Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
गुणकारण्डव्यूहसूत्र
- Thông tin
- GRETIL — Lokesh Chandra: Guṇakāraṇḍavyūhasūtram. New Delhi: International Academy of Indian Culture, 1999.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः / अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः //
जगदानन्दबीजस्य जगद्दुःखौषधस्य च / चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते //
हिताशंसनमात्रेन बुद्धपूजा विशिष्यते / किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् //
दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः / सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् //
यस्तेषां सुखरंकाणां पीडितानामनेकशः / तृप्तं सर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च //
नाशयत्यपि संमोहं साधुस्तेन समः कुतः / कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः //
कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते / अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते //
इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः / कलुषोदयसंख्यया सकल्पान्नरकेष्वासतीति नाथ आह //
atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ falam //
तस्माद् गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः / शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः //
त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते / नाद्य चेत् क्रियते यत्नं तलेनापि तलं व्रजेः //
यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा / एअतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति //
मनसा चिन्तयित्वा तु यो न दद्यात् पुनर्नरः / स प्रेतो भगवतीत्युक्तमल्पमात्रे ऽपि वस्तुनि //
किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः / यस्मादापद्यमानो ऽसौ सर्वसत्त्वार्थहानिकृत् //
यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति / तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः //
एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत् / अशोषाकाशपर्यन्तवासिनां किमु देहिनाम् //
अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः / त्वमेषां न स्वदोषेण चिकित्साअगोचरं गतः //
न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः / सद्गतावलभ्यमानायां पापमेव कुतः शुभम् //
यदा कुशलयोग्यो ऽपि कुशलं त्वं करोषि न / अपायादुःखसंमूढ किं करिष्यसि तदा शुभम् //
अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः / हतः सुगतिशब्दो ऽपि कल्पकोटिशतैरपि //
एके क्षणकृतात् पापादवीचौ कल्पमास्यते //
अनादिकालोपचितात् पापात् का सुगतौ कथा //
यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः / शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः //
चिरं धक्ष्यति ते कायम् नारकाग्नि सुदुःसहः / पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम् //
हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः / न शुरा नैव ते प्राज्ञाः कथं दासीकृतो ऽसि तैः //
त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः / अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः //
सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः / ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः //
सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः / सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः //
भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः / मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव //
अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति / महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि //
स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः / शीतातपादिव्यसनं सहन्ते जगद्धितार्थम् सहसे कथं न //
दुर्गापुत्रककर्णाढ्या दाहछेदादिवेदनाम् / मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः //
मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम् / ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथम् तव //
स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे / कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते //
न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम् / तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा //
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते / स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते //
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् / रतिराद्धत्यहासादौ दुःखहेतौ कथं तव //
स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे / कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते //
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् / तस्माअमृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा //
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते / स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते //
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् / रतिराद्धत्यहासादौ दुःखहेतौ कथं तव //
बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना / विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय //
मिथ्या कल्पनया चित्ते पापात् काये व्यथा यतः / तस्मात् कार्यं शुभे छन्दं भावयित्वैवमादरात् //
न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया / न कृता शासने कारा दरिद्राशा न पूरिता //
भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः / केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया //
अभिलाषविघाताश्च जायन्ते पापकारिणाम् / दुःखानि दौर्मनस्यानि भयानि विविधान्यपि //
पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति / तत्र तत्रैव तत्पापैर्दुःखशस्त्रैअहन्यते //
मनोरथं शुभकृतां यत्र यत्रैव गच्छति / तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते //
विपुलसुगन्धिशीतलसरोरुहगर्भगताः / मधुरजिनस्वराशनकृतोपचितद्युतयः //
मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः / सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः //
यमपुषापनीतसकलछविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः /
ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः //
जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं वर्धते / अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम् //
आपदा बाधते ऽल्पापि मनस्ते यदि दुर्बलम् / विषादकृतनिश्चेष्ट आपदः सुकरा ननु //
व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः / तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम् //
ये भोग्यमानविजिता वराकास्ते न मानिनः / मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते //
मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः / हताशाः परिभूताश्च मानुष्ये ऽपि हतोत्सवाः //
ते मानिनो विजयिनश्च त एव शूराः ये मानशत्रुविजयाय वहन्ति मानम् / ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayafalaṃ pratipādayanti //
कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः / पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः //
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति / येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः //
अवश्यं न धृतिं याति समाधौ न च तिष्ठति / नच तृप्यति दृष्ट्वापि पूर्वद् बाध्यते तृषा //
न पश्यति यथाभूतं संवेगादवहीयते / दद्यते तेन शोकेन प्रियसंगमकांक्षया //
तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः / अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः //
बालैः स भागचरितो नियतं याति दुर्गतिम् / नेष्यते विसभागश्च किं प्राप्तं बलसंगमात् //
क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् / तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः //
हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात् / अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् //
ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः / अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् //
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा / इत्याद्यवश्यमशुभं सर्वथा बालसंगमात् //
तस्मात् प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् / नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः //
बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः / सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति //
कामा ह्यनर्थजनका इहलोके परत्र च / इह बन्धवधछन्दैर्नारकादौ परत्र च //
यदर्थं दूतदूतीइनां कृतों ऽजलिरनेकधा / न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा //
प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् / यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः //
तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च / प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम् //
एकस्मादशनादासां लालामेध्यं च जायते / तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम् //
यदि न ते ऽशुचौ रागः कस्मादालिंगसे परम् / मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम् //
अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम् / बह्वमेध्यमयं कायममेध्यजमपीच्छसि //
श्मशाने परितान् घोरान् कायाम् पश्यापरानपि / कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः //
मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः / दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः //
अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि / व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै //
मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम् / आयाति तत्कुतः कुत्र याति चेति निरुप्यताम् //
स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः / निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः //
एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत् / सत्कृतः परिभूतो वा केन कः संभविष्यति //
कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् / का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः //
विचारे जीवलोके हि को नामात्र मरिष्यते / को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् //
सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा / प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः //
शोकायासौविषादैश्च मिथश्छेदनभेदनैः / यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः //
मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च / आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः //
भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम् / तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम् //
तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः / तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः //
तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः / nidrayopadravairbālaiḥ satsaṃgainiṣfalaistathā //
वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः / तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः //
तत्रापि यतते मारो महापायप्रपातने / तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया //
पुनश्च क्षणदौर्बल्यं बुद्धोत्पादो ऽतिर्लभः / क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा //
अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् / येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः //
स्नात्वा स्नात्वा यथा कश्चिद्विशेद् वह्निं मुहुर्मुहुः / स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः //
अजरामरशीलानामेवं विहरतां सताम् / आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः //
एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर / बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम् //
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः / सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम् //
संवृत्यानुपलम्भेन पुण्यसंभारमाचर / तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि //
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा / दुष्करान् मा निवर्तस्व तस्मासभ्यासशक्तितः / यस्यैव श्रवणात् त्रासस्तैरेव न विना रतिः //
आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति / स चरेत् परमं गुह्यं परात्मसमवर्तनम् //
यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम् / न द्विषेत् कस्तमात्मानं शत्रुवद्यो भयावहः //
यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया / पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति //
यो लाभसत्क्रियाहतोः पितरावपि मारयेत् / रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत् //
कः पण्डितस्तमात्मानमिच्छेद्रक्षेत् प्रपूजयेत् / न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत् //
यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता / भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता //
आत्मार्थं पीडयित्वान्यन्नरकादिषु पच्यते / आत्मानं पीडयित्वा तु परार्थे सर्वसंपदः //
दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया / तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः //
आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते / परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते //
ये केचिद्दुġखिता लोके सर्वे ते स्वसुखेच्छया / य केचित्सुखिता लोके सर्वे ते ऽन्यसुखेच्छया //
बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम् / स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः //
न नामसाध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् / स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः //
आस्ताम् तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति / भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् //
त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम् / अन्योन्यदूषणाद् घोरं दुःखं गृह्णन्ति मोहिताः //
उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव / सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण //
आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते / यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते //
तस्मात् स्वदुख शान्त्यर्थं परदुःखशमाय च / ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत् //
अन्यसंबन्धितो ऽस्मीति निश्चयं कुरु संमते / सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना //
सर्वमेतत् सुचरितं दानं सुगतपूजनम् / कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् //
न च द्वेषसमं पापं न च क्षान्तिसमं तपः / तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः //
मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते / न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते //
पूजयत्यर्थमानैर्यान्ये ऽपि चैनं समाश्रिताः / ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् //
सुहृदो ऽप्युद्विजन्ते ऽस्माद्ददाति चेन्न सेव्यते / संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः //
न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः / मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः //
विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल / दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा //
जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि / वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् //
अनिष्टकरणाज्जातमिष्टस्य च विघातनात् / कोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च //
अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया / दौर्ममनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते //
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् / अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् //
गुणो ऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः / संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा //
ये केचिदपराधास्तु पापानि विविधानि च / तत्सर्वं प्रत्ययबलात् स्वतन्त्रस्तु न विद्यते //
तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणं / ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव //
त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः / येन यास्यन्ति नरकान् त्वयैव ते हता ननु //
एतानाश्रित्य ते पापं क्षीयते क्षमता बहु / त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान् //
त्वमेवास्यपकार्येषां तवैते चापकारिणः / मोहादिके पराध्यन्ते कुप्यन्त्यन्ये ऽपि मोहिताः //
एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर / येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् //
स्तुतियशो ऽर्थसत्कारा न पुण्या यतर्चषुष्वे / न बलार्थं न चारोग्येन च कायसुखाय ते / स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि / गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते //
तस्मात् स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः / अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव //
दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः / बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम् //
पुण्ये विघ्नः कृतो ऽनेनेत्यत्र को यो न युज्यते / क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम् //
अथ त्वमात्मदोषेण न करोषि क्षमामिह / त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते //
न कालोपपन्नेन दानविघ्नः कृतो ऽथिना / न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते //
सुलभा याचका लोके दुर्लभास्त्वपकारिणः / यतस्ते ऽनपराद्धस्य न कश्चिदपराध्यति //
अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः //
बोधिचर्यासहायत्वात् स्पृहणीयस्सदा रिपुः / अपकाराशयो ऽसे ऽतिशत्रुर्यदि न पूज्यते //
अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते / तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा / स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा //
सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् / एतानाराध्य बहवः सम्पत्पारं यतो गताः //
सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे / जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः //
मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत् / बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत् //
बुद्धधर्मागमांशेन तस्मात् सत्त्वा जिनैः समाः / न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः //
गुणसारैकराशीनां गुणो ऽणुरपि चेत् क्वचित् / दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् //
बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते / एतदंशानुरुपेण बुद्धपूजा कृता भवेत् //
किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम् / सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत् //
येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम् / तत्तोषणात् सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम् //
आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम् / सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायो ऽस्ति दयामयानाम् //
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति / दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरो ऽत्र //
तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव / लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव //
आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम् / इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि //
प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् / cakravarttisukhaṃ sfītaṃ kṣamī prāpnoti saṃsaran //
एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता / न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः //
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन / नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः //
युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु / हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य //
अम्भोनिधीन् मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान् / विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि //
रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः / शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत् //
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः / मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम् //
यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् / atyantaṃ vipulafalaprasūtiheto vīryasthiravihitasya sā vibhūtiḥ //
क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति / बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् //
जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान् / आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः //
प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः / buddhayānvitasya falamiṣṭamudeti vīryādvīryantu buddhirahitaṃ svavadhāyaśatruḥ //
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् / ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् //
आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः / प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति //
कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः / प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता //
तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् / न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव //
स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् / ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम् //
सद्धर्मसाधनं कायमितरार्थं न पीडयेः / एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः //
आचारो बोधिसत्त्वानामप्रमेय उदाहृतः / चित्तशोधनमाचारं नियतं तावदाचर //
या अवस्थाः प्रपद्यन्ते स्वयं परवशो ऽपि वा / तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः //
न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः / न तदस्ति न यत्पुण्यमेवं विहरतः सतः //
पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर / सत्त्वानामेव चार्थाय सर्वं बोधाय नामय //
सदाकल्याणमित्रं च जीवितार्थे ऽपि मा त्यज / बोधिसत्त्वव्रतधरं महायानार्थकोविदम् //
इत्येवं लोकनाथेन समादिष्टं निशम्य सः / बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत् //
आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम् / yasyeha falaṃ bhuṃjāno vasāmyatra janaiḥ saha //
त्राहि मां भगवन्नथ पापिनं मूढमानसम् / सजनो ऽहं सदा शास्तर्भवतां शरणं व्रजे //
नमो ऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते / पद्मश्रीभूषितांगाय जटामकुटधारिणे //
जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च / हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे //
पृथिवीवरनेत्राय भैषज्यराजकाय च / सुशुद्धसत्त्वनाथाय परमयोगधारिणे //
मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने / चिन्तामणिप्रभासाय धर्मगंजाभिपालिने //
षण्णां पारमितानां च निर्देशनकराय च / बोधिमार्गोपदिष्टाय सुचेतनकराय च //
एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम् / सांजलिर्मुदितो नत्वा पुनरेवमभाषत //
रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः / बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे //
अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः / बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते //
सर्वदिक्षु स्थितान् नाथान् संबुद्धांश्च मुनीश्वरान् / कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः //
यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते / तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे //
सर्वाल्लोकधिपान् नाथान् बोधिसत्त्वान् जिनात्मजान् / तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः //
एवं तद्भजनं कृत्वा यन्मया साधितं शुभम् / तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् //
ग्लानानामस्मि भैअज्यं भवेयं वैद्य एव च / तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे //
क्षुत्पिपाअसाव्यथां हन्यामन्नपानप्रवर्षणैः / दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् //
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः / नानोपकरणाकारैरुपतिष्ठेयमग्रतः //
आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम् / निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये //
सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः / त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते //
यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया / घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः //
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च / दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा //
कारयन्तु च कर्माणि यानि तेषां सुखावहे / अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन //
येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत् / स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये //
अत्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः / उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः //
अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम् / पारेप्सुनां च नौभूतः सेतुः संक्रम एव च //
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् / दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् //
चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः / भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् //
पृथिव्यादीइनि भूतानि निःशेषाकाशवासिनाम् / सत्त्वानामप्रमेयाणां यथाभोओग्यन्यनेकधा //
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा / भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः //
यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः / ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः //
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते / तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम् //
adya me safalaṃ janma sulabdhāḥ sārasaṃpadaḥ / अद्य बुद्धकुले जातो बुद्धपत्रो ऽस्मि साम्प्रतम् //
तथाधुना मया कार्यं स्वकुलोचितकारिणा / निर्मलस्य कुले ऽस्यास्य कलंको न भवेद्यथा //
अन्धः सत्कालकूटेभ्यो यथाअ रत्नमवाप्नुयात् / तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम् //
जगन्मृत्युविनाशाय जातमेतद्रसायनम् / जगद्दारिद्रयशमनं निधानमिदमक्षयम् //
जगद् व्याधिप्रशमनं भैषज्यमिदमुत्तमम् / भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः //
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम् / जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः //
जगदज्ञानतिमिरप्रोत्सारणमहारबिः / सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् //
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः / सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम् //
जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा / पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः //
तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम् / तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् //
आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके / कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः //
त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम् एकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम् / त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिनाम् आचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम् //
मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः / को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम् //
स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे वस्तुं भीमभयानके लोकेश्वरालंकृते / न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य् उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे //
तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम् /
पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात् तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः / सम्यक् मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता / एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् //
इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः / लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत् //
साधु साधु महाराज यद्येवं व्रतमिच्छसि / तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः //
शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः / न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता //
अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् / करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः //
बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः / भयमस्तं गतं सर्वं सर्वं कल्याणमागतम् //
व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः / सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा //
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् / चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यपि //
यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि / चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः //
तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः / चित्तादेव हि सर्वत्र भयं भद्रं च जायते //
शस्त्राणि नरके केन घट्टितानि प्रयत्नतः / तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः //
पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः / तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः //
अद्ररिद्रं जगत्कृता दानपारमिता यदि / जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् //
फलेन सह सर्वस्वत्यागचित्ते जने ऽखिले / दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव हि //
मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान् / लब्धे विरतिचित्ते तु शीलपारमिता मता //
कियतो मारयिष्यामि दुर्जनान् गगनोपमान् / मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः //
भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति / उपानच्चर्ममात्रेण छन्ना भवति मेदिनी //
बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित् / स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः //
sahāpi vā ccharīlābhyāṃ mandavṛttena tatfalam / यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् //
जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि / अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् //
दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे / यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम् //
तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् / चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः //
यथा चपलमध्यस्थो रक्षति व्रणमादरात् / एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा //
लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम् / नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन //
असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम् / सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते //
अनेके श्रुतवन्तो ऽपि श्रद्धायत्नपरा अपि / असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः //
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः / उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् //
क्लेशतस्करसंघो ऽयमवतारगवेषकः / प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् //
तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन / गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम् //
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः / सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः //
इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः / बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः //
संप्रजन्यं तदायाति नैव यात्यागतं पुनः / स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते //
इत्येवं त्वं महाराज बोधिचर्याव्रतं चर / त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन् //
एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः / बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद् ध्रुवम् //
ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम् / दुष्टमारान् विनिर्जित्य सद्धर्मगुणराड् भवेह् //
सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत् / षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान् //
ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः / प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः //
तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः / धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः //
सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः / समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि //
इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः / निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः //
तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः / क्लेशानां समुदाचारा भविष्यन्ति कदापि न //
इत्येवं त्वं परिज्ञाय समाधायासुराधिप / बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते //
बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि / sadāpi satfalaṃ dadyādyāvatsaṃbodhinirvṛtim //
बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः / प्रमातुं शक्यते नैव मयैकेन कथं खलु //
तस्मात् सर्वप्रयत्नेन विरम्य क्लेशसंगतेः / त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर //
यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः / सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान् //
स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः / सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः //
अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम् / संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात् //
तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः / संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति //
इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया / श्रुत्वा सो ऽसुरेन्द्रो ऽपि मुमोद बोधिसाधने //
अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम् / महाराजर्द्धिसत्कारैः समार्चयत् प्रमोदितः //
ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः / संबोधिप्रणिधिं धृत्वा पुनरेवमभाषत //
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / yatrādya ropitaṃ bījamadya saṃpadyate falam //
यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि / तावत्सत्त्वहितार्थाय चरे ऽहं बोधिसंवरम् //
उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते / निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत् / व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम् / नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम् //
ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान् / बुद्धानामनुशिक्ष्ये ऽहं शीलसंयमसंवरम् //
नो ऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे / भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम् //
क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः / नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम् //
कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा / बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे //
त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः / बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम् //
इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु / भवत्प्रसादमासाद्य बोधिसत्त्वो ऽस्मि साम्प्रतम् //
इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः / तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत् //
यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम् / हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः //
यस्य पुण्ये ऽभिलाषो ऽस्ति तेन पूज्या जिनास्सदा / तेन संलभ्यते पुण्यं संबोधिगुणसाधनम् //
यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम् / ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम् //
यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम् / ततो ऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम् //
यस्य स्वर्गे ऽभिलाषो ऽस्ति सुशीलं तेन धार्यताम् / ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम् //
प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम् / तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम् //
संधारणार्थिकेनापि भावनीया निरात्मता / तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात् //
सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः / तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम् //
सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम् / तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा //
मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि / तेन मंजुस्वरो सत्यवादी भवति सन्मतिः //
शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः / तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि //
शमथे रुच्यते तेन कार्या सत्संगचारणा / विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता //
तथा हि सर्वदोषाणाअं व्युओपशन्तिर्भवेद् भवे //
ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता / तया ब्रह्म समासाद्य परा गतिरवाप्यते //
नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम् / तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम् //
सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम् / तेनेव सकलान् मारान् जित्वा संबोधिमाप्नुयात् //
बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम् / तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात् //
एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम् / मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि //
विरम्य तीर्थिकासंगात् त्रिरत्नशरणं गतः / बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते //
एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः / महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः //
एवं यो चरते नात्र क्लेशव्याकुलिताशयः / मारचर्यागुणसक्तो ऽसत्पथे संचरिष्यते //
ततो ऽतिक्लेशितात्मा स दशाकुशलसंरतः / भूयो ऽतिपातके घोरे निर्विशंकश्चरिष्यति //
ततो ऽतिदुरितात्मा स दारुणदुःखतापितः / दुःसहक्लेशरागाग्निदग्धांगः परितप्यते //
तदा तस्य सुहतत्राता कश्चिदेको ऽपि नैव हि / तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत //
ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते / तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान् //
पश्येद् वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान् / पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम् //
तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः / विमोहितो विषण्णात्मा तिष्ठेत् त्रासविषार्दितः //
ततस्ते यमदूतास्तं कालपाशैर्निबध्य च / क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद् द्रुतम् //
तत्पादशीर्णमांसानि काकगृध्रोलूकादयः / पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि //
पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो / एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम् //
ततो ऽवतार्य भूयस्तं बध्वा ते यमकिंकराः / तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः //
एकैकांघ्रितले तस्य पंचपंचशतान्यपि / कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः //
तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः / किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत् //
तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीइषणननाः / ततो ऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः //
अरे पापिन किमत्रैवमिदानीमनुशोचसे / avaśyaṃ yatkṛtaṃ karma bhogyameva hi tatfalam //
yattvayā prakṛtaṃ pāpaṃ tatfalaṃ bhuktamatra hi / yadi na prakṛtaṃ pāpaṃ bhuṃjyānaivātra tatfalam //
धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन / धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम् //
यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः / असन्मित्रानुरागेण प्रकृतं पातकं बहु //
हत्वापि प्राणिनो ऽनेका भुक्तास्त्वया प्रमोदिना / अदत्तमपि चाहृत्य भुक्तम् द्रव्यं त्वया बलात् //
अधर्मरतिरोगेण भुक्ताश्चापि परयियः / यशोजीवितद्रव्यार्थे प्रभाषितं मृषा वचः //
पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया / लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम् //
पारुष्यवचसाक्रुष्य सन्तो ऽपि परिभाषिताः / परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव //
साधूनामर्हतां चापि व्यापादमपि चिन्तितम् / मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम् //
एवम् नानाविधानेन क्लेशाभिमानिना त्वया / प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया / साधितं पापमेवैवं धर्मं किंचिन्न साधितम् //
भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना / क्रीडीत्वा पशुनेवैवं दुख हेतु त्वयार्जितम् //
सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित् / तेनात्रैवं महद्दुखं त्वया दुरात्मना //
नापि किंचित् त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम् / दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम् //
शीलं ते विद्यते नैव किंचिदपि च संयमे / क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि //
न कृतं शासने बोउद्धे सत्कारभजनोत्सवम् / त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम् //
प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी / त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम् / सत्कारं भजनं नैव किंचिदपि कृतं त्वया //
प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन / स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम् //
सद्धर्मभाषितं क्वापि श्रुतं त्वया कदापि न / सांघिकानां च सत्कारं कृतं नापि कदाचन //
धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न / किंचिदपि न ते धर्मे मनो ऽभिलषते क्वचित् //
तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम् / yenaiva yatkṛtaṃ karma tenaiva bhujyate falam //
इति तैर्गदितं श्रुत्वा स पापी परितापितः / तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः //
अश्राद्धो ऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः / असन्मित्रोपदेशेन प्रारमन्दुरिते सदा //
तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मे ऽपराधता / रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा //
इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः / तं बध्वा यमराजस्य पुरतः सहसा नयेत् //
तं दृष्ट्वा यमराजो ऽपि समुपानीतमग्रतः / तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत् //
किमत्र मे उपानीतः पापिष्ठो ऽयं हि दुर्मतिः / यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम् //
गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम् / yatra karmafalaṃ bhogyaṃ tatrainaṃ nayata drutam //
इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः / तं बध्वा सहसा नीत्वा कालसूत्रे ऽतिदारुणे / क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा //
तथा स विध्यमानो ऽपि शक्तिशतैरनेकधा / दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून् //
तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते / बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम् //
तथापि जीवितो नैव त्यजेत् प्राणं स किल्विषी / सर्वांगदग्धितश्चापि तिष्ठेत् प्रश्वस्य मोहितः //
तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः / क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम् //
तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम् / हदयमन्त्रगुणा दग्धा सर्वांगो ऽप्यभिधक्ष्यते //
ततो निदग्धकायो ऽसौ पापी त्यक्त्वा तदाश्रयम् / अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते //
एवमेव महाराज दशाकुशलचारिणः / सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम् //
कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके / यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः //
पुण्यमेव सुहृत्त्राता सर्वभवचारिणः / पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः //
तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः / दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि //
पुण्येन जायते क्वापि दुर्गतौ न कदाचन / सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः //
पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती / सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत् //
सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली / समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत् //
बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत् / बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः //
बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते //
ततो ऽभिसुहृत् कृपात्मा स परिशुद्धत्रिमण्डलः / निःक्लेशो ऽर्हत् त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात् //
इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि / विरम्य तीर्थिकासंगाद् बोधिचर्याव्रतं चरन् //
सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक् / त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम् //
यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान् / सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत् //
इत्येवं समुपादिष्टं लोकेशेन निशम्य सः / बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः //
ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम् / महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः //
दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम् / मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत् //
ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः / तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत् //
भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः / पवित्रीभूतमात्मानं भवति मे ऽधुना ध्रुवम् //
सर्वदाहं जगन्नाथ भवतां शरणाश्रितः / त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे //
तन्मे ऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति / क्षमित्वा चापराधत्वं पुत्रवत् पालयस्व माम् //
भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत् / अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति //
इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः / लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत् //
नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि / ततो ऽहं जेतकोद्याने विहारे सुगताश्रमे / सदेवासुरलोकानां सन्निपाता भवत्यपि //
तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम् / संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम् //
तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः / बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे //
इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात् / तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम् //
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः //
संचरन्तं तमालोक्य सजनः सो ऽसुराधिपः / दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ //
तदारभ्यासुरेन्द्रो ऽसौ बोधिचर्याव्रतं दधत् / त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते //
सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः / तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे //
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः / लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः //
// इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम् //
10. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम्
अथ सर्वनीवरणविष्कम्भी सुगतात्मजः / भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत् //
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः / कदेह समुपागच्छेत् संद्रक्ष्यते मया कथम् //
नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम् / यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत् //
यत्त्रैलोकाधिपतीशो ऽसौ दुर्दान्तानपि दानवान् / बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत् //
तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि / मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते //
भूयो ऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम् / तद्भवान्समुपादिश्य तुष्टो ऽन्तः कर्तुमहति //
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् //
शृणु साधो महासत्त्व लोकेशस्य महद्गुणम् / भूयो ऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः //
ततो निष्क्रम्य दैत्येन्द्रभवनात् स जिनात्मजः / अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ //
ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान् / नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत् //
तद्रश्मयो जगल्लोकानभास्य प्रसारिताः / जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः //
जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः / अष्टांगगुणसंपन्नजलपूर्णा मनोहराः //
दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः / अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः / सरत्नमणिमुक्तादिहारलम्बितशोभिताः //
काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः / प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः //
aneke puṣpavṛkṣāśca falavṛkṣādayo 'pi ca / सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः //
तत्रारामे विहारे च सुगन्धिकुसुमानि च / दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा //
एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम् / समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः //
अथ गगनगंजाख्यो बोधिसत्त्वो ऽपि विस्मितः / तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः //
विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः / पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत् //
कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः / कुत इह समाभास्य करोत्येवं शुभाद्भुतम् //
तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान् / लोकाअन् प्रबोधयन् धर्मे विनोदयितुमर्हति //
एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः / गगनगंजमालोक्य तमेवं पुनरब्रवीत् //
असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः / तमो ऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति //
तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः / अवभास्य जगल्लोकमिहापि संप्रसारितः //
तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते / तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत् स जगत्प्रभुः //
तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम् / तमायातं समालोक्य नत्वाराधय सादरम् //
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः / गगनगंज आलोक्य तं मुनीमेवमब्रवीत् //
कथं स भगवान् याति तत्रान्धतमसे भुवि / सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित् //
तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति / कथं किमर्थमालोक्य विहरेत् क्व जिनात्मजः //
इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः / गगनगंजमालोक्य तं पुनरेवमादिशत् //
तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी / चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत् //
तत्रानेकसहस्राणि यक्षणां रक्षसामपि / यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः //
तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः / बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम् //
स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः / प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत् //
तद्रश्मिपरिस्पृष्टास्ते सर्वे ऽपि यक्षराक्षसाः / महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः //
तदा तं समुपायातं श्रीकान्तिसंप्रभासितम् / दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः / कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा / पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत् //
मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ / कच्चित् सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान् //
इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः / तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन् //
ममानेकानि कार्याणि सत्त्वानां हितसाधने / तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् //
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने / निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि //
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् //
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् / नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने //
निष्पादितो जगत्सत्त्वसद्धर्मसाधने ऽपि हि / सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः //
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् //
तेनाहं सुचिरेणापि युष्माकं हितसाधने / विलोक्य समुपायामि नान्यथेति हि मन्यत //
इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते / श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च //
जयो ऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम् / सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति //
इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम् / स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः //
भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम् / अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति //
इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः / तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत् //
साधु चित्तं समाधाय शृणुध्वं यूयमादरात् / कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते //
ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा / ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा //
पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा / ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा //
ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान् / अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि //
ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा / सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा //
तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम् / सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम् //
सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा / एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः //
तद्यथापि च चतुर्द्विपनिवासिनो ऽपि मानवाः / हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम् //
तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम् / कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः //
तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम् / ततो ऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम् //
तद्यथा च महानघाः पंचपूर्णजलावहाः / सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम् //
एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम् / श्रवणभजनादीनां संप्राभिवहते सदा //
एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ / त्यक्त्वा पापमतिं सर्वे शृणुतेदं सुभाषितम् //
श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात् / एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः //
इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते //
सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन् //
ये चापीदं महायानसूत्रराजं जगत्प्रभाः / लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश //
इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः / सर्वांस्तान् मुदितान् मत्वा समालोक्येदमादिशत् //
कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते / लिखन्तीदं सूत्रराजं लिखापयन्ति ये ऽपि च //
चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः / लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम् //
राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः / धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः //
ये चाप्यस्य महायानसूत्रराजस्य सर्वदा / नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः //
ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः / निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः //
चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः / जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः //
एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ / विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा //
एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा / नामानुस्मरणं कृत्वा भजत श्रद्धयादरात् //
ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः / निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ //
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा / बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः //
ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः / सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ //
इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः / त्रिरत्नभजनं कृत्वा भजन तत्सुभाषितम् //
इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः / प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात् //
ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः / केचिच्च श्रोताअपन्नाः सकृदागामिनो ऽपरे //
अन्ये ऽनागामिनः केचिद्भवन्ति बोधिसाधने / ततस्सर्वे ऽपि ते यक्षा राक्षसाः संप्रमोदिताः //
तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः / परस्य च हितं कृत्वा संचरन्ते शुभे सदा //
ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम् / कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात् //
भगवन्नुबोधे नः सद्धर्मं समुपादिशत् / विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज //
स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहे ऽत्र ते / रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः //
सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा / सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे //
इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरो ऽथ सः / सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत् //
नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन् / बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे //
तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया / तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम् //
इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः / तद्वियोगातिदुःखार्ता वदन्येवं परस्परम् //
गमिष्यति भवन्तो ऽयं लोकनाथो जगत्प्रभुः / तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम् //
इति संभाष्य सर्वे ते तस्य त्रैधातुकप्रभोः / पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः //
ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः / तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः //
तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः / रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतो ऽनुगाः //
तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः / प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत् //
सुदूरमागतो यूयं निवर्तध्वं स्वमालयम् / मागच्छत गमिष्यामि शुद्धावासे सुरालये //
इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः / लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम् //
तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः / त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः //
बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः / परस्परं हितं कृत्वा संचरन्ते सदा शुभे //
एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान् / अपि नियुज्य सद्धर्मे चारयति प्रबोधयन् //
एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन् / बोधिमाअर्गे प्रतिष्ठाप्य पालयति सदा भवे //
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् / अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते //
तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा / समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा //
ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा / दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम् //
तत्रामिताभनाथस्य शरणे समुपाश्रिताः / सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे //
ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते / त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः //
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते / सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः //
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते / सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः //
// इति तमो ऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम् //
11. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम्
अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः / विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत् //
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः / कदेह समुपागच्छेद् द्रक्ष्यते स कथं मया //
ततः कुत्र प्रयातो ऽसौ समुद्धर्तुं च दुःखितः / तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति //
इति संप्रार्थिते तेन गगनगंजेन सद्धिया / विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत् //
ततो ऽसौ कुत्रपुत्रान्तर्हिताग्निवत् प्रभासयन् / गत्वा विहायासौ शुद्धवासलोके ऽभिगच्छति //
तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः / तत्र देवनिकायेषु समुपाचरते दीनवत् //
तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः / दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः //
तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः / शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति //
तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः / कस्त्वं किमर्थमायात इत्येवं परिपृच्छति //
तेनैवं परिपृष्टे ऽसौ ब्राह्मणो ऽर्थि सुदुःखिवत् / निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः //
ब्राह्मणो ऽहं महाभाग दूरदेशादिहागतः / क्षुत्पिपासाभितप्तो ऽस्मि तद्भोज्यं मे प्रदीयताम् //
तेनैवं याचमानो ऽसौ देवपुत्रः सुकुण्डलः / रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः //
ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे / तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन् //
इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम् / किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे / यदि न दीयते किंचिदप्यत्र मरणं व्रजे //
इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः / किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन् //
तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः / तत्र गृहे समुद्भूता महदैश्वर्यसंपदः //
तदा तस्य गृहे तत्र काष्ठागारेषु सर्वतः / भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः //
अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि / दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः //
सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः / विलोक्य समुदाश्चर्यसमाकुलितमानसः //
अहो किमिदमाश्चर्यम् स्वप्नं वा दृश्यते मया / इति संचिन्त्य भूयो ऽपि समीक्ष्यैवं विचिन्तयन् //
नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः / यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी //
इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः / सहसोपेत्य तम् विप्रं भाषते एवमादरात् //
नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ / प्रविशात्र गृहे ऽस्माकमनुग्रहीतुमर्हसि //
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः / सहसोत्थाय तद्गेहं प्रविशति विलोकयन् //
तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः / ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा //
प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः / मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः //
दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः / वर्णगन्धरसोदारैर्भोजयति समादरम् //
तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः / भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम् //
स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः / तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी //
भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम् / सिध्यन्तु ते ऽभिलाषं च सम्वृतिकार्यसाधनम् //
सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत् / त्रिरत्नभजनं कृत्वा तिष्ठ चरन् मुदा शुभे //
अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे / विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे //
इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः / ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात् //
कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम् / कीदृशी रमणीया सा भूमी तद्वद मे द्विज //
इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः / ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम् //
रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम् / दिव्यसौवर्णरत्नादिनानालंकारमण्डितम् //
तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः / sarvakusumavṛkṣāśca sarvasatfalaśākhinaḥ //
अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः / अनेकाः पुष्करिण्यो ऽपि पद्मोत्पलादिशोभिताः //
तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः / शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः //
विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः / अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः //
भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः / चैलकव्रतिनश्चापि तथान्ये ऽपि च सांघिकाः //
त्रिरत्नभजनारक्ता उपासका उपासिकाः / विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः //
सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः / एवमन्ये ऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि //
राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः / श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः //
तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात् / त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे //
तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः / यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः //
सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि / सदा तत्र समागत्य विश्वभुवो जगद्गुरोः //
सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम् //
एवं तत्र मुनीन्द्रो ऽसौ विश्वभूः संप्रदर्शयन् / प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति //
एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम् / सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम् //
तदत्र साम्प्रतम् सर्वे लोका देवाधिपा अपि / सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः //
तवापि यदि वांछास्ति तत्र गच्छ समदरात् / विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु //
तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः / त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर //
एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः / त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि //
इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात् / त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे //
इति तेन समादिष्टं निशम्य स सुकुण्डलः / प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम् //
अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज / देवो ऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान् //
कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता / यथा त्वमिह माम् पश्यन् तथा को ऽन्यो ऽनुपालयेत् //
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः / देवपुत्रं तमालोक्य वदत्येवं प्रबोधने //
न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम् / बोधिसत्त्वो ऽस्म्यहं सर्वसत्त्वहितार्थसंभरः //
बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः / बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे //
एवं सर्वत्र लोकेषु दुःखिनः पापिनो ऽप्यहम् / बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे //
तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे //
इति तेन समादिष्टं निशम्य संप्रमोदितः / स रत्नदक्षिणां दत्वा तस्यैवं च प्रभाषते //
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् / yatrādya ropitaṃ vījamadya saṃpadyate falam //
धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः / सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते //
अहमपि गमिष्यामि जेतारामे जिनाश्रमे / विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम् //
तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे / तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति //
इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम् / देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन् //
अहमन्यत्र लोके ऽपि सत्त्वान् पश्यन् प्रबोधयन् / बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे //
त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने / विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम् //
तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः / त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे //
इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः / अन्तर्हितः क्षणाद्वह्निरिवाशे ऽभिगच्छति //
तद् दृष्ट्वा देअवपुत्रो ऽसौ मुदाश्चर्यकुलाशयः / नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे //
तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन् / तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे //
त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे //
एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः / देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन् / बोधिमार्गे नियुज्यैवं चारयति जगद्धिते //
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् / अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः //
तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा / ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः //
ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम् / सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम् //
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा / बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम् //
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः / लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः //
// इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम् //
12. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम्
अथ गगनगंजो ऽसौ बोधिसत्त्वो जिनात्मजः / विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् //
अद्यापि स महासत्त्वो नायाति भगवन्निह / कदेह समुपागच्छेत् कुत्र गच्छति साम्प्रतम् //
इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः / गगनगंजमालोक्य तमेवं पुनरादिशत् //
ततः संप्रस्थितो ऽसौ च लोकेश्वः प्रभासयन् / सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति //
दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन् / तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन् //
तमायातं समुपालोक्य प्रौढकामातिसुन्दरम् / सर्वासां राक्षसीनां तत्कामरागं समुत्थितम् //
तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः / नवयौवनकन्तांगा रतिरुपातिसुन्दराः //
भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः / तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम् //
स्वागतं ते भवान् हि कच्चित् सर्वत्र कौशलम् / संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि //
अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः / कस्या अपि हि नैको ऽपि विद्यते हि कदाचन //
तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत् / भवतु नागतिश्चापि त्राता द्वीपः परायणः / शरण्यं च सदा लोके सन्मार्गदेशको ऽचि च //
सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया / तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा //
सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः / वस्त्राणि विविधान्येवं विविधभूषणाम्यपि //
रमणीयास्तडागाश्च क्रीडोद्यानवनानि च / प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः //
सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि / सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि //
एतानीमानि सर्वाणि त्वदधीनानि सर्वदा / तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति //
यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन् / स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा //
भवद्वशे समाश्रित्य सर्वा वयं समासरात् / पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम् //
तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन् / स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः //
भवतो भजनं कृत्वा करिष्यामः समीहितम् / तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित् //
एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः / सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः //
यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि / तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा //
यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा / रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम् //
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि / सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च //
त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम् / अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम् //
तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह / यथाकामं रमन्नत्र संचरतां यथेच्छया //
इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः / सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन् //
यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ / तच्छृणुध्वं समाधाय देशितं वो हितं मया //
विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम् / त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम् //
यद्येतद्व्रतमाधाय चरथ सर्वदादरात् / तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन् //
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि / सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः //
स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि / तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि //
इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः / ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत् //
शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा / व्रतराजविधानं च उपदेक्ष्यामि विस्तरम् //
आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा / तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः //
अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः / श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम् //
ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः / अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान् //
सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात् / उपढोक्य समालोक्य कृताजलिपुता मुदा //
पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम् / संबोधिओप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे //
एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके / भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम् //
एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा / त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितं //
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः / सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः //
सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः / सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् //
तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा / त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ //
एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम् / यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम् //
इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि / राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद् व्रतम् //
ततस्ताः प्रमदाः सर्वा राक्षस्यो ऽपि प्रबोधिताः / यथाविधि समाधाय चरन्ति पोषधं व्रतम् //
एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः / विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः //
तदा तासां च सर्वासां राक्षसीनां मनांस्यपि / क्लेशदुःखैर्न बाध्यन्ते ऽपहारिभिः कदापि च //
तासामाघाचित्तं च नैवाभिजायते क्वचित् / दशाकुशलसंरागं कस्याश्चापि न जायते //
सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने / तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः //
चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः / kāścicca śrotāapatifalaprāptāḥ prabodhitāḥ //
tathānyāḥ sakṛdāgāmifalaprāptāḥ kāścit saddharmasādhane //
काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः / प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः //
एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि / सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः //
एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः / शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते //
ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः / कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात् //
यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान् / कृत्या बोधयन् धर्मे नियोजयति सद्गुरो //
तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः / सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति //
वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः / भवता यद्यथादिष्टं तत्करिष्यामहे तथा //
न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन / शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा //
जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः / संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः //
तथा वयं विरम्यात्र दशकुलमार्गतः / सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः //
सदैतद् व्रतमाधाय त्रिरत्नभजनारताः / सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे //
तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा / कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः //
इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः / लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः //
नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः / प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि //
तदेतत्संवरं धृत्वा यूयमेवं समाहिताः / त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत //
काले काले ऽहमागत्य युष्माकं हितसाधने / देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम् //
एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः / लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम् //
ततो ऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन् / प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः //
तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि / राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः //
ततः प्रभृती ताः सर्वा राक्षस्यो ऽपि समाहिताः / तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे //
एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन् / बोधिमार्गे नियुज्यापि चारयति सदा शुभे //
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् / अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः //
तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः / ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम् //
ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः / ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा //
ते सदा सद्गतिं यान्तिं न कदाचन / भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि //
सदा सत्त्वहिताधाने सद्धर्मसाधनारताः / त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम् //
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा / अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः //
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते / सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः //
// इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम् //
13. वाराणसी कृमि कीटोद्धारण प्रकरण
अथ गगनगंजो ऽसौ बोधिसत्त्वः कृतांजलिः / विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत //
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः / नाद्यापिह समायाति कदागच्छेत्तदादिश //
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः / गगनगंजमालोक्य तं पुनरेवमब्रवीत् //
ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन् / वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
