Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
दिव्यावदान
- Thông tin
- GRETIL — L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सर्वसंघेन पीता/ 301.016. स च जीर्णकूपो वाप्यायमानस्तथैव पेयापूर्णो ऽवस्थितः/ 301.017. ततो ऽसौ ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय/ 301.018. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्/ 301.020. अतिक्रान्तो ऽहं भदन्त, अतिक्रान्तः/ 301.020. एषो ऽहं भगवन्तं बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं च/ 301.021. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्/ 301.022. अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसम्पन्न इव कृषीवलः शूर इव विजितसंग्रामः सर्वरोगनिर्मुक्त इवातुरो भगवतो भाषितमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो यावत्क्षेत्रं गतः/ 301.025. पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्/ 301.025. दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते-- 301.027. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्/ 301.028. अद्यैव वापितं बीजमद्यैव फलदायकम्//1//
301.029. ततो ऽसौ ब्राह्मणस्त्वरितत्वरितं राज्ञः सकाशमुपसंक्रान्तः/ 301.029. उपसंक्रम्य जयेनायुषा वर्धयित्वा राजानमुवाच--देव, मया यवाः प्रकीर्णाः, ते सौवर्णाः संवृत्ताः/ 301.030. तस्याधिष्ठायकेन प्रसादः क्रियतामिति/ 301.031. राज्ञा अधिष्ठायको ऽनुप्रेषितः/ 301.031. ब्राह्मणेन राशीकृत्य भाजितः/ 301.031. राजभागः स्वाभाविका यवाः संवृत्ताः/ 301.032. अधिष्ठायकेन राज्ञे निवेदितम्/ 301.032. राज्ञा समादिष्टम्--<302>पुनर्भाजयतेति/
302.001. तैः पुनर्भाजितम्/ 302.001. तथैव राजभागः स्वाभाविका यवाः संवृत्ताः/ 302.001. एवम् यावत् सप्तकृत्वो भाजितम्/ 302.002. तथैव/ 302.002. राजा कुतूहलजातः स्वयमेव पश्यति--तथैव/ 302.003. तेनासौ ब्राह्मणो ऽभिहितह्--ब्राह्मण, तवैतत्पुण्यनिर्जातम्/ 302.003. अलं राजभागेन, यथाभिप्रेतं तन्ममानुप्रयच्छेति/ 302.004. ततस्तेन ब्राह्मणेन परितुष्टेन यद्दत्तम्, तत्सौवर्णाः संवृत्ताः//
302.005. ततो भगवान् संप्रस्थितः/ 302.005. यावदन्यतमस्मिन् प्रदेशे पञ्चकार्षशतान्युत्पाडूत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लङ्गलानि वाहयन्ति/ 302.006. ते ऽपि बलीवर्दा बद्धैः प्रयोक्त्रैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुहुर् निश्वसन्तो वहन्ति/ 302.007. तदृशुस्ते कार्षाका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववद्यावदुपचितकुशलमूलसत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्/ 302.009. ततो येन भगवांस्तेनोपसंक्रान्ताः/ 302.009. अद्राक्षीद्भगवांस्तान् कार्षकान् दूरादेव/ 302.010. दृष्ट्वा च पुनर्विनेयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः/ 302.010. एत कार्षका भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः/ 302.011. ततो भगवता तेषां कार्षकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्/ 302.014. ते दृष्टसत्या येन भगवांस्तेनोपसंक्रान्तः/ 302.014. प्रणमय्य भगवन्तमिदमवोचत्--देशय भदन्त, स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्/ 302.015. चरेम भगवतो ऽन्तिके ब्रह्मचर्यमिति/ 302.016. ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद्यावत्ते ऽवस्थिता बुद्धमनोरथेन/ 302.017. तेषां भगवता अववादो दत्तः/ 302.017. तैर्युज्यमानैः पूर्ववदभिवाद्याश्च संवृत्ताः/ 302.017. ते ऽपि बलीवर्दा योक्त्राणि वरत्राणि च च्छित्त्वा येन भगवांस्तेनोपसंक्रान्ताः/ 302.018. उपसंक्रम्य भगवन्तं सामन्तकेन अनुपरिवार्यावस्थिताः/ 302.019. तेषां भगवता त्रिभिः पदार्थैर्धर्मो देशितः पूर्ववद्यावद्यथा गङ्गावतारे हंसमत्स्यकूर्माणाम् यावद् दृष्टसत्याः स्वर्भवनं गताः//
302.021. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं नु तैः कार्षकपूर्वकैर्भिक्षुभिः कर्म कृतम् येन कार्षकाः संवृत्ताः, भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतम्, यन बलीवर्देषूपपन्नाः, सत्यदर्शनं च कृतमिति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्//
302.026. भूतपूर्वं भिक्षवो ऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि/ 302.027. पूर्ववत्/ 302.027. स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने(पतने) मृगदावे/ 302.028. तस्य शासने एतानि पञ्च कर्षकशतानि प्रव्रजितान्यभूवन्/ 302.028. तत्रैभिर् न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः/ 302.029. किं तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनाभिनामितम्//
303.001. <303>किं मन्यध्वे भिक्षवो यानि तानि पञ्च भिक्षुशतानि, एतान्येव तानि पञ्च कर्षकशतानि/ 303.002. यो ऽसौ विहारस्वामी, स एवासौ गृहपतिर्यस्यैते कार्षहाः/ 303.002. यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः, किं तु संगणिकाभिरतैः कौसीद्येनाभिनामितम्, तेन कर्मणा पञ्च जन्मशतानि तस्य विहारस्वामिनः कार्षकाः संवृत्ताः/ 303.005. यावदेतर्ह्यपि तस्यैव कार्षका जाताः/ 303.005. यदेभिः काशयपस्य सम्यक्सम्बुद्धास्य शासने प्रव्रज्य ब्रह्मचर्यं चरितम्, तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 303.007. ते च बलीवर्दपूर्विणो देवपुत्राः काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजिता आसन्/ 303.008. तत्रैभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि/ 303.008. तेन कर्मणा बलीवर्देषूपपन्नाः/ 303.009. यन्ममान्तिके चित्तमभिप्रसादितम्, तेन देवेषूपपन्नाः/ 303.009. यत्काश्यपे सम्यक्सम्बुद्धे ब्रह्मचर्यं वासितम्, तेनेदानीं देवपुत्रभूतैः सत्यदर्शनं कृतम्/ 303.010. इति भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, पूर्ववद्यावदाभोगः करणीयः/ 303.011. इत्येवं वो भिक्षवः शिक्षितव्यम्//
303.013. तत्र भगवानायुच्मन्तमामन्त्रयते स्म--आगमय आनन्द येन तोयिका/ 303.013. एवं भदन्तेत्यायुष्मानानन्दो भगवतो ऽश्रौषीत्/ 303.014. भगवांस्तोयिकामनुप्राप्तः/ 303.014. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति/ 303.015. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रं पूर्ववद्यावत्समन्ततो भद्रकम्/ 303.016. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्य अभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यति/ 303.017. अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिः/ 303.018. तत्को ऽसावुपायः स्याद्येन मे न कर्मपरिहाणि स्यान्नापि पुण्यपरिहाणिरिति? तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि/ 303.019. एवं न कर्मपरिहाणिर्भवति नापि पुण्यपरिहाणिरिति/ 303.020. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तम्/ 303.021. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--क्षण आनन्द एष ब्राह्मणः/ 303.022. सचेदस्यैवं सम्यक्प्रत्यात्मज्ञानदर्शनं प्रवर्तते/ 303.022. एतस्मिन् प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितो ऽस्ह्तिसंघातस्तिष्ठतीति/ 303.023. अथानेनोपसंक्रम्य वन्दितो भवेयम्/ 303.023. एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत्/ 303.024. तत्कस्य हेतोह्? अस्मिन्न् आनन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितो ऽस्थिसंघातस्तिष्ठतीति/ 303.025. अथायुष्मानानन्दो लघुलघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासने/ 303.027. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो
भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवतेति/ 303.028. निषण्णो भगवान् प्रज्ञप्त एवासने/ 303.028. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगत समयो ऽयम्/ 303.030. भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयतु, दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति/ 303.032. भगवता लौकिकं चित्तमुत्पादितम्/ 303.032. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकम् <304>
304.001. <304>चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिकादयो ऽपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति/ 304.002. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकं चित्तमुत्पादितम्? भगवान् काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामः/ 304.003. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः/ 304.004. तत्र भगवान् भिक्षूनामन्त्रयते स्म--गृह्णीत भिक्षवो निमित्तम्/ 304.005. अन्तर्धास्यतीति/ 304.005. अन्तर्हितः//
304.006. राज्ञा प्रसेनजिता श्रुतम्--भगवता श्रावकाणां दर्शनाय अविकोपितः कश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघात उच्छ्रापित इति/ 304.007. श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तह्--पुरेण कुमारौरमात्यैर्भटबलाग्रैर् नैगमजनपदैश्च द्रष्टुं संप्रस्थितः/ 304.008. एवं विरूढको ऽनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपतिः, विशाखा मृगरमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि/ 304.010. यावदसौ अन्तर्हितः/ 304.011. तैः श्रुतम्--अन्तर्हितो ऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शीररसंघात इति/ 304.012. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति//
304.013. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः/ 304.013. एवं चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात् कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषिते-- 304.016. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति/ 304.018. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्//2//
304.020. अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः/ 304.020. एवं चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता/ 304.021. अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस् तस्यापि चित्तमाज्ञाय गाथां भाषते-- 304.023. शतंसहस्राणि सुवर्णपिण्डं जाम्बूनदा नास्य समा भवन्ति/ 304.025. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मेत्तिकपिण्डमेकम्//3// इति/ 304.028. तच्छ्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्पिण्डसमारोपणं कृतम्/ 304.028. अपरैस्तत्र मुक्तपुष्पाणि क्षिप्तानि, एवं चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते--
305.001. <305>शतंसहस्राणि सुवर्णमूढं जाम्बूनदा नास्य समा भवन्ति/ 305.003. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मुक्तकपुष्पराशिम्//4// इति/ 305.005. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्/ 305.006. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते-- 305.008. शतसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति/ 305.010. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्//5// इति/ 305.012. अपरैस्तत्र दीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्/ 305.013. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- 305.015. शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य् भवन्ति/ 305.017. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्//6// इति/ 305.019. अपरैस्तत्र गन्धाभिषेको दत्तः, चित्तं चाभिसंस्कृतम्--प्रदीपदानस्य भगवता इयत् पुण्यमुक्तम्/ 305.020. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चेतसा चित्तमाज्ञाय गाथां भाषते-- 305.022. शतसहस्राणि सुवर्णाशयो जाम्बूनदा नास्य समा भवन्ति/ 305.024. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्//7// इति/ 305.026. अपरैस्तत्र ध्वजपताकारोपणं कृतम्, चित्तं चाभिसंस्कृतम्--पदविहारस्य मृत्पिण्डदानस्य, मुक्तपुष्पाणां मालविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य च इयत्पुण्यमुक्तं भगवता, आस्माकं छत्रध्वजपताकारोपणस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चित्तमाज्ञाय गाथां भाषते--
306.001. <306>शतसहस्राणि सुवर्णपर्वता मेरोः समा नास्य भवन्ति/ 306.003. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच्छत्रध्वजपताकम्//8//
306.005. एषां हि दक्षिणा प्रोक्ता अप्रमेये तथागते/ 306.006. समुद्रकल्पे संबुद्धे सार्थवाहे अनुत्तरे//9// इति/ 306.007. तेषामेतदभवत्--परिनिर्वृतस्य तावद्भगवतः पूजाकरणादि यत्पुण्यमुक्तं भगवता, तिष्ठतः कियत्पुण्यं भविष्यतीति/ 306.008. अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-- 306.009. तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्/ 306.010. समं चित्तप्रसादेन नास्ति पुण्यविशेषता/ 306.011. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया//10//
306.012. अचिन्तियैः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम्/ 306.013. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्//11// इति/ 306.014. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, याम् अनेकैः प्राणिशतसहस्रैर्महान् विशेषो ऽधिगतः/ 306.015. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदुष्मगतानि प्रतिलब्धानि, कैश्चिद् मूर्धानः, कैश्चित्सत्यानुलोमः क्षान्त्यः, कैश्चिच्छ्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्/ 306.018. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता/ 306.019. सार्धं तत्र ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे महः स्थापितह्--तोयिकामहस्तोयिकामह इति संज्ञा संवृत्ता//
306.021. इति तोयिकामहावदानमेकत्रिंशत्तमम्//
********** अवदान 32 **********
307.001. दिव्32 रूपावत्यवदानम्/
307.002. एवं मया श्रुतम्/ 307.002. एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः/ 307.003. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिभिक्ण्युपासकोपासिकै राज्ञा राजमात्रैर् नानावणिक्छ्रमणब्राह्मणपरिव्राजकनैगमजनपदैर् नागैर्यक्षैर्गन्धर्वैरसुरगतुडकिन्नरमहोरगैः/ 307.005. लाभी च भगवान् प्रभुतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां च मनुष्याणां च, तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा/ 307.007. तेन खलु पुनः समयेन अयमेव भगवतो ऽनुरूप उदारः कल्याणकीर्तिशब्द श्लोको ऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान्/ 307.010. स इमां सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुषीं स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य विहरति/ 307.011. स धर्मं देशयत्यादौ कल्याणं मध्ये कल्याणां पर्यवसाने कल्याणम्/ 307.012. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म/ 307.013. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एवं च भिक्षवः सत्त्वा जानीयुह्--दानं दानफलं दानसंविभागस्य च विपाकम्, अपीदानीम् यो ऽसौ चरमः कवलः पश्चिम आलोपः, तमपि नासंविभज्य परिष्वात्मना वा परिभुञ्जीरन्, न चोत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेयुः/ 307.016. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकम् यथाहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्सत्त्वा यो ऽसौ चरमः कवलः पश्चिम आलोपः, तमेवादत्त्वा इममसंविभज्य परेष्वात्मना वा परिभुञ्जते, उत्पन्नं चौषां मात्सर्यमलं चित्तं पर्यादाय तिष्ठति//
307.020. भिक्षवः सर्वसंशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तमपृच्छन्--आश्चर्यं भदन्त यावच्च भगवत एतर्हि याचकाः प्रियाः/ 307.021. न भिक्षव एतर्हि मम, यथा अतीते ऽप्यध्वनि याचनकाः प्रियाः/ 307.022. तच्च्रूयताम्//
307.023. भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्युत्तरापथेषु जनपदेषु उत्पलावती नां नगरी राजधानी बभूव ऋद्धा च स्फईता च क्षेमा च आकीर्णबहुजनमनुष्या च/ 307.024. अथापरेण समयेन उत्पलावत्यां नगरराजधान्यां दुर्भिक्षमभूद् दुर्जीवं दुर्लभपिण्डं नसुकरमपताने प्रग्रहणे यापयितुम्/ 307.026. तेन खलु समयेनोत्पलावत्यां राजधान्यां रूपावती नाम स्त्री बभूव अभिरूपा दर्शनीया प्रासादिका शुभवर्णपुष्कलनया समन्वागता/ 307.027. अथ रूपावती स्त्री स्वान्निवेशनान्निष्क्रम्य उत्पलावत्यां राजधान्यां जङ्घाविहारमनुक्रामति/ 307.028. अन्यतरदपवरकं प्राविशत्/ 307.028. तस्मिन् खलु समये तस्मिन्नपवरके स्त्री प्रसूता, दारकं प्रजाता अभिरूपं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्/ 307.030. तं सा स्त्री क्षुत्क्षामपरीता रैक्षचित्ता दारकं गृह्णाति, इच्छति च स्वानि पुत्रमांसानि भिक्षयितुम्/ 307.031. तां दृष्ट्वा रूपावती स्त्री एतदवोवत्--किमिदं भगिनि कर्तुकामासि? सा आह--जिघत्सितास्मि भगिनि/ 307.032. इच्छामि स्वकानि पुत्रमांसानि <308>भक्षयितुम्/
308.001. रूपावती आह--तेनभगिनि निवेशने किंचित्संविद्यते ऽन्नं वा पानं वा भोजनं वा स्वादनीयं वा? दुर्लभः पुत्रशब्दो लोकस्य/ 308.002. न मे भगिनि किंचित्संविद्यते निवेशने अन्नं वा पानं वा खाद्यं वा भोजनं वा स्वादनीयं वा लेह्यं वा/ 308.003. दुर्लभं जीवितं लोकस्य/ 308.004. रूपावत्याह--तेन हि भगिनि मुहूर्तमागमय, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि/ 308.005. सा आह--यत्खलु भगिनि जानीयाह्--कुक्षिर्मे लुप्यति, पृथिवी मे स्फुटति, हृदयं मे धूमायति, दिशो मे न प्रतिभान्ति/ 308.006. न तावत्त्वं द्वारशालाया निर्गता भविष्यसि यावन्मे वायव आक्रमिष्यन्ति/ 308.007. यथा रूपावत्या एतदभवत्--यदि दारकं गृहीत्वा गमिष्यामि, एषा स्त्री क्षुत्क्षामपरीता कालं करिष्यति/ 308.008. अथ दारकमपहाय यास्यामि, नियतं दारकं भक्षयिष्यति/ 308.009. यथाकथं पुनर्मम कुर्वन्त्या द्वयोर्जीवितलाभः स्यात्? तस्या एतदभवत्--अनपराध्याशयवति संसारे बहूनि दुःखान्यनुभूतानि असकृ न्नरकेष्वसकृत्तिर्यक्ष्वसकृद् यमलोके ऽसकृ न्मनुष्यलोकेषु हस्तच्छेदाः पादच्छेदाः कर्णच्छेदा कर्णनासाच्छेदा अङ्गप्रत्यङ्गच्छेदास्तथान्यानि विविधानि बहूनि दुःखन्यनुभूतानि/ 308.012. को मया तेनार्थो ऽनुप्राप्तो यदा आहमात्मनः स्थामं च बलं च वीर्यं च संजनयित्वा इमां स्त्रियं स्वेन रुधिरेण मांसेन संतर्प्य इमं दारकं परिमोचयेयम्/ 308.014. रूपावती पृच्छति--अस्ति ते भगिनि निवेशने शस्त्रम्? सा स्त्री आह--अस्तीति/ 308.015. तेन हि यत्र भवति, तदुपदर्शय/ 308.015. सा तं प्रदेशमुपदर्शयामास/ 308.016. ततो रूपावत्या स्वयमेव शस्त्रं
तीक्ष्णं गृहीत्वा तौ स्तनौ च्छित्त्वा तां स्त्रियं स्वकेन मांसरुधिरेण संतर्पयति स्म/ 308.017. संतर्प्य च तां स्त्रियमेतदवोचत्--यत्खलु भगिनि जानीयाह्--अयं दारको मया स्वकेन मांसरुधिरेण क्रीतः/ 308.018. साहं तव निक्षेपमनुप्रयच्छामि--मा भूयो दारकं भक्षयिष्यसि, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि/ 308.019. सा आह--अद्य तावन् भूयः/ 308.020. अथ रूपावती स्त्री रुधिरेणोद्धरता येन स्वं निवेशनं तेनोपसंक्रान्ता/ 308.021. अद्राक्षीद्रूपावत्याः स्त्रियाः स्वामी रूपावतीम्, स्त्रीं रुधिरेणोद्धरता प्रधरता दूरत एव अगच्छन्तीम्/ 308.022. दृष्ट्वा च पुना रूपावतीमेतदवोचत्--केनेदमेवम्रूपं रूपावति विप्रकारं कृतम्? सौतां प्रकृतिं विस्तरेणारोचयति स्म/ 308.023. आरोचयित्वा एतदवोचत्--प्रज्ञपय आर्यपुत्र तस्या स्त्रिया भक्तम्/ 308.024. स आह--प्रज्ञपय आर्यदुहितस्तस्या भक्तम्/ 308.024. अपि तु सत्यवचनं तावत्करिष्यामि/ 308.024. येनार्यदुहितः सत्येन सत्यवचनेन अयमेवम्रूप आश्चर्याद्भुतो धर्मो न कदाचिद् दृष्टो वा श्रुतो वा, तेन सत्येन सत्यवचनेन उभौ तव स्तनौ यथापौराणौ प्रादुर्भवेताम्/ 308.026. सहकृतेनास्मिन्नेवम्रूपे सत्यवचने तस्या अस्मिन्नेव क्षणे उभौ स्तनौ यथापौराणौ प्रादुर्भूतौ//
308.028. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--अतित्यागो ऽतित्यागगौरवता या रूपावत्या स्त्रिया कृतः/ 308.029. मा हैव सा रूपावती स्त्री अतः शक्रभवनाच्च्यावयेत्/ 308.029. यन्न्वहमेनां मीमांसेयम्/ 308.030. अथ शक्रो देवेन्द्र उदारब्राह्मणरूपमात्मानमभिनिर्माय सौवर्णदण्डकमण्डलुमादाय सुवर्णदण्डेन मणिवालव्यजनेन वीज्यमानस्तद्यथा बलवान् पुरुषः संमिञ्जितं बाहुं प्रसारयेत् प्रसारितं संमिञ्जयेत्, एवमेव शक्रो देवानामिन्द्रो देवेषु त्रायस्त्रिंशेष्वन्तर्हित उत्पलावत्याम् <309>राजधान्यां प्रत्यस्थात्/
309.001. अथ शक्रो देवानामिन्द्र उत्पलावत्यां राजधान्यां भैक्ष्यमन्वाहिण्डन् यन रूपावत्याः स्त्रिया निवेशनं तेनोपसंक्रम्य द्वारि स्थित्वा भैक्ष्यमुत्क्रोशते/ 309.002. ततो रूपावती स्त्री भैक्षमादाय येन स ब्राह्मणवेषधरः शक्रः, तेनोपसंक्रम्य भैक्षमुपनामयते/ 309.003. अथ स शक्रो देवानामिन्द्रो रूपावतीं स्त्रियमेतद्वोचत्--सत्यं ते रूपावरि दारकस्यार्थायोभौ स्तनौ परित्यक्तौ? सा आह--आर्य ब्राह्मण सत्यम्/ 309.005. स तामाह्--एवं ते रूपावती उभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा अभूच्चित्तस्य विप्रतिसारह्? सा आह--न मे उभौ स्तनौ परित्यजन्त्या अभूच्चित्तस्य विप्रतिसारः/ 309.007. शक्र अह--अत्र कः श्रद्धास्यति? रूपावत्याह--तेन हि ब्राह्मण सत्यवचनं करिष्यामि/ 309.008. येन सत्येन ब्रह्मन् सत्यवचनेनोभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा नाभूच्चित्तस्यान्यथात्वम्, नाभूच्चित्तस्य विप्रतिसारः, अपि च ब्रह्मन् येन सत्येन मया दारकस्यार्थायोभौ स्तनौ परित्यक्तौ, न राज्यार्थं न भोगार्थं न शक्रार्थं न राज्ञां चक्रवर्तिनां विषयार्थं नान्यत्राहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य अदान्तान् दमयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मम स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवेत्/ 309.014. तस्यास्तस्मिन्नेव क्षणे स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्/ 309.014. अथ खलु शक्रो देवेन्द्रस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस् तत एव ऋद्ध्या वैहायसमभ्युद्गम्योदानमुदानयति--रूपावत्याः स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्/ 309.016. रूपावत्याः स्त्रियो रूपावतः कुमार इति संज्ञा उत्पादिता//
309.018. अथापरेण समयेनोपलावत्यां राजधान्यां नगर्यां राजा अपुत्रः कालगतः/ 309.018. तत्र पिण्डतजातीयानां महामात्राणामेतदभूत्--यन्नु वयमुत्पलावत्यां राहधान्यां राहानं स्थापयेम/ 309.020. तेषामेतदभूत्--नान्यत्र रूपावतकुमारात्कृतपुण्यात्कृतकुशलात्/ 309.020. ते रूपावतं कुमारमुत्पलावत्यां राजधान्यां राजानं स्थापयन्ति/ 309.021. अथ स षष्टिवर्षाणि राज्यं कारयति/ 309.021. धर्मेण राज्यं कारयित्वा कालमकार्षीत्/ 309.022. कायस्य भेदात्तस्यामेवोत्पलावत्यां राजधान्यामन्यतमस्य श्रोष्ठिनो गृहपतेरग्रमहिष्याः कुक्षावुपपन्नः/ 309.023. सा पूर्णानामष्टानां वा नवानां वा मासानामत्ययाद्दारकं जनयति अभिरूपं दर्शनीयं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्/ 309.024. तस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया प्रभया चन्द्रस्य प्रभा निष्प्रभीकृता/ 309.025. अथान्यतरा स्त्री येन स श्रेष्ठी गृहपतिस्तेनोपसंक्रान्ता/ 309.026. उपसंक्रम्य श्रेष्ठिनं गृहपतिमेतदवोचत्--यत्खलु गृहपते जानीयाह्--ते दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः/ 309.027. तस्य जातमात्रस्य तादृशी कायात्प्रभा प्रमुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता/ 309.028. अथ स श्रेष्ठी गृहपतिस्तुष्ट उदग्र आत्तमनाः प्रीतसौमनस्यजातस् तस्या एव रात्र्या अत्ययाद्ये जानन्ति ब्रह्मणा लक्षण्या नैभित्तिका वैपञ्चिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितज्ञाः, स तान् संनिपात्य दारकमुपदर्शयति--यत्खलु ब्राह्मणा जानीध्वम्--अयमग्रमहिष्या दारको जातो ऽभिरूपो दर्शनीयः प्रसादिकाः शुभया वर्णपुष्कलतया समन्वागतः/ 309.032. एतस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता/ 309.033. तदस्य ब्राह्मणा दारकस्य लक्षणानि प्रेक्ष्य <310>नाम अवस्थापयति/
310.001. तस्ये त ब्राह्मणा लक्षणनैमित्तिका विपञ्चिका भूम्यन्तरीक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचतितेषु कोविदा दारकमुपगताः/ 310.002टे संलक्ष्य वदन्ति--ते गृहपते दारको जातो ऽभिरूपो दर्शनीयः प्रसादिकः शुभया वर्णपुष्कलतया समन्वागरः/ 310.003. अस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता यया चन्द्रप्रभा निष्प्रभीकृता/ 310.004. तद्भवत्वस्य चन्द्रप्रभ इति नाम/ 310.005. अथ श्रेष्ठी गृहपतिस्तान् ब्राह्मणान् भोजयित्वा विसर्ज्य चन्द्रप्रभस्य दारकस्य चतस्रो धात्रीरनुप्रयच्छति अङ्कधात्री मलधात्री स्तनधात्री करीडापणिला धात्री/ 310.006. अङ्कधात्रीत्युच्यते या दारकमङ्केन परिकर्षयति, अङ्कप्रत्यङ्गानि च संस्थापयति/ 310.007. मलधात्रीत्युच्यते या दारकं स्नाअपयति, चीवरकान्मलं प्रपातयति/ 310.008. स्तन्यधात्र्युच्यते या दारकं स्तन्यं पाययति/ 310.009. क्रूडापनिका धात्र्युच्यते यानि तानि दारकाणां दक्षकाणां तरुणकानां क्तीडापनिकानि भवन्ति, यद्यथा--अकायिका सकायिका वित्कोडिका(?) स्यपेटारिका वंशघटिका संधावणिका हस्तिविग्रहा अश्वविग्रहा बलीवर्दविग्रहाः कथयन्ति धनुर्ग्रहाः काण्डकटच्छुपूरकूर्चभैषज्यस्थविकाश्च पुरतः पतिकृष्यन्ते/ 310.012. स आभिश्चतसृभिरुन्नीयते वर्ध्यते महता श्रीसौभाग्येन/ 310.012. यदा चन्द्रप्रभो दारको ऽष्टवर्षो जात्या संवृत्तः, तदैनं मातापितरौ सुस्नातं सुविलिप्तं सर्वालंकारविभूषितं कृत्वा संबहुलैर्दारकैः परिवृत्तं लिपिं प्रापयन्ते/ 310.014. तेन खलु समयेन तस्यां लिपिशालायां पञ्चमात्रकदारकशतानि लिपिं शिक्षन्ति/ 310.015. अथ चन्द्रप्रभो दारकस्तान्
दारकानेतदवोचत्--एतद्दारका वयं सर्वे ऽनुत्तरां सम्यक्सम्बोधिमभिसम्बोधौ चित्तमुत्पादयेम/ 310.016. ते आहुह्--किं चन्द्रप्रभ बोधिसत्त्वेन करणीयम्? स आह--षट् पारमिताः परिपूरयितव्याः/ 310.017. कतमाः षट्? तद्यथा--दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता/ 310.018. तदहं दानं ददामि, यन्न्वहं तिर्यग्योनिगतेभ्यो ऽपि दानं दद्याम्/310.19. स तीक्ष्णं शस्त्रमादाय मधुसर्पिश्च येनान्यतरं महाश्मशानं तेनोपसंक्रान्तः/ 310.020. शस्त्रेणात्मनः कायं क्षणित्वा मधुसर्पिषा म्रक्षयित्वा तस्मिन् स महाश्मशाने आत्मानं वधायोत्सृजति/ 310.021. तेन च समयेन तस्मिन् महाश्मशाने उच्चंगमः पक्षी प्रतिवसति/ 310.022. स चन्द्रप्रभस्य दारकस्याङ्गे स्थित्वा दक्षिणं नयनं गृहीत्वा उत्पाटयति, पुनर्मुञ्चति/ 310.023. द्विरपि त्रिरपि उच्चंगमः प्राणी चन्द्रप्रभस्य दारकस्य दक्षिणं नयनं गृहीत्वा उत्पाटयित्वा पुनर्मुञ्चति/ 310.024. अथ चन्द्रप्रभो दारक उच्चंगमं पक्षिणमिदमवोचत्--किमिदं पक्षि मम नयनं गृहीत्वा उत्पाटयित्वा उत्पाटयित्वा पुनः प्रमुञ्चसि? स आह--न मम चन्द्रप्रभ किंचिदेवामिष्ये(?) यथा मनुष्याक्षि/ 310.026. तं मन्ये चन्द्रप्रभ वारयिष्यसि? चन्द्रप्रभ आह--सचेन्मम पक्षी सहस्रकृत्वो नयनं गृहीत्वा उत्पाटयतु, पुनर्मुञ्च (तु), न त्वेवाहं वारयेयम्/ 310.028. इत्युक्त्वा तावन्तः पक्षिणः संनिपतिताः/ 310.028. येन चन्द्रप्रभो निर्मांसो ऽस्थिशकलीकृतः/ 310.029. स कालमकार्षीत्/ 310.029. तस्यामेवोत्पलावत्यां राजधान्यामन्यतरस्य ब्राह्मणमहाशालस्याग्रमहिष्याः कुक्षौ उपपन्नः/ 310.030. सा
पूर्णानां नवानां मासानामत्ययाद्दारकं जनयति, अभिरूपं दर्शनीयं प्रासादिकां शुभया वर्णपुष्कलतया समन्वागतम्/ 310.032. तस्य मातापितरौ ब्राह्मप्रभ इति नाम स्थापितवन्तौ/ 310.033. यदा ब्राह्मप्रभो नाम माणवको ऽष्टवर्षजातीयः संवृत्तः, तेन सर्वे ब्राह्मणका <311>मन्त्रा अधीताः/
311.001. यदा ब्रह्मप्रभो माणवको द्वादशवर्षजातीयः संवृत्तः, स पञ्चमात्राणि माणवकानि स्वयमेव मन्त्रान् वाचयति/ 311.002. यदा ब्रह्मप्रभो माणवकः षोडशवर्षो जात्या संवृत्तः, तदैनं मातापितरौ आहतुह्--ब्रह्मप्रभ, तवार्थाय निवेशनं करिष्यावः/ 311.003. स आह--अम्ब तात, न तावन्मम निवेशनेन प्रयोजनम्/ 311.004. तौ आहतुह्--किं पुनस्त्वं ब्रह्मप्रभ करिष्यसि? स आह--इच्छाम्यहं सत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्/ 311.005. तौ आहतुह्--यस्येदानीं ब्रह्मप्रभ कालं मन्यसे/ 311.006. ब्रह्मप्रभमाणवको मातापित्रोः पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य उत्पलावत्या राजधान्या निष्क्रम्य येनान्यतरद्वनषण्डं तेनोपसंक्रान्तः/ 311.007. तेन खलु समयेन तस्मिन् वनषण्डे द्वौ ब्राह्मणर्षी प्रतिवसतः/ 311.008. अपश्यतां ब्राह्मणर्षीं ब्रह्मप्रभं माणवकं दूरत एवागच्छन्तम्/ 311.009. दृष्ट्वा च ब्रह्मप्रभं माणवकमेतदवोचत्--एहि ब्रह्मप्रभ, स्वागतम्, मा श्रान्तो ऽसि, मा क्लान्तः/ 311.010. किमर्थमिदं वनषण्टमभ्यागतह्? स आह--इच्छाम्यहं सर्वसत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्/ 311.011. तौ आहतुह्--एवमस्तु, भवतु, ऋद्ध्यन्तां संकल्पाः, परिपूर्यन्तां मनोरथाः//
311.012. अथ ब्रह्मप्रभो माणवको ऽन्यतरस्मिन् प्रदेशे कुटीं कारयित्वा चंक्रमं प्रतिष्ठाप्य सत्त्वानामर्थाय तपस्तप्तवान्/ 311.013. अथापरेण समयेन ब्रह्मप्रभस्य कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता/ तां ब्रह्मप्रभो माणवको ऽद्राक्षीत्/ 311.014. तां दृष्ट्वा च येन पुनस्तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः/ 311.014. उपसंक्रम्य तौ च ब्रह्मर्षी एतदवोचत्--यत्खलु ऋषी जानीताम्--इह मे कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता/ 311.016. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः/ 311.017. अथापरेण समयेन व्याघ्री प्रसूता क्षुत्क्षामपरीता इच्छति स्वकौ पोतकौ भक्षयितुम्/ 311.017. एकं पोतकं गृह्णाति द्वितीयं मुञ्चति, न भक्षयति/ 311.018. तां ब्रह्मप्रभो माणवको ऽपश्यत्/ 311.018. दृष्ट्वा च पुनर्येन तौ ब्रह्मर्षी तेनोपसंक्रान्तः/ 311.019. उपसंक्रम्य पुनर्येन तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः/ 311.020. उपसंक्रम्य द्वौ ब्रह्मर्षी एतदवोचत्--यत्खलु ब्राह्मणौ जानीताम्--सा व्याघ्री प्रसूता क्षुत्क्षामपरीता स्वकौ पोतकौ भक्षयितुमिच्छति/ 311.021. एकं पोतकं गृहीत्वा द्वितीयं मुञ्चति न भक्षयति/ 311.022. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः/ 311.022. अथ तौ ब्रह्मर्षी येन सा व्याघ्री तेनोपसंक्रान्तौ/ 311.023. अपश्यत्सा व्याघ्री ब्रह्मर्षी दूरत एवागच्छन्तौ/ 311.024. दृष्ट्वा च क्षुत्क्षामपरीता अभिद्रवितुकामा/ 311.024. तयोरेतदभूत्--क उत्सहते तिर्यग्योनिगरस्यार्थाय जीवितं परित्यक्तुमिति? तौ तत एव ऋद्ध्या वैहायसमभिनिर्गतौ/ 311.025. ब्रह्मप्रभो माणवको
ऽद्राक्षीत्/ 311.026. दृष्ट्वा च पुनस्तौ ब्रह्मर्षी एतदवोचत्--ननु ब्राह्मणौ, युवाभ्यामेतदुक्तम्--आवामस्या भक्तं दास्याव इति/ 311.027. एतत्खलु ब्राह्मणौ युवयोर्ब्राह्मणजात्योः सत्यम्? तौ आहतुह्--क उत्सहते तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्? ब्रह्मप्रभो माणवक आह--अहमुत्सहेतिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्/ 311.029. अथ स ब्रह्मप्रभो माणवको येन सा व्याघ्री तेनोपसंक्रान्तः/ 311.030. तस्या व्याघ्र्याः पुरत आत्मानमवसृजति स्म/ 311.030. ब्रह्मप्रभो माणवो भैत्रीविहारी बभूव/ 311.031. सा तं न शक्ताभिद्रोतु(ग्धु)म्/ 311.031. अथ ब्रह्मप्रभस्य माणवस्यैतदभवत्--इयं मम व्याघ्री साविज्ञानकं कायं न भक्षयति/ 311.032. स इतश्चेतश्च विलोकितवान्/ 311.032. ततस्तीक्ष्णं च वेणुपेशीं तीक्ष्णां गृहीत्वा इदमेवं रूपं सत्यवचनमकरोत्--समन्वाहरन्तु मे ये ऽस्मिन् वनषण्डे ऽध्युषिता <312>उदारा देवा नागा यक्षा असुरा गरुडाः किन्नरा महोरगाः, ते ऽपि सर्वे समन्वाहरन्तु/
312.002. अयमहं त्यागं करिष्यामि, अतित्यागं त्यागातित्यागं स्वयं गलपरित्यागम्/ 312.002. अपि तु येनाहं सत्येन सत्यवचनेन परित्यजामि, न राज्यार्थं न भोगार्थं न शक्राथं न राजचक्रवर्तिविषयार्थम्, अन्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिधिमभिसम्बुध्य अदान्तान् दमयेयम्, अतिर्णांस् तारयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मा मे परित्यागो निष्फलो भूदिति कृत्वा स्वयमेव गलं छित्त्वा तस्या व्याघ्र्या पुरत उपनिक्षिपति/ 312.008. व्याघ्रीनखावलिविलासविलुप्यमाना वक्षःस्थली क्षणमलक्ष्यत वीक्षयारा(?)/ 312.010. रोमाञ्चचर्चिततनोस्तुहिनांशुशुभ्रसत्त्वा प्रकाशकिरणाङ्कुरपूरितेव//1//
312.012टस्यामिषाहरणशोणितपानमत्तां व्याघ्रीं सहस्रमवलोकयतश्चकार/ दीर्घप्रवाससमयाकुलिता मुहूर्तं कण्ठावलम्बनधृतिं निजजीववृत्तिः//2//
312.016. सहपरित्यक्ते खलु भिक्षवो ब्रह्मप्रभेण माणवेन स्वके गले, अयं र्तिसाहस्रमहासाहस्रो लोकधातुः कम्पति संकम्पति संप्रकम्पति, चलति संचलति, वेधति संवेधति संप्रवेधति, पूर्वा दिगुन्नमति पश्चिमा अवनमति, पश्चिमा दिगुन्नमति पूर्वा दिगुन्नमति, दक्षिणा दिगुन्नमति उत्तरा दिगवनमति, उत्तरा दिगुन्नमति दक्षिणा दिगवनमति, मध्यमुन्नमति, अन्तो ऽवनमति, अन्त उन्नमति, मध्यमवनमति, सूर्यचन्द्रमसौ न तपतो न भासतो न विराजतः//
312.021. स्याद्युष्माकं भिक्षवो ऽन्या सा तेन समयेनोत्तरापथेषु जनपदेषूत्पलावतीनां नगरीराजधानी बभूव/ 312.022. न ह्येवं द्रष्टव्यम्/ 312.022. पुष्कलावतं तेन कालेन तेन समयेनोत्पलावतं नाम नगरं राजधानी बभूव/ 312.023. स्याद्भिक्षवो युष्माकं काङ्क्षा विमतिर्वा--अन्यः स तेन कालेन तेन समयेनोत्पलावते नगरे राजधान्यां रूपावती स्त्री बभूव/ 312.024. न ह्येवं द्रष्टव्यम्/ 312.024. अहं स तेन कालेन तेन समयेन रूपावती नाम स्त्री बभूव/ 312.025. स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्या सा तेन कालेन तेन समयेनापवरके स्त्री प्रसूता/ 312.026. न चैवं द्रष्टव्यम्/ 312.026. चन्द्रप्रभमाणविका तेन कालेन तेन समयेनापवरके स्त्री प्रसूता/ 312.027. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यस्तेन कालेन तेन समयेन दारको बभूव/ 312.028. न ह्येवं द्रष्टव्यम्/ 312.028. राहुलः कुमारः स तेन कालेन तेन समयेन दारको ऽभूत्/ 312.029. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव/ 312.030. न ह्येवं द्रष्टव्यम्/ 312.030. अहमेव स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव/ 312.031. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतान्यभूवन्/ 312.032. न ह्येवं द्रष्टव्यम्/ 312.033. इमानि तानि पञ्च एतद्भद्रिकशतानि तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतानि <313>अभूवन्/
313.001. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन तस्मिन् महाश्मशाने उच्चंगमो नाम पक्षी बभूव/ 313.002. न ह्येवं द्रष्टव्यम्/ 313.002. कौण्डिन्यो भिक्षुस्तेन कालेन तेन समयेनोञ्चंगमो नाम पक्षी बभूव/ 313.003. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवो ऽभूत्/ 313.004. न हैवं द्रष्टव्यम्/ 313.005. अहमेव स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवो ऽभूत्/ 313.005. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूताम्/ 313.007. न हैवं द्रष्टव्यम्/ 313.007. राजा शुद्धोदनो मायादेवी तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूवताम्/ 313.008. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन वनमभूत्/ 313.009. .... स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन द्वौ ब्रह्मर्षी अभूताम्/ 313.010. न हैवं द्रष्टव्यम्/ 313.010. मैत्रेयो बोधिसत्त्वः सुप्रभश्च बुद्धस्तेन कालेन तेन समयेन तस्मिन् वनषण्डे द्वौ ब्रह्मर्षी अभूताम्/ 313.011. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन व्याघ्री बभूव/ 313.012. न हैवं द्रष्टव्यम्/ 313.012. कौण्डिन्यो भिक्षुः स तेन कालेन तेन समयेन द्वौ व्याघ्रपोतौ बभूवतुः/ 313.015. न हैवं द्रषव्यम्/ 313.015. नन्दो भिक्षू राहुलश्च तेन कालेन तेन समयेन व्याघ्रपोतकौ अभूताम्/ 313.016. तदा मे
भिक्षवश्चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन गलपरित्यागेन पश्चान्मुखीकृतः/ 313.017. तदनेन भिक्षवः पर्यायेण वेदितव्यम्/ 313.017. एवं सचेत् सर्वे सत्त्वा जानीयुह्--दानस्य फलं दानसंविभागस्य च विपाकम् यथा अहं जानाभि दानस्य फलं दानसंविभागस्य च विपाकम्, यो ऽसौ चरमः कवलः पश्चिम आलोपः, तमापि नादत्त्वा नासंविभज्यापरेष्वात्मना नोपभुञ्जीरन्, नाप्युत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्/ 313.020. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च विपाकम्, तस्मात्सत्त्वा यो ऽसौ चरमः कवलः पश्चिम आलोपः, तमप्यदत्त्वा असंविभज्य अपरेषामात्मना परिभुञ्जते, उत्पन्नश्चैषां मात्सर्यमलश्चित्तं पर्यादाय तिष्ठति//
313.023. पुनाकृतं न पश्यति नो शुभाशुभं न सेवितम्/ 313.024. न पश्यति पण्डिते जने न नाशमेत्यार्यगणे//3//
313.025. शुभाशुभं कृतं कृतज्ञेषु न जातु नश्यति/ 313.026. सुकृतं शोभनं कर्म दुष्कृतं चाप्यशोभनम्/ 313.027. उभयस्य विपाको ऽस्ति ह्यवश्यं दास्यते फलम्//4//
313.028. इदमवोचद्भगवान्/ 313.028. आत्तमनसो भिक्षवो भिक्षुण्य उपासका उपासिका देवनागयक्षासुरगरुडकिन्नरमहोरगाः सर्वावती च परिषद्भगवतो भाषितमभ्यनन्दन्//
313.030. रूपावत्यवदानं द्वात्रिंशत्तमम्//
********** अवदान 33 **********
314.001. दिव्33 शार्दूलकर्णावदानम्/
314.002. एवं मया श्रुतम्/ 314.002. एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे/ 314.003. अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्/ 314.004. अथायुष्मानानन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतममुदपानं तेनोपसंक्रान्तः/ 314.005. तेन खलु समयेन तस्मिन्नुदपाने प्रकृतिर् नाम मातङ्गदारिका उदकमुद्धरते स्म/ 314.006. अथायुष्मानानन्दः प्रकृतिं मातङ्गदारिकामेतदवोचत्--देहि मे भगिनि पानीयम्, पास्यामि/ 314.007. एवमुक्ते प्रकृतिर्मातङ्गदारिका आयुष्मन्तमानन्दमिदमवोचत्--मातङ्गदारिकाहमस्मि भदन्त आनन्द/ 314.008. नाहं ते भगिनि कुलं वा जातिं वा पृच्छामि/ 314.008. अपि तु सचेत्ते परित्यक्तं पानीयम्, देहि, पास्यामि/ 314.009. अथ प्रकृतिर्मातङ्गदारिका आयुष्मत आनन्दाअय पानीयमदात्/ 314.010. अथायुष्मानानन्दः पानीयं पीत्वा प्रक्रान्तः//
314.011. अथ प्रकृतिर्मातङ्गदारिका अथायुष्मत आनन्दस्य शरीरे मुखे स्वरे च साधु च सुष्ठु च निमित्तमुद्गृहीत्वा योनिशोमनसिकारेणाविष्टा संरागचित्तमुत्पादयति स्म--आर्यो मे आनन्दः स्वामी स्यादिति/ 314.013. माता च मे महाविद्याधरी/ 314.013. सा शक्ष्यत्यार्यमानन्दमानयितुम्/ 314.013. अथ प्रकृतिर्मातङ्गदारिका पानीयघटमादाय येन चण्डालगृहं तेनोपसंक्रम्य पानीयघटमेकान्ते निक्षिप्य स्वां जननीमिदमवोचत्--यत्खलु एवमम्ब जानीयाह्--आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकः/ 314.016. तमहं स्वामिनमिच्छामि/ 314.016. शक्ष्यसि तमम्ब आनयितुम्? सा तामवोचत्--शक्ताहं पुत्रि आनन्दमानयितुं स्थापयित्वा यो मृतः स्याद्यो वा वीतरागः/ 314.018. अपि च/ 314.018. राजा प्रसेनजित् कौशलः श्रमणगौतममतीव सेवते भजते पर्युपासने/ 314.018. यदि जानीयात्, सो ऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत/ 314.019. श्रमणश्च गौतमो वीतरागः श्रूयते/ 314.020. वीतरागस्य {मन्त्राह्} पुनः सर्वमन्त्रानभिभवन्ति/ 314.020. एवमुक्ता प्रकृतिर्मातङ्गदारिका मातरमिदमवोचत्--सचेददम्ब श्रमणो गौतमो वीतरागः, तस्यान्तिकाच्छ्रमणमानन्दं न प्रतिलप्स्ये, जीवितं परित्यजेयम्/ 314.022. सचेत्प्रतिलप्स्ये, जीवामि/ 314.022. मा ते पुत्रि जीवितं परित्यजसि/ 314.022. आनयामि श्रमणमानन्दम्//
314.024. अथ प्रकृतेर्मातङ्गदारिका माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीमालिप्य दर्भान् संस्तीर्य अग्निं पज्वाल्य अष्टशतमर्कपुष्पाणां गृहीत्वा मन्त्रानावर्तयमाना एकैकमर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म/ 314.026. तत्रेयं विद्या भवति-- 314.027. अमले विमले कुङ्कुमे सुमने/ 314.027. येन बद्धासि विद्युत्/ 314.027. इच्छया देवो वर्षति विद्योतति गर्जति/ 314.028. विस्मयं महाराजस्य समभिवर्धयितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्यः शिखिग्रहा देवा विशिखिग्रहा देवा आनन्दस्यागमनाय संगमनाय क्रमणाय ग्राणाय जुहोमि स्वाहा//
315.001. <315>अथायुष्मत आनन्दस्य चित्तमक्षिप्तम्/ 315.001. स विहारान्निष्क्रम्य येन चण्डालगृहं तेनोपसंक्रामति स्म/ 315.002. अद्राक्षीच्चण्डाली आयुष्मन्तमानन्दं दूरादेवागच्छन्तम्/ 315.002. दृष्ट्वा च पुनः प्रकृतिं दुहितरमिदमवोचत्--अयमसौ पुत्रि श्रमण आनन्द आगच्छति/ 315.003. शयनं प्रज्ञपय/ 315.004. अथ प्रकृतिर्मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म//
315.005. अथायुष्मानान्दो येन चण्डालगृहं तेनोपसंक्रान्तः/ 315.005. उपसंक्रम्य वेदीमुपनिश्रित्यास्थात्/ 315.005. एकान्तस्थितः स पुनरायुष्मानान्दः प्रारोदीत्/ 315.006. अश्रूणि प्रवर्तयमान एवमाह--व्यसनप्राप्तो ऽहमस्मि/ 315.007. न च मे भगवान् समन्वाहरति/ 315.007. अथ भगवानायुष्मन्तमानन्दं समन्वाहरति स्म/ 315.008. समन्वाहृत्य संबुद्धमन्त्रैश्चण्डालमन्त्रान् प्रतिहन्ति स्म/ 315.008. तत्रेयं विद्या-- 315.009. स्थितिरच्युतिः सुनीतिः/ स्वस्ति सर्वप्राणिभ्यः//
315.010. सरः प्रसन्नं निर्देषं प्रशान्तं सर्वतो ऽभयम्/ 315.011. ईतयो यत्र शाम्यन्ति भयानि चलितानि च//1//
315.012. तद्वै देवा नमस्यन्ति सर्वसिद्धाश्च योगिनः/ 315.013. एतेन सत्यवाक्येन स्वस्त्यानन्दास्य भिक्षवे//2//
315.014. अथायुष्मानान्दः प्रतिहतचण्डालमन्त्रश्चण्डालगृहान्निष्क्रम्य येन स्वको विहारस्तेनोपसंक्रमितुमारब्धः//
315.016. अद्राक्षीत्प्रकृतिर्मातङ्गदारिका आनन्दमायुष्मन्तं प्रतिगच्छन्तम्/ 315.016. दृष्ट्वा च पुनः स्वां जननीमिदमवोचत्--अयमसौ मातः श्रमण आनन्दः प्रतिगच्छति/ 315.017. तामाह माता--नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति/ 315.018. तेन मम मन्त्राः प्रतिहता भविष्यन्ति/ 315.018. प्रकृतिराह--किं पुनरम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्? तामाह माता--बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्/ 315.020. ये पुत्रि मन्त्राः सर्वलोकस्य प्रभवन्ति, तान् मन्त्राञ् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति/ 315.021. न पुनर्लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुम्/ 315.022. एवं बलवत्तराः श्रमणस्य गौतमस्य मन्त्राः//
315.023. अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः/ 315.023. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्/ 315.024. एकान्तस्थितमायुष्मन्तमानन्दं भगवानिदमवोचत्--उद्गृह्ण र्वमानन्द इमां षडक्षरीविद्याम्/ 315.025. धारय वाचय पर्यवाप्नुहि आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां हिताय सुखाय/ 315.026. इयमानन्द षडक्षरीविद्या षड्भिः सम्यक्सम्बुद्धैर्भाषिता, चतुर्भिश्च महाराजैः, शक्रेण देवानामिन्द्रेण, ब्रह्मणा च सहापतिना/ 315.027. मया चैतर्हि शाक्यमुनिना सम्यक्सम्बुद्धेन भाषिता/ 315.028. त्वमप्येतर्हि आनन्द तां धारस्य वाचय पर्यवाप्नुहि/ 315.029. यदुत तद्यथा-- 315.030. अण्डरे पाण्डरे कारण्डे केयूरे ऽर्चिहस्ते खरग्रीवे बन्धुमति वीरमति धर विध चिलिमिले विलो:अय विषाणि लोके/ 315.031. विष चल चल/ 315.031. गोलमति गण्डविले चिलिमिले सातिनिंने यथासंविभक्ते गोलमति गण्डविलायै स्वाहा//
316.001. <316>यः कश्चिदानन्द षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात्, स यदि वधार्हो भवेत्, दण्डेन मुच्यते, दण्डार्हः प्रहारेण, प्रहारार्हः, परिभाषणया, परिभाषणार्हो रोमहर्षणेन, रोमहर्षणार्हः पुनरेव मुच्यते/ 316.003. नाहमानन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सासुरायाम् यस्त्वनया षड्क्षर्या विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृते अभिभवितुं शक्नोति वर्जयित्वा पौराणं कर्मविपाकम्//
316.007. अथ प्रकृतिर्मारङ्गदारिका तस्या एव रात्र्या अत्ययात् शिरःस्नाता अनाहतदूष्यप्रावृता मुक्तामाल्याभरणा येन श्रावस्ती नगरी तेनोपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्यास्थादायुष्मन्तमानन्दमागमयमाना--नियतमनेन मार्गेण आनन्दो आनन्दो भिक्षुरागमिष्यतीति/ 316.009. ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां पृष्ठतः पृष्ठतः समनुबद्धाम्/ 316.010. दृष्ट्वा च पुनर्जेह्रीयमाणरूपो ऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तेनोपसंक्रान्तः/ 316.012. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्/ 316.012. एकान्तस्थित आयुच्मानानन्दो भगवन्तमिदमवोचत्--इयं मे भगवन् प्रकृतिर्मातङ्गदारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तमनु गच्छति, तिष्ठन्तमनु तिष्ठति/ 316.014. यद्यदेव कुलं पिन्ण्डाय प्रविशामि, तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति/ 316.015. त्राहि मे भगवन्, त्राहि मे सुगत/ 316.015. एवमुक्ते भगवानायुष्मन्तमानन्दमिदमवोचत्--किं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा? प्रकृतिराह--स्वामिनं भदन्त आनन्दमिच्छामि/ 316.017. भगवानाह--अनुज्ञातासि प्रकृते मातापितृभ्यामानन्दाय? अनुज्ञातास्मि भगवन्, अनुज्ञातास्मि सुगत/ 316.018. भगवानाह--तेन हि संमुखं ममानुज्ञापय त्वम्/ 316.019. अथ प्रकृतिर्मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् प्रक्रान्ता/ 316.020. येन स्वकौ मातापितरौ तेनोपसंक्रान्ता/ 316.021. उपसंक्रम्य मातापित्रोः पादाञ् शिरसा वन्दित्वा एकान्ते ऽस्थात्/ 316.021. एकान्तस्थिता
स्वकौ मातापितराविदमवोचत्--संमुखं मे अम्ब तात श्रमणस्य गौतमस्य आनन्दाय उत्सृजतम्/ 316.023. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ प्रकृतिमादाया येन भगवांस्तेनोपसंक्रान्तौ/ 316.024. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्/ 316.025. एकान्तस्थिता भगवन्तमेतदवोचत्--इमौ तौ भगवन् मातापितरावागतौ/ 316.026. अथ भगवान् प्रकृतेर्मातङ्गदारिकाया मातापितराविदमवोचत्--अनुज्ञाता युवाभ्यां प्रकृतिर्मातङ्गदारिका आनन्दायेति? तावाहतुह्--अनुज्ञाता भगवन्, अनुज्ञाता सुगत/ 316.028. तेन हि यूयं प्रकृतिमपहाय गच्छत स्वगृहम्/ 316.028. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात्प्रक्रान्तौ//
316.031. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरावचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--अर्थिकासि प्रकृते आनन्देन भिक्षूणा? प्रकृतिराह--अर्थिकास्मि भगवन्, <317>अर्थिकास्मि सुगत/
317.001. तेन हि प्रकृते य आनन्दस्य वेषः, स त्वया धारयितव्यः/ 317.001. सा आह--धारयामि भगवन्, धारयामि सुगत/ 317.002. प्रव्रजयतु मां सुगत, प्रव्रजयतु मां भगवान्/ 317.002. अथ भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--एहि त्वं भिक्षुणी, चर ब्रह्मचर्यम्/ 317.003. एवमुक्ते प्रकृतिर्मातङ्गदारिका भगवता मुण्डा काषायप्रवृता/ 317.004. अथ भगवान् प्रकृतिं मातङ्गदारिकामेहिभिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, स्मुत्तेजयति स्म, संप्रहर्षयति स्म/ 317.006. येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया, तद्यथा--दानकथा शीलकथा स्वर्गकथा कामेष्वादीनवं निःसरणं भयं संक्लेशव्यवदानम्, बोधिपक्षांस्तान् धर्मान् भगवान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म/ 317.008. अथ प्रकृतिर्भिक्षुणी भगवता धर्म्यया कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचित्ताअ मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताखिलचित्ता भव्या धर्मदेशितमाज्ञातुम्/ 317.010. यदा च भगवाञ् ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनीवरणचित्तां भव्यां प्रतिबलां सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा येयं भगवतां बुद्धानां चतुरायसत्यप्रतिवेधिकी ध्र्मदेशना, यदुत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर्भिक्षुण्या विस्तरेण संप्रकाशयति स्म/ 317.014. अथ प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यान्यभिज्ञातासीत्, दुःखं समुदयं निरोधं मार्गम्/ 317.015. तद्यथा वस्त्रमपगतकालकं रजनोपगतं रङ्गोदके प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णीयात्, एवमेव प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यानि अभिसमयति स्म, तद्यथा--दुःखं समुदयं निरोधं मार्गम्//
317.018. अथ प्रऋतिर्भिक्षुणी दृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मा अधिगतार्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ता अपरप्रत्यया अनन्यनेया शास्तुः शासने अनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तमिदमवोचत्--अत्ययो मे भग्वन्, अत्ययो मे सुगत/ 317.021. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्ट्रज्ञजातीया, याहमानन्दं भिक्षुं स्वामिवादेन समुदाचार्षम्/ 317.023. साहं भदन्त अत्ययमत्ययतः पश्यामि/ 317.023. अत्ययमत्ययतो दृष्ट्वा देशयामि/ 317.023. अत्ययमत्ययत आविष्करोमि/ 317.024. आयत्यां संवरमापद्ये/ 317.024. अतस्तस्या मम भगवन्न् अत्ययमत्ययतो जानातु प्रतिगृह्णातु अनुकम्पामुपादाय/ 317.025. भगवानाह--आयत्यां संवराय स्थित्वा त्वं प्रकृते अत्ययमत्ययतो ऽध्यागमः/ 317.026. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्प्रज्ञजातीया त्वमानन्दं भिक्षुं स्वामिवादेन समुदाचरसीति/ 317.027. यतश्च त्वं प्रकृते अत्ययं जानासि, अत्ययं पश्यसि, आयत्यां च संवरमापद्यसे, अहमपि ते ऽत्ययमत्ययतो गृह्णामि/ 317.028. वृद्धिरेव ते प्रकृते प्रतिकाङ्क्षितव्या कुशलानां धर्माणाम्, न हानिः/ 317.029. अथ प्रकृतिर्भिक्षुणी भगवताभिनन्दितानुशिष्टा एका व्यपकृष्टा अप्रमत्ता आतापिनी स्मृतिमती संप्रजाना प्रहितानि विविक्तानि विहरति स्म/ 317.031. यदर्थं कुलदुहितरः केशानवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजन्ति, तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षाकृत्योपसम्पद्य<318> प्रवेदयते स्म--क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामीति//
318.002. अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयह्--भगवता किल चण्डालदारिका प्रव्राजितेति/ 318.004. श्रुत्वा च पुनरवध्यायन्ति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपासिकानां सम्यक्चर्यां चरिष्यति? कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति? 318.007. अश्रौषीद्राजा प्रसेनजित्कौशलह्--भगवता चण्डालदारिका प्रव्रजितेति/ 318.008. श्रुत्वा च पुनरवध्यायति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपादिकानां सम्यक्चर्यां चरिष्यति? कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति? विमृश्य च भद्रं यानं योजयित्वा भद्रं यानमभिरुह्य संबहुलैश्च श्रावस्तेयैर्ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म/ 318.011. येन जेतवनमनाथपिण्डदस्यारामः, तेनोपसंक्रान्तः/ 318.012. तस्य खलु यावती यानस्य भूमिः, तावद्यानेन गत्वां स यानादवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्यामेवारामं प्रविक्षत्/ 318.013. प्रविश्य येन भगवांस्तेनोपस्ंक्रान्तः/ 318.014. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः/ 318.014. ते ऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षत्रियगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः/ 318.016. अप्यैकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णाः/ 318.017. अप्यैकत्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि नामगोत्राणि अनुश्राव्य एकान्ते निषण्णाः/ 318.018. अप्यैकत्या येन भगवांस्तेनाञ्जलिं प्रणम्य एकान्ते निषण्णाः/ 318.019. अप्यैकत्यास्तूष्णीम्भूता एकान्ते निषण्णाः//
318.020. अथ भगवान् राजानं प्रसेनजितं कौशलमारभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तमाज्ञाय प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवस्तथागतस्य संमुखं प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां श्रोतुम्? भिक्षवो भगवन्तमाहुह्--एतस्य भगवन् कालः, एतस्य सुगत समयः, यद्भगवान् प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां कथयेत्, यद्भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति/ 318.025. भगवानाह--तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसिकुरुत, भाषिष्ये/ 318.025. एवं साधु भगवन्निति ते भिक्षवो भगवतः प्रत्यश्रौषुः/ 318.026. भगवांस्तानिदमवोचत्-- 318.027. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि गङ्गातटे अतिमुक्तकदलीपाटलकामलकीवनगहनप्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्गराजाः प्रतिवसति स्म संबहुलैश्च मातङ्गसहस्रैः सार्धम्/ 318.028. स पुनरिभिक्षवस्त्रिशङ्कुर्मातङ्गराजः पूर्वजन्माधीतान् वेदान् स्मनुस्मरति स्म साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्, अन्यानि च शास्त्राणि पदको{शो?} वैयाकरणो लोकायते यज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षः/ 318.031. भाष्यं च यथाधर्मं वेदव्रतपदान्यनुश्रुतं च भाषते स्म/ 318.032. तस्य त्रिशङ्कोर्मातङ्गराजस्य शार्दूलकर्णो नाम कुमारो ऽभूदुत्पन्नः/ <319>रूपतश्च कुलतश्च शीलतश्च गुणतश्च सर्वगुणैश्चोपेतो ऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः/
319.002. अथ त्रिशङ्कुर्मातङ्गराजः शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदानध्यापयति स्म यदुत साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्म्, अन्यानि च शास्त्राणि, भाष्यं च यथाधर्मं वेदव्रतपदानि//
319.005. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अयं मम पुत्रः शार्दूलकर्णो नाम कुमारह् उपेतो रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेत्प्^भिरूपो दर्शनीयः प्रासादिकः, परमया च वर्णपुष्कलतया समन्वागतः/ 319.007. चीर्णव्रतो ऽधीतमन्त्रो वेदपारगः/ 319.007. समयो ऽयम् यन्न्वहमस्य निवेशनधर्मं करिष्ये/ 319.008. तत्कुतो न्वहं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयमिति? 319.010. तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म ससप्तोत्सदं स्तृणकाष्ठोदकं धान्यसहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्/ 319.011. पुष्करसारी पुनर्ब्राह्मण उपेतो मातृतः पितृतः संशुद्धो गृहिण्यामना {कुले जात्यां वा} क्षिप्तो जातिवादेन गोत्रवादेन यावदासप्तममातामहपितामहम्/ 319.013. युगपदुपाध्यायो ऽध्यापको मन्त्रधरस्त्रयाणां वेदानां पारगः साङ्गोपाङ्गानां सरहस्यानां सनिघण्टकेइटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदको{शो} वैयाकरणः/ 319.015. लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः/ 319.015. स्फीतमुत्कूटं नाम द्रोणमुखं परिभुङ्क्ते/ 319.016. पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता/ 319.016. उपेता रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती//
319.019. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अस्त्युत्तरपूर्वेणोत्कूटो नाम द्रोणमुखः/ 319.019. तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति/ 319.020. उपेतो मातृतः पितृतो यावत् त्रैवेदिके प्रवचने विस्तरेण/ 319.021. स चोत्कूटं द्रोणमुखं परिभुङ्क्ते ससप्तोत्सदं सतृणकाष्ठोदकं धान्यभोगैः सहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्/ 319.022. तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश्च कुलतश्च शीलतश्च स्र्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतीति/ 319.025. अथ त्रिशङ्कुर्मातङ्गराज एतमेवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूषकालसमये स्र्वश्वेतं वडवारथमभिरुह्य महता श्वपाकगणेन अमात्यगणेन परिवृतश्चण्डालनगरान्निष्क्रम्योत्तरेण प्रागच्छद्येनोत्कूटं द्रोणमुखम्/ 319.027. अथ त्रिशङ्कुर्मातङ्गराज उत्कूटस्योत्तरपूर्वेण सुमनस्कं नामोद्यानं नानावृक्षसंछन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनमिव देवानां तदुपसंक्रान्तः/ 319.029. उपसंक्रम्य ब्राह्मणं पुष्करसारिणमागमयमानो ऽस्थात्--ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुमिहागमिष्यतीति//
319.031. अथ ब्राह्मणः पुष्करसारी तस्या र्व रात्र्या अत्ययात् स्र्वश्वेतं वडवारथमभिरुह्य शिष्यगणपरिवृतः पञ्चमत्रैर्माणवकशतैः पुरस्कृत उत्कूटान्निर्याति स्म ब्राह्मणान् मन्त्रान् <320>वाचयितुम्/
320.001. अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यमिवोदयन्तं तेजसा, ज्वलन्तमिव हुतवहम्, यज्ञमिव ब्राह्मणपरिवृतम्, शक्रमिव देवगणपरिवृतम्, हैमवन्तमिवौषधिभिः, समुद्रमिव रत्नैः, चन्द्रमिव नक्षत्रैः, वैश्रवणमिव यक्षगणैः, ब्रह्माणमिव देवर्षिगणैः परिवृतं शोभमानम्/ 320.004. दूरत एवागच्छन्तं दृष्ट्वा च एनं प्रत्युद्गम्य यथाधर्मं कृत्वेदमवोचत्--हं भोः पुष्करसारिन्, स्वागतम्, आयाहि/ 320.005. कार्यं च ते वक्ष्यामि, तच्छ्रूयताम्/ 320.006. एवमुक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्--न हि भोस्त्रिशङ्को शक्यं ब्राह्मणेन सह भोःकारं कर्तुम्/ 320.007. अहं भोः पुष्करसारिञ् शक्नोमि भोःकारं कर्तुम्/ 320.007. यच्छक्यं मे कर्तुं भवति, नैव तच्छक्यं ते कर्तुम्/ 320.008. अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यमानम्भाः पूर्वसमारब्धा भवन्ति यदुत आत्मार्थं वा परार्थं वा आत्मीयार्थं वा सर्वभूतसंग्रहार्थं वा/ 320.010. इदं चात्र महत्तरं कार्यम्/ 320.010. यत्ते व्याख्यास्यामि, तच्छ्रूयताअम्/ 320.010. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय/ 320.011. यावन्तं कुलशुल्कं मन्यसे, तावन्तं दास्यामि//
320.013. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषिक्तः कुपितश्चण्डीभूतो ऽनात्तमनाः कोपं च द्वेषं च म्रक्षं च तत्प्रत्ययात्संजनित्वा ललाटे त्रिशिखां भृकुटीं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--धिग् ग्राम्यविषय चण्डाल, नेदं श्वपाकवचनम् युक्तम्, यस्त्वं ब्राह्मणं वेदपारगं हीनश्चण्डालयोनिजो भूत्वा इच्छस्यवमर्दितुम्/ 320.017. भो दुर्मते-- 320.018. प्रकृतिं त्वं न जानासि आत्मानं चाभिमन्यसे/ 320.019. बालाग्रे सर्षपं मा भोः स्थापय {मा} क्लेशमागमः/ 320.020. मा प्रार्थयाप्रार्थनीयां वायुं पाशेन बन्धय//3//
320.021. न हि चामीकरं मूढ भवेद्भस्म कदाचन/ 320.022. प्रकाशे वान्धकारे किं विशेषो नोपलभ्यते//4//
320.023. चण्डालयोनिजस्त्वं हि द्विजातिः पुनरप्यहम्/ 320.024. हीनः श्रेष्ठेन संबन्धं मूढ प्रार्थयसे कथम्//5//
320.025. चण्डालयोनिभूतस्त्वमहमस्मि द्विजातिजः/ 320.026. न हि श्रेष्ठः प्रहीनेन संबन्धं कर्तुमिच्छति/ 320.027. श्रेष्ठाः श्रेष्ठैर्हि संबन्धं कुर्वन्तीह द्विजातयः//6//
320.028. विद्यया ये तु संपन्नाः संशुद्धाश्चरणेन च/ 320.029. जात्या चैवानभिक्षिप्ता मन्त्रैः परमतां गताः//7//
320.030. अध्यापका मन्त्रधरास्त्रिषु वेदेषु पारगाः/ 320.031. निघण्टकैटभान् वेदान् ब्राह्मणा ये ह्यधीयते/ 320.032. तैस्तादृषैर्हि संबन्धं कुर्वन्तीह द्विजातयः//8//
321.001. <321>न हि श्रेष्ठो हि हीनेन संबन्धं कर्तुमिच्छति/ 321.002. प्रार्थयसे ऽप्रार्थनीयां वायुं पाशेन बन्धितुम्/ 321.003. यदस्माभिश्च संबन्धमिह त्वं कर्तुमिच्छसि//9//
321.004. जुगुप्सितः सर्वलोके कृपणः पुरुषाधमः/ 321.005. गच्छ त्वं वृषल क्षिप्रं किमस्मानवमन्यसे//10//
321.006. चण्डालाः सह चण्डालैः पुक्कसाः सह पुक्कसैः/ 321.007. कुर्वन्तीहैव संबन्धं जातिभिर्जातिरेव च//11//
321.008. ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह/ 321.009. सार्धं वैश्यास्तथा वैश्यैः शूद्राः शूद्रैस्तथा सह//12//
321.010. सदृशाः सदृशैः सार्धमावहन्ति परस्परम्/ 321.011. न हि कुर्वन्ति चण्डालाः संबन्धं ब्राह्मणैः सह//13//
321.012. सर्वजातिविहीनो ऽसि सर्ववर्णजुगुप्सितः/ 321.013. कथं हीनश्च श्रेष्ठेन संबन्धं कर्तुमिच्छसि//14//
321.014. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर्मातङ्गराज इदमवोचत्-- 321.015. यथा भस्मनि सौवर्णे विशेष उपलभ्यते/ 321.016. ब्राह्मणे वान्यजातौ वा न विशेषो ऽस्ति वै तथा//15//
321.017. यथा प्रकाशतमसोर्विशेष उपलभ्यते/ 321.018. ब्राह्मणे वान्यजातौ वा न विशेषो ऽस्ति वै तथा//16//
321.019. न हि ब्राह्मण आकाशान्मरुतो वा समुत्थितः/ 321.020. भित्त्वा वा पृथिवीं जातो जातवेदा यथारणेः//17//
321.021. ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः/ 321.022. श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणम्//18//
321.023. ब्राह्मणे ऽपि मृतोत्सृष्टो जुगुप्स्यो ऽशुचिरुच्यते/ 321.024. वर्णास्तथैव चाप्यन्ये का नु तत्र विशेषता//19//
321.025. यत्किंचित्पापकं कर्म किल्बिषं कलिरेव च/ 321.026. सत्त्वानामुपघाताय ब्राह्मणैस्तत्प्रकाशितम्//20//
321.027. इति कर्माणि चैतानि प्रकाशितानि ब्राह्मणैः/ 321.028. कर्मभिर्दारुणैश्चापि "पुण्यो ऽहम्" ब्रुवते द्विजाः//21//
321.029. मांसं खादितुकामैस्तु ब्राह्मणैरुपकल्पितम्/ 321.030. मन्त्रैर्हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्यजैडकाः//22//
322.001. <322>यदेष मार्गः स्वगार्य कस्मान्न ब्राह्मणा ह्यमी/ 322.002. आत्मानमथवा बन्धून्मन्त्रैः संप्रोक्षयन्ति वै//23//
322.003. मातरं पितरं चैव भ्रातरं भगिनीं तथा/ 322.004. पुत्र दुहितरं भार्यां द्विजा न प्रोक्षयन्त्यमी//24//
322.005. मित्रं ज्ञातिं सखीं वापि ये वा विषयवासिनः/ 322.006. प्रोक्षितास्ते ऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिम्//25//
322.007. सर्वे यज्ञैः समाहूता गमिष्यन्ति सतां गतिम्/ 322.008. पशुभिः किं नु भो यष्टैरात्मानं किं न यक्ष्यसे//26//
322.009. न प्रोक्षणैर् न मन्त्रैश्च स्वर्गं गच्छन्त्यजैटकाः/ 322.010. न ह्येष मार्गः स्वर्गाय मिथ्याप्रोक्षणमुच्यते//27//
322.011. ब्राह्मणै रौद्रचित्तैस्तु पर्यायो ह्येष चिन्तितः/ 322.012. मांसं खादितुकामैस्तु प्रोक्षणं कल्पितं पशोः//28//
322.013. अन्यच्चाहं प्रवक्ष्यामि ब्राह्मणैर्यत् प्रकल्पितम्/ 322.014. पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः//29//
322.015. सुवर्णचौर्यं मद्यं गुरुदाराभिमर्दनम्/ 322.016. ब्रह्मघ्नता च चत्वारः पातका ब्राह्मणेष्वमी//30//
322.017. सुवर्णहरणं वर्ज्यं स्तेयमन्यन्न विद्यते/ 322.018. सुवर्णम् यो हरेद्विप्रः स तेना^ब्राह्मणो भवेत्//31//
322.019. सुरापानं न पातव्यमन्नपानम् यथेष्टतः/ 322.020. सुरां तु यः पिबेद्विप्रः स तेनाब्राह्मणो भवेत्//32//
322.021. गुरुदारा न गन्तव्या अन्यदारा यथेष्टतः/ 322.022. गुरुदारां तु यो गच्छेत्स तेनाब्राह्मणो भवेत्//33//
322.023. न हन्याद् ब्राह्मणं ह्यकं हन्यादन्याननेकशः/ 322.024. हन्यात्तु ब्राह्मणम् यो वै स तेनाब्राह्मणो भवेत्//34//
322.025. इत्येते पातका ह्युक्ता ब्राह्मणेषु चतुर्विधाः/ 322.026. भवत्यब्राह्मणा येन ततो ऽन्ये ऽपातकाः स्मृताः//35//
322.027. कृत्वा चतुर्णामेकैकं भवेदब्राह्मणस्तु सः/ 322.028. लभते न च सामीचीं ब्राह्मणानां समागमे/ 322.029. आसनं चोदकं चैव व्युत्थानं स न चार्हति//36//
322.030. तस्य् निःसरणं दृष्टं ब्राह्मणैः पतितस्य तु/ 322.031. व्रतं वै स समादाय पुनर्ब्राह्मणतां व्रजेत्//37//
323.001. <323>असौ द्वादशवर्षाणि धारयित्वा खराजिनम्/ 323.002. खट्वाङ्गमुच्छ्रितं कृत्वा मृतशीर्षे च भिजनम्//38//
323.003. एतद्व्रतं समादाय निश्चयेन निरन्तरम्/ 323.004. पूर्णे द्वादशमे वर्षे पुनर्ब्राह्मणतां व्रजेत्//39//
323.005. इति निःसरणं दृष्टं ब्राह्मणैस्तु तपस्विभिः/ 323.006. कुमार्गगामिभिर्मूढैरनिःसरणदर्शाभिः//40//
323.007. तदित्दं ब्राह्मण ते ब्रवीमि--संज्ञामात्रकमिदं लोकस्य यदिदमुच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा/ 323.008. सर्वमिदमेकमेवेति विज्ञाय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्यार्थाय/ 323.009. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि//
323.010. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश्चण्डीभूतो ऽनात्तमनाः कोपं च द्वेषं च तत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्-- 323.013. असमीक्ष्यैतत्त्वया हि कृता संज्ञेयमीदृशी/ 323.014. एकैव जातिर्लोके ऽस्मिन् सामान्या न पृथग्विधा//41//
323.015. कथं श्वपाकजातीयो ब्राह्मणं वेदपारगम्/ 323.016. निहीनयोनिजो भूत्वा विमर्दितुमिहेच्छसि//42//
323.017. राजानः खलु वृषल प्रति{वि}भागज्ञा भवन्ति/ 323.017. तद्यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधर्मे वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा/ 323.019. चत्वार इमे वृषल वर्णाः/ 323.019. यदुत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति/ 323.019. तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति/ 323.020. तद्यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति/ 323.020. तिस्रः क्षत्रियस्य भार्या भवन्ति/ 323.021. क्षत्रिया वैश्या शूद्री चेति/ 323.021. वैश्यस्य द्वे भार्ये भवतः/ 323.021. वैश्या शूद्री चेति/ 323.022. शूद्रस्य त्वेका भार्या भवति शूद्री एव/ 323.022. एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति/ 323.023. तद्यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति/ 323.023. क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति/ 323.024. वैश्यस्य् द्वौ पुत्रौ, वैश्यः शूद्र इति/ 323.024. शूद्रस्य त्वेक एव पुत्रो भवति यदुत शूद्र एव/ 323.024. ते ब्राह्मणाः पुनर्वृषल ब्राह्मणः पुत्राः/ 323.025. औरसा मुखतो जाताः/ 323.025. उरस्तो बाहुतः क्षत्रियाः/ 323.026. नाभितो वैश्याः/ 323.026. पद्भ्यां शूद्राः/ 323.026. ब्रह्मणायं खलु वृषल लोकः सर्वभूतानि निर्मितानि/ 323.027. तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास्तदनन्तरम्/ 323.028. वैश्यास्तृतीयका वर्णाः शूद्रनांना चतुर्थकः//43// इति//
323.029. स त्वं वृषल चतुर्थे ऽपि वर्णे न संदृशसे/ 323.029. अहं चाग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे/ 323.030. परमार्थं च सम्योगमाकाङ्क्षसि/ 323.030. प्रणश्य त्वं वृषल क्षिप्रम्/ 323.030. मा चास्माकमवमंस्थाः//
323.031. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्--इदमत्र ब्राह्मण शृणु यद् ब्रवीमि/ 323.032. ब्रह्मणायं लोकः, सर्वभूतानि निर्मितानि/
324.001. <324>तस्य ज्येष्ठो वयं पुत्राः क्षत्रियास्तदनन्तरम्/ 324.002. वैश्यास्तृतीयका वर्णाः शूद्रनांना चत्रुथकः//44// इति//
324.003. सपादजङ्घाः सनखाः समांसाः सपार्श्वपऋष्ठाश्च नरा भवन्ति/ 324.005. एकांशतो नास्ति यतो विशेषो वर्णाश्च चत्वार इतो न सन्ति//45//
324.007. अथो विशेषः प्रवरो ऽस्ति कश्चित्तद् ब्रूहि यच्चानुमतम् यथा ते/ 324.009. अथो विशेषः प्रवरो हि नास्ति वर्णाश्च चत्वार इतो न सन्ति//46//
324.011. यथा हि दारका बालाः क्रीडमाना महापथे/ 324.012. पांशुपुञ्जानि संपण्ड्य स्वयं नामानि कुर्वते//47//
324.013. इदं क्षीरमिदं दधि इदं मांसमिदं घृतम्/ 324.014. न च बालस्य वचनात्पांशवो ऽन्नं भवन्ति हि//48//
324.015. वर्णास्तथैव चत्वारो यथा ब्राह्मण भाषसे/ 324.016. पांशुपुञ्जाभिधानेन योगो ऽ{यः को}प्येष न विद्यते//49//
324.017. न केशेन न कर्णाभ्यां न शीर्षेण न चक्षुषा/ 324.018. न मुखेन न नासया न ग्रीवया न बाहुना//50//
324.019. नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेनोदरेण च/ 324.020. नोरुभ्यामथ जङ्घाभ्यां पाणिपादनखेन च//51//
324.021. न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः/ 324.022. नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते//52//
324.023. यथा हि जातिष्वन्यासु लिङ्गम् योनिः पृथक् पृथक्/ 324.024. सामान्यं कारणं तत्र किं वा जातिषु मन्यसे//53//
324.025. सशीर्षकाश्चाथ नरास्थियुक्ताः सचर्मकाः सेन्द्रियसोदराश्च/ 324.027. वर्णा न युक्ताश्चतुरो ऽभिधातुम्//54//
324.029. दोषो ह्ययं चात्र भवेदयुक्तो यद्यत्त्वया चाभिहितं निदाने/ 324.031. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच्चात्र मन्ये शृणु चोद्यमानम्//55//
325.001. <325>यच्चात्र युक्तं विषमं समं वा तत्ते प्रवक्ष्यामि नियुज्यमानः/ 325.003. दोषो हि यश्चापि भवेदयुक्तो वक्ष्यामि ते ह्युत्तरतोत्तरं च/ 325.005. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्माधिपत्यप्रभवा मनुष्याः//56//
325.007. अनुमानमपि ते ब्राह्मण यदि प्रमाणम्, तत्र यद् ब्रवीषि--ब्रह्मा एक इति तस्मात्प्रजा अपि एकजात्या एव/ 325.008. वयमप्येकजात्या भवामः/ 325.008. यच्च ब्रवीषि--ब्रह्मणायं लोकः सर्वभूतानि च निर्मितानीति/ 325.009. सचेत्ते ब्राह्मण इदं प्रमणम्, तदिदं ते ब्राह्मण अयुक्तम् यद् ब्रवीषि चत्वारो वर्णाह्--ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चेति/ 325.010. अपि तु ब्राह्मण मिथ्या मम वचो भवेत्, यदि ब्राह्मण संवादेन मनुष्यजातेर् नानाकरणं प्रज्ञायते/ 325.011. यदुत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वा आकारतो वा योनितो वा आहारतो वा संभवतो वा नानाकरणं प्रज्ञायते//
325.014. तद्यथापि भोः पुष्करसारिन् गवाश्वगर्दभोष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानां नानाकरणं प्रज्ञायते/ 325.015. यदुत पादतो ऽपि मुखतो ऽपि वर्णतो ऽपि संस्थानतो ऽपि आहारतो ऽपि योनिसम्भवतो ऽपि नानाकरणं प्रज्ञायते/ 325.016. न चैवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायते/ 325.017. तत्तस्मात्सर्वमिदमेकमिति//
325.018. अपि च ब्राह्मण अमीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जादीनां नानाकरणं प्रज्ञायते/ 325.019. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायते/ 325.020. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते//
325.022. तद्यथा ब्राह्मण अमीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारसप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिरादीनां नानाकरणं प्रज्ञायते/ 325.023. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च गुल्मतश्च सारतश्च पत्रतश्च फलतश्च विशेष उपलभ्यते/ 325.024. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते//
325.026. तद्यथा भोः पुष्करसारिन्, अमीषां क्षीरवृक्षाणामुदुम्बरप्लक्षाश्वत्थनयग्रोधवल्गुकेत्येवमादीनां नानाकरणं प्रज्ञायते/ 325.027. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायते/ 325.028. न त्वेन चतुर्णां वर्णानां नानाकरणं प्रज्ञायते//
325.029. तद्यथा पुष्करसारिन्, अमीषामपि फलभैषज्यवृक्षाणामामलकीहरीतकीविभीतकीफरसकादीनामन्यासामपि विविधानामोषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायते/ 325.031. यदुत मूलतश्च स्कन्धतश्च गुल्मतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रजायते/ 325.032. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते//
326.001. <326>तद्यथा स्थलजानां पुष्पवृक्षाणामतिमुक्तकचम्पकपाटलानां सुमनावार्षिकाधनुष्कारिकादीनां नानाकरणं प्रज्ञायते/ 326.002. यदुत रूपतो ऽपि वर्णतो ऽपि गन्धतो ऽपि संस्थानतो ऽपि नानाकरणं प्रज्ञायते/ 326.003. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते//
326.004. तद्यथा ब्राह्मण अमीषामपि जलजानां पुष्पाणां पद्मोत्पलसौगन्धकमृदुगन्धिकादीनां नानाकरणं प्रज्ञायते/ 326.005. यदुत रूपतश्च गन्धतश्च संस्थानतश्च वर्णतश्च नानाकरणं पर्ज्ञायते/ 326.006. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते/ 326.006. तद्यथा पुष्करसारिन्न् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति/ 326.007. तस्मादेकमेवेदं सर्वमिति//
326.008. अप्यन्यत्ते प्रवक्ष्यामि ब्राह्मणैः कल्पितम् यथा/ 326.009. शिरः सतारं गगनमाकाशमुदरं तथा//57//
326.010. पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्/ 326.011. सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती//58//
326.012. अश्रूण्यवोचद्वर्षास्य नद्यः प्रस्रावमेव च/ 326.013. सागराश्चाप्यमेध्यं वै एवं ब्रंहा प्रजापतिः//59//
326.014. परीक्षस्व त्वं ब्रह्मणः स्वलक्षणम्/ 326.014. यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नाः, तस्मात्क्षत्रिया अपि वैश्या अपि शूद्रा अप्युत्पन्नाः//
326.016. एवं प्रसूतिर्यदि तत्त्वतः स्यात्ततो हि स्याद्वर्णकृतो विशेषः/ 326.018. यदि ब्राह्मणा ब्रह्मलोकं व्रजेयुस्त्रयश्च वर्णा न व्रजेयुः स्वर्गम्/ 326.020. एवं भवेद्वर्णकृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः//60//
326.022. यस्माद्धि वर्णश्चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा/ 326.024. यतस्तपश्चार्षमिह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्//61//
326.026. यदि ब्राह्मणः स्यादिहैक एव द्विजिह्वश्चतुःश्रवणस्तथैव/ 326.028. चतुर्विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्णकृतो विशेषः//62//
327.001. <327>रागैश्च नाम परघातनं च एवम्प्रकारं च विहेठनं च/ 327.003. सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्यकल्याणकृतानि विप्रैः//63//
327.005. युद्धं विवादं कलहान्यभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर्हि/ 327.007. अथर्वणं कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः//64//
327.009. पापेच्छता बहुजनवञ्चनं च शाठ्यं च धौर्यं च तथैव कल्पम्/ 327.011. एवं परेषामहितं विचिन्त्य कदा च ते स्वर्गमितो व्रजेयुः//65//
327.013. ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्युपेताः/ 327.015. अहिंसका ये दमसम्यमे रतास्ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति//66//
327.017. सहास्थिमांसः सनखः सचर्मा दुःखं सुखं मूत्रपुरीषमेकम्/ 327.019. पञ्चेन्द्रियैर् नास्ति यतो विशेषस्तस्मान्न वै वर्णचतुष्क एषः//67//
327.021. तद्यथा नाम ब्राह्मण कस्यचित्पुरुषस्य चत्वारः पुत्रा भवेयुः/ 327.021. स तेषां नामानि कुर्यात्--नन्दक इति वा जीवक इति वा अशोक इति वा शतायुरिति वा/ 327.022. इष्टाश्च पुनर्भो एतस्य पुरुषस्य पुत्रा भवेयुः/ 327.023. तत्र यो नन्दकः स नन्देत्/ 327.023. यो जीवकः स जीवेत्/ 327.024. यो ऽशोकः स न शोचेत्/ 327.024. यः शतायुः स वर्षशतं जीवेत्//
327.025. नामतः पुनर्ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः/ 327.025. तत्कस्य हेतोह्? इह खलु पुनर्ब्रह्मण पितृतः पुत्रो जायते/ 327.026. तस्माच्च तत्रेदं व्याकरणं भवति-- 327.027. माता भस्त्रा पितुः पुत्रो येन जातः स एव सः/ 327.028. यद्येवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्//68//
327.029. परीक्षस्व ब्राह्मण सम्यगेव--को ऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति/ 327.030. सर्वे काणाश्च कुब्जाश्च सर्वे ऽपस्मारिणो ऽपि वा/ 327.031. किलासिनः कुष्ठिनश्च गौराः कृष्णाः पृथक् पृथक्//69//
328.001. <328>प्रतिष्ठिताः//
328.002. सममज्जानखत्वचपार्श्चोदरवक्त्राः प्रजा हि ताः स्वकर्मणा/ 328.003. एवं गते ब्राह्मण नैव भवति विशेषः को जातिकृतो विशेषः/ 328.004. यस्मान्न जातेर्विशेषणो ऽस्ति तस्मान्न वै वर्णचतुष्क एव//69//(अ) 328.005. तस्मात्ते ब्राह्मण ब्रवीमि--संज्ञामात्रमिदं लोकस्य यदिदं ब्रांहण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाक इति वा/ 328.006. एकमिदं सर्वमिदमेकम्/ 328.006. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय/ 328.007. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि//
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
