Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सर्वरोमविवरेभ्यः सर्वसत्त्वसमापन्नानौपपत्तिनिर्माणकायमेघान्निश्चरित्वा सर्वलोकधातुपर्यापन्नान् सर्वसत्त्वान् स्फरित्वा अभिमुखं सर्वव्रतसमादानाकम्प्यतां संदर्शयमानान् सत्त्वधातुसमं नानातपोव्रतमण्डलमुद्योतयमानान् सर्वसर्वलोकनिश्रयतां सर्वविषयानवेक्षतांसर्वसंसारसंवासविमुखतां दिव्यमानुषसंपत्तिविपत्तिसुखसमवसरणतां संदर्शयमानान् अशुभमण्डलमुद्योतयमानान्, शुभसंज्ञाविपर्यासं लोके विनिवर्तयमानान्, अनित्यचलव्ययपरिणामधर्मतां परिदीपयमानान्, दुःखानात्मसर्वसंस्कारधर्मतां संदर्शयमानान्, तथागतविषयसंवासाविप्रवासतां रोचयमानान्, अत्यन्ततथागतशीलपरिशुद्धये सत्त्वान् समादापयमानान्, सर्वसत्त्वयथाशयरुतशीलचर्यां संदर्शयमानान्, सर्वसत्त्वसंतोषणशीलसुगन्धिकतां संदर्शयमानान्, सर्वसत्त्वान् परिपाचयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च सर्वसत्त्वधातुसमापन्नान् नानावर्णात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वानां सर्वाङ्गप्रत्यङ्गच्छेदाधिवासनतां संदर्शयमानान्, सर्वसत्त्वकायोत्पीडनोपक्रमणाधिवासनतां संदर्शयमानान्, सर्वसत्त्वासत्यवचनाक्रोशपरिभाषणकुत्सनपंसनताडनतर्जनाधिवासनतां संदर्शयमानान्, सर्वसत्त्वाक्षोभ्यतां संदर्शयमानान् सर्वसत्त्वसत्कारानुन्नामावनामतां संदर्शयमानान्, सर्वसत्त्वनिरभिमानतां संदर्शयमानान्, सर्वधर्मस्वभावक्षान्त्यक्षयताक्षयज्ञानतां संदर्शयमानान्, सर्वसत्त्वसर्वक्लेशप्रहाणाय क्षान्तिचर्यां संदर्शयमानान् सर्वसत्त्वानां, विसंस्थितदुर्वर्णाश्रयशरीरतां व्यावर्तयमानान् सर्वसत्त्वानामनुत्तरां तथागतवर्णविशुद्धिं संवर्णयमानान् सत्त्वान् परिपाचयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च सर्वसत्त्वसमान्नानावर्णसंस्थानारोहपरिणाहान् नानोपपत्तिकसत्त्वकायनिर्माणमेघान्निश्चार्य यथाशयान् सत्त्वान् स्फरित्वा सर्वज्ञतामहासंभारवीर्यपराक्रमतां संदर्शयमानान्, सर्वमारकलिविकिरणवीर्यतां बोध्यारम्भाक्षोभ्याविवर्त्यवीर्यतां सर्वसत्त्वसंसारसागरोत्तारणवीर्यतां सर्वाक्षणापायदुर्गतिविनिपातपथविनिवर्तनवीर्यतामज्ञानपर्वतविकिरणवीर्यतां सर्वतथागतपूजोपस्थानापरिखेदवीर्यतां सर्वबुद्धधर्मचक्रसंप्रतीच्छनसंधारणवीर्यतां सर्वावरणपर्वतनिर्भेदनविकिरणवीर्यतां सर्वसत्त्वपरिपाकविनयापरिखेदवीर्यतां सर्वबुद्धक्षेत्रपरिशोधनवीर्यतामनुत्तरां तथागतवीर्यविशुद्धिं संदर्शयमानान् सत्त्वान् परिपाचयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च नानावर्णसंस्थानान् विविधात्मभावनिर्माणमेघान्निश्चरित्वा नानोपायैः सत्त्वानां प्रीतिं संजनयमानान्, दौर्मनस्यं विनिवर्तयमानान्, सर्वकामरतिं विजुगुप्समानान्, ह्रीधर्मतां लोके प्रभावयमानान्, गुप्तेन्द्रियतायां सत्त्वान् प्रतिष्ठापयमानान्, अनुत्तरब्रह्मचर्यं (gv 190) संवर्णयमानान्, सभयं कामलोकमारविषयं संदर्शयमानान्, विगतकामरतीनामपि सर्वलोककामरतिविषयं संदर्शयमानान्, धर्मारामरत्यां सत्त्वान् प्रतिष्ठापयमानान्, अनुपूर्वध्यानसमाधिसमापत्तिसुखान्यभिनिर्हरमाणान्, सर्वसत्त्वसर्वक्लेशनिध्यप्तिचित्ततां संवर्णयमानान्, सर्वबोधिसत्त्वसमाधिसमुद्रविकुर्वणतां संदर्शयमानान्, बोधिसत्त्वाभिज्ञाविकुर्वितवृषभितां संदर्शयमानान्, सत्त्वानां प्रीतिं संजनयमानान्, प्रामोद्यमुत्पादयमानान्, दौर्मनस्यं व्यावर्तयमानान्, चित्तकल्यतामावहयमानान्, चित्तकर्मण्यतां कुर्वाणान्, आशयं विशोधयमानान्, इन्द्रियाण्युत्तापयमानान्, कायसुखं संजनयमानान्, धर्मप्रीतिवेगं विवर्धयमानान् सत्त्वान् परिपाचयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च सर्वोपपत्तिसदृशशरीरान्नानाकायमेघान्निश्चरित्वा सर्वक्षेत्रगतसर्वसत्त्वाभिमुखाभिरुचितदर्शनतायै सर्वकल्याणमित्रोपसंक्रमणापरिखेदतां संदर्शयमानान्, सर्वाचार्यगुरुकल्याणमित्रोपस्थानपरिचर्यापरिखेदतां संदर्शयमानान्, सर्वतथागतधर्मचक्रप्रवर्तनसंप्रतीच्छनसंधारणापरिखेदवीर्यतां संदर्शयमानान्, सर्वधर्ममुखसमुद्रान् प्रविचिन्वानान्, सर्वबुद्धसमुद्रावतारणनयं संवर्णयमानान्, सर्वधर्मलक्षणस्वभावनयमभिद्योतयमानान्, सर्वधर्मान्, समाधिद्वारं संदर्शयमानान्, सर्वसत्त्वदृष्टिपर्वतनिर्भेदनं प्रज्ञावज्रं संदर्शयमानान्, अनेकचित्तक्षणसमायोगेन सर्वसत्त्वाविद्यान्धकारविधमनप्रज्ञादित्यमण्डलोदागमं संदर्शयमानान्, सर्वसत्त्वप्रीतिसंजननतया सर्वज्ञतायां सत्त्वान् परिपाचयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च सर्वजगत्समानुदाराचिन्त्यनानावर्णविकल्पसंस्थान् आत्मभावनिर्माणमेघान्निश्चरित्वा यथाशयाधिमुक्तसर्वसत्त्वाभिमुखस्थितान् नानारुतमन्त्रसंस्कारनिर्देशैः सर्वलौकिकपुण्याभिज्ञतां संदर्शयमानान्, सर्वलौकिककृत्यप्रचारतश्च सर्वत्रैधातुकसंभवसंदर्शनतश्च सर्वत्रैधातुकनिःसरणदिक्संवर्णनतश्च सर्वदृष्टिकान्तारगहननिःसरणदिक्संदर्शनतश्च सर्वज्ञतामार्गविशेषतां संवर्णयमानान्, श्रावकप्रत्येकबुद्धभूमिपथसमतिक्रमं संदर्शयमानान्, संस्कारासंस्कारानुनयप्रतिघानुनये ऽप्रतिघानुनयतां संदर्शयमानान्, संसारनिर्वाणसुखासंनिश्रिततां संदर्शयमानान्, तुषितभवनवासादिपरंपरागमनाप्रतिप्रस्रब्धिं संदर्शयमानान्, बोधिमण्डप्रस्थानाभिसंबोधाप्रतिप्रस्रब्धिं संदर्शयमानान्, सर्वज्ञतायां सत्त्वान् परिदीपयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वक्षेत्रपरमाणुरजःसमानात्मभावनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वलोकाभिमुखस्थितान् समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं संवर्णयमानान्, सर्वधर्मधातुविशुद्धिनिष्ठाप्रणिधानवैशेषिकतां संवर्णयमानान्, प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरिशुद्धिं संवर्णयमानान्, सर्वतथागतपूजोपस्थानाप्रतिप्रस्रब्धिं संवर्णयमानान्, प्रतिचित्तक्षणं सर्वधर्मनयसागरावताराप्रतिप्रस्रब्धिं संवर्णयमानान्, प्रतिचित्तक्षणं तथागतबलप्रवेशाप्रतिप्रस्रब्धतां (gv 191) संवर्णयमानान्, प्रतिचित्तक्षणं सर्वलोकधातुसमुद्रपरमाणुरजःसमसर्वधर्मधातुनयसागरावतरणाप्रतिप्रस्रब्धीः संदर्शयमानान्, सर्वक्षेत्रेष्वपरान्ताधिष्ठानकल्पसंवाससर्वज्ञतामार्गविशुद्धिसंप्रकाशनाप्रतिप्रस्रब्धतां संवर्णयमानान्, प्रतिचित्तक्षणं तथागतबलप्रवेशाप्रतिप्रस्रब्धतां संदर्शयमानान्, सर्वत्र्यध्वनयसागरावताराप्रतिप्रस्रब्धतां संदर्शयमानान्, बोधिसत्त्वसर्वक्षेत्रर्द्धिविकुर्वितसंदर्शनाप्रतिप्रस्रब्धतां संदर्शयमानान्, बोधिसत्त्वप्रणिधानचर्यासंदर्शनेन सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमान् कायनिर्माणमेघान्निश्चरित्वा सर्वसत्त्वाभिमुखस्थितानपर्यन्तं सर्वज्ञतासंभारबलं संदर्शयमानान्, अभेद्यापर्यादत्ताविनाशधर्मसर्वज्ञताचित्तबलं संदर्शयमानान्, अविवर्त्याप्रत्युदावर्त्याधिष्ठानाप्रतिप्रस्रब्धमनुत्तरसर्वबोधिसत्त्वचर्यासमुदागमबलं संदर्शयमानान्, सर्वसंसारदोषाननुलेपबलतां बोधिसत्त्वानां संवर्णयमानान्, सर्वमारमण्डलविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वक्लेशमलाननुलेपक्लेशबलतां बोधिसत्त्वानां संदर्शयमानान्, सर्वकर्मावरणपर्वतविकिरणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वकल्पसंवासबोधिसत्त्वचर्यापरिखेदमहाकरुणाबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वबुद्धक्षेत्रसंप्रकम्पनसंक्षोभणसर्वसत्त्वसंप्रहर्षणबलं बोधिसत्त्वानां संदर्शयमानान्, सर्वमारपरप्रवादिगणप्रमर्दनबलं बोधिसत्त्वानां संदर्शयमानान्, महाधर्मचक्रप्रवर्तनज्ञानबलं लोके प्रभावयमानान्, सर्वसत्त्वान् सर्वज्ञतायां परिदीपयमानानपश्यत् //

सर्वरोमविवरेभ्यश्च एकैकस्माद्रोमविवरात् सर्वजगच्चित्तसमादानानन्तवर्णकायनिर्माणसमुद्रेमेघान्निश्चरित्वा दशदिगनन्तसत्त्वधातुस्फरणान् यथाशयाधिमुक्तानां सत्त्वानां बोधिसत्त्वचर्याज्ञानविक्रमं संदर्शयमानान्, सर्वसत्त्वधातुसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वचित्तसमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वेन्द्रियसागरपरिज्ञाज्ञानं संदर्शयमानान्, सर्वसत्त्वचर्यासमुद्रावतरणज्ञानं संदर्शयमानान्, सर्वसत्त्वपरिपाकविनयकालानतिक्रमणज्ञानं संदर्शयमानान्, सर्वधर्मधात्वानुरवणज्ञानं संदर्शयमानान्, प्रतिचित्तक्षणं सर्वधर्मधातुज्ञाननयसागरस्फरणज्ञानं संदर्शयमानान्, सर्वलोकधातुसमुद्रसंवर्तविवर्तज्ञानं संदर्शयमानान्, सर्वलोकधातुप्रतिष्ठानसंस्थानव्यूहविकल्पज्ञानं संदर्शयमानान्, सर्वतथागतपूजाविकुर्वितोपसंक्रमणपूजोपस्थानधर्मचक्रमेघसंप्रतीच्छनज्ञानं संदर्शयमानान्, एवं ज्ञानपारमिताचर्यासंदर्शनेन सत्त्वानां प्रीतिं संजनयमानानपश्यत् / चित्तं प्रसादयमानान् प्रामोद्यमुत्पादयमानान् हर्षं संजनयमानान् दौर्मनस्यं विनिवर्तयमानान् चित्तं विशोधयमानान् चित्तकल्यतामावर्तयमानान्, इन्द्रियाण्युत्तापयमानान् अधिमुक्तिबलं संजनयमानान् सर्वज्ञतायामवैवर्त्यान् कुर्वाणानपश्यत् //

यथा च पारमिताचर्यासंदर्शनेन लोके सत्त्वान् परिपाकं व्रजतो ऽपश्यत्, तथा सर्वबोधिसत्त्वधर्मनिगर्जनेन ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभाराः (gv 192) कल्याणमित्रारागणप्रयोगाः तथागतपादमूलोपसंक्रमणपूजोपस्थानप्रयोगाः कुशलधर्मचर्याभियोगप्रयोगाः, ये च दानपारमिताचर्यादुष्करपरित्यागाः, शीलपारमितापरिशोधनप्रयोगाः, महाराज्यैश्वर्यपरिवारभोगाधिपत्यपरित्यागाभिनिष्क्रमणप्रयोगाः, ये लोके दुष्करचर्यामहाव्रततपोमण्डलक्षान्तिनिर्हाराः, या बोधिसत्त्वव्रतसमादानप्रयोगाकम्प्यता, ये बोधिसत्त्वदृढसमादानधर्मसमुद्राः सर्वसत्त्वधातुदुष्कृतदुर्भाषितदुश्चिन्तिताधिवासनप्रयोगाः, कायिकचैतसिकपीडाधिवाअसनप्रयोगाः, या सर्वकर्माविप्रणाशधर्मताक्षान्तिः सर्वधर्माधिमुक्तिक्षान्तिः सर्वधर्मस्वभावनिध्यानक्षान्तिः, यत् सर्वज्ञतारम्भप्रयोगवीर्यम्, यत् सर्वबुद्धधर्मपरिनिष्पादनवीर्यम्, याः सर्ववीर्यपारमिताचर्याः ये ध्यानपारमितासंभाराः ध्यानपारमिताभियोगाः ध्यानपारमितापरिनिष्पत्तिविशुद्धिचर्याः, यानि बोधिसत्त्वसमाधिप्रतिलाभविकुर्वितानि, ये समाधिमुखसमुद्रावताराः, यानि ध्यानपारमिताचरितानि, ये प्रज्ञापारमितासंभाराः, ये बोधिसत्त्वमहाप्रज्ञादित्यमण्डलविशोधननयाः, ये महाप्रज्ञामेघसंभवाः, ये प्रज्ञानिधानसंभाराः, ये महाप्रज्ञामहासागरव्यवचारणनयप्रयोगाः, ये महोपायकौशल्यनयप्रयोगाः, ये महोपायकौशल्यपरिशुद्धिसंप्रयुक्ताः पूर्वयोगाः, यानि बोधिसत्त्वमहाप्रणिधिपारमिताशरीराणि, या महाप्रणिधिपारमितापरिनिष्पत्तयः, यानि

महाप्रणिधानपारमिताचरितानि, ये महाप्रणिधानपारमितासंप्रयुक्ताः पूर्वयोगाः, ये बलपारमिताप्रतिलाभमहासंभाराः, ये बलपारमिताप्रत्ययाः , ये बलपारमितानयमहासागराः, ये बलपारमितानिर्देशाः, ये बलपारमितासंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमितानयाः, ये ज्ञानपारमिताप्रयोगाः, ये ज्ञानपारमिताविशुद्धिनयाः, या ज्ञानपारमितादिशः, ये ज्ञानपारमितानुगमाः, ये ज्ञानपारमिताप्रसराः, यानि ज्ञानपारमितानयसमवसरणानि, ये ज्ञानपारमिताविज्ञप्तिनयाः, यानि ज्ञानपारमिताप्रसरानुसरणानि, यानि ज्ञानपारमितास्फरणानि, ये ज्ञानपारमिताप्रविस्तराः, ये ज्ञानपारमिताकायाः, ये ज्ञानपारमितासमुद्रनयाः, ये ज्ञानपारमितापरिनिष्पत्तिसंप्रयुक्ताः पूर्वयोगाः, ये ज्ञानपारमिताचर्याप्रकारप्रविचयप्रवेशसंभवसमुदागमाः, ये ज्ञानपारमितासमवसरणनयसंप्रयुक्ता धर्माधर्मसंग्रहधर्मज्ञानानुगमाः कर्मज्ञानानुगमाः क्षेत्रज्ञानानुगमाः कल्पज्ञानानुगमाः त्र्यध्वज्ञानानुगमाः बुद्धोत्पादज्ञानानुगमा बुद्धज्ञानानुगमा बोधिसत्त्वज्ञानानुगमा बोधिसत्त्वचित्तसंभवज्ञानानुगमा बोधिसत्त्वव्यवस्थानज्ञानानुगमा बोधिसत्त्वसंभवज्ञानानुगमाः, बोधिसत्त्वप्रस्थानज्ञानानुगमाः, बोधिसत्त्वप्रणिधिज्ञानानुगमाः, बोधिसत्त्वधर्मचक्रज्ञानानुगमाः, बोधिसत्त्वधर्मप्रविचयज्ञानानुगमाः, बोधिसत्त्वधर्मसागरनयज्ञानानुगमाः, बोधिसत्त्वधर्मसमुद्रज्ञानानुगमाः, बोधिसत्त्वधर्मपरिवर्तज्ञानानुगमाः, बोधिसत्त्वधर्मनिधानज्ञानानुगमाः, बोधिसत्त्वधर्मगतिज्ञानानुगमाः, ये प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया यावदनन्तमध्यारम्बणज्ञानपारमितासंप्रयुक्ता

बोधिसत्त्वधर्माः, तानस्याः सर्वरोमविवरेभ्य एकैकरोमविवरविसृतनानावर्णसत्त्वकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् /

यदुत अकनिष्ठसुदर्शनसुदृशातपोबृहच्छुद्धावासदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / (gv 193) एवं बृहत्फलपुण्यप्रसवानभ्रकदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / शुभकृत्स्नाप्रमाणशुभपरीत्तशुभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानापश्यत् / आभास्वराप्रमाणाभपरीत्ताभदेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / महाब्रह्मब्रह्मपुरोहितब्रह्मपार्षददेवसदृशकायमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / साप्सरोगणसदेवपुत्रवशवर्तिदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / साप्सरोगणसदेवपुत्रसुनिर्मितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / साप्सरोगणसदेवपुत्रसंतुषितदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / साप्सरोगणसदेवपुत्रसुयामदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / साप्सरोगणसदेवपुत्रशक्रदेवराजसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / धृतराष्ट्रगन्धर्वराजगन्धर्वपुत्रगन्धर्वकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / विरूढककुम्भाण्डराजकुम्भाण्डपुत्रकुम्भाण्डकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / विरूपाक्षनागराजनागपुत्रनागकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / वैश्रवणमहायक्षराजयक्षपुत्रयक्षकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् /

द्रुमकिन्नरराजकिन्नरपुत्रकिन्नरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / सुमतिमहोरगेन्द्रमहोरगपुत्रमहोरगकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / महाबलवेगस्थामगरुडेन्द्रगरुडपुत्रगरुडकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / राह्वसुरेन्द्रासुरपुत्रासुरकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / यमधर्मराजयमपुत्रयमकन्यासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / सर्वमनुष्येन्द्रनरनारीदारकदारिकासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / एवं सर्वगतिपर्यापन्नसर्वसत्त्वसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / सर्वश्रावकप्रत्येकबुद्धर्षिसदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / वाय्वप्तेजःस्कन्धदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / सागरनदीपर्वतवनस्पत्यौषधिवृक्षपृथिवीदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / उद्याननगरबोधिमण्डरात्रिदिवसगगनदिक्पादगामिनीशरीरकायिकदेवतासदृशात्मभावमेघनिश्चरितान् सत्त्वान् परिपाचयमानानपश्यत् / एवं यावद्वज्रपाणिसादृशात्मभावमेघनिश्चरितान् दश दिशः स्फरित्वा धर्मधातुनयप्रसरेषु सर्वसत्त्वसंमुखीभावस्थितान् सत्त्वान् परिपाचयमानानपश्यत् //

ये च प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः प्रथमचित्तोत्पादसंभारमुखाः पूर्वजन्मसमुदागतकुशलचित्तपरंपराव्यवच्छेदनयाः, यानि च बोधिचित्तोत्पादप्रशंसापरंपरानन्तर्याणि (gv 194) च्युत्युपपत्तिपरिग्रहपरंपरानन्तर्याणि आत्मभावपरिग्रहपरंपरानन्तर्याणि नामचक्रपरंपरानन्तर्याणि कल्याणमित्रोपसंक्रमणपरंपरानन्तर्याणि बुद्धोत्पादारागणपरंपरानन्तर्याणि, धर्मपदव्यञ्जनोद्ग्रहपरंपरानन्तर्याणि बोधिसत्त्वमार्गप्रतिपत्तिचित्तपरंपरानन्तर्याणि समाधिप्रतिलाभपरंपरानन्तर्याणि समाधिप्रतिलाभाद्बुद्धदर्शनपरंपरानन्तर्याणि क्षेत्रदर्शनचक्षुस्फरणपरंपरानन्तर्याणि कल्पपरंपराज्ञानचक्रानन्तर्याणि धर्मधातुप्रतिवेधज्ञानपरंपरानन्तर्याणि सत्त्वधातुव्यवलोकनज्ञानपरंपरानन्तर्याणि धर्मधातुनयसागरावतरणपरंपराच्युत्युपपत्तिज्ञानपरंपरानन्तर्याणि दिव्यश्रोत्रपरिशुद्धिप्रत्यवेक्षणज्ञानपरंपरानन्तर्याणि सर्वसत्त्वधातुचित्तव्यवलोकनसरस्वत्यवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यचक्षुरवक्रान्तिमुखपरंपरानन्तर्याणि प्रथमदिव्यश्रोत्रविज्ञप्तिपरंपरानन्तर्याणि प्रथमपरसत्त्वचित्तज्ञानपरंपरानन्तर्याणि प्रथमात्मपरसत्त्वपूर्वनिवासानुस्मृतिज्ञानपरंपरानन्तर्याणि प्रथमाभावप्रतिष्ठानाभिसंस्कारर्द्धिप्रतिलाभप्रत्ययपरंपरानन्तर्याणि महर्द्धिविक्रमदिक्स्फरणपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षप्रतिलाभपरंपरानन्तर्याणि बोधिसत्त्वविमोक्षसागराचिन्त्यनयावतारपरंपरानन्तर्याणि बोधिसत्त्वविकुर्वितपरंपरानन्तर्याणि बोधिसत्त्वविक्रमपरंपरानन्तर्याणि बोधिसत्त्वाक्रमपरंपरानन्तर्याणि बोधिसत्त्वसंज्ञागतपरंपरानन्तर्याणि बोधिसत्त्वमार्गावतारपरंपरानन्तर्याणि, यावद् यानि प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया बोधिसत्त्वसुसूक्ष्मज्ञानप्रवेशपरंपरानन्तर्याणि, तानि अस्याः सर्वरोमविवरेभ्यो निर्माणकायमेघान्निश्चरित्वा सत्त्वेभ्यो धर्मं देशयमानानपश्यत् / संप्रकाशयमानान् द्योतयमानान् संदर्शयमानान् उदीरयमानान् प्रविभजमानान् प्रविस्तरमानान् गणयतो निर्दिश्यमानान् विज्ञापयमानान् उपसंहरमाणानपश्यत् //

केषांचिद्वातमण्डलीसंक्षोभनिर्घोषरुतेन देशयमानानपश्यत् / केषांचिदप्स्कन्धसंकच्छननिर्नादरुतेन, केषांचिज्ज्वलनार्चिनिगर्जितरुतेन, केषांचित् सागरगर्जितनिर्घोषरुतेन, केषांचित् पृथिवीसंकम्पननिर्नादरुतेन, केषांचिन्महापर्वतराजसंघट्टनसंहर्षणनिर्घोषनिर्नादरुतेन, केषांचिद्देवनगरसंकम्पनमधुरनिर्नादनिर्घोषरुतेन, केषांचिद्दिव्यविमानसंघट्टनरुतेन, केषांचिद्देवेन्द्ररुतेन, केषांचिन्नागेन्द्ररुतेन, केषांचिद्यक्षेन्द्ररुतेन, केषांचिद्गन्धवेन्द्ररुतेन, केषांचिदसुरेन्द्ररुतेन, केषांचिद्गरुडेन्द्ररुतेन, केषांचिन्महोरगरुतेन, केषांचिद्देवरुतेन, केषांचित्किन्नरेन्द्ररुतेन, केषांचिन्मनुष्येन्द्ररुतेन, केषांचिद्ब्रह्मेन्द्ररुतेन, केषांचिदप्सरःसंगीतिरुतेन, केषांचिद्दिव्यतूर्यसंप्रवादनरुतेन, केषांचिन्मणिराजनिर्घोषरुतेन, केषांचित् सर्वसत्त्वकायनानारुतैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सत्त्वानां प्रभावयमानानपश्यत् / एवं बोधिसत्त्वात्मभावमेघैर्नानाबोधिसत्त्वरुतैस्तथागतनिर्माणकायमेघैस्तथागतरुतविमात्रतास्वराङ्गनयैः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया विमोक्षविषयं सप्रथमचित्तोत्पादसंभवनिष्पत्तिसमुदागमं सविमोक्षविक्रीडितं सर्वसत्त्वानां विज्ञप्यमानानपश्यत् //

तस्या एकैकेन निर्माणरूपमेघेन प्रतिचित्तक्षणमनभिलाप्यानभिलाप्यानि दशदिशि लोके बुद्धक्षेत्राणि विशोध्यमानानपश्यत् / अनन्तमध्यान् सत्त्वसमुद्रान् सर्वापायदुःखेभ्यो (gv 195) विमोच्यमानानपश्यत् / अनन्तमध्यं सत्त्वधातुं देवमनुष्यसंपत्तौ प्रतिष्ठाप्यमानानपश्यत् / अनन्तमध्यान् सत्त्वसमुद्रान् संसारसागरादुच्चाल्यमानानपश्यत् / अनन्तमध्यान् सत्त्वसमुद्रान् श्रावकप्रत्येकबुद्धभूमौ प्रतिष्ठाप्यमानानपश्यत् / प्रतिचित्तक्षणमनन्तमध्यान् सत्त्वसमुद्रान् दशभूमावावर्तमानान् सुधनः श्रेष्ठिदारकः पश्यति स्म, शृणोति व्यवचारयति अवचरति प्रतिविध्यति निध्यायति अनुगच्छति अनुसरति अनुप्रविशति समतयाधितिष्ठति यदुत प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अचिन्त्यसमन्तभद्रप्रीतिविपुलध्वजबोधिसत्त्वविमोक्षविकुर्वितवृषभितानुभावेन पूर्वसभागचरितत्वात्तथागताधिष्ठानाधिष्ठितत्वादचिन्त्यकुशलमूलपरिपाकेन समन्तभद्रायाश्च बोधिसत्त्वचर्याया भाजनीभूतत्वात् //

अथ खलु सुधनः श्रेष्ठिदारको महाबोधिसत्त्वप्रीतिवेगसागरावभासप्रतिलब्धो दशदिक्तथागताधिष्ठितः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टौषीत् -

गम्भीरधर्मत जिनानां यत्र सुशिक्षितास्यमितकल्पान् / दशदिशि लोकि अनुपूर्वं रूप यथाशयं जगु फरित्वा // 1 //

ज्ञात्वा निरात्मकमनाथं वितथ विसंज्ञिनं सततभ्रान्तम् / ऋद्ध्या अनेकविध कायैश्वर्य विदर्शत्व जगु विनेसि // 2 //

अत्यन्तविज्वर प्रशान्ता धर्मशरीर अद्वयविशुद्धा / द्वयानिश्रितं जगशेषं निर्मितमेघगर्जन विनेसि // 3 //

न च स्कन्धआयतनधातौ निश्रयु तुभ्य विद्यति कदाचित् / सर्वाङ्गपूर्णवररूपैश्वर्यं निगर्जनैर्जगु विनेसि // 4 //

अध्यात्मबाहिरविमुक्ता उच्चलिता द्वयोद्भवसमुद्रात् / संसारसागरि अनन्तान् दर्शयसे गतीषु प्रतिभासान् // 5 //

न च तुभ्य इञ्जन कदाचिन्मन्यन स्यन्दना न च प्रपञ्चा / लोके प्रपञ्चरतबालान् धर्मस्वभाव दर्शयि विनेसि // 6 //

एकाग्रचित्त बहुकल्पान् सर्वसमाधिसागरविहारैः / पूजार्थमुत्सृजसि रोम्ना निर्मितमेघ दिक्षु सुगतानाम् // 7 //

बुद्धबलनयप्रवेशानोतरसि प्रतिक्षणमनन्तान् / सर्वान् संग्रहप्रयोगं दर्शयसे यथास्वमवतारैः // 8 //

व्यवलोक्य त्वं भवसमुद्रं कर्मविचित्रितं विविधरूपान् / धर्मेष्वनावरणमार्गं देशयती विशोधयसि सत्त्वान् // 9 //

रूपं ति लक्षणविचित्रं शुद्ध समन्तभद्रचरणेन / सत्त्वानामाशयवशा त्वं देवत रूपु दर्शयसि लोके // 10 //

अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य एतदवोचत् - कियच्चिरं संस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियच्चिरप्रतिलब्धश्चायं त्वया देवते समन्तभद्रप्रीतिविपुलविमलवेगध्वजो बोधिसत्त्वविमोक्ष इति //

अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

स्मरामि अतीत बहुकल्पान् क्षेत्ररजोपमास्तत परेण / क्षेत्रं मणिप्रभसुखाभं तत्र प्रशान्तघोषु अनुकल्पः // 11 //

दशचातुर्द्वीपनयुतानां कोटिशतसहस्र परिपूर्णम् / मणिपर्वताभपरिमाणं मध्यम चातुर्द्वीप सुविचित्रम् // 12 //

दशराजधानिनयुतानां कोटिशतैः सहस्रपरिपूर्णम् / गन्धध्वजा मणिप्रभासा मध्यमराजधानि रमणीया // 13 //

तस्यां विशांपतिरभूषी पार्थिवचक्रवर्तिरभिरूपो / द्वात्रिंशलक्षणसमङ्गी सो ऽनुव्यञ्जनै रचितगात्रः // 14 //

उपपादुको पदुमगर्भे काञ्चनवर्णसुप्रभशरीरो / जम्बुध्वजं सकलु सर्व स्फरति प्रभाय सो गगनचारी // 15 //

पुत्राण तस्य परिपूर्ण शूरवराङ्गरूपिण सहस्रा / कोटी अमात्य परिपूर्णा पण्डित दक्ष विद्ध मेधावी // 16 //

दश इस्त्रिकोटि परिपूर्णाः अप्सरसादृशा रतिविधिज्ञा / ताः स्निओग्धचित्त हितचित्ता मैत्रमना उपस्थिहिषु राज्ञः // 17 //

सो चो महापृथिवीराजा पर्वतचक्रवालपरियन्ताः / चत्वार द्वीप सुसमृद्धा धर्मबलेन आवसति सर्वान् // 18 //

अहु चक्रवर्तिवरभार्या ब्रह्मरुतस्वरा रचनकाया / विमलप्रभा कनकवर्णा स्फरमि प्रभाय योजनसहस्रम् // 19 //

अस्तं गते दिनकररश्मि स्वपिति नृपे सपुत्रपरिवारैः / संगीतिघोष उपशान्ते शयनगता अहु सुखप्रसुप्ता // 20 //

रात्रिमध्यमकि यामे बुद्ध उत्पन्नु भू शिरिसमुद्रः / तस्मिन् विकुर्वित अनन्ता दर्शि जिनो दशद्दिशि फरित्वा // 21 //

तान् सर्वक्षेत्ररजतुल्यानो सिरिपूजितः प्रभसमुद्रान् / नानाविकुर्वितशरीरान् येहि फरी दिशो दश अशेषाः // 22 //

पृथिवी प्रकम्पित सशैला घोष निगर्जि ते जिन उत्पन्नो / देवासुरा मनुजनागाः सर्वि प्रहर्षि ते जिन उत्पन्नः // 23 //

बुद्धस्य निर्मितसमुद्रा निश्चरि सर्वरोमविवरेभ्यः / ते चो दशद्दिशि फरित्वा लोकि यथाशये भणिषु धर्मम् // 24 //

तांश्चो विकुर्वित अनन्तान् सुपिनि जिनो निदर्शि मम सर्वान् / गम्भीर गर्जित श्रुणित्वा प्रीति ममा अभूषि सुपिनान्ते // 25 //

दश रात्रिदेवतसहस्रा उपरि मम स्थिता नभतलस्मिन् / वर्णानुदीर्यन्त जिनस्य दिव्यरुतेन मां भणि प्रबोध्य // 26 //

उत्तिष्ठ देवमतिभार्ये एष जिनोपपन्न तव राज्ये / कल्पान सागरशतेभि दुर्लभ संपश्यन् सुखि विशुद्धो // 27 //

अहु प्रीतिसंभुत विबुद्धा पश्यमि आभ निर्मल विशुद्धाम् / संपश्य ऽक्ष्ण इयमाभा पश्यमि बुद्ध बोधिद्रुमराजे // 28 //

द्वात्रिंशलक्षणविचित्रो रश्मिसमुद्र ओसरितु रोमात् / अभ्युद्गतो यथ सुमेरु दक्षिणवामतो जिन समन्तात् // 29 //

दृष्ट्वा मम प्रमुदितायाश्चित्तमुत्पन्नमीदृश भवेयम् / प्रणिधिश्च मे कृतु उदारो बुद्धविकुर्वितं विपुल दृष्ट्वा // 30 //

प्रतिबोधितः स मय राजा इस्त्रिगणश्च यो ऽस्य परिवारम् / बुद्धप्रभा विपुल दृष्ट्वा सर्वि अभूषि प्रीणितशरीराः // 31 //

उपसंक्रमी जिनसकाशं स्वामिन सार्ध याननयुतेभिः / बहुप्राणिकोटिनयुतेभिः संपरिवारितः सबलकायः // 32 //

पूजा कृता मयि जिनस्यो वर्षसहस्र विंशति अनूना / निर्यातिता रतन सप्तो पृथिवी ससागरा च सुगतस्य // 33 //

सूत्रासमुद्र गुणमेघान् प्रणिधिसमुद्र संभववियूहान् / सर्वांस्तथागतप्रभवान् देशयते यथाशय जगस्मिन् // 34 //

सा रात्रिदेवत हितार्थं बोधयि मां तदा करुणजाता / तस्यां मम स्पृह उत्पन्ना ईदृश भूत्व बोधयि प्रमत्तान् // 35 //

एतन्मम प्रणिधिचित्तं प्रथममुपपन्नमग्रवरबोधौ / संसारसागरगताया नो मम निश्चिता भवसमुद्रैः // 36 //

दश बुद्धकोटिनयुतानि ये मम पूजिता जनिय श्रद्धाम् / संसारि देवमनुजेषू विषयरतिसुखान्यभिलषन्त्या // 37 //

प्रथमो जिनः शिरिसमुद्रस्तत्समनन्तरं गुणप्रदीपः / तृतीयो जिनो रतनकेतुर्बुद्ध चतुर्थ भूद्गगनप्रज्ञः // 38 //

जिन पञ्चमः कुसुमगर्भः षष्ठु जिनो असङ्गमतिचन्द्रः / जिनु धर्मचन्द्रप्रभुराजो अष्टमु ज्ञानमण्डलप्रभासः // 39 //

रचनार्चिपर्वतप्रदीपो नवमु अभूषि तत्र द्विपदेन्दुः / दशमस्त्रियध्वप्रभघोषस्ते मय पूजिता प्रमुदिताया // 40 //

एतान् दश प्रमुख कृत्वा सर्वि त पूजिता नरवरेन्द्रा / न च ताव लब्ध मय चक्षुर्येनि ममोत्तरि नयसमुद्रम् // 41 //

सर्वाङ्गतस्तदनु सत्त्वक्षेत्रमभूषि सर्वरतनाभम् / कल्पश्च देवशिरिनामा तत्र उत्पन्न बुद्ध शतपञ्च // 42 //

शशिमण्डलाभु प्रथमो ऽभू द्वितीयु अभूषि भास्करप्रदीपः / ज्योतिध्वजस्तृतीयु बुद्धस्तस्य अनन्तरं मणिसुमेरुः // 43 //

कुसुमार्चिसागरप्रदीपो ज्वलनशिरीष देवशिरिगर्भः / ओभासराज प्रभकेतुर्दशमु समन्तज्ञानप्रभराजः // 44 //

एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्राः / स्कन्धालये ऽभिरतया मे धर्मि अनालये निलयबुद्ध्या // 45 //

अर्वागतस्तदनु धर्मप्रदीपमेघशिरिनामा / अत्र लोकधातु सुविचित्रः कल्प तदासि ब्रह्मप्रभनामा // 46 //

तस्मिन् जिना अपरिमाणाः ते मय पूजिताः सपरिवाराः / सर्वेष तेष सुगतानां धर्म श्रुतो मि गौरवि जनित्वा // 47 //

प्रथमो जिनो रतनमेरुस्तत्समनन्तरं गुणसमुद्रः / जिनु धर्मधातुस्वरकेतु धर्मसमुद्रगर्जन चतुर्थः // 48 //

धर्मध्वजो धरणितेजा धर्मबलप्रभो गगनबुद्धिः / धर्मार्चिमेरुशिखराभः पश्चिम तेषु मेघशिरिनामा // 49 //

एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा / न च मेष धर्मत विबुद्धा येनिम ओतरि जिनसमुद्रान् // 50 //

तदनन्तरं सुगत आसी सूर्यप्रदीपकेतुशिरिनामा / क्षेत्रा स बुद्धमति नाम्ना तत्र अभूच्च सोमशिरिकल्पः // 51 //

तस्मिन्नशीतिनयुतानां या मय पूजिता दशबलानाम् / विविधैरनन्तविपुलेभिः पूजमुखेभिर्नैकरुचिरेभिः // 52 //

गन्धर्वराज प्रथमो ऽभू द्वितीयु अभूषि बुद्धद्रुमराजः / तृतियु जिनो गुणसुमेरुस्तत्समनन्तरं रतननेत्रः // 53 //

वैरोचनप्रभवियूहो धर्मसमुद्रतेजशिरि बुद्धः / लोकेन्द्रतेजशिरिभद्रः पश्चिमु सर्वधर्मप्रभराजः // 54 //

एतान् दश प्रमुख कृत्वा पूजित ते मया सुगत सर्वे / न तु ताव लब्ध मय ज्ञानं सद्धर्मसमुद्र येनवतरेयम् // 55 //

तदनन्तरं सुपरिशुद्धं वज्रमाणिअभेद्यदृढतेजः / क्षेत्रं समन्तप्रभमेघं नैकवियूहसंस्थितविचित्रम् // 56 //

यस्मिन् विशुद्ध बहुसत्त्वाः कल्यतराः किलेशमलकृष्टाः / कल्प प्रशान्तमतितेजाः बुद्धसहस्रसंभव वियूहा // 57 //

प्रथमो जिनो वजिरनाभि द्वितीयु अभूदसङ्गबलधारी / जिनु धर्मधातुप्रतिभासः सर्वदिशप्रदीपप्रभराजः // 58 //

जिनु पञ्चमः करुणतेजा षष्ठ अभू जिनो व्रतसमुद्रः / जिनु क्षान्तिमण्डलप्रदीपो अष्टम धर्ममण्डलप्रभासः // 59 //

ओभाससागरवियूहः पश्चिमु तेष प्रशान्तप्रभराजः / एतान् दश प्रमुख कृत्वा सर्वि त पूजिता मय नरेन्द्रा // 60 //

न च मेष धर्मत विबुद्धा गगनसमा स्वभावपरिशुद्धा / यत्र स्थिहित्व विचरेयं चारिक सर्वक्षेत्रप्रसरेषु // 61 //

तदनन्तरं च रमणीयं गन्धप्रदीपमेघशिरि नाम / क्षेत्रं किलिष्टपरिशुद्धं कल्पु सुसंभवस्तद बभूव // 62 //

उत्पन्न तत्र जिनकोटिस्तेभि वियूहितस्त दशकल्पः / ते नायका भणिय धर्मा सो मय धारित स्मृतिबलेन // 63 //

प्रथमो जिनो विपुलकीर्ति धर्मसमुद्रवेगशिरिराजः / धर्मेन्द्रराज गुणघोष धर्मशिरिश्च देवमकुटश्च // 64 //

ज्ञानार्चितेजशिरिनामा सप्तमु तेष आसि दुपदेन्द्रः / जिनु अष्टमो गगनघोषो नवमु समन्तसंभवप्रदीपः // 65 //

तेषां च पश्चिमकु बुद्धो ऊर्णशिरिप्रभासमतिनामा / ते सर्वि पूजित नरेन्द्रा मार्गु न चैष शोधितु असङ्गः // 66 //

तदनन्तरं वरवियूहा रत्नविचित्रसंस्थितशरीराः / रतनध्वजाग्रमतिनामा पश्चिम लोकधातु सुविभक्ता // 67 //

सारोचयश्च तद कल्पस्तत्र उत्पन्न बुद्ध शतपञ्च / ते सर्वि सत्कृत स्वयंभू एत विमोक्ष समभिलषत्या // 68 //

गुणमण्डलः प्रथमु नाम्ना शान्तनिर्घोष सागरशिरिश्च / आदित्यतेज गिरिराजो लक्षणमेरु मेघरुतघोषः // 69 //

धर्मेन्द्रराज गुणराजः पुण्यसुमेरु शान्तप्रभराजः / एतान् दश प्रमुख कृत्वा सर्वि ति पूजिता मय नरेन्द्राः // 70 //

मार्गु विशोधितु जिनानां यत्र समोसरी जिन अशेषा / न च ताव लब्ध मय क्षान्तिर्या इममोतरे नयु जिनानाम् // 71 //

तदनन्तरं सुरुचिराभः शान्तनिर्घोषहारमतिनामा / अत्र लोकधातु परिशुद्धो अल्पकिलेशसत्त्वअधिवासः // 72 //

कल्पः सुखाभिरतिनामा यत्र अशीति बुद्धनयुतासन् / ते सर्वि पूजिता मय नरेन्द्रा मार्गु विशोधितो जिनवराणाम् // 73 //

प्रथमो जिनः कुसुमराशिः सागरगर्भ संभवगिरिश्च / देवेन्द्रचूड मणिगर्भ काञ्चनपर्वतो रतनराशिः // 74 //

धर्मध्वजो ऽथ वचनश्रीः पश्चिमु तेषु ज्ञानमति बुद्धः / एतान् दश प्रमुख कृत्वा पूजित ते मया सुरनरेन्द्राः // 75 //

अर्वागभूत्तदनु अस्ति क्षेत्र सुनिर्मितध्वजप्रदीपम् / कल्प सहस्रशिरिनामा तत्र य बुद्धकोटिनयुतानि // 76 //

शान्तध्वजः शमथकेतुः शान्तप्रदीप मेघशिरिराजः / ओभासयन्तप्रभराजा मेघविलम्बितः सुरियतेजा // 77 //

धर्मप्रदीपशिरि मेरुअर्चिशिरिश्च देवशिरिगर्भः / तेषां च पश्चिमकु आसीत् सिंहविनर्दितो विदुप्रदीपः // 78 //

एतान् दश प्रमुख कृत्वा पूजित ते मया सुगतचन्द्रा / न च ताव लब्ध मय क्षान्तिर्या इममोतरे नयसमुद्रम् // 79 //

अर्वागतस्तदनु अस्ति क्षेत्र समन्तआभशिरिनाम्नि / कल्पो अनालयवियूहस्तत्र षडविंशद्बुद्धनयुतानि // 80 //

प्रथमः समन्तगुणमेघस्तत्समनन्तरं गगनचित्तः / बुद्धः सुसंभववियूहो गर्जितधर्मसागरनिर्घोषः // 81 //

जिनु धर्मधातुस्वरघोषो निर्मितमेघसुस्वरशिरिश्च / बुद्धः समन्तदिशतेजा धर्मसमुद्रसंभवरुतश्च // 82 //

गुणसागरो गिरिप्रदीपो नवमु अभूदथात्र जिनसूर्यः / आरागितश्चरमु तेषां रतनशिरीप्रदीपगुणकेतुः // 83 //

यद निष्क्रमी स दुपदेन्द्रो रतनशिरिप्रदीपगुणकेतुः / शशिवक्रदेवि अहमासी निष्क्रममाणु पूजिय नरेन्द्रम् // 84 //

सो मे अनालयवियूह प्रणिधिसमुद्रसंभववियूहम् / सूत्रं निगर्जसु नरेन्द्रः श्रुत्व मि धारितं स्मृतिबलेन // 85 //

लब्धा मया विपुलचक्षुःशान्तसमाधि धारणिबलं च / पश्याम्यहं जिनसमुद्रान् क्षेत्रपरंपरा क्षणक्षणेन // 86 //

जातं हि मे करुणगर्भा मैत्रिनयं समन्तप्रभमेघम् / बोधाय चित्तु नभतुल्य बुद्धबलाप्रमाणविपुलाभम् // 87 //

दृष्ट्वा जगद्विपरियस्तं नित्यसुखप्रभासभिनिविष्टम् / मोहार्थविद्यतमछन्नं क्लेशसमाकुल वितथसंज्ञि // 88 //

दृष्टीगता गहनचारिं तृष्णवशानुगं विषमकर्म / गतिषू अनेकविधरूपां कर्मविचित्रितां समुदयन्तम् // 89 //

सर्वगतिच्युतिमुखेभिर्ये उपपत्तिभिः समुपपन्नाः / जातीजरामरणपीडां कायिकचैतसिकामनुभवन्ति // 90 //

तेषां तदा हितसुखार्थं चित्तमनुत्तरं समुपपन्नम् / यत्र संभवो दशबलानां यात्तुक सर्वक्षेत्रप्रसरेषु // 91 //

ततः संभुतः प्रणिधिमेघः सर्वजगत्सुखप्रवणगर्भः / संभारसंभव अनन्ता मार्गसमुद्रनयअनुगतश्च // 92 //

प्रस्थानमेघविपुलाभः सर्वपथप्रसन्नमुखवेगः / विपुलांश्च पारमितमेघान् मुञ्चिषु धर्मधातुप्रसरेषु // 93 //

भूम्याक्रमो विपुलवेगः सर्वत्रियध्वसागरनयेषु / भूमिष्वसङ्गतिचारी एकक्षणेन सर्वजिनगामी // 94 //

अपि चाप्यहं सुगतपुत्र चर्य समन्तभद्र अवक्रान्ता / दश धर्मधातुतलभेदास्तेष समुद्रनयमवतरामि // 95 //

तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विशांपतिर्नाम राजाभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय स्थितः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् / मञ्जुश्रीः कुमारभूतः तेन कालेन तेन समयेन विशांपतिर्नाम राजा अभूच्चक्रवर्ती बुद्धवंशानुपच्छेदाय प्रतिपन्नः / यया चाहं रात्रिदेवतया प्रबोधिता, सा समन्तभद्रेण बोधिसत्त्वेन निर्मिता / तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन भद्रमतिर्नाम चक्रवर्तिभार्या अभूत् स्त्रीरत्नम्? न खल्वेवं द्रष्टव्यम् / अहं सा तेन कालेन तेन समयेन भद्रमतिर्नाम (gv 202) चक्रवर्तिभार्या अभूवं स्त्रीरत्नम् / साहं तया रात्रिदेवतया प्रतिबोध्यं बुद्धदर्शने समादापिता / इयच्चिरोत्पादितं मे कुलपुत्र अनुत्तरायां सम्यक्संबोधौ चित्तम् / साहं तेन चित्तोत्पादेन बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् न जातु दुर्गतिविनिपातेषु उपपन्ना / सततसमितं देवमनुष्यगतिपरायणा / सर्वत्र च अविरहिता तथागतदर्शनेनाभूवम् / यावन्मे भगवतो रत्नश्रीप्रदीपगुणकेतोस्तथागतस्यार्हतः सम्यक्संबुद्धस्य सहदर्शनादयं समन्तभद्रप्रीतिविपुलविमलवेगध्वजो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलाभादहमेवंरूपेण सर्वसत्त्वपरिपाकविनयार्थेन प्रत्युपस्थिता //

एतमहं कुलपुत्र समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वतथागतपादमूलेषु प्रतिक्षणं सर्वज्ञताप्रस्थानमहावेगसागरप्रतिलब्धानां बोधिसत्त्वानां सर्वप्रस्थानमुखेषु प्रतिक्षणं महाप्रणिधानसागरावताराप्रतिप्रस्रब्धानां प्रतिचित्तक्षणं सर्वप्रणिधानसागरनयेषु अपरान्तकल्पचर्यामण्डलाभिनिर्हारकुशलानाम्, एकैकस्यां च चर्यायां सर्वबुद्धक्षेत्रपरमाणुरजःसमकायाभिनिर्हारकुशलानाम्, एकैकेन च कायेन सर्वधर्मधातुनयसागरस्फरणनाम्, एकैकस्मिंश्च धर्मधातुनयसागरे सर्वबुद्धक्षेत्रेषु यथाशयसत्त्वकायविज्ञप्तिचर्यासंदर्शनकुशलानाम्, एकैकस्मिंश्च क्षेत्रपरमाणुरजस्यनन्तमध्यतथागतसमुद्रावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागतविकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्य धर्मधातुस्फरणपरमतथागतविकुर्वितावतरणकुशलानाम्, एकैकस्य च तथागतस्य पूर्वान्तकल्पबोधिसत्त्वचर्यासंभारसंभवसमुदागमावतारकुशलानाम्, एकैकस्य च तथागतस्य विमलधर्मचक्रसंप्रत्येषणसंधारणकुशलानां सर्वत्र्यध्वतथागतविकुर्वितनयसागरावतरणकुशलानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव तथागतपर्षन्मण्डलसमनन्तरं समन्तसत्त्वत्राणोजःश्री नाम रात्रिदेवता प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यामण्डलमवतरितव्यम्, कथं परिशोधयितव्यम् // अथ खलु सुधनः श्रेष्ठिदारकः प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रमुदितनयनजगद्विरोचनां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रमुदितनयनजगद्विरोचनाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः // 34 // 37 समन्तसत्त्वत्राणोजःश्रीः /

अथ खलु सुधनः श्रेष्ठिदारकोः तत् प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षमधिमुच्यमानो ऽवतरन्, अधिगच्छन् प्रविशन् प्रसरन् स्फरमाणो ऽनुगच्छन् अनुसरन् प्रतिलभमानो भावयन् परिभावयन् कल्याणमित्रानुशासनीं प्रतिपद्यमानो ऽववादानुशासनीनिर्देशानन्तर्यतायै प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः संप्रेषणानुशासनीमनुस्मरन्, कल्याणमित्रदर्शनानुगतेन सर्वेन्द्रियमण्डलेन समन्तदिगभिमुखेन कल्याणमित्रदर्शनप्रतिलाभसमुदाचारेण सर्वमानविगतेन कल्याणमित्रगवेषणमनसिकारेण महासंभारसंभवव्यवसितेन कल्याणमित्रारागणविक्रमेण कल्याणमित्रैकोतीभावगतैः सर्वकुशलमूलैः कल्याणमित्रसर्वोपायकौशल्यचरितेष्वभेद्याशयप्रतिपन्नः कल्याणमित्रसंनिश्रयसंवर्धनमहावीर्यवेगसागरसंजातः सर्वकल्पकल्याणमित्रसमतानुगतसंवासप्रणिधानः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया अन्तिकमुपसंक्रान्तः //

तस्योपसंक्रामतः समन्तसत्त्वत्राणोजःश्री रात्रिदेवता सर्वलोकाभिमुखजगद्विनयनिदर्शनानन्तबोधिसत्त्वविमोक्षवृषभितासंदर्शनार्थं विचित्रलक्षणानुव्यञ्जनपरनिष्पन्नकायं संदर्श्य ऊर्णकोशात्समन्तज्ञानार्चिःप्रदीपविमलज्योतिध्वजं नाम रश्मिं प्रामुञ्चदनन्तमध्यरश्मिपरिवारम् / स सर्वलोकमवभास्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि निपत्य सर्वशरीरमनुस्फरति स्म / समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्तेन रश्मिना, अथ तावदेव अत्यन्तविरजोमण्डलं नाम समाधिं प्रत्यलभत, यस्य प्रतिलाभात्प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तसत्त्वत्राणोजःश्रियश्च रात्रिदेवताया मार्गान्तरे यत्पृथिवीमण्डलं तत्र यावन्ति तेजःपरमाणुरजांसि वा अप्सु परमाणुरजांसि वा पृथिवीपरमाणुरजांसि वा वज्रपरमाणुरजांसि वा विविधमहामणिरत्नरजःपरमाणुरजांसि वा पुष्पगन्धचूर्णपरमाणुरजांसि वा रत्नव्यूहपरमाणुरजांसि वा सर्वारम्बणपरमाणुरजांसि वा, तेषु सर्वेषु परमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् संवर्तमानान् विवर्तमानांश्चापश्यत् /

साप्स्कन्धान् सतेजःस्कन्धान् सवायुस्कन्धान् सपृथिवीस्कन्धान् समलोकधातुसत्त्वान् साधिष्ठानान् नानासंस्थानान् संप्रतिष्ठानान् नानापृथिवीतलव्यूहान् नानापर्वतपरिवारान् नानानदीतडागव्यूहान् नानासागरपरिसंस्थानान् नानादिव्यविभक्तिभवनव्यूहान् नानावृक्षसंस्थानान् नानागगनालंकारान्, सदेवनगरभवनालंकारान् सनागनगरभवनालंकारान् सयक्षनगरभवनालंकारान् सगन्धर्वनगरभवनालंकारान् सासुरनगरभवनालंकारान् सगरुडनगरभवनालंकारान्, सकिन्नरनगरभवनालंकारान्, समहोरगनगरभवनालंकारान्, समनुष्यनगरभवनालंकारान्, ससर्वदिग्विदिग्व्यवस्थानसर्वसत्त्वनगरभवनालंकारान्, सनरकलोकगतिविषयान्, सतिर्यग्योनिलोकविषयान्, सयमलोकविषयान्, समनुष्यगतिव्यवचारच्युत्युपपत्तिविषयान्, नानोपपत्त्यभिसंभिन्नान्, अनन्तगतिभेदसमवसरणान् / तेषु च लोकधातुषु विमात्रतामद्राक्षीत् / यदुत कांश्चिल्लोकधातून संक्लिष्टानपश्यत् / कांश्चित्परिशुद्धान्, कांश्चिदेकान्तसंक्लिष्टान्, (gv 204) कांश्चिद्गतिपरिशुद्धान्, कांश्चित्संक्लिष्टविशुद्धान्, कांश्चिद्विशुद्धसंक्लिष्टान्, कांश्चिदेकान्तपरिशुद्धान्, कांश्चित्समतलप्रवेशान्, कांश्चिदवमूर्धप्रतिष्ठानान्, कांश्चिद्व्यत्यस्तसंस्थानान्, तेषु लोकधातुषु सर्वसत्त्वगतिषु सर्वसत्त्वोपपत्तिषु समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतां प्रतिविनेयसत्त्वसर्वसत्त्वाभिमुखामपश्यत् /

सर्वलोकासंभिन्नदर्शनतया यथायुःप्रमाणानां सत्त्वानां नानाधिमुक्तिगोचराणां यथात्मभावानां यथात्मवचनप्रज्ञप्तिनिरुक्तिसंस्कारव्यवहाराणां यथाप्रयोगानां यथाधिपतेयानां परिपाकविनयमुपादाय सर्वसत्त्वासंभिन्नसंमुखावस्थितामपश्यत् //

यदुत नानानरकगतिपर्यापन्नानां सत्त्वानां विविधनरकदुःखभयविनिवर्तनतायै, नानातिर्यग्योन्युपपन्नानां सत्त्वानामन्योन्यसंभक्षणभयविनिवर्तनतायै, यमलोकगतिपर्यापन्नानां सत्त्वानां क्षुत्पिपासादिदुःखभयविनिवर्तनतायै, नागलोकगतिपर्यापन्नानां सत्त्वानां सर्वनागदुःखभयविनिवर्तनतायै, सर्वकामधातुपर्यापन्नानां सत्त्वानां सर्वकामधातुकदुःखभयविनिवर्तनतायै, मनुष्यलोकगतिपर्यापन्नानां सत्त्वानामन्धकारतमिस्रायां रात्रौ सर्वान्धकारभयविनिवर्तनतायै, अवर्णायशोकीर्तिशब्दश्लोकाभिनिविष्टानां सत्त्वानां सर्वायशोकीर्तिभयविनिवर्तनतायै, पर्षच्छारद्यभयनिविष्टानां सत्त्वानां पर्षच्छारद्यभयविनिवर्तनतायै, मरणभयभीतानां सत्त्वानां मरणभयविनिवर्तनतायै, दुर्गतिप्रपातभयभीतानां सत्त्वानां दुर्गतिप्रपातभयविनिवर्तनायै, आजीविकाभयभीतानां सत्त्वानामाजीविकाभयविनिवर्तनतायै, कुशलमूलविप्रणाशभयभीतानां सत्त्वानां कुशलमूलविप्रणाशभयविनिवर्तनतायै, बोधिचित्तसंमोषणभयभीतानां सत्त्वानां बोधिचित्तसंमोषणभयविनिवर्तनतायै, पापमित्रसमवधानभयभीतानां सत्त्वानां पापमित्रसमवधानभयविनिवर्तनतायै, कल्याणमित्रविप्रवासभयभीतानां कल्याणमित्रविप्रवासभयविनिवर्तनतायै, श्रावकप्रत्येकबुद्धभूमिप्रपातभयभीतानां सत्त्वानां श्रावकप्रत्येकबुद्धभूमिप्रपातभयविनिवर्तनतायै, विविधसंसारसंवासदुःखभयभीतानां विविधसंसारदुःखभयविनिवर्तनतायै, विसभागसर्वसमवधानभीतानां सत्त्वानां विसभागसर्वसमवधानभयविनिवर्तनतायै, विषमकालोपपत्तिभयभीतानां सत्त्वानां विषमकालोपपत्तिभयविनिवर्तनतायै, विषमकुलोपपत्तिभयभीतानां सत्त्वानां विषमकुलोपपत्तिभयविनिवर्तनतायै, पापकर्माध्यापत्तिभयभीतानां पापकर्माध्यापत्तिभयविनिवर्तनतायै, कर्मक्लेशावरणभयभीतानां कर्मक्लेशावरणभयविनिवर्तनतायै, विविधसंज्ञागतनिकेतबन्धनभयभीतानां सत्त्वानां विविधसंज्ञागतनिकेतभयविनिवर्तनतायै सर्वसत्त्वानामसंभिन्नसंमुखावस्थितामपश्यत् //

यदुत अण्डजानां सत्त्वानां जरायुजानां संस्वेदजानामुपपादुकानां रूपिणामरूपिणां संज्ञिनां नैवसंज्ञिनां नासंज्ञिनां सर्वसत्त्वपरित्राणप्रणिधानबलाभिनिर्हृतत्वात्, विपुलबोधिसत्त्वसमाधिवेगविक्रमबलेन बोधिसत्त्वमहाभिज्ञाबलपराक्रमेण समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हाबलेन महाकरुणानयसागरवेगसंजातत्वात्, सर्वजगदप्रणिहितमहामैत्रीस्फरणतायै (gv 205) सर्वसत्त्वसुखसमुदयप्रीतिवेगविवर्धनतायै सर्वसत्त्वसंग्रहज्ञानप्रयोगतायै विपुलबोधिसत्त्वविमोक्षविकुर्वितवृषभितासमन्वागतत्वात्, सर्वक्षेत्रपरिशोधनाभिमुखीमपश्यत् / सर्वधर्मज्ञानानुबोधाभिमुखीं सर्वबुद्धपूजोपस्थानाभिमुखीं सर्वतथागतशासनसंधारणाभिमुखीं सर्वकुशलोपचयाभिमुखीं सर्वबोधिसत्त्वचर्याविवर्धनाभिमुखीं सर्वसत्त्वचित्तानावरणाभिमुखस्थितां सर्वसत्त्वेन्द्रियपरिपाचनाभिमुखस्थितां सर्वसत्त्वाधिमुक्तिसमुद्रविशोधनाभिमुखीं सर्वसत्त्वावरणीयधर्मविनिवर्तनाभिमुखीं सर्वसत्त्वाज्ञानान्धकारविधमनाभिमुखीं सर्वकुशलापर्ययाभिमुखीमपश्यत् सर्वज्ञज्ञानालोकसंजननतायै //

अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया इदमचिन्त्यं सर्वलोकाभिमुखजगद्विनयनिदर्शनबोधिसत्त्वविमोक्षवृषभिताविकुर्वितं दृष्ट्वा प्रहर्षजातो महाप्रीतिवेगसागरप्रतिलब्धः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य ऊर्ध्वं वदनमवलोकयामास / अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रीदेवता तां बोधिसत्त्वरूपलक्षणविशुद्धिसंपदमन्तर्धाप्य रात्रिदेवतारूपेण सर्वविकुर्वितानि प्रवर्तयमाना अध्यतिष्ठत् / अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजश्रियो रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा तस्यां वेलायामिमा गाथा अभाषत -

दृष्टो मया विपुलकायु तवा वरलक्षणो रतनआभरण / अनुव्यञ्जनैः चित्रविचित्रशुभैर्गगनं ज्योतिषगणेन यथा // 1 //

तवनन्तक्षेत्ररजधातुसमं प्रभमण्डलं प्रवरकायशुभम् / नानाविधानुपमवर्णनिभा येन स्फरी दिशमनन्ततला // 2 //

बहु रश्मिजाल जगच्चित्तसमास्त्वं सर्वरोममुखतः सृजसे / रश्मीमुखे रुचिरपद्मस्थिताः तव निर्मिता जगि समेति दुःखम् // 3 //

गन्धार्चिमेघपटलां सृजसे जगरूपसंस्थितसमन्तशुभाम् / पुष्पा प्रवर्षन्त समन्तमुखं स्फरति धर्मधातुगत सर्वजिनान् // 4 //

रतनार्चिपर्वतमेरुनिभं तव आभकूटु विपुलं विमलम् / येन प्रभासति समन्तजगे मोहान्धकार विनिवर्तयसे // 5 //

तव सूर्यमेघपटला विपुला सद निश्चरन्ति वदनाद्विमलाः / वैरोचनस्य विषयं विपुलं तव सूर्यमण्डलप्रभोत्सृजति // 6 //

तव चन्द्रज्योतिषप्रभा विमला नयनेभि मेघ सद निश्चरिषु / ते चो दशद्दिशि स्फरित्व जगं द्योतन्ति लोकि तिमिरोपहता // 7 //

तव लक्षणैर्जगशरीरसमा गच्छति निर्मितसमुद्र दिशः / ते धर्मधातुविपुलस्फरणाः परिपाचयन्त्यमितसर्वगणान् // 8 //

तव कायु दृश्यति हि दिक्प्रसरैः सर्वजगाभिमुख प्रीतिकरः / राजाग्निचोरजलजात्यमितं सर्वं भयं शमयसे विनयन् // 9 //

यद प्रेषितस्तव सकाशमहं समुपस्थितो गुण विचिन्तयता / तद रश्मिमण्डल शुभा विमला भ्रुमुखान्तरातु तव निश्चरिषु // 10 //

ओभासयन् दिश समुद्रशतानालोक लोकि विपुलां जनिय / नानाविकुर्वित विदर्श्य बहूनस्तंगता मम शरीरि तदा // 11 //

यद रश्मिण्डल ममा निपती तद सौख्यमद्भुतमुदारमभूत् / ओक्रान्त धारणि समाधिशता पश्यामि दिक्षु च जिनानमिता // 12 //

क्रमविक्रमे यद धरा क्रमतः परमाणुसंख्यनयु ज्ञातु मया / पश्यामि क्षेत्रपरमाणुसमा क्षेत्राणि एकपरमाणुरजे // 13 //

रजसि स्थिता पृथगनेकविधा नेकान्तक्लिष्ट बहु क्षेत्रशता / दुःखानि येष्वनुभवन्ति जनाः परिदेवरोदितनिनादरुतैः // 14 //

संक्लिष्टशुद्ध पुन क्षेत्र बहून् अल्पं सुखं विपुल यत्र दुःख / समुदेन्ति येषु जिन कारुणिक जिनश्रावका अपि प्रत्येकजिनाः // 15 //

परिशुद्धक्लिष्ट पुन क्षेत्रनया बहुबोधिसत्त्वरचनाप्रचिताः / नरनारिमण्डित सुदर्शनीयाः जिनवंशु यत्र स्थिहती रुचिरः // 16 //

क्षेत्रसमुद्र विपुल विमला रजसि स्थिता समतलानुगता / वैरोचने चरिता हि पुरा परिशोधिता विपुलकल्पशतैः // 17 //

सर्वेषु क्षेत्रप्रसरेषु जिनाः संदृश्यिषु द्रुमवरेन्द्रगताः / बोधि विबुद्ध्ययु विकुर्वयतो चक्रं प्रवर्त्यं विनयन्ति जगत् // 18 //

पश्यामि त्वामनुगतामपि तां वैरोचनस्य विषये विपुले / पूजा सहस्रनयुतैः अमितैः सर्वान् जिनान् समभिपूजयन्ती // 19 //

अथ खलु सुधनः श्रेष्ठिदारकः इमा गाथा भाषित्वा समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतामेतदवोचत् - आश्चर्यं देवते, यावद्भम्भीरो ऽयं बोधिसत्त्वविमोक्षः / किं नाम अयं विमोक्षः? कियच्चिरप्रतिलब्धश्चायं त्वया? कथं च प्रतिपद्यमानो बोधिसत्त्वः इमं बोधिसत्त्वविमोक्षं परिशोधयति? आह - दुरभिसंभवं कुलपुत्र एतत्स्थानं सदेवकेन लोकेन सश्रावकप्रत्येकबुद्धेन / तत्कस्य हेतोः? समन्तभद्रबोधिसत्त्वचर्याप्रणिधानानुगतानां हि बोधिसत्त्वानामेष गोचरो महाकरुणागर्भाणां सर्वजगत्परित्राणप्रतिपन्नानां सर्वाक्षणापायदुर्गतिपथविशोधनप्रतिपन्नानां सर्वक्षेत्रानुत्तरबुद्धक्षेत्रपरिशुद्धिप्रतिपन्नानां सर्वबुद्धक्षेत्रतथागतवंशानुपच्छेदप्रतिपन्नानां सर्वबुद्धशासनसंधारणप्रतिपन्नानां सर्वकल्पबोधिसत्त्वचर्यासंवाससंवसनमहाप्रणिधानसागरावतीर्णानां सर्वधर्मसागरवितिमिरज्ञानालोकविशोधनप्रतिपन्नानामेकक्षणेन सर्वत्र्यध्वनयसागरज्ञानालोकविहारप्रतिलब्धानां बोधिसत्त्वानामेष विषयः / अथ च पुनस्तथागताधिष्ठानेन निर्देक्ष्यामि -

भूतपूर्वं कुलपुत्र अतीते ऽध्वनि बुद्धक्षेत्रपरमाणुरजःसमानां कल्पानां परेण वैरोचनतेजःश्रियां लोकधातौ विरजोमण्डलो नाम कल्पो ऽभूत् सुमेरुपरमाणुरजःसमबुद्धोत्पादप्रभवः / सा खलु पुनर्वैरोचनतेजःश्रीलोकधातुः सर्वरत्नमेघव्यूहा वज्रमयविमानभवनप्रतिमण्डिताभूत् //

अथ सा लोकधातुः सर्वविमलप्रभमणिराजसागरप्रतिष्ठिता सर्वगन्धराजमणिरत्नशरीरा समन्तपरिमण्डलविशुद्धसंक्लिष्टा सर्वाभरणमेघवितानसंछादिता सर्वव्यूहमणिचक्रवालसहस्रपरिक्षिप्ता चातुर्द्वीपिककोटिनियुतशतसहस्रसुरचितव्यूहा / काचित्तत्र चातुर्द्वीपिका संक्लिष्टासंक्लिष्टकर्मणां सत्त्वानामावासः, काचित्संक्लिष्टविशुद्धव्यामिश्रकर्मणां सत्त्वानामावासः, काचिद्विशुद्धसंक्लिष्टानां सत्त्वानामावासः उत्तप्तकुशलमूलानामल्पसावद्यानाम्, काचिदेकान्तपरिशुद्धानां बोधिसत्त्वानामावासः //

तस्याः खलु पुनर्वैरोचनश्रियो लोकधातोः पूर्वेण चक्रवालानुसंधौ रत्नकुसुमप्रदीपध्वजा नाम चातुर्द्वीपिका भूमिशुद्धिसंक्लिष्टा अकृष्टोप्तशालिपरिभोगा पूर्वकर्मविपाकाभिनिर्वृत्तकूटागारभवनविमानपरिभोगा समन्तात् कल्पवृक्षसंछादिता नानागन्धवृक्षसदाप्रमुक्तकोशगन्धमेघा विविधमाल्यवृक्षसदाप्रवर्षितमाल्यमेघा विचित्रपुष्पवृक्षा अचिन्त्यवर्णगन्धपुष्पवर्षौघप्रमुक्ता नानावर्णचूर्णवृक्षसदाप्रमुक्तकोशसर्वगन्धरत्नराजचूर्णवर्षाभिप्रवृष्टा विविधरत्नवृक्षमहामणिरत्नकोशविसृतवर्णावभाषिता दिव्यवाद्यवृक्षसर्ववाद्यमेघवातसमीरितगगनतलप्रमुक्तमधुरनिर्घोषा चन्द्रसूर्यरात्रिंदिवासुखप्रभवा मणिरत्नसमन्तावभाससमभूमिभागा //

तस्यां खलु चातुर्द्वीपिकायां दश राजधानीकोटीनियुतशतसहस्राण्यभूवन् / एकैका च राजधानी समन्तान्नदीसहस्रपरिक्षिप्ता / सर्वाश्च ता नद्यो विचित्रदिवापुष्पौघसंकरवाहिन्यो दिव्यतूर्यसंगीतिमनोज्ञमधुरनिर्घोषाः सर्वरत्नद्रुमतीरसुरुचिरव्यूहाः नानारत्नप्रतिमण्डिताः नौसंचारिण्यो यथेच्छाविविधसुखपरिभोग्याः / एकैकस्यां च नद्यन्तरिकायां दश नगरकोटीनियुतशतसहस्राणि संस्थितान्यभूवन् / एकैकं च नगरं दशग्रामकोटीनियुतशतसहस्रपरिवारम् / सर्वे ते ग्रामनगरनिगमा अनेकदिव्योद्यानभवनविमानकोटीनियुतशतसहस्रपरिवारा अभूवन् / तस्यां खलु पुनश्चातुर्द्वीपिकायां जम्बुद्वीपस्य मध्ये रत्नकुसुमप्रदीपा नाम मध्यमा राजधान्यभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनदेवमनुष्या च दशकुशलकर्मपथसमात्तानां सत्त्वानामालयः / तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां वैरोचनरत्नपद्मगर्भश्रीचूडो नाम राज अभूत चक्रवर्ती चतुर्द्वीपेश्वरः औपपादुकः पद्मगर्भे द्वात्रिंशन्महापुरुषलक्षणसमलंकृतशरीरो धार्मिको धर्मराजः सप्तरत्नसमन्वागतः / पूर्णं चास्य सहस्रमभूत् पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां सर्वाकारसुपरिपूर्णवराङ्गानाम् / दश चास्य स्त्रीकोटीनियुतशतसहस्राण्यन्तःपुरमभूत् सर्वासां चक्रवर्तिसभागकुशलमूलसंभवानां सभागचरितानां सहरत्नकायालंकाराणां कल्याणचित्तानां देवकन्यानिर्विशेषसदृशरूपाणां जाम्बूनदसुवर्णवर्णकायानां नानादिव्यगन्धरोमकूपप्रमुक्तगात्राणां (gv 208) दिव्यगन्धविमलप्रभाप्रमुञ्चनशरीराणाम् / दश चास्य अमात्यकोट्यो ऽभूवन् परिणायकरत्नप्रमुखाः //

तस्य खलु वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनः संपूर्णश्रीवक्रा नाम भार्या अभूत् स्त्रीरत्नम्, अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता / अभिनीलकेशी अभिनीलनेत्रा सुवर्णवर्णच्छविर्ब्रह्मस्वरा सततप्रमुक्तप्रभाशरीरा समन्ताद्योजनसहस्रमनेकवर्णया दिव्यगन्धप्रभया स्फरति स्म / तस्याश्च संपूर्णश्रीवक्राया राजभार्यायापद्मभद्राभिरामनेत्रश्रीर्नाम चक्रवर्तिदुहिता अभूत्, सर्वाङ्गसंपूर्णा अभिरूपा प्रासादिका दर्शनीया सर्वलोकातृप्तदर्शना / तद्यथापि नाम कुलपुत्र राज्ञश्चक्रवर्तिनो दर्शनेन न कश्चित् तृप्यति, एवमेव तस्याः पद्मभद्राभिरामिनेत्रश्रियश्चक्रवर्तिदुहितुर्न कश्चिद्दर्शनेन तृप्तिमापद्यते स्थापयित्वा प्रज्ञातृप्तान् / तेन च कालेन तेन समयेन अमितायुषः सत्त्वा अभूवन् न नियतायुषः, नास्ति अन्तरेण कालक्रिया / तेन च कालेन सत्त्वानां संस्थाननानात्वमपि प्रज्ञायते स्म / वर्णनानात्वमपि स्वरनानात्वमपि नामधेयनानात्वमपि कुलनानात्वमपि आयुष्प्रमाणनानात्वमपि आरोहपरिणाहविमात्रतामपि उत्साहबलपराक्रमस्थामविमात्रतामपि मनापामनापकरणीयविमात्रतामपि उदारहीनाधिमुक्तिनानात्वमपि प्रज्ञायते स्म / तत्र ये सत्त्वाः सुवर्णा अभूवन्नुदाराधिमुक्तिकाः संपूर्णगात्रा अभिरूपा दर्शनीयाः, त एवं वाचमभाषन्त - अहं भोः पुरुष सुवर्णतरस्त्वत्सकाशादिति / एवं ये सत्त्वाः सुसंस्थितशरीरा अभूवन्, ते दुःसंस्थितशरीरान् सर्वानवमन्यन्ते स्म / ते तेन अन्योन्यावमाननासमुदितेन अकुशलमूलेन आयुःप्रमाणादपि परिहीयन्ते स्म, वर्णादपि बलादपि सौख्यादपि परिहीयन्ते स्म //

तस्यां खलु रत्नकुसुमप्रदीपायां राजधान्यामुत्तरेण समन्तावभासनधर्ममेघनिर्घोषध्वजो नाम बोधिमण्डवृक्षो ऽभूत् सर्वतथागतबोधिमण्डव्यूहप्रतिक्षणदर्शनः अभेद्यवज्रमणिराजसारमूलः सर्वमणिरत्ननिचितविपुलोद्विद्धस्कन्धः सर्वरत्नमयस्कन्धशाखापत्रपलाशपुष्पफलः संपन्नः समन्तसुविभक्तः समभागाभिप्रलम्बरचितशाखः समन्तस्फरणाक्षयताव्यूहो नानारत्नार्चिविद्युत्समन्तभद्रप्रमुक्तावभासः सर्वतथागतविषयविकुर्वितनिर्घोषानुरवितः //

तस्य खलु बोधिमण्डस्य पुरतो रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषं नाम गन्धोदकसरो ऽभूद्दशरत्नद्रुमकोटीनियुतशतसहस्रपरिवारम् / सर्वे च ते रत्नवृक्षा बोधिवृक्षसंस्थाना अभूवन् / तस्य खलु पुना रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य महागन्धोदकसरसः सर्वमणिरत्नसुविभक्तनिचितानि कूलान्यभूवन्, सर्वरत्नहारप्रलम्बितानि विशुद्धरत्नमयसर्वभवनव्यूहोपशोभितानि विशुद्धसर्वाभरणव्यूहसमलंकृतानि / सर्वश्च बोधिमण्डो ऽप्रमाणैः पद्मगर्भैरचिन्त्यव्यूहमहामणिरत्नकूटागारैः समन्तात्परिवृतो ऽभूत् / तस्य खलु पुना रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य गन्धोदकसरसः मध्यात् सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितमेघव्यूहं नाम महारत्नराजपद्मं प्रादुरभूत् //

तत्र महापद्मे समन्तज्ञानार्चिश्रीगुणकेतुध्वजो नाम तथागतः प्रादुर्बभूव तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः, येन तस्मिन् कल्पे सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा / सो ऽनेकवर्षसहस्राणि धर्मश्रवणेन सत्त्वान् परिपाच्य दशवर्षसहस्रं रश्म्यवभासविकुर्वितेन परिपाचयामास तत्र दशभिर्वर्षसहस्रैः स तथागतः प्रादुर्भविष्यतीति / यत्ततः सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितरश्मिमेघव्यूहमहारत्नराजपद्मात् सर्वसत्त्वविरजःप्रदीपा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः संजानन्ति स्म - दशभिर्वर्षसहस्रैस्तथागत उत्पत्स्यत इति, नवभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्ततो महाबोधिवृक्षाद्विरजोवतीश्रीगर्भा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः सर्वरूपाणि सूक्ष्माण्यपश्यन् - अष्टाभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वकर्मविपाकनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः स्वकस्वकान् कर्मसमुद्रानवतरन्ति स्म, कर्मस्मृतिज्ञानं च प्रत्यलभन्त - सप्तभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात् सर्वकुशलमूलसंभवनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः परिपूर्णा अविकलसर्वेन्द्रियाः संतिष्ठन्ते स्म - षड्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति /

यत्तत एव महाबोधिवृक्षादचिन्त्यबुद्धविषयनिदर्शननिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः उदारातिशयतया विकुर्वन्ति स्म - पञ्चभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात् सर्वबुद्धक्षेत्रपरिशुद्धिनिगर्जितप्रतिभासविज्ञापना नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः सर्वाकारां बुद्धक्षेत्रपरिशुद्धिमद्राक्षुः चतुर्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात् सर्वतथागतविषयासंभेदप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य सर्वत्रानुगतविकुर्वितमवतरन्ति स्म - त्रिभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात्सर्वजगदभिमुखप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतमभिमुखमधिमुच्यापश्यन् - द्वाभ्यां वर्षसहस्राभ्यां स तथागत उत्पस्यत इति / यत्तत एव महाबोधिवृक्षात् त्र्यध्वज्ञानविद्युत्प्रदीपा नाम रश्मिर्निश्चचार सतथागतपूर्वयोगनिर्घोषा नाम, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य पूर्वयोगसमुद्रानवकल्पयामासुरवतरन्ति स्म - वर्षसहस्रेण स तथागत उत्पत्स्यत इति / यत्ततो महाबोधिवृक्षाद्वितिमिरज्ञानतथागतप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः समन्तचक्षुष्कतां प्रत्यलभन्त सर्वतथागतविकुर्वितबुद्धक्षेत्रसर्वसत्त्वदर्शनतायै - वर्षशतेन स तथागत उत्पत्स्यत इति /

यत्तत एव महाबोधिवृक्षात् सर्वजगद्बुद्धदर्शनविपाककुशलमूलसंभवा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतोत्पादसंज्ञां प्रत्यलभन्त - सप्ताहेन स तथागत उत्पत्स्यत इति / यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वप्रहर्षप्रीतिप्रामोद्यसमुदयनिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः बुद्धदर्शनमहाप्रीतिवेगसंजाता अभूवन् / इति हि कुलपुत्र एभिरेवंरूपैरप्रमाणैः रश्मिपरिपाचननयैर्दशवर्षसहस्राणि सत्त्वान् परिपाच्य सप्तमे दिवसे पूर्णे (gv 210) सर्वं तं लोकधातुमप्रमाणैः संकम्पननयैः संकम्प्य एकान्तपरिशुद्धामध्यतिष्ठत् यावद्दशसु दिक्षु सर्वतथागतानां बुद्धक्षेत्रपरिशुद्धिः / तामपि सर्वां प्रतिचित्तक्षणं तत्र बुद्धक्षेत्रनानाविधाचिन्त्यव्यूहान् संदर्शयामास / अथ पश्चिमे सप्ताहे ये तत्र लोकधातौ सत्त्वा बुद्धदर्शनपरिपक्वाः, ते सर्वे बोधिमण्डाभिमुखाः स्थिता अभूवन् //

अथ खलु तस्मिन् लोकधातौ सर्वचक्रवालेभ्य सर्वसुमेरुभ्यः सर्वपर्वतेभ्यः सर्वनदीभ्यः सर्वसागरेभ्यः सर्ववृक्षेभ्यः सर्वपृथिवीतलेभ्यः सर्वनगरेभ्यः सर्वप्राकारेभ्यः सर्वभवनेभ्यः सर्वविमानेभ्यः सर्ववस्त्राभरणपरिभोगेभ्यः सर्ववाद्यवृक्षेभ्यः सर्वतूर्यसंगीतिभ्यः सर्वनिर्माणव्यूहेभ्यः एकैकस्मादारम्बणात् सर्वतथागतविषयप्रभवं निगर्जमानाः सर्वगन्धधूपमेघान्निर्श्चार्य सर्वरत्नार्चिमेघान् सर्वगन्धधूपार्चिगर्भान् सर्वगन्धमणिविग्रहमेघान् सर्वमणिवस्त्ररत्नाभरणमेघान् सर्वरत्नपुष्पसुमेरुमेघान् सर्वचूर्णमेघान् सर्वतथागतरश्मिमेघान् विद्योतयमानाः सर्वतथागतप्रभामण्डलमेघान्निश्चारयमाणाः सर्ववाद्यतूर्यमेघान् संघट्टयमानाः सर्वतथागतप्रणिधाननिर्घोषमेघान् प्रमुञ्चयमानाः सर्वतथागतस्वराङ्गरुतसमुद्रमेघान् निगर्जयमानाः सर्वतथागतलक्षणानुव्यञ्जनविचित्रप्रतिभासमेघान् निदर्शयमानाः अचिन्त्यानि तथागतोत्पादपूर्वनिमित्तानि संदर्श्य तस्य सर्वत्र्यध्वतथागतविषयपत्रसंधिद्योतितरश्मिमेघव्यूहमहारत्नराजपद्मस्य बोधौ दशबुद्धक्षेत्रपरमाणुरजःसमा महारत्नराजपद्मपरिवाराः समवतिष्ठन्त / तेषां च महारत्नराजपद्मपरिवाराणां महारत्नपद्मानां केसरकर्णिकासु दशबुद्धक्षेत्रपरमाणुरजःसमानि महामणिरत्नगर्भाणि सिंहासनानि प्रादुरभूवन् / तेषु च मणिरत्नगर्भेष्वासनेषु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमा बोधिसत्त्वाः पर्यङ्कनिषण्णाः प्रादुर्बभूवुः //

समनन्तराभिसंबुद्धस्य तस्य भगवतः समन्तज्ञानरत्नार्चिश्रीगुणकेतुराज्ञः तथागतस्य अनुत्तरां सम्यक्संबोधिम्, अथ तावदेव दशसु दिक्षु सर्वलोकधातुतथागता अनुत्तरां सम्यक्संबोधिमभिसंबुध्य यथाशयानां सत्त्वानामभिमुखं धर्मचक्रं प्रवर्तयामासुः / तेन ततो लोकधातोरप्रमेयाः सत्त्वाः सर्वदुर्गतिविनिपातेभ्यो विनिवर्तिताः / अप्रमेयाः सत्त्वाः स्वर्गोपपत्तिप्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः प्रत्येकबोधौ परिपाचिताः / अप्रमेयाः सत्त्वा वेगप्रभानिर्याणायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वा विमलपराक्रमध्वजायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वाः धर्मप्रभावनाभवननिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वा इन्द्रियपरिशुद्धिप्रभावनानिर्याणायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वा धर्मनगराभिमुखविषययानसंभवनिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वत्रानुगतर्द्ध्यभिसंभिन्ननययानननिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः समाधिप्रस्थाननयनिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बोधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वा बोधिसत्त्वबोधौ चित्तमुत्पादिताः / अप्रमेयाः सत्त्वा बोधिसत्त्वमार्गे (gv 211) प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः पारमितामार्गविशुद्धौ प्रतिष्ठापिताः /

अप्रमेयाः सत्त्वाः प्रथमायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः / एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्ताप्रमेयाः सत्त्वा द्वितीयायां तृतीयायां चतुर्थ्यां पञ्चभ्यां षष्ठ्यां सप्तम्यामष्टभ्यां नवम्याम्, अप्रमेयाः सत्त्वा दशभ्यां भूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः प्रणिधानवैशेषिकायां बोधिसत्त्वचर्यायामवतारिताः / अप्रमेयाः सत्त्वाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानविशुद्धौ प्रतिष्ठापिताः / एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्तमध्यसत्त्वधातुर्विनयमगमत् / तस्मिंश्च लोकधातौ सर्वसत्त्वा यथाशयास्तस्य तथागतस्य नानात्मभावोपायकौशल्यप्रमुक्तां धर्मदेशनामाजानन्ति स्म //

तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां रूपवर्णविषयपरिभोगमदमत्तानां सत्त्वानामन्योन्यमवमन्यमानानां विनयवशं समुपादाय समन्तभद्रो बोधिसत्त्व उदारवर्णरूपगतमभिनिर्माय तां राजधानीमनुप्राप्तः / तस्योदारया प्रभया सर्वा सा राजधान्यवभासिता / या च तस्या राजधान्याः प्रभा, या च राज्ञश्चक्रवर्तिनो वैरोचनरत्नपद्मगर्भश्रीचूडस्य स्वशरीरनिर्याता प्रभा, या च स्त्रीरत्नस्य प्रभा, या च रत्नवृक्षाणां प्रभा, या च महामणिरत्नस्य प्रभा, या च चन्द्रसूर्यग्रहनक्षत्रज्योतिषां प्रभा, या च सर्वजम्बुद्वीपे प्रभा, सा च सर्वा न प्रज्ञायते स्म / तद्यथापि नाम आदित्ये उदिते विगते ऽन्धकारे न चन्द्रग्रहनक्षत्रज्योतिषां नाग्नेर्न मणीनां प्रभा प्रज्ञायते स्म, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य प्रभयाभिभूताः तत्र जम्बुद्वीपे सर्वप्रभा न प्रज्ञायते स्म / तद्यथापि नाम जाम्बूनदकनकबिम्बस्य पुरतो मषिविग्रहो न शोभते न भासते न तपति न विरोचते, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य पुरतः तेषां सत्त्वानां रूपकाया न शोभन्ते, न भासन्ते, न तपन्ति, न विरोचन्ते //

तेषामेतदभवत् - को ऽन्वयं भविष्यति देवो वा ब्रह्मा वा, यस्य पुरतो वयं न शोभामहे, न भासामहे, न तपामो न विरोचामहे कायेन वा प्रभया वा शुभया वा वर्णेन वा तेजसा वा? न चास्य शक्नुमो निमित्तमुद्ग्रहीतुम् //

अथ खलु समन्तभद्रो बोधिसत्त्वः तस्या रत्नकुसुमप्रदीपाया राजधान्या मध्ये वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनो विमानस्योपर्यन्तरिक्षे स्थित्वा तं वैरोचनरत्नपद्मगर्भश्रीचूडं राजानं चक्रवर्तिनमेतदवोचत् - यत् खलु महाराज जानीयाः - तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पन्नः / इहैव तव विजिते समन्तधर्मावभासधर्ममेघनिर्घोषध्वजबोधिमण्डे विहरति //

अथ खलु समन्तज्ञानार्चिपद्मभद्राभिरामनेत्रश्रीचन्द्रा राजदुहिता समन्तभद्रस्य बोधिसत्त्वस्य रूपकायं दृष्ट्वा प्रभाविकुर्वितमाभरणनिर्घोषं च श्रुत्वा महाप्रीतिप्रामोद्यवेगजाता तस्यां वेलायामेवं चित्तमुत्पादयामास - यन्मे किंचिदुपचितकुशलमूलं तेनाहमीदृशं कायं प्रतिलभेयम् / (gv 212) ईदृशमलंकारम्, ईदृशानि लक्षणानि, ईदृशमीर्यापथम्, ईदृशीमृद्धिम् / यथा अनेनान्धकारायां रात्रौ सत्त्वानामवभासं संजनय्य बुद्धोत्पादः संप्रकाशितः, तथाहमपि सत्त्वानामज्ञानान्धकारं विधूय महाज्ञानालोकं कुर्याम् / यत्र यत्र चोत्पद्येयम्, सर्वत्राविरहिता स्यामनेन कल्याणमित्रेण //

अथ खलु कुलपुत्र वैरोचनरत्नपद्मगर्भश्रीचूडश्चक्रवर्ती साध चतुरङ्गेन बलकायेन, सार्धं सप्तभी रत्नैः, सार्धं स्त्रीगणपरिवारेण, सार्धं पुत्रामात्यनैगमैर्जानपदैः, महत्या राजर्द्ध्या, महता राजानुभावेन तस्या रत्नकुसुमप्रदीपाया राजधान्या उच्चाल्य योजनमूर्ध्वं विहायस्यभ्युद्गम्य सर्वं जम्बुद्वीपं सर्वावतीं चातुर्द्वीपिकलोकधातुं महावभासेन स्फरित्वा सर्वसत्त्वानां बुद्धदर्शनसमादापनार्थं सर्वरत्नपर्वतेषु प्रतिभासं संदर्श्य सर्वचातुर्द्वीपिकलोकधातुपर्यापन्नानां सत्त्वानामभिमुखं स्थित्वा तद्बुद्धदर्शनं गाथाभिगीतेन संवर्णयामास -

बुद्ध लोके समुत्पन्नस्त्राता यः सर्वदेहिनाम् / सर्वे व्रजन्त उत्थाय द्रष्टुं लोकविनायकम् // 20 //

कदाचित्कल्पकोटीभिरुत्पद्यन्ते तथागताः / प्रकाशयन्ति ते धर्मं हितार्थं सर्वदेहिनाम् // 21 //

दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम् / संसारदुःखाभिहतं संजन्य महतीं कृपाम् // 22 //

कल्पकोटीरसंख्येयाश्चरिता बोधिचारिका / सत्त्वानां परिपाकार्थं सर्वदुःखोपशान्तये // 23 //

पर्यत्यजन् हस्तपादा कर्णनासा शिरांसि च / कल्पाननन्तपर्यन्ता बुद्धबोध्यमृताप्तये // 24 //

दुर्लभाः कल्पकोटीभिर्लोके लोकविनायकाः / अमोघं श्रवणं येषां दर्शनं पर्युपासनम् // 25 //

बोध्यासननिषण्णो ऽयं दृश्यते वदतां वरः / मारं ससैन्यं निर्जित्य विबुद्धो बोधिमुत्तमाम् // 26 //

बुद्धकायं च वीक्षध्वं अनन्तरश्मिमण्डलम् / नानावर्णं विनिःसृत्य प्रह्लादयति यज्जगत् // 27 //

रश्मिमेघानसंख्येयान् बुद्धरोमविनिःसृतान् / विन्दन्ति प्रीतिमतुलां सत्त्वा यैरवभासिताः // 28 //

स्वकस्वकेन चित्तेन पूजयध्वं विनायकम् / जनयित्वा महर्द्वीर्यमेत यामस्तदन्तिकम् // 29 //

अथ खलु राजा वैरोचनरत्नपद्मगर्भश्रीचूडश्चाभिर्गाथाभिः स्वविजितवासिनः सर्वान् सत्त्वान् संचोद्य दशभिर्विविधपूजामेघसहस्रैश्चक्रवर्तिकुशलमूलपरिनिष्पन्नैः समन्तावभासधर्ममेघनिर्घोषध्वजं बोधिमण्डं समन्तादभिप्रवर्षन् येन स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः तेनोपसंक्रान्तः सर्वरत्नच्छत्रमेघसंछादितमाकाशं कुर्वन्, सर्वपुष्पवितानमेघविततमाकाशं कुर्वन्, सर्ववस्त्रमेघसंछादितालंकारमाकाशं कुर्वन्, सर्वरत्नकिङ्किणीजालमेघैर्गगनमलंकुर्वन्, सर्वगन्धसागरनिर्धूपितगन्धार्चिमेघालंकारं गगनतलमधितिष्ठन्, सर्वरत्नासनमणिरत्नवस्त्रप्रज्ञप्तविरचनमेघालंकारं गगनतलमधितिष्ठन्, सर्वरत्नध्वजमेघोच्छ्रितालंकारं गगनतलमधितिष्ठान्, सर्वभवनविमानमेघसंछन्नालंकारं गगनतलमधितिष्ठन्, सर्वपुष्पमेघसंछन्नालंकारं गगनतलमधितिष्ठन्, सर्वपूजाव्यूहमेघाभिप्रवर्षणालंकारं गगनतलमधितिष्ठन् / उपसंक्रम्य भगवतः समन्तज्ञानरत्नर्चिश्रीगुणकेतुराजस्य तथागतस्य पादौ शिरसाभिवन्द्य तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पुरतः समन्तदिग्विद्योतितमहामणिरत्नपद्मगर्भासने न्यषीदत् //

अथ खलु समन्तज्ञानरत्नार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा चक्रवर्तिदुहिता स्वान्याभरणानि कायान्निर्मुच्य तैराभरणैस्तं भगवन्तं समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजानं तथागतमभ्यवकिरत् / अथ तान्याभरणानि तस्य भगवतः उपरि मूर्धसंधौ महामणिरत्नाभरणच्छत्रं संस्थितमभूवन् विचित्रमणिरत्नजालपरिक्षिप्तं नागेन्द्रकायपरिगृहीतं सर्वाभरणशरीरसुसंस्थितपरिमण्डलं दशाभरणच्छत्रमण्डलपरिवारितमेकान्तपरिशुद्धं कूटागारसंस्थानविचित्रव्यूहं सर्वरत्नाभरणमेघसंछादितं सर्वमणिराजद्रुमव्यूहसंछन्नं सर्वगन्धसागरमणिराजसमलंकृतम् / तस्य मध्ये धर्मधातुप्रभवसर्वरत्नमणिशाखाप्रलम्बं नाम महाबोधिवृक्षमद्राक्षीत् अनन्तमध्यव्यूहनिर्देशं प्रदक्षिणनानाव्यूहसंदर्शनम् / तत्र वैरोचनं नाम तथागतमद्राक्षीत् अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैः परिवृतं पुरस्कृतं सर्वैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातैः नानाबोधिसत्त्वैरचिन्त्यव्यूहासंभिन्नविहारिभिः, सर्वलोकेन्द्रांश्च तदभिमुखानद्राक्षीत् / तस्य भगवतो वैरोचनस्यानन्तमध्यं बुद्धविकुर्वितमद्राक्षीत्, पूर्वबोधिसत्त्वचर्याकल्पपरंपरां च अवतरति स्म / तस्याश्च लोकधातोः संवर्तविवर्तकल्पानवतरति स्म / तत्र लोकधातावतीतां बुद्धवंशपरंपरामवतरति स्म / तस्यां च लोकधातौ समन्तभद्रबोधिसत्त्वमद्राक्षीत् / सर्वतथागतपादमूलेषु बुद्धपूजाप्रयुक्तसर्वसत्त्वपरिपाकविनयाभिमुखं चाद्राक्षीत् /

सर्वबोधिसत्त्वांश्च समन्तभद्रस्य बोधिसत्त्वस्य काये प्रतिभासप्राप्तान्, आत्मानं च तत्रैवानुगतमद्राक्षीत् सर्वतथागतपादमूलेषु / समन्तभद्रस्य बोधिसत्त्वस्य कायप्रतिभासप्राप्तसर्वबोधिसत्त्वपादमूलेषु सर्वसत्त्वभवनेषु, तासु च लोकधातुष्वेकैकस्मिन् लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातूनद्राक्षीत् / ससंधिव्यूहान्, सप्रतिष्ठानान्, ससंस्थानान्, सशरीरान्, सनानाव्यूहपरिशुद्धान्, नानाव्यूहमेघपरिसंछन्नान्, नानाकल्पनामसंख्येयान्, नानातथागतवंशनिर्देशान्, नानात्र्यध्वनयावतारान्, नानादिक्प्रसरप्रवेशान्, नानाधर्मधातुप्रसरपर्यापन्नान् (gv 214) नानाधर्मधातुतलप्रवेशान्, नानाकाशतलव्यवस्थानान्, नानाबोधिगण्डव्यूहान्, नानातथागतविकुर्वितप्रभान्, नानाबुद्धसिंहासनव्यूहान्, नानातथागतपर्षन्मण्डलसमुद्रान् नानातथागतपर्षन्मण्डलपरिवर्तान् नानातथागतोपायकौशल्यपरिदीपनान्, नानातथागतधर्मचक्रप्रवर्तननयान्, नानातथागतस्वराङ्गरुतनिर्घोषमुक्तान् नानामन्त्रनयसागरनिर्देशान् नानासूत्रान्तमेघानुरवमाणानद्राक्षीत् / दृष्ट्वा च भूयस्या मात्रया महाप्रीतिप्रसादवेगान् प्रत्यलभत //

तस्या महाप्रीतिवेगसंजातायाः स भगवान् समन्तज्ञानरत्नार्चिःश्रीगुणकेतुराजस्तथागतः सर्वतथागतधर्मचक्रनिर्घोषं नाम सूत्रान्तं संप्रकाशयामास दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारम् / तस्यास्तं सूत्रान्तं श्रुत्वा दश समाधिमुखशतसहस्राण्यवक्रान्तानि मृदूनि सुखसंस्पर्शनानि / तद्यथापि नाम तद्दिवसावक्रान्तस्य गर्भस्य मातुः कुक्षौ विज्ञानम्, तद्यथापि नाम सत्त्वानां कर्माभिनिर्हारम्, तद्यथापि नाम तद्दिवसावरुप्तस्य सालकल्याणवृक्षस्य बीजाङ्कुरहेतुः, एवमेव ते समाधयो मृदवः कमनीयाः / यदुत सर्वतथागताभिमुखविज्ञापनो नाम समाधिः / सर्वक्षेत्रप्रसरानुगतावभासो नाम समाधिः / सर्वत्र्यध्वनयावतारप्रवेशो नाम समाधिः / सर्वतथागतधर्मचक्रनिर्घोषो नाम समाधिः / सर्वबुद्धप्रणिधानसागरविज्ञापनो नाम समाधिः / सर्वसंसारदुःखप्रतिपीडितसर्वनिर्याणनिर्घोषविज्ञापनो नाम समाधिः / सर्वसत्त्वतमोन्धकारविधमनप्रणिधानव्यूहो नाम समाधिः / सर्वसत्त्वदुःखविप्रमोक्षप्रणिधिविलम्बो नाम समाधिः / सर्वसत्त्वसुखनिष्पत्तिसंभवो नाम समाधिः / सर्वसत्त्वपरिपाकविनयापरिखेदगर्भो नाम समाधिः / सर्वबोधिसत्त्वमार्गावतरणध्वजो नाम समाधिः / सर्वबोधिसत्त्वभूम्याक्रमणसंभवव्यूहो नाम समाधिः / एवंप्रमुखानि अस्या दश समाधिमुखशतसहस्राण्यवक्रान्तानि //

सा सूक्ष्मसमाहितचित्ता अनिञ्जनचित्ता प्रहर्षितचित्ता समाश्वासितचित्ता अनाभासचित्ता कल्याणमित्रेष्वनुगतचित्ता गम्भीरसर्वज्ञतारम्बणचित्ता मैत्रानुगमनसागरप्रसृतचित्ता सर्वाभिनिवेशोच्चलितचित्ता सर्वलोकविषयासंवासचित्ता तथागतविषयावतरणचित्ता सर्वबुद्धरूपवर्णसागरावभासितचित्ता अक्षुभितचित्ता अनीरितचित्ता अप्रतिहतचित्ता अभिन्नचित्ता अनुन्नतचित्ता अनवनतचित्ता अखिन्नचित्ता अनिवर्त्यचित्ता असंसीदनचित्ता सर्वधर्मस्वभावनिध्यप्तिचित्ता सर्वधर्मस्वभावनयसागरानुगतचित्ता सर्वधर्मप्रविचयनयानुगतचित्ता सर्वसत्त्वसमुद्रावतरणचित्ता सर्वजगत्परित्राणचित्ता विपुलबुद्धसमुद्रावभाससंजातचित्ता, सर्वतथागतप्रणिधानसागरावतरणचित्ता सर्वावरणपर्वतविकिरणचित्ता विपुलपुण्यसंभारसमुदानयनचित्ता दशतथागतबलप्रतिलाभाभिमुखचित्ता सर्वबोधिसत्त्वविषयावभासप्रतिलब्धचित्ता सर्वबोधिसत्त्वसंभारसंवर्तनचित्ता सर्वदिक्समुद्रस्फरणचित्ता समन्तभद्रमहाप्रणिधानाध्यालम्बनतायै, दशबुद्धक्षेत्रपरमाणुरजःसमैः प्रणिधानसमुद्रैः सर्वतथागतानां पूर्वप्रणिधानं स्वबुद्धक्षेत्रपरिशुद्धये ऽभिनिर्हरति स्म, यदुत सर्वसत्त्वपरिपाकविनयाय धर्मधातुनयसमुद्रप्रसरपरिज्ञायै धर्मधातुनयसमुद्रावतरणतायै सर्वबुद्धक्षेत्रेष्वपरान्तकल्पबोधिसत्त्वचर्यावतरणतायै सर्वबोधिसत्त्वचर्यामण्डलापरान्तकल्पसंवासनतायै सर्वतथागतोपसंक्रमणतायै सर्वकल्याणमित्रारागणतायै (gv 215) सर्वतथागतपूजोपस्थानपरिपूरणतायै प्रतिचित्तक्षणं सर्वज्ञज्ञानविरोहणविबोधनबोधिसत्त्वचर्यानुपच्छेदनतायै / एवंप्रमुखैर्दशबुद्धक्षेत्रप्रमाणुरजःसमैः प्रणिधानाभिनिर्हारमुखसमुद्रैः समन्तभद्रायां बोधिसत्त्वचर्यायां प्रणिधिमभिनिर्हरति स्म तस्याः समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हाराय //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.