Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/16

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

गण्डव्यूहसूत्र

Thông tin
GRETIL — P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः पूर्वकुशलमूलानि संचोदयति उद्योतयति संदर्शयति विवृणोति विभजति संप्रकाशयति सारीकरोति अविप्रणाशतायै, विपुलीकरोति महास्फरणतायै, स्थापयति सर्वज्ञताप्रमाणीकरणतायै, यदुत प्रथमचित्तोत्पादमुपादाय तथागतपूर्वप्रणिधिसमुद्रासंख्येयप्रतिलाभाय //

भूतपूर्वं कुलपुत्र अतीते ऽध्वनि ततः परेण दशमे कल्पे मणिसूर्यचन्द्रविद्योतितप्रभायां लोकधातौ चन्द्रध्वजश्रीकेतोः तथागतस्य प्रवचने समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रया दारिकया समन्तभद्रबोधिसत्त्वसमादापितया प्रलुग्नस्तथागतविग्रहः पद्मनिषण्णः प्रतिसंस्कारितः / प्रतिसंस्कार्य चित्रितः / चित्रयित्वा रत्नप्रतिमण्डितः कृतः / अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं समन्तभद्रबोधिसत्त्वकल्याणमित्रमागम्य / सा तेन कुशलमूलेन अविनिपातधर्मिणी सदा देवेन्द्रकुलेषु मनुष्येन्द्रकुलेषु चोपपन्ना, सर्वत्र चाभिरूपाभूत् प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता / सदा च अविरहिताभूत्तथागतदर्शनेन समन्तभद्रबोधिसत्त्वेन / तेनैव च कल्याणमित्रेण तस्यां तस्यां जातौ परिपाचिता संचोदिता स्मारिता / एतर्हि च पुनस्तया समन्तभद्रो बोधिसत्त्व आरागितो ऽत्यन्ताविरागणतया //

तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजचक्रवर्ती? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् / मैत्रेयः स बोधिसत्त्वः तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजाभूच्चक्रवर्ती / स्यात्खलु पुनस्ते कुलपुत्र एवम् - अन्या सा तेन कालेन तेन समयेन संपूर्णश्रीवक्रा नाम राजभार्याभूत्? न खलु एवं द्रष्टव्यम् / इयं प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं संनिषण्णा / तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूत्? न खल्वेवं द्रष्टव्यम् / अहं सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूवम् / यन्मे दारिकाभूतया इन्द्रध्वजकेतोस्तथागतस्य प्रवचने प्रलुग्नस्तथागतविग्रहः पद्मोद्गतः प्रतिसंस्कारितः, स मे हेतुरभूत् यावदनुत्तरायाः सम्यक्संबोधेः / यदा चास्मि समन्तभद्रेण बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ समादापिता, स मे कुलपुत्र प्रथमचित्तोत्पादो बोधाय अभूत् / यदा च स मे भगवान् समन्तज्ञानार्चिःश्रीगुणकेतुराजः तथागत उपसंक्रम्य आभरणैरवकीर्णः, तथागतविकुर्वितप्रातिहार्यं च दृष्ट्वा धर्मश्च मे तस्य भगवतो ऽन्तिकाच्छ्रुतः, तदा मयैष सर्वलोकाभिमुइखजगद्विनयनिदर्शनो बोधिसत्त्वविमोक्षः प्रतिलब्धः / सर्वे च ते सुमेरुपरमाणुरजःसमास्तथागता आरागिता अभिराधिताः, (gv 216) सर्वोपकरणपूजासत्कारेण च सत्कृताः / यश्च तैस्तथागतैर्धर्मो भाषितः, स मे सर्वं श्रुतः / तेषां चास्मि तथागतानामववादानुशासनीषु प्रतिपन्ना / तेषु च मे तथागतेषु तीव्रं गौरवं प्रतिलब्धं यथारूपेण गौरवेण एकचित्तक्षणे तान् सर्वांस्तथागतांस्तानि बोधिसत्त्वपर्षन्मण्डलानि तानि च सर्वाणि बुद्धक्षेत्राणि पश्यामि //

तस्यां च वैरोचनश्रियां लोकधातौ संवृत्तायां तत्र च विरजोमण्डले कल्पे निर्गते ऽनन्तरे मणिचक्रविचित्रप्रतिमण्डितव्यूहा नाम लोकधातुर्महाप्रभश्च नाम कल्पो ऽभूत् / तत्र पञ्च बुद्धशतान्युत्पन्नानि / तानि मया सर्वाण्यारागितानि / तस्मिंश्च खलु महाप्रभे कल्पे महाकरुणमेघध्वजो नाम तथागतः प्राथमकल्पिको ऽभूत् / स मया रात्रिदेवताभूतया अभिनिष्क्रामन् पूजितः / तस्यानन्तरं वज्रनारायणकेतुर्नाम तथागत उत्पन्नः / स मया चक्रवर्तिभूतया पूजितः / तेन च मे सर्वबुद्धोत्पादसंभवो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः / स च मे श्रुतः उद्गृहीतः / तस्यानन्तरं ज्वलनार्चिःपर्वतश्रीव्यूहो नाम तथागत उत्पन्नः / स मे श्रेष्ठिदुहितृभूतया पूजितः / तेन च मे त्र्यध्वावभासगर्भो नाम सूत्रान्तः संप्रकाशितो जम्बुद्वीपपरमाणुरजःसमसूत्रान्तपरिवारः / स च मे श्रुतः उद्गृहीतः / तस्यानन्तरं सर्वधर्मसमुद्राभ्युद्गतवेगराजो नाम तथागतो लोक उदपादि / स मया असुरराजभूतया पूजितः / तेन च मे सर्वधर्मधातुतलज्ञानभेदो नाम सूत्रान्तः संप्रकाशितः पञ्चसूत्रान्तशतपरिवारः / स च मे श्रुतः उद्गृहीतः / तस्यानन्तरं गम्भीरधर्मश्रीसमुद्रप्रभो नाम तथागत उत्पन्नः / स मे नागेन्द्रकन्याभूतया पूजितश्चिन्ताराजमणिरत्नमेघवर्षमभिप्रवर्षन्त्या / तेन च मे प्रीतिसागरविवर्धनवेगो नाम सूत्रान्तः संप्रकाशितो दशसूत्रान्तकोटीशतसहस्रपरिवारः / स च मे श्रुत्वोद्गृहीतः / तस्यानन्तरं रत्नशिखरार्चिःपर्वतप्रदीपो नाम तथागतः उत्पन्नः /

स च मे सागरदेवताभूतया रत्नपद्ममेघवर्षैरुपसंक्रम्य पूजितः / तेन च मे धर्मधातुसागरनयप्रभो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः / स च मे श्रुत्वोद्गृहीतः, स्मृत्या च संधारितः / तस्यानन्तरं गुणसमुद्रावभासमण्डलश्रीर्नाम तथागत उत्पन्नः / स मे पञ्चाभिज्ञऋषिभूतया महर्द्धिविकुर्वितेन षष्टिऋषिसहस्रपरिवृतया उपसंक्रमय गन्धपुष्पशिखरमेघानभिप्रवर्षन्त्या पूजितः / तेन च मे अनालयधर्मप्रदीपो नाम सूत्रान्तः संप्रकाशितः षष्टिसूत्रान्तसहस्रपरिवारः / स च मे श्रुत्वोद्गृहीतः, तस्यानन्तरं वैरोचनश्रीगर्भो नाम तथागत उत्पन्नः / अहं च समतार्थसंभवा नाम पृथिवीदेवता अभुवम् / सा अहमप्रमेयपृथिवीदेवतापरिवारा सर्वरत्नद्रुमकोशेभ्यो रत्नपुष्पमेघवर्षाण्युत्सृजमाना सर्वरत्नहारमेघान् प्रवर्षमाणा उपसंक्रान्ता तस्य तथागतस्य पूजाकर्मणे / तेन च मे सर्वतथागतसंभवज्ञानाकरगर्भो नाम सूत्रान्तः संप्रकाशितो ऽप्रमेयसूत्रान्तपरिवारः / स च मे श्रुत्वा धारितो न विप्रणाशितः /

तेषां खलु कुलपुत्र पञ्चानां बुद्धशतानां सर्वपश्चिमो धर्मधातुगगनपूर्णरत्नशिखरश्रीप्रदीपो नाम तथागतो लोक उदपादि / अहं च तेन कालेन अभिरामश्रीवक्रा नाम (gv 217) नटदारिका अभूवम् / सा अहं तस्य तथागतस्य नगरप्रवेशसमये नाटके प्रवृत्ते बुद्धानुभावेन ऊर्ध्वं गगनतले स्थित्वा गाथासहस्रेण तं तथागतमभिष्टुवन्ती उपसंक्रान्ता / तेन च मे धर्मधातुविद्योतितव्यूहं नाम रश्मिमूर्णकोशादुत्सृज्य सर्वकायो ऽवभासितः / तया च मे रश्म्या समनन्तरस्पृष्टया धर्मधातुनयावर्तगर्भो नाम विमोक्षः प्रतिलब्धः //

इति हि कुलपुत्र एतान् प्रमुखान् कृत्वा यानि तत्र मणिचक्रविचित्रप्रतिमण्डितव्यूहायां लोकधातौ महाप्रभे कल्पे पञ्च बुद्धशतान्युत्पन्नानि, तानि मया सर्वाण्यारागितानि, पूजा च मे तेषां तथागतानां कृता / यश्च मे तैस्तथागतैर्धर्मो देशितः, तं सर्वं स्मरामि / एकपदव्यञ्जनमपि मे ततो धर्मनयान्न विप्रमुषितम् / एकैकस्य च मे तथागतस्यान्तिकमुपसंक्रामन्त्या अपरिमाणानां सत्त्वानामर्थः कृतो बुद्धधर्मसंवर्णनतया / एकैकस्य च मे तथागतस्य अन्तिकात् त्र्यध्वज्ञानगर्भधर्मधातुविपुलो नाम धर्मधातुशरीरसागरः सर्वज्ञताविद्युदवभासः प्रतिलब्धः सर्वसमन्तभद्रचर्यासंवाससमवसरणः / एतर्ह्यपि मे कुलपुत्र प्रतिचित्तक्षणमनन्तमध्यास्तथागता आभासमागच्छन्ति / सर्वेषां च मे तेषां तथागतानां सहदर्शनात् सर्वज्ञताविद्युदवभासा आशये ऽवक्रान्ता अप्रतिलब्धपूर्वा अदृष्टपूर्वाः / न च समन्तभद्राया बोधिसत्त्वचर्याया उच्चलामि / तत्कस्य हेतोः? अनन्तमध्यनिर्देश एष सर्वज्ञताविद्युदवभासप्रतिलम्भः //

अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रिदेवता तस्यां वेलायां तमेव सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना बुद्धाधिष्ठानेन सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

शृणु सूधना वचनमेतु ममा गम्भीर दुर्दृश दुरावगहम् / सर्वत्रियध्वतलभेदनयं धर्माभमण्डलसमन्तप्रभम् // 30 //

यथ संभुत प्रथम चित्तु ममा बोधाय बुद्धगुणप्रार्थनया / यथ बोधिविमोक्षु अयु लब्धु मंया एतं शृणोहि प्रविभागनयम् // 31 //

इतु बुद्धक्षेत्रपरमाणुरजःसमकल्पपूर्वतु परेण ततः / वैरोचनध्वजप्रदीपशिरी अत्र लोकधातु विपुला विमला // 32 //

कल्पो अभू विरजमण्डलु यो अच्छिन्नु यत्र जिनवंशु अभूत् / तस्मिन् सुमेरुपरमाणुसमा उपपद्यिषू दशबला अनिघा // 33 //

तस्मिन् समन्तरतनार्चिशिरी गुणकेतुराज प्रथमः सुगतः / धर्मध्वजः शिरिसुमेरु जिनो गुणकेशरीश्वरु चतुर्थ जिनः // 34 //

जिनु शान्तिराज समितायुरथो यशपर्वतो गुणसुमेरुशिरी / जिनभास्करः शशिमुखो भगवानेते दश प्रथम अत्र नये // 35 //

गगनालयो जिनु समतप्रभो दिशसंभवः स्मृतिसमुद्रमुखः / अभ्युद्गता जिनु सुमेरुशिरी धर्मार्चिपर्वतशिरी सुगतः // 36 //

पद्मोद्गतो नवमु कारुणिको जिनु धर्मधातुकुसुमो दशमः / बुद्धोसमुद्र परिदीपयतो एषा दशा द्वितिय अत्र नये // 37 //

प्रभकेतुराजमति ज्ञानमति चित्रार्थ इन्द्रशिरि देवमति / जिनु वेगराजमति ज्ञानशिरी अवभासराज प्रभकेतुशिरी // 38 //

विक्रान्तदेवगति नाम जिनो तथ धर्मधातुपदुमो दशमः / एवं नयं विपुल दर्शयतो तृतिया दशा भवति अत्र नये // 39 //

रत्नार्चिपर्वतशिरी भगवांस्तदनन्तरं गुणसमुद्रशिरी / धर्मप्रभो पदुमगर्भशिरी गतिचन्द्रनेत्रनयनः सुगतः // 40 //

गन्धप्रभो मणिसुमेरुशिरी गन्धर्वकायु प्रभराजः / मणिगर्भराज शिरितेजवती दशमो जिनः प्रशमरूपगतिः // 41 //

तदनन्तरं विपुलबुद्धि जिनो रतनप्रभो गगनमेघशिरी / वरलक्षणः शिरि बभूव जिनो ब्रतमण्डलश्च स्वशरीरप्रभः // 42 //

नारायणव्रत सुमेरुशिरी गुणचक्रवालशिरिराजु जिनः / अपराजितव्रतध्वजो भगवान् द्रुमपर्वतो दशमु तेष जिनः // 43 //

सालेन्द्रराजशिरिगर्भु जिनो लोकेन्द्रकायप्रतिभासप्रभः / अभ्युद्गतप्रभशिरी भगवान् विरजप्रभो धरणितेजशिरी // 44 //

गम्भीरधर्मगुणराजशिरी जिनु धर्मसागरनिर्घोषमतिः / मेरुध्वजः शिरिप्रभासमतिर्दशमो जिनो रतनराजशिरिः // 45 //

ब्रह्मप्रभो गगनघोष जिनस्तथ धर्मधातुप्रतिभासशिरिः / आलोकमण्डलप्रभो भगवान् दशभेदज्ञानप्रभेकेतुमतिः // 46 //

गगनप्रदीप अभिरामशिरी वैरोचनप्रभशिरी सुगतः / पुण्यप्रभासशिरि शान्तशिरी दशमो महाकरुणमेघशिरी // 47 //

तथताप्रभो बलप्रभासमतिः सर्वजगाभिमुखरूप जिनः / अभ्युद्गताभु अभु तत्र जिनस्तदनन्तरं समशरीरु जिनः // 48 //

धर्मोद्गतो ऽथ स अभूत्सुगतस्तदनन्तरं अनिलवेगशिरी / शूरध्वजो रतनगात्रशिरी दशमस्त्रियध्वप्रतिभासप्रभः // 49 //

प्रणिधानसागरप्रभासशिरी वज्राशयो गिरिशिरी द्वितियः / तृतीयो जिनो हरिसुमेरुशिरी स्मृतिकेतुराजशिरि धर्ममतिः // 50 //

प्रज्ञाप्रदीप प्रभकेतुशिरी तदनन्तरं विपुलबुद्धि जिनः / जिनु धर्मधातुनयज्ञानगतिधर्मः समुद्रमतिज्ञानशिरिः // 51 //

धर्मधरो रतनदानशिरि गुणचक्रवालशिरि मेघु जिनः / क्षान्तिप्रदीपशिरि तेजवतिवेगप्रभः शमथघोषु जिनः // 52 //

शान्तिध्वजो जगप्रदीपशिरि बुद्धो महाप्रणिधिवेगशिरि / अपराजितध्वजबलो भगवान् ज्ञानार्चिसागरशिरिश्च जिनः // 53 //

धर्मेश्वरो जिन असङ्गमतिर्जगमन्त्रसागरनिर्घोषमतिः / सर्वस्वराङ्गरुतघोषशिरी वशवर्तियज्ञयशयष्टिमतिः // 54 //

दिशदेशआमुखजगो भगवान् सत्त्वाशयैः समशरीरिशिरिः / बुद्धो परार्थसविहारशिरी प्रकृतीशरीरशिरि भद्रजिनः // 55 //

एते जिना प्रमुख तत्र अभूदुपपद्यि ये जिन प्रदीपकराः / कल्पैः सुमेरुपरमाणुसमैः ये पूजिता जिनसमुद्रनये // 56 //

तैर्बुद्धक्षेत्रपरमाणुसमैः कल्पैरुपपद्यिषु ये केचि जिनाः / ते सर्वि पूजित मया सुगता एतं विमोक्षनयमोतरिया // 57 //

कल्पाननन्त अहु चीर्ण पुरा एतं विमोक्षनयु भावयती / त्वमपि श्रुणित्व प्रतिपद्य लघु प्रतिलप्स्यसे नयमिमं नचिरात् // 58 //

एतमहं कुलपुत्र सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यमनन्तमध्यबोधिसत्त्वचर्यासागरनानाधिमुक्तिसंवासानां बोधिसत्त्वानां नानाशयशरीराणां विविधेन्द्रियसागरपरिनिष्पन्नानां विचित्रबोधिसत्त्वप्रणिधानसुप्रतिविद्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं ज्योतिर्ध्वजमणिराजप्रतिमण्डितगर्भे पद्मासने निषण्णा दशरात्रिदेवतासंख्येयशतसहस्रपरिवारा / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् // अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्यं समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया अन्तिकात् प्रक्रान्तः // 35 // 38 प्रशान्तरुतसागरवती /

अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायास्तं सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् अधिमुच्यमानो ऽवगाहयमानो विपुलीकुर्वाणः स्फरन् प्रसरन् वशीकुर्वन् अवभासयमानः समवसरन् येन प्रशान्तरुतसागरवती रात्रिदेवता तेनोपसंक्रम्य प्रशान्तरुतसागरवत्या रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रशान्तरुतसागरवतीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्रशान्तरुतसागरवत्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहमार्ये देवते अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः / सो ऽहं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यायां शिक्षमाणो बोधिसत्त्वचर्यामवतरन् बोधिसत्त्वचर्यायां प्रतिपद्यमानो बोधिसत्त्वचर्यायां प्रतिष्ठितः सर्वज्ञतायां निर्यातुमिच्छामि / तद्वदस्व मे आर्ये देवते कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यासागरं परिमार्गसि / अहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी /

सुधन आह - किंकर्मासि देवते, किंविषयासि, किंप्रयोगा किंव्यवचारा? क एतस्य विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य विषयः? सा अवोचत् - अहं कुलपुत्र चित्ताशयसागरपरिशुद्धिसमताप्रतिपन्ना सर्वलोकरजोमलविमलाभेद्यव्यूहसंप्रतिपन्ना अवैवर्त्याप्रत्युदावर्त्यारम्भचित्ता रत्नपर्वतगुणालंकाराकम्प्यचित्ता अप्रतिष्ठितानालयचित्ता सर्वजगत्परित्राणाभिमुखचित्ता सर्वबुद्धसमुद्रदर्शनावितृप्तचित्ता सर्वबोधिसत्त्वबलाशयविशुद्धचित्ता महाज्ञानावभासव्यूहस्मृतिसागरसंवासचित्ता सर्वसत्त्वशोककान्तारसमतिक्रमणाय प्रतिपन्ना, सर्वसत्त्वदुःखदौर्मनस्यविनिवर्तनायाभियुक्ता, सर्वसत्त्वानां नामरूपशब्दगन्धरसस्पर्शसमुदाचारविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानां प्रियाप्रियविप्रयोगसंप्रयोगदुःखव्युपशमाय प्रतिपन्ना, सर्वसत्त्वानां विषयप्रत्ययसंभवसंमोहदुःखविनिवर्तनप्रयुक्ता, विनिपतितसर्वसत्त्वप्रतिशरणभूता सर्वसत्त्वसंसारसंवासदुःखनिःसरणसंदर्शनाभियुक्ता, सर्वसत्त्वानां जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानामनुत्तरतथागतसुखपरिनिष्पत्तये प्रतिपन्ना, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीगतानां सत्त्वानां सुखोपस्थानेन तुष्टिं विन्दामि, तेषां च धार्मिकीं रक्षावरणगुप्तिं संविदधामि / अनुपूर्वेण च तान् सर्वज्ञतायां परिपाचयामि / यदुत महाभवनविमानगतानां सत्त्वानामनभिरतिं संजनयामि / तानि तानि च दौर्मनस्यानि व्यपनयामि / सर्वाभिनिवेशव्यवच्छेदाय सर्वधर्मस्वभावपरिज्ञायै च धर्मं देशयामि /

मातापितृभ्रातृभगिनीज्ञातिसालोहितसमवधानगतानां सत्त्वानां चिरकालसंजातस्नेहानां बुद्धबोधिसत्त्वसमवधानप्रतिलाभाय धर्मं देशयामि / भार्यापुत्रसमवधानगतानां (gv 221) सत्त्वानां सर्वसंसाररतितृष्णाप्रहाणाय सर्वसत्त्वसमचित्ततायै महाकरुणाप्रतिलाभाय धर्मं देशयामि / अन्तरापणमध्यगतानां सत्त्वानामार्यसंघतथागतदर्शनसमवधानसमवसरणतायै धर्मं देशयामि / भोगमदमत्तानां सत्त्वानां क्षान्तिपारमितापरिपूरणाय धर्मं देशयामि / नृत्तगीतवाद्याभिरतानां सत्त्वानां धर्मारामरत्यै धर्मं देशयामि / विषयरतिगृद्धानां सत्त्वानां तथागतविषयसमवसरणतायै धर्मं देशयामि / क्रोधाविष्टानां सत्त्वानां क्षान्तिपारमिताप्रतिष्ठापनतायै धर्मं देशयामि / कुसीदानां सत्त्वानां वीर्यपारमितापरिशुद्धये धर्मं देशयामि / विभ्रान्तचित्तानां सत्त्वानां तथागतध्यानपारमिताप्रतिलाभाय धर्मं देशयामि / दृष्टिकृतगहनप्रस्कन्नानां सत्त्वानामविद्यान्धकारपतितानां दृष्टिकृतगहनाविद्यान्धकारविनिवर्तनतायै धर्मं देशयामि / दुष्प्रज्ञानां सत्त्वानां प्रज्ञापारमिताप्रतिलाभाय धर्मं देशयामि / त्रैधातुकाभिनिविष्टानां सत्त्वानां संसारदुःखनिःसरणाय धर्मं देशयामि / हीनाधिमुक्तानां सत्त्वानां तथागतबोधिप्रणिधानपरिपूरये धर्मं देशयामि / आत्महितप्रयुक्तानां सत्त्वानां सर्वसत्त्वहितावहनप्रणिधानपरिपूरये धर्मं देशयामि / दुर्बलाध्याशयानां सत्त्वानां बोधिसत्त्वबलपारमिताविशुद्धये धर्मं देशयामि / अविद्यातमोन्धकारचेतसां सत्त्वानां बोधिसत्त्वज्ञानपारमिताविशुद्धये धर्मं देशयामि /

विरूपकायानां सत्त्वानां तथागतरूपकायविशुद्धये धर्मं देशयामि / विसंस्थितशरीराणां सत्त्वानामनुत्तरधर्मकायविशुद्धये धर्मं देशयामि / दुर्वर्णानां सत्त्वानां सूक्ष्मतथागतसुवर्णवर्णच्छवितायै काचिलिन्दिकसुखसंस्पर्शशरीरताविशुद्धये धर्मं देशयामि / दुःखितानां सत्त्वानामत्यन्ततथागतसुखप्रतिलाभाय धर्मं देशयामि / सुखितानां सत्त्वानां सर्वज्ञतासुखप्रतिलाभाय धर्मं देशयामि / ग्लानानामातुराणां सत्त्वानां प्रतिभासोपमबोधिसत्त्वकायपरिनिष्पत्तये धर्मं देशयामि / विचित्ररतिप्रसक्तानां सत्त्वानां बोधिसत्त्वचर्यारतिप्रतिलाभाय धर्मं देशयामि / दरिद्राणां सत्त्वानां बोधिसत्त्वधर्मनिधानकोशप्रतिलाभाय धर्मं देशयामि / उद्यानगतानां सत्त्वानां बुद्धधर्मपर्येष्ट्यभियोगाहेतुतायै धर्मं देशयामि / मार्गगतानां सत्त्वानां सर्वज्ञतामार्गप्रतिपत्तये धर्मं देशयामि / ग्रामगतानां सत्त्वानां सर्वत्रैधातुकनिःसरणतायै धर्मं देशयामि / जनपदप्रदेशगतानां सत्त्वानां श्रावकप्रत्येकबोधिमार्गसमतिक्रमाय तथागतभूमिप्रतिष्ठापनतायै धर्मं देशयामि / नगरगतानां सत्त्वानां धर्मराजनगरावभासनतायै धर्मं देशयामि / विदिग्गतानां सत्त्वानां त्र्यध्वसमताज्ञानप्रतिलाभाय धर्मं देशयामि / दिग्गतानां सत्त्वानां सर्वधर्मज्ञानाभिज्ञतायै धर्मं देशयामि / एकान्तरागचरितानां सत्त्वानामशुभमुखेन सर्वसंसाररतितृष्णाविनिवर्तनतायै धर्मं देशयामि / दोषचरितानां सत्त्वानां महामैत्रीनयसागरावतरणतायै धर्मं देशयाति /

मोहचरितानां सत्त्वानां सर्वधर्ममुखसमुद्रप्रविचयज्ञानाभिज्ञतायै धर्मं देशयामि / समभागचरितानां सत्त्वानां सर्वयानप्रणिधाननयसागरवैशेषिकतायै धर्मं देशयामि / संसारविषयरत्याशयानां सत्त्वानां संसारविषयरतिविनिवर्तनतायै धर्मं देशयामि / सर्वसंसारदुःखस्पृष्टानां सत्त्वानां सर्वसंसारदुःखानुपक्लिष्टतायै धर्मं देशयामि / (gv 222) तथागतवैनयिकानां सत्त्वानामनुत्पादपदसंप्रकाशनतायै धर्मं देशयामि / स्कन्धनिकेताशयानां सत्त्वानामनालयधर्मगोचरविहारतायै धर्मं देशयामि / संलीनाशयानां सत्त्वानां मार्गव्यूहविशेषसंप्रकाशनतायै धर्मं देशयामि / अधिमानप्राप्तानां सत्त्वानां सर्वधर्मसमताक्षान्तिं संप्रकाशयामि / मायाशाठ्यविषयाशयानां सत्त्वानां बोधिसत्त्वाशयपरिशुद्धिं संप्रकाशयामि //

एवमहं कुलपुत्र सर्वसत्त्वान् धर्मदानेन संगृह्य सर्वदुःखदुर्गतिपथेभ्यो विनिवर्तयमाना देवमनुष्यसंपत्तिसुखानि संदर्शयमाना त्रैधातुकादुच्चालयमाना सर्वज्ञतायां प्रतिष्ठापयमाना विविधैरुपायमुखैः परिपाचयमाना महाप्रीतिवेगसमुद्रावभासप्रतिलब्धा मोदामि, प्रमोदामि, आत्तमनस्का भवामि / अपि तु खलु पुनरहं कुलपुत्र सर्वदिग्विदिक्षु बोधिसत्त्वपर्षन्मण्डलसमुद्रानवलोकयमाना नानाप्रणिधानचरितानां बोधिसत्त्वानां नानाकायविशुद्धानां नानाप्रभामण्डलव्यूहानामनन्तवर्णरश्मिप्रभामण्डलं प्रमुञ्चमानानां नानासर्वज्ञतानयसागरप्रसृतज्ञानालोकानां नानासमाधिसमुद्रावतीर्णानां नानाविकुर्वितविषयाणां नानास्वराङ्गरुतसागरनिर्घोषाणां नानाभरणविभूषितशरीराणां नानातथागतनयावतीर्णानां नानाक्षेत्रसमुद्रप्रसरप्रसृतशरीराणां नानाबुद्धसागरावतीर्णानां नानाप्रतिसंविन्नयसागरावतीर्णानां नानातथागतविमोक्षज्ञानविषयावभासितानां नानाज्ञानसागरावभासप्रतिलब्धानां नानासमाधिसमुद्रनयविहारिणां नानाधर्मविमोक्षविनयविक्रीडितविषयाणां नानासर्वज्ञताद्वाराभिमुखानां नानाधर्मधातुगगनव्यूहानां नानाव्यूहमेघगगनस्फरणानां नानापर्षन्मण्डलसमुद्रव्यवलोकयितॄणां नानाप्रीतिवेगलोकधातुसंनिपतितानां नानाबुद्धक्षेत्रप्रसरानुसृतानां नानादिक्सागरसंनिपतितानां तथागतसंप्रेषितानां नानातथागतपादमूलोच्चलितानां नानाबोधिसत्त्वगणपरिवाराणां नानाव्यूहमेघप्रवर्षणानां नानातथागतनयावतीर्णानां नानातथागतधर्मसागरविचाराणां नानाज्ञानसमुद्रावतीर्णानां नानाव्यूहगर्भावभासननिषण्णानां नानाप्रीतिवेगसमुद्रान् संजनयामि / ते नानाप्रीतिवेगसमुद्रसंजातास्तथागतपर्षन्मण्डलसमुद्रानवतरन्ति पश्यन्ति विचारयन्ति / तेषां तथागतबलाप्रमाणतामनुविचिन्तयतां महाप्रीतिवेगसमुद्राः संभवन्ति //

अपि तु खलु पुनरहं कुलपुत्र भगवतो वैरोचनस्य लक्षणप्रतिमण्डितामचिन्त्यां रूपकायपरिशुद्धिमवतरमाणा लभामि उदारप्रीतिप्रसादप्रामोद्यम् / प्रतिचित्तक्षणमनन्तमध्यवर्णसमुद्रसंदर्शनधर्मधातुविपुलं प्रभासमण्डलमवलोकयमाना चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरादनन्तमध्यबुद्धक्षेत्रपरमाणुरजःसमान् महारश्मिसमुद्रान् निश्चरमाणान्, एकैकां च रश्मिमनन्तबुद्धक्षेत्रपरमाणुरजःसमरश्मिसमुद्रपरिवारां सर्वबुद्धधर्मधातुस्फरणां सर्वसत्त्वदुःखानि प्रशमयमानां दृष्ट्वा चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य उत्तमाङ्गादंसकूटाभ्यां च प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वरत्नार्चिःपर्वतमेघान् निश्चरमाणान् सर्वधर्मधातुस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमवर्णान् नानागन्धरश्मिमेघान्निश्चरमाणान् सर्वबुद्धक्षेत्रस्फरणान् दृष्ट्वा उदारान् प्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयामाना प्रतिचित्तक्षणमेकैकस्माल्लक्षणात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् लक्षणमण्डितांस्तथागतविग्रहमेघान् निश्चरमाणान् सर्वलोकधातुसमुद्रस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्मादनुव्यञ्जनात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमानशीत्यनुव्यञ्जनोज्ज्वलांस्तथागतनिर्मितकायमेघान् निश्चरमाणान् सर्वबुद्धक्षेत्रसमुद्रस्फरणान् सर्वतथागतधर्मचक्रनिर्घोषनिगर्जनान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धविकुर्वितमेघान् सप्रथमचित्तोत्पादान् सषट्पारमितामार्गविशुद्धिव्यूहान् सबोधिसत्त्वभूम्याक्रमणविकुर्वितान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे /

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात्प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् देवेन्द्रकायमेघान् निश्चरमाणान् सर्वलोकधातुस्फरणान् सदेवेन्द्रविकुर्वितान् देवेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात् प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान्नागेन्द्रकायमेघान् सनागेन्द्रविकुर्वितान् नागेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभामि //

पुनरपरं कुलपुत्र तस्य भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् यक्षेन्द्रकायमेघान् सयक्षेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् यक्षेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गन्धर्वेन्द्रकायमेघान् सगन्धर्वेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् गन्धर्वेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानसुरेन्द्रकायमेघान्निश्चरमाणान् सासुरेन्द्रविकुर्वितानसुरेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा सर्वधर्मधातुगतानां सत्त्वानां धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गरुडेन्द्रकायमेघान्निश्चरमाणान् सगरुडेन्द्रविकुर्वितान् गरुडेन्द्रकायसंदर्शनवैनयिकानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमकूपादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् किन्नरेन्द्रकायमेघान् निश्चरमाणान् सकिन्नरेन्द्रविकुर्वितान् किन्नरेन्द्रकायसंदर्शनविनयानां सत्त्वानां धर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् महोरगेन्द्रकायमेघान् निश्चरमाणान् समहोरगेन्द्रविकुर्वितान् महोरगेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् मनुष्येन्द्रकायमेघान्निश्चरतः समनुष्येन्द्रविकुर्वितान् मनुष्येन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मां देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् ब्रह्मेन्द्रकायमेघान्निश्चरतः सब्रह्मेन्द्रविकुर्वितान् ब्रह्मेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा ब्रह्मस्वररुतनिर्घोषेण धर्मं देशयमानान् दृष्ट्वा उदारान् धर्मधातुविपुलांश्चित्तक्षणे चित्तक्षणे सर्वज्ञतासहगतान् महाप्रीतिवेगसमुद्रान् प्रतिलभे //

न च प्रतिलब्धपूर्वान् प्रतिलभे / नाधिगतपूर्वानधिगच्छामि / नावतीर्णपूर्वानवतरामि / न स्फूटपूर्वान् स्फरामि / न दृष्टपूर्वान् पश्यामि / न च श्रुतपूर्वान् शृणोमि / तत्कस्य हेतोः? किंचापि धर्मस्वभावलक्षणपरिज्ञेयाः सर्वधर्माः, एकलक्षणास्त्रयध्वपथावताराः पुनरनन्तमध्यनिर्देशाः सर्वधर्माः //

अयमस्य कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षनयसमुद्रस्यावभासः / अपि तु अनन्तमध्यः खल्वेष विमोक्षो धर्मधातुनयसमुद्रावतारणत्वात् / अक्षय (gv 225) एष विमोक्षः सर्वज्ञताचित्तोत्पादासंभिन्नत्वात् / अपर्यन्त एष विमोक्षो बोधिसत्त्वचक्षुर्विज्ञेयत्वात् / अतुल एष विमोक्षो ऽसंभिन्नधर्मधातुनयतलस्फरणत्वात् / समन्तमुख एष विमोक्ष एकारम्बणसर्वविकुर्वितसमवसरणत्वात् / अमोघ एष विमोक्षः सर्वधर्मशरीराद्वयसमुदाचारत्वात् / अनुत्पन्न एष विमोक्षो मायोपमसमुदाचारत्वात् / प्रतिभासोपम एष विमोक्षो सर्वज्ञताप्रणिधानप्रतिभाससंभूतत्वात् / निर्मितोपम एष विमोक्षो बोधिसत्त्वचर्यासुनिर्मितत्वात् / महापृथिवीसदृश एष विमोक्षः सर्वजगत्प्रतिशरणत्वात् / अप्स्कन्धोपम एष विमोक्षः सर्वजगन्महाकरुणाभिष्यन्दनतया / तेजःस्कन्धोपम एष विमोक्षः सर्वसत्त्वतृष्णास्नेहपर्यादानतया / वायुस्कन्धोपम एष विमोक्षः सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनतया / सागरोपम एष विमोक्षः सर्वजगद्गुणालंकारालयत्वात् / मेरुपर्वतराजोपम एष विमोक्षः सर्वधर्मज्ञानरत्नसमुद्राभ्युद्गतत्वात् / व्यूहनयवातमण्डलसदृश एष विमोक्षः सर्वधर्मविमोक्षविधिव्यूहनतया / गगनोपम एष विमोक्षस्त्रध्वप्राप्तसर्वतथागतविकुर्वितावकाशत्वात् / महामेघोपम एष विमोक्षः सर्वसत्त्वाभिमुखधर्ममेघाभिप्रवर्षणत्वात् / आदित्योपम एष विमोक्षः सर्वसत्त्वाज्ञानतमोन्धकारविधमनतया / चन्द्रोपम एष विमोक्षो महापुण्यज्ञानसमुद्रसुसमार्जितत्वात् / तथागतोपम एष विमोक्षः सर्वत्रानुगतत्वात् /

स्वच्छायोपम एष विमोक्षः कर्मधर्मसुनिर्मितत्वात् / प्रतिश्रुत्कोपम एष विमोक्षो यथाधिमुक्तसर्वधर्मनिर्घोषनिगर्जनतया / प्रतिभासोपम एष विमोक्षो यथाशयसर्वसत्त्वविज्ञापनतया / द्रुमराजोपम एष विमोक्षः सर्वबुद्धविकुर्वितसंकुसुमितत्वात् / वज्रोपम एष विमोक्षो ऽभेद्यधर्मत्वात् / चिन्ताराजमणिरत्नोपम एष विमोक्षो ऽनन्तमध्यविकुर्वितसमुद्राभिनिर्हरणतया / विमलगर्भमणिराजोपम एष विमोक्षः सर्वत्र्यध्वतथागतविकुर्वितविज्ञप्त्यनावरणतया / नन्दिध्वजमणिरत्नोपम एष विमोक्षः सर्वबुद्धधर्मचक्रसमतानिर्घोषत्वात् / एवमपरिमाणोपमोपन्यासानुगमनिर्देशो बतायं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः //

अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामेतदवोचत् - कथं प्रतिपद्यमानस्य देवते बोधिसत्त्वस्य अयमेवंरूपो विमोक्षः संपद्यते? आह - दशेमे कुलपुत्र बोधिसत्त्वानां महासंभारा महावितानधर्मा महाविस्फारा महाद्युतयो महावभासा महाप्रभावभासा महाभागा महाविभागा महासंभवा महाविभवाः, येषु प्रतिपद्यमानानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते / कतमे दश? यदुत दानं बोधिसत्त्वस्य यथाशयसर्वसत्त्वसमुद्रसंतोषणप्रसृतं महावितानधर्मः / शीलं बोधिसत्त्वस्य सर्वतथागतगुणसमुद्रावतारप्रतिपत्तिप्रसृतं महावितानधर्मः / क्षान्तिर्बोधिसत्त्वस्य सर्वधर्मस्वभावनिध्यप्तिप्रसृतं महावितानधर्मः / वीर्यं बोधिसत्त्वस्य सर्वज्ञतासमारम्भाविवर्त्यप्रसृतं महावितानधर्मः / ध्यानं बोधिसत्त्वस्य सर्वसत्त्वक्लेशप्रतापप्रशमनप्रसृतं महावितानधर्मः / प्रज्ञा बोधिसत्त्वस्य सर्वधर्मसमुद्रप्रज्ञाप्रसृता महावितानधर्मः / उपायो बोधिसत्त्वस्य सर्वसत्त्वसमुद्रपरिपाकविनयप्रसृतो (gv 226) महावितानधर्मः / प्रणिधानं बोधिसत्त्वस्य सर्वक्षेत्रसमुद्रप्रसृतमपरान्तकोटीगतकल्पसर्वक्षेत्रबोधिसत्त्वचर्यावतरणतायै महावितानधर्मः / बलं बोधिसत्त्वस्य सर्वधर्मधातुनयसमुद्रप्रसृतं सर्वक्षेत्रेषु प्रतिक्षणमभिसंबोधिदर्शनाप्रतिप्रस्रब्धये महावितानधर्मः / ज्ञानं बोधिसत्त्वस्य तथागतबलप्रसृतं त्र्यध्वसर्वधर्मानावरणज्ञानविज्ञप्तये महावितानधर्मः / इमे कुलपुत्र दश बोधिसत्त्वानां महासंभारां महावितानधर्माः, येषु प्रतिष्ठितानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते, विशुध्यति संभवति संवर्धते समुदेति प्रादुर्भवति संवर्तते सारीभवति विपुलीभवति परिनिष्पद्यते संतिष्ठते //

सुधन आह - कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? सा अवोचत् - अस्ति कुलपुत्र अस्य कुसुमतलगर्भव्यूहालंकारस्य लोकधातुसमुद्रस्य पूर्वेण दशलोकधातुसमुद्रसहस्राण्यतिक्रम्य परेण सर्वरत्नविमलप्रभाव्यूहो नाम लोकधातुसमुद्रः / तस्य मध्ये सर्वतथागतप्रभाप्रणिधिनिर्घोषो नाम लोकधातुवंशः / तस्य मध्ये कनकविमलप्रभाव्यूहो नाम लोकधातुः सर्वरत्नमेघविचित्र अधोलोकधातौ सर्वरत्नहारजालसागरप्रतिष्ठितः सर्वगन्धवज्रमणिराजव्यूहशरीरः कूटागारपरिणाहसंस्थानो विशुद्धो ऽसंक्लिष्टः दिव्यविमानभवनमेघसंछादितः / तत्र समन्तावभासध्वजो नाम कल्पः / तस्मिन् लोकधातौ सर्वरत्नगर्भविचित्राभो नाम बोधिमण्डो ऽभूत् / तत्र भगवानविवर्त्यधर्मधातुनिर्घोषो नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / अहं च तेन कालेन तेन समयेन तस्मिन् बोधिवृक्षे पुण्यप्रदीपसंपत्केतुप्रभा नाम बोधिमण्डदेवता अभूवम् / तया मे तस्य तथागतस्य अभिसंबोधिविकुर्वितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / तस्य च मे तथागतस्य सहदर्शनेन तथागतगुणसमुद्रावभासो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तस्मिन्नेव लोकधातौ समन्तसंपूर्णश्रीगर्भायां राजधान्यां तत्रैव बोधिमण्डे धर्मद्रुमपर्वततेजो नाम तथागतो ऽभिसंबुद्धः / अहं च ततश्च्युत्वा तत्रैव बोधिमण्डे ज्ञानश्रीपुण्यप्रभा नाम रात्रिदेवता अभूवम् /

तया मे तस्य भगवतो धर्मद्रुमपर्वततेजस्तथागतस्य धर्मचक्रप्रवर्तनविकुर्वितं दृष्ट्वा सर्वजगत्संदर्शनसमतावभासविषयो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे सर्वधर्मसागरनिर्घोषराजो नाम तथागत आरागितः / तस्य मे सहदर्शनेन सर्वधर्मभूमिसंवर्धनस्थानो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे रत्नरश्मिप्रदीपध्वजराजो नाम तथागत आरागितः, तस्य मे सहदर्शनेन समन्तवृक्षप्रभमेघो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे गुणसुमेरुप्रभतेजो नाम तथागत आरागितः / तस्य मे सहदर्शनेन बुद्धसमुद्रावभासो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे धर्ममेघनिर्घोषराजो नाम तथागत आरागितः / तस्य मे सहदर्शनेन धर्मसागरप्रदीपो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानोल्कावभासराजो नाम तथागत आरागितो देवकन्याभूतया / तस्य मे सहदर्शनेन सर्वसत्त्वदुःखप्रशमनप्रतिभासप्रदीपो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे (gv 227) धर्मविकुर्वितवेगध्वजश्रीर्नाम तथागत आरागितः / तस्य मे सहदर्शनेन त्र्यध्वतथागतसंप्रस्थानावभासगर्भो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे धर्मप्रदीपविक्रमज्ञानसिंहो नाम तथागत आरागितः / तस्य मे सहदर्शनेन सर्वलोकाप्रतिहतज्ञानचक्रप्रभतेजो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानबलपर्वततेजो नाम तथागत आरागितः /

तस्य मे सहदर्शनेन त्र्यध्वसर्वसत्त्वचर्येन्द्रियप्रभासो नाम समाधिः प्रतिलब्धः / इति हि कुलपुत्र तस्मिन् समये मया कनकविमलप्रभे लोकधातौ तस्मिन् समन्तावभासध्वजकल्पे दशबुद्धक्षेत्रपरमाणुरजःसमाः तथागता आरागिताः / केचिद्देवेन्द्रभूतया केचिन्नागेन्द्रभूतया केचिद्यक्षेन्द्रभूतया केचिद्गन्धर्वेन्द्रभूतया केचिदसुरेन्द्रभूतया केचिद्गरुडेन्द्रभूतया केचित्किन्नरेन्द्रभूतया केचिन्महोरगेन्द्रभूतया केचिन्मनुष्येन्द्रभूतया केचिद्ब्रह्मेन्द्रभूयता केचिद्देवभूतया केचिन्मनुष्यभूतया केचित्स्त्रीभूतया केचित्पुरुषभूतया केचिद्दारकभूतया केचिद्दारिकाभूतया आरागिताः / सर्वे च मे तथागताः पूजिता यथासंप्राप्तैः पूजापरिष्कारैः / सर्वे च ते तथागता उपस्थिताः / सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता //

सा अहं ततश्च्युत्वा तस्मिन्नेव लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा ततश्च्युत्वा इह कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे अस्मिन् सहालोकधातावुपपन्ना / तया मे भगवान् क्रुकुच्छन्दस्तथागत आरागितः / तस्य च मे सहदर्शनेन सर्वान्धकारविरजप्रतिभासो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं कनकमुनिस्तथागत आरागितः / तस्य च मे सहदर्शनेन सर्वक्षेत्रसागरावभासानुगतस्फरणो नाम समाधिः प्रतिलब्धः / तस्यानन्तरं काश्यपस्तथागतः आरागितः / तस्य च मे सहदर्शनेन सर्वसत्त्वमन्त्रसमुद्रनिगर्जनस्वरनिर्घोषो नाम समाधिः प्रतिलब्धः / तस्यानन्तरमयं भगवान् वैरोचनस्तथागत आरागितः / तद्बोधिमण्डे तथागताभिसंबोधिविकुर्वितमुखसमुद्रान् प्रतिचित्तक्षणे संदर्शयमानान् दृष्ट्वा मया एष विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भाद्दशबुद्धक्षेत्रानभिलाप्यानभिलाप्यपरमाणुरजःसमान् / सर्वधर्मधातुनयसमुद्रानवतीर्णा / तेषु च सर्वधर्मधातुनयसमुद्रान्तर्गतेषु सर्वबुद्धक्षेत्रेषु यानि सर्वपरमाणुरजांसि, तेषु एकैकस्मिन् परमाणुरजसि दशानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यवतीर्य पश्यामि / तेषु च सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे भगवन्तं वैरोचनं बोधिमण्डवरगतं प्रतिचित्तक्षणमभिसंबोधिविकुर्वितं संदर्शयमानानेकैकेन च अभिसंबोधिविकुर्वितेन सर्वधर्मधातुनयसागरान् स्फरन्तं पश्यामि / तेषां च सर्वतथागतानामेकैकस्य च तथागतस्य पादमूलगतमात्मानं संजाने /

ये च तेषु लोकधातुषु ते तथागता बोधिमण्डगता धर्मं देशयन्ति, तं सर्वं शृणोमि / ये च तेषां सर्वतथागतानां निर्माणसमुद्राः सर्वरोमविवरेभ्यो निश्चर्य धर्ममेघसमुद्रान् निगर्जमानान् नानाविकुर्वितानि संदर्शयमानान् (gv 228) सर्वधर्मधातुदिक्समुद्रान्तर्गतेषु क्षेत्रसमुद्रेषु सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वसत्त्वप्रसरेषु नानागत्युपपन्नेषु सत्त्वाशयवशेन नानासंज्ञागतैर्धर्मचक्रं प्रवर्तयन्ति, तं सर्वं संधारयामि, प्रतिपद्ये, निध्यायामि / सर्वार्थपदव्यञ्जनोद्ग्रहवेगविक्रमया धारण्या उद्गृह्णामि सर्वधर्ममण्डलविशुद्धिगर्भानुगमया प्रज्ञया परिशोधयामि / सर्वधर्मसागरप्रविचयाभिज्ञया गत्यानुगच्छामि / त्र्यध्वविपुलया बुद्ध्या स्फरामि / तथागतसमतानुगामिन्या प्रज्ञया सामीकरोमि / सर्वधर्मनयानभिनिर्हरामि / सर्वधर्ममेघेषु सूत्रान्तमेघानभिनिर्हरामि / सर्वसूत्रान्तमेघेषु धर्मसमुद्रान् परिसंस्थापयामि / सर्वधर्मसमुद्रेषु धर्मपरिवर्तान् समवसरामि / सर्वधर्मपरिवर्तेषु धर्ममेघान् संजाने / सर्वधर्ममेघेषु धर्मोर्मीन् संजनयामि / सर्वधर्मोर्मिषु धर्मप्रीतिवेगसागरान् प्रतिलभे / सर्वधर्मप्रीतिवेगसागरेषु भूमिप्रतिलम्भवेगानभिनिर्हरामि / सर्वभूमिवेगेषु समाधिसमुद्रवेगानभिनिर्हरामि / सर्वसमाधिसमुद्रमेघेषु बुद्धदर्शनसमुद्रान् प्रतिलभे / सर्वबुद्धदर्शनसमुद्रेष्ववभाससमुद्रान् प्रतिलभे /

सर्वावभाससमुद्रेषु त्र्यध्वज्ञानमण्डलभूमीः परिसंस्थापयामि अनन्तमध्यदिक्सागरस्फरणयोगेन, अप्रमेयतथागतपूर्वान्तचर्यासमुद्रावतरणयोगेन, अप्रमेयतथागतपूर्वयोगसमुद्रज्ञानावभासयोगेन, अप्रमेयतथागतज्ञानालोकप्रतिलम्भयोगेन, अप्रमेयतथागतशीलमण्डलपरिशुद्ध्यवभासयोगेन, अप्रमेयतथागतक्षान्तिभूमिपरिशोधनयोगेन, अप्रमेयतथागतमहावीर्यवेगविवर्धनविक्रमज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतध्यानमण्डलध्यानागमसमुद्रपरिशुद्धिप्रयोगावभासप्रतिलम्भयोगेन, अप्रमेयतथागतप्रज्ञापारमितानयसागरपरिशुद्धिविज्ञप्त्यवभासयोगेन, अप्रमेयतथागतोपायकौशल्यपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतप्रणिधानपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतपुण्यज्ञानबलपारमितासंवर्धनसंवसनज्ञानप्रतिलम्भयोगेन, अप्रमेयतथागतज्ञानपारमितानयसागरविचारप्रलम्भयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूम्याक्रमणज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतभूम्याक्रमणसंधिविकुर्वितकल्पसागरसंवसनयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूमिमण्डलाक्रमणयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिसंवसनयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिपरिशोधनयोगेन, अप्रमेयतथागतज्ञानसागरविचारणयोगेन, अप्रमेयतथागतज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धदर्शनानुबन्धविज्ञप्तियोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धसमुद्रदर्शनकल्पसमुद्रसंवासयोगेन,

अप्रमेयतथागतपूर्वबोधिसत्त्वभूताशेषक्षेत्रसमुद्रस्फरणकायाभिनिर्हारज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलपूर्वबोधिसत्त्वचर्यानवशेषधर्मधातुस्फरणयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वचर्यानानोपायसुखसर्वसत्त्वपरिपाचनविनयसंदर्शनयोगेन, अप्रमेयतथागतसर्वदिक्समुद्रानवशेषप्रभाप्रसरस्फरणयोगेन, अप्रमेयतथागतसत्त्वाभिमुखविकुर्वितसंदर्शनयोगेन, अप्रमेयतथागतभूम्याक्रमणज्ञानावभासयोगेन, अप्रमेयतथागताभिसंबोधिविकुर्वणज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतधर्मचक्रप्रवर्तनसर्वधर्ममेघानवशेषसंप्रतीच्छनसंधारणयोगेन, अप्रमेयतथागतलक्षणसमुद्रविज्ञप्तिज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतकायसमुद्रसमुदाचारविज्ञप्त्यवभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलविषयज्ञानावभासप्रतिलाभयोगेन /

(gv 229) तेषां च तथागतानां प्रतिचित्तक्षणं प्रथमचित्तोत्पादमादाय यावत्सद्धर्मान्तर्धानं सर्वमवतरामि //

यत्पुनरेवं वदसि - कियच्चिरप्रतिलब्धस्त्वयायं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्ष इति / यन्मया विबुद्धक्षेत्रपरमाणुरजःसमानां बुद्धकल्पानां परेण कनकविमलप्रभायां लोकधातौ पुण्यप्रदीपसंपत्समन्तकेतुप्रभा बोधिवृक्षदेवता अभूत्, तया अवैवर्त्यधर्मधातुनिर्घोषस्य तथागतस्य धर्मदेशनां श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तान् विबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा इह सहायां लोकधातावुपपद्य क्रकुच्छन्दप्रमुखाः शाक्यमुनिपर्यवसाना भद्रकल्पिकास्तथागता आरागिताः / अनागतांश्च सर्वानारागयिष्यामि / यथेह लोकधातौ, तथा सर्वलोकधातुष्वनागतान् बुद्धवंशानारागयिष्यामि, पूजयिष्यामि / अद्यापि हि कुलपुत्र सा कनकविमलप्रभा लोकधातुस्तिष्ठति अच्छिन्नबुद्धवंशः / तस्मात्तर्हि कुलपुत्र इह नये महता बोधिसत्त्वविक्रमेण प्रयोक्तव्यम् //

अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

शृणु सूधना वचनमेतु ममा यथयं विमोक्ष प्रतिलब्धु शुभम् / श्रुत्वा च प्रीतिबलु संजनिया एतं विमोक्षनयमोतरहि // 1 //

बहु कल्पसागर पुरा चरिता चित्ताशयं स्वकु विशोधयति / अधिमुक्तिवेग विपुलां जनिया सर्वज्ञज्ञाननगराभिमुखम् // 2 //

श्रुत्वा त्रियध्वपरमा सुगतानधिमुक्ति तेषु विपुलां जनिय / सर्वैः सुखैः सपरिवार मया ते उपस्थिताः सबहुकल्पशतान् // 3 //

दृष्ट्वा मया पुरिमकाः सुगताः संपूजिता जनहिताय चरन् / धर्मश्च मे निरुपमो ऽयु श्रुतः प्रीतिबलं विपुलं संजनिया // 4 //

माता पिता गुरुजनः सततं मय सत्कृता हितसुखेन तदा / उपस्थानु गौरवस्थिताय कृतं एतं विमोक्षनयमोतरमाणा // 5 //

जीर्णातुरा धनविहीन नरा विकलेन्द्रिया दुखि अनाथ बहू / ते मे सुखे स्थपिय मैत्रमना सुधना सनाथ कृत जातिशतान् // 6 // राजाग्नितस्करजलप्रभवा सिंहद्विपा हि परशत्रुभयात् / विविधैर्भयैर्भवसमुद्रगता मय त्रायिता विचरतीय पुरा // 7 //

क्लेशप्रतापित सदा त्रिभवे कर्मैः प्रभावित तथा अशुभैः / संसारपर्वतप्रपातगता मय त्रायिता भवगतीषु प्रजा // 8 //

ये दुःखदुर्गतिप्रपातभयाः तीव्रा निरन्तरखरा सुबहू / जातीजरामरणरोगभया लोके मया शमित ते निखिला // 9 //

संसारतीव्रदुखसंशमनं सत्त्वान् सर्वसुखसंजननम् / अत्यन्तबुद्धसुखसंजननं अपरान्तकल्प प्रणिधानु मम // 10 //

एतमहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं जानामि / किं मया शक्यं सर्वधर्मधातुनयसागरावतीर्णानां बोधिसत्त्वानामाध्यात्मिकबाह्यनिरवशेषदुःखविप्रमुक्तानां सर्वकल्पसंज्ञागतज्ञानप्रतिलब्धानां सर्वलोकधातुसमुद्रसंभवविभवज्ञानवकुशलानां चर्यां ज्ञातुं गुणान् वा वक्तुम् //

गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे भगवतो वैरोचनस्य पर्षन्मण्डले सर्वनगररक्षासंभवतेजःश्रीर्नाम रात्रिदेवता / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् //

अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरध्यभाषत -

कल्याणमित्रेण समानुशिष्टे उपागतस्तुभ्य सकाशु देवि / पश्यामि ते आसनु संनिषण्णा अनन्तमध्येन समुच्छ्रयेण // 11 //

न वर्णसंस्थाननिमित्तगोचरैर्भवाश्रितैर्नापि च भावसंज्ञिभिः / न हीनसत्त्वैर्विपरीतदर्शिभिः शक्यस्तव ज्ञातुमयं हि गोचरः // 12 //

ज्ञातुं न लोकेन सहदेवकेन त्वद्वर्णरूपस्य निमित्त शक्यम् / कल्पाननन्तान् समुदीक्षतापि तथा हि ते रूपमनन्तदर्शनम् // 13 //

स्कन्धालयादुच्चलितासि देवि प्रतिष्ठिता नायतनेषु च त्वम् / लोकव्यतीता च वितीर्णकाङ्क्षा संदृश्यसे लोकि विकुर्वमाणा // 14 //

अनिञ्जप्राप्तास्यनघा असङ्गा विशोधितं ते वरज्ञानचक्षुः / रजःपथे सर्वरजःप्रमाणान् येनेक्षसे बुद्ध विकुर्वमाणान् // 15 //

कायो हि ते धर्मशरीरगर्भः चित्तं च ते ज्ञानमयं असङ्गम् / समन्तओभासप्रभासिता त्वमालोकु लोके जनयस्यनन्तम् // 16 //

चित्तादनन्तं समुदेति कर्म विचित्रितः कर्मण सर्वलोकः / चित्तस्वभावं च जगद्विदित्वा जगत्समान् दर्शयसि स्वकायान् // 17 //

स्वप्नोपमं लोकमिमं विदित्वा बुद्धांश्च सर्वान् प्रतिभासकल्पान् / धर्मान् प्रतिश्रुत्कसमानशेषानसज्जमाना जगति प्रवर्तसे // 18 //

त्र्यध्वस्थितस्यापि जनस्य देवि प्रतिक्षणं दर्शयसि स्वकायम् / द्वयप्रवृत्तिर्न च ते ऽस्ति चित्ते धर्मं वदस्येव च सर्वदिक्षु // 19 //

रजस्यनन्ता हि महासमुद्रा तथामिताः सत्त्वमहासमुद्राः / अनन्तमध्या सुगतार्णवाश्च विमोक्षचर्यस्य हि गोचरस्ते // 20 // अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिर्गाथाभिरभिष्टुत्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रशान्तरुतसागरवत्या रात्रिदेवताया अन्तिकात्प्रक्रान्तः // 36 // 39 सर्वनगररक्षासंभवतेजःश्रीः /

अथ खलु सुधनः श्रेष्ठिदारकस्तं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भावयन् संभावयन् प्रशान्तरुतसागरवत्या रात्रिदेवताया अववादानुशासनीमनुस्मरन्, निगमयन्, एकैकपदव्यञ्जनानेकनयाप्रमाणाशयं धर्मतानयज्ञानमनुस्मरन्, स्मृतावुपनिबध्नन्, मत्या प्रविचिन्वन्, गत्या अनुगच्छन्, बुद्ध्या विपुलीकुर्वन्, कायेन स्पृष्ट्वा विहरन्, अवतरन्, अनुप्रविशन्, अनुपूर्वेण येन सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता तेनोपसंक्रान्तः / सो ऽपश्यत् सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतां सर्वनगरभवनप्रभासमणिराजगर्भमहापद्मासने निषण्णामनभिलाप्यरात्रिदेवतापरिवारां सर्वदिक्सत्त्वजगदभिमुखेनकायेन सर्वजगद्रूपसमेन कायेन सर्वसत्त्वाभिमुखेन कायेन सर्वजगदनुलिप्तेन कायेन सर्वजगत्समशरीरेण कायेन सर्वजगदभ्युद्गतेन कायेन सर्वजगत्परिपाकविनयाकूलेन कायेन समन्तदिङ्निगर्जनेन कायेन सर्वजगदसंक्रान्तेन कायेन सर्वावरणात्यन्तसमुद्धाटितेन कायेन तथागतस्वभावेन कायेन सर्वजगद्विनयनिष्ठापर्यवसानेन कायेन //

दृष्ट्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह - अहं खलु देवते अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः / तद्वदस्व मे देवते कथं बोधिसत्त्वो बोधिसत्त्वचर्यायां चरन्नुपकारीभूतो भवति सत्त्वानाम् / कथं च सत्त्वाननुत्तरेण संग्रहेण संगृह्णाति / कथं बोधिसत्त्वस्तथागतानुज्ञातो बोधिसत्त्वकर्मणि प्रयुक्तो भवति, यथाप्रयुक्तस्य बोधिसत्त्वस्य आसन्नो भवति धर्मराजः / एवमुक्ते सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वं सर्वजगत्परिपाकविनयनिष्ठागमनतायै सर्वतथागतवंशसंधारणप्रयोगनिष्ठागमनतायै सर्वदिक्प्रसरस्फरणज्ञानप्रयोगतायै सर्वधर्मधातुनयसागरावतरणाभिमुखतायै आकाशसमतलानन्तज्ञानज्ञेयस्फरणतायै सर्वतथागतधर्मचक्रप्रतीच्छनसंधारणतायै यथाशयसर्वजगत्समुद्रधर्ममेघाभिप्रवर्षणचर्यानयं परिपृच्छसि / अहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशस्य बोधिसत्त्वविमोक्षस्य लाभिनी /

सा खलु पुनरहं कुलपुत्र अनेन विमोक्षेण समन्वागता असङ्गमहाधर्मभाणकपट्टबद्धाध्यालम्बनप्रयोगा सर्वतथागतधर्मकोशविश्राणनप्रणिधाना महाकरुणामैत्रीबलप्रतिलब्धा सर्वसत्त्वबोधिचित्तप्रतिष्ठापनतायै सर्वसत्त्वार्थक्रियासंप्रस्थिता अप्रतिप्रस्रब्धबोधिचित्तकुशलमूलसंभारोपचयाय सर्वजगत्सारथिभूमिसंप्रस्थिता सर्वसत्त्वानां सर्वज्ञतामार्गप्रतिष्ठापनतायै, सर्वलोके धर्ममेघधर्मसूर्यसंभवप्रयोगा अप्रमेयकुशलमूलप्रभवसर्वलोकावभासनतायै, सर्वजगत्समचित्तप्रसृताप्रतिप्रश्रब्धा सर्वजगत्कुशलमूलाभिसंस्कारसंमार्जनप्रयोगविज्ञानतायै, विशुद्धचित्तप्रयोगा सर्वकुशलकर्मपथप्रदक्षिणकर्मान्ततया सर्वसत्त्वसार्थवाहत्वाय संप्रस्थिता सर्वाकुशलकर्मपथप्रहीणा (gv 234) सर्वसत्त्वकुशलधर्मप्रतिष्ठापनकर्मप्रयोगा सर्वसत्त्वक्षेमगतिसंप्रदर्शनप्रयोगा सर्वसत्त्वयानव्यूहपूर्वंगमसंप्रस्थिता सर्वकुशलधर्मचक्रचरणसर्वसत्त्वप्रतिष्ठापनप्रयोगा सर्वकल्याणमित्राभेद्योपचरणाभिराधनसंप्रस्थिता सर्वसत्त्वतथागतशासनप्रतिष्ठापनप्रयोगा धर्मदानपूर्वंगमसर्वशुक्लधर्मसमारम्भप्रयोगा सर्वज्ञताचित्तोत्पादाभिजातदृढाभेद्याशया वज्रनारायणगर्भदृढबुद्धबलारम्बणविपुलचित्तमण्डला कल्याणमित्रमुपनिश्रित्य विहरामि / सर्वक्लेशकर्मावरणपर्वतविकिरणचित्ता सर्वज्ञतासंभारसमारम्भा सर्वशुक्लधर्मसमर्जनप्रयोगा अनन्तमध्यसर्वज्ञताभिमुखारम्बणचेतनाप्रयोगप्रयुक्ता //

सा खलु पुनरहं कुलपुत्र एवंरूपं सर्वसत्त्वविज्ञापनं धर्मालोकमुखं परिशोधयमाना कुशलमूलोपचयसंभारप्रत्युपस्थितां दशभिराकारैर्धर्मधातुं व्यवलोकयामि अनुगच्छामि प्रसरामि / कतमैर्दशभिः? यदुत अप्रमेयं धर्मधातुमनुगच्छामि विपुलज्ञानालोकप्रतिलाभेन / अनन्तमध्यधर्मधातुमनुगच्छामि सर्वतथागतविकुर्वितविज्ञप्तये / अपर्यन्तधर्मधातुमनुगच्छामि सर्वबुद्धक्षेत्राक्रमणतथागतपूजोपस्थानपरिपूरये / असीमाप्राप्तं धर्मधातुमवतरामि सर्वलोकधातुसमुद्रेषु बोधिसत्त्वचर्यासंदर्शनतायै / अव्यवच्छिन्नं धर्मधातुमवतरामि असंभिन्नतथागतज्ञानमण्डलावतरणतायै / एकोतीभावगतं धर्मधातुमवतरामि यथाशयसर्वसत्त्वविज्ञपनतथागतस्वरमण्डलावतरणतायै / स्वभावविमलं धर्मधातुमवतरामि सर्वजगद्विनयनिष्ठागतपूर्वप्रणिधाननिष्ठावतरणतायै / सर्वजगत्समतानुगतं धर्मधातुमवतरामि समन्तभद्रबोधिसत्त्वचर्याप्रसरप्रवेशाय / एकालंकारं सर्वधर्मधातुमवतरामि समन्तभद्रबोधिसत्त्वचर्याविकुर्वितालंकारावतरणतायै / अविनाशनं धर्मधातुमवतरामि सर्वकुशलधर्मधातुस्फरणविशुद्ध्यविनाशधर्मतायै / एभिरहं कुलपुत्र दशभिराकारैः सर्वधर्मधातुं व्यवलोकयामि अनुगच्छामि प्रसरामि सर्वकुशलमूलसंभारोपचयाय बुद्धमाहात्म्यावतरणतायै अचिन्त्यबुद्धविषयानुगमाय //

पुनरपरं कुलपुत्र अहमेवं तथागतमाहात्म्यानुगतैर्मनसिकारैर्दशभिर्धारणीमण्डलपरिवर्तसहस्रैः सत्त्वानां धर्मं देशयामि / कतमैर्दशभिः? यदुत सर्वधर्मसमुद्रसमवसरणेन च नाम्ना धारणीमण्डलेन / सर्वधर्माधिष्ठानेन च धारणीमण्डलेन / सर्वधर्ममेघसंप्रतीच्छनेन च धारणीमण्डलेन / सर्वतथागतस्मृतिप्रदीपेन च धारणीमण्डलेन / सर्वसत्त्वकर्मसमुद्रप्रदीपगर्भेण च धारणीमण्डलेन / सर्वयाननयसमुद्रविमलसमवसरणेन च धारणीमण्डलेन / सर्वतथागतनामचक्रावर्तनिर्घोषेण च धारणीमण्डलेन / त्र्यध्वबुद्धपूर्वनिर्वाणप्रणिधानसागरनिर्देशसमवसरणेन च धारणीमण्डलेन / सर्वधर्माभिमुखावर्तवेगेन च धारणीमण्डलेन / सर्वज्ञतावेशप्रभेण च नाम्ना धारणीमण्डलेन / एतानि च कुलपुत्र दश धारणीमण्डलानि प्रमुखं कृत्वा दशभिर्धारणीमण्डलपरिवर्तसहस्रैः सत्त्वानां धर्मं देशयामि //

पुनरपरं कुलपुत्र श्रुतमय्या प्रज्ञया सत्त्वानां धर्मं देशयामि, चिन्तामय्या भावनामय्या प्रज्ञया सत्त्वानां धर्मं देशयामि / एकमपि भवपरिवर्तमारभ्य सत्त्वानां धर्मं देशयामि / (gv 235) सर्वभवसमुद्रपरिवर्तानप्यारभ्य सत्त्वानां धर्मं देशयामि / एकस्यापि तथागतस्य नामचक्रसमुद्रमारभ्य धर्मं देशयामि / एकमपि लोकधातुसमुद्रमारभ्य धर्मं देशयामि / सर्वलोकधातुसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि बुद्धव्याकरणसमुद्रामारभ्य धर्मं देशयामि / सर्वतथागतव्याकरणसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि तथागतपर्षन्मण्डलसमुद्रमारभ्य धर्मं देशयामि / सर्वतथागतपर्षन्मण्डलसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि तथागतधर्मचक्रमारभ्य धर्मं देशयामि / सर्वतथागतधर्मचक्रसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि सूत्रान्तमारभ्य धर्मं देशयामि / सर्वतथागतधर्मचक्रसमवसरणानपि सूत्रान्तमारभ्य धर्मं देशयामि / एकमपि तथागतपर्षन्मण्डलसंनिपातमारभ्य धर्मं देशयामि / सर्वतथागतपर्षन्मण्डलसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि सर्वज्ञताचित्तमारभ्य धर्मं देशयामि / सर्वबोधिचित्ताङ्गसमुद्रानप्यारभ्य धर्मं देशयामि / एकमपि यानमारभ्य धर्मं देशयामि / सर्वयाननिर्याणसमुद्रानप्यारभ्य धर्मं देशयामि / एतत्प्रमुखैरहं कुलपुत्र अनभिलाप्यैर्देशनानयाभिनिर्हारैः सत्त्वानां धर्मं देशयामि / एवमहं कुलपुत्रं धर्मधातुनयासंभिन्नांस्तथागतसमुद्रानवतरमाणा सर्वसत्त्वानां धर्मदेशनया अनुत्तरधर्मसंग्रहं कुर्वाणा समन्तभद्रबोधिसत्त्वचर्यापरान्तकोटीगतान् कल्पसमुद्रान् संवसमाना एतन्मनोज्ञरूतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भावयामि एकैकचित्तक्षणविवर्धनेन विमोक्षविषयभावनानयेन / एकैकेन च विमोक्षविषयभावनानयेन प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरामि //

सुधन आह - आश्चर्यं देवते यावद्गम्भीर एष बोधिसत्त्वविमोक्षः / कियच्चिरप्रतिलब्धः त्वयायमार्ये बोधिसत्त्वविमोक्षः? आह - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि लोकधातुपरिवर्तपरमाणुरजःसमानां कल्पाणां परेण धर्मार्चिनगरमेघा नाम लोकधातुरभूत् चातुर्द्वीपलोकधातुपरमाणुरजःसमगन्धमणिसुमेरुजालप्रतिष्ठिता सर्वतथागतपूर्वप्रणिधाणनिर्घोषपद्मसंधिव्यूहा सर्वसत्त्वकर्मसमुद्रसंभूतमणिराजसागरशरीरा महापद्मसंस्थाना विशुद्धसंक्लिष्टा सुमेरुपरमाणुरजःसमपुष्पचक्रवालपरिवृता सुमेरुपरमाणुरजःसमगन्धमणिसुमेर्वभ्युद्गतालंकारा सुमेरुपरमाणुरजःसममहाचातुर्द्वीपिकालंकारा / एकैकस्यां चातुर्द्वीपिकायामनभिलाप्यानभिलाप्यनगरकोटीनियुतशतसहस्राण्यभूवन् //

तस्यां खलु कुलपुत्र लोकधातौ विमलप्रभो नाम कल्पो ऽभूत् सुमेरुपरमाणुरजःसमतथागतप्रभवः / तस्यां च धर्मार्चिनगरमेघायां लोकधातौ मध्यमा विचित्रध्वजा नाम चातुर्द्वीपिकाभूत् / तस्या मध्ये समन्तरत्नकुसुमप्रभा नाम राजधान्यभूत् / तस्या राजधान्या नातिदूरे धर्मराजभवनप्रतिभासो नाम बोधिमण्डो ऽभूत् / तत्र बोधिमण्डे सर्वधर्मसागरनिर्घोषप्रभराजो नाम तथागत उदपादि तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः / तेन च समयेन विमलवक्रभानुप्रभो नाम राजा अभूत् चक्रवर्ती / तेन तस्य भगवतः सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्यान्तिकात् सर्वधर्मसागरो नाम सूत्रान्त उद्गृहीतः / उद्गृह्य च धर्मचक्रमनुप्रवर्तितम् / परिनिर्वृतस्य च प्रव्रजित्वाशासनं संधारितम् / (gv 236) शासनान्तर्धानकाले च सहस्रधा भिन्ने शासने दशनयशतभिन्नायां धर्मदेशनायामनन्तरकल्पकषाये प्रत्युपस्थिते सर्वकर्मक्लेशावरणावृतानां सत्त्वानां कलहविग्रहविवादमापन्नानां भिक्षूणां च बुद्धशासनगुणानर्थिकानां विषयरतिपरायणानां राजचौरकथाभिरतानां स्त्रीजनपदसमुद्रकथाभिरतानां लोकायतमन्त्राभिरतानामुद्वेगसंजननार्थं धार्मिक उत्कासः कृतो ऽभूत् - अहो बतेयमनेककल्पसमुदानीता महाधर्मोल्का अन्तर्धास्यतीति संवेगजननीया कथा कृता / स ऊर्ध्वं गगनतले सप्ततालमात्रमभ्युद्गम्य अनन्तवर्णानर्चिमेघान्निश्चार्य नानावर्णान् महारश्मिजालव्यूहान् कायादुत्सृज्य अनेकवर्णया प्रभया लोके क्लेशतापं शमयित्वा अनन्तमध्यान् सत्त्वान् बोधौ प्रतिष्ठापयामास / तच्च तथागतशासनं पुनर्ज्वालयित्वा षष्टिवर्षसहस्राण्यस्थात् //

तेन च समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूत् तस्यैव विमलचक्रभानुप्रभस्य चक्रवर्तिनो दुहिता भिक्षुणीशतसहस्रपरिवारा / सा तं संवेगशब्दं श्रुत्वा तच्च महाप्रातिहार्यं दृष्ट्वा सपरिवारा बोधाय चित्तमुत्पादयामास / तच्च भिक्षुणीशतसहस्रमनुत्तरायां सम्यक्संबोधाववैवर्तिकमभूत् / तथागतसंमुखीभावसमवसरणं च नाम समाधिं प्रत्यलभत / सर्वतथागतधर्मचक्रनिर्माणप्रभं च नाम धारणी सर्वधर्मसागरनयप्रवेशां च नाम प्रज्ञापारमितां प्रत्यलभत / धर्मचक्रनिर्माणप्रभा च भिक्षुणी सर्वतथागतशासनसंभवावभासप्रदीपं च नाम समाधिम्, एतं च मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं च बोधिसत्त्वविमोक्षं सूक्ष्ममृदुकं प्रत्यलभत, यत्प्रतिलाभादस्य सर्वधर्मसागरनिर्घोषप्रभराजस्य तथागतस्य तत्सर्वं विकुर्वितमामुखीभूतम् //

तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजाभूच्चक्रवर्ती येन तत्सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासने प्रव्रजित्वा धर्मचक्रमनुप्रवर्तितम्, परिनिर्वृत्तस्य च शासनान्तर्धानकालसमये शासनं संधारितम्, महाधर्मोल्का च ज्वलिता? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् / समन्तभद्रो बोधिसत्त्वः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजा अभूच्चक्रवर्ती / तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभस्य राज्ञश्चक्रवर्तिनो धर्मचक्रनिर्माणप्रभा नाम दुहिता भिक्षुण्यभूद्भिक्षुणीशतसहस्रपरिवारा? न खल्वेवं द्रष्टव्यम् / अहं सा तेन कालेन तेन समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूवम्? मया तत्तस्य सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासनं संधारितम् / तच्च भिक्षुणीशतसहस्रं सर्वमवैवर्तिकं कृतमनुत्तरायां सम्यक्संबोधौ / तथागतसंमुखीभावसमवसरणे च समाधौ प्रतिष्ठापितम् / सर्वतथागतधर्मचक्रवज्रप्रभायां धारण्यां सर्वधर्मसागरनयप्रवेशायां च प्रज्ञापारमितायां प्रतिष्ठापितम् //

तस्य च मया तथागतस्यानन्तरं विमलधर्मपर्वतज्ञानशिखराभो नाम तथागत आरागितः / तस्यानन्तरं मण्डलावभासप्रभचूडो नाम तथागत आरागितः / तस्यानन्तरं धर्मभास्करश्रीमेघो नाम तथागत आरागितः / तस्यानन्तरं धर्मसागरनिर्देशघोषो नाम तथागत (gv 237) आरागितः / तस्यानन्तरं धर्मादित्यज्ञानमण्डलप्रदीपो नाम तथागत आरागितः / तस्यानन्तरं धर्मकुसुमकेतुध्वजमेघो नाम तथागत आरागितः / तस्यानन्तरं धर्मार्चिःपर्वतकेतुराजो नाम तथागत आरागितः / तस्यानन्तरं धर्मनयगम्भीरश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं धर्मज्ञानसंभवसमन्तप्रतिभासगर्भो नाम तथागत आरागितः / तस्यानन्तरं ज्ञानाकरचूडो नाम तथागत आरागितः / तस्यानन्तरं शैलेन्द्रश्रीगर्भराजो नाम तथागत आरागितः / तस्यानन्तरं समन्तमुखज्ञानभद्रमेरुर्नाम तथागत आरागितः / तस्यानन्तरं सर्वधर्मवीर्यवेगध्वजो नाम तथागत आरागितः / तस्यानन्तरं धर्मरत्नकुसुमश्रीमेघो नाम तथागत आरागितः / तस्यानन्तरं शान्तिप्रभगम्भीरकूटो नाम तथागत आरागितः / तस्यानन्तरं रश्मिनेत्रप्रतिभासप्रभचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं ज्ञानार्चिश्रीसागरो नाम तथागत आरागितः / तस्यानन्तरं समन्तज्ञानभद्रमण्डलो नाम तथागत आरागितः / तस्यानन्तरं अधऊर्ध्वदिग्ज्ञानावभासो नाम तथागत आरागितः / तस्यानन्तरं रश्मिसंकुसुमितप्रदीपो नाम तथागत आरागितः / तस्यानन्तरं ज्ञानसिंहकेतुध्वजराजो नाम तथागत आरागितः / तस्यानन्तरं समन्तसूर्यावभासप्रभराजो नाम तथागत आरागितः /

तस्यानन्तरं रत्नलक्षणविभूषितमेरुर्नाम तथागत आरागितः / तस्यानन्तरं सूर्यविक्रमसमन्तप्रतिभासो नाम तथागत आरागितः / तस्यानन्तरं धर्मजालविबुद्धश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं धर्मपद्मप्रफुल्लितश्रीमेघो नाम तथागत आरागितः / तस्यानन्तरं लक्षणसूर्यचक्रसमन्तप्रभो नाम तथागत आरागितः / तस्यानन्तरं समन्तावभासधर्मश्रीघोषो नाम तथागत आरागितः / तस्यानन्तरं वैशारद्यवज्रनारायणसिंहो नाम तथागत आरागितः / तस्यानन्तरं समन्तज्ञानध्वजशूरो नाम तथागत आरागितः / तस्यानन्तरं धर्मपद्मफुल्लगात्रो नाम तथागत आरागितः / तस्यानन्तरं गुणकुसुमश्रीसागरो नाम तथागत आरागितः / तस्यानन्तरं धर्मधनशिखराभस्कन्धो नाम तथागत आरागितः / तस्यानन्तरं ज्ञानशिखरार्चिमेघो नाम तथागत आरागितः / तस्यानन्तरं समन्तधर्मद्वारवहनशिखराभो नाम तथागत आरागितः / तस्यानन्तरं बोधिमण्डविबुद्धश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं धर्मोल्काज्वलनश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं समन्तप्रतिभासचूडो नाम तथागत आरागितः / तस्यानन्तरं धर्ममेघध्वजप्रदीपो नाम तथागत आरागितः / तस्यानन्तरं वज्रसागरध्वजमेघो नाम तथागत आरागितः / तस्यानन्तरं यशःपर्वतश्रीमेघो नाम तथागत आरागितः, तस्यानन्तरं चन्दनश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं समन्तश्रीकुसुमतेजाभोनाम तथागत आरागितः / तस्यानन्तरं सर्वसत्त्वावभासतेजो नाम तथागत आरागितः /

तस्यानन्तरं गुणपद्मश्रीगर्भो नाम तथागत आरागितः / तस्यानन्तरं गन्धार्चिरवभासराजो नाम तथागत आरागितः / तस्यानन्तरं हेतुपद्मो नाम तथागत आरागितः / तस्यानन्तरं लक्षणपर्वतवैरोचनो नाम तथागत आरागितः / तस्यानन्तरं समन्तविघुष्टकीर्तिध्वजो नाम तथागत (gv 238) आरागितः / तस्यानन्तरं समज्ञानप्रभामेरुर्नाम तथागत आरागितः / तस्यानन्तरं धर्मनगरप्रभश्रीर्नाम तथागत आरागितः / तस्यानन्तरं द्रुमपर्वततेजो नाम तथागत आरागितः / तस्यानन्तरं समन्तश्रीवैरोचनकेतुर्नाम तथागत आरागितः / तस्यानन्तरं धर्मसागरनिर्नादनिर्घोषो नाम तथागत आरागितः / तस्यानन्तरं सर्वधर्मभावनारम्भसंभवतेजो नाम तथागत आरागितः / तस्यानन्तरं समन्तज्ञानाभप्रवरो नाम तथागत आरागितः / तस्यानन्तरं वरलक्षणश्रीर्नाम तथागत आरागितः / तस्यानन्तरं धर्मबलशूलध्वजो नाम तथागत आरागितः / तस्यानन्तरं धर्मचक्रप्रभनिर्घोषो नाम तथागत आरागितः / तस्यानन्तरं रश्मिगुणमकुटज्ञानप्रज्ञाप्रभो नाम तथागत आरागितः / तस्यानन्तरं धर्मचक्रचन्द्रोद्गतश्रीर्नाम तथागत आरागितः / तस्यानन्तरं धर्मपद्मवैरोचनविबुद्धकेतुर्नाम तथागत आरागितः / तस्यानन्तरं रत्नपद्मावभासगर्भो नाम तथागतः आरागितः / तस्यानन्तरं रत्नश्रीशिखरमेधप्रदीपो नाम तथागत आरागितः / तस्यानन्तरं समन्तसूचिसुविशुद्धज्ञानकुसुमो नाम तथागत आरागितः / तस्यानन्तरं नानारश्मिश्रीमेरुगर्भो नाम तथागत आरागितः / तस्यानन्तरं रश्मिमण्डलशिखरराजो नाम तथागत आरागितः /

तस्यानन्तरं पुण्यमेघचूडो नाम तथागत आरागितः / तस्यानन्तरं धर्मशिखरध्वजमेघो नाम तथागत आरागितः / तस्यानन्तरं गुणपर्वततेजो नाम तथागत आरागितः / तस्यानन्तरं धर्मसूर्यमेघप्रदीपो नाम तथागत आरागितः / तस्यानन्तरं धर्ममेघविघुष्टकीर्तिराजो नाम तथागत आरागितः / तस्यानन्तरं धर्ममण्डलपटलमेघो नाम तथागत आरागितः / तस्यानन्तरं विबुद्धज्ञानबोधिध्वजतेजो नाम तथागत आरागितः / तस्यानन्तरं धर्ममण्डलविबुद्धश्रीचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं कनकमणिपर्वततेजोभद्रो नाम तथागत आरागितः / तस्यानन्तरं भद्रश्रीमेरुतेजो नाम तथागत आरागितः / तस्यानन्तरं समन्तप्रज्ञप्तिनिर्घोषमेघो नाम तथागत आरागितः / तस्यानन्तरं धर्ममलश्रीकूटो नाम तथागत आरागितः / तस्यानन्तरं गन्धार्चिमेघश्रीराजो नाम तथागत आरागितः / तस्यानन्तरं कनकमणिपर्वतघोषो नाम तथागत आरागितः / तस्यानन्तरं उष्णीषकोशसर्वधर्मप्रभामण्डलमेघो नाम तथागत आरागितः / तस्यानन्तरं धर्मचक्रज्वलनतेजो नाम तथागत आरागितः / तस्यानन्तरं शैलशिखराभ्युद्गततेजो नाम तथागत आरागितः / तस्यानन्तरं समन्तवीर्योल्कावभासमेघो नाम तथागत आरागितः / तस्यानन्तरं समाधिमुद्राविपुलमकुटप्रज्ञाप्रभो नाम तथागत आरागितः / तस्यानन्तरं रत्नरुचिरश्रीराजो नाम तथागत आरागितः / तस्यानन्तरं धर्मोल्कारत्नवितानघोषो नाम तथागत आरागितः / तस्यानन्तरं धर्मगगनकान्तसिंहप्रभो नाम तथागत आरागितः /

तस्यानन्तरं लक्षणविभूषितध्वजचन्द्रो नाम तथागत आरागितः / तस्यानन्तरं रश्मिपर्वतविद्योतितमेघो नाम तथागत आरागितः / तस्यानन्तरं अनावरणधर्मगगनप्रभो नाम तथागत आरागितः / (gv 239) तस्यानन्तरं लक्षणरुचिरसुपुष्पिताङ्गो नाम तथागत आरागितः / तस्यानन्तरं लोकेन्द्रप्रवरप्रभघोषो नाम तथागत आरागितः / तस्यानन्तरं सर्वधर्मसमाधिप्रभघोषो नाम तथागत आरागितः / तस्यानन्तरं द्वारस्वरप्रभूतकोशो नाम तथागत आरागितः / तस्यानन्तरं धर्मज्वलनार्चिःसागरघोषो नाम तथागत आरागितः / तस्यानन्तरं त्र्यध्वलक्षणप्रतिभासतेजो नाम तथागत आरागितः / तस्यानन्तरं धर्ममण्डलश्रीशिखराभप्रभो नाम तथागत आरागितः / तस्यानन्तरं धर्मधातुसिंहप्रभो नाम तथागत आरागितः / तस्यानन्तरं सर्वसमाधिसागरावभाससिंहो नाम तथागत आरागितः / तस्यानन्तरं समन्तज्ञानप्रभासो नाम तथागत आरागितः / तस्यानन्तरं समन्तप्रज्ञाभधमर्नगरप्रदीपो नाम तथागत आरागितः //

इति हि कुलपुत्र एतद्बुद्धशतं प्रमुखं कृत्वा तस्मिन् विमलाभे कल्पे सुमेरुपरमाणुरजःसमास्तथागता उत्पन्ना अभूवन् / तेषां पुनः कुलपुत्र सुमेरुपरमाणुरजःसमानां तथागतानां सर्वपश्चिमो धर्मधातुनगराभज्ञानप्रदीपराजो नाम तथागतो ऽभूत् / ते खलु मया कुलपुत्र सुमेरुपरमाणुरजःसमास्तथागताः सर्वधर्मसागरनिर्घोषप्रभराजपूर्वंगमा धर्मधातुनगराभज्ञानप्रदीपराजपश्चिमाः सर्वे पूजिताः / सर्वेषां च मे तथागतानामुपस्थानं कृतम् / सर्वेषां च धर्मदेशना श्रुता / सर्वेषां च तेषामहं तथागतानां शासने प्रव्रजिता / सर्वेषां च मे तेषां तथागतानां शासनं संधारितम् / सर्वेषां च मया तेषां तथागतानामन्तिकादेष मनोज्ञरुतगम्भीरविकुर्वितप्रवेशो बोधिसत्त्वविमोक्षो विविधैः प्रतिलाभनयैः प्रतिलब्धः / सर्वेषां च मया तेषां तथागतानामन्तिकादनन्तमध्याः सत्त्वसागराः परिपाचिताः / ततो ऽर्वाग्बुद्धक्षेत्रपरमाणुरजःसमेषु यावन्तस्तथागता उत्पन्नाः, सर्वे ते मया तथागताः धर्मप्रतिपत्त्या पूजिताः / सा खलु पुनरहं कुलपुत्र तत उपादाय संसाररात्रिगतेषु सत्त्वेषु अज्ञाननिद्राप्रसुप्तेषु जागर्मि, चित्तनगरं चैषां परिपालयामि, त्रैधातुकनगराच्चैनानुच्चाल्य सर्वज्ञताधर्मनगरे प्रतिष्ठापयामि //

एतमहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं लोकसंभिन्नप्रलापविनिवर्तनमद्वयभणिताविनियोजनं सत्यप्रतिष्ठापनपर्यवसानं जानामि / किं मया शक्यं बोधिसत्त्वानामविप्रतिबद्धसर्ववाक्पथस्वभावज्ञानानां प्रतिचित्तक्षणं सर्वधर्माभिसंबोधिवशवर्तिनां सर्वसत्त्ववचनरुतघोषसागरावतीर्णानां सर्वमन्त्रसमुद्रसंस्कारकुशलानां सर्वधर्मसंख्यानामसमुद्रनयविधिज्ञानां सर्वधर्मसमवसरणधारणीसमुद्रवशवर्तिनां सर्वसत्त्वयथाशयधर्ममेघाभिनिर्हारकुशलानां सर्वसत्त्वपरिपाकविनयचर्यापर्यवसानानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, सर्वसत्त्वसंग्रहप्रतिपत्तिर्वा ज्ञातुम्, अनुत्तरो बोधिसत्त्वकर्मसमारम्भप्रयोगो वा बोधिसत्त्वसूक्ष्मज्ञानानुगमो वा बोधिसत्त्वधर्मनिधानकोशविभक्तवृषभिता बोधिसत्त्वकर्मसांकथ्यसिंहासनाक्रमणं वा ज्ञातुम् / तत्कस्य हेतोः? तथा हि ते सत्पुरुषाः सर्वधर्मभूमिमण्डलधारण्यवक्रान्ताः //

गच्छ कुलपुत्र, इयमिहैव भगवतो वैरोचनस्य पादमूले सर्ववृक्षप्रफुल्लनसुखसंवासा नाम रात्रिदेवता संनिपतिता, या ममानन्तरं संनिषण्णा / तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वाः सर्वज्ञतायां शिक्षन्ते, कथं च प्रतिपद्यमानाः सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयन्ति //

अथ खलु सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता तस्यां वेलायामेतमेव मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत -

गम्भीर दुर्दृशु विमोक्ष जिनात्मजानां आकाशलक्षणसमन्ततलप्रवेशः / त्र्यध्वस्थितानवतरन्ति जिनानशेषान् यैर्धर्मधातुप्रसरां च अनन्तमध्यान् // 1 //

संभारसंभवविमोक्षनयाननन्तान् प्रतिलाभ धर्मत अचिन्तिय अप्रमेयान् / संवर्धनामपि समन्त असङ्गवेगम् अवगाह मैत्रिषु त्रियध्वनयष्पथेषु // 2 //

इति बुद्धक्षेत्रपरिवर्तरजःसमानां कल्पानमादिगतमास पुरा हि क्षेत्रम् / धर्मार्चिमेघनगरः शिरिलोकधातु कल्पो बभूव विमलाभ महाप्रभश्च // 3 //

तत्रैव कल्पि जिनवंशि अनूपछिन्ने बुद्धाः सुमेरुपरमाणुसमा उपन्नाः / धर्मसमुद्रप्रभगर्जितराज बुद्धः पुर्वंगमः प्रथमकल्पिक आसि तेषाम् // 4 //

जिनु धर्ममेघनगराभप्रदीपराजो यः सर्वपश्चिमु अभूत्सुगतान तेषाम् / ते सर्वि पूजित मया उपसंक्रमित्वा धर्मश्च तेष मि श्रुतो जनयित्व प्रीतिम् // 5 //

दृष्टो मया प्रथमु काञ्चनवर्णरश्मिः धर्मः समुद्रप्रभगर्जितघोषराजः / द्वात्रिंशल्लक्षणविचित्रितु मेरुकल्पो दृष्ट्वा च मे मतिरभूत्सुगतो भवेयम् // 6 //

सहदर्शनेन मम तस्य तथागतस्य प्रादुर्बभूव बलवज्जिनचित्तमाद्यम् / सर्वज्ञताप्रसरसंभवप्रत्ययेभिः आकाशधातुविमलं तथतास्वभावम् // 7 //

येन त्रियध्वगत सर्वि स्फुटाः समन्तात् बुद्धाश्च तत्सुतसमुद्रवृता अशेषाः / क्षेत्रार्णवा अपि समुद्र सर्वे आसन् कृपामृतमहोदधि संभवेत // 8 //

कायेन सर्वि स्फरणार्थमशेष क्षेत्रा कायं यथाशयजगद्विनिदर्शनाय / क्षेत्राण्यशेषमवभासनकम्पनाय पाकाय चैव जगतां जनितं मनो मे // 9 //

द्वितीये यज्जिनस्य उपसंक्रमणे ऽपि दृष्टाः क्षेत्रार्णवेषु दशसु स्थित ये जिनेन्द्राः / क्षेत्राः समुद्रपरमाणुरजःसमेषु क्षेत्रार्णवेषु जिन पश्चिमके मि दृष्टाः // 10 //

सर्वान्तक्षेत्रपरिवर्तरजःसमेषु कल्पेषु ये जिन उपन्न जगत्प्रदीपाः / ते सर्वि पूजित मया उपसंक्रमित्वा एवं विमोक्षनयसागरु शोधयेयम् // 11 //

अथ खलु सुधनः श्रेष्ठिदारको मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं प्रतिलब्धः अनन्तमध्यसमाधिमुखसमुद्रावतीर्णो विपुलधारणीमुखसमुद्रसंभूतचेता बोधिसत्त्वमहाभिज्ञावभासप्रतिलब्धो महाप्रीतिसंवित्सागरावतीर्णो विपुलप्रीतिवेगसागरविवर्धितचेताः सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टावीत् -

प्रज्ञा हि ते विपुल धर्मसमुद्रचारी चीर्णा च मे भवसमुद्र अनन्तमध्यान् / दीर्घायु निर्ज्वर सुज्ञानशरीरगर्भे त्वं देवि रोचसि इमां परिषामुपेत्य // 12 //

बुध्यित्व धर्मप्रकृतिं गगनप्रकाशां सर्वत्रियध्वनयमोतरसे असङ्गम् / आरम्बणानि तुलयस्यपि चाविकल्पा चित्तक्षणेन अपि तानि अचिन्तियानि // 13 //

निःसत्त्वधर्मत निरीक्षसि ज्ञानचक्षुः सत्त्वोदधीन् करुणयावतरस्यनन्तान् / बुद्ध्या विमोक्ष सुगभीर विगाहमाना सर्वान् विनेसि परिपाचयसे ऽप्रमेयान् // 14 //

त्वं धर्ममण्डलविचारनये विधिज्ञा धर्मस्वभावप्रतिवेधनये विबुद्धा / सर्वार्यमार्गममलं परिभावयन्ती निर्यात्यसे जगदशेष विशोधयन्ती // 15 //

त्वं सत्त्वसारथिवरानभिभूत देवि सर्वज्ञज्ञानममलं प्रतिग्राहमाना / त्वं धर्मधातुगत सर्वि स्फरित्व सत्त्वान् धर्मं प्रकाश्य भय सर्वि शमेसि लोके // 16 //

वैरोचनप्रणिधिमार्गनयेन देवि यास्यस्यसङ्गविपुलामलबुद्धियुक्ता / सर्वत्र जिनबलं प्रतिपद्यमाना संपश्यसे जिनविकुर्वित सर्वक्षेत्रैः // 17 //

चित्तं दुरासदु तवा गगनप्रकाशं सर्वे किलेशमलि निर्मलमादिशुद्धम् / यस्मिन् समोसरि त्रियध्वग सर्वक्षेत्रा बुद्धाश्च सात्मजगणाः सह सर्वसत्त्वैः // 18 //

रात्रिंदिवं क्षणलवानृतुपक्षमासान् संवत्सरांश्च सविनाशवितर्ककल्पान् / कल्पार्णवानपि सनामसमुद्रसंख्यान् संज्ञोदधीन् जगतां विदर्शयसि क्षणेन // 19 //

दिशतासु यावत तु सत्त्वच्युतोपपादा ये रूपिणामपि च संज्ञिअसंज्ञिनां च / व्यवहारसत्यनय ओतरमाणा तेषां मार्गं विदर्श्य वरबोधिपथे प्रणेसि // 20 //

वैरोचनप्रणिधिजालकुलात् प्रसृता प्रभूतसर्वसुगतैकसमुच्छ्रयाच्च / त्वं धर्मकायपरिशुद्ध असङ्गचित्ता रूपं विदर्शयमि लोकि यथाशयानाम् // 21 // अथ खलु सुधनः श्रेष्ठिदारकः सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवताया अन्तिकात्प्रक्रान्तः // 37 // 40 सर्ववृक्षप्रफुल्लनसुखसंवासा /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.