Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
274.001. एभिः पञ्चभिर्दुःखैस्त्रैलोक्यमनुषक्तम्/ 274.001. शारीरमानसैर्दुःखैरुत्पीडिता वधकभूतान् स्कन्धान् पश्यन्ति, शून्यग्रामभूतान्यायतनानि, चौरिभूतानि विषयाणि, कृत्स्नं च त्रैधातुकमनित्यताग्निना प्रदीप्तं पश्यन्ति/ 274.003. तेषां रागाः कथमुत्पद्यते? आह च-- 274.004. मा तावदेकजन्मिकस्य मरणभयात्तव न जायते हर्षः/ 274.005. मनसि विषयैर्मनोज्ञैः सततं खलु पश्यमानस्य//8//
274.006. किं पुनर्जन्मशतानां मरणभयमनागतं विचिन्तयताम्/ 274.007. मनसि भविष्यति हर्षो भिक्षूणां भोजनाद्येषु //9//
274.008. तेषां तु वस्त्रशयनासनभोजनादि मोक्षो ऽभियुक्तमनसां जनयेत सङ्गम्/ 274.010. पश्यन्ति ये वधकशत्रुनिभं शरीरमादीप्तवेश्मसदृशांश्च भवाननित्यान् //10//
274.012. कथं च तेषां न भवेद्विमोक्षो मोक्षार्थिनां जन्मपरान्मुखानाम्/ 274.014. येषां मनः सर्वसुखाश्रयेषु व्यावर्तते पद्मदलादिवाम्भः//11//
274.016. यदा वीतशोको राज्ञा अशोकेनोपायेन भगवच्छासने ऽभिप्रसादितः, स कृतकरपुट उवाच--देव, एषो ऽहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं चेति/ आह च-- 274.019. एष व्रजामि शरणं विबुद्धनवकमलविमलनिभनेत्रम्/ 274.020. बुधविबुधमनुजमहितं जिनं विरागं च संघं च//12//इति/ 274.021. अथ राजा अशोको वीतशोकं कण्ठे परिष्वज्योवाच--न त्वं मया परित्यक्तः, अपि तु बुद्धशासनाभिप्रसादार्थं तव मया एष उपायः प्रदर्शितः/ 274.022. ततो वीतशोको गन्धपुष्पमाल्यादिवादित्रसमुदयेन भगवतश्चैत्यानर्चयति, सद्धर्मं च शृणोति, संघे च कारां कुरुते/ 274.024. स कुर्कुटारामं गतः/ 274.024. तत्र यशो नां स्थविरो ऽर्हन् षडभिज्ञः/ 274.024. स तस्य पुरतो निषण्णो धर्मश्रवणाय/ 274.025. स्थविरश्च तमवलोलयितुमारब्धः/ 274.025. स पश्यति वीतशोकमुपचितहेतुकं चरमभविकम्/ 274.026. तेनैवाश्रयेनार्हत्त्वं प्राप्तव्यम्/ 274.026. तेन तस्य प्रव्रज्याया वर्णो भाषितः/ 274.027. तस्य श्रुत्वा स्पृहा जाता--प्रव्रजेयं भगवच्छासने/ 274.027. तत उत्थाय कृताञ्जलिः स्थवितमुवाच--लभेयाहं स्वख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 274.028. चरेयमहं भवतो ऽन्तिके ब्रह्मचर्यम्/ 274.029. स्थविर उवाच--वत्स, राजानमशोकमनुज्ञापयस्वेति/ 274.029. ततो वीतशोको येन राजा अशोकस्तेनोपसंक्रम्य कृताञ्जलिरुवाच--देव, अनुजानीहि माम्/ 274.030. प्रव्रजिष्यामि स्वाख्याते धर्मविनये सम्यगेव श्रद्धया अगारादनगारिकाम्/ 274.031. आह च--
275.001. <275>उद्भ्रान्तो ऽस्मि निरङ्कुशो राजा इव व्यावर्तितो विभ्रमात् त्वद्बुद्धिप्रभवाङ्कुशेन विधिवद्बुद्धोपदेशैरहम्/ 275.001. एकं त्वमर्हसि मे वरं प्रदर्शितुं त्वं पार्थिवानां पते लोकालोकवरस्य शासनवरे लिङ्गं शिभं धारयेत्//13//
275.005. श्रुत्वा च राजा साश्रुकण्ठो वीतशोकं कण्ठे परिष्वज्योवाच--वीतशोक, अलमनेन व्यवसायेन/ 275.006. प्रव्रज्य खलु वैवर्णिकाभ्युपगतावसः, पांशुकूलं प्रवरणं परिजनोज्ज्ञितम्, आहारो भैष्यं परकुले, शयनासनं वृक्षमूले तृणसंस्तरः पर्णसंस्तरः, व्याबाधे खल्वपि भैषज्यमसुलभं पूतिमूत्रं च भोजनम्/ 275.008. त्वं च सुकुमारः शीतोष्णक्षुत्पिपासानां दुःखानामसहिष्णुः/ 275.009. प्रसीद, निवर्तय मानसम्/ 275.009. वीतशोक उवाच--देव, 275.010. नैव हि जाने तं नूनं विषयतृषितो ऽनायासविहतः प्रव्रज्यां प्राप्तुकामो न रिपुहृतबलो नैवार्थकृपणः/ 275.012. दुःखार्तं मृत्युनेष्टं व्यसनपरिगतं दृष्ट्वा जगदिदं पन्थानं जन्मभीरुः शिवमभयमहं गन्तुं व्यवसितः//14//
275.014. श्रुत्वा च राजा अशोकः सत्वरं प्ररुदितुमारब्धः/ 275.014. अथ वीतशोको राजानमनुनयन्नुवाच--देव, 275.016. संसारदोलामभिरुह्य लोलम् यदा निपातो नियतः प्रजानाम्/ 275.018. किमर्थमागच्छति विक्रिया ते सर्वेण सर्वस्य यदा वियोगः//15//
275.020. राजा आह--वीतशोक, भैक्षे तावदभ्यासः क्रियताम्/ 275.020. राजकुले वृक्षवाटिकायां तस्य तृणसंस्तरः संस्तृतः, भोजनं चास्य दत्तम्/ 275.021. सो ऽन्तःपुरं पर्यटति, महार्हं चाहारं न लभते/ 275.022. ततो राज्ञा अन्तःपुरिका अभिहिता--प्रव्रजितसारूप्यमस्याहारमनुप्रयच्छतेति/ 275.022. तेन यावदभिदूषिता पूतिकुल्माषा लब्धाः/ 275.023. तांश्च परिभोक्तुमारब्धः/ 275.023. दृष्ट्वा राज्ञा अशोकेन निवारितः/ 275.024. तस्य बुद्धिरुत्पन्ना--यदीह प्रव्रजिष्यामि, आकीर्णो भविष्यामि/ 275.025. ततो विदेहेषु जनपदेषु गत्वा प्रव्रजितः/ 275.026. ततस्तेन युज्यता यावदर्हत्त्वं प्राप्तम्/ 275.026. अथायुष्मतो वीतशोकस्यार्हत्त्वं प्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिन एतदभवत्--अस्ति खलु मे--पूर्वं राज्ञो ऽशोकस्य गृहद्वारमनुप्राप्तः/ 275.028. ततो दौवारिकमुवाच--गच्छ, राज्ञो ऽशोकस्य निवेदय--वीतशोको द्वारि तिष्ठति देवं द्रष्टुकाम इति/ 275.029. ततो दौवारिको राजानमशोकमभिगम्योवाच--देव, दिष्ट्या वृद्धिः/ 275.030. वीतशोको ऽभ्यागतो द्वारि तिष्ठति देवं द्रष्टुकामः/ 275.030. ततो राज्ञा अभिहितम्--गच्छ, शीघ्रं प्रवेशयेति/ 275.031. यावद्वीतशोको राजकुलं प्रविष्टः/ 275.031. दृष्ट्वा च रजा अशोकः संहासनादुत्थाय मूलनिकृत्त इव द्रुमः सर्वशरीरेणायुष्मन्तं वीतशोकं निरीक्षमानः प्ररुदन्नुवाच--
276.001. <276>भूतेषु संसर्गगतेषु नित्यं दृष्ट्वापि मां नैति यथा विकारम्/ 276.003. विवेकवेगाधिगतस्य शङ्के प्रज्ञारसस्यातिरसस्य तृप्तः//16//
276.005. अथ राज्ञो ऽशोकस्य राधगुप्तो नामाग्रामात्यः/ 276.005. स पश्यति--आयुष्मतो वीतशोकस्य पांशुकूलं च चीवरं मृण्मयं पात्रम् यावदन्नं भैक्ष्यं लूहप्रणीतम्/ 276.006. दृष्ट्वा च राज्ञः पादयोर् निपत्य कृताञ्जलिरुवाच--देव, यथा अयमल्पेच्छः संतुष्टश्च, नियतमयं कृतकरणीयो भविष्यति, प्रीतिरुत्पाद्येत/ 276.008. कृतह्? 276.009. भैक्षान्नभोजनम् यस्य पांशुकूलं च चीवरम्/ 276.010. निवासो वृक्षमूलं च तस्यानियतं कथम्//17//
276.011. निराश्रवम् यस्य मनो विशालं निरामयं चोपचितं शरीरम्/ 276.013. स्वच्छन्दतो जीवितसाधनं च नित्योत्सवं तस्य मनुष्यलोके//18//
276.015. श्रुत्वा ततो राजा प्रीतमना उवाच-- 276.016. अपहाय मौर्यवंशं मगधपुरं सर्वरत्ननिचयं च/ 276.017. दृष्ट्वा वंशानिवहं प्रहीणमदमानमोहसारम्भम्//19//
276.018. अत्युद्धृतमिव मन्ये यशसा पूतं पुरमिव महं च/ 276.019. प्रतिपद्यतां त्वया दशबलधरशासनमुदारेण//20//
276.020. अथ राजा अशोकः सर्वाङ्गेन परिगृह्य प्रज्ञप्त एवासने निषादयामास, प्रणीतेन चाहारेण स्वहस्तं संतर्पयति/ 276.021. भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रमायुष्मतो वीतशोकस्य पुरतो निषण्णो धर्मश्रवणाय/ 276.022. अथायुष्मान् वीतशोको राजानमशोकं धर्म्यया कथया संदर्शयन्नुवाच-- 276.024. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्/ 276.025. दुर्लभा त्रीणि रत्नानि नित्यं पूजय पार्थिव//21//
276.026. स यावधर्म्यया कथया संहर्षयित्वा संप्रस्थितः//
276.027. अथ राजा अशोकः कृतकरपुटः पञ्चभिरमात्यशतैः परिवृतो ऽनेकैश्च पौरजनपदसहस्रैः परिवृतः पुरस्कृत आयुष्मन्तं वीतशोकमनुव्रजितुमारब्धः/ 276.028. वक्ष्यति हि-- 276.029. भ्राता ज्येष्ठेन राज्ञा तु गौरवेणानुगम्यते/ 276.030. प्रव्रज्यायाः खलु श्लाध्यं संदृष्टिकमिदं फलम्//22//
277.001. <277>तत आयुष्मान् वीतशोकः स्वगुणानुद्भावयन् पश्यतः सर्वजनकायस्य ऋद्ध्या वैहायसमुत्पत्य प्रक्रान्तः/ 277.002. अथ राजा अशोकः कृतकरपुटः प्राणिशतसहस्रैः परिवृतः पुरस्कृतो गगनतलावसक्तदृष्टिरायुष्मन्तं वीतशोकं निरीक्षमाण उवाच-- 277.004. स्वजनस्नेहनिःसङ्गो विहंग इव गच्छसि/ 277.005. श्रीरागनिगदैर्बद्धानस्मान् प्रत्यादिशान्निव//23//
277.006. आत्मायत्तस्य शान्तस्य महःसंकेतचारिणः/ 277.007. ध्यानस्य फलमेतच्च रागान्धैर्यन्न दृश्यते//24//
277.008. अपि च/ 277.009. ऋद्ध्या खल्ववभर्त्सताः परमया श्रीगर्वितास्ते वयं बुद्ध्या खल्वपि नामिताः शिरसिताः प्रज्ञाभिमानोदयम्/ 277.011. प्राप्तार्थेन फलान्धबुद्धिमनसः संवेजितास्ते वयं संक्षेपेण सबाष्पदुर्दिनमुखाः स्थाने विमुक्ता वयम्//25//
277.013. तत्रायुष्मान् वीतशोकः प्रत्यन्तिमेषु जनपदेषु शय्यासनाय निर्गतः/ 277.013. तस्य च महान् व्याधिरुत्पन्नः/ 277.014. श्रुत्वा च राज्ञा अशोकेन भैषज्यमुपस्थायिकाश्च विसर्जिताः/ 277.014. तस्य तेन व्याधिना स्पृष्टस्य शिरः खुस्तमभवत्/ 277.015. यदा च व्याधिर्विगतः, तस्य विरूटानि शिरसि रोमाणि/ 277.016. तेन वैद्योपस्थायकाश्च विसर्जिताः/ 277.016. तस्य च गोरसप्राय आहारो ऽनुसेव्यते/ 277.016. स घोषं गत्वा भैक्ष्यं पर्यटति/ 277.017. तस्मिंश्च समये पुण्ड्रवर्धननगरे निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर् निपातिता चित्रार्पिता/ 277.018. उपासकेनाशोकस्य राज्ञो निवेदितम्/ 277.018. श्रुत्वा च राज्ञा अभिहितम्--शीघ्रमानीयताम्/ 277.019. तस्योर्ध्वम् योजनम् यक्षाः शृण्वन्ति, अधो योजनं नागाः/ 277.019. यावत्तं तत्क्षणेन यक्षैरुपनीतम्/ 277.020. दृष्ट्वा च राज्ञा रुषितेनाभिहितम्--पुण्ड्रवर्धने सर्वे आजीविकाः प्रघातयितव्याः/ 277.021. यावदेकदिवसे ऽष्टादशसहस्राण्याजीविकानां प्रघातितानि/ 277.021. ततः पाटलिपुत्रे भूयो ऽन्येन निर्ग्रन्थोपासकेन बुद्धप्रतिमा निर्ग्रन्थस्य पादयोर् निपातिता चित्रार्पिता/ 277.022. श्रुत्वा च राज्ञा अमर्षितेन स निर्ग्रन्थोपासकः सबन्धुवर्गो गृहं प्रवेशायित्वा अग्निना दग्धः/ 277.023. आज्ञप्तं च--यो मे निर्ग्रन्थस्य शिरो दास्यति, तस्य दीनारं दास्यामीति/ 277.024. घोषितम्/ 277.024. स चायुष्मान् वीतशोक आभीरस्य गृहे रात्रिं वासमुपगतः/ 277.025. तस्य च व्याधिना क्लिष्टस्य लूहानि चीवराणि, दीर्घकेशनखश्मश्रुः/ 277.026. आभीर्या बुद्धिरुत्पन्ना--निर्ग्रन्थो ऽयमस्माकं गृहे रात्रिं वासमुपगतः/ 277.027.
स्वामिनमुवाच--आर्यपुत्र, संपन्नो ऽयमस्माकं दीनारः/ 277.027. इमं निर्ग्रन्थं प्रघातयित्वा शिरो राज्ञो ऽशोकस्योपनामयेयमिति/ 277.028. ततः स आभीरो ऽसिं निष्कोषं कृत्वा आयुष्मन्तं वीतशोकमभिगतः/ 277.029. आयुष्मता च वीतशोकेन पूर्वान्ते ज्ञानं क्षिप्तम्/ 277.029. पश्यति स्वयंकृतानां कर्मणां फलमिदमुपस्थितम्/ 277.030. ततः कर्मप्रतिशरणो भूत्वा अवस्थितः/ 277.030. तेन तथास्याभीरेण शिरश्छिन्नम्/ 277.031. राज्ञो ऽशोकस्योपनीतम्--दीनारं प्रयच्छेति/ 277.031. दृष्ट्वा च राज्ञा अशोकेन परिज्ञातम्--विरलानि चास्य शिरसि रोमाणि न व्यक्तिमुपगच्छन्ति/ 277.032. ततो वैद्या उपस्थायका आनीताः/ 277.032. तैर्दृष्ट्वा <278>अभिहितम्--देव, वीतशोकस्यैतच्छिरः/
278.001. श्रुत्वा राजा मूर्च्छितो भूमौ पतितः/ 278.001. यावज्जलसेकं दत्वा स्थापितः/ 278.002. अमात्यैश्चाभिहितम्--देव, वीतरागाणामप्यत्र पीडा/ 278.002. दीयतां सर्वसत्त्वेष्वभयप्रदानम्/ 278.003. यावद्राज्ञा अभयप्रदानं दत्तम्--न भूयः कश्चित् प्रघातयितव्यः//
278.004. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारमायुष्मन्तमुपगुप्तं पृच्छन्ति--किं कर्म कृतमायुष्मता वीतशोकेन यस्य कर्मणो विपाकेन शस्त्रेण प्रघातितह्? स्थविर उवाच--तेन ह्यायुष्मन्तः कर्माणि कृतानि पूर्वमन्यासु जातिषु/
278.006. श्रूयताम्-- 278.007. भुतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतमो लुब्धो मृगान् प्रघातयित्वा जीविकां कल्पयति/ 278.008. अटव्यामुदपानम्/ 278.008. स तत्र लुब्धो गत्वा पाशान् यन्त्रांश्च स्थापयित्वा मृगान् प्रघातयति/ 278.009. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते/ 278.009. विस्तरः/ 278.009. अन्यतरः प्रत्येकबुद्धस्तस्मिन्नुदपाने आहारकृत्यं कृत्वा उदपानादुत्तीर्य वृक्षमूले पर्यङ्केन निषण्णः/ 278.010. तस्य गन्धेन मृगास्तस्मिन्नुदपाने नाभ्यागताः/ 278.011. स लुब्ध आगत्य पश्यति--नेइव मृगा उदपानमभ्यागताः/ 278.012. पदानुसारेण च तं प्रत्येकबुद्धमभिगतः/ 278.012. दृष्ट्वा चास्य बुद्धिरुत्पन्ना--अनेनैष आदीनव उत्पादितः/ 278.013. तेनासिं निष्कोषं कृत्वा स प्रत्येकबुद्धः प्रघातितः//
278.014. किं मन्यध्वे आयुष्मन्तह्? यो ऽसौ लुब्धः स एष वीतशोकः/ 278.014. यत्रानेन मेगाः प्रघातिताः, तस्य कर्मणो विपाकेन महान् व्याधिरुत्पन्नः/ 278.015. यत्प्रत्येकबुद्धः शस्त्रेण प्रघातितः, तस्य कर्मणो विपाकेन बहूनि वर्षसहस्राणि नरकेषु दुःखमनुभूय पञ्च जन्मशतानि मनुष्येषूपपन्नः शस्त्रेण प्रघातितः/ 278.017. तत्कर्मावशेषेणैतर्हि अर्हत्प्राप्तो ऽपि शस्त्रेण प्रघातितः//
278.018. किं कर्म कृतम् येनोच्चकुले उपपन्नः, अर्हत्त्वं च प्राप्तम्? स्थविर उवाच--काश्यपे सम्यक्सम्बुद्धे प्रव्रजितो ऽभूत् प्रदानरुचिः/ 278.019. तेन दायकदानपतयः संघभक्तं कारापितास्तर्पणानि यवागूपानानि निमन्त्रणकानि/ 278.020. स्तूपेषु च च्छत्राण्यवरोपितानि, ध्वजाः पताकाः/ 278.021. गन्धमाल्यपुष्पवादित्रसमुदयेन पूजाः कृताः/ 278.021. तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः/ 278.022. यावद्दशवर्षसहस्राणि ब्रह्मचर्यं चरित्वा सम्यक्प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनार्हत्त्वं प्राप्तमिति//
278.024. इति श्रीदिव्यावदाने वीतशोकावदानमष्टाविंशतिमम्//
********** अवदान 29 **********
279.001. दिव्29 अशोकावदानम्/
279.002. यदा राज्ञा अशोकेन अर्धामलकदानेन भगवच्छासने श्रद्धा प्रतिलब्धा, स भिक्षूनुवाच--केन भगवच्छासने प्रभूतं दानं दत्तम्? भिक्षव ऊचुह्--अनाथपिण्डदेन गृहपतिना/ 279.004. राजा आह--कियत्तेन भगवच्छासने दानं दत्तम्? भिक्षव ऊचुह्--कोटिशतं तेन भगवच्छासने दानं दत्तम्/ 279.005. श्रुत्वा च राजा अशोकश्चिन्तयति--तेन गृहपतिना भूत्वा कोटिशतं भगवछासने दानं दत्तम्/ 279.006. तेनाभिहितम्--अहमपि कोटिशतं भगवच्छासने दानं दास्यामि/ 279.007. तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, सर्वत्र च शतसहस्राणि दत्तानि--जातौ, बोधौ, धर्मचक्रे, परिनिर्वाणे च, सर्वत्र शतसहस्रं दत्तम्/ 279.008. पञ्चवार्षिकं कृतम्/ 279.009. तत्र च चत्वारि शतसहस्राणि दत्तानि, त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रेकर्महतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च/ 279.010. कोशं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुणालं च आर्यसंघे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान्/ 279.012. षण्णवतिकोट्यो भगवच्छासने दानं दत्तम्/ 279.012. स यावद् ग्लानीभूतः/ 279.012. अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः/ 279.013. तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम्/ 279.014. तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर् निपत्य कृताञ्जलिरुवाच-- 279.015. यच्छत्रुसंघैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभम्/ 279.017. पद्माननश्रीशतसम्प्रपीतं कस्मात् सबाष्पं तव देव वक्त्रम्//1//
279.019. राजा आह--राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि, किं तु शोचामि--आर्यैर्यद्विप्रयुक्ष्यामि/ 279.021. नाहं पुनः सर्वगुणोपपन्नं संघं समक्षं नरदेवपूजितम्/ 279.023. संपूजयिष्यामि वरान्नपानैरेतं विचिन्त्याश्रुविमोक्षणम्//2//
279.025. अपि च राधगुप्त, अयं मे मनोरथो बभूव--कोटिशतं भगवच्छासने दानं दास्यामीति, स च मे ऽभिप्रायो न परिपूर्णः/ 279.026. ततो राज्ञा अशोकेन चत्वारः कोट्यः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रषयितुमारब्धः//
279.028. तस्मिंश्च समये कुणालस्य संपदिर् नाम पुत्रो युवराज्ये प्रवर्तते/ 279.028. तस्यामात्यैरभिहितम्--कुमार, अशोको राजा स्वल्पकालावस्थायी/ 279.029. इदं च द्रव्यं कुर्कुटारामं प्रेष्यते/ 279.029. कोशबलिनश्च राजानः/ 279.030. निवारयितव्यः/ 279.030. यावत् कुमारेण भाण्डागारिकः प्रतिषिद्धः/ 279.030. यदा राज्ञो ऽशोकस्याप्रतिषिद्धा (तस्य) सुवर्णभाजने आहारमुपनाम्यते/ 279.031. भुक्त्वा तानि सुवर्णभाजनानि <280>कुर्कुटारामं प्रेषयति/
280.001. तस्य सुवर्णभाजनं प्रतिषिद्धम्/ 280.001. रूप्यभाजने आहारमुपनाम्यते, तान्यपि कुर्कुटारामं प्रेषयति/ 280.002. ततो रूप्यभाजनमपि प्रतिषिद्धम्, यावल्लोहभाजन आहारमुपनाम्यते/ 280.003. तान्यपि राजा अशोकः कुर्कुटारामं प्रेषयति/ 280.003. तस्य यावन्मृद्भाजन आहारमुपनाम्यते/ 280.004. तस्मिंश्च समये राज्ञो ऽशोकस्य अर्धामलकं करान्तरगतम्/ 280.004. अथ राजा अशोकः संविग्नो ऽमात्यान् पौरांश्च संनिपात्य कथयति--कः साम्प्रतं पृथिव्यामीश्वरह्? ततो ऽमात्य उत्थायासनाद्येन राजा अशोकस्तेनाञ्जलिं प्रणम्योवाच--देव, पृथिव्यामीश्वरः/ 280.006. अथ राजा अशोकः साश्रुदुर्दिननयनवदनो ऽमात्यानुवाच-- 280.008. दाक्षिण्यादनृतं हि किं कथयत भ्रष्टाधिराज्या वयं शेषं त्वामलकार्धमित्यवसितम् यत्र प्रभुत्वं मम/ 280.010. एश्वर्यं धिग्नार्यमुद्धतनदीतोयप्रवेशोपमं मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम्//3//
280.012. अथवा को भगवतो वाक्यमन्यथा करिष्यति? संपत्तयो हि सर्वा विपत्तिनिधना इति प्रतिज्ञातम् यदवितथवादिना गौतमेन, न हि तद्विसंवदति//
280.014. प्रतिशिष्यते ऽस्मन्ने चिरादाज्ञा मम यावती यथा मनसा/ 280.015. साद्यैव महाद्रिशिलातलविहतनदीवत् प्रतिनिवृत्ता //4//
280.016. आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां महीमुत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान्/ 280.018. भ्रष्टस्वायतनो न भाति कृपणः संप्रत्यशोको नृपह् छिन्नाम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा//5//
280.020. ततो राजा अशोकः समीपो गतं पुरुषमाहूयोवाच--भद्रमुख, पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु/ 280.021. इदं ममार्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय/ 280.022. मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यम्--जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति/ 280.023. इदं तावदपश्चिमं दानं तथा परिभोक्तव्यम् यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति/ 280.024. आह च-- 280.025. इदं प्रदानं चरमं ममाद्य राज्यं च तं चैव गतं स्वभावम्/ 280.027. आरोग्यवैद्योषधिवर्जितस्य त्राता न मे ऽस्त्यार्यगणाद्बहिर्धा//6//
280.029. ततथा भुज्यताम् येन प्रदानं मम पश्चिमम्/ 280.030. यथा संघगता मे ऽद्य विस्तीर्णा दक्षिणा भवेत्//7//
280.031. एवं देवेति स् पुरुषो राज्ञो ऽशोकस्य प्रतिश्रुत्य तदर्धामलकं कुरुकुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं संघे निर्यातयन्नुवाच--
281.001. <281>एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः/ 281.003. भाग्यच्छिद्रमवेक्ष्य सो ऽद्य नृपतिः स्वैः कर्माभिर्वञ्चितः संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः//8//
281.005. भक्त्यवनतेन शिरसा प्रणम्य संघाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिह्नितम्/ 281.006. ततः संघस्थविरो भिक्षूनुवाच--भदन्ता भवन्तः, शक्यमिदानीं संवेगमुत्पादयितुम्/ 281.007. कुतह्? एवं ह्युक्तं भगवता--परविपत्तिः संवेजनीयं स्थानमिति/ 281.007. कस्येदानीं सहृदयस्य संवेगो नोत्पद्यते? कुतह्? 281.009. त्यागशूरो नरेन्द्रो ऽसावशोको मौर्यकुञ्जरः/ 281.010. जम्बुद्वीपेश्वरो भूत्वा जातो ऽर्धामलकेश्वरः//9//
281.011. मृत्यैः स भूमिपतिरद्य हृताधिकारो दानं प्रयच्छति किलामलकार्धमेतत्/ 281.013. श्रीभोगाविस्तरमदैरतिगर्वितानां प्रत्यादिशन्निव मनांसि पृथग्जनानाम्//10//
281.015. यावत्तदर्धामलकं चूर्णयित्वा यूषे प्रक्षिप्य संघे चारितम्/ 281.015. ततो राजा अशोको राधगुप्तमुवाच--कथय राधगुप्त, कः साम्प्रतं पृथिव्यामीश्वरह्? अथ राधगुप्तो ऽशोकस्य पादयोर् निपत्य कृताञ्जलिरुवाच--देवः पृथिव्यामीश्वरः/ 281.017. अथ राजा अशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य संघाय अञ्जलिं कृत्वोवाच--एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि/ 281.019. आह च-- 281.020. इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननाम्/ 281.022. ददाम्यहं भूतधरां समन्दरां संघाय तस्मिन्नुपभुज्यते फलम्//11//
281.024. अपि च/ 281.025. दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं काङ्क्षामि द्रुतवारिवेगचपलं प्रागेव राजश्रियम्/ 281.027. दानस्यास्य फलं तु भक्तिमहतो यन्मे ऽस्ति तेनाप्नुयां चित्तैश्वर्यमहार्यमार्यमहितं नायाति यद्विक्रियाम्//12//
281.029. यावत् पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम्/ 281.029. ततो राजा महापृथिवीं संघे दत्वा कालगतः/ 281.030. यावदमात्यैर् नीलपीताभिः शिबिकाभिर् निर्हारित्वा शरीरपूजां कृत्वा राजानं प्रतिष्ठापयिष्याम इति, यावद्राधगुप्तेनाभिहितम्/ 281.031. राज्ञा अशोकेन महापृथिवी संघे निर्यातिता <282>इति/
282.001. ततो ऽमात्यैरभिहितम्--किमर्थमिति? राधगुप्त उवाच--एष राज्ञो ऽशोकस्य मनोरथे बभूव--कोटिशतं भगवच्छासेन दानं दास्यामीति/ 282.002. तेन षण्णवितिकोट्यो दत्ता यावद्राज्ञ्या प्रतिषिद्धा/ 282.003. तदभिप्रायेण राज्ञा महापृथिवी संघे दत्ता/ 282.003. यावदमात्यैश्चतस्रः कोट्यो भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः/ 282.004. संपदेर्बृहस्पतिः पुत्रः, बृहस्पतेर्वृषसेनः, वृषसेनस्य पुष्यधर्मा, पुष्यधर्मणः पुष्यमित्रः/ 282.005. सो ऽमात्यानामन्त्रयते--क उअपायः स्याद्यदस्माकं नाम चिरं तिष्ठेत्? नैरभिहितम्--देवस्य च वंशादशोको नांना राजा बभूवेति/ 282.006. तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्/ 282.007. यावद्भगवच्छासनं प्राप्यते, तावत्तस्य यशः स्थास्यति/ 282.008. देवो ऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु/ 282.008. राजा आह--महेशाख्यो राजा अशोको बभूव/ 282.009. अन्यः कश्चिदुपाय इति? तस्य ब्राह्मणपुरोहितः पृथग्जनो ऽश्राद्धः/ 282.010. तेनाभिहितम्--देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति/ 282.010. यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः/ 282.011. द्वारे च सिंहनादो मुक्तः/ 282.012. यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः/ 282.012. एवं द्विरपि त्रिरपि/ 282.012. यावद्भिक्षूंश्च संघमाहूय कथयति--भगवच्छासनं नाशायिष्यामीति/ 282.013. किमिच्छथ स्तूपं संघारामान् वा? भिक्षुभिः परिगृहीताः/ 282.014. यावत्पुष्यमित्रो यावत् संघारामं भिक्षूंश्च प्रघातयन् प्रस्थितः/ 282.015. स
यावच्छाकलमनुप्राप्तः/ 282.015. तेनाभिहितम्--यो मे श्रमणशिरो दास्यति, तस्याहं दीनारशतं दास्यामि/ 282.016. धर्मराजिकावार्हद्बुद्ध्या(?) शिरो दातुमारब्धम्/ 282.016. श्रुत्वा च राजा अर्हत्प्रघातयितुमारब्धः/ 282.017. स च निरोधं समापन्नः/ 282.017. तस्य परोपकर्मो न क्रमते/ 282.017. स यत्नमुत्सृज्य यावत्कोष्ठकं गतः/ 282.018. दंष्ठ्रानिवासी यक्षश्चिन्तयति--इदं भगवच्छासनं विनश्यति/ 282.018. अहं च शिक्षां धारयामि/ 282.019. न मया शक्यं कस्यचिदप्रियं कर्तुम्/ 282.019. तस्य दुहिता कृमिशेन यक्षेण याच्यते, न चानुप्रयच्छति--त्वं पापकर्मकारीति/ 282.020. यावत्सा दुहिता तेन कृमिशस्य दत्ता भगवच्छासनपरित्राणार्यं परिग्रहपरिपालनार्थं च/ 282.021. पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महान् प्रमाणे यूयम्(?)/ 282.022. तस्यानुभावात्स राजा न प्रतिहन्यते/ 282.022. यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबन्धयक्षं ग्रहाय पर्वतचर्ये ऽचरत्/ 282.023. यावद्दक्षिणा महासमुद्रं गतः/ 282.023. कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनो ऽवष्टब्धः/ 282.024. तस्य मुनिहत इति संज्ञा व्यवस्थापिता/ 282.024. यदा पुष्यमित्रो राजा प्रघातितस्तदा मौर्यवंशः समुच्छिन्नः//
282.026. इति श्रीदिव्यावदाने अशोकावदानं समाप्तम्//
********** अवदान 30 **********
283.001. दिव्30 सुधनकुमारावदानम्/
283.002. पुनरपि महाराज यन्मया अनुत्तरसम्यक्सम्बोधिप्राप्तये दानानि दत्तानि, पुण्यानि कृतानि, वीर्यपारमिता च परिरिपूता, अनुत्तरा सम्यक्सम्बोधिर् नाराधिता, तच्छ्रूयताम्//
283.003. भूतपूर्वं महारज पञ्चालविषये राजनौ बभूवतुः, उत्तरपाञ्चालो दक्षिणपाञ्चालश्च/ 283.005. तत्रोत्तरपाञ्चालो महाधनो नांना दस्तिनापुरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च शान्तकलिकलहडिम्बड्मरतस्करदुर्भिक्षरोगापगतं शलीक्षुगोमहिषीसम्पन्नम्/ 283.007. धार्मिको धर्मराजो धर्मेण राज्यं कारयति/ 283.007. तस्मिंश्च नगरे महाह्रद उत्पलकुमुदपुण्ड्रीकसम्पन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः/ 283.008. तत्र च ह्रदे जन्मचित्रको नां नागपोतः प्रतिवसति/ 283.009. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति/ 283.010. अतीव शस्यसम्पत्तिर्भवति/ 283.010. शस्यवती वसुमती/ 283.010. सुभिक्षान्नपानो देशः/ 283.011. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः/ 283.011. दक्षिणपाञ्चालस्तु राजा अधर्मभूयिष्ठश्चण्डो रभसः कर्कशो ऽधर्मेण राज्यं कारयति, नित्यं दण्डेन घातनधारणबन्धनहिडिनिगडोपरोधन राष्ट्रनिवासिनां त्रासयति/ 283.013. अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधारमुत्सृजति/ 283.014. ततो ऽसौ महाजनकायः संत्रस्तः स्वत्रस्तः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वा उत्तरपाञ्चालस्यैव राज्ञो विषयं गत्वा प्रतिवसति/ 283.015. यावदपरेण समयेन दक्षिणपाञ्चालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतः/ 283.016. यावत् पश्यति ग्रामनगराणि शून्यानि, उद्यानदेवकुलानि भिन्नप्रभग्नानि/ 283.017. स जनकायः क्व गत इति कथयति/ 283.018. अमात्याः कथयत्न्ति--देव, उत्तरपाञ्चालस्य राज्ञो विषयं गतः/
283.018. किमर्थम्? देव, अभयं प्रयच्छ, कथयामः/ 283.019. दत्तं भवतु/ 283.019. ततस्ते कथयन्ति--देव, उत्तरपाञ्चालो राजा धर्मेण राज्यं कारयति/ 283.020. तस्य जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्च आकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्नाः/ 283.022. दानमानसत्कारवांश्च लोकः श्रमणब्राह्मणवनीपकोपभोज्यः/ 283.022. देवस्तु चण्डो रभसः कर्कशो नित्यं ताडनघातनधारणबन्धननिगडोपरोध(न) राष्ट्रं त्रासयति/ 283.023. यतो ऽसौ जनकायः संत्रस्तः संवेगमापन्न उत्तरपाञ्चालस्य राज्ञो विषयं गतः/ 283.024. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, को ऽसावुपायः स्यादेनासौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत्? अमात्या आहुह्--यदि देव उत्तरपाञ्चालवद्धर्मेण राज्यं कारयसि, मैत्रचित्तो ऽनुकम्पाचित्तश्च राष्ट्रं पालयसि, नचिरादसौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसेत्/ 283.027. दक्षिणपाञ्चालो राजा कथयति--भवन्तः, यद्येवम्, अहमप्युत्तरपाञ्चालवद्धर्मेण राज्यं कारयामि, मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तश्च राष्ट्रं पालयामि/ 283.029. यूयं तथा कुरुत, यथा असौ जनकायः पुनरागत्य एषु ग्रामनगरेषु प्रतिवसतीति/ 283.030. अमात्या आहुह्--देव, अपरो ऽपि तत्रानुशंसो ऽस्ति/ 283.031. तस्मिन् नगरे महाग्रद उत्पलकुमुदपुण्डरीकसंछन्नो हंसकारण्डवचक्रवाकोपशोभितह्<284>/
284.001. तत्र जन्मचित्रको नाम नागपोतकः प्रतिवसति/ 284.001. स कालेन कालं सम्यग्वारिधारमनुप्रयच्छति/ 284.002. अतीव शस्यसम्पत्तिर्भवति/ 284.002. तेंस् तस्य शस्यवती वसुमती, सुभिक्षान्नपानश्च देशः/ 284.003. राजा आह--को ऽसौ उपायः स्याद्येनासौ नागपोत इहानीयेत? अमात्या आहुह्--देव, विद्यामन्त्रधारिण्ः, तानानयेति/ 284.004. ते समन्विष्यन्ताम्/ 284.004. ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा स्वविजिते घण्टावघोषणं कारितम्--य उत्तरपाञ्चालराजविषयाज्जन्मचित्रकं नाम नागपोतकमानयति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति/ 284.007. यावदन्यतमो ऽहितुण्डिको ऽमात्यानां सकाशं गत्वा कथयति--ममेदं सुवर्णपिटकमनुप्रयच्छत/ 284.008. अहं जन्मचित्रं नाम नागपितकमपहृत्यानयामीति/ 284.009. अमात्याः कथयन्ति--एष गृहाण/ 284.009. स कथयति--यो युष्माकं श्रद्धयितः प्रत्ययितश्च, तस्य हस्ते तिष्ठतु/ 284.010. आनीते जन्मचित्रे नागपोतके ग्रहीष्यामीति/ 284.010. एवं कुरुष्वेति/ 284.010. ततो ऽसौ अहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं गतः/ 284.012. तेनासौ ह्रदः समन्ततो व्यवलोकितः/ 284.012. निमित्तीकृतह्--असौ ज्ञ्मचित्रो नागपोतक एतस्मिन् प्रदेशे तिष्ठतीति/ 284.013. ततो बल्युपहारनिमित्तं पुनः प्रत्यागतः/ 284.013. अमात्यानां कथयति--बल्युपहारमेनं प्रयच्छत/ 284.014. सप्तमे दिवसे तं नागपोतकमपहृत्य आनयामीति/ 284.014. स चाहितुण्डिकस्तेन संलक्षितह्--ममासावपहरणायागतः/ 284.015. सप्तमे दिवसे मामपहरिष्यति/ 284.015. मातापितृवियोगजं मे
दुःखं भविष्यतीति/ 284.016. किं करोमि, किं शरणं प्रपद्येयमिति/ 284.016. तस्य ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः, सारको हलकः/ 284.017. तौ ह्रदमाश्रित्य जीविकां कल्पयतः/ 284.017. ये स्थलगताः प्राणिनो मृगशरभसूकरादयस्तं ह्रदमुपसर्पन्ति, तान् प्रघातयतः, ये ऽपि जलगता मत्स्यकच्छपमण्डूकादयः/ 284.019. तत्र सारकः कालगतः, हलको जीवति/ 284.019. जन्मचित्रो नागपोतः संलक्षयति--को ऽन्यो ऽस्ति मम शरणमृते हलकात् लुब्धकात्? ततो मनुष्यवेषमास्थाय हलकस्य लुब्धकस्य सकाशं गतः/ 284.021. गत्वा कथयति--भोः पुरुष, किं त्वं जानीषे कस्यानुभावाद्धनस्य राज्ञो जनपदा ऋद्धाश्च स्फीताश्च सुभिक्षाकीर्णबहुजनमनुष्याश्च प्रशान्तकलिकलहडिम्बडमरतस्करदुर्भिक्षरोगापगताः शालीक्षुगोमहिषीसम्पन्ना इति? स कथयति--जाने स राजा धार्मिको धर्मेण राज्यं कारयति, मैत्रचित्तो हितचित्तो ऽनुक्म्पाचित्तश्च राष्ट्रं पालयतीति/ 284.025. अस्मिन् प्रदेशे जन्मचित्रको नाम नागपितकः प्रतिवसति/ 284.026. स कालेन कालं सम्यग्वारिधारामनुप्रयच्छति/ 284.027. अतीव शस्यसम्पत्तिर्भवति/ 284.027. शस्यवती वसुमती, सुभिक्षान्नपानश्च देश इति/ 284.028. जन्मचित्रः कथयति--तं नागपोतकमितो विषयादपहरेत्, तस्य नागपोतकस्य किं स्यात्? न शोभनं स्यात्, मातापितृवियोगजं दुःखं स्याद्राज्ञो राष्ट्रस्य च/ 284.030. यो ऽपहरति, तस्य किं त्वं कुर्याह्? स आह--जीविताद्व्यपरोपयेयम्/ 284.030. जानीषे त्वं कतरो ऽसौ नागपोतक इति? न जाने/ 284.031. अहमेवासौ नागः/ 284.031. दक्षिणपाञ्चालवैषयिकेनाहितुण्डिकेनापहृत्य नीयेत/
284.032. स बल्युपहारविधानार्थं गतः/ 284.032. सप्तमे दिवसे आगमिष्यति/
285.001. <285>आगत्य अस्य ह्रदस्य चतसृषु दिक्षु खदिरशलाकान्निखन्य नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रानावर्तयिष्यति/ 285.002. तत्र त्वया प्रच्छन्ने संनिकृष्टे स्थातव्यम्/ 285.002. यदा तेनायमेवम्रूपः प्रयोगः कृतो भवति, तदा ह्रदमध्यात् क्वथमानं पानीयमुत्थास्यति अहं चोत्थास्यामि/ 285.003. तदा त्वयासौ अहितुण्डिकः शरेण मर्मणि ताडयितव्यः, आशु चोपसंक्रम्य वक्तव्यह्--मन्त्रानुपसंहर/ 285.004. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति/ 285.005. यद्यसौ मन्त्राननुपसंहृत्य प्राणैर्वियोक्ष्यते, मृतं ते ऽहम् यावज्जीवं मन्त्रपाशब्द्धः स्यामिति/ 285.006. लुब्धकः प्राह--यदि तवैकस्यैवं गुणः स्यात्, तथाप्यहमेवं कुर्याम्, प्रागेव सराजकस्य राष्ट्रस्य/ 285.007. गच्छ, अहं ते त्रातेति/ 285.008. ततस्तेन नागपोतकेन तस्यैकपार्श्वे गुप्तस्थानमुपदर्शितम्/ 285.008. यावदसौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वा अवस्थितः/ 285.009. स चाहितुण्डिक आगत्य बल्युपहारं कर्तुमारब्धः/ 285.010. तेन चतसृषु दिक्षु चत्वारः खदिरकीलका निखाताः/ 285.010. नानारङ्गैः सूत्रैर्वेष्टयित्वा मन्त्रा आवर्तिताः/ 285.0ततस्तस्मात् पानीयं क्वथितुमारब्धम्/ 285.011. लुब्धकेन च शरेण मर्मणि ताडितः/ 285.012. निष्कोशं चासिं कृत्वा अभिहितह्--त्वमस्मद्विषयनिवासिनं नागपोतमपहरसि/ 285.013. मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयामीति/ 285.013. ततो ऽहितुण्डिकेन दुःखवेदनाभिभूतेन मरणभयभीतेन मन्त्रा व्यावर्तिताः/ 285.014. तत्समनन्तरं च लुब्धकेन जीविताद् व्यपरोपितः/ 285.015. ततो नागो
मन्त्रपाशविनिर्मुक्तो ह्रदादभ्युद्गम्य लुब्धकं परिष्वक्तवान्, एवं चाह--त्वं मे माता, त्वं मे पिता, यन्मया त्वामागम्य मातापितृवियोगजं दुःखं नोत्पन्नम्/ 285.017. आगच्छ, भवनं गच्छामः/ 285.017. तेनासौ भवनं नीतः, नानाविधेन चान्नपानेन संतर्पितः, रत्नानि चोपदर्शितानि, मातापित्रोश्च निवेदितः/ 285.018. अम्ब तात--एष मे सुहृच्छरणं बान्धवः/ 285.019. अस्यानुभावाद्युष्माभिः सह वियोगो न जात इति/ 285.019. ताभ्यामसौ वरेण प्रवारितो विविधानि च रत्नानि दत्तानि/ 285.020. स तान्यादाय तस्माद् ह्रदाद् व्युथितः/ 285.020. तस्य च ह्रदस्य नातिदूरे पुष्पफलसलिलसम्पन्ने नानाशकुनिकूजिते ऋषेरग्रमाश्रमपदम्/ 285.021. तत्र च नागपोतकेन सार्धं वृत्तकं तत्सर्वं विस्तरेण समाख्यातम्/ 285.022. तत ऋषिः कथयति--किं रत्नैः किं वा ते सुवर्णेन? तस्य भवने ऽमोघो नां पाशस्तिष्ठति, तम् याचस्व/ 285.023. ततो लुब्धको ऽमोघपाशे संजाततृष्णह् ऋषिवचनमुपश्रुत्य पुनरपि नागभवनं गतः/ 285.024. यावत्पश्यति भवनद्वारे तममोघपाशम्/ 285.025. तस्यैतदभवत्--एष स पाशो यो मया प्रार्थनीयः/ 285.025. इति विदित्वा नागभवनं प्रविष्टः/ 285.025. ततो जन्मचित्रेण नागपोतकेन अन्यैश्च नागैः ससम्भ्रमैः प्रतिसंमोदितो रत्नैश्च प्रवारितः/ 285.026. स कथयति--अलं मम रत्नैः/ 285.027. किं तु एतममोघपाशं प्रयच्छथेति/ 285.027. स नाग आह--तवानेन किं प्रयोजनम्? यदा गरुत्मतोपद्रुता भवामः, तदा अनेनात्मानं रक्षामः/ 285.028. लुब्धक आह--युष्माकमेष कदाचित् कर्हिचित् गरुत्मतोपद्रुतानामुपयोगं गच्छति/ 285.029. मम तु
अनेन सततमेव प्रयोजनम्/ 285.030. यदस्ति कृतमुपकृतं च, अनुप्रयच्छेति/ 285.030. जन्मचित्रस्य नागपोतकस्यैतदभवत्--ममानेन बहूपकृतम्/ 285.031. मातापितरौ अवलोक्य ददामीति/ 285.031. तेन् मातापितरौ अवलोक्य स पाशो दत्तः/ 285.032. ततो ऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघपाशमादाय नागभवनादभ्युद्गम्य स्वगृहं गतः//
286.001. <286>यावदपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचारयति/ 286.001. तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता/ 286.002. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितह्--अनेकधनसमुदितं मे गृहम्/ 286.003. न मे पुत्रो न दुहिता/ 286.003. ममात्ययात्स्वकुलवंशच्छेदे राष्ट्रापहारः सर्वसन्तस्वापतेयमपुत्रमिति कृत्वा अन्यराजविधेयो भविष्यतीति/ 286.004. स श्रमणब्राह्मणसुहृत्सम्बन्धिबान्धवैरुच्यते--देव, किमसि चिन्तापरह्? स एतत्प्रकरणं विस्तरेणारोचयति/ 286.006. ते कथयति--देवताराधनं कुरु, पुत्रस्ते भविष्यतीति/ 286.006. सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीनन्यांश्च देवताविशेषानायाचते, तद्यथा--आरामदेवता वनदेवता चत्वरदेवता शृङ्गाटकदेवता बलिप्रतिग्राहिकाः/ 286.008. सहजाः सहधर्मिका नित्यावुबद्धा अपि देवता आयाचते/ 286.009. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति/ 286.009. तच्च नेइवम्/ 286.010. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत्, तद्यथा राज्ञश्चक्रवर्तिनः/ 286.010. अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च/ 286.011. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ/ 286.012. माता चास्य कल्या भवति ऋतुमती च/ 286.012. गन्धर्वः प्रत्युपस्थितो भवति/ 286.013. एषा त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च/ 286.013. स चैवमायाचनपरस्तिष्ठति/ 286.014. अन्यतमश्च भद्रकल्पिको बोधिसत्त्वस्तस्याग्रमहिष्या अवक्रान्तः/ 286.015. पञ्चावेणीया धर्मा एकत्ये पण्डितजातीये मातृग्रामे/
286.015. कतमे पञ्च? रक्तं पुरुषं जानाति विरक्तं जानाति/ 286.016. कालं जानाति क्रतुं जानाति/ 286.016. गर्भमवक्रान्तं जानाति/ 286.016. यस्य सकाशाद्गर्भमवक्रामति तमपि जानाति/ 286.017. दारकं जानाति, दारिकां जानाति/ 286.017. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति/ 286.018. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति/ 286.018. सा आत्तमनाः स्वामिन्न् आरोचयति--दिष्ट्या वर्धस्व आर्यपुत्र/ 286.019. आपन्नसत्त्वास्मि संवृत्ता/ 286.019. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति/ 286.020. सो ऽप्यात्तमनात्तमनाः पूर्वं कायमुन्नमय्य दक्षिणं बाहुमभिप्रसार्य उदानमुदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्/ 286.022. जातो मे स्यान्नावजातः/ 286.022. कृत्यानि मे कुर्वीत्/ 286.022. प्रतिभरेत्/ 286.022. दायाद्यं मे प्रतिपद्येत/ 286.023. कुलवंशो मे चिरस्थितिकः स्यात्/ 286.023. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नांना दक्षिणामादेक्ष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छतु इति/ 286.025. आपन्नसत्त्वां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति तिक्ताम्ललवणमधुर्कटुकषायविवर्जितैराहारैः/ 286.026. हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम्/ 286.027. न चास्याः किंचिदमनोज्ञशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय/ 286.028. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता/ 286.029. दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः
प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोणः संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः/ 286.030. तस्य जातौ आनन्दभेर्यस्ताडिताः/ 286.031. श्रुत्वा राजा कथयति--किमेतदिति/ 286.031. अन्तःपुरिकाभी राज्ञे निवेदितम्--देव, दिष्ट्या वर्धस्व/ 286.032. पुत्रस्ते जात इति/ 286.032. ततो राज्ञा तं सर्वं नगरमपगतपाषाणशर्करकठल्लम् <287>व्यवस्थितम्, चन्दनवारिसिक्तमुच्छ्रतध्वजपताकं सुरभिधूपघटिकोपनिबुद्धं नानापुष्पाभिकीर्णरमणीयम्/
287.002. आज्ञा च दत्ता--श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत, सर्वबन्धनमोक्षं च कुरुतेति/ 287.003. तस्यैवं त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातकर्म करोति/ 287.004. तस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितुमारब्धम्--किं भवतु दारक्स्य नामेति? अमात्याः कथयन्ति--अयं दारको धनस्य राज्ञः पुत्रः, भवतु दारकस्य सुधनो नामेति/ 287.005. तस्य सुधन इति नामधेयं व्यवस्ह्तापितम्/ 287.006. सुधनो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुदत्तो द्वाभ्यामंसधात्रीभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्/ 287.007. सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवतीतेन सर्पिषा सर्पिमण्डैर्वा अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः/ 287.009. आशु वर्धते ह्रदस्थमिव पङ्कजम्//
287.010. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां वस्त्रपरीक्षायाम्/ 287.012. सो ऽष्टासु परीक्षासु घटको वाचकः पण्डितः पटुप्रचारः संवृत्तः/ 287.012. स यानि तानि भवन्ति राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि, तस्यथा--हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे ऽङ्कुशग्रहे पाशग्रहे छेद्ये भेद्ये मुष्टिबन्धे पदबन्धे दूरवेधे शब्दवेधे मर्मवेधे ऽक्षुण्णवेधे दृढप्रहारितायाम्/ 287.016. पञ्चस्थानेषु कृतावी संवृत्तः/ 287.017. तस्य पित्रा त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्/ 287.017. त्रीणि वासगृहाणि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्/ 287.018. त्रीण्युद्यानानि मापितानि, हैमन्तिकं ग्रैष्मिकं वार्षिकम्/ 287.019. ततः सुधनकुमार उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति//
287.021. यावदपरेण समयेन हलको लुब्धको मृगयामन्वेषमाणस्तेन तेनानुविचरन्नन्यतमं पर्वतमनुप्राप्तः/ 287.022. तस्य च पर्वतस्याधस्तादृषेराश्रमपदं पश्यति पुष्पफलसम्पन्नं नानापक्षिगणविचारितम्/ 287.023. महान्तं च ह्रदमुत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्/ 287.024. स तमाश्रमपदं परिभ्रमितुमारब्धः/ 287.024. यावत्तम् ऋषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातापकर्षितशरीरं चीवरवल्कलधारिणमन्यतमवृक्षमूलाश्रयतृणकुटिकाकृतनिलयम्/ 287.025. दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृताञ्जलिपुटः पप्रच्छ--भगवन्, कियच्चिरमस्मिन् प्रदेशे तव प्रतिवसतह्? चत्वारिंशद्वर्षाणि/ 287.027. अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिदाश्चर्याद्भुतधर्मो दृष्टः श्रुतो वा? प्रशान्तात्मा ऋषिर्मन्दं मन्दमुवाच--भद्रमुख, दृष्टस्ते ऽयं ह्रदह्? दृष्टो भगवन्/ 287.029. एषा ब्रह्मसभा नाम पुष्किरिणी उत्पलपद्मकुमुदपुण्डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुसम्पूर्णा सुरभिकुसुमपूर्णतोया/ 287.030. अस्यां पुष्किरिण्यां पञ्चदशम्यां मनोहरा नाम द्रुमस्य किन्नरराजस्य दुहिता पञ्चकिन्नरीशतपरिवारा नानाविधस्नानोद्वर्तनैरागत्य स्नाति/ 287.032. स्नानकाले चास्या मधुरगीतवादितशब्देन मृगपक्षिणो ऽवह्रियन्ते/
288.001. अहमपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहमतिनामयामि/ 288.001. एतदाश्चर्यं भद्रमुख मया दृष्टमिति/ 288.002. अथ हलकस्य लुब्धकस्यैतदभवत्--शोभनो ऽयं मया अमोघः पाशो नागाल्लब्धो मनोहरायाः किन्नर्याः क्षेप्स्यामीति/ 288.003. सो ऽपरेण समयेन पूर्णपञ्चदश्याममोघं पाशमादाय ह्रदतीरसमीपे पुष्पफलविटपगहनमाश्रित्य अवधानतत्परो ऽवस्ह्तितः/ 288.004. यावन्मनोहरा किन्नरी पञ्चशतपरिवारिता तादृश्यैव विभूत्या ब्रह्मसभां पुष्किरिणीमवतीर्णा स्नातुम्/ 288.005. तत्समन्तरं च हलकेन लुब्धकेन अमोघः पाशः क्षिप्तः, येन मनोहरा किन्नरी बद्धा/ 288.006. तया अमोघपाशश्रितया ह्रदे महाहतनादः कृतो भीषणश्च शब्दो निश्चारितः, यं श्रुत्वा परिशिष्टः किन्नरिगण इतश्चामुतश्च संभ्रान्तो मनोहरां निरीक्षितुमारब्धः/ 288.008. पश्यन्ति बद्धाम्/ 288.008. दृष्ट्वा च पुनर्भीता निष्पलायिताः/ 288.009. अद्राक्षीत्स लुब्धकस्तां परमरूपदर्शनीयाम्/ 288.009. दृष्ट्वा च पुनरुपश्लिष्टो ग्रहीष्यामीति/ 288.010. सा आह--हा हतास्मि, हा मन्दभाग्या, ममोदृशीमवस्थामाप्ताम्/ 288.011. मा नैषीस्त्वं हि मा स्प्राक्षीर् नैतत्त्व सुचेष्टितम्/ 288.012. राजभोग्या सुरूपाहं न साधु ग्रहणं तव//1// इति/ 288.013. लुब्धकः प्राह--यदि त्वां न गृह्णामि, निष्पलायसे/ 288.013. सा कथयति--नाहं निष्पलाये/ 288.014. यदि न श्रद्दधासि, इमं चूडामणिं गृहाण/ 288.014. अस्यानुभावेनाहमुपरिविहायसा गच्छामीति/ 288.015. लुब्धकः कथयति--कथं जाने? तया शिरस्थश्चूडामणिर्दत्त उक्तश्च--एष चूडामणिर्यस्य हस्ते, तस्याहं वशा भवामि/ 288.016. ततो लुब्धकेनासौ चूडामणिर्गृहीतः, पाशबद्धां चैनां संप्रस्ह्तितः//
288.017. तेन खलु समयेन सुधनराजकुमारो मृगयानिर्गतः/ 288.017. अद्राक्षीत्स लुब्धकः सुधनं राजकुमारमभिरूपं दर्शनीयं प्रासादिकम्/ 288.018. दृष्ट्वा च पुनरस्यैतदभवत्--अयं च राजकुमारः, इयं च परमदर्शनीया/ 288.019. यद्येनां द्रक्ष्यति, बलाद्ग्रहीष्यति/ 288.019. यन्न्वहमेनां प्राभृतन्यायेन स्वयमेवोपनयेयम्/ 288.020. ततस्तां पाशब्द्धामादाय येन राजकुमारस्तेनोपसंक्रान्तः/ 288.020. उपसंक्रम्य पादयोर् निपत्य कथयति--इदं मम देवस्य स्त्रीरत्नं प्राभृतमानीतम्, प्रतिगृह्यतामिति/ 288.021. अद्राक्षीत्सुधनकुमारो मनोहरां किन्नरीमभिरूपां दर्शनीयां प्रासादिकां परमशुभवर्णपुष्कलतया समन्वागतां सर्वगुणसमुदितामष्टादशाभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणां काञ्चनकलशकूर्मपीनोन्नतकठिनसहितसुजातवृत्तप्रगल्भमानस्तनीमभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुङ्गनासां विद्रूममणिरत्नविंवफलसंस्थानसदृशाधरोष्ठीं सुदृढपरिपूर्णगण्डपार्श्वामत्यर्थरतिकरकपोलतिलकानुपूर्वचरितां संगतभ्रुवारविन्दविकचसदृशपरिपूर्णविमलशशिवपुषं प्रलम्बबाहुं गम्भीरतिवलिकसंततमध्यां स्तनभारावनाम्यमानपूर्वार्धां रथाङ्गसंस्थितसुजातजघनां कदलीगर्भसदृशकरानुपूर्वावस्थितसुजातकरभोरुं सुनिगूढसुरचितसर्वाङ्गसुन्दरशिरां सहितमणिपीडासम्रक्तकरतलप्रहर्षनूपुरवलयाम् हारर्धहारनिर्घोषविमलशितगतिमायतनीलसूक्ष्मकेशीं सचीवरप्रभ्रष्टकाञ्चीगुणां नूपुरावच्छादितपादां क्षामोदरीम्/ 288.030. तां प्रतिकीर्णहारामुत्तप्तजाम्बूनदचारुपूर्णां दृष्ट्वा कुमारः सहसा पपात विद्धो दृढरागशरेण/ 288.031. तत्र स रागवराहदवदहनपतङ्गसदृशेन जलचन्द्रचञ्चलविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरङ्गज्ञषमकरसुरभिगमनेन <289>गरुडपवनजवसमगतिना तूलपरिवर्तनलघुतरेण वानरावस्थितचपलोद्भ्रान्ततरेण सतताभ्यासक्लेशनिषेवणरागसुखास्वादलोभेन सर्वक्लेशविषमदुर्गप्रपातनिःसङ्गेन परमसलीलेन चित्तेन तद्भूतानुगतया अयोनिशोमनस्कारधनुर्विसृतैः सम्योगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्ध/
289.004. आह च-- 289.005. दृष्ट्वा च तां सुधन इन्दुसमान्वक्त्रां प्रावृडघनान्तरविनिश्चरितेव विद्युत/ 289.007. तत्स्नेहमन्मथविलाससमुद्भवेन सद्यः स चेतसि नु रागशरेण विद्धः//2//
289.009. स तामतिमनोहरां गृहीत्वा हस्तिनापुरं गतः/ 289.009. स च लुब्धः पञ्चग्रामवरेणाच्छादितः/ 289.010. ततः सुधनो राजकुमारो मनोहरया रूपयौवनगुणेन सुघनः कुमारोनेकैश्चोपचारशतैस्तथा अपहृतो यथा मुहूर्तमपि तां न जहाति/ 289.011. यावदपरेण समयेन जेतवनाद्द्वौ ब्राह्मणौ अभ्यागतौ/ 289.012. तत्रैको राजानां संश्रितः, द्वितीयः सुधनं कुमारम्/ 289.012. यो राजानं संश्रितः, स राज्ञा पुरोहितः स्थापितो भोगैश्च संविभक्तः/ 289.013. यस्तु सुधनं कुमारम्, स भोगमात्रेण संविभक्तः/ 289.014. स कथयति--यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्ये ऽवस्थापितः, एवमहं त्वामपि पौरोहित्ये स्थापयामीति/ 289.016. एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरम्परया श्रुतः/ 289.016. तस्यैतदभवत्--अहं तथा करिष्ये, यथा कुमारो राज्यमेव नासादयिष्यति, कुतस्तं पुरोहितं स्थापयिष्यतीति? यावदपरेण समयेन तस्य राज्ञो विजिते ऽन्यतमः कार्वटिकः प्रतिविरुद्धः, तस्य समुच्छित्तये एको दण्डः प्रेषितः/ 289.019. स हतविहतविध्वस्तः प्रत्यागतः/ 289.019. एवम् यावत्सप्त, ये दण्डाः प्रेषिताः, ते ऽपि हस्तविध्वस्ताः प्रत्यागताः/ 289.020. अमात्यै राजा विज्ञापितः सर्वो ऽसौ आहूयतामिति/ 289.022. ब्राह्मण पुरोहितः संलक्षयति--अयं स कुमारस्य वधोपायकाल इति/ 289.022. तेन राजा विज्ञप्तह्--देव, नैवमसौ शक्यः संनामयितुम्/ 289.023. राजा कथयति--किं मया स्वयं गन्तव्यम्? पुरोहितः कथयति--किमर्थं देवः स्वयं गच्छति? अयं सुधनः कुमारो युवा बलदर्पयुक्तः/ 289.025. एष दण्डसहायः प्रेष्यतामिति/ 289.025. राजा
कथयति--एवमस्त्विति/ 289.025. ततो राजा कुमारमाहूय कथयति--गच्छ कुमार, दण्डसहायः कार्वटिकं संनामय/ 289.026. एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्य अन्तःपुरं प्रविष्टः/ 289.027. मनोहरादर्शनाच्चास्य सर्वं विस्मृतम्/ 289.027. पुनरपि राज्ञा अभिहितह्--पुनरपि तद्दर्शनात्सर्वं विस्मृतम्/ 289.028. पुरोहितेन चाभिहितह्--देव, सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्/ 289.029. राजा कथयति--साधनं सज्जं क्रियताम्/ 289.029. निर्गतः कुमारो ऽन्तःपुरात् प्रेषयितव्यो यथा मनोहरायाः सकाशं न प्रतिवसतीति/ 289.030. एवं देवेति अमात्यै राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसम्पन्नो ऽनकप्रहरणोपकरणयुक्तः सज्जीकृतः/ 289.032. ततः कुमारो निर्गतह् उक्तह्--गच्छ कुमार, सज्जो बलौघ इति/ 289.032. स कथयति--देव, गमिष्यामि <290>मनोहरां दृष्ट्वा/
290.001. राजा कथयति--कुमार न द्रष्टव्या, कालो ऽतिवर्तते/ 290.001. स कथयति--तावद्यदि एवम्, मातरं दृष्ट्वा गच्छामि/ 290.002. गच्छ कुमारो अवलोक्य जननीम्/ 290.002. स मनोहरसन्तकं चूडामणिमादाय मातुःसकाशमुपसंक्रान्तः/ 290.003. पादयोर् निपत्य कथयति--अम्ब, अहं कार्वटिकं संनामनाय गच्छामि/ 290.005. दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी/ 290.006. पाल्या विरहशोकार्ता मद्वात्सल्यधिया//3//
290.007. अयं चूडामणि सुगुप्तं स्थापयितव्यः/ 290.007. न कदाचिन्मनोहराया दातव्यो ऽन्यत्र प्राणवियोगादिति/ 290.008. स एवं मातरं पितरं संदिश्य अभिवाद्य च नानायोधबलौघतूर्यनिर् नादितैः संप्रस्थितः/ 290.009. अनुपूर्वेण जनपदानतिक्रम्य तस्य कार्वटिकस्य नातिदूरे ऽन्यतं वृक्षमूलं निश्रित्य वासमुपगतः/ 290.010. तेन खलु समयेन वैश्रवणो महाराजो ऽनेकयक्षपरिवारो ऽनेकयक्षशतसहस्रपरिवारः/ 290.011. तेन यक्षाणाम् यक्षसमितिं संप्रस्थितः/ 290.011. तस्य तेन पथा गच्छतः खगपथेन यानमवस्थितम्/ 290.012. तस्यैतदभवत्--बहुशो ऽहमनेन पथा समतिक्रान्तः/ 290.012. न च मे कदाचिद्यानं प्रतिहतम्/ 290.013. को ऽत्र हेतुर्येनेदानीं प्रतिहत इति? पश्यति सुधनं कुमारम्/ 290.013. तस्यैतदभवत्--अयं भद्रकल्पिको बोधिसत्त्वः खेदमापत्स्यति युद्धायाभिप्रस्थितः/ 290.014. साहाय्यमस्य करणीयम्/ 290.015. कार्वटिकः संनामयितव्यः/ 290.015. न च कस्यचित्प्राणिनः पीडा करणीयेति विदित्वा पाञ्चिकं महायक्षसेनापतिमामन्त्रयते--एहि त्वं पाञ्चिक, सुधनस्य कुमारस्य कार्वटिकमयुद्धेन संनामय/ 290.017. न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति/ 290.017. तथेति पाञ्चिकेन यक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरङ्गो बलकायो निर्मितह्--तालमात्रप्रमाणाः पुरुषः, पर्वतप्रमाणा हस्तिनः, हस्तिप्रमाणा अश्वाः/ 290.019. ततो नानाविधखङ्गमुशलतोमरपाशचक्रशरपरश्वधादिशस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयमुपदर्शयन् महता बलौधेन पाञ्चिको ऽनुप्राप्तः/ 290.021. हस्त्यश्वरथनिर्घोषान्नानावादित्रनिद्वनात्/ 290.022. यक्षाणां स्वप्रभावाच्च प्राकारः प्रपपात वै//4//
290.023. ततस्ते कर्वटनिवासिनस्तं बलौघं दृष्ट्वा तच्च प्राकारपतनं परं विषादमापन्नाः पप्रच्छुह्--कुत एष बलौघ आगच्छतीति? ते कथयन्ति--शीघ्रं द्वाराणि मुञ्चत/ 290.024. एष पृष्ठतः कुमार आगच्छति/ 290.025. तस्य च बलौघो यदि चिरं विधारयिष्यथ, सर्वथा न भविष्यथेति/ 290.026. ते कथयन्ति-- 290.027. व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः/ 290.028. नृपपौरुषकेभ्यो स्म भीताः संत्रासमागताः//5//
290.029. तैर्द्वाराणि मुक्तानि/ 290.029. तत उच्छ्रितध्वजपताकापूर्णकलशा नानाविधतूर्यनिर् नादितैः सुधनं कुमारं प्रत्युद्गताः/ 290.030. तेन च समाश्वासिताः, तदभिप्रायश्च राजभटः स्थापितः/ 290.030. निपकाश्च निगृहीताः/ 290.031. करप्रत्यायाश्च निबद्धाः/ 290.031. ततस्तं कर्वटकं स्फीतीकृत्य सुधनकुमारह् <291>प्रतिनिवृत्तः/
291.001. धनेन च राज्ञा तामेव रात्रिं स्वप्नो दृष्टह्--गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्याकृष्य सर्वं तन्नगरमन्त्रैर्वेष्टितम्, सप्त रत्नानि गृहं प्रवेश्यमानानि दृष्टानि/ 291.002. ततो राजा भीतस्त्रस्तः संविग्न आहृष्टरोमकूपो लघुकध्वेवोत्थाय महाशयने निषद्य करे कपोकं दत्त्वा चिन्तापरो व्यवस्थितह्--मा हैव मे अतोनिदानं राज्यच्च्युतिर्भविष्यति, जीवितस्य वा अन्तराय इति/ 291.005. स प्रभातायां रजन्यां स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास/ 291.005. स संलक्षयति--यादृशो देवेन स्वप्नो दृष्टः, नियतं कुमारेण कर्वटको निर्जितः/ 291.006. वितथनिर्देशः करणीयः/ 291.007. इति कृत्वा कथयति--देव, न शोभनः स्वप्नः/ 291.007. नियतमतोनिदानं राज्याच्च्युतिर्भविष्यति, जीवितस्यान्तराय इति/ 291.008. केवलं तु अत्रास्ति प्रतिकारः, स च ब्राह्मणकमन्त्रेषु दृष्टः/ 291.008. को ऽसौ प्रतिकारह्? देव, उद्याने पुष्करिणी पुरुषप्रमाणिका कर्तव्या/ 291.009. तत सुधया प्रलेप्तव्या/ 291.010. सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या/ 291.010. ततो देवेन स्नानप्रयतेन तां पुष्करिणीमेकेन सो ऽआनेनावतरितव्यम्, एकेनावतीर्य द्वितीयेनोत्तरितव्यम्, द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्, तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्/ 291.012. ततश्चतुर्भिर्ब्राह्मणैर्वेदवेदाङ्गपारगैर्देवस्य पादयोर्जिह्वया निर्लेढव्यम्, किन्नरवसया च धूपो देयः/ 291.013. एवं देवो विधूतपापश्चिरं राज्यं पालयिष्यतीति/ 291.014. राजा कथयति--सर्वमेतच्छक्यम् यदिदं किन्नरमेदमतीव दुर्लभम्/ 291.014. पुरोहितः कथयति--देव, यदेव दुर्लभं तदेव सुलभम्/ 291.015. राजा कथयति--यथा कथम्? पुरोहितः कथयति--देव, नन्वियं मनोहरा किन्नरी/ 291.016. राजा कथयति--पुरोहित, मा मैवं वद/ 291.016. कुमारस्यात्र प्राणाः प्रतिष्ठिताः/ 291.017. स कथयति--ननु देवेन श्रुतम्-- 291.018. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्/ 291.019. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्//6//
291.020. दृढेनाद्ध्यात्मना(?) राज्यं कुमारस्यास्य धीमतः/ 291.021. शक्ष्यसि ह्यपरां कर्तुं घातयैनां मनोहराम्//7// इति/ 291.022. आत्माभिनन्दिनो न किंचिन्न प्रतिपद्यन्त इति तेनाधिवासितम्/ 291.022. ततो यथोपदिष्टं पुरोहितेन कारयितुमारब्धम्/ 291.023. पुष्करिणी खाता सुधयोपलिप्ता क्षुद्रमृगरुधिरमुपावर्तायितुमारब्धम्/ 291.024. स च प्रयोगः सुधनस्यान्तःपुरजनेनोपलब्धः/ 291.024. ताः प्रीतिमनसः संवृत्ताह्--वयं रूपयौवनसम्पन्नाः/ 291.025. इदानीमस्माकं सुधनः कुमारः परिचारयिष्यतीति/ 291.026. ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति--किम् यूयमतीव प्रहर्षिता इव? यावदपरया स वृत्तान्तो विस्तरेण मनोहराया निवेदितः/ 291.027. ततो मनोहरा संजातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता/ 291.028. उपसंक्रम्य पादयोर् निपत्य करुणदीनविलम्बितैरक्षरैरेतमर्थं निवेदयामास/ 291.029. सा कथयति--यद्येवं स्वागतमिदं कुरु विचारयिष्यामीति/ 291.029. मनोहरया आगम्य पुनरपि समाख्यातम्/ 291.030. तया अपि विचारितम्/ 291.030. पश्यति भूतम्/ 291.030. ततस्तया स चूडामणिर्वस्त्राणि च मनोहरायै दत्तानि, उक्ता च--पुत्रिके, प्राप्ते काले आगन्तव्यम्/ 291.031. एवं ममोपालम्भो न भवतीति/ 291.032. ततो राजा यथादिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्किरिणिमवतीर्योत्तीर्णह्<292>/ 292.001. ततो ऽस्य ब्राह्मणैर्जिह्वया पादौ निलीढौ, अवस्थितह्--आनीयतां किन्नरीति च समादिष्टम्/ 292.002. तत्समनन्तरमेव मनोहरा गगनतलमुत्प्लुत्य गाथां भाषते-- 292.003. स्पर्शसंगमनं मह्यं रमितं च मे/ 292.004. नागीव
बन्धनान्मुक्ता एषा गच्छामि साम्प्रतम्//8// इति/ 292.005. राज्ञा दृष्टा वायुपथेन गच्छन्ती/ 292.005. स भीतः पुरोहितमामन्त्रयते--यदर्थं कृतो यत्नः, स न संपन्नः, मनोहरा किन्नरी निष्पलायितेति/ 292.006. पुरोहितः कथयति--देव, सिद्धार्थो ऽपगतपापो देवः साम्प्रतमिति/ 292.007. ततो मनोहरायाः खगपथेन गच्छन्त्या एतदभवत्--यदहमेतामवस्थां प्राप्ता, तत्तस्य ऋषेर्ब्यपदेशात्/ 292.008. यदि तेन नाख्यातमभविष्यत्, नाहं ग्रहण गता अभविष्यत्/ 292.009. तेन हि यस्यामि तावदस्यैव ऋषेः सकाशामिति/ 292.009. सा तस्याश्रमपदं गता/ 292.009. पादाभिवन्दनं कृत्वा तम् ऋषिमुवाच--महर्षे, तव व्यपदेशादहं ग्रहणं गता, मनुष्यस्य संस्पर्शश्च संप्राप्तः/ 292.011. जीवितान्तरायश्चैतत्संवृत्तः/ 292.011. तद्विज्ञापयामि--यदि यदा कदाचित्सुधनः कुमार आगच्छति मां समन्वेषमाणः, तस्येमामङ्गुलिमुद्रां दातुर्महसि/ 292.012. एवं च वक्तव्यम्--कुमार, विषमाः पन्थानो दुर्गमाः, खेदमापत्स्यसे, निर्वतस्वेति/ 292.013. यदि निर्वायमाणो न रिष्ठेत्, तस्य मार्गं व्यपदेष्टुमर्हसि--कुमार, मनोहरया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य अपरे त्रयः, तानतिक्रम्य हिमवान् पर्वतराजः, तस्योत्तरेणोत्कलकपर्वतः, तत उत्कूलको जलपथ एकधारको वज्रकः कामरूपी/ 292.017. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः/ 292.018. एभिरुपायैस्ते पर्वता अतिक्रमणीयाः, यन्त्राणि च भुङ्क्तव्यानि/ 292.019. अजवक्त्रमेण्ढकः पुरुषो राक्षसरूपी पिङ्गलागुहायां
लालास्रोतसा महानजगरो वेगेन प्रधावति/ 292.020. स ते विक्रमेण हन्तव्यः/ 292.020. अरान्तरगतां नाभीम् यत्र पश्येत्तत्र किटिभकश्च/ 292.022. अयं भुक्तेन बाणेन हन्तव्यो मम कारणात्/ 292.023. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्/ 292.024. तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यसे//9//
292.025. आयसौ पुरुशौ दृष्ट्वा शस्त्रपाणी महाभयौ/ 292.026. तयोरेकं पादयित्वा मार्गं प्रतिलप्स्यसे//10//
292.027. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्/ 292.028. यदा पश्येत्तत्र कीलकं ललाटे तस्या निखानयेत्//11//
292.029. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः/ 292.030. हरिपिङ्गलकेशाक्षो दारुणो यत्र राक्षसः//12//
292.031. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः/ 292.032. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः//13//
293.001. <293>रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च/ 293.002. रङ्गायां राक्षसीकोपः पतङ्गायाममनुष्यकाः/ 293.003. तपन्त्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः//14//
293.004. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरस्नुषा/ 293.005. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः//15//
293.006. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः/ 293.007. तपन्त्यां ग्राहमुखबन्धं चित्रायां विविधगीतम्//16//
293.008. रुदन्त्यां सौमनस्ये समुत्तारम्, हसन्त्यां तूष्णीभावयोगेन, अशीविषायां सर्पविषमन्त्रयोगेन, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः/ 293.009. नदीः समतिक्रम्य पञ्च यक्षशतानि गुल्मकम्/ 293.010. तद्धैर्यमास्थाय विद्राब्यम्/ 293.010. ततो द्रुमस्य किन्नरराजस्य भवनमिति/ 293.010. ततो मनोहरा तम् ऋषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता//
293.012. यावत्सुधनः कुमारस्तं कर्वटकं संनाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः/ 293.012. श्रुत्वा च राजा परां प्रीतिमुपगतः/ 293.013. ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः/ 293.013. प्रणामं कृत्वा पुरस्तान्निषण्णः/ 293.014. राज्ञा परमया संतोषणया संभाषितः, उक्तश्च--कुमार, शिवेन त्वमागतह्? देव, तव प्रसादात्कर्वटकः संनामितः, निपका गृहीताः, चिन्तकः स्थापितः/ 293.015. इमे तु करप्रत्ययाः/ 293.016. पण्यागारश्च स्थाप्यतामिति/ 293.017. राजा कथयति--कुमार तिष्ठ, प्राभृतं सहिता एव भोक्ष्यामः/ 293.018. देव गच्छामि, चिरं दृष्टा मे मनोहरा/ 293.018. अलं कुमार अद्य गमनेन/ 293.018. तिष्ठ, श्वो गामिष्यसीति/ 293.019. सो ऽनवबुध्यमान एवमाह--तात, अद्यैव मया अवश्यं गन्तव्यम्/ 293.019. राजा तूष्णीमवस्थितः/ 293.020. ततः कुमारः स्वगृहं गतः/ 293.020. यावत्पश्यति श्रिया वर्जितमन्तःपुरद्वारम्/ 293.020. स चिन्तापरः प्रविश्य मनोहरां न पश्यति/ 293.021. इतश्चामुतश्च संभ्रान्तः शून्यहृदयः शब्दं कर्तुमारब्धह्--मनोहरे मनोहरे इति/ 293.022. यावदन्तःपुरं संनिपतितम्/ 293.022. ताः स्त्रियः क्षेपं कर्तुमारब्धाः/ 293.022. विद्धो ऽसौ हृदयशल्येन सुतरां प्रष्टुमारब्धः/ 293.023. ताभिर्यथाभूतं समाख्यातम्/ 293.023. स शोकेन संप्रमुह्यते/ 293.023. ताः स्त्रियः कथयन्ति--देव, अस्मिन्नन्तःपुरे तत्प्रविशिष्टतराः स्त्रियः सन्ति, किमर्थं शोकः क्रियते? स पितुर् नैर्गुण्यमुपश्रुत्य कृतघ्नतां च, मातुः सकाशमुपसंक्रान्तः/ 293.025. पादयोर् निपत्य कथयति--अम्ब, 293.026. मनोहरां न पश्यामि मनोरथगुणैर्युताम्/ 293.027. साधुरूपसमायुक्ता क्व गता मे मनोहरा//17//
293.028. मनसा संप्रधावामि मनो मे संप्रमुह्यते/ 293.029. हृदयं दह्यते चैव रहितस्य तया भृशम्//18//
293.030. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च/
294.001. <294>संतप्तदेहो ऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्//19// इति/ 294.003. सा कथयति--पुत्र, कृच्छ्रसंकटसम्बाधप्राप्ता मनोहरेति मया प्रतिमुक्ता/ 294.003. अम्ब, यथा कथम्? तया यथावृत्तं विस्तरेण समाख्यातम्/ 294.004. स पितुर् नैर्गुण्यमकृतज्ञतां च ज्ञात्वा कथयति--कुत्र गता कतरेण वा पथेति? सा कथयति-- 294.006. एषो ऽसौ पर्वतशैल ऋषिसंघनिषेवितः/ 294.007. उषितो धर्मराजेन यत्र याता मनोहरा//20// इति/ 294.008. स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप, करुणं परिदेवते-- 294.009. मनोहरां न पश्यामि मनोरथगुणैर्युताम्/ 294.010. साधुरूपसमायुक्ता क्व गता मे मनोहरा//21//
294.011. मनसा संप्रधावामि मनो मे संप्रमुह्यते/ 294.012. हृदयं दह्यते चैव रहितस्य तया भृशम्//22//
294.013. मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च/ 294.015. संतप्तदेहो ऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्//23// इति/ 294.017. ततो मात्रा अभिहितह्--पुत्र, सन्त्यस्मिन्नन्तःपुरे तद्विशिष्टतराः स्त्रियः/ 294.017. किमर्थं शोकस् त्रियत इति? कुमारः कथयति--कुतो मे रतिरनुप्राप्यतामिति? स तया समाश्वास्यमानो ऽपि शोकसंतापसंतप्तस्तस्याः प्रवृत्तिं समन्वेषमाण इतश्चामुतश्च परिभ्रमितुमारब्धः/ 294.019. तस्य बुद्धिरुत्पन्ना--यत एव लब्धस्तमेव तावत्पृच्छामि/ 294.020. स हलकस्य सकाशं गतः पृच्छति--मनोहरा कुतस्त्वया लब्धेति? स कथयति--अमुष्मिन् प्रदेशे ऋषिः प्रतिवसति/ 294.021. तस्याश्रमपदे ब्रह्मसभा नाम पुष्किरिणी/ 294.022. तस्यां स्नातुमवतीर्णा ऋषिव्यपदेशेन लब्धेति/ 294.022. स संलक्षयति--ऋषिरिदानीमभिगन्तव्यः, तस्मात्प्रवृत्तिर्भविष्यतीति/ 294.023. एष च वृत्तान्तो राज्ञा श्रुतह्--मनोहरावियोगात्कुमारो ऽतीव विक्लव इति/ 294.024. ततो राज्ञा अभिहितह्--कुमार, किमसि विक्लवह्? इदानीं तद्विशिष्टतरमन्तःपुरं व्यवस्थापयिष्यामीति/ 294.025. स कथयति--तात, न शक्यं मया तामनानीय अन्तःपुरस्थेन भवितुम्/ 294.026. स राज्ञा बह्वप्युच्यमानो न निवर्तते/ 294.026. ततो राज्ञा नगरप्राकारशृङ्गेष्वारक्षकाः पुरुषाः स्थापिताः, यथा कुमारो न निष्कासतीति/ 294.027. कुमारः कृत्स्नां रात्रिं जागर्तुकामः/ 294.028. उक्तं च--पञ्चेमे रात्र्या अल्पं स्वपन्ति बहु जागार्ति/ 294.028. कतमे पञ्च पुरुषाह्? स्त्रियामवेक्ष्य(पेक्षा?)वान् प्रतिबद्धचित्तः/ 294.029. स्त्रीपुरुष उत्कोशः, ऋणी, चौरसेनापतिः, भिक्षुश्चालब्धवीर्य इति/ 294.030. अथ कुमारस्यैतदभवत्--यदि द्वारेण यास्यामि, राजा द्वारपालकान् रक्षकांश्च दण्डेनोत्सादयिष्यति/ 294.031. यन्न्वहमरक्षितेन पथा गच्छेयमिति/ 294.031. स रात्र्या व्युत्थाय नीलोत्पलमालाबद्धशिरा<295> येन रक्षिणः पुरुषा न सन्ति, तेन तां मालां ध्वजे बद्ध्वा अवतीर्णः/
295.001. चन्द्रश्चोदितः/ 295.002. ततो ऽसौ चन्द्रमवेक्ष्य मनोहराविरहित एवं विललाप-- 295.003. भोः पूर्णचन्द्र रजनीकर तारराज त्वं रोहिणीनयनकान्त सुसार्थवाह/ 295.005. कच्चित्प्रिया मम मनोहरणैकदक्षा दृष्टा त्वया भुवि मनोहरनामधेया//24// इति/ 295.007. अनुभूतपूर्वरतिमनुस्मरञ् जगाम/ 295.007. ददर्श मृगीम्/ 295.007. तामप्युवाच-- 295.008. हे त्वं कुरङ्गि तृणवारिपलाशभक्षे स्वस्त्यस्तु ते चर सुखं न मृगारिरस्मि/ 295.010. दीर्घेक्षणा मृगवधूकमनीयरूपा दृष्टा त्वया मम मनोहरनामधेया//25//
295.012. स तामतिक्रम्य अन्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैरुपभुज्यमानसारम्/ 295.013. ततो ऽन्यतमं भ्रमरमुवाच-- 295.014. नीलाञ्जनाचलसुवर्ण मधुद्विरेफ वंशान्तराम्बुरुहमध्यकृताधिवास/ 295.016. वर्णाधिमात्रसदृशायतकेशहस्ता दृष्टा त्वया मम मनोहरनामधेया//26//
295.018. तस्मादपि प्रदेशादतिक्रान्तः पश्यत्याशीविषम्/ 295.018. दृष्ट्वा चाह-- 295.019. भोः कृष्णसर्प तनुपल्लवलोलजिह्व वक्त्रान्तरोत्पतितधूमकलापवक्त्र/ 295.021. रागाग्निना तव समो न विषाग्निरुग्रो दृष्टा त्वया मम मनोहरनामधेया//27//
295.023. तमपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्/ 295.023. दृष्ट्वा च पुनस्तं कोकिलमुवाच-- 295.025. भोः कोकिलोत्तम वनान्तरवृक्षवासिन् नारी मनोहर पतत्रिगणस्य राजन्/ 295.027. नीलोत्पलामकसमायतचारुनेत्रा दृष्टा त्वया मम मनोहरनामधेया//28//
295.029. तमपि प्रदेशं समतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्/ 295.030. मङ्गल्यनामान्तरनामयुक्त सर्वद्रुमाणामधिराजतुल्य/
296.001. <296>मनोहराशोक विभूर्च्छितं माम् एषो ऽञ्जलिस्ते कुरु वीतशोकम्//29//
296.003. स एवं विक्लवो ऽनुपूर्वेण तस्य ऋषेराश्रमपदमनुप्राप्तः/ 296.003. स तम् ऋषिं सविनयं प्रणिपत्योवाच-- 296.005. चीराजिनाम्बरधर क्षमया विशिष्ट मूलाङ्कुरामलकबिल्वकपित्थभक्त/ 296.007. वन्दे ऋषे नतशिरा वद मे लघु त्वं दृष्टा त्वया मम मनोहरनामधेया//30//
296.009. ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्य उवाच-- 296.011. दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा रूपेण प्रियदर्शना सुबदना नीलञ्चतभ्रूलता/ 296.013. त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो पञ्चात्स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः//31//
296.015. इदं ह्यवोचद्वचनं च सुभ्रूः कुमार तृष्णा त्वयि बाधते मे/ 296.017. महच्च दुःखं वसतां वनेषु यातां रमां द्रक्ष्यसि निष्चयेन//32// इति/ 296.019. इयं च तया अङ्गुलिमुद्रिका दत्ता/ 296.019. कथयति च-- कुमार, विषमाः पन्थानो दुर्गमाः/ 296.020. खेदमापत्स्यसे, निवर्तस्वेति/ 296.020. यदि च निवार्यमाणो न तिष्ठेत्, तस्य मार्गमुपदेष्टुमर्हसि/ 296.021. कुमार, इदं च तया समाख्यातम्--उत्तरे दिग्भागे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य हिमवान् पर्वतराजः/ 296.022. तत्प्रदेशेन त्वया इमानि भैषज्यानि समुदानेतव्यानि--तद्यथा सूदया नामौषधिस्तया घृतं पक्त्वा पातव्यम्/ 296.023. तेन च ते न तृषा न बुभुक्षा, स्मृतिबलं च वर्धयति/ 296.024. वानरः समुदानेतव्यः, मन्त्रमध्येतव्यम्, सशरं धनुर्ग्रहीतव्यम्, मणयो ऽवभासात्मकाह् अगदो विषघातको ऽयस्कीलास्त्रयो वीणा च/ 296.026. हिमवतः पर्वराजस्योत्तरेणोत्कीलकः पर्वतः/ 296.026. ततः कूलको जलपथः खदिरक एकधारको वज्रकः कामरूपी/ 296.027. उत्कीलक एरावतको ऽधोबाणः प्रमोक्षक एते पर्वताः/ 296.027. सर्वे ते समतिक्रमणीयाः/ 296.028. तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कोलकाः, वज्रके पक्षिराजेन प्रवेशः/ 296.029. एभिरुपायैस्ते सर्वे पर्वताः समतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि/ 296.029. अजवक्त्रो मेण्ढकः पुरुषो राक्षसीरूपी पिङ्गलायां गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति/ 296.031. स ते विक्रमेण हन्तव्यः/ 296.031. अरान्तरगतां नाभीम् यत्र पश्येत्तत्र किटिभकश्च/
297.001. <297>अयं मुक्तेन बाणेन हन्तव्यो मम कारणात्/ 297.002. यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्/ 297.003. तयोः शृङ्गमेकं भङ्क्त्वा भार्गं प्रतिलप्स्यसे//33//
297.004. आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ/ 297.005. तयोरेकं ताडयित्वा मार्गं प्रतिलप्स्यसे//34//
297.006. संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं सुखम्/ 297.007. यदा पश्येत्तदा कीलं ललाटो तस्या निखानयेत्//35//
297.008. शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः/ 297.009. हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः//36//
297.010. कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः/ 297.011. नद्यश्च बहवस्तार्या नक्रग्रहसमाकुलाः//37//
297.012. रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च/ 297.013. रङ्गायां राक्षसीकोपः पतङ्गायाममानुषाः/ 297.014. तपन्त्यां ग्राहबहुत्वं चित्रायां कामरूपिणः//38//
297.015. रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरीस्नुषा/ 297.016. आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः//39//
297.017. रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः/ 297.018. तपन्त्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्//40//
297.019. रुदन्त्यां सौमनस्येन समुत्तारः/ 297.019. हसन्त्यां तूष्णीभावेन, आशीविषायां सर्वविषमन्त्रप्रयोगेण समुत्तारः, वेत्रनद्यां तीक्ष्णशस्त्रसम्पातयोगेन समुत्तारः/ 297.020. नदीमतिक्रम्य पञ्च यक्षशतानि गुल्मकस्थानम्/ 297.021. तद्धैर्यमास्थाय विद्राव्यम्/ 297.021. ततो द्रुमस्य किन्नरराजस्य भवनमिति//
297.022. ततः सुधनः कुमारो यथोपदिष्टानौषधिमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः/ 297.023. ततस्तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापवित्वा वानरम्/ 297.024. ततस्तानादाय पुनरपि तस्य ऋषेः सकाशमुपसंक्रान्तः/ 297.024. उक्तश्च--अलं कुमार, किमनेन व्यवसायेन? किं मनोहरया? त्वमेकाकी असहायः शिरीरसंशयमवप्स्यसीति/ 297.025. कुमारः प्राह--महर्षे, अवश्यमेवाहं प्रयास्यामीति/ 297.026. कुतह्? 297.027. चन्द्रस्य खे विचरतः क्व सहायभावो दंष्ट्राबलेन बलिनश्च मृगाधिपस्य/ 297.029. अग्नेश्च दावदहने क्व सहायभावह् अस्मद्विधस्य च सहायबलेन किं स्यात्//41//
298.001. <298>किं भो महार्णवजलं न विगाहितव्यं किं सर्पदष्ट इति नैव चिकित्सनीयः//
298.003. वीर्यं भजेत्सुमहदूर्जितसत्त्वदृष्टम् यत्ने कृते यदि न सिद्ध्यति को ऽत्र दोषः//42// इति/ 298.005. ततः सुधनः कुमारो मनोहरोपदिष्टेन संप्रस्थितः/ 298.005. अनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेण विनिर्जित्य द्रुमस्य किन्नरराजस्य भवनसमीपं गतः/ 298.007. कुमारो ऽपश्यन्नगरमदूरं श्रीमदुद्यानोपशोभितं नानापुष्पफलोपेतं नानाविहगसेवितं तडागदीर्घिकावापिकिन्नरैः समुपावृतम्/ 298.008. किन्नरीस्तत्र चापश्यत् पानीयार्थमुपगताः/ 298.008. ततस्ताः सुधनकुमारेणाभिहिताह्--किमनेन बहुना पानीयेन क्रियत इति? ताः कथयन्ति--अस्ति द्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम/ 298.010. सा मनुष्यहस्तगता बभूव/ 298.010. तस्याः स मनुष्यगन्धो नश्यति/ 298.011. सुधनः कुमारः पृच्छति--किमेते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते, आहोस्विदनुपूर्वेणेति? ताः कथयन्ति--अनुपूर्व्या/ 298.012. स संलक्षयति--शोभनो ऽयमुपायः/ 298.013. इमामङ्गुलिमुद्रामेकस्मिन् घटे प्रक्षिपामीति/ 298.013. तेनैकस्याः किन्नर्या घटे ऽनालक्षितं प्रक्षिप्ता/ 298.014. सा च किन्नरी अभिहिता--अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या/ 298.014. सा संलक्षयति--नूनमत्र कार्येण भवितव्यम्/ 298.015. ततस्तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावदङ्गुलिमुद्रा उत्सङ्गे निपतिता/ 298.016. सा मनोहरया प्रत्यभिज्ञाता/ 298.016. ततः किन्नरीं पृच्छति--मा तत्र कश्चिन्मनुष्यो ऽभ्यागतह्? सा आह--उभ्याग्तः/ 298.017. गच्छ, एनं प्रच्छन्नं प्रवेशय/ 298.018. तया प्रवेशितः, सुगुप्ते प्रदेशे स्थापितः/
298.018. ततो मनोहरा पितुः पादयोर् निपत्य कथयति--तात, यद्यसौ सुधनः कुमार आगच्छेत्, येनाहं हृता, तस्य त्वं किं कुर्याह्? स कथयति--तमहं खण्डशतं कृत्वा चतसृषु शिक्षु क्षिपेयम्/ 298.020. मनुष्यो ऽसौ, किं तेनेति/ 298.020. मनोहरा कथयति--तात, मनुष्यभूतस्य कुत इहागमनम्? अहमेवं ब्रवीमीति/ 298.021. ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः/ 298.022. ततो विगतपर्यवस्थानः कथयति--यद्यसौ कुमार आगच्छेत्, तस्याहं त्वां सर्वालंकारविभूषितां प्रभूतचित्रोपकरणैः किन्नरीसहस्रपरिवृतां भार्यार्थं दद्यामिति/ 298.024. ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनं कुमारो दिव्यालंकारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः/ 298.025. ततो द्रुमः किन्न्नरराजः सुधनं कुमारं ददर्श अभिरूपं दर्शनीयं प्रसादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्/ 298.026. दृष्ट्वा च पुनः परं विस्मयमुपगतः/ 298.027. ततस्तस्य जिज्ञासां कर्तुकामेन सौवर्णाः स्तम्भा उच्छ्रिताः, सप्त तालाः, सप्त भेर्यः, सप्त सूकराः/ 298.028. आह च-- 298.029. त्वया कान्त्या जितास्तावदेते किन्नरदारकाः/ 298.030. संदर्शितप्रभावस्तु दिव्यसम्बन्धमर्हसि//43//
298.031. अत्यायतं शरवणं कृत्वोद्धृत्य शरं क्षणात्/ 298.032. व्युप्तमन्यूनमुच्चित्य पुनर्देहि तिलाटकम्//44//
299.001. <299>संदर्शय धनुर्वेदे दृटलक्षादिकौशलम्/ 299.002. ततः कीर्तिपताकेयं तवायत्ता मनोहरा//45//
299.003. सुधनकुमारो बोधिसत्त्वः/ 299.003. कुशलाश्च भवन्ति बोधिसत्त्वास्तेषु शिल्पस्थानकर्मस्थानेषु/ 299.004. देवताश्चैषामौत्सुक्यमापत्स्यन्ते अविघ्नभावाय/ 299.004. ततो बोधिसत्त्वो नृत्तगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन दैवतोपसंहृतेन वादित्रविशेषेण समन्तादापूर्यमाणे ऽनेकैः किन्नरसहस्रैः पतिवृतः/ 299.007. शतक्रतुसमादिष्टैर्यक्षैः सूकररूपिभिः/ 299.008. उत्पाटिते शरवने समे व्युप्तं तिलाडकम्//46//
299.009. एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः/ 299.010. कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत्//47//
299.011. नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुमारब्धः/ 299.012. ततस्तांस् तिलशो ऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च सूकरान् बाणेन विध्य सुमेरुवदकम्प्यो ऽवस्थितः/ 299.013. ततो गगनतलस्थाभिर्देवताभिश्च किन्नरशतसहस्रैर्हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर् नादो मुक्तः, यं दृष्ट्वा च किन्नरराजः परं विस्मयमुपगतः/ 299.015. ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारो ऽभिहितह्--एहि कुमार, प्रत्यभिजानासि मनोहरामिति? ततः सुधनः कुमारस्तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्-- 299.018. यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा/ 299.019. शीघ्रमेतेन सत्येन पदं व्रज मनोहरे//48//
299.020. ततः सा द्रुतपदमभिक्रान्ता/ 299.020. किन्नराः कथयन्ति--देव, अयं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः/ 299.021. किमर्थं विप्रलभ्य? दीयतामस्य मनोहरेति/ 299.022. ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमेतेन महता सत्कारेण पुरस्कृत्य मनोहरां दिव्यालंकारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं सुधनं कुमारमभिहितह्--कुमार, एषा ते मनोहरा किन्नरीपतिवृता भार्यार्थाय दत्ता/ 299.024. अपरिचिता मानुषाः, यथैनां न परित्यक्षसीति/ 299.025. परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति/ 299.027. सो ऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति--मातापितृवियोगजं मे दुःखं बाधत इति/ 299.028. ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर् निवेदितः/ 299.029. स कथयति--गच्छ कुमारेण सार्धम्/ 299.029. अपक्रान्तया ते भवितव्यम्/ 299.029. विप्रलम्भका मनुष्याः/ 299.030. ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः/ 299.030. स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः/ 299.031. अनुपूर्वेण हस्तिनापुरनगरमनुप्राप्तह्<300>/
300.001. ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिना गन्धविशेषेण सर्वा दिगामोदितम्/ 300.002. श्रुत्वा धनेन राज्ञा आनन्दभेर्यस्ताडिताः, सर्वं च तन्नगरमपगतपाषाणशर्करकठल्लं कारितम्/ 300.003. चन्दनवारिषिक्तमामुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्/ 300.004. ततः कुमारो ऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं नगरं प्रविष्टः/ 300.005. ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्यादाय पितुः सकाशमुपसंक्रान्तः/ 300.006. पित्रा कण्ठे परिष्वक्तः/ 300.006. पार्श्वे राजासने निषण्णः/ 300.006. किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्/ 300.007. ततो धनेन राज्ञा अतिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः/ 300.008. सुधनः कुमारः संलक्षयति--यन्मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश्चानुप्राप्तः, तत्पूर्वकृतहेतुविशेषात्/ 300.009. यन्न्वहमिदानीं दानानि दद्याम्, पुण्यानि कुर्यामिति/ 300.010. तेन हस्तिनापुरे नगरे द्वादश वर्षाणि निर्गटो यज्ञ इष्टः//
300.011. स्यात्खलु ते महाराज अन्यः स तेन कालेन समयेन सुधनः कुमारो वेति? न खल्वेवं द्रष्टव्यम्/ 300.012. अपि त्वहमेव तेन कालेन तेन समयेन बोधिसत्त्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव/ 300.013. यन्मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितः, द्वादश वर्षाणि निरर्गटो यज्ञ इष्टः, न तेन मया अनुत्तरा सम्यक्सम्बोधिरधिगता, किं तु तद्दानं तच्च वीर्यमनुत्तरायाः सम्यक्सम्बोदेर्हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्//
300.016. इत्यवोचद्भगवान्/ 300.016. आत्तमनसस्ते च सर्वे लोका भगवतो भाषितमभ्यनन्दन्//
300.017. इति सुधनकुमारावदानं समाप्तम्//
********** अवदान 31 **********
301.001. दिव्31 तोयिकामहावदानम्/
301.002. तत्र भगव्बानायुष्मन्तमामन्त्रयते--स्म आगमय आनन्द येन श्राअवस्तीति/ 301.002. एवं भदन्तेत्यायुच्मानानन्दो भगवतः प्रत्यश्रौषीत्/ 301.003. अथ भगवान् येन श्रावस्ती तेन चारिकां प्रक्रान्तः/ 301.004. यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तो हलं वाहयति, तस्यार्थाय दारिका पेयामादाय गता/ 301.005. भगवांश्च प्रदेशमनुप्राप्तः/ 301.005. ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्चणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्/ 301.007. सहदर्शनाच्चास्य भगवति प्रसाद उत्पन्नः/ 301.008. न तथा द्वादशवर्षाभ्यस्तः शमथश्चत्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनम्, राज्याभिनन्दनो वा राज्याभिषेकः, यथोपचितकुशलमूलस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्/ 301.010. स तां पेयामादाय लघुलध्वेव येन भगवांस्तेनोपसंक्रान्तः/ 301.011. उपसंक्रम्य भगवन्तमेतदवोचत्--इयं भो गौतम पेया/ 301.011. यद्यस्ति ममान्तिके ऽनुकम्पा, पिबेद्भगवान् गौतमः पेयामिति/ 301.012. ततो भगवता ब्राह्मणस्य जीर्णकूपो दर्शितह्--सचेत्ते ब्राह्मण परित्यक्ता, अस्मिञ् जीर्णकूपे प्रक्षिपेति/ 301.013. तेन तस्मिञ् जीर्णकूपे प्रक्षिप्ता/ 301.013. स जीर्णकूपो वाप्यायमानः पेयापूर्णः, यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन/ 301.014. ततो भगवता स ब्राह्मणो ऽभिहितह्--चारय महाब्राह्मण पेयामिति/ 301.015. स चारयितुमारब्धः/ 301.015. भगवता तथा अधिष्ठिता यथा
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
