJm_35.34

अथ मन्दपदं गत्वा धीमान् हेमाचलद्युतिः अधस्ताद् बोधिवृक्षस्य निषसाद स बोधये // HJm_35.35

ततो दुहितृभिः सार्धं चापम् आदाय कौसुमम् आजगाम मनोयोनिस् तस्य क्षोभयितुं मनः // HJm_35.36

आजिघ्रन्ती पुरस् तस्य मालतीकुसुमं नवम् काचिन् न्यमीलयत् कांचिद् दृष्टिम् आलोलतारकाम् // HJm_35.37

सखीकर्णे ऽभिधायान्या किम् अपि स्मितपूर्वकम् तत्र लीलावती रामा काशयन्ती मुखं ययौ // HJm_35.38

सकामा दर्शयन्त्य् अन्या जगादेति जिनर्षभम् रामायाः श्लथकाञ्चीकं नितम्बस्रस्तम् अंशुकम् // HJm_35.39

क्व च यौवनम् एतद् इन्दुकान्तं क्व च ते तपसे मनोऽभिलाषः भज कामम् अतो निवर्तयस्व वद किं तपसः फलं त्वयाप्तुम् // HJm_35.40

हितकाम्यतया ब्रुवे भवन्तं किम् अतः परम् आप्तुम् इच्छसि त्वम् गृहिधर्मम् अबाधिनं महान्तं न विहाय किम् अन्यद् अस्ति पुण्यम् // HJm_35.41

त्वदधिगमसमुत्सुकासु धीमन् किम् इयम् अदयिता मनोहरास्व् अपीति मुखलवदन्ती कामिनी कामुकां वदनकमलानि नखेन खण्डयन्ती // HJm_35.42

यदा च तासु बोधिसत्त्वः सावज्ञम् अपि दृष्टिविषाणि विक्षिपत्स्व् अपि नानाचेष्टानि दर्शयत्सु ध्यानस्तिमिताक्ष एव तस्थौ तदा मारः प्रव्याजहार । भीषयित्वैनम् उत्थापयतेति ।

ततः सिंहमुखः कश्चित् फूत्कारेण पुनः पुनः बोधिसत्त्वस्य त्रासार्थं वह्नेः कणान् व्यसर्जयत् // HJm_35.43

ते कृशानुकणास् तस्य किंकरस्य मुखोज्झिताः निपतन्तः क्षणाज् जग्मुः प्रफुल्लपुष्पताम् मुनेः // HJm_35.44

शतवक्त्रेण तीक्ष्णाग्रां क्षेप्ता शक्तिं यदाक्षिपत् विकसत्केसरव्यूहो बभूवोत्पलशेखरः // HJm_35.45

दंष्ट्राधरेण चान्येन विद्युदापिङ्गलत्विषा क्षिप्तान्य् अयोगुडोष्णानि पुष्पाणि बभूवुः क्षणात् // HJm_35.46

अन्येनाभ्युद्यतो बाहुः सखड्गः पिङ्गचक्षुषा लोहस्तम्भसमुच्छ्रायः क्षणान् निश्चलतां ययौ // HJm_35.47

अथ मदनविजेतुः सिद्धमन्त्रानिलेन जलधितटगवह्निः किंकराणां समूहः असितगतिसखेन प्रेर्यमाणः समन्ताद् इव विरसविकीर्णः क्षीणरोचिःशतो ऽभूत् // HJm_35.48

ततः सैन्यभग्नाद् विषादवति कुसुमकेतौ भगवांश् चतुर्थध्यानाद् व्युत्थायेदम् अचिन्तयत् ।

आत्मनश् चेत् सुखाद् दुःखात् पुण्यं पापं प्रसूयते कथं न भद्रता नित्यं धर्माभावे च देहिनाम् // HJm_35.49

रूपसौभाग्यभाग्यादिभेदः कथम् इहेष्यते यदि पूर्वकृतं नास्ति कथम् अत्र शुभाशुभौ // HJm_35.50

कर्मणां हेतुकं कर्म चेत् सारादि न कल्पयेत् अहेतुकं जगत् स्याच् चेत् कः कर्मस्वकतां वदेत् // HJm_35.51

सुखहेतुः सुखम् स्याच् चेद् दुःखं दुःखस्य हेतुकम् तपसा दुष्करेणैवं कथं मुक्तिर् भविष्यति // HJm_35.52

ईश्वरः कारणं केचिद् अबुधाः संप्रचक्षते कथं न समता लोके समवर्तीश्वरो हि सः // HJm_35.53

इत्य् एवम् अबुधाः केचिद् अस्तिनास्तिप्रवादिनः कुदृष्टिकर्मतो हीना जायन्ते नरकेष्व् अपि // HJm_35.54

सुदृष्टिकर्मतो भद्रा आर्यज्ञानप्रवेदिनः स्वर्गलोकं गताः केचित् कायवाक्चित्तसंयमात् // HJm_35.55

अहो भवरतो लोकः क्लेशसंघैर् विहन्यते जराव्याधिविपन्नश् च मृतः पुनः प्रजायते // HJm_35.56

अथ बोधिसत्त्वस्यैवम् अभवत् । कस्मिन् सति जरामरणं भवति किं च प्रत्ययात् । पुनर् एवम् अभवत् । यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवो भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधो वेदनानिरोधात् तृष्णानिरोधस् तृष्णानिरोधाद् उपादाननिरोध उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधो जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । इत्य् एवं बोधिसत्त्वस्य प्रज्ञाचक्षुर् उदपादि ।

अथासौ भगवान् बुद्धः प्रज्ञालोकप्रकाशकः वैहायसं समुद्गम्य सिंहनादं ननाद च // HJm_35.57

सिंहो ऽहं वादिजन्तूनां विरजस्को निरास्रवः दुःखस्यान्तं करिष्यामि सत्त्वानां निरहंकृतिः // HJm_35.58

ततश् चकम्पे सधराधरा धरा वेलाम् व्यतीत्य प्रससार सागरः संसक्तमन्द्राशयसौम्यनिस्वनाः दिवौकसां दुन्दुभयः प्रसस्वनुः // HJm_35.59

दिशः प्रसन्नाभरणाश् चकाशिरे मार्तण्डचन्द्रौ शरदीव रेजतुः परिभ्रमच् चन्दनचूर्णरञ्जितं पपात पुष्पं नभसः सुगन्धिमत् // HJm_35.60

समाययुर् विस्मयफुल्ललोचना दिवौकसस् तत्र सहाप्सरोगणैः ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत // HJm_35.61

उदीरिता हर्षपरीतमानसैर् महद्भिर् भूतगणैः सविस्मयैः बुद्धस्य धर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः // HJm_35.62

अहो बतौदार्यम् अहो सुबुद्धिता विशुद्धिताम् पश्य यथास्य चेतसः अहो स्वसौख्येषु निसङ्गता मतेर् नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम // HJm_35.63

सनाथतां साधु जगद् गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया अमोघरूपा बत पुण्यसंचयाश् चिरस्य धर्मेण खलूर्जितं जितम् // HJm_35.64

सर्वबुद्धाश् च बुद्धाय वदन्तः साधु साध्व् इति सौवर्णरत्नच्छत्त्राणि प्रयच्छन्ति स्म सुश्रिये // HJm_35.65

अथ सर्वदेवगणा बोधिसत्त्वं बोधिमण्डनिषण्णं प्राप्ताभिज्ञं जितमारबलं जयोद्गतच्छत्त्रध्वजपताकं पुरुषवैद्यं विगतभयसिंहं सुदान्तनागं त्रैविद्यप्राप्तम् दशबलविक्रमं पूर्वप्रणिधिबोधिप्राप्तं विदित्वाभिसंपूजयन्त इति प्रार्थयामासुः ।

नाथोद्य जगतां धीर मारहन्तर् जिनर्षभ अन्धभूते जगत्य् एवं प्रज्ञादीपं प्रकाशय // HJm_35.66

क्षुत्पिपासाहते लोके दुर्दृष्टिविकलाशये सर्वपारमितामेघैर् धर्मामृतं प्रवर्षय // HJm_35.67

इति तुष्टाः सर्वे च देवगणाः प्राञ्जलयस् तत्रैव तस्थुः ।

ततो ऽत्र कामावचराः सुवक्त्राः सुगन्धपुष्पाक्षतलाजतोयैः सौवर्णकुम्भैश् च सगीतवाद्यैस् तस्याभिषेकं सफलं प्रचक्रुः // HJm_35.68

अथ तथागतो महानन्दः सर्वसत्त्वानां धर्मं देशयामीति ततः समुत्थाय चरितुं प्रचक्राम । अथ मारो भगवन्तं समेत्योवाच ।

परिनिर्वातु बुद्धः संश् चित्तसंकल्पवर्जितः महान्तो मुनयः प्राज्ञा निर्वाणं हि ययुर् व्रतैः // HJm_35.69

एवम् उक्ते ऽथ मारे ऽस्मिन् भगवांस् तम् उवाच सः अहं तावन् न पापीयन्न् आगमिष्यामि निर्वृतिम् // HJm_35.70

यावन् न भिक्षवो धीरा दान्ताः प्राज्ञा विशारदाः आर्यज्ञानप्रसंबोधा भविष्यन्ति बहुश्रुताः // HJm_35.71

यावन् न त्रीणि रत्नानि लोके संप्रथितानि च दानपारादिभिः शक्ता बोधिसत्त्वा जितार्थिनः // HJm_35.72

भविष्यन्ति न मे यावद् बोधिप्राप्ता जितारयः तावत् पापिष्ठ यास्यामि निर्वाणं न क्षयान्तकृत् // HJm_35.73

एवम् उक्ते ऽथ शाक्येन्द्रे ऽधोमुखः कुसुमायुधः हतो ऽहम् इति काष्ठेन विषसाद महीं लिखन् // HJm_35.74

अथ मारकन्यकाः पितरं विषादवन्तं दृष्ट्वा सहसैत्य प्रत्यभाषन्त ।

दुर्मनासि कथं तात प्रोच्यतां यद्य् असौ नरः रागपाशेन तं बद्ध्वा कुञ्जरं वानयामहे // HJm_35.75

आनयित्वा च तं शीघ्रं करिष्यामि वशं तव तात मा गा विषादं तं नरो ऽयं किम् अतो भयम् // HJm_35.76

मार आह ।

अर्हन् स सुगतो लोके न रागस्य वशं व्रजेत् विषयं मे व्यतिक्रान्तं तस्माच् छोचाम्य् अहं भृशम् // HJm_35.77

ततस् ताः स्त्रीचापल्याद् अविदितप्रभावा बोधिसत्त्वस्य प्रभूतयौवनमत्तकाशिन्यः पितुर् वचनम् अनुश्रुत्य बोधिसत्त्वम् उपसंक्रान्तास् तन्मनः संक्षोभयितुं प्रचक्रमिरे ।

बभाष शक्येन्द्रम् अनिन्दिताधरा विलासिनी तं मधुरप्रलापिनी स्तनौ प्रकाश्य द्विपकुम्भनिर्जितौ मुखेन चन्द्रं कमलं च हासिनी // HJm_35.78

एकातपत्रं जगतः प्रभुत्वं नवं वयः सौम्यवपुश् च कान्तम् एतांश् च हित्वा तपसा किमर्थं रमस्व कामं मम काम्यदेहे // HJm_35.79

अन्या सुरामा मृगशावकाक्षी शनैः शनैस् तं मदविह्वलाङ्गी गत्या जयन्ती गजराजहंसौ किंचिद् विहस्याथ मुनिं बभाषे // HJm_35.80

सौवर्णमुक्ताभरणाङ्गभूषं त्वदर्थम् एवेह बिभर्मि राजन् प्रभुङ्क्ष्व कामं तपसः फलं तत् कामे प्रसक्ता मुनयो ह्य् अटन्ते // HJm_35.81

आच्छाद्य वस्त्रेण मुखार्धभागं निबध्य दृष्टिं मुनिवंशकेतौ तस्थौ तदग्रे किम् अपि प्रवक्तुं विकाशयन्ती कमलं सलीला // HJm_35.82

लोकानुकम्पा तव चेन् मतं स्याद् विहाय मातापितरौ च मित्रान् वने वसंस् त्वं कम् इवोद्धरिष्येर् इति प्रगल्भं मनसीव तस्याः // HJm_35.83

कुर्वन्ति भावानि मुनिं विजेतुं यथा यथा ताः स्म विलासवत्यः तस्थौ निरीहे निरहंकृतौ च तथा तथासौ स्तिमितायताक्षः // HJm_35.84

एता मुनेर् भावविदर्शयन्त्यो मनो ऽथ हर्तुं न च शक्नुवन्त्यः तपोऽपराधाज् जरसा निपीतं वपुर् विरूपं तमसाभिजग्मुः // HJm_35.85

ततस् ताः पितुर् अन्तिकं गत्वैवम् आहुः ।

सत्यं वदसि नस् तात न रागेण स नीयते विषयं नो व्यतिक्रान्तं वयं शोचामहे ऽपि तत् // HJm_35.86

तत् साधु नस् तातेदम् जराजर्जरशरीरम् अन्तर्धापय । मार आह ।

नाहं पश्यामि तं लोके पुरुषं सचराचरे बुद्धस्य यो ह्य् अधिष्ठानं शक्नुयात् कर्तुम् अन्यथा // HJm_35.87

तं गत्वा त्वरितं यूयं प्रार्थयध्वं गुणाम्बुधिम् स वः पौराणकं कायं करिष्यति यथामतम् // HJm_35.88

ततस् तास् तथागतं प्रार्थयित्वा लब्धपौराणाधिकसुन्दरदेहाः स्वभवनं ययुः । अथ दुर्दिने संजाते मुचिलिन्दनागराजः स्वभवनान् निष्क्रम्य भगवतः काये शीतार्तं मा भूद् इति सप्तभिः फणैर् आच्छाद्य दुर्दिने व्यतिक्रान्ते तथागतं प्रणम्य स्वभवनं जगाम । ततश् चरकपरिव्राजकवृद्धश्रावकगौतमनिर्ग्रन्थाजीविकादयस् तं तथागतं न्यग्रोधमूलस्थं प्रणिपत्योचुः । अपि भगवता गौतमेनैतत् सप्ताहदुर्दिनं सम्यक् सुखेन व्यतिनामितम् इति । भगवान् आह ।

सुखं विवेकतुष्टस्य सदा शान्तौ स्थितस्य च सुखं विरागतो लोके पापानां समतिक्रमात् // HJm_35.89

ततस् तथागतो ध्यानसुखवेदी तारायणमूले तस्थौ । तन्मुहूर्ते त्रपुषभल्लिकौ वणिजौ विविधपण्यं गृहीत्वा दक्षिणापथाद् उत्तरापथं गच्छन्तौ काषायसंवृतशान्तदेहं तथागतं पश्यन्तौ प्रहर्षजातौ तत्पादौ शिरसाभिवन्द्य मधुपायसपूर्णपिण्डपात्रं तस्मै प्रददतुः । अथ तथागतस्य भोजनकालं ज्ञात्वा चत्वारो महाराजानः सपरिवाराः पुष्पधूपगन्धमाल्यविलेपनतूर्यताडावचरसंगीतकैः पूजां कृत्वा सर्पिमण्डपात्राणि प्रयच्छन्ति स्म । अथ भगवांस् तानि पात्राणि प्रतिगृह्य मङ्गलवाक्यपूर्वं तान् उवाच ।

श्रीर् वो ऽस्तु दक्षिणे हस्ते श्रीर् वो वामकरे स्थिता श्रीर् वो ऽस्तु सर्वलोकेषु मालेव शिरसि स्थिता // HJm_35.90

स्वस्ति कुर्वन्तु वो देवास् तिष्ठतां गच्छतां पथि मतिर् धर्मे सदा भूयात् पापे म भूत् कदा चन // HJm_35.91

लब्धार्थाः सततं यूयं नीरोगाः परमायुषः अनेन कर्मणा बौद्धा भवन्तु सुगतात्मजाः // HJm_35.92

इति श्रुत्वा मुनेर् वाक्यं चित्तपद्मप्रकाशिकाः बुद्धे धर्मे च संघे च ते नित्यम् शरणं ययुः // HJm_35.93

अथ तथागतस्यैतद् अभवत् ।

दुष्करेण मया बोधिः प्राप्तेयं परमार्थतः देशयेयं परेभ्यश् चेन् न ते जानन्त्य् अलं ततः // HJm_35.94

इति निश्चित्य सारज्ञस् तूष्णीभावं ययौ मुनिः मूर्खानां मण्डले संस्थो मौनत्वाद् विप्रशोभते // HJm_35.95

अथ खलु शिखी ब्राह्मणस् तथागतरश्मिसंचोदितः सार्धं शक्रादिदेवगणै रात्रौ दिव्यावभासेनावभास्य तथागतम् अभिवन्द्य च धर्मदेशनतायै प्रार्थयामास ।

मोहान्धे भगवांल् लोके प्रज्ञादीपं प्रदीपय क्षुत्पिपासाहते लोके धर्मामृतं प्रवर्षय // HJm_35.96

यतो बोधिं समासाद्य दुष्करेणैव तापसा ध्यानसुखेषु लीनो ऽसि लोको ऽयम् प्रलयं व्रजेत् // HJm_35.97

अथ तथागतस् तम् शिखिनं ब्राह्मणं तूष्णीभावेनाधिवासयति स्म । तस्मिन्न् एव समये मागधानां पापाचारत्वान् महोत्पातम् उदपादि । पुनर् अपि शिखी ब्राह्मणस् तथागतम् एतद् अवोचत् ।

भगवन् मगधे देशे महोत्पातसमाकुलाः भवन्ति विकला लोका भूतयक्षैर् उपद्रुताः // HJm_35.98

तेषां पापाग्निशान्तये धर्मामृतं प्रवर्षय यथापूर्वं प्रतिज्ञातं साफल्यं कुरु सांप्रतम् // HJm_35.99

अथ भगवांस् तं सर्वावन्तं लोकधातुं बुद्धचक्षुषावलोकयन्न् अधमोत्तममध्यमां लोकस्थितिं दृष्ट्वा देशयेयं वा न वेति विचिन्तयन् करुणया संचोदितः शिखिने ब्राह्मणाय धर्मदेशनतया स्वीकृतवान् धर्मं देशयिष्यामीति । ततः शिखी ब्राह्मणः प्रमुदितमना मुनेश् चरणौ वन्दित्वा स्वभवनं ययौ । अथ बोधिवृक्षदेवता प्रणम्यैवम् आह । क्व भगवन् धर्मचक्रं प्रवर्तयिष्यसीति । तथागत आह । वाराणस्यां मृगदाव इति । कुतः ।

काशी पुण्यवती भूमिः सुभिक्षा सुजनाश्रया यत्र देवाः सदा सन्त्य् अप्य् अमरा मर्तुम् इच्छया // HJm_35.100

अपि च ।

तत्र प्रवर्तितं चक्रं पूर्वबुद्धैस् तथागतैः अनागताश् च तत्रैव वर्तयिष्यन्ति धर्मकम् // HJm_35.101

ततो वाराणसीं गमिष्यामीति प्रस्थितं तथागतम् आजीवको दृष्ट्वा प्रणामं कृतवान् । तेनैव सार्धं विविधां संमोदनां कथां कृत्वा भगवतः क्व गमनाभिप्रायम् इत्य् अभ्यनुयुक्तस् तथगतश् चैनम् अवोचत् ।

वाराणसीं गमिष्यामि गत्वा वै योगिनां पुरिम् अन्धभूतस्य लोकस्य धर्मोल्कां संप्रकाशये // HJm_35.102

गच्छ गौतमेत्य् उत्थाय स आजीवको दक्षिणाभिमुखः प्रक्रान्तः । तथागतो ऽपि वाराणसीम् अभिगच्छन् गङ्गामहानदीं विहायसा तीर्त्वानुपूर्वेण जनपदचारिकां चरन् पात्रचीवरम् आदाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत् । तस्यां पिण्डाय चरित्वा कृतभक्त ऋषिपतने मृगदावे देवताभिः प्रज्ञप्तरत्नसिंहासने पर्यङ्कम् आभुज्य समाधिस्तिमितविग्रहस् तस्थौ । ततः पञ्चका भद्रवर्गीया भिक्षवस् तथागतस्य पादौ शिरोभिर् वन्द्य प्राञ्जलयो निषेदुः । अथ तथागतदेहाद् रश्मिर् निश्चरन् सर्वावन्तं लोकधातुम् अवभास्य संचोदयति स्म ।

मानुषं दुर्लभं प्राप्य क्षणसंपत् सुदुर्लभा तथागतस्य चोत्पत्तिर् उदुम्बरसुदुर्लभा // HJm_35.103

अद्य काशीं गतो बुद्धो लोकानां दुःखशान्तये तद् वो धर्मे मतिः कार्या समायातात्र सत्वरम् // HJm_35.104

ततः समन्ताद् दिग्भ्यः पूर्वप्रणिधानसमन्वागता बोधिसत्त्वगणाः शक्रब्रह्मादिलोकपालाः सुरासुरयक्षगन्धर्वगरुडकिन्नरमहोरगनागराजमनुष्याश् च स्वस्वभवनाद् आगत्य तथागतस्य महतीं पूजां प्रकुर्वन्तश् चरणयोर् निपत्य भगवन्तम् अभिसंमुखास् तत्रैव तस्थुः । ततो धर्मचक्रप्रवर्तनो नाम बोधिसत्त्वो भगवन्तं प्रदक्षिणीकृत्य प्रणम्य सर्वरत्नमयं सहस्रारं नानासुगन्धिपुष्पदामसंयुक्तं तथागतपूजार्थम् उपनामय्य कृताञ्जलिपुटो धर्मचक्रप्रवर्तनायैनं प्रार्थयामास ।

भगवन् मुनिशार्दूल जितमार जिनर्षभ पूरय धर्मशङ्खां च कुतीर्थमृगभीतये // HJm_35.105

यस् त्वं पूर्वादिभिः पूर्वं प्रणिधिं कृतवान् इति बुद्धो भवेयं लोकेषु सत्त्वदुःखप्रशान्तये // HJm_35.106

तत् कुरु भगवन् नाथ प्रतिज्ञायाश् च पूरणम् नो चेद् भगवांश् छास्ता भवदुःखाकुलं जगत् // HJm_35.107

दीपंकरप्रसादेन बुद्धो भवसि सांप्रतम् दुःखाग्निदीपितं लोकं दृष्ट्वामृतं प्रवर्षय // HJm_35.108

ब्रह्माद्या लोकपालाश् च श्रोतुकामाः समागताः दुःखमूलप्रहाणाय धर्मचक्रं प्रवर्तय // HJm_35.109

अथावोचन् महाबौद्धः शाक्यसिंहो दयोदधिः पर्षदं च समालोक्य भिक्षून् आलभ्य पञ्चकान् // HJm_35.110

अविद्याबीजसंभूतः स्कन्धाङ्कुरः प्ररोहति पुण्यपापरसं पीत्वा भववृक्षो महान् भवेत् // HJm_35.111

तस्य फलं महत् स्वादु परिणामं विषायते तद् एवं विषफलं ज्ञात्वा त्यक्तव्यं दूरतो बुधैः // HJm_35.112

विषवृक्षाङ्कुरं दग्धुं बीजम् एव प्रदह्यताम् अविद्याबीजदग्धेन भवान् मुक्तिर् भवेद् ध्रुवम् // HJm_35.113

इत्य् एवं भगवान् बुद्धः पुरुषदम्यसारथिः धर्मचक्रं प्रवर्त्याथ पुनर् धर्मं दिदेश सः // HJm_35.114

श्रावकाणां चतुःसत्यम् आर्यम् अष्टाङ्गमार्गिकम् आदाव् अन्ते च मध्ये च कल्याणं ब्रह्मचर्यकम् // HJm_35.115

ततः प्रहर्षाद् इव साचलाचला मही चकम्पे निभृतार्णवांशुका वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश् चकाशिरे // HJm_35.116

प्रसक्तमन्दस्तनिताः प्रहासिनस् तडित्पिनद्धाश् च घनाः समन्ततः परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तम् एनं कुसुमैर् अवाकिरन् // HJm_35.117

समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः मुदा प्रवृत्तैर् अविभक्तभक्तिभिस् तम् अर्चयामास कृशांशुकैर् इव // HJm_35.118

अथ सर्वावते धातौ बभूवुर् ब्रह्मचारिणः बुद्धस्य वचनं श्रुत्वा बुद्धधर्मपरायणाः // HJm_35.119

ततः सर्वे समुत्थाय पुजां कृत्वा जगद्गुरोः सनाथं स्याज् जगच् चाद्य इति प्रोक्ता ययुर् मुदा // HJm_35.120

भगवान् अपि सकलसत्त्वोद्धारं करिष्यामीति समुत्थाय जनपदचारिकां प्रचरति स्म । तद् एवम् अयं भगवांस् त्रिभुवनहितकाम्यया दिव्यसुखम् अपि विजह्य दुष्करं कृतवान् इति बुद्धे परः प्रसादः करणीयः । सत्कृत्य च तद्धर्मं श्रोतव्यम् एवं दुष्करेण बोधिप्राप्तवान् इति । एष राजकुमारो राज्यसुखतृप्तो दिव्यस्त्रीपरिभोगविरतः सकलराज्यभोग्यानि तृणवद् विजह्य परदुःखेन दुःखी दुष्करचर्यां चरन् बलवन्तं मारं विजित्वा सम्यक्संबोधिम् अपि प्राप्तो बुद्धो बभूव । अयम् एव भगवाञ् छाक्यसिंहस् त्रिभुवननाथ इति बोधिगवेषिणा पुरुषेण राज्यसुखम् अपि विरमणीयम् । दुष्करेणापि भवितव्यं मारम् अपि जेतव्यम् इति बोधिसत्त्वेन बोधिवाञ्छया भवितव्यम् इति ॥

॥ इति शाक्यसिंहतथागतजातकं समाप्तम् ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.