Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
गुणकारण्डव्यूहसूत्र
- Thông tin
- GRETIL — Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः / अमिताभं मुनीन्द्रं तं प्रणत्वैवमभाषत //
भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम् / तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति //
इति संप्रार्थितं तेन लोकेशेन निशम्य सः / अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत् //
कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि / गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि //
पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि / समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः //
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा / सांजलिस्तं जिनं नत्वा संभासयंस्ततो ऽचरत् //
यदा ततः सुखावत्यां संप्रस्थितः स भासयन् / तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता //
प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम् / निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः //
तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः / दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः //
नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः / anekafalavṛkṣāśca divyarasafalānatāḥ //
अष्टांगुणसंपन्नजलपूर्णाः सरोवराः / नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः //
विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि / हेमादिधातुरत्नानि वस्त्राणि भूषणानि च //
सुवर्णसुरसास्वादसंपन्नभोजनान्यपि / धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे //
तत्र च सप्तरत्नानि संजातानि जिनाश्रमे / सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा //
तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम् / सप्तरत्नमयो ज्वालं समादाय ततश्चरन् //
एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन् / अवभास्य जगल्लोकं समालोक्य समन्ततः //
प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम् //
सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः / संबुद्धं शिखिनं तद्विहारमुपाचरत् //
तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः / रत्नपाणिर्महासत्त्व बोद्धिसत्त्वो ऽभिलोकयन् //
विस्मितः सहसोत्थाय पुस्तः समुपाचरत् / उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः //
भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा / कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात् //
भगवन् कस्य प्रभाकान्तिरियमिह समागता / महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च //
भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान् / विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति //
इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः / रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत् //
रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना / महद्भद्रनिमित्तानि संजातानि समन्ततः //
तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात् / यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत //
यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः / सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः / समन्तभद्रकारी स आर्यावलोकितेश्वरः / सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन् //
पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः / शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः //
पापिनो ऽपि दुराचारान् सर्वत्र नरकेष्वपि / निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत //
बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान् / ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम् / तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता //
ईदृग्द्रनिमित्तानि संजातानि समंततः / भद्रहेतुरयं तस्य लोकेशस्यागतः खलु //
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः / संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत् //
भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः / नागच्छति कदागत्च्छेद् द्रष्टुमिच्छामि तं प्रभुम् //
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः / रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत् //
आगच्छेत् स महासत्त्वो लोकेश्वरः सुदुःखितः / सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम् //
प्रथममिह मां द्रष्टुमागच्छेत् स कृपानिधिः / तदा तं त्रिजगन्नाथं पश्च भज समादरात् //
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा / सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः //
तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन् / दूरात्तं सुगतं पश्यन् विहारे समुपाविशत् //
तं लोकेशं समायातं समीक्ष्य सुगतात्मजम् / सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे //
रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः / सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे //
एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन् / शिखिनं तं समालोक्य पुरतः समुपाचरत् //
तं समायातमालोक्य भगवान् स शिखी मुदा / स्वागतं ते महासत्त्व कौशलमित्यपृच्छत //
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः / कौशलं मे सदा शास्तरिति वदन्नुपाचरत् //
तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम् / वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत् //
भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम् / कुशलं चापि सर्वत्र पृच्छत ते समन्ततः //
इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा / गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत् //
सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम् / इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत //
कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः / समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम् //
इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः / संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत् //
भगवन् बहवो ऽसंख्येयाः सत्त्वा नरकाश्रिताः / ते सर्वे ऽपि प्रयत्नेन मयालोक्य समुद्धृताः //
तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः / रौरवे कालसूत्रे च हाहवतपने ऽपि च //
तापने ऽग्निधटे ये च शाल्मलिके च पापिनः / संघाअते चान्धकारे च शीतोदके ऽसिपत्रके //
एवमन्यषु सर्वेषु नरकेषु समन्ततः / स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः //
तीव्रदुःखाग्निसन्तप्ता मूढा विलुप्तचेतनाः / ते सर्वे ऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम् //
भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताअः / सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः //
पशवो ऽपि च ये दुष्टाः पक्षिणो ऽपि दुरारताः / kṛmikīṭādayaścāpi svakarmafalabhoginaḥ //
ते ऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः / समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम् //
एवमन्ये ऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि / अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः //
ते ऽपि सर्वे मयाअलोक्य बोधियित्वा प्रयत्नतः / सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये //
एवं नित्यं मयालोक्य प्राणिनो दुरितो ऽर्द्धताः / सर्वे ऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः //
दिने दिने ऽप्यसंख्येया समुद्धृत्य प्रयत्नतः / बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे / बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये //
यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत् / इति नित्यं समालोक्य सत्त्वा धर्मे ऽभियोजिताः //
यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः / तावदहं न संबोधिं संप्राप्नुयां जगद्धिते //
इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता / तावत् सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः //
बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः / बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम् //
इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन् / सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि //
एवं नित्यं जगल्लोकिअ कृत्वा भद्रसुखोत्सवम् / प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे //
इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः / भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत //
भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः / तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते //
इति तदुक्तमाकर्ण्य स शिखी भगवान् मुदा / लोकेश्वरं महाभिज्ञं तमालोक्याइवमब्रवीत् //
सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम् / गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा //
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः / शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः //
प्रक्रमित्त्वा ततः सो ऽग्निपिण्ड इव समुज्ज्वलन् / आकाशे ऽन्तर्हितो ऽन्यत्र भुवेने भासयन् ययौ //
तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः / शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् //
भगवंस्त्रिजगद्भर्तुर्लोकेअश्स्य महान्मनः / कियत्सुकृतसंभारं विद्यते तत्समादिश //
इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी / रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत् //
कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः / पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे //
तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम् / सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः //
तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः / लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः //
तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा / तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया //
न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः / पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते //
सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम् / एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम् //
न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः / पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु //
सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम् / एकैकरोमसंख्याभिः प्रमाणं शक्यते किल //
न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः / बोधिसंभारपुण्यानां प्रमातुं शक्यते मया //
हेमरत्नमयान् स्तूपान् परमाणुरजोपमान् / विधाय सर्वदाभ्यर्च्य प्रभजेत् समुपस्थितः //
संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान् / हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः //
सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा / एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम् //
नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः / पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा //
सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम् / पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु //
नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः / पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा //
सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः / śrotāpattifale sthāpya cārayeyuḥ susaṃvaram //
तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु / न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम् //
एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः / सकृदागामिनः कृत्वा चारयेयुः शुभे सदा //
एतेषामपि पुण्यानां प्रमातुं शक्यते खलु / नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित् //
तथा च मानवान् सर्वान् बोधयित्वानुमोदयन् / anāgāmīfale sthāpya cārayeyuḥ susaṃbare //
एतेषामपि पुण्यानां प्रमातुं शक्यते किल / नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित् //
तथैतान् सकलान् मर्त्यान् बोधयित्वा प्रयत्नतः / अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ //
एतेषामपि पुण्यानां प्रमातुं शक्यते मया / न तु लोकएश्वरस्यास्य शक्यते सुगतैरपि //
तथा प्रत्येकबोधौ च सर्वान् एतान् नरानपि / बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ //
एतेषामपि पुण्यानां प्रमातुं शक्यते मया / न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः //
एतेषामपि सर्वेषां पुण्यानां प्रवरं महत् / पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम् //
किं मयैकेन तत्पुण्यं प्रमातुं इह शक्यते / सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन //
एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान् / लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः //
नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान् / तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि //
इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः / तमीशं शरणं गत्वा भजध्वं सर्वदा भवे //
ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः / ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा //
ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः / धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम् //
तत्रामिताभनाथस्य गत्वा ते शरणं मुदा / सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः //
भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन / गर्भवासमहददुखं लभेयुर्न पुनर्भवे //
तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे / संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम् //
तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः / यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता //
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते / त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः //
इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम् / तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः //
इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः / शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् //
भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ / कियता खलु कालेन संपूरिता भविष्यते //
कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः / बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम् //
कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान् / एकः प्रबोधयन् सर्वान् बोधिमार्गे ऽभियोजयेत् //
सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः / एतान् सर्वान् कथमेको बोधयन् परिपाचयेत् //
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः / रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत् //
एको ऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः / नानारुपेण सत्त्वानां सद्धर्म समुपादिशत् //
बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम् / बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम् //
बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन् / बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् //
प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः / बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम् //
अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन् / अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम् //
बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन् / बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते //
तथोपासकरुपेण प्रबोधयनूपासकन् //
बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम् //
तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन् / बोधिमार्गे नियुज्यासौ चारयति जगद्धिते //
एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन् / बोधिमार्गे नियुज्यापि चारयति जगद्धिते //
तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते //
तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
तथा च वह्निवैनेयान् वह्निरुपेण बोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
तथा च यमवैनेयान् यमरुपेण बोधयन् / एवं वरुणरुपेण वैनेयान् वरुणस्य च //
तथा च वायुवैनेयान् वायुरुपेण बोधयन् / वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन् //
यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन् / नागरुपेण नागस्य वैनेयान् संप्रबोधयन् //
तथा भूतेशरुपेण वैनेयान् भूतपरेरपि / तथा गणेशरुपेण वैनेयान् गणपस्य च //
तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः / तथा किन्नररुपेण वैनेयान् किन्नरस्य च //
विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन् / तथा भैरववैनेयान् रुपेण भैरवस्य च //
तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन् //
महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् / महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् //
मातृकाणां च रुपेण वैनेयान् संप्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन् / तस्य तस्यैव रुपेण योगयति जगद्धिते //
एवं स ऋषिवैनेयानृषिरुपेण बोधयन् / योगिरुपेण वैनेयान् योगिनश्चापि बोधयन् //
तथा च यतिवैनेयान् यतिरुपेण बोधयन् / तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन् //
तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन् / तथा च राजवैनेयान् राजरुपेण बोधयन् //
वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन् / शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन् //
गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन् / तथा च मंत्रीवैनेयान् मंत्रीरुपेण बोधयन् //
तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन् / तथा च योधृवैनेयान् योधृरुपेण कांश्चन //
एवं च भृत्यरुपेण दासरुपेण कांश्चन / कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन //
तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन / कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन //
तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन / रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन //
कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन / एवं पितामहादीनां ज्ञातीनां सुहृदामपि //
बंधुमित्रसहायानां रुपेण परिबोधयन् / कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः //
कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन / सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते //
एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि / पशूनां पक्षिणां चाअपि कृमिकीटादिप्राणिनाम् //
रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः / बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे //
एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः / नानारुपेण सर्वेषां सत्त्वानां बोधयन् मनः //
त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः //
एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः / सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् //
एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः / षड्गतिभवचारीणां दुष्टानामपि मूढानाम् //
सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान् //
नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि / दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि //
एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः / श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते //
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते / सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः //
बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे / त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः //
इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः / अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत् //
परमाद्भुतप्राप्तो ऽहं भगवन् यदीदृशं क्वचित् / धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयते ऽपि न //
ईदृशं पुण्यसंभारं जिनानामपि न क्वचित् / दृश्यते श्रूयते नापि कदाचन मया खलु //
एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः / रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत् //
सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा / चिन्तामणिर्महारत्न इव सर्वहितार्थभृत् //
कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः / कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः //
भग्रघटो यथा सर्वसत्त्ववांछितपूरकः / लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः //
बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः / सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः //
किं वक्ष्यते ऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः / शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः //
तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन् / बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते //
वज्रकुक्षिगुहा ख्याता जम्बूद्विपे ऽत्र विद्यते / तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम् //
तत्र गत्वा सुराणां स शास्तृरुपेण संसरन् / सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत् //
तं दृष्ट्वा समुपायातमाचार्यं ते ऽसुरा मुदा / सर्वे ते सहसोपेत्य प्रणत्वैवं बभाषिरे //
स्वागतं ते समयासि प्रणत्वैवं बभाषिरे //
स्वागतं ते समायसि कश्चित् सर्वत्र कौशलम् / कृपया नः समालोक्य धर्ममादेष्टुमर्हसि //
भवता यद्यथादिष्टं तत्तथा वयमादरात् / श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने //
इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा / सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन् //
तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः / दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत् //
भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम् / वक्ष्यते ऽत्र मया युष्मत्संसारगुःखमुक्तये //
मैत्रचिता भवन्तो ऽत्र शान्तचिता जितेन्द्रियाः / दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः //
ततः सत्यसमाचाराः परिशुद्धाशया मुदा / त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम् //
धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः / शृणुध्वं चापि कारण्डव्यूहसूत्रसुभाषिते //
ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् / त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम् //
तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि / निःशेषं परिनष्टानि भविष्यन्ति सदा भवे //
ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात् / गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः //
ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा / सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात //
परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात् / सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा //
ते एव सुखिता धन्याः संसारसुखभागिनः / न ते दुर्गतिदुःखानि भोज्यन्ते ऽपि कदाचन //
सदासद्गतिसंजाताः संसारसुखभोगिनः / सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः //
बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः / कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे //
प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः / त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम् //
यदा काले समायाते तेषां निर्वृतिवांछिनाम् / द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम् //
उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः / संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात् //
मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम् / यन्महायानकारण्यूहसूत्रं त्वया श्रुतम् //
तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन / गमनाय सुखावत्यां मार्गेस्ते परिशोधितः //
युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम् / दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम् //
इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम् / नीत्वामिताभनाथस्य स्थापयेयुः सभासने //
तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा / बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते //
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते / त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम् //
इअत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम् / तथा समुदितं श्रूत्वा यूयं सर्वे ऽनुमोदत //
यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ / त्रिरत्नशरणं गत्वा चरत पोषधव्रतम् //
महायानसूत्रराजं कारण्डव्यूहमुत्तमम् / श्रुत्वा सदा समाधाय चरते बोधिसंवरम् //
एतत्पुण्यानुभावेन सदाअ भुक्त्वा महासुखम् / निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः //
बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते / बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः //
ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम् / सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ //
तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम् / त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम् //
एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ / श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा //
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः / तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे //
ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः / तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात् //
शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः / तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति //
इति तैः प्रार्थितं श्रुत्वा स लोकेशो ऽसुरात्मधृत् / सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत् //
भो भवन्तो ऽसुराः सर्वे शृणुत तन्मयोदितम् / श्रुवानुमोदनां कृत्वा चरतैतद् व्रतं सदा //
आदौ सर्वे महायानसूत्रराजं वरोत्तमम् / कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः //
प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः / त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम् //
यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः / संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम् //
एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः / भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा //
एवं नित्वं यथाशक्ति मासे मासे ऽपि सर्वदा / अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि //
चरतैतदव्रतं नित्यं मासे मासे ऽपि सर्वदा / अथैकवारमप्येवं वर्षे चरत्कार्तिके //
kārtike yaykṛtaṃ karma tatfalaṃ bahusattamam / अप्र्मेयमसंख्येयं न क्षणुयात कदाचन //
इति मत्वा समाधाय चरतैतद्व्रतं सदा / एवं स समुपादिश्य तद्विधिं समुपादिशत् //
तदाचार्यसमादिष्टं धृत्वा सर्वे ऽपि ते ऽसुराः / यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा //
ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः / बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः //
एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान् / बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत् //
एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु / अप्रमेयमसंख्येयं इत्याख्यातं मुनीश्वरैः //
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे //
पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन् / बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम् //
तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः / भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः //
तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये / ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः //
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः / प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत् स पार्षदः //
इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम् / लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम् //
इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् / स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा //
तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये / ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम् //
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा / बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते //
बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः / त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः //
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः / श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत //
// इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम् //
6. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः / भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् //
दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम् / सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी //
कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत् / द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम् //
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः / विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् //
भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः / सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात् //
अस्मिन् द्वीपे ऽस्ति कांचन्यमयी भूमिर्मनोरमा / तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम् //
तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन् / दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत् //
ददर्श तान् महादुष्टान् दशाकुशले संचरतान् / मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान् //
संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः / पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत् //
तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः / अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन् //
अहो कुत इयं कान्तिः प्रायातेह प्रसारिता / यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः //
इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः / पुर आचार्यरुपेण संपश्यन् समुपाचरन् //
तमेवं समुपायातं दृष्ट्वा सर्वे ऽपि ते ऽसुराः / सुप्रसन्नाः समागम्य प्रणत्वैवं बभाषिरे //
स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो / प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश //
इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने / सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत् //
कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम् / मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते //
इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि / शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात् //
न जानीमो वयं शास्तः कस्येयं कान्तिरागता / तद्भवान्नः समादिश्य प्रबोधयितुमर्हति //
इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान् / सर्वांस्तदद्भुतं प्रष्टुकामानेवमभाषत //
शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता / श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ //
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः / सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन् //
शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः / तदेतदद्भुतं जातं समुपादेष्टुमर्हति //
इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान् / सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत् //
शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम् / तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते //
तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः / जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः //
महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः / मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः //
स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः / सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि //
सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् //
स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि / निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन् //
पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन् //
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् //
दिने दिने स आलोक्य समुद्धृय प्रबोधयन् / अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ //
एवं कृत्वा स लोकेशोओ महत्पुण्यैः समन्वितः / सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः //
बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत् / सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः //
इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम् //
इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन् / प्रभासयन् जगल्लोकं संचरत्वे जिनालयान् //
तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता / तया यूयं परिस्पृष्टा महत्सुखसमन्विताः //
तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा / नामापि च समुच्चार्य नत्वा भजितुमर्हथ //
ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात् / श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि //
सर्वे ऽपि ते न जायन्ते दुर्गतीषु कदाचन / सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे //
विरतमारसंचाराः सद्धर्मगुणलालसाः / सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः //
त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः / भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः //
यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः / बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे //
ततो ऽन्तःसमये तेषां लोकेश्वरः स संमुखम् //
उपागत्य समाश्वासं दद्यादेवं वदत्पुरः //
मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित् //
त्रिरत्नभजनं कृत्वा सद्धर्मं यत् त्वयार्जितम् / न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन / सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः / त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे //
तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन् / कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि //
तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे //
एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा / तिष्ठामो ऽत्र विषीद त्वं मृतो ऽपि सत्सुखं लभेः //
सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम् / त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि //
यावज्जीवं यथाकामं भुक्त्वा स्वर्गे ऽमरैः सह / ततश्चापि सुखेनैव यायादन्ते सुखावतीम् //
तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः / सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे //
तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम् / प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम् //
इत्यन्ते समये तेषां लोकनाथः स संमुखम् / समागत्य समाश्वासं दत्वाभयं समर्पयेत् //
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः / श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम् //
एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः / स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा //
तथा वः सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवम् / यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम् //
तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम् / ततो ऽन्तसमये च्युत्वा संयास्यथ सुखावतीम् //
तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः / पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ //
तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम् / प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम् / इति तेन समादिष्टं श्रुत्वा सर्वै ऽपि ते ऽसुराः / तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन् //
शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना / अद्यारभ्य सदा तस्य नाथस्य शरणं गताः //
स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे / तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः //
व्रतस्यापि विधानं च समुपादेष्टुमर्हति / इति तैः प्रार्थितं श्रुत्वा स आचार्यो ऽप्रबोधितान् / सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत् / शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः //
आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः / ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम् / त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम् / लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि / जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् / जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् / अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात् //
नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान् / प्रशंसामपि भाषित्वा प्रकाशित्वा च सर्वतः //
सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः / यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम् / एवं नित्यं समाधाय चतुस्संध्यं दिने दिने / यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः //
प्रत्यहमेकवारं वा मासे मासे ऽपि वा सिते / अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा //
एवं विधाय सर्वे ऽपि यूयमेतद् गुणान्विताः / yathoktaṃ tatfalaṃ prāpya nūnaṃ yāsyatha nirvṛtim //
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते ऽसुराः / प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे //
ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः / अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः //
शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः / विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः //
तेन शास्त्रा यथादिष्टं तथाधाय समादरात् / तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा //
ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि / पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः //
यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि / कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः / अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन् //
एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः / शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः //
परस्परं हितं कृत्वा सद्धर्मगुणभाषिणः / बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः //
एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततो ऽचरत् //
ततः सो ऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः / धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत् //
तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम् / दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः //
तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा / जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा //
नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः / बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु //
यदस्मदपराधं तत् क्षन्तव्यं भवता सदा / एवमस्मान् समालोक्य संपालयितुमर्हति //
इत्येवं ते ऽसुराः सर्वे प्रार्थयित्वा समादरात् / अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे //
ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम् / ततश्चान्तर्हितो ऽयत्र सत्त्वानुद्धर्तुमाचरत् //
ततस्ते दानवाः सर्वे भूयो ऽतिधर्मलालसाः / त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे //
एवं स त्रिजगन्नाथो नानारुपेण बोधयन् / दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः //
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् / अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः //
इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः / सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात् //
इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम् / श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः //
इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः / श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः //
इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम् / तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम् //
एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः / कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः //
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः / नामापि च समुच्चार्य भजन्ति सर्वदा मुदा / ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः //
बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः / इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते //
विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः //
// इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम् //
7. अधोमुख सत्त्वोद्धारण प्रकरणम्
अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः / विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत् //
भूयो ऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम् / श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात् //
तद्यथाभुत् पुरा शास्ता तथागतो मुनीश्वरः / सर्वज्ञो ऽर्हन्महाभिज्ञो धर्मराजो विनायकः //
सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः / विश्वभूर्नाम् संबुद्धो भगवान् सुगतो जिनः //
तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः / महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः //
गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः / व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः //
तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम् / गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया //
तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः / तद्वनोपाश्रमे रम्ये विजहार ससांघिकः //
तदा स भगवांस्तत्र सर्वलोकसभाश्रितः / सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन् //
यदैकसमये तत्र भगवान् स मुनीश्वरः / आर्यधर्ममुपादेष्टुं सभासने समाश्रयत् //
तदा तत्र महान् रश्मिरवभास्य समन्ततः / सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत् //
तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः / तदद्भुतं समालोक्य विस्मयं समुपाययुः //
तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः / सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः //
उद्वहन्नुत्तरासंगं सांजलिः पुरतो ऽग्रतः / विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत //
भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता / यया स्पृष्टा इमे लोका महत्सुखसमन्विताः //
विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम् / तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः //
तेदषां हदयान्तःस्थं महदद्भुतकौतुकम् / विनोदितुमिमं हेतुं कस्येति तदुपादिश //
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः / विलोक्य तं महासत्त्वं गगनगंजमब्रवीत् //
शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता / तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत //
या कांचनमयीः भूमिर्जम्बुद्विपे ऽत्र विद्यते / तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः //
तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः / लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः //
तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन् / भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः //
तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः / किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः //
तदा तत्र स लोकेश ऋषिरुपेण भासयन् / सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन् / तमृषिं संप्रभासन्तं समायातं विलोक्य ते //
सर्वे ऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम् / तत्र सर्वे ऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा //
श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात् / महर्षे यदिहायासि तदस्मद्भाग्ययोगतः //
तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति / किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा //
येनास्मो ऽधोमुखा सर्वे वयं जाता इहेदृशाः //
इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान् / सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन् //
शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा / तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम् //
यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः / अदृश्यमिति भाषन्तो चरन्नधोमुखाः पुरा //
तेनैतद्दैवयोगेन यूयं सर्वे ऽप्यधोमुखाः / दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम् //
तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः / ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात् //
पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः / स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे //
ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा / त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते //
ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः / निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ //
इति तेन समादिष्टं श्रुत्वा सर्वे ऽपि ते मुदा / तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन् //
नाथो ऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः / आश्वासय तदस्माकमन्धानां पापचारिणाम् //
तमो ऽभिभूतदृष्टीनां प्रणष्टपथचारिणम् / अनाथानाममित्राणां दीनानां मूढचेतसाम् //
त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम् / धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः //
दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत् / दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः //
दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः / सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव //
निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव / दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः //
सद्धर्मसाधनोत्साहं दत्वा भव विनायकः / सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः //
सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे / विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम् //
धन्यास्ते सुखिता येते सततं शरणे स्थित्वा / स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा //
ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे / यादृग्वयमिदं दुःखमनुभावामहे सदा //
ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः / आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै //
वयमपि तथा सर्वे सदा ते शरणे स्थिताः / धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम् //
तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव / सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे //
इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान् / तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत् //
शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ / हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम् //
इत्यादिश्य स कारण्डव्यूहसूत्रं सुभाषितम् / उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि //
ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः / त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे //
ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः / बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते //
सर्वे ऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः / परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः //
एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन् / सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि //
एवं तान् बोधिमार्गे ऽसौ महर्षिः सर्वान्नियुज्य च / ततो ऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन् //
तमाकाशगतं दृष्ट्वा सर्वे ते ऽप्यतिविस्मिताः / प्रणत्वा चानुशंसतः संचरन्ते समादरात् //
तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः / अवभास्य जगल्लोकमिहापि संप्रसारिता //
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः //
तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम् / अप्रमेयमसंख्येयं इत्यादिष्टं मुनीश्वरैः //
एवं विज्ञाय सर्वे ऽस्य लोकेशस्य सदादरात् / स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ //
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा / नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा //
दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा / धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम् //
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते / सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः //
इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम् / विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम् //
एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः / विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन //
ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा / सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम् //
तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम् //
पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम् //
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते / सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः //
// इत्यधोमुखसत्त्वोद्धरप्रकरणम् //
8. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम्
अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः / विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत् //
शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः / सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते //
तदा गगनगंजो ऽसौ भगवन्तं मुनीश्वरम् / विश्वभुवं तमानम्य पुनरेवमपृच्छत //
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः / पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति //
पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन् //
सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश //
इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः / गगनगंजमालोक्य तं पुनरेवमादिशत् //
शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः / वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि //
तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः / ततो रुपमयीं भूमीं गच्छति संप्रभासयन् //
तत्र सत्त्वान् मनुष्यान् गांश्चतुष्पादान् विलोक्य सः / लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति //
तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः / पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन् मुदा //
अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते / तदस्माम् कृपयालोक्य समुद्धर्त्तुमिहार्हति //
इति तैः प्रार्थ्यमानो ऽसौ लोकेश्वरः कृपात्मकः / तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत् //
भगवन्तो ऽत्र समाधाय शृणुध्वं यूयमादरात् / वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम् //
तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम् / तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात् //
ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम् / सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे //
एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः / बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते //
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् / सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम् //
तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः / सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः //
एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम् / ततो ऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम् //
एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः / स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात् //
तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः / निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ //
ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः / सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् //
तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा / सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे //
एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम् / प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम् //
एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः / स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात् //
धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः / स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात् //
एवं च संघरत्नानां सत्कारैः समुपस्थिताः / स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम् //
एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम् / अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः //
एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः / स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम् //
एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः / निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम् //
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता / सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः //
एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम् / प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम् //
इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा / तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः //
मार्ष भवति नो ऽन्धानां सन्माअर्गमुपदर्शकः / अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम् //
अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः / अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत् //
तमःप्रणष्टमार्गाणां महादीपो भवानपि / मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः //
तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः / आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम् //
सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः / त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा //
न तेषामिदृशं दुःखं भविष्यति कदाचन / यादृगिदं महट्कष्टमनुभावमहे भवे //
तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम् / सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति //
इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित् / तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन् //
नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे / तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा //
इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम् / समादिशति कारण्डव्यूहसूत्रं सुभाषितम् //
तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम् / श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः //
ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात् / त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा //
एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः / बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः //
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते / सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः //
एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः / स्वपरात्महितोत्साहैः संचरन्ते महासुखम् //
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन् //
ततो ऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः / अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति //
एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः / अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः //
इति मत्वा सदा तस्य शरणे समुपस्थिताः / स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम् //
ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः / स्मृत्वा ध्यात्वापि नामापि समुच्चाअर्य भजन्ति वै //
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे / सदा सद्गतिसंजाता भवन्ति धर्मचारिणः //
धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम् / तत्र गत्वामिताभस्य शरणे समुपाश्रिताः //
सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः / महानन्दसुखोत्साहैस्संरमन्ते यथासुखम् //
तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते / प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः //
इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ / तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे //
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः / गगनगंज औत्सुक्यं प्राभ्यनन्दत् समार्षदः //
इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया / यूयमपि तथा तस्य सर्वदा भजतादरात् //
यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः / बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम् //
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते / सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः //
// इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम् //
9. बलि संबोधन बोधिमार्गावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी सो ऽभिनन्दितः / भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात् //
भगवछ्रोतुमिच्छामि भूयो ऽप्यस्य जगत्प्रभोः / सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः / विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् //
ततो ऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत् //
तत्र चायोमयी भूमी रसतले सुरालया / तत्रापि स महाभिज्ञो भासयन् समुपाचरत् //
यत्र राजा बलिर्नाम सर्वदैत्याधिपो ऽपि यः / बद्धः स वामनः सान्तःपुर जनो ऽधितिष्ठति //
दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम् / समुद्धर्तुं समालोक्य तत्राविशत् स भासयन् //
तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन् / शनैश्चरन् समालोक्य बलेः सद उपाचरत् //
तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम् / दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत् //
को ऽयमत्र समायातो दिव्यकान्तिः प्रभसयन् / महेश्वरो ऽथवा सूर्यश्चन्द्रो वापि हुताशनः //
को ऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवो ऽपि वा / गन्धर्वो किन्नरो वापि नागो वा गरुडो ऽपि वा //
ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि //
बोधिसत्त्वो ऽथवार्हन् वा मुनीन्द्रो वा समागतः //
इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह / सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत् //
पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम् / लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः //
सहसा समुपासृत्य कृतांजलिपुटो मुदा / तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत् //
adya me safalaṃ janma bhavatsaṃdarśanodbhove / अधुना प्रणिधानं च संसिध्यते मनोरथम् //
अस्य मे शुध्यते ऽप्यात्मा मुच्यते सर्वपापतः / मुक्तो ऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः //
यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः / संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः //
भवन्तं ये ऽपि पश्यन्ति पुण्यवन्तो नरा हि ते / भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः / ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः //
भवचारणमुक्ता ये दृश्यन्ते भवतो भवे / भवतां दर्शनेनैवं मुक्तो ऽस्मि भवबन्धनात् / क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः / भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः / त्राता भर्ता शरण्ये ऽपि नास्त्यन्यो मे सुहृद्गतिः //
तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः / सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति //
इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः / प्रणत्वा तं जगन्नाथं सादरात् स्वपुरे ऽनयत् //
तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः / अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत् //
तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः / सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत् //
महद्राअजर्द्धिसत्कारैः सत्कृत्य प्रभजन् मुदा / पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात् //
भगवंस्त्रैधातुनाथो ऽसि यदत्र स्वयमागतः / तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि //
त्राता न विद्यते ऽस्माकं दशाकुलचारिणाम् / जरामरणभीतानां क्लेशाग्निदहितात्मनाम् //
भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम् / अनाथानामबन्धूनां भव माता पिता सुहृत् //
एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम् / मूढानां च शुचित्तानां भव क्लेशापहो गतिः //
नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः / शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत् //
यथा भवान् जगल्लोकं निवार्य पापमार्गतः / धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन् //
तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः / नियुज्य सहसे पश्यन् पालयितुं सदार्हसि //
कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः / संबोधिसाधने धर्मे नियोजयतु बोधयन् //
इति संप्रार्थितं तेन बलिना भद्रवांछिना / श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत् //
साधु शृणु समाधाय दैत्याधिप समादरात् / हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम् //
संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि / त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः //
त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे / दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा //
सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः / पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम् //
triratnabhajanotpannaṃ puṇyafalaṃ mahadbahu / अप्रमेयसंख्येयं संबोधिज्ञानसाधनम् //
एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि / धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः //
धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात् / विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम् //
सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् / अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः //
सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् / गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः //
ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः / बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम् //
संघरत्नानि ये ऽभ्यर्च्य श्रद्धया शरणं गताः / सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा //
ते ऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः / महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम् //
श्रद्धया यो ऽर्हते पिण्षपात्रामेकं प्रयच्छति / तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः //
सर्वेषामपि पुण्यानां शक्यते मया / एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी //
सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः / ते ऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः //
प्रागेवाहमिहैको ऽस्मिन् तत्कथं शक्नुयामिदम् / पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि //
चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम् / तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च / नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन / प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च //
सर्वेषामुदधीनां च नदीनां च जलान्यपि / बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया //
मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत् / तदक्षराणि सर्वाणि संख्यातुं शक्यते मया //
सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च / यावत्यो वालुकास्तासां संख्यातुं शक्यते मया //
सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम् / देहजानि च लोमानि संख्यातुं शक्यते मया //
सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम् / शस्यानामपि पत्राणि संख्यातुं शक्यते मया //
प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम् / तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया //
नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम् / पुण्यस्कन्धमसंख्येयं प्रमातुम् शक्यते मया //
यदि सर्वे ऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः / बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः //
यावत्तेषां महत्पुण्यं संबोधिġयानसाधनम् / ततो ऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम् //
किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः / यत्संख्यातुं प्रमातुं च शक्यते न कदाचन //
तत्कथमहमेको ऽत्र संख्यातुं शक्नुयामपि //
अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम् //
एतदेव महत्पुण्यं न क्षिणोति कदाचन / सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम् //
भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम् / सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम् //
evaṃ mahatfalaṃ matvā triratnaṃ sarvadā smaran / ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः //
ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः / स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि //
सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः / निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः //
धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः / बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः //
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् / जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः //
अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः / त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः //
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः / मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि //
इति तेन जगच्छास्ता समादिष्टं निशम्य सः / बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ //
अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम् / गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत् //
भगवन् कीदृशं कर्म मूढेन प्रकृतं मया / येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह //
हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम् / yatfalenāhamatraivaṃ bandhitaḥ sajano 'dhasi //
अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम् / येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम् //
हा मूढेन कृत तीर्थिकशासने मया / येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह //
यदा मया जगन्नाथ समारभ्य महन्महम् / सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम् //
तदा वामन आगत्य ब्रह्मचारी ममाग्रतः / द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत् //
तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना / तृतीये पदसंस्थानं दत्तं तस्मै महीतले //
मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन् / वामनः स महन्मूर्त्तिं धृत्वातिष्ठत् पुरो मम //
स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान् / धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन् मामेवमब्रवीत् //
देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे / स्थानं न विद्यते कुत्र स्थापयेयमिदं वद //
एकं न्यस्तं मयाकाशे द्वितीयं च महीतले //
तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद //
इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः / किंचिद्वक्तुशक्तो ऽहमतिष्ठं मूढमानसः //
तदा स विष्णुरालोक्य मामवमवदत्पुनः / यत्राहं स्थापयिष्यामि तत्र संस्थापयेद् ध्रुवम् //
इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा //
त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम् //
इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः / मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी //
मामिहाधसि पाताले सान्तःपुरजनान्वितम् / सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ //
यन्महादारुणं पापं निर्दयेन मया कृतम् / तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह //
दत्वार्थिभ्यो ऽपि सर्वेभ्यः सर्वोपकरणान्यपि / यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम् //
कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते / हा मया किं कृतं श्रुत्वा तीर्थिकशासनम् //
evaṃ bhadrafalaṃ puṇyaṃ triratnabhajonodbhavam / मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम् //
हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः / प्रतारितो ऽप्यसद्धर्मे प्रापितो ऽत्रापि बन्धने //
īdṛśaṃ satfalaṃ puṇyaṃ bhadraśrībodhisādhane / सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया //
यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम् / न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे //
तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम् / तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम् //
तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम् / अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम् / तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः / यथाविधि समभ्यर्च्य भजानि सर्वदाभवम् //
तथा च धर्मरत्नानां शरणे समुपस्थितः / सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा //
तथा य संघरत्नानां शरणे सर्वदा स्थितः / तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम् //
यथात्र भवतादिष्टं संचरिष्ये तथा खलु / संबोधिसाधनं धर्मं समुपादेष्टुमर्हति //
इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित् / प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत् //
साधो बले ऽसुरेन्द्रो ऽसि तच्छ्रिणुष्व समाहितः / हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि //
आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः //
सन्मित्रं समुपाश्रित्य चर भद्र समाहितः //
ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः / त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर //
सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन् मुदा / संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम् //
संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम् / tatfalaṃ hi mahatsiddhaṃ saṃbuddhapadasādhanam //
ततो ऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा / तत्कलं श्रीमहत्सौख्यं दद्यान् नैव तु सौगतम् //
तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः / ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि //
एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः / शुचिशीलसमाचारश्चरस्व पोषधं व्रतम् //
व्रतं विना न शुध्येत त्रिकायं महतामपि / तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम् //
एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक् / संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर //
कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम् / क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत् //
तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन् / संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर //
केवलं क्षमया नैव सद्धर्मगुणसाधनम् / विना वीर्यसमुत्साहम् सिध्यते बोधिसंवरम् //
तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः / धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने //
न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि / तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः //
स्वपरामहिताधानं सद्धर्मरत्नमर्जय / दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम् //
स्वपरात्महितोत्पातमेव कुर्यात् सदारिवत् / तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः //
सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय / प्रज्ञाविरहितो नैव ध्यानाहितो ऽपि सिध्यते / तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते //
एतद्धि परमोपायं संबोधिज्ञानसाधने / विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम् //
तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत् / भद्रचारी महाअभिज्ञो महासत्त्वो जिनात्मजः //
इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते / बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज //
त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः / बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते //
इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः / बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत //
ततः स बलिरालोक्य तं लोकेशं जिनात्जम् / सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात् //
भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः / समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम //
तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः / त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम् //
तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान् मुनीश्वरान् / धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा //
तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः / धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम् //
अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः / यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते //
सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् / सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम् //
yāvanti puṣpāṇi falāni cauvaṃ bhaiṣajyajātāni ca yānio santi / रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि //
महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः / latāḥ supuṣpābharaṇojjvalāśca dumāśca ye satfalanamraśākhāḥ //
देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः / सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि //
अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि / आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि //
आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः / गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः //
अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् / अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या //
ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः / परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या //
परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि / पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः //
सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च / पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् //
बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान् / तथा सर्वान् मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम् //
स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन् / स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा //
सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् / सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् //
सर्वचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयानपि / नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा //
बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः / धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा //
विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् / महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः //
अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः / यन्मया पशुना पापं कृतं कारितमेव वा //
यच्चानुमोदितं किंचिदात्मघाताय मोहिनः / तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः //
रत्नत्रये ऽपकारो यो मातापितृषु वा मया / गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः //
अनेकदोषदुष्टेन मया पापेन मोहना / यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् //
कथं च निःसराम्यस्मात् नित्योद्विग्नो ऽस्मि साम्प्रतम् //
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये //
कृताकृतोपरीक्षो ऽयं मृत्युर्विश्रम्भघातकः / स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः //
प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा / सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम् //
अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः / अहं च न भविष्यामि सर्वं च न भविष्यति //
तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते / स्वप्नानूभूतवत् सर्वें गतं न पुनरीक्ष्यते //
इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः / तन्निमित्तं कृतं पापं मे पुरःस्थितम् //
एवमागन्तुको ऽमीती मया नैव समीक्ष्यते / मोहनुनयाविद्वेअषैः कृतं पापमनेकशः //
रात्रिंदिवमविश्राममायुषो वर्धते व्ययः / आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम् //
इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता / मयैवैकेन सोढव्या मर्मछेदादिवेदना //
यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः / पुण्यमेकं तदा त्राणं मया तत्रैव संचितम् //
अनित्यजीवीतासंगादित्थं भयमजानता / प्रमत्तेन मदान्धेन बहुपापं मयार्जितम् //
अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति / पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत् //
किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः / महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः //
कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम् / को मे महाभयादस्मात् साधुस्त्राता भवेदिह //
त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः / तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये //
अधैव शरणं यामि जगन्नाथान् महाबलान् / जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् //
तैश्चाधिगतं धर्मं संसारभयनाशनम् / शरणं यामि भावेन बोधिसत्त्वगणं तथा //
समन्तभद्रायात्मानं ददामि भयविह्वलः / विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम् //
तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः / वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम् //
तिष्ठाम्यत्यप्रमत्तो ऽहं प्रयातेष्वितरेष्वपि / किमु योजनसाहस्रे प्रपाते दीर्घकालिके //
अद्यैव मरणं नैति न युक्त मे सुखासिका / अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः //
पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम् / येषु मे ऽभिनिविष्टेन गुरुणां लंघिनं वचः //
जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि / एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः //
इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा / अशुभान्नियतं दुःखं निःसरेयं ततः कथम् //
मया दुष्टेन मूढेन यत्पापं प्रकृतं पुरा / प्रकृत्या देशयाम्येष नाथानामग्रतो ऽधुना / कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः //
अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः / अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा //
अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम् / अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः //
संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम् / बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् //
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् / सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् //
सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः / धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् //
जिनान् निर्वातुकामांश्च याचयामि समादरात् / कल्पो ऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत् //
इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः / साधु साध्विति संराध्य तं बलिं चैवमब्रवीत् //
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी / यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः //
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् / बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात् //
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् / तज्जीयते ऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् //
कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव / यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान् //
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानिओ हर्तुकामैः / बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् //
भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन / सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते //
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् / रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम् //
सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः / गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम् //
kadalīva falaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva / satataṃ falati kṣayaṃ na yāti prasavatyeva hi bodhicittavṛkṣaḥ //
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन / शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः //
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन / यस्यानुशंसानमितान् उवाच मैत्रेयनाथः सुधनाय धीमान् //
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः / बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च //
गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते / तद्वद् भेदा ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः //
bodhipraṇidhicittasya samsāre 'pi mahatfalam / न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः //
यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे / समाददाति तच्चित्तमनिवर्तेन चेतसा //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
