Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गुणकारण्डव्यूहसूत्र

Thông tin
GRETIL — Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

गुणकारण्डव्यूहसूत्र

गुणकारण्डव्यूह सूत्र

1. श्रीत्रिरत्न भजनानुशंसावदानम्

ओम् नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः //

यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः / तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम् //

या श्री भगवती देवी सर्वधर्माधिपेश्वरी / तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम् //

येन संपालितं सर्वं त्रैधातुकमिदं जगत् / तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम् / तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित् / त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः //

एकस्मिन् समये सो ऽर्हद् बोधिमण्डे जिनाश्रमे / बोधिचर्याव्रतम् धृत्वा जगद्धित्वे समाश्रयत् //

तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित् / सद्धर्मं समुपादेष्टुं सभासने समाश्रयत् //

तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः / तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन् //

तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः / सुभाषितामृतं पातुं तत्सभां समुपाश्रयन् //

भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः / व्रतिनो ऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः //

ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः / अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः //

तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः / तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः //

सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम् / यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः //

तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा / शास्तारं तं समालोक्य परिवृत्य निषेदिरे //

तदा सो ऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः / जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान् //

त्रिरत्नगुणमाहात्म्यं श्रोतुं समभिलाषिणः / समुत्थायासनात्तस्य जयश्रियः पुरो ऽग्रतः //

उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः / पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात् //

भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् / तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो //

इति संप्रार्थिते तेन जिनश्रीगुणसंभृता / जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत् //

साधु शृणु समाधाय जिनश्रीराज सन्मते / त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम् //

यथा मे गुरुणादिष्टं जिनकल्पेन योगिना / उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया //

तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः / अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत् //

एकदा स महाराजः सद्धर्मगुणलालसः / त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते //

ततः स भूपती राजा समन्त्रिजनपौरिकः / पूजोपहारमादाय स संवाद्य महोत्सवैः //

विहारे कुक्कुटारामे प्रययौ संप्रमोदितः / ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः //

उपगुप्तं महाभिज्ञं संददर्श ससांघिकम् / तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा //

सहसा समुपागत्य यथाविधि समर्चयेत् / ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे //

सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत् / ततः सर्वे ऽपि लोगकाश्च यथाक्रममुपागताः //

तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन् / तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान् //

उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः / उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः //

सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात् / भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् //

किं त्रिरत्नमिति ख्यातम् तत्समादेष्टुमर्हसि / इति संप्रार्थिते राज्ञा सो ऽर्हन् जिनात्मजः सुधीः //

उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् //

साधु शृणु महाराज समाधाय जगद्धिते //

यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया / तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः //

पंचबुद्धांशसंजातो जगदीशस्तथागतः / महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः //

धर्मराजो मुनीन्द्रो ऽर्हन्वैरोचनसमाधिधृक् / सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः //

समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः / षडभिज्ञो महावीरो वज्रसत्त्वविनायकः //

मारदर्पतमोहन्ता संबोधिज्ञानभास्करः / एष स भगवांल्लोके बुद्धरत्न इति स्मृतः //

ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते / बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान् //

जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः / सम्यक्संबोधिमासाद्य संबुद्धपदमागताः //

ते ऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः / भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः / या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया / जननी सर्वबुद्धानां संबोधिज्ञानभास्करी //

मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी / सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी //

एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः //

ये चान्ये ऽपि महायानसूत्रादयः सुभाषिताः / देशिताः सुगतैस्ते ऽपि धर्मरत्न इति स्मृतः / यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः / महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः //

दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः / विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत् //

सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः / एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः //

ये चान्ये ऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः / अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः //

भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः / संबुद्धसांघिकास्ते ऽपि संघरत्नाः स्मृता जिनैः //

ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः / भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम् //

ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः / सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः //

बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा / सुखान्येव सदाअ भुक्त्वाअ प्रान्ते याअन्ति सुखावतीम् //

इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम् / मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः //

एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम् / सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत् //

ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा / भजन्ति श्रद्धया भक्त्या श्रुत्वाप्येतत्सुभाषितम् //

ते ऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः / संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः //

संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा / सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम् //

इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम् / विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः //

एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः / सद्गतिष्वेव संजातो प्राओन्ते याति जिनालयम् //

इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः / त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे //

एतत्पुण्यानुभावेन परिशुद्धाशया नराः / संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम् //

बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात् //

चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः / अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः //

इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति / स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत् //

आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन् / तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत् //

व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः / एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम् //

अतीता अपि संबुद्धा एतत्पुण्यानुभावतः / जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः /

ये चैतर्हि स्थिताः सर्वे ते ऽप्येतत्पुण्यभावतः / अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु //

ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः / ते ऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः //

एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः //

एवमन्ये ऽपि सत्त्वाश्च ये ये ऽप्येतद्व्रतंचराः / ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः //

श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः / सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः //

दुर्गतिं ते न गच्छन्ति कदापि हि भवालये //

सदापि सद्गतावेव संजाताः सत्सुखान्विताः / बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः //

क्रमेण बोधिसंभारं पूरयित्वा समाहिताः / त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः //

इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः / ते एतद् व्रतमाधाय संचरन्तो यथाविथि //

एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम् / सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम् //

एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा / तथाहं ते मया राजन् गदितं संप्रध्यताम् //

त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि //

सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि //

चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि / एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम् //

इति तेनार्हता शाया समादिष्टं निशम्य सः / अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत //

ततः स नृपती राजा कृतांजलिरुपाश्रितः / उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा //

भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः / तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम् //

तद्विधानं समाख्याहि तत्फलं च विशेषतः / triratnabhajanotpannaṃ puṇyafalaṃ ca vistaram //

इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः / अशोकं तं महाराजं समालोक्यैवमादिशत् //

साधु शृणु महाराज यदिच्छसि समाहितः / यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते //

तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति / स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि //

शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः / अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत् //

श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम् / सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम् //

यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः / तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत् //

आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत् / ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः //

ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम् //

निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात् //

संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः / यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः //

धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः / सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत् //

जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम् / अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम् //

ततश्च सांजलिः स्थित्वा कुर्यात् स्वपापदेशनाम् / पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम् / एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम् / ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् //

ततो ऽह्नेः तृतीये यामे पंचामृतादिभोजनम् / निरामिषं यथाकामं भुक्त्वा चरेत् समाहितः //

एवं तद्व्रतसंपूर्णं कृत्वा संपालयन् मुदा / सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः //

एअतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः / बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत् //

श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत् / सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम् //

त्रिविधां बोधिमासाद्य प्रान्ते यायात् सुनिर्वृतिम् //

evamevadvratodbhūtaṃ puṇyafalaṃ mahattaram / प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः //

तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते / तच्छृणुष्व महाराज समाधाय सुचेतसा //

ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति / ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति //

पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम् / मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते //

ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः / ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीईगुणिता भवन्ति //

ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः / ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः //

ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति / कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति //

ये च त्रिरत्नम् स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति / ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति //

त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति / ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति //

सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च / देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः //

ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः / ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः //

प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम् / ते शुद्धनेत्राः प्रबला गुणाढ्या देवाधिराजाः क्षितिपाधिपाश्च //

भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति / ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः //

पानं नरा ये ऽमृतसद्गुणाढ्यं रत्नत्रयाय प्रतिपादयन्ति / ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च //

śākāni mūlāni falāni ye ca ratnatrayāya pratipādayanti / यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च //

ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या / श्रीईसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते //

ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति / दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च //

वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः / विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत् सः //

ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम् / ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च //

श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः / लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च //

छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च / सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये ये ऽभ्यवरोपयन्ति //

ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः / सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः //

संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च / मड् मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः //

स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च / तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम् //

तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च / भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति //

तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः / नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति //

ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः / सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे //

क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः / न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते //

सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति / सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति //

प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम् / ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च //

ये च त्रिरत्नम् स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः / वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च //

ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या / भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च //

ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः / ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति //

ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति / ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति //

ये च त्रिरत्नानि सुदूरतो ऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या / ते चापि सद्धर्मगुणाभिलाषाः शुद्धत्रिकायाः सुभगा भवन्ति //

इत्येतदादीनि महत्तराणि पुण्याअनि श्रीसद्गुणासाधनानि / त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम् //

आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत् / पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव //

एवम् महत्पुण्यमुदारमग्रम् बद्धप्रमेयं गणनानभिज्ञम् / मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि //

ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः / ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः //

दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः / क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः / ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः / समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते //

एवम् हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम् / सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व //

मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम् / अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव //

ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः / आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम् //

ते सर्व एनो ऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः / नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः //

ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः / सर्वाणि धर्मार्थसुभाषितानि श्रुत्वा प्रसन्नाः परिभाषयेयुः //

एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः / भूयो ऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः //

गत्वापि ते ऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च / भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः //

जिघत्सितास्ते ऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च / तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनो ऽभिरता वसेयुः //

नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनो ऽभिनिबन्ध्यमानाः / सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते //

ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि / हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः //

ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि / प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः //

तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः / पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः //

कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः / स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः //

ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात् कदाचित् / मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः //

तत्रापि ते दुष्टजानुसक्ताआः सद्धर्मनिन्दादुरितानुरक्ताः / भूयो ऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः //

भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः / किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते //

एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः / मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित् //

भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व / एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते //

इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः / तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत् //

भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः / तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम् //

सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात् / धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति //

कस्मिन् मासे चरेदेतद् व्रतं कस्मिन्स्तिथावपि / एतत् सम्यक्तमादिश्य प्रबोधयतु मां भवान् //

इति बिज्ञापितं राज्ञा श्रुत्वा सो ऽर्हन्महामतिः / उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् //

साधु शृणु महाराज यद्येतद् व्रतमिच्छसि / तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम् //

तद्यथा सर्वमासेषु चरेत् पंचसु पर्वसु / शुक्लाष्टम्यां विशेषेन पूर्णमास्यां जगुर्जिनाः //

मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः / कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम् //

इति मत्वा महाराज यावज्जीवं समाहितः / त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर //

एतत्पुण्यमहोदारं संबोधिज्ञानदायकम् / अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते //

इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः / तदुपदेशमासाध्य तद् व्रतं कर्तुमैच्छत //

ततं स नृपति राजा सभर्यात्मजबान्धवः / यथाविधि समाधाय चचारैतद् व्रतं सदा //

तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि / भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः //

सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः / सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा //

तदा तत्र सदाभद्रः महोत्साहं समन्ततः / प्रावर्तत निरुपातमेतद्धर्मानभावतः //

एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते / अनुमोद्य भवन्तो ऽपि चरतैतद् व्रतं सदा //

एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः / अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः //

इति तेएन समाख्यातं जयश्रिया सुधीमता / श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः //

तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः / त्रिरत्नशरणं गत्वा चचारैतद् व्रतं सदा //

तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः / त्रिरत्नभजनं कृत्वा व्रतमेतत् सदाचरन् //

ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः / अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः //

ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान् / श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः //

ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः / भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः //

भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः //

// इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमो ऽद्यायः //

2. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम्

अथ धीमान् महासत्त्वो जिनश्रीराज आत्मवित् / जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत् / भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः / श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम् //

तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः / गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते //

इति संप्रार्थ्यमानो ऽसौ जयश्रीर्मतिमान् यतिः / जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत् //

साधु शृणु महाभाग यथा मे गुरुणोदितम् / तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते //

तद्यथासौ महाराजा भूयो ऽशोको नराधिपः / विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत् //

तत्र स समुपाविश्य समन्त्रिनपौरिकाः / उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत् //

तत्र स समुपागम्य तमर्हन्तं यतिं मुदा / अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात् //

भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः / सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि //

एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः / उपगुप्तो महीपालं तमालोक्यैवमादिशत् //

साधु शृणु महाराज यथा शृतं मया गुरोः / तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः //

तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः / धर्मराजो महाभिज्ञः सर्वज्ञो ऽर्हन् मुनीश्वरः //

भगवांछ्रीघनः शास्ता तथागतो विनायकः / मारजित्सुगतो नाथयैधातुकाधिपो जिनः //

श्रीमतो ऽनाथनाथस्य गृहस्थस्य महामतेः / विहारे जेतकोध्याने विजहार ससांघिकः //

तदा तत्र महासत्त्वा बोधिओसत्त्वा जिनात्मजाः / मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः //

तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा / तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन् //

सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः / भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन् //

श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः / शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन् //

ऋषयो ऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः / दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः //

ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः / दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः //

इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः / पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः //

तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः / भगवन्तं समालोक्य दूरन्नत्वा समागताः //

तथा सर्वे च गन्धर्वा धृतराष्ट्रादयो ऽपि ते / सुदूरात् सनिरीक्षान्ता नमन्तः सहसागताः //

विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः / ते ऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः //

विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा / ते ऽपि दृष्ट्वा सुदूरात्तं जिनण् समागताः //

वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः / पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः //

एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः / सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि //

सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः / कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि //

गरुडेन्द्राश्च सर्वे ऽपि किओन्नरेन्द्रा द्रुमादयः / वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि //

महोरगाश्च नागाश्च सर्वे ऽपि जलचारिणः / सर्वे ऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः //

सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः / नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः //

यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः / असंख्येयास्तथा विधाधरकन्या मनोहराः //

सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः / देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः //

समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके //

तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि / व्रतिन उपासकाश्चापि तथा चोपासिका अपि //

ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः / तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः //

राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः / अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः //

सैन्या योधृगणाश्चापि भृत्याः परिजना अपि / गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः //

शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनो ऽपि च / सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः //

नागराः पौरिकाश्चापि जानपदाश्च नैगमाः / ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः //

एवं सर्वे ऽपि लोकाश्च संबुद्धभत्तिमानसाः / त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः //

तत्र सर्वे ऽपि ते लोका ब्रह्माअदय उपागताः / तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः //

यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम् / तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा //

तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः / पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन् //

तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान् / सर्वसंशोधनं नाम समाधिं विदधे तदा //

तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः / अवभास्य दिशः सर्वा भासयन्तः समागताः //

तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः / हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः //

कूटागाराश्च सर्वे ऽपि सुवर्णरत्नशोभिताः / द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च //

सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च / वातायनानि सर्वाणि हेमरत्नमयानि च //

कपाटाअनि च सर्वाणि रुप्यरत्नमयाण्यपि / भित्तयो ऽपि तथा सर्वाः स्वर्णरत्नमया बभुः //

पटलानि सुवर्णानि रत्नाभिमण्डितानि च / वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः //

तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च / एवं सर्वे ऽपि प्रासादाः सुवर्णरत्नमण्डिताः //

भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च / समतलानि शुद्धानि कोमलानि विरेजिरे //

एवं तज्जातकारामे विहारं परिशोभितम् / दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत //

बहिश्च जेतकारामे विहारस्य समन्ततः / कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः //

सुवर्णस्कन्धशाखाढ्या रुप्यपत्राभिच्छादिताः / दिव्यचीवरक्यादिलम्बिता परिशोभिताः //

समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः / सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः //

अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः / दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः //

अनेकफलवृक्षाश्च समुद्भूताः समन्ततः / divyamṛtarasasvādasupathyafalabhāriṇaḥ //

सर्वा औषधयश्चापि रसवीर्यगुणान्विताः / सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः //

अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः / पद्मोत्पलादिपुष्पाढ्याः प्रादुरासन् मनोरमाः //

एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च / श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः //

एवं तदा महानन्दसुखधर्मगुणान्वितम् / सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते //

एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः / विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः //

अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः / बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः //

दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान् / तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन् //

तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि / तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः //

गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः / तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत //

तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः / कृती सर्वनीवरणविष्कम्भी संविलोकयन् //

समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः / उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा //

संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम् / सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात् //

भगवन् परमाश्चर्यप्राप्तो ऽस्मीदं विलोकयन् / कुत इते सुपुण्याभा रश्मयो ऽत्र समागताः //

कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान् / प्रभाव इदृशो ऽस्माभिर्दृश्यति न कदाचन //

तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः / तदेतन्नः समादिश्य प्रबोधयितुमर्हति //

इति संप्रार्थ्यमानो ऽसौ भगवान् धर्माधिपो जिनः / दृओष्ट्वाआ सर्वनीवरणविष्कम्भिनं तमब्रवीत् //

यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः / बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः //

स जिनस्यामिताभस्य धृताज्ञः करुणामयः / लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः //

सांप्रतं नरके ऽवीचौ सत्त्वान् तेनाभिपाचितान् / प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः //

तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान् / कृत्वा ततः समुद्धत्य समवभास्य सर्वतः //

इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः //

एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान् / इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः //

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः / धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः //

भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः / लोकेशपुण्यमाहात्म्यं प्रष्टुमेवमभाषत //

भगवन्नके ऽवीचौ महानग्निः सदोज्वलः / वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः //

तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः / तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः //

यत्र प्राकारपर्यन्तमयोमयं महीतलम् / महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला //

तस्यां संस्थापिता कुम्भी महती तैलपूरिता / तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः / अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम् / खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः //

एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः / स्वदुष्कृतान् अभिभुंजन्तस्तिष्ठिन्ति पारितापिताः //

तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः / प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह //

भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम् / समादिश्य भवानस्मान् प्रबोधयितुमर्हसि //

इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता / भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत् //

साधु शृणु महासत्त्व समाधाय यदीच्छसि / लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते //

तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः / महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः //

वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते / महोद्याने मनोरम्ये प्रविशति प्रमोदितः //

तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः / तत्रावीचौ समालोक्य प्रविशति प्रभासयन् //

तस्य काये ऽन्यथाभावं भवति नैव किंचन / सुखमेव महानन्दमहोत्साप्रमोदनम् //

यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन् / तदवीचिमुक्रान्तश्चरते संप्रभासयन् //

तदादौ निरयो ऽवीचिर्महदग्निशिखाकुलः / शीतीभूतो महानन्दं सुखांगो भवति क्षणात् //

यमपालास्तदाअलोक्य संवेगोद्विग्नमानसाः / किमत्राशुभनैमित्तं जातमिति विषादिताः //

को देवो ऽत्र महावीरो दैत्यो वा समुपागतः / इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः //

तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम् / सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम् //

महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम् / पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः //

ततो ऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः / संभासयन् विशुद्धाभैः प्रविशते विलोकयन् //

यदा तत्र प्रविष्टो ऽसौ बोधिसत्त्वजगत्प्रभुः / तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम् //

सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति / तदा विस्फोटिता कुम्भी सा सो ऽपि प्रशमितो ऽनलः //

तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम् / तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः //

निर्गतवेदनादुःखा महत्सौख्यसमन्विताः / विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम् //

समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा / तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात् //

ततः सर्वे ऽपि ते सत्त्वा निःशेषत्यक्तपातकाः / शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम् //

सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः / मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः / बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते //

तदा नरकपारास्ते सर्व उद्विग्नमानसाः / विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः / प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम् //

ततस्ते सहसा गत्वा यमराजस्य सन्निधौ / प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम् //

तैर्निवेदितमाकर्ण्य यमराजो ऽतिविस्मितः / पुरतः समुपामन्त्र्य पृच्छते तान् समादरात् //

किमेवं यूयमायाताः सर्वे ऽप्युद्विग्नमानसा / कुतो भयं समायातं केत युयं प्रखेटिताः //

सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः / विस्तरेण समाअख्यातुमर्हथ मे पुनः पुनः //

इत्युक्ते यमराजेन सर्वे ते यमकिंकराः / प्रणत्वा यमराजं च निवेदयन्ति विस्तरात् //

यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः / तत्रावीचौ महोत्पातं जायेते तन्निगद्यते //

प्रथमं तस्मिन् सुगन्धश्चरते शीतलो ऽनिलः / ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः //

तत्प्रभास्पर्शितः सो ऽग्निरवीचिरपि शाम्यते / ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता //

तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम् / ततस्तत्र महासत्त्वः कामरुपो ऽतिसुन्दरः //

भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः / श्रीमान् महर्द्धिको धीरो दिव्यालंकारमण्डितः //

दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः / समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन् //

तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम् / प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन् //

तमासीनं समालोक्य पापिनस्ते सविस्मयाः / उपेत्य शरणं गत्वा सम्भजन्ते समादरात् //

ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः / तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः //

इत्यसौ नरको ऽवीचिर्निःशेषं प्रलयं गतः / तदत्र देव संवीक्ष्य विचारयितुमर्हति //

इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः / किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते //

को ऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः / महेश्वरो ऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः //

वाडवो वा महानग्निरुत्थितः प्रलये यथा / गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः //

किमुत्थितो महावायुरतिवीर्यपराक्रमः / यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यराट् //

राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च / यक्षाधिपो महावीरो राजराजो ऽथवान्यतः //

किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः / को ऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान् //

एतेषामपि सर्वेषां महद्वीर्यानुभाविनी //

ईदृग्विर्यप्राअभावो हि कस्यचिन्नैव दृश्यते //

अथवा तापसः कश्चिदृषिर्वापि नराधिप / तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान् //

कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती / साधको वरमासाद्य मामपि जेतुमागतः //

कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह / यो ऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात् //

ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान् / नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि //

एवं विचिन्त्य सन्त्रस्तो यमराट् सो ऽतिविस्मितः / अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा //

तत्र रत्नयोदारपद्मासनसमाश्रितम् / दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम् //

समन्तभद्ररुपांगं जटामणिकिरीटिनम् / सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम् //

तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम् / बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः //

यमराट् सहसोत्थाय त्वरंस्तत्र समागतः / उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम् //

नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने / आर्याअवलोकितेशाय महेश्वराय सुश्रीये //

पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते / नमो वंशकराय भुवरदृष्टिकराय ते //

सर्वदा जगदाश्वासवरदानप्रदाय च / शतसहस्त्रहस्ताय कोटीलक्षणाय च //

असंख्यानन्तरुपाय विश्वरुपाय ते नमः / सर्वभूतात्मरुपाय आदिनाथाय ते नमः //

वडवामुखपर्यन्तशशिदिगाननाय च / सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये //

सर्वसत्त्वमहदुःखसंमोक्षणकराय च / मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च / ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने / रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च //

सर्वनरकभूमीनां संशोषणकराय च / ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च //

सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च / नमस्कृताय सभक्त्या वन्दिताय नमस्सदा //

अभयदानदत्ताय पारमितोपदेशिने //

सूर्यरोचनदीप्ताय धर्मदीपंकराय च //

कामरुपाय गन्धर्वसुरुपाय सुरुपिणे / हेमनगाधिरुढाय परमार्थयोगं बिभ्रते //

अब्धिगम्भीरधर्माय संमुखदर्शनाय च / सर्वसमाधिप्राप्ताय स्वभिरतिकराय च //

संविच्छुरितगात्राय मुनिपुंगवरुपिणे / वध्यबन्धनबद्धानां संमोक्षणकराय च //

सर्वभावस्नुरुपाय समुपचितकारणे / बहुपरिजनाढ्याय चिन्तामणिसरुपिणे //

निर्वाणमार्गसंचारसंदर्शनप्रदाय च / भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे //

छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम् / सर्वाधिव्याधियुक्तानां परिमोचनकारिणे //

नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते //

श्रीमतो ऽमोघपाशस्य रुपसन्दर्शनाय च / सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च //

वज्रपाणिमहायक्षविद्रापणकराय च / त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे //

भूतवेताडकुम्भाण्डरक्षोयक्षादिभीददे / नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये //

सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे / विविधधर्मसंबोधिमार्गोपचिताय च //

मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते / प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च //

प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च / परमाणुरजोसंख्यं समाधिं दधते नमः //

नमस्ते लोकनाथाय बोधिसत्वाय ते सदा / महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने //

नमामि ते जगच्छास्तः सदाहं शरणं व्रजन् / भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो //

क्षन्तव्यं मे ऽपराधत्वं यन्मयापकृतं भवेत् / अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः //

भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते / तथात्राहं करिष्यामि भवता दिश्यते यथा //

तद् भवान् मे सदालोक्य प्रसीदतु जगत्प्रभो / भवदभिमतं कार्यं तस्करिष्याम्यहं भवे //

इत्येवं धर्मराजो ऽसौ स्तुत्वा संप्रार्थयन् मुदा / तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः //

ततो लोकेश्वरो ऽसौ तं धर्मराजं विलोकयन् / समादिशति संबोधिमार्गे नियोक्तुमादरत् //

यम त्वं धर्मराजो ऽसि सर्वलोकानुशासकः / तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मे ऽनुशासय //

ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः / ते ऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः //

ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः / भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः //

ते सर्वे ऽपि समालोक्य पालनीयास्त्वया सदा //

बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा //

बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते / बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् //

ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः / प्रबोधय समालोक्य चारयस्व शुभे सदा //

इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि / बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते //

यद्येवं कुरुषे लोके दयाधर्मं समाचरन् / धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत् //

इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः / धर्मराजः समाकर्ण्य तथेति परिबुध्यते //

ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम् / समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम् //

ततो ऽसौ लोकनाथो ऽपि संप्रस्थिति कृपाकुलः / अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः //

// इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम् //

3. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण

अथ सर्वनीवरणविष्कम्भी सुगतात्मजः / बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत् //

कदासौ भगवंछास्तर् लोकेश्वरो जिनात्मजः / बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति //

इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः / बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत् //

असौ श्रीमान् महासत्त्वः कुलपुत्र ततश्चरन् / प्रेतलोकान् समुद्धर्तुं प्रेतालये ऽभिगच्छति //

तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः / शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन् //

तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः / तत्प्रेतभुवनं सर्वं करोति शीततान्वितम् //

तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः / किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः //

यदा तत्र प्रविष्टो ऽसौ लोकेश्वरः प्रभासयन् / तदा वज्राशनिर्भूमि उपशान्ता समन्ततः //

तदद्भुतं समाअलोक्य द्वारपालः स विस्मितः / किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन् //

उत्थाय सहसादाय कालकूटमहाविषम् / भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा //

तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम् / विलोक्यासौ महारौद्रचित्तो ऽपि विस्मयान्वितः //

तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान् / स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते //

धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि / संरक्तो द्वारपालो ऽत्र भूत्वा करोमि पापकान् //

नैव मे ईदृशं कर्म पालयतः शुभं भवेत् / nūnametanmahatpāpafalaṃ tuhyāṃ bhave sadā //

किमीदृग्कर्म साधव्यं केवलदुःखसाधनम् / तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि //

इति विचिन्त्य स द्वारपालो ऽतिकरुणान्वितः / पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः //

तत्र तं समुपायातं सुधांशुसंप्रभासितम् / समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम् //

तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः / पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै //

तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान् / दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान् //

स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान् / क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः //

ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन् / तेभ्यो ऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम् //

तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः / भूयो ऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः //

तानतृप्तान् समालोक्य लोकेशो ऽतिदयाकुलः / दशभ्यः स्वांगुलीभ्यो ऽपि निश्चारयति निम्नगाः //

तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा / यथेच्छा संपिबन्तो ऽपि नैव तृप्तिसमागताः //

भूयो ऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः / तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः //

भ्रमतस्तान् विलोक्यासौ लोकेशो ऽतिदयान्वितः / दशपादांगुलीभ्यो ऽपि निश्यारयति चापराः //

ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वे ऽपि ते मुदा / समुपेत्य पिबन्तो ऽपि नैव तृप्तिं समागताः //

तानतृतान् विलोक्यासौ लोकेशो ऽतिकृपान्वितः / सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः //

तांश्चापि ते समालोक्य सर्वाप्रेताः तृइषार्दिताः / सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम् //

यदा तेअ प्रेतिकाः सर्वे तदुदकं सुधानिभम् / अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः //

तदा सर्वे ऽपि ते पूर्णगात्रा विपुलकण्ठकाः / परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः //

ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान् / भूयो ऽपि करुणात्मा तैस्तोषयितुं समीहते //

तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः / प्रणीतसुरसाहारा संप्रवर्षयते ऽनिशम् //

तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः / दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः //

समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते / ततः सर्वे ऽपि ते सत्त्वा तदाहाराभितोषिताः //

ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः / सन्तर्पिता महानन्दसुखोत्साहसमन्विताः //

तदा ते सुखिताः सन्तः सद्धर्मगुणभाषिणः / परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि //

अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः / आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः //

सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम् / परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः //

सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः / सुभाषितं सदा श्रुत्वा चरन्ति सर्वदा शुभे //

सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः / सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे //

सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः / स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम् //

सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः / धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा //

ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः / उपासकव्रतं धृत्वा चरन्ति ते ऽपि भागिनः //

सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम् / संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम् / ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च / संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः //

सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः / सुभाषितानि शृण्वन्ति ते सुभाग्याः सुखान्विताः //

बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये / चंक्रमाणि च पश्यन्ति ये ते सर्वे ऽपि भागिनः //

ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम् / चंक्रमाणि च पश्यन्ति ते ऽपि सर्वे सुभागिनः //

ये ऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च / ते ऽपि धन्या सुखापन्नाः संसारधर्मचारिणः //

ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि / प्रातिहार्याणि ये चापि ते ऽपि धन्याः सुभागिनः //

ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा / ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः //

ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि / ते ऽपि सर्वे महाभागाः संबोधिधर्मभागिनः //

ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः / ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः //

ये च दत्वा प्रदानानि पालयन्तः परिग्रहान् / कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः //

पापतो विरता ये च परिशुद्धत्रिमण्डलाः / चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः //

ये च क्षान्तिव्रतं धृत्वाअ सुप्रसन्नाशयाः सदा / सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः //

ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते / सदा लोकहितार्थानि कुर्वंते ते महाजनाः //

ये च तत महासत्त्वा सर्वविद्यान्तपारगाः / कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः //

ये चापि शासने बौद्धे श्रद्धया शरणं गताः / प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः //

ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः / ते सुश्रीईमत्सुभद्रांगाः सद्धर्मसुखसंयुताः //

ये चापि सततं स्निग्धा हितं कृत्वा परस्परम् / साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः //

ये चरन्ति सदा भद्रे विरम्य दशपापतः / ते धन्या विमलात्मानः सद्गुणसुखलाभिनः //

ये चरन्ति तपो ऽरण्ये त्यक्त्वा सर्वान् परिग्रहान् / ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः //

बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते / ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः //

इत्येवं ते समाभाष्य सर्वसंपरिनन्दिताः / महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात् //

साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः / नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत् //

यद् भवान् स्वयमालोक्य पापिनो ऽस्मान् सुदुःखितान् / समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति //

तद्वयं भवतामेव सर्वदा शरणं गताः / सत्कारैस्समुपस्थानं कर्तुच्छामहे ऽधुना //

तद् भवान्नो हिताधाने संयोजयितुमर्हति / भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन् //

इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः / कृपादृष्ट्या समालोक्य समादिशति तान् पुनः //

शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम् / संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ //

तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा / सर्वदा मनसा स्मृत्वा भजध्वं च समादरात् //

नमो बुद्धाय धर्माय संघाय च नमो नमः / इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः //

एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत् / निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम् //

ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः / बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ //

तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः / त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ //

तत्रामिताभनाथस्य शरणे समुपस्थिताः / सर्वदा भजनं कृत्वा चरिष्यथ महासुखम् //

तदा यूयं समदाय पोषधं व्रतमुत्तमम् / विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम् //

ततो ऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः / बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते //

ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् / दुष्टान् मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ //

ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः / त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ //

एवं सत्त्वास् त्रिरत्नानां गच्छन्तः शरणं सदा / स्मृत्वा नाम् समुच्च्चार्य नत्वा भजध्वं नाभवम् //

इति लोकेश्वरेणैवं समादिष्टं निशम्य ते / सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः //

ततो लोकेश्वरो मत्वा तेषां मनो ऽभिशुद्धितम् / निश्चारयति कारण्डव्यूहसूत्रसूभाषितम् //

तत्सुभाषितमाकर्ण्य सर्वे ते संप्रमोदिताः / त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम् //

ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः / नमो बुद्धाय धर्माय संघायेति वदन्ति ते //

ततः सर्वे ऽपि ते सत्वायिरत्नस्मृतिसंरताः / संसारविरतोत्साहा भवन्ति धर्मलालसाः //

ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम् / त्यक्त्वा देहं ततः सर्वे ते ऽभियान्ति सुखावतीम् //

तत्रामिताभनाथस्य शरणे समुपस्थिताः / निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा //

ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः / बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः //

इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः / सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम् //

एवं त्रैलोक्यनाथो ऽसौ महाकारुणिकः कृती / कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत् //

ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः / स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः //

ते ते सर्वे ऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः / सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा //

बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम् / त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम् //

न ते सर्वे ऽपि गच्छन्ति दुर्गतिं च कदाचन / सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः //

परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः / स्वपरात्महितं कृत्वा यायुरन्ते जिनालये //

इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत् / कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः //

असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि / सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते //

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः / सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत् //

भगवन् स महासत्त्वो नागच्छति कदा व्रजत् / तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः //

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः / विकम्भिनं तमालोक्य पुनरेवं समादिशत् //

एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन् / प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति //

अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान् / करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन् //

दिने दिने स आगत्य सर्वेषु नरकेष्वपि / निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन् //

स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् //

// इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम् //

4. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम्

श्रीभगवानुवाच / एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः / भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत् / प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये //

नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि / कस्यापि विद्यते नैव प्रतिभानं हि तादृशम् //

मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता / तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते //

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः / विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् //

भगवन् हेतुना केन सर्वलोकाधिपेश्वरः / लोकेश्वरः स आख्यात एतत् सम्यक् समादिश //

तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते / मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु //

एतत् सम्यक् समाख्याहि श्रोतुमिच्छामि सर्ववित् / इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः //

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः / विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत् //

शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम् / संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने //

तध्ययाभूत् पुरा शास्ता तथागतो मुनीश्वरः / विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः / सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः / भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत् //

तदाहं कुलपुत्रासम् सुगन्धसुखसंज्ञकः / वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः //

तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः / शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम् //

तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना / लोकेशगुणमाहात्यं समाअख्यातं श्रुतं मया //

तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः / सद्धर्मं समुपादेष्टुं सभामध्ये समाअश्रितः //

तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः //

पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः / दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन् //

समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन् / त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे //

बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा सुभाषितान् / संबोधिसाधने धर्मे संनियोज्य विनोदयन् //

सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम् / त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत् //

तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता / विशुद्धमंगलोत्साहसुखसमाकुलाभवत् //

तदद्भुतं महानन्दं महोत्साहं समन्ततः / समालोक्य महासत्त्वो महामतिर्जिनात्मजः //

विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन् //

अहो कस्य प्रभाकान्तिरियमिह समागता / अवभास्य जगत्सर्वं संशोधयति शोभितम् //

इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः / समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः //

जाअनुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा / विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत //

भगवन् कस्य प्रभावो ऽयं यदियं भासमागता / अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम् //

यदिदं महदाश्चर्यं दृष्ट्वा सर्वे ऽतिविस्मिताः / श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति //

इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः / महामतिं महासत्त्वं तमालोक्यैवमादिशत् //

महामते शृणुष्वेदमद्भुतं यत्समुद्भवम् / तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम् //

ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः / सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः //

स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान् / समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः //

तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन् / बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये //

संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन् / अवभास्य जगल्लोकमिहागन्तुं समागतः //

तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी / अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता / एवं स सर्वलोकानामधिपतिर्हितार्थभृत् / स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन् //

पापिनो ऽपि समालोक्य सर्वत्र नरकेष्वपि / निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन् //

अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम् //

एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः / दिने दिने ऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन् //

बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या सुभाषितम् / कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम् //

एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु / अप्रमेयमसंख्येयं संबोधिपदसाधनम् //

सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम् / प्रमातुं परिसंख्यातुं शक्यते न कदाचन //

सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम् / अप्रमेयसंख्येयं विद्यते न कदाचन //

कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम् / तेनासौ त्रिगजगन्नाथो विराजते समन्ततः //

एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम् / सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि //

तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः / सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः //

आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः / विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः //

सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः / राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा //

ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः / सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः //

सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः / सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः //

एवं दानवनागेन्द्रयक्षादिकन्यकागणैः / सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः //

भैरवैश्च तथा सर्वैर्महाकालगणैरपि / मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितो ऽर्चितः //

सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः / सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः //

सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः / सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः //

एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः / यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः //

श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः / सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः //

तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा / तद्गुणानुस्मृतिं धृत्वा स प्रशंस्यो ऽभिवन्ध्यते //

तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान् / सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते //

एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा / तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते //

एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः / विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः //

महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः / सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः //

इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः / मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल //

तद्यथादौ महाशून्यं पंचभूते ऽप्यनुद्भवे / ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः / त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः / स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः / लोकसंसर्जनं नाम समाधिं विदधे स्वयम् //

ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् / भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः //

पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः / सो ऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम् //

तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ / समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः //

स्कन्धाभ्यां संप्रजातो ऽभूदब्रह्मा सौम्यश्चतुर्मुखः / हदयाच्च समुद्भूतो नारायणो ऽतिसुन्दरः //

उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती / वायुवो मुखतो जाताः पृथ्वी जाता च पादतः //

वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात् / वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः //

एवमन्ये ऽपि देवाश्च सर्वलोकाधिपा अपि / तस्य महात्मनो देहात् समुद्भूता जगद्धिओते //

यदैते लोकनाथस्य जाता लोकाधिपास्तनोः / तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः //

तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम् / प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात् //

भगवन् यदिमे सर्वे भवता निर्मिता वयम् / तदर्थे ऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि //

इति संप्रार्थिते तेन महेश्वरेण सर्ववित् / लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत् //

आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर / त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक् //

कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने / तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि //

सर्वसत्त्वा दुराचारा मारचर्यासमारताः / मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः //

विहीनबोधिचर्यांगास्तामसधर्मसाधिनः / तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा //

तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः / सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात् //

आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका / आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते //

इति सर्वे तदा लोकाः प्रभाषन्तः प्रमादतः / सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः //

तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः / मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय //

एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः / त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे //

इत्येवं तत्समादिष्टं निशम्य स महेश्वरः / तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत् //

अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः / ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत् //

ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत् / सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः //

शान्तचर्यासमाचारः सात्त्विकधर्मनायकः / परमार्थयोगविद्विद्वान् शुभार्थभृद् भविष्यति //

युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति / म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते / तदापि त्वं प्रयत्नेन नानारुपेण बोधयन् / धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम् //

एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते //

एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत् / अर्हन्संबोधिमासाद्य संबुद्धो ऽपि भविष्यसि //

इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः / ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत् प्रसादितः //

ततो ऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः / नारायणं समालोक्य समामन्त्र्यैवमादिशत् //

विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः / रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत् //

महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः / संसारसुखसंभर्ता मायाधर्मविचक्षणः //

कलौ क्लेशाकुलान् सत्त्वान् नानारुपेण बोधयन् / त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय //

एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः / राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः //

सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन् / संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि //

इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः / विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः //

ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः / सरस्वतीं समालोक्य समामंत्र्यैवमादिशत् //

सरस्वती महादेवी सर्वविद्यागुणाकरी / महामायाधरी सर्वशायविज्ञा सुभाषिणी //

सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी / ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि //

सर्वान् मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः / बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय //

ये ऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः / पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः //

एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता / प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम् //

इत्येवं तत्समादिष्टं निशम्य सा सरस्वती / तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत् //

ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः / विरोचनं समालोक्य समामंत्र्यैवमादिशत् //

सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः / दिवाकरो जगल्लोकतमो ऽन्तको भविष्यसि //

अवभास्य जगल्लोकं प्रकाशयन् विशोधयन् / चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन् //

ततो ऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः / चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत् //

चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः / ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति //

अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम् / औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन् //

प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन् / सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय //

ततो वायुं समालोक्य लोकेश्वरः स सर्ववित् / सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत् //

यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः / सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ //

प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः / प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम् //

ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक् / जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत् //

पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया / वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि //

सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः / दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा //

ततो वरुमालोक्य स लोकेशो जिनात्मभूः / पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् //

वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः / सर्वरत्नाकराधीशो नागराजो भविष्यसि //

सदामृतप्रदानेन पोषयित्वा प्रबोधयन् / दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा //

ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम् / सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत् //

वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक् / पाचकः सर्ववस्तूनां दहनः पावको ऽप्यसि //

तस्मात् सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन् / सदा लोके सुखं दत्त्वा संपालय जगद्धिते //

ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः / पुरतः समुपामंत्र्य समालोक्यैवमादिशत् //

लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा / सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि //

सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि / दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा //

ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः / पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् //

कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः / श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि //

दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत् //

एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः / सर्वांस्तान् स्वाअत्मजान् देवान् समामंत्र्यैवमादिशत् //

यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः / सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे //

एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः / अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ //

इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः / ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः //

एवं ते सकला देवाः धृत्वा तस्यानुशासनम् / बोधिचर्यां समाधाय संप्रचेरुजगद्धिते //

तदनुशासनादेव सर्वलोकाधिपा अपि / बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते //

एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः / बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः //

ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः / सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम् //

सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः / निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः //

सर्वे ऽपि सुगतास्तस्य श्रद्धया शरणं गताः / ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते //

एअतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः / जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम् //

अतीता अपि संबुद्धा वर्तमाना अनागताः / सर्वे ऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः //

ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते / बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम् //

क्रमेण बोधिसंभारं पूरयित्वा यथाविधि / जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः //

भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः / अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः //

एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान् / बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः //

सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन् / सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन् //

बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे / बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम् //

एवम् स जगदादीशो लोकेश्वरो जिनात्मजः / बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत् //

नास्ति तस्य समं कश्चित् सद्धर्मगुणपुण्यवान् / कुतो ऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः //

इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः / लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया //

ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः / मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम् //

तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः / सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः //

ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा / दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन //

सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः / शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम् //

इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना / श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः //

// इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम् //

5. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण

अथ सर्वनीवरणविष्कम्भी सुगतात्मजः / सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत् //

भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः / कदेह समुपागछेद् द्रष्टुमिच्छामि तं प्रभुम् //

इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः / विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् //

विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम् / अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति //

सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान् / सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् //

एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने / असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम् //

एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन् / असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते //

तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम् / सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते //

इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम् / तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात् //

तद्यथाभूत् पुरा शास्ता शिखि नाम तथागतः / सर्वज्ञो ऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः //

सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः / मारजित् सर्वलोकेन्द्रस्त्रैधातुकविनायकः //

तदासं बोधिसत्त्वो ऽहं दानशूरो ऽभिधो गृही / सदादानरतो धीरः सर्वसत्त्वहितार्थभृत् //

सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः / सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः //

तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम् / लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम् //

इति तेन मुनीन्द्रेण समाअख्यातं निशम्य सः / बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत् //

भगवन् किदृशं तस्य लोकेशस्य महात्मनः / सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम् //

भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय / सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः //

इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः / सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत् //

यदा स भगवांच्छास्ता शिखी तथागतो जिनः / सर्वलोकसभामध्ये ससांघिकः समाश्रितः //

आदिमध्यान्तकल्याणं संबोधिगुणसाधनम् / सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते //

तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः / विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे //

कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः / पुनरागत्य सा कान्तिस्तदाश्रम उपागताः //

शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम् / त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत् //

तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः / अमिताभं जिनं नत्वा पप्रच्छैवं समादरात् //

भगवन् कस्य सत्पुण्यकान्तिरियं समागता / तद्भवान् समुपादिश्य संबोधयतु नो गुरो //

इति तदुक्तमाकर्ण्य भगवान् सो ऽमितप्रभः / लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत् //

कुलपुत्र शिखी नाम संबुद्धो ऽर्हन्मुनीश्वरः / सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः //

विहारे जेतकोद्याने समाश्रितः ससांघिकः //

सर्वलोकसभामध्ये समासीनः प्रभासयन् / सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुते ऽधुना //

तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता / सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते //

इहापि समुपायाता भासयन्ती प्रचारिता / परावृत्य मुनेस्तस्य मुखे प्राविशते ऽधुना //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.