Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आह - क एतस्य आर्य समाधेर्विषयः? आह - एतं मम कुलपुत्र समाधिं समापन्नस्य अस्मिन् लोकधातुवंशे बुद्धपरंपरया काश्यपप्रमुखाः सर्वतथागताः कनकमुनिक्रकुच्छन्दविश्वभुकशिखिविपश्यितिष्यपुष्ययशोत्तरपद्मोत्तरप्रमुखाः सर्वतथागता अभिमुखा भवन्ति / बुद्धदर्शनानुसंधौ बुद्धपरंपरानुपच्छेदेन चित्तक्षणे चित्तक्षणे बुद्धशतं पश्यामि / तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि / तदनन्तरेण चित्तेन बुद्धशतसहस्रमवतरामि / एवं बुद्धकोटीं बुद्धकोटीशतं बुद्धकोटीसहस्रं बुद्धकोटीशतसहस्रं बुद्धकोट्ययुतं बुद्धकोटीनियुतं बुद्धकोटीकङ्करं बुद्धकोटीबिम्बरम् / तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धोत्पादपरंपरामवतरामि / तदनन्तरेण चित्तेन जम्बुद्वीपपरमाणुरजःसमांस्तथागतानवतरामि / तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि / तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि / (gv 158) प्रथमचित्तोत्पादप्रतिलम्भविकुर्वितमवतरामि / प्रणिधानविमात्रताभिनिर्हारविशुद्धिमवतरामि / चर्याविशुद्धिमवतरामि पारमितापरिपूरिमवतरामि / सर्वबोधिसत्त्वभूमिसमुदागममवतरामि / क्षान्तिप्रतिलम्भविशुद्धिमवतरामि / मारकलिविकिरणविनर्दितमवतरामि / अभिसंबोधिविकुर्वितव्यूहमवतरामि / बुद्धक्षेत्रविशुद्धिविमात्रतामवतरामि / सत्त्वपरिपाकविमात्रतामवतरामि / पर्षत्संनिपातविमात्रतामवतरामि / प्रभामण्डलविमात्रतामवतरामि / धर्मचक्रप्रवर्तनवृषभितामवतरामि / बुद्धविकुर्वितप्रातिहार्यमवतरामि /

सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि / गत्या प्रविचिनोमि / भक्त्या प्रविभजामि / बुद्ध्यानुगच्छामि / प्रज्ञया प्रकाशयामि / अनागतबुद्धपरंपरां च मैत्रेयप्रमुखानवतरामि / एकचित्तक्षणे बुद्धशतमवतरामि / तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि / तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समांस्तथागतानवतरामि / तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि / यावत्सुविभक्तां संभिन्नां चैषां धर्मदेशनां स्मरामि, संधारयामि, स्मृत्या चोद्गृह्णामि / गत्या प्रविचिनोमि / मत्या प्रविभजामि / बुद्ध्या अनुगच्छामि / प्रज्ञया प्रकाशयामि / यथा चेह लोकधातुवंशे पूर्वान्तापरान्तपर्यापन्नानां बुद्धपरंपरां पश्यामि, अवतरामि, तथा दशसु दिक्षु अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु अतीतानागतेषु लोकधातुवंशेषु सर्वतथागतपरंपरामवतरामि / तेषां च तथागतानां प्रथमचित्तोत्पादसंभारपरंपरामवतरामि / तां च बुद्धपरंपरावतारमव्यवच्छिन्नां निष्ठामवतरामि / अतुलं श्रद्धागमनीयं बोधिसत्त्ववीर्यव्यवसायगम्यं बोधिसत्त्ववीर्यवेगविवर्धनमसंहार्यं सर्वलोकेन सर्वश्रावकप्रत्येकबुद्धैस्तद्विषयानवक्रान्तैश्च बोधिसत्त्वैः प्रत्युत्पन्नानां च दशसु दिक्षु सर्वलोकधातुषु वैरोचनप्रमुखानां तथागतानां परंपरामवतरामि / एकचित्तक्षणे बुद्धशतं पश्यामि अवतरामि / तदनन्तरेण चित्तेन बुद्धसहस्रमवतरामि /

तदनन्तरेण चित्तेन यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानवतरामि / यं च यदा तथागतं द्रष्टुमाकाङ्क्षामि, तं तदा पश्यामि / यच्च तैबुद्धैर्भगवद्भिर्भाषितं भाषन्ते भाषिष्यन्ते, तत्सर्व शृणोमि / श्रुत्वा चोद्गृह्णामि / स्मृत्या संधारयामि / गत्या प्रविचिनोमि / मत्या प्रविभजामि / बुद्ध्या अनुगच्छामि / प्रज्ञया प्रकाशयामि / एतमहं कुलपुत्र अपरिनिर्वाणकोटीगतं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं त्र्यध्वैकक्षणज्ञानप्रतिलब्धानां बोधिसत्त्वानां क्षणकोटीसमाधिव्यूहविहारिणां तथागतदिवसावक्रान्तानां सर्वकल्पविकल्पसमतानुगतानां सर्वबुद्धसमतासमाध्यनुबद्धानामात्मसत्त्वबुद्धाद्वयविहारिणां प्रकृतिप्रभास्वरधर्मव्यूहमण्डलानां ज्ञानयन्त्रलोकजालस्फरणानां सर्वतथागतधर्ममुद्राविकोपितविहारिणां सर्वधर्मधातुविज्ञपनज्ञानविषयाणां सर्वतथागतधर्मदेशनाविज्ञप्तिज्ञानविषयाणां चर्यां ज्ञातुम्, गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे पोतलको नाम पर्वतः / तत्र अवलोकितेश्वरो नाम बोधिसत्त्वः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / तस्यां वेलायामिमे गाथे अभाषत -

गच्छो हि सूधन शिरीजलराजमध्ये गिरिराजपोतलकि शोभनि शूरभागे / रत्नामयं तरुवरं कुसुमाभिकीर्णमुद्यानपुष्किरिणिप्रस्रवणोपपेतम् // 1 //

तस्मिंश्च पर्वतवरे विहराति धीरो अवलोकितेश्वरु विदू जगतो हिताय / तं गच्छ पृच्छ सुधना गुण नायकानां देशिष्यते विपुलशोभि नयप्रवेशम् // 2 //

अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेः पादौ शिरसाभिवन्द्य वेष्ठिलं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य वेष्ठिलस्य गृहपतेरन्तिकात् प्रक्रान्तः // 27 //

30 अवलोकितेश्वरः /

अथ खलु सुधनः श्रेष्ठिदारको वेष्ठिलस्य गृहपतेरनुशासनीमनुविचिन्तयन्, तं बोधिसत्त्वाधिमुक्तिकोशं निगमयन्, तद्बोधिसत्त्वानुस्मृतिबलमनुस्मरन्, तं बुद्धनेत्रपरंपराबलं संधारयन्, तं बुद्धानन्तर्यानुसंधिमनुगच्छन्, तं बुद्धनामश्रोत्रानुगममनुस्मरन्, तं बुद्धधर्मदेशनानयमनुलोमयन्, तं बुद्धधर्मसमुदागमव्यूहमवतरन्, तद्बुद्धाभिसंबोधिविनर्दितमधिमुच्यमानः, तदचिन्त्यं तथागतकर्माभिमुखीकुर्वन् अनुपूर्वेण येन पोतलकः पर्वतस्तेनोपसंक्रम्य पोतलकं पर्वतमभिरुह्य अवलोकितेश्वरं बोधिसत्त्वं परिमार्गन् परिगवेषमाणो ऽद्राक्षीदवलोकितेश्वरं बोधिसत्त्वं पश्चिमदिक्पर्वतोत्सङ्गे उत्ससरःप्रस्रवणोपशोभिते नीलतरुणकुण्डलकजातमृदुशाद्वलतले महावनविवरे वज्ररत्नशिलायां पर्यङ्कं बद्ध्वा उपविष्टं नानारत्नशिलातलनिषण्णापरिमाणबोधिसत्त्वगणपरिवृतं धर्मं देशयमानं सर्वजगत्संग्रहविषयं महामैत्रीमहाकरूणामुखोद्योतं नाम धर्मपर्यायं संप्रकाशयन्तम् / दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रहर्षितविकसितानिमिषनयनः कृताञ्जलिपुटः कल्याणमित्रप्रसादवेगानुगताविक्षिप्तचेताः कल्याणमित्रेषु सकलबुद्धदर्शनसंज्ञी कल्याणमित्रप्रभवसर्वधर्ममेघसंप्रतीच्छनसंज्ञी कल्याणमित्राधीनसर्वगुणप्रतिपत्तिसंज्ञी कल्याणमित्रसमवधानदुर्लभसंज्ञी कल्याणमित्रोद्भवदशबलज्ञानरत्नप्रतिलाभसंज्ञी कल्याणमित्रसमुद्भवाक्षयज्ञानालोकसंज्ञी कल्याणमित्राश्रयसंवर्धितपुण्यप्रवालसंज्ञी कल्याणमित्रसंप्रकाशितसर्वज्ञताद्वारसंज्ञी कल्याणमित्रोद्देशितमहाज्ञानसागरावतारसंज्ञी कल्याणमित्रसंजनितसर्वज्ञतासंभारसमुदयसंज्ञी येन अवलोकितेश्वरो बोधिसत्त्वस्तेनाभिजगाम //

अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं दूरत एव आगच्छन्तमवलोक्य आमन्त्रयामास - एहि / स्वागतं ते अनुपमोदाराचिन्त्यमहायानसंप्रस्थिता जातमूलकविविधदुःखोपद्रुताप्रतिशरणसर्वजगत्परित्राणाशया सर्वलोकातिक्रान्तानुपमाप्रमेया सर्वबुद्धधर्माध्यक्षताभिलाषिन् महाकरूणावेगाविष्ट सर्वजगत्परित्राणमते समन्तभद्रदर्शनचर्याभिमुख महाप्रणिधानमण्डलपरिशोधनचित्त सर्वबुद्धधर्ममेघसंधारणाभिलषितकुशलमूलोपचयातृप्ताशयकल्याणमित्रानुशासनीसम्यक्प्रवृत्तमञ्जुश्रीज्ञानसागरसंभूत गुणकमलाकर बुद्धाधिष्ठानप्रतिलाभाभिमुखः समाध्यालोकवेगप्रतिलब्ध सर्वबुद्धधर्ममेघसंधारणाभिलषितचित्त बुद्धदर्शनप्रीतिप्रसादवेगप्रहर्षितमानस अचिन्त्याप्रमाणसुचरितवेगाभिष्यन्दितचेतः गुणप्रतिपत्तिवेगविशुद्धपुण्यज्ञानकोश स्वयमभिज्ञामुखसर्वज्ञज्ञानमात्रवेगपरसंदर्शाभिप्राय महाकरुणावेगविपन्नमूलतथागतज्ञानालोकवेग संधारणमते //

अथ खलु सुधनः श्रेष्ठिदारको येन अवलोकितेश्वरो बोधिसत्त्वस्तेनोपसंक्रम्य अवलोकितेश्वर बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः (gv 160) प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु अवलोकितेश्वरो बोधिसत्त्वो जाम्बूनदसुवर्णवर्णं विचित्राप्रमेयप्रभाजालवाहव्यूहमेघप्रमुञ्चनं दक्षिणं बाहुं प्रसार्य लक्षणानुव्यञ्जनविसृतविविधविमलामितकायचित्तप्रह्लादसंजननरश्मिप्रतानसंकुसुमितं पाणिं सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह - साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / अहं कुलपुत्र महाकरुणामुखाविलम्बं नाम बोधिसत्त्वचर्यामुखं प्रजानामि / एतच्च कुलपुत्र महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं सर्वजगदसंभिन्नसत्त्वपरिपाकविनयनप्रवृत्तं समन्तमुखस्रोतविज्ञप्तिसत्त्वसंग्रहविनयपर्युपस्थानम् / सो ऽहं कुलपुत्र महाकरुणामुखाविलम्बबोधिसत्त्वचर्यामुखे प्रतिष्ठितः सर्वतथागतानां च पादमुलान्न विचलामि, सर्वसत्त्वकार्येषु च अभिमुखस्तिष्ठामि / दानेनापि सत्त्वान् संगृह्णामि / प्रियवादितया अर्थक्रियया समानार्थतयापि सत्त्वान् संगृह्णामि / रूपकायविदर्शनेनापि सत्त्वान् परिपाचयामि / अचिन्त्यवर्णसंस्थानरूपदर्शनविशुद्ध्या रश्मिजालोत्सर्गेणापि सत्त्वान् प्रह्लाद्य परिपाचयामि / यथाशयघोषोदाहारेणापि यथाभिमतेर्यापथसंदर्शनेनापि विविधाधिमुक्तिसभागधर्मदेशनयापि नानारूपविकुर्वितेनापि कुशलधर्मोपचयप्रवृत्तसत्त्वचित्तसंचोदनयापि आशयानुरूपविचित्रापरिमाणनिर्माणसंदर्शनेनापि नानाजात्युपपन्नसत्त्वसभागरूपसंदर्शनेनापि एकावासनिवासेनापि सत्त्वान् संगृह्णामि परिपाचयामि /

तेन मया कुलपुत्र इदं महाकरुणामुखाविलम्बं बोधिसत्त्वचर्यामुखं परिशोधयता सर्वजगत्प्रतिशरणप्रणिधिरुत्पादितः, यदुत सर्वसत्त्वप्रपातभयविगमाय सर्वसत्त्वसंत्रासकभयप्रशमनाय सर्वसत्त्वसंमोहभयविनिवर्तनाय सर्वसत्त्वबन्धनभयसमुच्छेदाय सर्वसत्त्वजीवितोपरोधोपक्रमभयव्यावर्तनाय सर्वसत्त्वोपकरणवैकल्यभयापनयनाय सर्वसत्त्वजीविकाभयव्युपशमनाय / सर्वसत्त्वाश्लोकभयसमतिक्रमणाय सर्वसत्त्वसांसारिकभयोपशमनाय सर्वसत्त्वपर्षच्छारद्यभयविगमाय सर्वसत्त्वमरणभयव्यतिक्रमाय सर्वसत्त्वदुर्गतिभयविनिवर्तनाय सर्वसत्त्वतमोन्धकारविषमगत्यप्रत्युदावर्त्यावभासकरणाय सर्वसत्त्वविषभागसमवधानभयात्यन्तविगमाय सर्वसत्त्वप्रियविप्रयोगभयनिरोधाय सर्वसत्त्वाप्रियसंवासभयापनयनाय सर्वसत्त्वकायपरिपीडाभयसंयोगाय सर्वसत्त्वचित्तपरिपीडनभयनिर्मोक्षणाय सर्वसत्त्वदुःखदौर्मनस्योपायाससमतिक्रमाय सर्वजगत्प्रतिशरणप्रणिध्यभिनिर्हारः कृतः / अनुस्मृतिमुखं च मे सर्वलोके ऽधिष्ठितं सर्वसत्त्वभयव्युपशमनाय / स्वनामचक्रं मे सर्वलोके ऽभिविज्ञप्तं सर्वसत्त्वभयविगमाय / सर्वजगदनन्ताकृतिभेदशमथो मे काये ऽधिष्ठितो यथाकालजगत्प्रतिविज्ञप्तये / सो ऽहं कुलपुत्र, अनेनोपायेन सत्त्वान् सर्वभयेभ्यः परिमोच्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अविवर्त्यान् करोमि बुद्धधर्मप्रतिलाभाय / एतमहं कुलपुत्र महाकरुणामुखाविलम्बस्य (gv 161) बोधिसत्त्वचर्यामुखस्य लाभी /

किं मया शक्यं समन्तभद्राणां बोधिसत्त्वानां सर्वबुद्धप्रणिधानमण्डलविशुद्धानां समन्तभद्रबोधिसत्त्वचर्यागतिंगतानां कुशलधर्माभिसंस्काराव्यवच्छिन्नस्रोतानां सर्वबोधिसत्त्वसमाधिश्रोत्रसदासमाहितानां सर्वकल्पसंवासचर्याविवर्त्यस्रोतानां सर्वत्र अध्वनयानुगतस्रोतानां सर्वलोकधात्वावर्तपरिवर्तस्रोतकुशलानां सर्वसत्त्वाकुशलचित्तव्युपशमकरस्रोतानां सर्वसत्त्वकुशलचित्तसंवर्धनस्रोतानां सर्वसत्त्वसंसारस्रोतोविनिवर्तिकरस्रोतानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

तत्रेदमुच्यते -

कृत्वा प्रदक्षिणु स्तवित्व च गौरवेण प्रकान्त दक्षिणपथं सुधनः सुदान्तः / सो पश्यते रत्नपर्वतकन्दरस्थं अवलोकितेश्वरमृषिं करुणाविहारिम् // 1 //

वज्रामये गिरितटे मणिरत्नचित्रे सिंहासने पदुमगर्भि निषण्ण धीरो / देवासुरैर्भुजगकिन्नरराक्षसैश्च परिवारितो जिनसुतैर्वदि तेष धर्मम् // 2 //

दृष्ट्वोपजात अतुला सुधनस्य प्रीति उपगम्य वन्दति क्रमौ गुणसागरस्य / ओवाच देहि मम आर्य कृपां जनित्वा शिक्षां तु अहु लभे इम भद्रचर्याम् // 3 //

बाहुं प्रणम्य विमलं शतपुण्यचित्रं प्रभमेघजाल विपुलं शुभ मुञ्चमानः / मूर्ध्नि स्थिहित्व सुधनस्य विशुद्धसत्त्वो अवलोकितेश्वरु विदू वचनं भणाति // 4 //

एकं विमोक्षमुख जानमि बुद्धपुत्र सर्वजिनान करुणाघनज्ञानगर्भम् / संभूत सर्वजगत्रायणसंग्रहाय सर्वत्र वर्तति ममाप्यथ आत्मप्रेम // 5 //

त्रायामि सर्वजनतां व्यसनैरनेकैः ये गाढबन्धनगतारिषु हस्तप्राप्ताः / गात्रेषु विद्ध तथ चारकसंनिरुद्धा मुच्यन्ति बन्धनगता मम नाम श्रुत्वा // 6 //

उत्सृष्टः वध्य नृपतीन कृतापराधाः क्षिप्ता इषु न च क्रमन्ति शरीरि तेषाम् / छिद्यन्ति शस्त्र परिवर्तति तीक्ष्ण धारा ये नामधेयु मम तत्र अनुस्मरन्ति // 7 //

राजान मध्यगत ये च विवादप्राप्ता विजिनन्ति सर्वरिपवो ऽथ शुभे लभन्ते / वर्धन्ति सर्व यश मित्रकुले धनानि भोन्ती अधर्षिय स्मरित्वन मह्य नाम // 8 //

चोरंभया अरिभया अटवीप्रवेशाः सिंहऋद्धद्वीपिचमरीमृगव्यालकीर्णाः / गच्छन्ति निर्भय जिनित्वन सर्वशत्रून् ये नामधेयु मम केचिदनुस्मरन्ति // 9 //

क्षिप्ता मनागिरितटीतु प्रदुष्टचित्तैरङ्गारकर्षु ज्वलिता अपि चो वधार्थम् / पद्माङ्कुरा जलनिधि ज्वलना भवन्ति ये नामधेयु मम केचिदनुस्मरन्ति // 10 //

प्रक्षिप्त सागरजले न मरेन्ति तत्र नद्यां न चोह्यति न दह्यति चाग्निमध्ये / सर्वे अनर्थ न भवन्त्यपि चार्थसिद्धिः नामं ममा अनुस्मरित्व मुहूर्तकं पि // 11 //

हडिदण्डबन्धनिगडाश्च तथा कुदण्डा अवमानना तथ विमानन ठम्भनाश्च / आक्रोशताडनविभर्त्सनतर्जनाश्च मम नामधेयु स्मरमाण लभन्ति मोक्षम् // 12 //

ये वैरिणो विवरछिद्रगवेषिणश्च नित्यप्रदुष्टमन ये च अवर्णवादी / सहदर्शनेन तद मैत्रमना भवन्ति भेष्यन्ति वर्णि श्रुत मह्य स्मरित्व नाम // 13 //

वेतालमन्त्रथ कखोर्द सदा प्रयुक्ता घातार्थ तेष रिपवः स्तिमिता भवन्ति / तेष शरीरि न क्रमन्ति विषा अशेषा ये नामधेषु मम केचिदनुस्मरन्ति // 14 //

नागेन्द्राराक्षसगणैर्गरुडैः पिशाचैः कुम्भाण्डपूतनविहेडकरौद्रचित्तैः / ओजोहरैर्भयकरैः सुपिनान्तरे ऽपि शाम्यन्ति सर्वि मम नाम अनुस्मरित्वा // 15 //

मातापितासुहृदज्ञातिकबान्धवेहि नाविप्रयोगु न पि चाप्रियसंप्रयोगः / न धनक्षयो नापि उपैति दरिद्रभावं नामं ममा अनुसरित्व मुहूर्तकं पि // 16 //

न च गच्छति च्युत इतो नरकं अवीचिं न तिरश्चयोनि न च प्रेत न चाक्षणानि / देवे मनुष्य उपपद्यति शुद्धसत्त्वो यो नामधेयु मम केचिदनुस्मरन्ति // 17 //

न च अन्धकाणबधिरा न पि चर्चिगात्रा न च रौद्र खञ्जा अथ चाटक प्रेक्षणीया / सर्वेन्द्रियैरविकला बहुकल्पकोट्यो भोन्ती नरा मम स्मरित्वन नामधेयम् // 18 //

अवलोकितेति मम ते सुगतिं वज्रन्ति यो पुष्पमुष्टि मम ओकिरते शरीरे / धूपांश्च धूपयति यश्च ददाति छत्रं विस्तारिकै पुज करोति प्रसन्नचित्तो मम बुद्धक्षेत्रि स च भेष्यति दक्षिणीयः // 19 //

उपपद्यते इतु च्यवित्वन शुद्धसत्त्वो बुद्धान संमुख दशद्दिशि लोकधातौ / बुद्धांश्च पश्यति शृणोति च तेष धर्मं ये नामधेयु मम केचिदनुस्मरन्ति // 20 //

एते तथान्य क्षयितुं निमितुं न शक्या यावच्चुपायि अहु सत्त्व विनेमि लोके / एको विमोक्ष मम भावितु बुद्धपुत्र नाहं गुणान् गुणधराण विजानि सर्वान् // 21 //

अष्टापदाकृतु दशद्दिशि लोकधातौ कल्याणमित्र समुपासित सूधनेन / न च तृप्तु धर्म श्रुणमाणु जिनौरसानां कस्मान्न प्रीति भवति श्रुणमान धर्मम् // 22 //

तेन खलु पुनः समयेन अनन्यगामी नाम बोधिसत्त्वः पूर्वस्यां दिशि गगनतलेनागत्य सहाया लोकधातोश्चक्रवालशिखरे प्रत्यष्ठात् / समन्तरप्रतिष्ठापितौ च अनन्यगामिना बोधिसत्त्वेन सहाया लोकधातोश्चक्रवालशिखरे पादौ, तत्क्षणादियं सहालोकधातुः षड्विकारं प्राकम्पत, अनेकरत्नमयी च संस्थिताभूत् / तथारूपा च अनन्यगामिना बोधिसत्त्वेन कायात् प्रभा प्रमुक्ता, यया प्रभया सर्वचन्द्रसूर्यप्रभा पर्यादत्ताः, सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालानामग्निमणिज्योतिषां च प्रभा जिह्मीकृताः, सर्वमहानरकाश्चावभासिताः, सर्वतिर्यग्योनियमलोकगतिगहनं चावभासितम्, सर्वापायदुःखानि च तदनन्तरं प्रशान्तानि / सर्वसत्त्वानां च क्लेशा न बाधन्ते / विविधशोकशल्यदुःखानि च प्रस्रब्धानि / सर्वं चेदं बुद्धक्षेत्रं सर्वरत्नमेघैरभिप्रवर्षन् सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाव्यूहसर्वपूजामेघैरभिप्रवर्षन् भगवन्तमुपसंक्रान्तः / स चास्याश्रयः सर्वसत्त्वभवनप्रतिभासप्राप्तो यथाशयसत्त्वसंतोषणाभिमुखः / तस्मिंश्च पोतलके पर्वते ऽवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकमुपसंक्रान्तः संदृश्यते स्म //

अथ खलु अवलोकितेश्वरो बोधिसत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत् - पश्यसि त्वं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमिह पर्षन्मण्डले संप्राप्तम्? आह - पश्यामि आर्य / आह - एतं कुलपुत्र अनन्यगामिनं बोधिसत्त्वमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको ऽवलोकितेश्वरस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अवलोकितेश्वरं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवलोकितेश्वरस्य बोधिसत्त्वस्यान्तिकात्प्रक्रान्तः // 28 // 31 अनन्यगामी /

अथ खलु सुधनः श्रेष्ठिदारको ऽवलोकितेश्वरस्य बोधिसत्त्वस्य ज्ञानगाथालब्धचित्तो ऽवलोकितेश्वरस्य बोधिसत्त्वस्यावितृप्तो दर्शनेन वाणीमप्रतिवहन् येन अनन्यगामी बोधिसत्त्वस्तेनोपसंक्रम्य अनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

सो ऽवोचत् - अहं कुलपुत्र समन्तमुखनिर्जवनस्य बोधिसत्त्वविमोक्षस्य लाभी / आह - कतमस्य त्वया आर्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः? कियद्दूरे वा स इतो लोकधातुः? कियच्चिरोच्चलितो वासि ततो लोकधातोः? आह - दुर्विज्ञेयमेतत्कुलपुत्र स्थानं सदेवमानुषासुरेण लोकेन सश्रमणब्राह्मणिकया प्रजया - यदुत बोधिसत्त्वपराक्रमी बोधिसत्त्ववीर्यानिवर्त्यता बोधिसत्त्ववीर्यसंहार्यता / नेदं कुलपुत्र शक्यं कल्याणमित्रापरिगृहीतैर्बुद्धासमन्वाहृतैरनुपचितकुशलमूलैरपरिशुद्धाशयैरप्रतिलब्धबोधिसत्त्वेन्द्रियैः प्रज्ञाचक्षुविरहितैः श्रोतुं वा संधारयितुं वा अधिमोक्तुं वा अवतरितुं वा / आह - वदतु मे आर्यः / अधिमोक्ष्यामि श्रद्धास्यामि बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च / सो ऽवोचत् - अहं कुलपुत्र पूर्वस्यां दिशि श्रीगर्भवत्या लोकधातोरागच्छामि समन्तश्रीसंभवस्य तथागतस्य बुद्धक्षेत्रात् / तस्य मे कुलपुत्र समन्तश्रीसंभवस्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः / ततश्च मे कुलपुत्र श्रीगर्भवत्या लोकधातोरुच्चलितस्य अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पाः क्षीणाः / एकैकेन च चित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् पदव्यवहारान् व्यतिक्रमामि / एकैकेन च पदव्यवहारेण अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमामि / सर्वाणि च तानि बुद्धक्षेत्राणि अविरहितानि तथागतैः / अवतरामि सर्वांश्च तान् बुद्धान् भगवतः /

अनुत्तरया मनोमय्या अनभिसंस्कारधर्मधातुमुद्रामुद्रितया तथागतानुज्ञातया सर्वबोधिसत्त्वप्रहर्षसंजनन्या तथागतं पूजयामि / यावतश्च तासु लोकधातुषु सत्त्वसमुद्रान् पश्यामि, सर्वेषां च तेषां चित्तसागरानवतरामि, सर्वेषां च तेषामिन्द्रियचक्रं परिज्ञाय यथाशयाधिमुक्तितो रूपकायं संदर्शयामि / धर्मघोषमुदीरयामि / प्रभामण्डलमुत्सृजामि / विविधोपकरणसंपदमुपसंहरामि / स्वकायं चैषामधितिष्ठामि, यदुत परिपाकविनयप्रयोगाप्रतिप्रस्रब्धये / यथा च पूर्वस्या दिशो निर्यामि, एवं दक्षिणायाः पश्चिमायाः उत्तराया उत्तरपूर्वायाः पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध (gv 166) ऊर्ध्वाया दिशो निर्यामि / एतमहं कुलपुत्र समन्तमुखनिर्जवनं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वत्रानुगतानां बोधिसत्त्वानां समतादिगभिमुखानामसंभिन्नज्ञानविषयाणां सर्वधर्मधातुसुविभक्तशरीराणां यथाशयाधिमुक्तसर्वसत्त्वानुविचारिणां सर्वक्षेत्रस्फरणकायानां सर्वधर्मयथानुगतानां त्र्यध्वपथसमतानुप्राप्तानां सर्वदिक्पथसमतानुसरणानां सर्वजगत्पथविरोचनानां तथागतपथाविकल्पानामसङ्गसर्वपथानुगतानामनालयपथप्रतिष्ठितानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इहैव दक्षिणापथे द्वारवती नाम नगरी / तत्र महादेवो देवः प्रतिवसति / तमुपसंक्रम्य परिपृच्छ कथं - बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको ऽनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अनन्यगामिनं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनन्यगामिनो बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः // 29 // 32 महादेवः /

अथ खलु सुधनः श्रेष्ठिदारको विपुलबोधिसत्त्वचर्यानुगतचित्तो ऽनन्यगामिनो बोधिसत्त्वस्य ज्ञानगोचरं स्पृहयमाणरूपो महाभिज्ञाभिनिर्हारविषयगुणविशेषदर्शी दृढवीर्यसंनाहप्रहर्षप्राप्तो ऽचिन्त्यविमोक्षविक्रीडितानुगताशयः बोधिसत्त्वगुणभूमौ प्रतिपद्यमानः समाधिभूमिं विचारयमाणो धारणीभूमौ प्रतिष्ठमानः प्रणिधानभूमिमवतरन् प्रतिसंविद्भूमावनुशिक्षमाणोबलभूमिं निष्पादयमानो ऽनुपूर्वेण येन द्वारवती नगरी तेनोपसंक्रम्य महादेवं पर्यपृच्छत् / तस्य महाजनकाय आरोचयामास - एष कुलपुत्र महादेवो नगरशृङ्गाटके देवागारे औदारिकेणात्मभावेन सत्त्वानां धर्मं देशयति / अथ खलु सुधनः श्रेष्ठिदारको येन महादेवस्तेनोपसंक्रम्य महादेवस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् / श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति / तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु महादेवो देवश्चतुर्दिशं चतुरः पाणीन् प्रसार्य चतुर्भ्यो महासमुद्रेभ्यः परमशीघ्रजवेन वार्यानीय स्वमुखं प्रक्षाल्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पैरभ्यवकीर्य एवमाह - सुदुर्लभदर्शना हि कुलपुत्र बोधिसत्त्वाः, परमदुर्लभश्रवणा आश्चर्यप्रादुर्भावा लोके ऽग्रत्वात् परमपुरुषपुण्डरीका जगत्र्त्रातारः, प्रतिशरणभूता लोकस्य, प्रतिष्ठानभूता जगतः, महावभासकराः सत्त्वानाम्, क्षेमपथदर्शकाः संमूढमार्गाणाम्, नायकभूता धर्मनयावतरणतायै, परिणायकभूताः सर्वज्ञतापुरोपनयनतायै / तस्य मम कुलपुत्र एवं भवति - दुर्दृष्टिघातनं नामधेयं बोधिसत्त्वानां येन निर्मलचित्तानां स्वकायप्रतिभासं दर्शयति / विशुद्धकायकर्मणामभिमुखा भवन्ति / वचनदोषविवर्जितानां सरस्वत्यालोकमवक्रामयन्ति / विशुद्धाशयानां सर्वकालमभिमुखास्तिष्ठन्ति / अहं कुलपुत्र मेघजालस्य बोधिसत्त्वविमोक्षस्य लाभी / आह - क एतस्य आर्य मेघजालस्य बोधिसत्त्वविमोक्षस्य विषयः?

अथ खलु महादेवोः देवः सुधनस्य श्रेष्ठिदारकस्य पुरतो महापर्वतमात्रं सुवर्णराशिमुपदर्श्य रूप्यराशिं वैडूर्यराशिं स्फटिकराशिं मुसारगल्वराशिं अश्मगर्भराशिं ज्योतिरसमणिरत्नराशिं विमलगर्भमणिरत्नराशिं वैरोचनमणिरत्नराशिं समन्तदिगभिमुखमणिरत्नराशिं चूडामणिरत्नमकुटराशिं विचित्रमणिरत्नराशिं केयूरराशिं कुण्डलविभूषणराशिं वलयराशिं मेखलराशिं नूपूरराशिं विविधमणिरत्नराशिं सर्वाङ्गप्रत्यङ्गविभूषणराशिं चिन्ताराजमणिरत्नराशिं सर्वपुष्पाणि सर्वगन्धान् सर्वधूपान् सर्वमाल्यानि सर्वविलेपनानि सर्वचूर्णानि सर्ववस्त्राणि सर्वच्छत्राणि सर्वध्वजान् सर्वपताकाः सर्वतूर्याणि सर्वतालावचरान् सर्वकामविषयान् / (gv 168) असंख्येयानि च कन्याकोटीशतसहस्राण्युपदर्श्य सुधनं श्रेष्ठिदारकमेतदवोचत् - इतं कुलपुत्र गृहीत्वा दानानि देहि, पुण्यानि कुरु, तथागतान् पूजय, सत्त्वान् दानेन संग्रहवस्तुना संगृह्य त्यागपारमितायां नियोजय, दानेन लोकं शिक्षय / दुष्करपरित्यागतां प्रदर्शय / यथैवाहं कुलपुत्र तवोपकरणविधिमुपसंहरामि, एवमपरिमाणानां सत्त्वानां दानचेतनानिरुद्धानां त्यागवासितां संततिं करोमि / बुद्धधर्मसंघेषु बोधिसत्त्वकल्याणमित्रेषु च कुशलमूलान्यवरोपयित्वा अनुत्तरायां सम्यक्संबोधौ समादापयामि / अपि तु खलु पुनरहं कुलपुत्र कामरतिप्रमत्तानां सत्त्वानां विषयपरिभोगपरिगृद्धानां तान् विषयानशुभानधितिष्ठामि /

क्रोधाविष्टानां मानमददर्पगर्वितानां विग्रहवैनयिकानां रौद्रराक्षसविकृतभयानन्तशरीरान् मांसरुधिरभक्षानात्मभावानुपदर्श्य तं सर्वं स्तम्भसंरम्भमुपदर्शयामि / कुसीदन्यस्तप्रयोगान् सत्त्वानग्न्युदकराजचौरोपसर्गभयसंदर्शनेनोद्वेज्य वीर्यारम्भे नियोजयामि / एवं तैस्तैरुपायैः सर्वाकुशलचर्याभ्यो विनिवर्त्य सर्वकुशलधर्मप्रतिपत्तौ संनियोजयामि / सर्वपारमिताविपक्षनिर्घाताय सर्वपारमितासंभारोपचयाय सर्वावरणपर्वतप्रपातपथसमतिक्रमणाय अनावरणधर्मावताराय च / एतमहं कुलपुत्र मेघजालं बोधिसत्त्वविमोक्षं प्रजानामि / किं मया शक्यमिन्द्रकल्पानां बोधिसत्त्वानां क्लेशासुरप्रमर्दकानां वारिकल्पानां सर्वजगद्दुःखाग्निस्कन्धनिर्वापयितॄणां तेजःस्कन्धकल्पानां सर्वजगत्तृष्णासलिलसंशोषणकराणां वायुकल्पानां सर्वग्राहाभिनिवेशपर्वतविकिरणानां वज्रकल्पानां दृढात्मसंज्ञाशैलनिर्दारणानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे मगधविषये बोधिमण्डे स्थावरा नाम पृथ्वीदेवता प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारको महादेवस्य पादौ शिरसाभिवन्द्य महादेवं देवमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महादेवस्य देवस्यान्तिकात्प्रक्रान्तः // 30 // 33 स्थावरा /

अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन मगधविषये बोधिमण्डे स्थावरा पृथ्वीदेवता तेनोपसंक्रान्तः / दशपृथिवीदेवताशतसहस्राणि अन्योन्यमेवं वाचमुदीरयामासुः - अयं स आगच्छति, यः सर्वसत्त्वानां प्रतिशरणभूतो भविष्यति / अयं स तथागतगर्भ आगच्छति, यः सर्वसत्त्वानामविद्याण्डकोशं निर्भेत्स्यति / अयं स धर्मराजकुलोदित आगच्छति, यो ऽसङ्गवरविमलधर्मराजपट्टमाबन्धिष्यति / अयं स ज्ञाननारायणवज्रप्रहरणशूर आगच्छति, यः सर्वपरप्रवादिचक्रं प्रमर्दिष्यति / अथ तानि स्थावराप्रमुखानि दशपृथिवीदेवताशतसहस्राणि महापृथिवीचालं कृत्वा गम्भीरजलधरनिर्नादं जनयित्वा सर्वं त्रिसाहस्रं लोकधातुमुदारेणावभासेनावभास्य सर्वरत्नाभरणालंकारप्रतिमण्डितशरीराणि विद्युल्लताकलापा इव गगनतले लम्बमानाः, प्ररोहद्भिः सर्ववृक्षाङ्कुरैः, प्रफुल्लद्भिः सर्वपुष्पवृक्षैः, प्रवर्षद्भिः सर्वनदीस्रोतोभिः, उन्नमद्भिः सर्वोत्ससरोह्रदतडागैः, प्रवर्षद्भिर्महागन्धोदकवर्षैः, प्रवायद्भिः कुसुमौघोत्करप्रवाहिभिर्महावातैः, प्रवादयद्भिः तूर्यकोटीनियुतशतसहस्रैः, प्रसरद्भिः दिव्यविमानाभरणमकुटैः, प्रणदद्भिः गोवृषगजव्याघ्रमृगेन्द्रैः, प्रगर्जद्भिः देवासुरोरगभूताधिपतिभिः, संघट्टमानैर्महाशैलेन्द्रैः उत्प्लवद्भिः, निधिचयकोटीशतसहस्रैः उन्नमद्भिः, धरणीतलादभ्युद्गतानि //

अथ स्थावरा पृथिवीदेवता सुधनं श्रेष्ठिदारकमेवमाह - स्वागतं ते कुलपुत्र / अयं स पृथिवीप्रदेशो यत्र ते स्थित्वा कुशलमूलान्यवरोपितानि यत्राहं प्रत्यक्षा / किमिच्छसि तद्विपाकफलैकदेशं द्रष्टुम्? अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य स्थावरायाः पृथिवीदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - इच्छाम्यार्ये //

अथ खलु स्थावरा पृथिवीदेवता पादतलाभ्यां महापृथिवीं पराहत्य असंख्येयमणिरत्ननिधानकोटीशतसहस्रप्रतिमण्डितामुपदर्श्य एवमाह - इमानि कुलपुत्र मणिरत्ननिधानकोटीनियुतशतसहस्राणि तवानुगामीनि, तव पुरोजवानि, तव यथेच्छोपभोग्यानि, तव पुण्यविपाकनिर्जातानि, तव पुण्यबलरक्षितानि / तेभ्यस्त्वं गृहीत्वा यत्कार्थं तत्कुरुष्व / अपि त्वहं कुलपुत्र ज्ञानदुर्योधनगर्भस्य बोधिसत्त्वविमोक्षस्य लाभिनी / सा अहमेतेन बोधिसत्त्वविमोक्षेण समन्वागता दीपंकरतथागतमुपादाय बोधिसत्त्वस्य नित्यानुबद्धा सततमारक्षाप्रतिपन्ना / ततः प्रभृति अहं कुलपुत्र बोधिसत्त्वस्य चित्तचरितं व्यवचारयामि, ज्ञानविषयमवगाहयामि, सर्वप्रणिधानमण्डलमवतरामि, बोधिसत्त्वचर्याविशुद्धिमनुगच्छामि, सर्वसमाधिनयमनुसरामि, सर्वबोधिसत्त्वाभिज्ञाचित्तविपुलतां स्फरामि / सर्वबोधिसत्त्वबलाधिपतेयतां सर्वबोधिसत्त्वासंहार्यतां सर्वक्षेत्रजालस्फरणतां सर्वतथागतव्याकरणसंप्रतीच्छनतां सर्वकालाभिसंबोधिसंदर्शनतां सर्वधर्मचक्रप्रवर्तननयं सर्वसूत्रान्तसंप्रभाषणधर्ममेघनयं महाधर्मावलोकावभासनयं (gv 170) सर्वसत्त्वपरिपाचनविनयज्ञाननयं सर्वबुद्धविकुर्वितसंदर्शननयं च अनुगच्छामि संधारयामि संप्रतीच्छामि //

एष च मे कुलपुत्र ज्ञानदुर्योधनगर्भो बोधिसत्त्वविमोक्षः सुमेरुपरमाणुरजःसमानां कल्पानां परेण परतरेण चन्द्रध्वजायां लोकधातौ सुनेत्रस्य तथागतस्यान्तिकात्प्रतिलब्धः अवभासव्यूहे कल्पे / सा अहं कुलपुत्र इमं ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षमायूहन्ती निर्यूहन्ती संवर्धयन्ती विपुलीकुर्वाणा अविरहिताभूवं तथागतदर्शनेन यावद् भद्रकल्पात् / अत्र च मया अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिताः / सर्वेषा च मे तेषां तथागतानां बोधिमण्डोपसंक्रमणविकुर्वितं दृष्टम् / सर्वेषां च अहं तेषां तथागतानां कुशलमूलेषु साक्षीभूता / एतमहं कुलपुत्र ज्ञानदुर्योधनगर्भं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वतथागतानुबद्धानां बोधिसत्त्वानां सर्वबुद्धकथानुधारिणां सर्वतथागतज्ञानगहनप्रविष्टानां चित्तक्षणधर्मधातुस्फरणानुजवानां तथागतसमताशरीराणां सर्वबुद्धाशयविमलगर्भाणां सदाभिनिर्हृतसर्वबुद्धोत्पादानामसंभिन्नसर्वबुद्धकायदूतानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इदमिहैव जम्बुद्वीपे मगधविषये कपिलवस्तु नाम नगरम् / तत्र वासन्ती नाम रात्रिदेवता प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारकः स्थावरायाः पृथिवीदेवतायाः पादौ शिरसाभिवन्द्य स्थावरां पृथिवीदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य स्थावरायाः पृथिवीदेवताया अन्तिकात्प्रक्रान्तः // 31 // 34 वासन्ती /

अथ खलु सुधनः श्रेष्ठिदारको येन कपिलवस्तु महानगरं तेनोपसंक्रान्तः तां स्थावरायाः पृथिवीदेवताया अनुशासनीमनुस्मरन्, तं दुर्योधनगर्भं बोधिसत्त्वविमोक्षमनुस्मरन्, तां बोधिसत्त्वसमाधिभावनां विपुलीकुर्वन्, तं बोधिसत्त्वधर्मनयमनुविचिन्तयन्, तं बोधिसत्त्वविमोक्षविक्रीडितं विचारयन्, तां बोधिसत्त्वविमोक्षज्ञानसूक्ष्मादिं संव्यवलोकयन्, तं बोधिसत्त्वविमोक्षज्ञानसागरमवतरन्, तं बोधिसत्त्वविमोक्षज्ञानसंभेदमधिमुच्यमानः, तं बोधिसत्त्वविमोक्षानन्तज्ञानाभिसंस्कारमनुगच्छन्, तं बोधिसत्त्वविमोक्षज्ञानसमुद्रमवगाहमानः / स कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य पूर्वेण नगरद्वारेण प्रविश्य मध्ये नगरशृङ्गाटकस्य अस्थात् /

अचिरास्तमिते सूर्ये सर्वबोधिसत्त्वानुशासनीषु प्रदक्षिणग्राही वासन्त्या रात्रिदेवताया दर्शनपरितृषितः कल्याणमित्रेषु बुद्धज्ञानप्रतिलम्भनिश्चितबुद्धिः समन्तज्ञानचक्षुर्विषयशरीराधिष्ठानः सर्वदिगभिमुखेन कल्याणमित्रदर्शनचित्तेन उदाराधिमुक्तिज्ञानगर्भसंज्ञागतचेताः सर्वारम्बणप्रसृतज्ञानचक्षुः सर्वधर्मधातुनयज्ञानसागरप्रसरस्फरणानुगतेन समांधिचक्षुषा सर्वदिग्ज्ञेयसागरं व्यवलोकयन्, महाज्ञानचक्षुःप्रसृतावहिताशयो ऽद्राक्षीद्वासन्तीं रात्रिदेवतां कपिलवस्तुनो महानगरस्योर्ध्वं गगनतले विचित्रानुपममणिकूटागारे सर्ववरगन्धपद्मगर्भमहारत्नसिंहासने निषण्णाम्, सुवर्णवर्णेन कायेनाभिनीलमृदुबहुकेशीमभिनीलनेत्रामभिरूपां प्रासादिकां दर्शनीयां सर्वाभरणालंकारविभूषितशरीरां रक्तवराम्बरनिवसनां चन्द्रमण्डलालंकृतब्रह्मजटामकुटधारिणीं सर्वताराग्रहनक्षत्रज्योतिर्गणप्रतिभाससंदर्शनशरीराम् / यावन्तश्च तया विपुले सत्त्वधातौ अक्षणापायदुर्गतिविनिपातेभ्यः सत्त्वाः परिमोचिताः, तानपि तस्या रोमविवरगतानद्राक्षीत् / यावन्तः स्वर्गलोके प्रतिष्ठापिताः, यावन्तः श्रावकप्रत्येकबोधौ सर्वज्ञतायां च परिपाचिताः, तानपि तस्याः सर्वरोमविवरगतानपश्यत् / यैर्नानोपायैः परिपाचिताः कायाभिनिर्हारै रूपाभिनिर्हारैर्वर्णाभिनिर्हारैः, तानपि तस्या रोमविवरगतानद्राक्षीत् / यैर्घोषाभिनिर्हारैः स्वराङ्गाभिनिर्हारैर्विविधमन्त्रधर्मनयसप्रयोगैः परिपाचिताः, तानपि तस्या रोममुखेभ्यो ऽनुरवमाणानश्रौषीत् /

यैः कालाभिनिर्हारैः, यैर्यथाशयाधिमुक्तसत्त्वानुवर्तनैः, याभिर्बोधिसत्त्वचर्याभिर्बोधिसत्त्वविक्रमैर्बोधिसत्त्वसमाधिविकुर्वितमुखैर्बोधिसत्त्ववृषभिताभिर्बोधिसत्त्वविहारैर्बोधिसत्त्वावलोकितैर्बोधिसत्त्वविलोकितैर्बोधिसत्त्वविकुर्वाभिर्बोधिसत्त्वमहापुरुषसिंहविजृम्भितैः, यैर्बोधिसत्त्वविमोक्षविक्रीडितैस्तया सत्त्वाः परिपाचिताः, तान्यपि तस्या रोमविवरगतानि प्रजानीते स्म //

स तान् नानोपायसंप्रयुक्तान् धर्मनयसागरान् दृष्ट्वा श्रुत्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो वासन्त्या रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य उत्थाय वासन्तीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वासन्त्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया खलु देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / (gv 172) सो ऽहं कल्याणमित्राधिष्ठानान् सर्वबुद्धगुणान् संपश्यन् कल्याणमित्राश्रितमात्मानं करोमि / दर्शय मे देवते सर्वज्ञतामार्गं यत्र प्रतिष्ठितो बोधिसत्त्वो निर्याति दशबलभूमौ //

एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह - साधु साधु कुलपुत्र, यस्त्वमेवं कल्याणमित्रावेशाविष्टः कल्याणमित्रवचनानि शुश्रूषुः कल्याणमित्रानुशासन्यां प्रतिपद्यसे / नियमेन त्वं कल्याणमित्रानुशासनीं प्रतिपद्यमानः आसन्नीभविष्यस्यनुत्तरायां सम्यक्संबोधौ / अहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखस्य बोधिसत्त्वविमोक्षस्य लाभिनी / विषममतिषु सत्त्वेषु मैत्रचित्ता, अकुशलकर्मपथप्रतिपन्नेषु करुणचित्ता, कुशलकर्मपथप्रतिपन्नेषु मुदितचित्ता / समविषममतिषु सत्त्वेषूपेक्षाचित्ता, संक्लिष्टेषु विशोधनचित्ता, विषमगतेषु सम्यक्प्रतिपन्नचित्ता, हीनाधिमुक्तिकेषु उदाराधिमुक्तिसंजननचित्ता, हीनेन्द्रियेषु महावीर्यवेगविवर्धनचित्ता, संसाराभिरतेषु संसारगतिचक्रविनिवर्तनचित्ता, श्रावकप्रत्येकबुद्धयानाभिमुखेषु सत्त्वेषु सर्वज्ञतामार्गप्रतिष्ठापनचित्ता / एवं चित्तमनसिकारप्रयुक्ता खलु पुनरहं कुलपुत्र अनेन सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखेन बोधिसत्त्वविमोक्षेण समन्वागता //

ये सत्त्वा अन्धकारतमिस्रायां रात्रौ परिक्रान्तेषु मनुष्येषु भूतसंघानुचरितायां तस्करगणसंकीर्णायां विषमचारित्रसत्त्वदिक्चरितायां कालाभ्रमेघजालसंछन्नायां धूमरजोमलसमाकुलायां विषमवातवृष्टिसंक्षोभितायां चन्द्रादित्यज्योतिर्गणरहितायां चक्षुष्कार्यापराक्रमायां रात्रौ सागरगता भवन्ति, स्थलगता वा पर्वतगता वा अटवीकान्तारगता वा वनान्तरगता वा देशान्तरगता वा ग्रामान्तरगता वा दिगन्तरगता वा विदिगन्तरगता वा मार्गान्तरगता वा महासागरगता वा विपन्नयानपात्रा भवन्ति, स्थलगता वा विहन्यन्ते, पर्वतगता वा महाप्रपातेषु प्रपतन्ति, महाटवीकान्तारगता वा अन्नपानविरहिता भवन्ति, वनगहनवेत्रजालैरवसक्ता वा अनयव्यसनमापद्यन्ते, देशान्तरगता वा तस्करैर्हन्यन्ते, ग्रामान्तरगता वा विषमचारित्रा विनश्यन्ति, दिगन्तरगता वा संमुह्यन्ति, विदिगन्तरगता वा विमुह्यन्ति, मार्गान्तरगता वा विलयमापद्यन्ते, तेषामहं कुलपुत्र सत्त्वानां नानोपायमुखैर्लयनभूता भवामि - यदुत सागरगतानां कालिकावातमेघविकिरणतायै कलुषोदकातिक्रमणतायै विषमवातमण्डलीविकिरणतायै महोर्मिवेगव्युपशमनतायै आवर्तभयविमोचनतायै दिगुद्योतनतायै सम्यगुदकपथप्रतिपादनतायै तीरदर्शनतायै / रत्नद्वीपोपनयनाय मार्गं संदर्शयामि संग्राहकरूपेण सार्थवाहकरूपेण / कस्यचिद्राजरूपेण जगराजरूपेण कूर्मराजरूपेण असुरराजरूपेण गरुडराजरूपेण किन्नरराजरूपेण महोरगरागराजरूपेण सागरदेवतारूपेण कैवर्तरूपेण प्रतिशरणभूता भवामि /

तच्च कुशलमूलमेवं परिणामयामि - सर्वसत्त्वानां प्रतिशरणभूता भवेयं सर्वदुःखस्कन्धविनिवर्तनतायै / स्थलगतानां सत्त्वानां मोहान्धकारतमिस्रायां रात्रौ वेणुकण्टकशर्करकठल्लाकीर्णायां घोरविषोरगसंकीर्णायां निम्नोन्नतविषमप्रचारायां रजोरेणुसमुद्धतायां विषमवातवृष्टिसंक्षोभितायां (gv 173) शीतोष्णदुःखसंस्पर्शायां व्यालमृगेन्द्रसाभिशङ्कायां वधकतस्करगणानुविचरितायां धरण्यां दिक्संमूढानां सत्त्वानामादित्यरूपेण उद्गतचन्द्ररूपेण महोल्कापातरूपेण विद्युन्मालानिश्चारणरूपेण रत्नाभारूपेण ग्रहमण्डलरूपेण नक्षत्रज्योतिर्गणविमानप्रभारूपेण देवरूपेण बोधिसत्त्वरूपेण सत्त्वानां त्राणभूता भवामि / एवं च चित्तमुत्पादयामि - अनेन कुशलमूलेन सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशान्धकारविधमनतायै / पर्वतप्रपातगतानां सत्त्वानां मरणभयभीतानां जीवितप्रतिलम्भाय यशस्कामतावशगतानां कीर्तिशब्दध्वजकामानां भोगार्थिकानां लोभाविष्टानामुपकरणपर्येष्ट्यभियुक्तानां लोकसंपत्त्यभिलाषपरमाणां पुत्रभार्यास्नेहविनिबद्धानां दृष्टिगतगहनप्रनष्टानां विविधदुःखभयोपद्रुतानां नानोपायमुखैः शरणभूता भवामि - यदुत गिरिगुहासंस्थानाभिनिर्हारेण फलमूलभोजनाभिनिर्हारेण जलपथोदपानाभिनिर्हारेण शीतोष्णप्रतिपक्षाभिनिर्हारेण सम्यक्पथनिदर्शनेन कलविङ्करूतनिर्घोषेण मयूरराजनिकूजघोषेण औषधिज्वलनावभासरूपेण पर्वतदेवताप्रभारूपेण / गिरिगुहादरिविवरगतानां विविधदुःखोपद्रुतानां तिमिरान्धकारविनिवर्तनतायै समपृथिवीतलाभिनिर्हारेण शरणभूता भवामि /

एवं च चित्तमुत्पादयामि - यथा अहमेषां पर्वतगतानां सत्त्वानामारक्षां करोमि, एवमहमेषां संसारपर्वतगिरिप्रपातपतितानां जरामरणग्रहाभिनिविष्टानां शरणभूता भवेयम् / वनगहनजालसंसक्तकानामप्यहं सत्त्वानां तमोन्धकारायां रात्रौ विपुलविषयवृक्षविविधोपस्थानां विविधतृणोदककण्टकद्रुमलतोपरुद्धमार्गाणां नानाद्रुमलतावनगहनप्राप्तानां शार्दूलनदितनिर्घोषसंत्रस्तहृदयानां कार्यापरिपूरिसमाकुलचित्तानां विविधभयोपद्रवोपसृष्टानां वनगहननिःसरणदिशमप्रजानतां सम्यग्गमनपथसंदर्शयित्री भवामि / एवं च चित्तमुत्पादयामि - अनेन कुशलमूलेन विविधदृष्टिगहनगतान् सत्त्वांस्तृष्णाजालसंसक्तान् विचित्रसंसारदुःखभयोपद्रुतान् सर्वदुःखेभ्यः परिमोचयेयम् / अटवीकान्तारगतानामप्यहं सत्त्वानामन्धकारप्राप्तानां नानोपायमुखैः सुखं संजनय्य मार्गं संदर्श्य एतानभयक्षेमे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि - अनेन कुशलमूलेन संसारटवीकान्तारप्राप्तान् सत्त्वान् दुर्गतिपथप्रतिपन्नान् सर्वदुःखेभ्यः परिमोच्य अत्यन्तयोगक्षेमे सर्वज्ञतामार्गे प्रतिष्ठापयेयम् / देशजनपदाविष्टानप्यहं कुलपुत्र सत्त्वानभिनिवेशाधिकारिकं दुःखं प्रत्यनुभवमानान् विविधैरुद्बध्यमानोपायैस्ततो जनपदाभिनिवेशादुच्चाल्य एवं चित्तमुत्पादयामि - अनेन कुशलमूलेन सर्वसत्त्वान् स्कन्धालयाभिनिवेशादुच्चाल्य अनालयसर्वज्ञज्ञाने प्रतिष्ठापयेयम् /

ग्रामगतानप्यहं कुलपुत्र सत्त्वान् गृहनिकेतबन्धनबद्धानन्धकारतमिस्रायां रात्रौ विविधगृहापद्दुःखितान् नानोद्वेगमुखैरुद्बध्य संजनितसंवेगचित्तान् धनदानेन संगृह्य सम्यक् प्रीणयित्वा अनिकेते धर्मे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि - अनेन कुशलमूलेन सर्वसत्त्वान् स्वायतनग्रामसंनिश्रितान् संसारगतिविषयगोचरादुच्चाल्य सर्वज्ञतागोचरे प्रतिष्ठापयेयम् //

ये च कुलपुत्र अन्धकारतमिस्रायां रात्रावेकैकशः पूर्वादिदिग्विदिक्षु सर्वदिक्संमूढा भवन्ति, समेषु पृथिवीप्रदेशेषु विषमप्रपातसंज्ञिनः, उन्नतेष्ववनतसंज्ञिनः, अवनतेषून्नतसंज्ञिनः, तेषामहं दिग्मार्गदेशसंमूढानां नानाविधैरुपायैरवभासं कृत्वा निष्क्रमितुकामानां द्वारं संदर्शयामि / गन्तुकामानां मार्गं संदर्शयामि / तरितुकामानां तीर्थं संदर्शयामि / प्रवेष्टुकामानां भवनं संदर्शयामि / विलोकयितुकामानां दिशः संदर्शयामि / निम्नोन्नते पृथिवीतलं संदर्शयामि / समविषमान् पृथिवीप्रदेशान् विविधानि च रूपगतानि संदर्शयामि / मार्गाक्रान्तानां ग्रामनगरनिगमराष्ट्रराजधानीं संदर्शयामि / घर्मतृषार्तानामुत्ससरोह्रदतडागपुष्करिणीनदीवनोद्यानारामरमणीयानि संदर्शयामि / प्रियविप्रयोगोत्कण्ठितानां मातापितृपुत्रदारमित्रामात्यज्ञातिसालोहितान् विविधानि च मनापानि रूपगतानि संदर्शयामि /

एवं च चित्तमुत्पादयामि - यथाहमेषां सत्त्वानामन्धकारतमिस्रायां रात्रौ तिमिरोपहतनेत्राणां दिक्संमूढानामालोकं करोमि, अवभासं जनयामि विविधरूपगतविज्ञप्तये, एवमेवाहं दीर्घसंसाररात्रावुपपन्नानां सर्वदिक्संमूढानामविद्यान्धकारप्राप्तानामज्ञानपटलावनद्धज्ञानचक्षुषां संज्ञाचित्तदृष्टिविपर्यस्तानाम् अनित्ये नित्यसंज्ञिनां दुःखेदुःखसंज्ञिनां अनात्मनि आत्मसंज्ञिनाम् अशुभे शुभसंज्ञिनां दृढात्मसत्त्वजीवपोषपुद्गलग्रहसंनिश्रितानां स्कन्धधात्वायतनसंनिश्रितानां हेतुफलसंमूढानामकुशलकर्मपथदिक्प्रतिपन्नानां प्राणातिपातिनामदत्तादायिनां काममिथ्याचारिणां मृषावादिनां पैशुन्यानां पारुषिकाणामसंभिन्नप्रलापिनामभिध्यालूनां व्यापन्नचित्तानां मिथ्यादृष्टिगतानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानामनिन्द्यज्ञानामपुरुषज्ञानानामधर्मरागरक्तानां विषमलाभाभिभूतानां मिथ्यादृष्टिधर्मपरीतानां तथागतानभ्याख्यायिकानां धर्मचक्रान्तवादप्रतिपन्नानां मारध्वजधराणां बोधिसत्त्वघातिनां महायानविद्वेषिकाणां बोधिचित्तविच्छिन्दिकानां बोधिसत्त्वविवर्णकानां मातृघातद्रोहिणामनपकारवैरिणामार्यापवादकानामसत्पुरुषाधर्मसमाचारगोचराणां स्तौपिकसांघिकवस्तुद्रोहिणां मातापितृविप्रतिपन्नानामानन्तर्यकर्मकारिणां महाप्रपाताभिमुखानां सत्त्वानां महाप्रज्ञालोकेन अविद्यान्धकारं विधूय अनुत्तरायां सम्यक्संबोधौ समादाप्य समन्तभद्रेण महायानेन दशबलज्ञानभूमिमार्गं संदर्शयेयम् /

तथागतभूमिमपि तथागतविषयमपि सर्वज्ञज्ञाननयसागरमपि बुद्धज्ञानगोचरमपि बुद्धविषयमपि दशबलपरिनिष्पत्तिमपि बुद्धधारणीबलमपि सर्वबुद्धैकशरीरतामपि संदर्शयेयम् / संदर्श्य चैनान् सर्वबुद्धसमताज्ञाने प्रतिष्ठापयेयम् //

ग्लानानामप्यहं कुलपुत्र सत्त्वानां दीर्घव्याधिपरिखिन्नानां दुर्बलशरीराणां जीर्णानां वृद्धानां जराभिभूतानामनाथानां कृपणानां च दरिद्राणां विलयगतानां विदेशप्राप्तानां विदिक्प्रतिपन्नानां बन्धनगतानां कारणाप्राप्तानाम् अपराधिनां राजबन्धोत्सृष्टानां जीवितोपरोधभयपरित्राणाय अवतिष्ठामि / साहं कुलपुत्र ग्लानानां सत्त्वानां सर्वोपायैर्व्याध्यपनयनाय प्रतिपद्यामि / जीर्णानां जराभिभूतानामुपस्थानपरिचर्योपकरणाविघातैः संग्रहं करोमि / अनाथानां सत्त्वानां सानाथ्यं करोमि / कृपणदरिद्राणां धनकनकस्कन्धेन संग्रहं करोमि (gv 175) विनिपातगतानां समानार्थतया संग्रहं करोमि / विदेशप्राप्तानां स्वदेशमुपनयामि / विदिक्प्रतिपन्नानां सम्यग्दिशमुपनयामि / बन्धनगतान् बन्धनेभ्यो विप्रमोक्षयामि / कारणाप्राप्तानां कारणादुःखेभ्यो विप्रमोक्षयामि / अपराधिनो राजवध्योत्सृष्टान् जीविताश्वासप्राप्तान् करोमि / एवं च चित्तमुत्पादयामि - यथाहमेषां सत्त्वानां विविधभयोपद्रवपरित्राणे प्रतिशरणं भवामि, एवमहमेताननुत्तरेण धर्मसंग्रहेण संगृह्य सर्वक्लेशेभ्यः परिमोचयेयम् / जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः समतिक्रामयेयम् / सर्वदुर्गतिविनिपातभयेभ्यः परिमोचयेयम् / कल्याणमित्रपरिग्रहे प्रतिष्ठापयेयम् / धर्मरत्नदानसंग्रहेण संगृह्णीयाम् / अनवद्ये कर्मणि नियोजयेयम् / तथागतशरीरविशुद्धये समादापयेयम् / अत्यन्ताजरामरणधातुप्रतिवेधे प्रतिष्ठापयेयम् //

मिथ्यामागार्गतिपन्नानामप्यहं कुलपुत्र सत्त्वानां विविधदृष्टिगतगहनाभिनिविष्टानां मिथ्यासंकल्पगोचराणां विषमकायवाङ्भनस्कर्मसमुदाचारिणामसंवृतचारिणां नानाव्रततपःसंनिश्रितानामसम्यक्संबुद्धे सम्यक्संबुद्धसंज्ञिनां सम्यक्संबुद्धे च असम्यक्संबुद्धसंज्ञिनां शरीरातापनपरितापनप्रयुक्तानाम् उत्ससरोह्रदतडागनदीपर्वतप्रस्रवणदिग्विदिक्प्रणामपरायणानां पापमित्रवशगतानां नानोपायमुखैः प्रतिशरणभूता भवामि / तत एतान् पापकाद् दृष्टिगतात् सर्वदुर्गतिप्रपातपथाद्विनिवर्तयामि / लौकिकायां च सम्यग्दृष्टौ प्रतिष्ठाप्य दिव्यमानुषिकायां संपत्तौ संनियोजयामि / एवं च चित्तमुत्पादयामि - यथाहमेतान् सत्त्वानेवंरूपाद्विषमप्रतिपत्तिदुःखात्परिमोचयामि, एवमहं सर्वसत्त्वानार्ये लोकोत्तरे पारमितामार्गे प्रतिष्ठाप्य सर्वज्ञतायामवैवर्त्यान् कृत्वा समन्तभद्रेण महाप्रणिधानेन सर्वज्ञतायामुपनयेयम् / न च बोधिसत्त्वभूमेरुच्चलेयमविनिवर्त्य सर्वसत्त्वधातुम् //

अथ खलु वासन्ती रात्रिदेवता तस्यां वेलायामेतमेव सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखं बोधिसत्त्वविमोक्षदिशं भूयस्या मात्रया संदर्शयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

मोहअविद्यतमोविगमार्थं धर्मप्रभावितसंजनयाय / कालमवेक्ष्य जगत्सुखनेता एष विमोक्षनयो मम शान्तः // 1 //

मैत्रि ममा विपुला सुविशुद्धा कल्प अनन्त सुभावित पूर्वे / अपाय फरित्व प्रभासमि लोकं एत नयोत्तर सुधन सुधीरा // 2 //

करुणसमुद्र ममामित लोके संभवु यत्र त्रियध्वजिनानाम् / येन जगस्य दुखं प्रशमेमी एत नयोत्तर सुधन सुधीरा // 3 //

लोकसुखान्यभिनिर्हरमाणा संस्कृत आर्य सुखानि च यानि / प्रीति उदग्र प्रमोदमि तेन ओतर एत नयं जिनपुत्र // 4 //

संस्कृतदोषपराङ्भुख नित्यं श्रावकज्ञानविमुक्तिफले च / बुद्धबलं परिशोधयमाना ओतर एत नयं जिनपुत्र // 5 //

चक्षु ममा विपुलं परिशुद्धं येन दशद्दिशि पश्यमि क्षेत्रा / तेषु च क्षेत्रतलेषु स्वयंभून् पश्यमि बोधिद्रुमेन्द्रनिषण्णान् // 6 //

लक्षणमण्डित बुद्धशरीरान् नानविचित्रप्रभोत्सृजमानान् / रश्मिसमुद्रप्रमुञ्चनरोमान् पश्यमि बुद्धसहस्र पर्षाभिः // 7 //

तेषु च क्षेत्रपथेषु य सत्त्वाः सर्वच्युतीउपपत्तिमुखेषु / पश्यमि ते गतिसागरि बालाः संसरमाण स्वकर्मनुभोन्ति // 8 //

स्रोतसमुद्र ममातिविशुद्धो यत्र समोसरि शब्द अशेषाः / सर्वजगस्य य मन्त्रसमुद्रा सर्व श्रुणित्व धरेमि स्मृतीये // 9 //

सर्वस्वराङ्गनिरुक्तिरुतेभिर्घोष अलंकृतु अप्रतिमानाम् / यो हि प्रवर्तति चक्रु जिनानां तं च श्रुणित्व धरेमि स्मृतीये // 10 //

घ्राणबलं विपुलं सुविशुद्धं धर्मसमुद्रनयेषु असङ्गम् / सर्वविमोक्षविहारप्रवेशं ओतर एत नयं जिनपुत्र // 11 //

जिह्व ममा विपुल सुप्रभूता ताम्रतनू रतनाभ विशुद्धा / याय ज्ञपेमि यथाशय सत्त्वान् ओतर एत नयं जिनपुत्र // 12 //

धर्मशरीरु ममातिविशुद्धं सर्वत्रियध्वसमन्तस्थितानाम् / रूपशरीरु यथाशय सत्त्वाः पश्यिषु तेष्वधिमुक्तिबलेन // 13 //

चित्तमसङ्गमनास्रव मह्यं घोषरूतं यथ मेघनिनादः / तत्र समोसरि सर्वनरेन्द्रान् नो च विकल्पन विद्यति मह्यम् // 14 //

क्षेत्रतलेषु अचिन्तिय सत्त्वाः तेष प्रजानमि चित्तसमुद्रान् / इन्द्रियआशय जानमि तेषां नो च विकल्पन विद्यति मह्यम् // 15 //

ऋद्धि ममो विपुला सुसमाप्ता कम्पयि क्षेत्र अचिन्तियाय / कायप्रभाय प्रभावतु येनो सर्व सुदुर्दम सत्त्व दमेमि // 16 //

पुण्य ममो विपुलं परिशुद्धं अक्षयकोष समन्तवियूहम् / येन प्रवर्तयि पूज जिनानां भोति च सर्वजगत्युपजीव्यम् // 17 //

प्रज्ञ ममो विपुला सुविशुद्धा याय प्रजानमि धर्मसमुद्रान् / संशय छिन्दमि सर्वजनानां ओतर एत नयं जिनपुत्र // 18 //

बुद्धसमुद्र अहं अवतीर्णा सर्वि त्रियध्वि नयोत्तरमाना / तेषु च ओतरमी प्रणिधानं एष नयो अतुलः सुसमाप्तः // 19 //

सर्वरजे अहु क्षेत्रसमुद्रान् पश्यमि चैव त्रियध्वप्रवेशान् / तत्र च पश्यमि बुद्धसमुद्रा तेष समन्ततलं नयभूमिम् // 20 //

पश्य विरोचन बोधिविबुद्धं सर्वदिशासु स्फरित्वन क्षेत्रा / सर्वरजःपथि बोधिद्रुमेन्द्रे सान्तिम धर्म निसर्जयमानम् // 21 //

अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामेतदवोचत् - कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियच्चिरं प्रतिलब्धश्च ते ऽयं विमोक्षः, यस्य प्रतिलम्भात्त्वमेवंरूपया सत्त्वार्थक्रियया प्रत्युपस्थिता? एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह - भूतपूर्वं जिनपुत्र अतीते ऽध्वनि सुमेरुपरमाणुरजःसमानां कल्पानां परेण प्रशान्तप्रभो नाम कल्पो ऽभूत्पञ्चबुद्धकोटीशतप्रभवः / तत्र रत्नश्रीसंभवा नाम लोकधातुरभूत् / तस्यां खलु पुनर्लोकधातौ रत्नचन्द्रप्रदीपप्रभा नाम मध्यमा चातुर्द्वीपिका / तस्यां पद्मप्रभा नाम राजधानी / तत्र राजधान्यां सुधर्मतीर्थो नाम राजाभूत् धार्मिको धर्मराजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्तरत्नसमन्वागतः / स तामकण्टकां महापृथिवीं ससागरगिरिपर्यन्तां धर्मेणाभिनिर्जित्य अध्यावसति स्म //

तस्य सुधर्मतीर्थस्य राज्ञो धर्ममतिचन्द्रा नाम भार्याभूत् / सा रात्र्याः पूर्वे यामे मदनमत्ता रतिक्रीडापरिश्रान्ता मध्यमे यामे ऽन्तःपुरमध्यगता प्रसुप्ता / अथ तस्याः पद्मप्रभाया राजधान्याः पूर्वेण शमथश्रीसंभवे महावनषण्डे सर्वधर्मनिगर्जितराजो नाम तथागतः सर्वव्यूहप्रभामणिराजशरीरे सर्वबुद्धविकुर्वितप्रभवे महाबोधिवृक्षे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / तेनासौ सर्वो रत्नश्रीसंभवो लोकधातुरनेकवर्णया उदारया प्रभया स्फुटावभासितो ऽभूत् / तस्यां च पद्मप्रभयां राजधान्यां सुविशुद्धचन्द्राभा नाम रात्रिदेवता अभूत् / सा तां धर्ममतिचन्द्रां राजभार्यामुपसंक्रम्य आभरणसंघट्टनशब्देन प्रबोध्य एवमाह - यत्खलु राजपत्नि जानीयाः - शमथश्रीसंभवे महावनषण्डे सर्वधर्मनिगर्जितराजो नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / सा तस्या राजभार्यायाः पुरतो विस्तरेण बुद्धगुणवर्णं बुद्धविकुर्वितं समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं च संप्रकाशयामास / (gv 179) सा खलु पुनः कुलपुत्र राजभार्या तथागतप्रभावभासिताध्याशयेनानुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता / तस्य तथागतस्य सबोधिसत्त्वश्रावकसंघस्य महान्तं पूजासत्कारमकार्षीत् / तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन धर्ममतिचन्द्रा नाम राजभार्या अभूत्? न खल्वेवं द्रष्टव्यम् / अहं सा तेन कालेन तेन समयेन धर्ममतिचन्द्रा नाम राजभार्या अभूवम् //

सा अहं कुलपुत्र तेनाभिलाषिकेण चित्तोत्पादेन तेन च तथागतावरोपितेन कुशलमूलेन सुमेरुपरमाणुरजःसमैः कल्पैर्न जातु दुर्गतिषूपपन्ना / न नरके, न तिर्यग्योनौ प्रेतेषु वा, न जातु हीनकुलेषूपपन्ना / न जात्विन्द्रियविकलाभूवम् / न जातु दुःखिताभूवन् / सदा अहं देवेषु देवमाहात्म्यं प्रतिलभ्य मनुष्येषु च मनुष्यमाहात्म्यं न जातु कल्याणमित्रविरहिता अभूवं यदुत बुद्धबोधिसत्त्वैः / न जातु विषमेषु कालेषूपपन्ना / सा खल्वहं कुलपुत्र बुद्धानुबुद्धेषु कुशलमूलान्यवरोपयमाणा सुमेरुपरमाणुरजःसमान् कल्पान् सुखेन शमेन क्षेमेण मार्गेण आगता / न च तावन्मे बोधिसत्त्वेन्द्रियाणि परिनिष्पन्नानि //

तेषां सुमेरुपरमाणुरजःसमानां कल्पानामतिक्रान्तानामितो भद्रकल्पात्पूर्वं दशानां कल्पसहस्राणां प्रथमस्तेन कालेन अशोकविरजो नाम कल्पो ऽभूत् रजोविमलतेजःश्रीनाम्नि लोकधातौ / स खलु पुनः कुलपुत्र रजोविमलतेजःश्रीर्लोकधातुः क्लिष्टविशुद्धो ऽभूत् पञ्चबुद्धोत्पादशतप्रभवः / तेषां खलु पुनः पञ्चानां बुद्धशतानां प्रथमः सुमेरुध्वजायतनशान्तनेत्रश्रीर्नाम तथागतो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान् / अहं च प्रज्ञावभासश्रीर्नाम श्रेष्ठिदारिका अभूवं विघुष्टकीर्तेः श्रेष्ठिनो दुहिता अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता / सा च सुविशुद्धचन्द्राभा रात्रिदेवता प्रणिधानवशेन विरजोवत्यां चातुर्द्वीपिकायां लोकधातौ विचित्रध्वजायां राजधान्यां विशुद्धनेत्राभा नाम रात्रिदेवता अभूत् / तया मे रात्र्यां प्रशान्तायां शयितयोर्मातापित्रोस्तद्गृहं कम्पयित्वा उदारेणावभासेन स्वरूपं संदर्श्य बुद्धगुणवर्णं भाषित्वा स तथागतः प्रथमसप्ताहाभिसंबुद्धो बोधिमण्डनिषण्णः संदर्शितः / सा अहं सार्धं मातापितृभ्यां महता च ज्ञातिसंघेन तां सुविशुद्धचन्द्राभां रात्रिदेवतां पुरस्कृत्य तस्य तथागतस्यान्तिकमुपसंक्रान्ता / ततो मया तस्य तथागतस्य उदारां पूजां कृत्वा सहदर्शनेन जगद्विनयबुद्धदर्शनप्रभवो नाम समाधिः प्रतिलब्धः / त्र्यध्वतलज्ञानावभासमण्डलश्च नाम समाधिः प्रतिलब्धः, यस्य प्रतिलम्भान्मया ते सुमेरुपरमाणुरजःसमाः कल्पा अनुस्मृताः / तच्च मे बोधिचित्तमामुखीभूतम् /

तया मे तस्य तथागतस्यान्तिकाद्धर्मदेशनां श्रुत्वा एष सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलम्भाद्दशबुद्धक्षेत्रपरमाणुरजःसमांल्लोकधातून् कायेन स्फरामि / ये (gv 180) च तेषु लोकधातुषु तथागताः, ते सर्वे मम चक्षुष आभासमागच्छन्ति / तेषां च पादमूलगतमात्मानं संजानामि / ये च तेषु लोकधातुषु सत्त्वा उपपन्नाः, ते ऽपि सर्वे मम चक्षुष आभासमागच्छन्ति / तेषां च रुतविमात्रतासंकेतं प्रजानामि / चित्ताशयेन्द्रियाधिमुक्तीश्च प्रजानामि / पूर्वान्तकल्याणमित्रेषु च परिपाकं प्रजानामि / यथाशयसंतोषणं चैषां कायमादर्शयामि //

स च मे विमोक्षः प्रतिचित्तक्षणं विवर्धते / तद्विमोक्षचित्तानन्तरेण चित्तेन लोकधातुशतपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि / तदनन्तरेण चित्तेन लोकधातुसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि / तदनन्तरेण चित्तेन लोकधातुशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि / एवं प्रतिचित्तक्षणं यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि / ये च तेषु बुद्धक्षेत्रेषु तथागताः, सर्वे ते मम चक्षुष आभासमागच्छन्ति / तेषां च पादमूलगतमात्मानं संजानामि / या च तेषां बुद्धानां भगवतां धर्मदेशना, तां सर्वामुद्गृह्णामि, धारयामि संप्रधारयामि उपधारयामि / तेषां च तथागतानां पूर्वयोगसमुद्रान् प्रणिधानसमुद्रानवतरामि / या च तेषां तथागतानां बुद्धक्षेत्रपरिशुद्धिः, तामपि च सर्वां बुद्धक्षेत्रपरिशुद्धये ऽभिनिर्हारामि / ये च सत्त्वास्तेषु लोकधातुसमुद्रेषूपपन्नाः, ते ऽपि सर्वे मम चक्षुष आभासमागच्छन्ति / यत्प्रमाणाश्च तेषां सत्त्वानामाशयेन्द्रियाधिमुक्तिभेदाः, तत्प्रमाणभेदं कायमधितिष्ठामि यदुत एषां परिपाकविनयमुपादाय / एवं प्रतिचित्तक्षणमेष विमोक्षो विवर्धते धर्मधातुप्रसरस्फरणविवर्धनयोगेन / एतमहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखं बोधिसत्त्वविमोक्षं जानामि /

किं मया शक्यमनन्तमध्यसमन्तभद्रबोधिसत्त्वचर्याप्रणिधिनिर्यातानां बोधिसत्त्वानां धर्मधातुसागरनयप्रसरप्रवेशवशवर्तिनां सर्वबोधिसत्त्वसमुदागमज्ञानवज्रकेतुसमाधिविक्रीडितानां सर्वलोकधातुषु सर्वतथागतवंशसंधारणमहाप्रणिधाननिर्यातानां सर्वलोकधातुप्रसरचित्तक्षणपरिशोधनमहापुण्यसागरपरिनिष्पन्नानां प्रतिचित्तक्षणं सर्वधर्मधातुपरिपाकविनयज्ञानवशवर्तिनां सर्वलोकधातुषु सर्वसत्त्वसर्वावरणमहान्धकारविधमनज्ञानादित्यचक्षुषां सर्वसत्त्वधातुमहायानविज्ञपनविक्रमाणां सर्वजगत्काङ्क्षाविमतिविचिकित्सातिमिरविधमनमतिचन्द्राणां सर्वभवसमुद्राभिनिवेशोच्चलनविशुद्धघोषस्वरमण्डलानां सर्वधर्मधातुरजःपथि विकुर्वितसंदर्शनवशवर्तिनां त्र्यध्वतलज्ञानमण्डलासंभिन्नानां चर्यां ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा अवतर्तुम्, विमोक्षविक्रीडितं वा संदर्शयितुम् //

गच्छ कुलपुत्र, इयमिहैव मगधविषये बोधिमण्डे समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता प्रतिवसति, यया अहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता, पुनः पुनश्च संचोदिता / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामाभिगार्थाभिरभ्यष्टौषीत् -

पश्यमि कायु तवाद्य विशुद्धं लक्षणचित्रितु मेरु यथैव / लोकअभ्युद्गत लोकविभासि मञ्जुशिरी यथ रूपशिरीये // 22 //

धर्मशरीरु तवातिविशुद्धं सर्वत्रियध्वसमं अविकल्पम् / यत्र समोसरि लोक अशेषः संभवते ऽथ विभोति असङ्गम् // 23 //

पश्यमि सर्वगतिप्रसरेषु कायु तव प्रतिभासविभक्तम् / रोममुखेषु च पश्यमि तुभ्यं तारकसंघ सज्योतिषचन्द्रान् // 24 //

चित्तु तवा विपुलं सुविशुद्धं येन स्फुटं गगनं व दिशासु / यत्र समोसरि सर्वनरेन्द्रा ज्ञानमकल्पमलं वरु तुभ्यम् // 25 //

क्षेत्ररजोपम मेघ विचित्रा निश्चरिषू तव रोममुखेषु / ते च फरन्ति दशद्दिशि बुद्धान् सर्ववियूह प्रवर्षयमाणाः // 26 //

सर्वजगोपम काय अनन्ता निश्चरिषू तव रोममुखेषु / ते च दशद्दिशि लोकु फरित्वा नानौपाय विशोधयि सत्त्वान् // 27 //

रोममुखेषु अचिन्तिय क्षेत्रा पश्यमि नानवियूहविचित्रा / ये त्वय शोधित सत्त्वगतीषु तेष यथाशयसंभुत सर्वान् // 28 //

लाभ सुलब्ध सुजीवितु तेषां ये तव नाम शृणोन्ति उदग्राः / ये ऽथ च दर्शनमेषि नराणां बोधिपथाभिमुखाश्च भवन्ति // 29 //

कल्प अचिन्तिय वासु अपाये दर्शनहेतु तवोत्सहितव्यः / यत्ति श्रवेण प्रहर्षितचित्ता दर्शनमात्र शमेसि च क्लेशान् // 30 //

क्षेत्रसहस्ररजोपम कायास्त्वादृश तान्तक कल्प भवेयुः / वर्ण भणेत्तव रोममुखस्य वर्णक्षयो ऽस्य भवेन्न कदाचित् // 31 // अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामाभिर्गाथाभिरभिष्टुत्य वासन्त्या रात्रिदेवतायाः पादौ शिरसाभिवन्द्य वासन्तीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवितृप्त एव कल्याणमित्रपर्युपासनेन वासन्त्या रात्रिदेवताया अन्तिकात् प्रक्रान्तः // 32 // 35 समन्तगम्भीरश्रीविमलप्रभा /

अथ खलु सुधनः श्रेष्ठिदारको वासन्त्या रात्रिदेवतायाः प्रथमस्थानबोधिसत्त्वचित्तमण्डलपरिशुद्धिमनुगच्छन्, बोधिगर्भसंभवमनुविचारयन्, बोधिसत्त्वप्रणिधानसागरमवतरन्, बोधिसत्त्वपारमितामार्गं परिशोधयन्, बोधिसत्त्वभूमिमण्डलमवक्रामयन्, बोधिसत्त्वचर्यामण्डलं प्रविस्तरन्, बोधिसत्त्वनिर्याणसागरमनुस्मरन्, सर्वज्ञतावभासमहासागरमनुविलोकयन्, सर्वजगत्परित्राणप्रवणबोधिसत्त्वमहाकरुणामेघं विपुलीकुर्वन्, वासन्त्या रात्रिदेवतायाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानमण्डलं सर्वक्षेत्रेष्वपरान्ताधिष्ठानमभिनिर्हरन्, येन समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता, तेनोपसंक्रम्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्य देवते, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / न च जानामि कथं बोधिसत्त्वो बोधिसत्त्वचर्याभूमौ चरति, कथं निर्याति, कथं परिनिष्पद्यते? आह - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वभूमिनिर्याणपरिनिष्पत्तिं पृच्छसि / दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम् /

कतमैर्दशभिः? यदुत सर्वतथागतसंमुखीभावदर्शनसमाधिप्रतिलम्भविशुद्ध्या, सर्वबुद्धलक्षणविचित्रतानन्तकायव्यवलोकनचक्षुर्विशुद्धया, अनन्तमध्यतथागतवर्णसमुद्रविज्ञप्त्यवतारेण, अप्रमाणबुद्धधर्मावभासमण्डलसमुद्रसर्वधर्मधातुप्रमाणावतरणतया, सर्वतथागतरोमविवरसर्वसत्त्वोपमरश्मिसमुद्रनानासत्त्वार्थनिश्चरितावतरणतया, एकैकरोमविवरसर्वरत्नवर्णार्चिःसमुद्रदर्शनतया, प्रतिचित्तक्षणं बुद्धनिर्मितसमुद्रसर्वधर्मधातुप्रसरस्फरणसत्वविनयाधिष्ठानावतरणतया, सर्वसत्त्वस्वराङ्गसमुद्रसंप्रयुक्ततथागतनिर्घोषसर्वत्र्यध्वगतधर्मचक्रनिर्नाद - निर्घोषसर्वसूत्रान्तमेघनिगर्जितनिर्घोषमण्डलावतरणतया, अनन्तमध्यबुद्धनामसमुद्रावतरणतया, अचिन्त्यबुद्धविकुर्वितसंदर्शनसत्त्वविनयावरणतया / एभिः कुलपुत्र दशभिर्धर्मैः समन्वागता बोधिसत्त्वाः परिनिष्पन्ना भवन्ति बोधिसत्त्वचर्यायाम् //

अहं खलु कुलपुत्र शान्तध्यानसुखसमन्तविक्रमस्य बोधिसत्त्वविमोक्षस्य लाभिनी / तस्या मम कुलपुत्र त्र्यध्वप्राप्ताः सर्वतथागताश्चक्षुष आभासमागच्छन्ति / तेषां च तथागतानां बुद्धक्षेत्रपरिशुद्धिमवतरामि / पर्षन्मण्डलसमुद्रानपि, अनन्तमध्यसमाधिविकुर्वितसमुद्रानपि, पूर्वयोगसमुद्रानपि, नामसमुद्रानप्यवतरामि / तेषां च तथागतानां धर्मचक्रप्रवर्तनविमात्रतामवतरामि / तथागतायुष्प्रमाणनानात्वमपि, स्वराङ्गविमात्रतामपि / तेषां च तथागतानामनन्तधर्मधातुशरीरतामवतरामि / न च तांस्तथागतान् भावतो ऽभिनिविशामि / तत्कस्य हेतोः? अगतिका हि ते तथागताः, सर्वलोकगतिनिरुद्धत्वात् / अनागतिका हि ते तथागताः, (gv 184) स्वभावासंभूतत्वात् / अनुत्पन्ना हि ते तथागताः, अनुत्पादधर्मतासमशरीरत्वात् / अनिरुद्धा हि ते तथागताः, अनुत्पादलक्षणत्वात् / असत्या हि ते तथागताः, मायागतधर्मदर्शनविज्ञप्त्या / अमृषा हि ते तथागताः, सर्वजगदर्थसमुत्पन्नत्वात् / असंक्रान्ता हि ते तथागताः, च्युत्युपपत्तिव्यतिवृत्तत्वात् / अविनष्टा हि ते तथागताः, धर्मप्रकृत्यविनाशधर्मतया / एकलक्षणा हि ते तथागताः, सर्ववाक्पथसमतिक्रान्तत्वात् / अलक्षणा हि ते तथागताः, धर्मलक्षणस्वभावपर्यवसानत्वात् //

सा खलु पुनरहं कुलपुत्र एवं सर्वतथागतानवतरमाणा एतं शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं तथागतध्यानमण्डलावभासेन विपुलीकरोमि, प्रविस्तरामि अवतरामि अनुगच्छामि समीकरोमि अभिनिर्हरामि समतलीकरोमि प्रवेशयामि विवर्धयामि निध्यायामि उपनिध्यायामि आकारयामि गोचरीकरोमि दृढीकरोमि अवभासयामि प्रभासयामि व्यूहयामि विभजामि संभारयामि संभावयामि / तत्र च सर्वसंकल्पासमुदाचारायां महाकरुणायां स्थित्वा सर्वसत्त्वपरित्राणसमुदाचारचित्तैकाग्रतायै प्रथमं ध्यानं भावयामि सर्वमनस्कर्मव्युपशमाय ज्ञानबलपराक्रमसर्वसत्त्वसंग्रहप्रीतिसुखचित्तैकाग्रतायै / द्वितीयध्यानं भावयामि संसारविपन्नोपेक्षासर्वसत्त्वस्वभावविशुद्ध्यायतनतायै / तृतीयं ध्यानं भावयामि सर्वसत्त्वक्लेशदुःखसंतापप्रशमनतायै / चतुर्थं ध्यानं भावयामि सर्वज्ञताप्रणिधिमण्डलविपुलीकरणतायै सर्वसमाधिसागराभिनिर्हारकौशल्यतायै सर्वबोधिसत्त्वविमोक्षसागरनयावतरणतायै सर्वबोधिसत्त्वविक्रीडितज्ञानाभिज्ञतायै सर्वबोधिसत्त्वचर्याविकुर्विताभिनिर्हरणतायै समन्तमुखधर्मधातुप्रवेशज्ञाननयं परिशोधयमाना / एवं शान्तध्यानमुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भावयामि //

सा खलु पुनरहं कुलपुत्र एतं विमोक्षं भावयमाना नानोपायैः सत्त्वान् परिपाचयामि यदुत रात्र्यां प्रशान्तायां रतिप्रमत्तानां सत्त्वानामशुभसंज्ञां संजनयामि / अरतिसंज्ञां परिखेदसंज्ञामुपरोधसंज्ञां बन्धनसंज्ञां राक्षसीसंज्ञामनित्यसंज्ञां दुःखसंज्ञामनात्मसंज्ञामस्वामिकसंज्ञामपराधीनसंज्ञां जरामरणसंज्ञाम् / सर्वकामविषयपरिभोगेष्वनभिरतिसंज्ञां संजनयामि / ते च सत्त्वास्तच्चित्तं परिभावयन्तः सर्वकामरतिष्वनभिरता धर्मारामरतिं प्रवारयमाणा अगारादनागारिकं निष्क्रामन्ति / तेषामहमरण्यगतानां धर्मेष्वानुलोमिकीं श्रद्धां जनयामि / आर्तभीषणोदारस्वररवशब्दानन्तर्धापयामि / रात्र्यां प्रशान्तायां बुद्धधर्मगम्भीरतां संदर्शयामि / प्रहाणानुकूलं च प्रत्ययमुपसंहरामि / निष्क्रमतां च अगारद्वारं विवृणोमि / मार्गं संदर्शयामि / आलोकं करोमि / तमोन्धकारं विधमामि / भयमन्तर्धापयामि / नैष्क्रम्यं संवर्णयामि / बुद्धवर्णं भाषयामि / धर्मवर्णं संघवर्णं कल्याणमित्रवर्णं भाषामि / कल्याणमित्रोपसंक्रमणं संवर्णयामि //

एतमहं कुलपुत्र विमोक्षं भावयमाना सत्त्वानामधर्मरागरक्तानामधर्मरागसंकल्पानन्तर्धापयामि / विषमलोभाभिभूतानां मिथ्यासंकल्पगोचराणां तान् संकल्पांस्तान् मनसिकारानन्तर्धापयामि / (gv 185) अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय उत्पन्नानां च पापकानां संकल्पानामन्तर्धानाय प्रत्ययमुपसंहरामि / अनुत्पन्नानां कुशलमूलानां संकल्पानां पारमितासंप्रयुक्तानां चर्यासंप्रयुक्तानां सर्वज्ञताज्ञाननिर्याणप्रणिधानाभिनिर्हारसंप्रयुक्तानां मैत्रीनयसंप्रयुक्तानां सर्वसत्त्वमहाकरूणास्फरणसंप्रयुक्तानां विविधदिव्यमानुष्यसुखोपधानजननसंप्रयुक्तानां संकल्पानामुत्पादाय उत्पन्नानां च विविधनयप्रत्ययमुपसंहरामि / यावत्सर्वज्ञतानुलोमिकानां सर्वसंकल्पानां प्रत्ययमुपसंहरामि //

एतमहं कुलपुत्र शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातानां बोधिसत्त्वानामनन्ताकारधर्मधातुज्ञानप्रतिलब्धानां सर्वकुशलमूलसंवर्धितचित्तानां सर्वतथागतज्ञानबलचित्तावभासप्रतिलब्धानां सर्वतथागतविषयसंवसितचित्तानां सर्वसंवासानावरणचित्तानां परिपूर्णसर्वज्ञताप्रणिधिचित्तानां सर्वक्षेत्रसागरावतीर्णचित्तानां सर्वबुद्धसागरदर्शनप्रसृतचित्तानां सर्वतथागतधर्ममेघसंप्रतीच्छनचित्तानां सर्वाविद्यान्धकारविधमनकराणां संसाररतितृष्णाक्षयान्तकरणमार्गसर्वज्ञताभाससंजननचित्तानां चर्यां ज्ञातुम्, गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव ममानन्तरं वैरोचनबोधिमण्डे प्रदक्षिणेन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता प्रतिवसति / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वकर्मसु प्रयोक्तव्यम् //

अथ खलु समन्तगम्भीरश्रीविमलप्रभा रात्रिदेवता तस्यां वेलायामेतमेव शान्तध्यानसुखसमन्तविक्रमं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

सर्वअध्वपरमास्तथागता आमुखाय अधिमुक्तिचेतसः / तेषु चक्षु विपुलं विशुध्यते येन ओतरिषु बुद्धसागरान् // 1 //

पश्यही जिनशरीरु निर्मलं लक्षणेहि समलंकृतं शुभम् / तच्च पश्यहि जिने विकुर्वितं धर्मधातुफरणं प्रतिक्षणम् // 2 //

एष बोधिद्रुमबुद्धआसने संप्रबुद्ध सुगतो विरोचनो / धर्मधातु विपुलं स्फरित्वना चक्रु वर्तयि जगे यथाशयम् // 3 //

बुद्धिया जिनु स्वभावधर्मतां निःशरीर सुप्रशान्त अद्वयाम् / रूपकायु शुभलक्षणैश्चितं दर्शयी जगु फरित्व शेषतः // 4 //

बुद्धकायु विपुलो अचिन्तियो धर्मधातु फरि येनशेषतो / सो च दृश्यति समन्ततः समं सर्व दर्शयि समन्ततो जिनान् // 5 //

सर्वक्षेत्रपरमाणुसादृशा बुद्धकायप्रभमण्डलाश्रिताः / अन्यमन्य शुभवर्णदर्शना धर्मधातुफरणाः प्रतिक्षणम् // 6 //

रश्मिमेघ विपुला अचिन्तिया निश्चरन्ति जिनरोमतो ऽक्षयाः / ते स्फरित्व जग सर्वशेषतो क्लेशताप शमयन्ति प्राणिनाम् // 7 //

बुद्धनिर्मितसमुद्र अक्षया निश्चरित्व जिनरोममण्डलात् / धर्मधातु विपुलं स्फरित्वना दुर्गतीदुख शमेन्ति प्राणिनाम् // 8 //

बुद्धघोषु मधुरो निगर्जते सुस्वराङ्गरुतसागरप्रभः / धर्मवर्ष विपुल प्रवर्षणो बोधिआशयु जनेति प्राणिनाम् // 9 //

संगृहीत अनेन पूर्वतो कल्पसागर चरित्व चारिकाम् / ते विपश्यिषु विरोचनं जिनं सर्वक्षेत्रप्रतिभासलक्षणम् // 10 //

सर्वलोक उदितस्तथागतः सत्त्व सर्वि सममामुखीस्थितः / अन्यमन्य अधिमुक्तिगोचरस्ते न शक्यमपि सर्वि जानितुम् // 11 //

बोधिसत्त्ववर शेषशेषतो एकरोमि सुगतस्य ओसरी / तद्विमोक्षनय ये अचिन्तियास्ते न शक्यमपि सर्वि जानितुम् // 12 //

एष देवत ममा अनन्तरं लोकनाथभिमुखा प्रमोदते / ज्योतिरर्चिनयनेति नामतो एत पृच्छ कथ बोधिचारिकाम् // 13 // अथ खलु सुधनः श्रेष्ठिदारकः समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तगम्भीरश्रीविमलप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य समन्तगम्भीरश्रीविमलप्रभाया रात्रिदेवताया अन्तिकात् प्रक्रान्तः // 33 // 36 प्रमुदितनयनजगद्विरोचना /

अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यावेशाविष्टः कल्याणमित्रवचनप्रतिपत्तिसंभूतचित्तः कल्याणमित्रवैद्येष्वातुरसंज्ञासमुदाचारचित्तः कल्याणमित्रदर्शनमनसिकाराविक्षिप्तचित्तः कल्याणमित्रदर्शनसर्वावरणपर्वतविकिरणावकाशप्रतिलब्धचित्तः कल्याणमित्रदर्शनेन सर्वसत्त्वधातुपरित्राणमहाकरुणानयसागरावतरणप्रतिलब्धचित्तः कल्याणमित्रदर्शनेन धर्मधातुनयसागरज्ञानावभासप्रतिलब्धचित्तो येन प्रमुदितनयनजगद्विरोचना नाम रात्रिदेवता तेनोपसंक्रान्तः //

अथ खलु प्रमुदितनयनजगद्विरोचना रात्रिदेवता सुधनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया कल्याणमित्रोपसंक्रमणकुशलमूलसंभारसंभवपरिपाकमुपादाय महासंभारसंभवकल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / महाविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / दुरवतरणवीर्यकर्मकल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / सुचिरविलग्नं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / अनन्तमध्यदिक्प्रवेशं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / दीर्घाध्वसंवसनसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / अनन्तकार्यसंपूर्णविज्ञप्तिसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / अनन्तमध्यमार्गव्यूहसंभारक्रमणं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / समन्तमुखविक्रमसंभवं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् / अनुच्चलनागमनविक्रमं कल्याणमित्रोपसंक्रमणमध्यतिष्ठत् //

अथ खलु सुधनः श्रेष्ठिदारकः सर्वज्ञतासंभारवीर्यपराक्रमेण कल्याणमित्रोपसंक्रमणेन, महाप्रणिधानसागराभिनिर्हारविक्रमेण कल्याणमित्रोपसंक्रमणेन, एकसत्त्वार्थमपरान्तकल्पापर्यन्तदुःखानुभवव्यवसितेन कल्याणमित्रोपसंक्रमणेन, एकपरमाणुरजसि सर्वधर्मधात्वनुचरणविलम्बविक्रमेण महावीर्यकवचवर्मणा कल्याणमित्रोपसंक्रमणेन, सर्वदिक्समुद्रप्रसरानुजवनेन कल्याणमित्रोपसंक्रमणेन, एकवालपथे अपरान्तकल्पबोधिसत्त्वचर्यासंवसनेन कल्याणमित्रोपसंक्रमणेन, बोधिसत्त्वचर्याप्राप्तस्य प्रतिचित्तक्षणं सकलसर्वज्ञताज्ञानप्रतिष्ठानेन कल्याणमित्रोपसंक्रमणेन, त्र्यध्वप्राप्तसर्वतथागतविकुर्वितव्यूहमार्गाक्रमणव्यवसितेन कल्याणमित्रोपसंक्रमणेन, सर्वधर्मधातुनयस्रोतःप्रसृतमार्गाक्रमेण कल्याणमित्रोपसंक्रमणेन, सर्वधर्मधातुनयारम्बणानुच्चलितेन सकलधर्मधातुस्फरणेन कल्याणमित्रोपसंक्रमणेन येन प्रमुदितनयनजगद्विरोचना रात्रिदेवता तेनोपसंक्रान्तः //

सो ऽपश्यत् प्रमुदितनयनजगद्विरोचनां रात्रिदेवतां भगवतः पर्षन्मण्डले पुष्पगर्भसिंहासननिषण्णां समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वसमाधिं समापन्नाम् / तस्याश्चापश्यत् सर्वरोमविवरेभ्यः सर्वसत्त्वाभिरोचनां सर्वसत्त्वाभिरुचितां सर्वसत्त्वदर्शनानुकूलां सर्वसत्त्वप्रियदर्शनविविधदानादिपारमिताचर्याभिद्योतनमेघान्निश्चरमाणन् यदुत सर्वसत्त्वयथाशयविज्ञप्तिसमरुतदानचर्यासंदर्शनमेघान् सर्वसत्त्वानुग्रहाविग्रहाय सर्ववस्त्वनवेक्षणतायै सर्वसत्त्वसमप्रयोगापरित्यागितायै सर्वसत्त्वसमचित्ततायै सर्वसत्त्वाविमाननापरित्यागतायै आध्यात्मिकबाह्यसर्ववस्तुपरित्यागितायै (gv 189) महादुष्करपरित्यागसंदर्शनतायै सर्वलोके यथाशयसत्त्वदानचर्यासंदर्शनतायै त्र्यध्वप्राप्तबोधिसत्त्वाचिन्त्यदुष्करचर्यापरित्यागनिर्माणमेघान्निश्चरित्वा दशसु दिक्षु सर्वलोकधातुप्रसरपर्यापन्नानां सर्वसत्त्वानां विज्ञप्तिमागच्छतो ऽपश्यत् यदुताचिन्त्यबोधिसत्त्ववृषभिताविकुर्वितप्रतिलाभेन //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.