Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सौन्दरानन्द (bản Matsunami)

Tác giả
अश्वघोष
Thông tin
GRETIL — Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् / नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् // saund_10.34 //

ऐन्द्रं वनं तच् च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः / हर्षान्विताश् चाप्सरसः परीयुः सगर्वम् अन्योन्यम् अवेक्षमाणाः // saund_10.35 //

सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः / दिव्याश् च निर्दोषपरिग्रहाश् च तपःफलस्याश्रयणं सुराणाम् // saund_10.36 //

तासां जगुर् धीरम् उदात्तम् अन्याः पद्मानि काश् चिल् ललितं लभञ्जुः / अन्योन्यहर्षान् ननृतुस् तथान्याश् चिराङ्गहाराः स्तनभिन्नभाराः // saund_10.37 //

कासां चिद् आसां वदनानि रेजुर् वनान्तरेभ्यश् चलकुण्डलानि / व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि // saund_10.38 //

ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस् तडित्पताका इव तोयदेभ्यः / नन्दस्य रागेण तनुर् विवेपे जले चले चन्द्रमसः प्रभेव // saund_10.39 //

वपुश् च दिव्यं ललिताश् च चेष्टास् ततः स तासां मनसा जहार / कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षाद् इव जातरागः // saund_10.40 //

स जाततर्षो ऽप्सरसः पिपासुस् तत्प्राप्तये ऽधिष्ठितविक्लवार्तः / लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार // saund_10.41 //

यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति / मलक्षयार्थं न मलोद्भवार्तं रजस् तथास्मै मुनिर् आचकर्ष // saund_10.42 //

दोषांश् च कायाद् भिषगुज् जिहीर्षुर् भूयो यथा क्लेशयितुं यतेत / रागं तथा तस्य मुनिर् जिघांसुर् भूयस्तरं रागम् उपानिनाय // saund_10.43 //

दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेर् उदितस्य दीप्तिः / मनुष्यलोके द्युतिम् अङ्गनानाम् अन्तर्दधात्य् अप्सरसां तथा श्रीः // saund_10.44 //

महच् च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दम् अल्पम् / गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान् हेतुर् अणोर् वधाय // saund_10.45 //

मुनेः प्रभावाच् च शशाक नन्दस् तद्दर्शनं सोढुम् असह्यम् अन्यैः / अवितरागस्य हि दुर्बलस्य मनो दहेद् अप्सरसां वपुःष्रीः // saund_10.46 //

मत्वा ततो नन्दम् उदीर्णरागं भार्यानुरोधाद् अपवृत्तरागम् / रागेण रागं प्रतिहन्तुकामो मुनिर् विरागो गिरम् इत्य् उवाच // saund_10.47 //

एताः स्त्रीयः पश्य दिवौकसस् त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वम् / एताः कथं रूपगुणैर् मतास् ते स वा जनो यत्र गतं मनस् ते // saund_10.48 //

अथाप्सरःस् एव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः / सगद्गगदं कामविषक्तचेताः कृताञ्जलिर् वाक्यम् उवाच नन्दः // saund_10.49 //

हर्यङ्गनासौ मुषितैकदृष्टिर् यदन्तरे स्यात् तव नाथ वध्वाः / तदन्तरे ऽसौ कृपणा वधूस् ते वौष्मतीर् अप्सरसः प्रतीत्य // saund_10.50 //

आस्था यथा पूर्वम् अभून् न का चिद् अन्यासु मे स्त्रिषु निशाम्य भार्याम् / तस्यां ततः सम्प्रति का चिद् आस्था न मे निशाम्यैव हि रूपम् आसाम् // saund_10.51 //

यथा प्रतप्तो मृदुनातपेन दह्येत कश् चिन् महतानलेन / रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये // saund_10.52 //

वाग्वारिणा मां परिषिञ्च तस्माद् यावन् न दह्ये स इवाह्जशत्रुः / राराग्निर् अद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रम् इवोत्थितो ऽग्निः // saund_10.53 //

प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यम् अस्ति मे / असून् विमोक्ष्यामि विमुक्तमानस प्रय्च्छ वा वागमृतं मुमूर्षवे // saund_10.54 //

अनर्थभोगेन विघातय्दृष्तिना प्रमाददंश्ट्रेण तमोविषाग्निना / अहं हि दष्टो हृदि मन्मथाहिना विधत्स्य तस्माद् अगदं महाभिषक् // saund_10.55 //

अनेन दष्टो मदनाहिना हि ना न कश् चिद् आत्मन्य् अनवस्थितः स्थितः / मुमोह वोध्योर् ह्य् अचलात्मनो मनो बभूव धीमांश् च स शन्तनुस् तनुः // saund_10.56 //

स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् / यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन् मे कुरु शंसतः सतः // saund_10.57 //

ततो जिघांसुर् हृदि तस्य तत्तमस् तमोनुदो नक्तम् इवोत्थितं तमः / महर्षिचन्द्रो जगतस् तमोनुदस् तमःप्रहीणो निजगाद गौतमः // saund_10.58 //

धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच् छ्रुतचेतसी शृणु / इमा यदि प्रार्थयसे त्वम् अङ्गना विधत्स्व शुल्कार्थम् इहोत्तमं तपः // saund_10.59 //

इमा हि शक्या न बलान् न सेवया न संप्रदानेन न रूप्तवत्तया / इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश् चर धर्मम् आदृतः // saund_10.60 //

इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्य् अजराश् च योषितः / इदं फलं स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न चाप्य् अहेतुतः // saund_10.61 //

क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद् धि लभेत वा न वा / असंशयं यत् त्व् इह धर्मचर्यया भवेयुर् एता दिवि पुणकर्मणः // saund_10.62 //

तद् अप्रमत्तो नियमे समुद्यतो रमस्व यद्य् अप्सरसो ऽभिलिप्ससे / अहं च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिर् नियतं समेष्यसि // saund_10.63 //

अतःपरं परमम् इति व्यवस्थितः परां धृतिम् परममुनौ चकार सः / ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनर् अगमन् महीतलम् // saund_10.64 //

सौन्दरनन्दे महाकाव्ये स्वर्गनिदर्शनो नाम दशमः सर्गः /

canto xi

ततस् ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः / बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः // saund_11.1 //

सो ऽनिश्टनिऐष्क्रम्यरसो म्लानतामरसोपमः / चचार विरसो धर्मं निवेश्याप्सरसो हृदि // saund_11.2 //

तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः / इन्द्रियार्थवशाद् एव बभूव नियतेन्द्रियः // saund_11.3 //

कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः / परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः // saund_11.4 //

संवृतेन च शान्तेन तीव्रेण मदनेन च / जलाग्नेर् इव संसर्गाच् छशाम च शुशोष च // saund_11.5 //

स्वभावदर्शनीयो ऽपि वैरूप्यम् अगमत् परम् / चिन्तयाप्सरसां चैव नियमेनायतेन च // saund_11.6 //

प्रस्तवेष्व् अपि भार्यायां प्रियभार्यस् तथापि सः / वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे // saund_11.7 //

तं व्यवस्थितम् आज्ञाय भार्यारागात् पराङ्मुखम् / अभिगम्याभ्रवीन् नन्दम् आनन्दः प्रणयाद् इदम् // saund_11.8 //

अहो सदृशम् आरब्धं श्रुतस्याभिजनस्य च / निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः // saund_11.9 //

अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः / यद् इयं संविद् उत्पन्ना नेयम् अल्पेन हेतुना // saund_11.10 //

व्याधिर् अल्पेन यत्नेन मृदुः प्रतिनिवार्यते / प्रबलः प्रबलैर् एव यत्नैर् नश्यत्ति वा न वा // saund_11.11 //

दुर्हरो मानसो व्याधिर् बलवांश् च तवाभवत् / विनिवृत्तो यदि स ते सर्वथा धृतिमानसि // saund_11.12 //

दुष्करं साध्व् अनार्येण मानिना चैव मार्दवम् / अतिसर्गश् च लुब्धेन ब्रमचर्यं च रागिणा // saund_11.13 //

एकस् तु मम संदेहस् तवास्यां नियमे धृतौ / अत्रानुनयम् इच्छामि वक्तव्यं यदि मनसे // saund_11.14 //

आर्जवाभिहितं वाक्यं न च गन्तव्यम् अन्यथा / रूक्षम् अप्य् आशये शुद्धे रूक्षतो नैति सज्जनः // saund_11.15 //

स्प्रियं हि हितं स्निग्धम् अस्निग्धम् अहितं प्रियं / दुर्लभं तु प्रियहितं स्वादु पथ्यम् इवौषधम् // saund_11.16 //

विश्वासश् चार्थचर्या च सामान्यं सुखदुःखयोः / मर्षणं प्रणयश् चैव मित्रवृत्तिर् इयं सताम् // saund_11.17 //

तद् इदं त्वा विवक्षामि प्रणयान् न जीघांसया / त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्य् उपेक्षितुम् // saund_11.18 //

अप्सरोभृतको धर्मं चरसीत्य् अभिदीयसे / किम् इदं भूतम् आहोस्वित् प्ररिहासो ऽयम् ईदृशः // saund_11.19 //

यदि तावद् इदं सत्यं वक्ष्याम्य् अत्र युदषधम् / औद्धत्यम् अथ वक्तॄमा, अभिदास्यामि तत्त्वतः // saund_11.20 //

श्लक्ष्णपूर्वम् अथो तेन हृदि सो ऽभिहतस् तदा / ध्यात्वा दीर्घं निशश्वास किं चिच् चावाञ्मुखो ऽभवत् // saund_11.21 //

ततस् तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् / बभाषे वाक्यम् आनन्दो मधुरोदर्कम् अप्रियम् // saund_11.22 //

आकारेणावगच्छामि तव धर्मप्रयोजनम् / यज् ज्ञात्वा त्वयि जातं मे हास्यं काउण्यम् एव च // saund_11.23 //

यथासनार्थं स्कन्धेन कश् चिद् गुर्वीं शिलां वहेत् / तद्वत् त्वम् अपि कामार्थं नियमं वोढुम् उद्यतः // saund_11.24 //

तिताडयिषयासृप्तो यथा मेषो ऽपसर्पति / तद्वद् अब्रह्मचर्याय ब्रह्मचर्यम् इदं तव // saund_11.25 //

चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया / धर्मचर्या तव तथा पण्यभूता न शान्तये // saund_11.26 //

यथा फलविशेषार्थं बीजं वपति कार्षकः / तद्वद् विषयकार्पण्याद् विषयांस् त्यक्तवान् असि // saund_11.27 //

आकाङ्क्षेच् च यथा रोगं प्रतीकारसुखेप्सया / दुःखम् अन्विच्छति भवांस् तथा विषयतृश्णया // saund_11.28 //

यथा पश्यति मध्व् एव न प्रपातम् अवेक्षते / पश्यस्य् अप्सरसस् तद्वद् भ्रंशम् अन्ते न पश्यसि // saund_11.29 //

हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् / किम् इदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः // saund_11.30 //

संसारे वर्तमानेन यदा चाप्सरसस् त्वया / प्राप्तास् त्यक्ताश् च शतशस् ताभ्यः किम् इति ते स्पृहा // saund_11.31 //

तृप्तिर् नास्तीन्धनैर् अग्नेर् नाम्भसा लवणाम्भसः / नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये // saund_11.32 //

अतृप्तौ च कुतः शान्तिर् अशान्तौ च कुतः सुखम् / असुखे च कुतः पृतिर् अप्रीतौ च कुतो रतिः // saund_11.33 //

रिरंसा यदि ते तस्माद् अध्यात्मे धीयतां मनः / प्रशान्त चानवद्या च नास्त्य् अध्यात्मसमा रतिः // saund_11.34 //

न तत्र कार्यं तूर्यैस् ते न स्त्रीभिर् न विभूषनैः / एकस् त्वं यत्रत्रस्थस् तया रत्याभिरंस्यसे // saund_11.35 //

मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति / तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च // saund_11.36 //

संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा / कामेषु हि सटृष्ञस्य न शान्तिर् उपदद्यते // saund_11.37 //

कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर् न विद्यते / वियोगान् नियतः शोको वियोगश् च ध्रुवो दिवि // saund_11.38 //

कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् / नृलोकं पुनर् एवैति प्रवासात् स्वगृहं यथा // saund_11.39 //

यदा भ्रष्टस्य कुशलं शिष्टं किं चिन् न विद्यते / त्रियक्षु पितृलोके वा नरके वोपपद्यते // saund_11.40 //

तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि / भ्रष्टस्यार्तस्य दुःखेन किम् आस्वादः करोति सः // saund_11.41 //

श्येनाय प्राणिवात्सल्यात् स्वमांसान्य् अपि दत्तवान् / शिभिः स्वर्गात् परिभ्रष्टस् तादृक् कृत्वापि दुष्करम् // saund_11.42 //

शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः / सदेवतं गते काले मान्धाताधः पुनर् ययौ // saund_11.43 //

राज्यं कृत्वापि देवानां पपात नहुषो भुवि / प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते // saund_11.44 //

तथैवेलिविलो राज राजवृत्तेन संस्कृतः / स्वर्गं गत्वा पुनर् भ्रष्टः कूर्मीभूतः किलार्णवे // saund_11.45 //

भूर्दियुम्नो ययातिश् च ते चान्ये च नृपर्षभाः / कर्मभिर् द्याम् अभिक्रीय तत्क्षयात् पुनर् अत्यजन् // saund_11.46 //

असुराः पूर्वद्वास् तु सुरैर् अपहृतश्रियः / श्रियं समनुशोचन्तः पातालं शरञं ययुः // saund_11.47 //

किं च राजर्षिभिस् तावद् असुरैर् वा सुरादिभिः / महेन्द्राः शतशः पेतुर् माहात्म्यम् अपि न स्थिरम् // saund_11.48 //

संसदं शोभयित्वैन्द्रीम् उपेन्द्रश् च त्रिविक्रमः / क्षीणकर्मा पपातोव्रिं मध्याद् अप्सरसां रसन् // saund_11.49 //

हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये / इत्य् आर्ता विलपन्तो ऽपि गां पतन्ति दिवौकसः // saund_11.50 //

तीव्रं ह्य् उप्तद्यते दुःखम् इह तावन् मुमूर्षताम् / किं पुनः पततां स्वर्गाद् एवान्ते सुखसेविनाम् // saund_11.51 //

रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः / गात्रेभ्यो जायते स्वेदो रतिर् भवति नासने // saund_11.52 //

एतान्य् आदौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् / अनिष्टानिव मर्त्यानाम् अरिष्टानि मुमूर्षताम् // saund_11.53 //

सुखम् उत्पद्यते यच् च दिवि कामान् उपाश्नताम् / यच् च दुःखं निपततां दुःखम् एव विषिष्यते // saund_11.54 //

तस्माद् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकम् / विज्ञाय क्षयिणं स्वर्गम् अपवर्गे मतिं कुरु // saund_11.55 //

अशरीरं भवाग्रं हि गत्वापि मुनिर् उद्रकः / कर्मणो ऽन्ते च्युतस् तस्मात् तिर्यग्योनिं प्रपत्स्यते // saund_11.56 //

मैत्रया स्प्तवार्षिक्या ब्रह्मलोकम् इतो गतः / सुनेत्रः पुनर् आवृत्तो गर्भवासम् उपेयिवान् // saund_11.57 //

यद चैश्व्चर्यवन्तो ऽपि क्षयिञः स्वर्गवासिनः / को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः // saund_11.58 //

सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतो ऽपि भूयः / अज्ञानसूत्रेण तथावबद्धो गतो ऽपि दूरं पुनर् एति लोकः // saund_11.59 //

कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्य् अतीत्य समयं भूयो विशेद् बन्धनम् / तद्वद् द्यां प्रतिभूवद् आत्मनियमैर् ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्व् आकृष्यते गां पुनः // saund_11.60 //

अन्तर्जालगताः प्रमत्तमनसो मिनास् तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश् चरन्त्य् अम्भसि / अन्तर्लोकगताः कृतार्थमतयस् तद्वद् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतं ध्रुवम् इति स्वं स्थानम् आवर्तकम् // saund_11.61 //

तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगद् इदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च / यत् त्राणं निर्भयं यच् छिवम् अमरजरं निःषोकम् अमृतं तद्धेतोर् ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिम् // saund_11.62 //

सौन्दरनन्दे महाकाव्ये स्वर्गापवादो नामैकदशः सर्गः /

canto xii

अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः / आनन्देन तदा नन्दः परं व्रीडम् उपागमत् // saund_12.1 //

तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् / अप्रामोद्येन विमुखं नावतस्थे व्रते मनः // saund_12.2 //

कामरागप्रधानो ऽपि परिहाससमो ऽपि सन् / परिपाकगते हेतौ न स तन् ममृषे वचः // saund_12.3 //

अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् / तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान् // saund_12.4 //

तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः / महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः // saund_12.5 //

स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् / मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः // saund_12.6 //

विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा / तथानित्यतयोद्विग्नस् तत्याजाप्सरसो ऽपि सः // saund_12.7 //

महताम् अपि भूतानाम् आवृत्ति इति चिन्तयन् / संवेगाच् च सरागो ऽपि वीतराग इवाभवत् // saund_12.8 //

बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये / धातुर् एधिर् इवाख्याते पठितो ऽक्षरचिन्तकैः // saund_12.9 //

न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः / त्रिषु कालेषु सर्वेषु निपातो ऽस्तिर् इव स्मृतः // saund_12.10 //

खेलगामी महाबाहुर् गजेन्द्र इव निर्मदः / सो ऽभ्यगच्छद् गुरुं कले विवक्षुर् भावम् आत्मनः // saund_12.11 //

प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः / कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् अवाञ्मुखः // saund_12.12 //

अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि / नाप्सरोभिर् ममार्थो ऽस्ति प्रतिभूत्वं त्यजाम्य् अहम् // saund_12.13 //

श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् / न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते // saund_12.14 //

यदि प्राप्य दिवं यत्नान् नियमेन दमेन च / अवितृप्ताः पतनत्य् अन्ते स्वर्गाय त्यागिने नमः // saund_12.15 //

अतश् च निखिलं लोकं विदिबा सचराचरम् / सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे // saund_12.16 //

तस्माद् व्यासमासाभ्यां तन् मे व्याख्यातुम् अर्हसि / यच् छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् // saund_12.17 //

ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च / श्रेयश् चैवामुखीभूतं निजगाद तथागतः // saund_12.18 //

अहो प्रत्यवमर्शो ऽयं श्रेयसस् ते पुरोजवः / अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः // saund_12.19 //

चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः / अवतिर्णो ऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया // saund_12.20 //

अद्य ते सफलं जन्म लाभो ऽद्य सुमहांस् तव / यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः // saund_12.21 //

लोके ऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः / व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः // saund_12.22 //

दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः / अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते // saund_12.23 //

ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु / कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम् // saund_12.24 //

सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव / विषं पीत्वा यद् अगदं समये पातुम् इच्छसि // saund_12.25 //

अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् / रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः // saund_12.26 //

रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः / सदोषम् सलिलं दृष्ट्वा पथिनेव पिपासुना // saund_12.27 //

ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् / रजसा चण्डवातेन विवस्वत इव प्रभा // saund_12.28 //

सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते / तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा // saund_12.29 //

युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः / yat te syān naiṣṭhike sūkṣme śreyasi śraqddadhānatā // saund_12.30 //

धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि / sarvadharmā hi dharmajña niyamācx chandahetavaḥ // saund_12.31 //

सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते / शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः // saund_12.32 //

अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा / अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम् // saund_12.33 //

नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ / मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते // saund_12.34 //

सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ / अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि // saund_12.35 //

अतश् च हस्त इत्य् उक्ता मया श्रद्धा विशेषतः / यस्माद् गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः // saund_12.36 //

प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः / गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता // saund_12.37 //

रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता / लोके ऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् अभिहाषिता // saund_12.38 //

पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा / पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः // saund_12.39 //

यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् / मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा // saund_12.40 //

श्रद्धाञ्कुरम् इमं तस्मात् संवर्धयितुम् अर्हसि / तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः // saund_12.41 //

व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः / तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते // saund_12.42 //

यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा / दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च // saund_12.43 //

सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः /

canto xiii

अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना / परिक्षिक्तो ऽमृतेनेव युयुजे परया मुदा // saund_13.1 //

कृतार्थम् इव तं मेने संबुद्धः श्रद्धया तया / मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः // saund_13.2 //

श्लक्ष्णेन वचसा कांश् चित् कांश् चित् परुषया गिरा / कांश् चिद् आभ्याम् उपायाभ्यां स विनिन्ये विनायकः // saund_13.3 //

पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि / स्थितं पांसुष्व् अपि यथा पांसुदोषैर् न लिप्यते // saund_13.4 //

पद्मपर्णं यथा चैव जले जातं जले स्थिथम् / उपरिष्टाद् अधस्ताद् वा न जलेन्दोपलिप्यते // saund_13.5 //

तद्वल् लोके मुनिर् जातो लोकस्यानुग्रहं चरन् / कृतित्वान् निर्मलत्वाच् च लोकधर्मैर् न लियते // saund_13.6 //

श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानम् एव च / मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये // saund_13.7 //

अतश् च संदधे दायं महाकरुणया तया / मोचयेयं कथं दुःखात् सत्त्वानीत्य् अनुकम्पकः // saund_13.8 //

अथ संहर्षणान् नदं विदित्वा भाजनीकृतम् / अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् // saund_13.9 //

अतः प्रभृति भूयस् त्वं श्रद्धेन्द्रियपुरःसरः / अमृतस्याप्तये सौम्य वृत्तं रक्षितुम् अर्हसि // saund_13.10 //

प्रयोगः कायवचसोः शुद्धो भवति ते यथा / उत्तानो निवृतो गुप्तो ऽनवच्छिद्रस् तथा कुरु // saund_13.11 //

उत्तानो भावकरञाद् विवृतश् चाप्य् अगूहनात् / गुप्तो रक्षणतात्पर्याद् अच्छिद्रश् चानवद्यतः // saund_13.12 //

शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि / आजीवसमुदाचारं शौचात् संस्कर्तुम् अर्हसि // saund_13.13 //

दोषानां कुहनादीनां पञ्चानाम् अनिषेवणात् / त्यागाच् च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् // saund_13.14 //

प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् / भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् // saund_13.15 //

पर्तिउष्टः शुचिर् मञ्जुश् चौक्षया जीवसंपदा / कुर्या दुःखप्रतीकारं यावद् एव विमुक्तये // saund_13.16 //

कर्मञो हि यथादृष्तात् कायवाक्प्रभवाद् अपि / आजीवः पृथग् एवोक्तो दुःषोधत्वाद् अयं मया // saund_13.17 //

गृहस्थेन हि दुःशोब्धा दृष्टिर् विविधदृष्टिना / आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना // saund_13.18 //

एतावच् छीलम् इत्य् उक्तम् आचाअरो ऽयं समासतः / अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता // saund_13.19 //

तस्माच् चारित्रसंपन्नो ब्रह्मचर्यम् इदं चर / अणुमात्रेष्व् अवद्येषु भयदर्शि दृढव्रतः // saund_13.20 //

शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः / स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धराम् // saund_13.21 //

मोक्षस्योपनिषत् सौम्य वैराग्यम् इति गृह्यताम् / वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनम् // saund_13.22 //

ज्ञानस्योपनिषच् चैव समाधिर् उपधार्यताम् / समाधेर् अप्य् उपनिषत् सुखं शरीरमानसम् // saund_13.23 //

पश्रब्धिः कायमनसः सुखस्योपनिषत्परा / प्रशब्धेर् अप्य् उपनिषत् प्रामोद्यं परमं ममतम् // saund_13.24 //

तथः प्रीतेर् उपनिषत् प्रामोद्यं परमं मतम् / प्रामोद्यस्याप्य् अहृल्लेखः कुकृतेष्व् अकृतेषु वा // saund_13.25 //

अहृल्लेखस्य मनसः शीलं तूपनिषच् छुचि / अतः शीलं नयत्य् अग्र्यम् इति शीलं विशोधय // saund_13.26 //

शीलनाच् छीलम् इत्य् उक्तं शीलनं सेवनाद् अपि / सेवनं तन्निदेशाच् च निदेशश् च तदाश्रयात् // saund_13.27 //

शीलं हि शरणं सौम्य कान्तार इव दैशिकः / मित्रं बन्धुश् च रक्षा च धनं च बलम् एव च // saund_13.28 //

यतः शीलम् अतः सौम्य शीलं संस्कर्तुम् अर्हसि / एतत् स्थानम् अथान्ये च मोक्षारम्भेषु योगिनां // saund_13.29 //

ततः स्मृतिम् अधिष्ठाय चपलानि स्वभावतः / इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुम् अर्हसि // saund_13.30 //

भेतव्यं न तथा शत्रोर् नाग्नेर् नाहेर् न चाशनेः / इन्द्रियेभ्यो यथा स्वेभ्यस् तैर् अजस्रं हि हन्यते // saund_13.31 //

द्विषब्धिः शत्रुभिः कश् चित् कदा चित् पीड्यते न वा / इन्द्रियैर् बाध्यते सर्वः सर्वत्र च सदैव च // saund_13.32 //

न च प्रयाति नरकं शत्रुप्रभृथिभिर् हतः / कृष्यते तत्र निघ्नस् तु चपलैर् इन्द्रियैर् हतः // saund_13.33 //

हन्यमानस्य तैर् दुःखं हार्दं भवति वा न वा / इन्द्रियैर् बाध्यमानस्य हार्दं शारीरम् एव च // saund_13.34 //

संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः / चिन्तापुङ्खा रैफला विषयाकाशगोचराः // saund_13.35 //

मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि / विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः // saund_13.36 //

नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा / निपतन्तो निवार्यास् ते महता स्मृतिवर्मणा // saund_13.37 //

इन्द्रियाणाम् उपशमाद् अरीणां निग्रहाद् इव / सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः // saund_13.38 //

तेषां हि सततं लोके विषयाण् अभिकाङ्क्षताम् / संविन् नैवास्ति कार्पण्याच् छुनाम् आशावताम् इव // saund_13.39 //

विषयैर् इन्द्रियग्रामो न तृप्तिम् अधिगच्छति / अजस्रं पूर्यमाणो ऽपि समुद्रः सलिलैर् इव // saund_13.40 //

अवश्यं गोचरे स्वे स्वे वर्तितव्यम् इहेन्द्रियैः / निमित्तं तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च // saund_13.41 //

आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः / स्त्री वेति पुरुषो वेति न कल्पयितुम् अर्हसि // saund_13.42 //

सचेत् स्त्रीपुरुषग्राहः क्व चिद् विद्येत कास् चन / शुभतः केशदन्तादीन् नानुप्रस्थातुम् अर्हसि // saund_13.43 //

नापनेयं भूततो भूतं शश्वद् इन्दियगोचरे / द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत् // saund_13.44 //

एवं ते पश्यतस् तत्त्वं शश्वद् इन्द्रियगोचरे / भविष्यति पदस्थानं नाभियादौर्मनस्ययोः // saund_13.45 //

अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् / अरिर् मित्रमुखेनेव प्रियवाक्कलुषाशयः // saund_13.46 //

दौर्मनस्याभिधानस् तु प्रतिघो विषयाश्रितः / मोहाद् येनानुवृत्तेन परत्रेह च हन्यते // saund_13.47 //

अनुरोधविरोधाभ्यां शितोष्णाभ्याम् इवार्दितः / शर्म नाप्नोति न श्रेयश् चलेन्द्रिचम् अतो जगत् // saund_13.48 //

नेन्द्रियं विषये तावत् प्रवृत्तम् अपि सज्जते / यावन् न मनसस् तत्र परिकल्पः प्रवर्तते // saund_13.49 //

इन्धने सति वायौ च यथा ज्वलति पावकः / विषयात् परिकल्पाच् च क्लेशाग्निर् जायते तथा // saund_13.50 //

अभूतपरिकल्पेन विषयस्य हि बध्यते / तम् एव विषयं पश्यन् भूततः परिमुच्यते // saund_13.51 //

दृष्ट्वैकं रूपम् अन्यो हि रज्यते ऽन्यः प्रदुष्यति / कश् चिद् भवति मध्यस्थस् तत्रैवान्यो घृणायते // saund_13.52 //

अतो न विषयो हेतुर् बन्धाय न विमुक्तये / परिकल्पविषेषेण संगो भवति वा न वा // saund_13.53 //

कार्यः परमयत्नेन तस्माद् इन्दियसंवरः / इन्द्रियाणि ह्य् अगुप्तानि दुःखाय च भवाय च // saund_13.54 //

कामभोगभोगवद्भिर् आमदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः / इन्द्रियोरगैर् मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टम् अस्ति यच् चिकित्सेत् // saund_13.55 //

तस्माद् एषाम् अकुषलकराणाम् अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानाम् / सर्वावस्थं भव विनियमाद् अप्रमत्तो मास्मिन्न् अर्थे क्षणम् अपि कृथास त्वं प्रमादं // saund_13.56 //

सौन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः /

canto xiv

अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् / भोजने भव मात्राज्ञो ध्यानायानामयाय च // saund_14.1 //

प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति / कृतो ह्य् अत्यर्थम् आहारो विहन्ति च पराक्रमम् // saund_14.2 //

यथा चात्यर्थम् आहारः कृतो ऽनर्थाय कल्पते / उपयुक्तस् तथात्यल्पो न सामर्थ्याय कल्पते // saund_14.3 //

आचयं द्युतिम् उत्साहं प्रयोगं बलम् एव च / भोजनं कृतम् अत्यल्पं शरीरस्यापकर्षति // saund_14.4 //

यथा भारेण नमते लघुनोन्नमते तुला / समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः // saund_14.5 //

तस्माद् अभ्यवहर्तव्यं स्वशक्तिम् अनुपश्यता / नातिमात्रं न चात्यल्पं मेयं मानवशाद् अपि // saund_14.6 //

अत्याक्रान्तो हि कायाग्निर् गुरुणान्नेन शाम्यति / अवच्छन् न इवाल्पो ऽग्निः सहसा महतेन्धसा // saund_14.7 //

अत्यन्तम् अपि संहारो नाहारस्य प्रशस्यते / अनाहारो हि निर्वाति निरिन्धन इवानलः // saund_14.8 //

यस्मान् नास्ति विनाहारात् सर्वप्राणभृतां स्थितिः / तस्माद् दुष्यति नाहारो विकल्पो ऽत्र तु वार्यते // saund_14.9 //

न ह्य् एवक्विषये ऽन्यत्र सज्यन्ते प्राणिनस् तथा / अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् // saund_14.10 //

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी / क्षुद्विघातार्थम् आहारस् तद्वत् सेव्यो मुमुक्षुना // saund_14.11 //

भारस्योद्वहनार्थं च रथाक्षो ऽभ्यज्यते यथा / भोजनं प्राणयात्रार्थं तद्वद् विद्वान् निषेवते // saund_14.12 //

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ / पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ // saund_14.13 //

एवम् अभ्यवहर्तव्यं भोजनं प्रतिसंख्यया / न भूषार्थं न वपुषे न मदाय न दृप्तये // saund_14.14 //

धारणार्थं शरीरस्य भोजनं हि विधियते / उपस्तम्भः पिपतिषोर् दुर्बलस्येव वेश्मनः // saund_14.15 //

प्लवं यत्नाद् यथा कश् चिद् बध्नीयाद् धारयेद् अपि / न तत्स्नेहेन यावत् तु महौघस्योत्तीर्षया // saund_14.16 //

तथोपकरणैः कायं धारयन्ति परिक्षकाः / न तत्स्नेहेन यावत् तु दुःखौघस्य तितीर्षया // saund_14.17 //

शोचता पीड्यमानेन दीयते शत्रवे यथा / न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये // saund_14.18 //

योगाचारस् तथाहारं शरिराय पयच्छति / केवलं क्षुद्विघातार्थं न रागेण न भक्तये // saund_14.19 //

मनोधारणया चैव परिणाम्यात्मवान् अहः / विधूय निद्रां योगेन निशाम् अप्य् अतिनामयेः // saund_14.20 //

हृर्दि यत्संज्ञिनश् चैव निद्रा प्रादुर्भवेत् तव / गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः // saund_14.21 //

धातुर् आरम्भधृत्योश् च स्थामविक्रमयोर् अपि / नित्यं मनसि कार्यस् ते बाध्यमानेन निद्रया // saund_14.22 //

आम्नातव्याश् च विशदं ते धर्मा ये परिश्रुताः / परेभ्यश् चोपदेष्टव्याः संचिन्त्याः स्वयम् एव च // saund_14.23 //

प्रक्लेद्यमद्भिर् वदन्ं विलोक्याः सर्वतो दिशः / चार्या दृष्टिश् च तारासु जिजागरिषुणा सदा // saund_14.24 //

अन्तर्गतैर् अचपलैर् वशस्थायिभिर् इन्द्रियैः / अविक्षिप्तेन मनसा चङ्क्रम्यवास्व वा निशि // saund_14.25 //

भये प्रीतौ च शोके च निद्रया नाभिभूयते / तस्मान् निद्राभियोगेषु सेवितव्यम् इदं त्रयम् // saund_14.26 //

भयम् आगमनान् मृत्योः प्रीतिं धर्मपरिग्रहात् / जन्मदुःखाद् अपर्यन्ताच् छोकम् आगन्तुम् अर्हसि // saund_14.27 //

एवमादि क्रमः सौम्य कार्यो जागरणं प्रति / वन्ध्यं हि शयनाद् आयुः कः प्राज्ञः कर्तुम् अर्हति // saund_14.28 //

दोषव्यालान् अतिक्रम्य व्यालान् गृहगतान् इव / क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर् महद्भयम् // saund_14.29 //

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः / कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि // saund_14.30 //

तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुम् अर्हसि / अप्रशान्तेषु दोषेषु सशस्त्रेष्व् इव शत्ग्रुषु // saund_14.31 //

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु / सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा // saund_14.32 //

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया / प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः // saund_14.33 //

यामे तृतीये चोत्थाय चरन्न् आसीन एव वा / भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः // saund_14.34 //

अथासनगतस्थानप्रेक्षितव्याहृतादिषु / संप्रजानन् क्रियाः सर्वाः स्मृतिम् आधातुम् अर्हसि // saund_14.35 //

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः / धर्षयन्ति न तं दोषाः पुरं गुप्तम् इवारयः // saund_14.36 //

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः / चित्तं सर्वास्व् अवस्थासु बालं धात्रीव रक्षति // saund_14.37 //

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा / रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा // saund_14.38 //

अनाथं तन् मनो ज्ञेयं यत् स्मृतिर् नाभिरक्षति / निर्णेता दृष्टिरहितो विषमेषु चरन्न् इव // saund_14.39 //

अनर्थेषु प्रसक्ताश् च स्वार्थेभ्यश् च पराङ्मुखाः / यद् भये सति नोद्विग्नाः स्मृतिनाशो ऽत्र कारणम् // saund_14.40 //

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः / विकीर्णा इव गा गोपः स्मृतिस् तान् अनुगच्छति // saund_14.41 //

प्रनष्टम् अमृतं तस्य यस्य क्विप्रसृता स्मृतिः / हस्तस्थम् अमृतं तस्य यस्य कायगता स्मृतिः // saund_14.42 //

आर्यो न्यायः कुतस् तस्य स्मृतिर् यस्य न विद्यते / यस्यार्यो नास्ति च न्यायः प्रनष्टस् तस्य सत्पथः // saund_14.43 //

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् / प्रनष्टम् अमृतङ् यस्य स दुःखान् न विमुच्यते // saund_14.44 //

तस्माच् चरन् चरो ऽस्मीति स्थितो ऽस्मिति च धिष्ठितः / एवमादिषु कालेषु स्मृतिम् आधातुम् अर्हसि // saund_14.45 //

यगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व / कायस्य कृत्वा हि विवेकम् आदौ सुखो ऽधिगन्तुं मनसो विवेकः // saund_14.46 //

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् / स क्षण्यते ह्य् अपर्तिलब्धमार्गश् चरन्न् इवोर्यां बहुकण्टकायाम् // saund_14.47 //

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे / चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौर् इव सस्यमध्यात् // saund_14.48 //

अनीर्यमाणस् तु यथानिलेन प्रशान्तिम् आगच्छति चित्रभानुः / अल्पेन यत्नेन तथा विविक्तेष्व् अघट्टितं शान्तिम् उपैति चेतः // saund_14.49 //

क्व चिद् भुक्त्वा यत् तद् वसनम् अपि यत् तत् परिहितो वसन्न् आत्मारामः क्व चन विजने यो ऽभिरमते / कृतार्थः सज् ञेयः शमसुखरसज्ञः कृतमतिः परेषां संसर्गं परिहरति यः कण्टकम् इव // saund_14.50 //

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः / ततः पीत्वा प्रज्ञारसम् अमृतवत् तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत् // saund_14.51 //

वसञ् शुण्यागारे यदि सततम् एको ऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिर् इव / चरन्न् आत्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्याद् अपि सुखम् // saund_14.52 //

सौन्दरनन्दे महाकाव्य आदिप्रस्थानो नाम चतुर्दशः सर्गः /

canto xv

यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् / ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः // saund_15.1 //

नासाग्रे वा ललाटे वा भ्रुवोर् अन्तर एव वा / कुर्वीथाश् चपलं चित्तम् आलम्बनपरायणम् // saund_15.2 //

सचेत् कामवितर्कस् त्वां धर्षयेन् मानसो ज्वरः / क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुर् इवागतः // saund_15.3 //

यद्य् अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि / तमांसीव प्रकाशेन प्रतिपक्षेण ताञ् जहि // saund_15.4 //

तिष्ठत्य् अनुशयस् तेषां छन्नो ऽग्निर् इव भस्मना / स ते भावनया सौम्य प्रशाम्यो ऽग्निर् इवाम्बुना // saund_15.5 //

ते हि तस्मात् प्रवर्तन्ते भूयो बीजाद् इवाङ्कुराः / तस्य नाशेन ते न स्युर् बीजनाशाद् इवाङ्कुराः // saund_15.6 //

अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् / तस्मात् तान् मूलतश् छिन्धि मित्रसंज्ञान् अरीन् इव // saund_15.7 //

अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः / बहुसाधारणाः कामा बर्ह्या ह्य् आशिविषा इव // saund_15.8 //

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये / भ्रष्टाः शोकाय महते प्राप्ताश् च न वितृप्तये // saund_15.9 //

तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् / कामेभ्यश् च सुखोत्पत्तिं यः पश्यति स नश्यति // saund_15.10 //

चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् / परिकल्पसुखान् कामान् न तान् स्मर्तुम् इहार्हसि // saund_15.11 //

व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः / प्रसाद्यं तद् विपक्षेन मणिनेवाकुलं जलम् // saund_15.12 //

प्रतिपक्षस् तयोर् ज्ञेयो मैत्री कारुण्यम् एव च / विरोधो हि तयोर् नित्यं प्रकाशतमसोर् इव // saund_15.13 //

निवृत्तं यस्य दुःशील्यं व्यापादश् च प्रवर्तते / हन्ति पांसुभिर् आत्मानां स स्नात इव वारणः // saund_15.14 //

दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः / आर्यः को दुःखम् अपरं सघृणो धातुम् अर्हति // saund_15.15 //

दुष्टेन चेह मनसा बाध्यते वा परो न वा / सद्यस् तु दह्यते तावत् स्वं मनो दुष्टचेतसः // saund_15.16 //

तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यम् एव च / न व्यापादं विहिंसां वा विकल्पयितुम् अर्हसि // saund_15.17 //

यद् यद् एव प्रसक्तं हि वितर्कयति मानवः / अभ्यासात् तेन तेनास्य नतिर् भवति चेतसः // saund_15.18 //

तस्माद् अस्कुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि / यत् ते स्याद् इह चार्थाय परमार्थस्य चाप्तये // saund_15.19 //

संवर्धन्ते ह्य् अकुशला वितर्काः संभृता हृर्दि / अनर्थजनकास् तुल्यम् आत्मनश् च परस्य च // saund_15.20 //

श्रेयसो विघ्नकरणाद् भवन्त्य् आत्मविपत्तये / पात्रीभावोपघातात् तु परभक्तिविपत्तये // saund_15.21 //

मनःकर्मस्व् अविक्षेपम् अपि चाभ्यस्तुम् अर्हसि / न त्व् एवाकुशलं सौम्य वितर्कयितुम् अर्हसि // saund_15.22 //

या त्रिकामोपभोगाय चिन्ता मनसि वर्तते / न च तं गुणम् आप्नोति बन्धनाय च कल्पते // saund_15.23 //

सत्त्वानाम् उपघाताय परिक्लेषाय चात्मनः / मोहं व्रजति कालुष्यं नरकाय च वर्तते // saund_15.24 //

तद्वितर्कैर् अकुशलैर् नात्मानं हन्तुम् अर्हसि / सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्न् इव // saund_15.25 //

अनभिज्ञो यथा जातं दहेद् अगुरु काष्ठवत् / अन्यायेन मनुष्यत्वम् उपहन्याद् इदं तथा // saund_15.26 //

त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच् च संहरेत् / त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेद् अशुभं तथा // saund_15.27 //

हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् / मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभम् // saund_15.28 //

तद् बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुम् अर्हसि / सूक्ष्मेण परिकीलेन किलं दार्वन्तराद् इव // saund_15.29 //

वृध्ह्यवृद्ध्योर् अथ भवेच् चिन्ता ज्ञातिजनं प्रति / स्वभावो जीवलोकस्य परीक्ष्यस् तन्निवृत्तये // saund_15.30 //

संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा / को जनः स्वजनः को वा मोहात् सक्तो जने जनः // saund_15.31 //

अतीते ऽध्वनि संवृत्तः स्वजनो हि जनस् तव / अप्राप्ते चाध्वनि जनः स्वजनस् ते भविष्य्ति // saund_15.32 //

विहगाना यथा सायं तत्र तत्र समागमः / जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च // saund_15.33 //

परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः / प्रातियान्ति पुनस् त्यक्त्वा तद्वज् ज्ञातिसमागमः // saund_15.34 //

लोके प्रकृतिभिन्ने ऽस्मिन् न कश् चित् कस्य चित् प्रियः / कार्यकारञसंबद्धं बालुकामुष्टिवज् जगत् // saund_15.35 //

बिभर्ति हि सुतं माता धरयिष्यति माम् इति / मातरं भजते पुतृओ गर्भेणाधत्त माम् इति // saund_15.36 //

अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा / तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् // saund_15.37 //

अहितो दृष्यते ज्ञातिर् अज्ञातिर् हितः / स्नेहं कार्यान्तराल् लोकश् छिनत्ति च करोति च // saund_15.38 //

स्वयम् एव यथालिक्य रज्येच् चित्रकरः स्त्रियम् / तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः // saund_15.39 //

यो ऽभवद् बान्धवजनः परलोके प्रियस् तव / स ते कम् अर्थं कुरुते त्वं वा तस्मै करोषि कम् // saund_15.40 //

तस्माज् ज्ञात्वितर्केण मनो नावेष्टुम् अर्हसि / व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च // saund_15.41 //

असौ क्षेमो जनपदः सुभिक्षो ऽसाव् असौ शिवः / इत्य् एवम् अथ जायेत वितर्कस् तव कश् चन // saund_15.42 //

प्रहेयः स त्वया सौम्य नाधिवास्यः कथं चन / विदित्वा सर्वम् आदीप्तं तैस् तैर् दोषाग्निभिर् जगत् // saund_15.43 //

ऋतुचक्रनिवर्ताच् च क्षुत्पिपासाक्लमाद् अपि / सर्वत्र नियतं दुःखं न क्व चिद् विद्यते शिवम् // saund_15.44 //

क्व चिच् छितं क्व चिद् धर्मः क्व चिद् रोगो भयं क्व चित् / बाधते ऽभ्यधिकं लोके तस्माद् अशरणं जगत् // saund_15.45 //

जरा व्याधिश् च मृत्युश् च लोकस्यास्य महद्भयम् / नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते // saund_15.46 //

यत्र गच्छति कायो ऽयं दुःखं तत्रानुगच्छति / नास्ति का चिद् गतिर् लोके गतो यत्र न बाधय्ते // saund_15.47 //

रमणीयो ऽपि देशः सन् दुभिक्षः क्षेम एव च / कुदेश इति विज्ञेयो यत्र क्लेशैर् विधयते // saund_15.48 //

लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः / क्षेमः कश् चिन् न देशो ऽस्ति स्वस्थो यत्र गतो भवेत् // saund_15.49 //

दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा / छन्दरागम् अतः सौम्य लिकचित्रेषु मा कृथाः // saund_15.50 //

यदा तस्मान् निवृत्तस् ते छन्दरागो भविष्यति / जीवलोकं तदा सर्वम् आदीप्तम् इव मंस्यसे // saund_15.51 //

अथस् कश् चिद् वितर्कस् ते भवेद् अमरणाश्रयः / यत्नेन स विहन्तव्यो व्याधिर् आत्मगतो यथा // saund_15.52 //

मुहूर्तम् अपि विश्रम्भः कार्यो न खलु जीविते / निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः // saund_15.53 //

बलस्थो ऽहं युवा वेति न ते भवितुम् अर्हति / मृत्युः सर्वास्व् अवस्थासु हन्ति नावेक्षते वयः // saund_15.54 //

क्षेत्रभूतम् अनर्थानां शरीरं परिकर्षतः / स्वास्थ्याशा जिविताश वा न दृष्टार्थस्य जायते // saund_15.55 //

निवृतः को भवेत् कायं महाभूताश्रयं वहन् / परस्परविरुद्धानाम् अहिनाम् इव भाजनम् // saund_15.56 //

प्रश्वसित्य् अयम् अन्वक्ष यद् उच्छ्वसिति मानवः / अवगच्छ तद् आश्चर्यम् अविश्वास्यं हि जीवितम् // saund_15.57 //

इदम् आश्चर्यम् अपरं यत् सुप्तः प्रतिबुध्यते / स्वपित्य् उत्थाय वा भूयो बह्वमित्रा हि देहिनः // saund_15.58 //

गर्भात् प्रभृति यो लोकं जिघांसुर् अनुगच्छति / कस् तस्मिन् विश्वसेन् मृत्याव् उद्यतासाव् अराव् इव // saund_15.59 //

प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि / न जयत्य् अन्तकं कश् चिन् नाजयन् नापि जेष्यति // saund_15.60 //

साम्ना दानेन भेदेन दण्डेन नियमेन वा / प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते // saund_15.61 //

तस्मान् नायुषि विश्वासं चञ्चले कर्तुम् अर्हसि / नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते // saund_15.62 //

निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् / कस्यामरवितर्को हि स्याद् अनुन्मत्तचेतसः // saund_15.63 //

तस्माद् एषां वितर्काणां प्रहाणार्थं समासतः / आनापानस्मृतिं सौम्य विषयीकर्तुम् अर्हसि // saund_15.64 //

इत्य् अनेन प्रयोगेण काले सेवितुम् अर्हसि / प्रतिपक्षान् वितर्काणां गदानाम् अगदान् इव // saund_15.65 //

सुवर्णहेतोर् अपि पांसुधावको विहाय पांसून् बृहतो यथादितः / जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति // saund_15.66 //

विमोक्षहेतोर् अपि युक्तमानसो विहाय दोषा बृहतस् तथादितः / जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य धर्मावयान् नियच्छति // saund_15.67 //

क्रएणाद्भिः शुद्धं कनकम् इह पांसुव्यवहितं यथाग्नौ कर्मारः पचति भृषम् आवर्तयति च / तथा योगाचारो निपुञम् इह दोषव्यवहितं विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च // saund_15.68 //

यथा च स्वच्छन्दाद् उपनयति कर्माश्रयसुखं सुवर्णं कर्मारो बहुंविधम् अलङ्कारविधिषु / मनःशुद्धो भिक्षुर् वशगतम् अभिज्ञास्व् अपि तथा यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च // saund_15.69 //

सौन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः /

canto xvi

एवं मनोधारणया क्रमेण व्यपोह्य किं चित् समुपोह्य किं चित् / ध्यानानि चत्वार्य् अधिगम्य योगी प्राप्नोत्य् अभिज्ञा नियमेन पञ्च // saund_16.1 //

ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश् चरितावबोधम् / अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च // saund_16.2 //

अतःपरं तत्त्वपरीक्षणेन मनो दधात्य् आस्रवसंक्षयाय / ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्य् अवैति // saund_16.3 //

बाधात्मकं दुःखम् इदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मको ऽयम् / दुःखक्षयो निःसरणात्मको ऽयं त्राणात्मको ऽयं प्रशमाय मार्गः // saund_16.4 //

इत्य् आर्यसर्यान्य् अवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव / सर्वास्रवान् भावनयाभिभूय न जायते शान्तिम् अवाप्य भूयः // saund_16.5 //

अबोधतो ह्य् अप्रतिवेधतश् च तत्त्वात्मकस्यास्य चतुष्टयस्य / भावद् भवं याति न शान्तिम् एति संसारदोलाम् अधिरुह्य लोकः // saund_16.6 //

तस्माज् जरादेर् व्यसनस्य मूलं समासतो दुःखम् अवैहि जन्म / सर्वौषधीनाम् इव भूर् भवाय सर्वापदां क्षेत्रम् इदं हि जन्म // saund_16.7 //

यज् जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन् नैकविधस्य जन्म / यः संभवश् चास्य समुच्छ्रयस्य मृत्योष् च रोगस्य च संभवः सः // saund_16.8 //

सद् वाप्य् असद् वा विषमिष्रम् अन्नं यथा विनाशाय न धारणाय / लोके तथा तिर्यग् उपर्यधो वा दुःखाय सर्वं न सुक्ःआय जन्म // saund_16.9 //

जरादयो नैकविधा परजानां सत्यां प्रवृत्तौ प्रभवन्त्य् अनर्थाः / प्रवात्सु घोएष्व् अपि मारुतेषु न ह्य् अप्रसूतास् तरवश् चलन्ति // saund_16.10 //

आकासयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः / आपो यथान्तर्वसुधाशयाश् च दुःखं तथा चित्तशरीरयोनि // saund_16.11 //

अपां द्रवत्वं कठिनत्वम् उर्व्या वायोश् चलत्वं ध्रुवम् औष्ण्यम् अग्नेः / यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश् च // saund_16.12 //

काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव / रुपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् // saund_16.13 //

प्रत्यक्षम् आलोक्य च जन्मदुःखं दुःखं तथातीतम् अपीति विद्धि / यथा च तद् दुःखम् इदं च दुःखं दुःखं तथानागतम् अप्य् अवेहि // saund_16.14 //

बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः / प्रत्यक्षतश् च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव // saund_16.15 //

तन् नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्ति उदारवृत्त / तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्य् अभवद् भवेद् वा // saund_16.16 //

प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् / नैवेष्वरो न प्रकृतिर् न कालो नापि स्वभावो न विधिर् यदृच्छा // saund_16.17 //

ज्ञातव्यम् एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः / यस्मान् म्रियन्ते सरजस्तमस्का न जायते वीतरजस्त्मस्कः // saund_16.18 //

इच्छाविषेशे सति तत्र तत्र यानासनादेर् भवति प्रयोगः / यस्माद् अतस् तर्षवशत् तथैव जन्म प्रजानाम् इति वेदितव्यम् // saund_16.19 //

सत्त्वान्य् अभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्य् अतीव / अभ्यासयोगाद् उपपादितानि तैर् एव दोषैर् इति तानि विद्धि // saund_16.20 //

क्रोधप्रहर्षादिभिर् आश्रयाणाम् उत्पद्यते चेह यथा विशेषः / तथैव जन्मस्व् अपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः // saund_16.21 //

दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः / मोहाधिके मोहबलाधिकश् च तदल्पदोषे च तदल्पदोषः // saund_16.22 //

फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजम् अवैत्य् अतीतम् / अवेत्य बीजप्रकृतिं च साक्षाद् अनागतं तत्फलम् अभ्युपैति // saund_16.23 //

दोषक्षयो जातिषु यासु यस्य वैराग्यतस् तासु न जायते सः / दोषाशयस् तिष्ठति यस्य यत्र तस्योपपत्तिर् विवशस्य तत्र // saund_16.24 //

तज् जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्य् अवेत्य / तांश् छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद् धि // saund_16.25 //

दुःखक्षयो हेतुपरिक्षयाच् च शान्तनं शिवं साक्षिकुरुष्व धर्मम् / तृष्णाविरागं लयनं निर्दोहं सनातनं त्राणम् अहार्यम् आर्यम् // saund_16.26 //

यस्मिन् न जातिर् न जरा न मृत्युर् न व्याधयो नाप्रियसंप्रयोगः / नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकम् अच्युतं तत् // saund_16.27 //

दीपो यथा निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नानतरिक्षम् / दिशं न कां चिद् विदिषं न कां चित् स्नेहक्षयात् केवलम् एति शान्तिम् // saund_16.28 //

एवं कृती निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् / दिशं न कां चिद् विदिशं न कां चित् क्लेशक्षयात् केवलम् एति सान्तिम् // saund_16.29 //

अस्याभ्युपायो ऽधिन्गमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः / स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिपमुखे स्थितेन // saund_16.30 //

वाक्कर्म सम्यक् सहकायकर्म यथावद् आजीवनयश् च शुद्धः / इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय // saund_16.31 //

सत्येषु दुःखादिषु दृष्टिर् आर्या सम्यग्वितर्कश् च पराक्रमश् च / इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय // saund_16.32 //

न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यग् अथो समाधिः / इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय // saund_16.33 //

क्लेशाङ्कुरान् न प्रतनोति शीलं बीजाङ्कुरान् काल इवावृत्तः / शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति // saund_16.34 //

क्लेशांस् तु विष्कम्भयते समाधिर् वेगान् इवाद्रिर् महओत् नदीनाम् / स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा इव मन्त्रबद्धाः // saund_16.35 //

प्रज्ञा त्व् अशेषेण निहन्ति दोषांस् तीरद्रुमान् प्रावृषि निम्नगेव / दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः // saund_16.36 //

त्रिस्कन्धम् एतं प्रविगाह्य मार्गं प्रस्पष्टम् अष्टाङ्गम् अहार्यम् आर्यम् / दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् // saund_16.37 //

अस्योपचारे धृतिर् आर्जवं च ह्रीर् अप्रमादः प्रविविक्तता च / अल्पेच्छता तुष्टिर् असंगता च लोकप्रवृत्ताव् अरतिः क्षमा च // saund_16.38 //

याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निर्दोधम् / आर्येण मार्गेण स सान्तिम् एति कल्याणमित्रैः सह वर्तमानः // saund_16.39 //

यो व्याधितो व्याधिम् अवैति सम्यग् व्याधेर् निदानं च तदौषधं च / आरोग्यम् आप्नोति हि सो ऽचिरेण मित्रैर् अभिज्ञैर् उपचर्यमाणः // saund_16.40 //

तद् व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्व् अपि व्याधिनिदानसंज्ञाम् / आरोग्यसंज्ञां च निर्दोहसत्ये भैषज्यसंज्ञाम् अपि मार्गसत्ये // saund_16.41 //

तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्तकान् अप्य् अवगच्छ दोषान् / निवृत्तिम् आगच्छ च तन्निरोधं निवर्तकं चाप्य् अवगच्छ मार्गम् // saund_16.42 //

शिरस्य् अथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर् विचार्या / दग्धं जगत् सत्यनयं ह्य् अदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च // saund_16.43 //

यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनम् अस्य सम्यक् / सम्यक् च निर्वेदम् उपैति पश्यान् नन्दीक्षयाच् च क्षयम् एति रागः // saund_16.44 //

तयोश् च नन्दीरजसोः क्षयेण सम्यग् विमुक्तं प्रवदामि चेतः / सम्यग् विमुक्तिर् मनसश् च ताभ्यां न चास्य भूयः करणीयम् अस्ति // saund_16.45 //

यथास्वभावेन हि नामरूपं तद् धेतुम् एवास्तगमं च तस्य / विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयम् आस्रवाणाम् // saund_16.46 //

तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्व् आस्रवसंक्षयाय / दुःखान् अनित्यांश् च निरात्मकांश् च धातून् विशेषेण परीक्षमाणाः // saund_16.47 //

धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन / अवैति यो नान्यम् अवैति तेभ्यः सो ऽत्यन्तिकं मोक्षम् अवैति तेभ्यः // saund_16.48 //

क्लेशप्रहाणाय च निश्चितेन कालो ऽभ्युपायश् च परीक्षितव्यः / योगो ऽप्य् अकाले ह्य् अनुपायतश् च भवत्य् अनर्थाय न तद्गुणाय // saund_16.49 //

अजातवत्सां यदि गां दुहीत नैवाप्तुयात् क्षीरम् अकालदोही / काले ऽपि वा स्यान् न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत // saund_16.50 //

आर्द्राच् च काष्ठा ज्वलनाभिकामो नैव प्रयत्नाद् अपि वह्निम् ऋच्छेत् / काष्ठाच् च शुष्काद् अपि पात्गनेन नैवाग्निम् आप्नोत्य् अनुपाअपूर्वम् // saund_16.51 //

तद् देशकालौ विधिवत् परीक्ष्य योगस्य मात्राम् अपि चाभ्युपायम् / बलाबले चात्मनि संप्रधार्य कार्याः प्रयत्नो न तु तद्विरुद्धः // saund_16.52 //

प्रग्राहकं यत् तु निमित्तम् उक्तम् उद्दन्यमाने हृदि तन् न सेव्यम् / एवं हि चित्तं प्रशमं न याति [न वह्रि] ना वह्निर् इवेर्यमाणः // saund_16.53 //

शमाय यत् स्यान् नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः / एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानो ऽग्निर् इवोदकेन // saund_16.54 //

शमावहं यन् नियतं निमित्तं सेव्यं न तच् चेतसि लीयमाने / एवं हि भूयो लयमेति चित्तम् अनीर्यमाणो ऽग्निर् इवाल्पसारः // saund_16.55 //

प्रग्राहकं यन् नियतं निमित्तं लयं गते चेतसि तस्य कालः / क्रियासमर्थं हि मनस् तथा स्यान् मन्दायमानो ऽग्निर् इवेन्धनेन // saund_16.56 //

औपेक्षिकं नापि निमित्तम् इष्टं लयं गते चेतसि सोद्धवे वा / एवं हि तीव्रं जनयेद् अनर्थम् उपेक्षितो व्याधिर् इवातुरस्य // saund_16.57 //

यत् स्याद् उपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः / एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयातः // saund_16.58 //

रागोद्धव्याकुलिते ऽपि चित्ते मैत्रोपसंहारविधिर् न कार्यः / रागात्मको मुह्यति मैत्रया हि सेन्हं कफक्षोभ इवोपयुज्य // saund_16.59 //

रागोद्धते चेतसि धैर्यम् एत्य निषेवितव्यं त्व् अशुभं निमित्तम् / रागात्मको ह्य् एवम् उपैति शर्म कफात्मको रूक्षम् इवोपयुज्य // saund_16.60 //

व्यापाददोषेण मनस्य् उदीर्णे न सेवितव्यं त्व् अशुभं निमित्तम् / द्वेषात्मकस्य ह्य् अशुभा वधाय पित्तात्मनस् शीत इवोपचारः // saund_16.61 //

व्यापाददोषक्षुभिते तु चित्ते सेव्या अवपक्षोपनयेन मैत्री / द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचराः // saund_16.62 //

मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्य् अयोगः / ताभ्यां हि संमोहम् उपैति भूयो वाय्वात्मको रूक्षम् इवोपनीय // saund_16.63 //

मोहात्मैकायां मन्सः प्रवृत्तौ सेव्यस् त्व् इदं प्रत्ययताविहारः / मूढे मनस्य् एष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः // saund_16.64 //

उल्कामुखस्तं हि यथा सुवर्णं सुवर्णकारो धमतीह काले / काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च // saund_16.65 //

दहेत् सुवर्णं हि धमन्न् अकाले जले क्षिपन् संशमयेद् अकाले / न चापि सम्यक् परिपाकम् एनं नयेद् अकाले समुपेक्षमाणः // saund_16.66 //

संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य / सम्यङ्निमित्तं मनसा त्व् अवेक्ष्यं नाशो हि यत्नो ऽप्य् अनुपायपूर्वः // saund_16.67 //

इत्य् एवम् अन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे / भूयश् च तत् तच् चरितं विदित्वा वितर्कहानाय विधीन् उवाच // saund_16.68 //

यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः / शमाय तस्यैव विधत्ते व्यधत्त दोषेषु तथैर्व बुद्धः // saund_16.69 //

एकेन कल्पेन सचेन् न हन्यात् स्वभ्यस्तभावाद् अशुभान् वितर्कान् / ततो द्वितीयं क्रमम् आरभेत न त्व् एव हेयो गुणवान् प्रयोगः // saund_16.70 //

अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव / सम्यक्प्रयोगस्य च दुष्करत्वाच् छेत्तुं न शक्याः सहसा हि दोषाः // saund_16.71 //

अञ्व्या यथाण्या विपुलाणिर् अन्या निर्वाह्यते तद्विदुषा नरेण / तद्वद् तद् एवाकुशलं निमित्तं क्षिपेन् निमित्तान्तरसेवनेन // saund_16.72 //

तथाप्य् अथाध्यात्मनवग्रहत्वान् नैवोपशाम्येद् अशुभो वितर्कः / हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन // saund_16.73 //

यथा क्षुधार्तो ऽपि विषेण पृक्तं जिजीविषुर् नेच्छति भोक्तुम् अन्नम् / तथैव दोषावहम् इत्य् अवेत्य जहाति विद्वान् अशुभं निमित्तम् // saund_16.74 //

न दोषतः पश्यति यो हि दोषं कस् तं ततो वारयितुं समर्थः / गुणं गुणे पश्यति यश् च यन्त्र स वार्यमाणो ऽपि ततः प्रयाति // saund_16.75 //

व्यपत्रपन्ते हि कुलप्रसूता महःप्रचारैर् अशुभैः प्रवृत्तैः / कण्ठे मनस्वीव युवा वपुष्मान् अचाक्षुषैर् अप्रयतैर् विषक्तैः // saund_16.76 //

निर्धूयमानास् त्व् अथ लेशतो ऽपि तिष्ठेयुर् एवाकुशला वितर्काः / कार्यान्तरैर् अध्ययनक्रियाद् यैः सेव्यो विधिर् विस्मरणाय तेषाम् // saund_16.77 //

स्वप्तव्यम् अप्य् एव विचक्षणेन कायक्लमो वापि निषेवितव्यः / न त्व् एव संचिन्त्यम् असन्निमित्तं यत्रावसक्तस्य भवेद् अनर्थः // saund_16.78 //

यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्यो ऽपि न दातुम् इच्छेत् / प्राज्ञस् तथा संहरति प्रयोगं समं शुभस्याप्य् अशुभस्य दोषैः // saund_16.79 //

एवंप्रकारैर् अपि यद्य् उपायैर् निवार्यमाणा न पराञ्मुखाः स्युः / ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः // saund_16.80 //

द्रुतप्रयाणप्रभृतींश् च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः / यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्व् अपि वरितव्यम् // saund_16.81 //

ते चेद् अलब्धप्रतिपक्षभावा नैवोपआम्येयुर् असद्वितर्काः / मुहूर्तम् अप्य् अप्रतिवध्यमाना गृहे भुजङ्गा इव नाधिवास्याः // saund_16.82 //

दन्ते ऽपि दन्तं प्रणिधाय कामं ताल्वग्रम् उत्पीड्य च जिह्वयापि / चित्तेन चित्तं प्ररिगृह्य चापि कार्यः प्रयत्नो न तु ते ऽनुवृत्ताः // saund_16.83 //

किम् अत्र चित्रम् यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् / आक्षिप्यमाणो हृदि तन्निमित्तैर् न क्षोभ्यते यः स कृती स धीरः // saund_16.84 //

तद् आर्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गम् / यात्रागतः शत्रुविनिग्रहार्थं राजेव्य् लक्ष्मीम् अजितां जिगीषन् // saund_16.85 //

एतान्य् अरण्यान्य् अभितः शिवानि योगानुकूलान्य् अजनेरितानि / कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् // saund_16.86 //

कौण्डिन्यननदकृमिलानिरुद्धास् तिप्योपसेनौ विमलो ऽथ राधः / बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिनिन्दवत्साः // saund_16.87 //

भद्दालिभद्रायणसर्पदाससुभूतिगोदत्त्सुजातवत्साः / संग्रामजिद्भद्रजिदश्वजिच् च श्रोणश् च शोणश् च स कोटिकर्णः // saund_16.88 //

क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशाओयशोदाः / महाह्वयो वल्कलिराष्ट्रपालौ सुदर्शअनस्वागतमेघिकाश् च // saund_16.89 //

स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः / पूर्णश् च पूर्णश् च स पूर्णकश् च शोनापरान्तश् च स पूर्ण एव // saund_16.90 //

शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः / सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश् च गवां पतिश् च // saund_16.91 //

यं विक्रमं योगविधाव् अकुर्वंस् तम् एव शीघ्रं विधिवत् कुरुष्व / ततः पदं प्राप्स्यसि तैर् अवाप्तं सुखावृतैस् त्वं निवतं नियतं यशश् च // saund_16.92 //

द्रव्यं यथा स्यात् कटुकं रसेन तच् चोपयुक्तं मधुरं विपाके / तथैव वीर्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः // saund_16.93 //

वीर्यं परं कार्यकृतौ हि मूलं वीर्याद् ऋते का चन नास्ति सिद्धिः / उदेति वीर्याद् इह सर्वसंपन् निर्वीर्यता चेत् सकलश् च पाप्मा // saund_16.94 //

अलब्धस्यालाभो नियतम् उपलब्धस्य विगमस् तथैवात्मावज्ञा कृपञम् अधिकेभ्यः परिभवः / तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो नृणां निर्वीर्याणां भवति विनिपातश् च भवति // saund_16.95 //

नयं श्रुत्वा शक्तो यद् अयम् अभिवृद्धिं न लभते परं धर्मं ज्ञात्वा यद् उपरि निवासं न लभते / गृहं त्यक्त्वा मुक्तौ यद् अयम् उपशान्तिं न लभते निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः // saund_16.96 //

अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते प्रसक्तं व्यामथ्नन् ज्वलनम् अरणिभ्यां जनयति / प्रयुक्ता योगे तु ध्रुवम् उपलभन्ते श्रमफलं द्रुतं नित्यं यान्तो गिरिम् अपि हि भिन्दन्ति सरितः // saund_16.97 //

कृष्ट्वा गां परिपाल्य च श्रमशतैर् अश्नोति सस्यशारियं यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति / शत्रूणाम् अवधूय वीर्यम् इषुभिर् भुङ्क्ते नरेन्द्रश्रियं तद् वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्द्धयः // saund_16.98 //

सौन्दरननदे महाकाव्य आर्यसत्यव्याख्यानो नाम षोडशः सर्गः /

canto xvii

अथैवम् आदेसिततत्त्वमार्गो नन्दस् तदा प्राप्तविमोक्षमार्गः / सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम // saund_17.1 //

तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तम् / निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या // saund_17.2 //

स पादयोस् तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले / मोक्षाय बद्ध्वा व्यवसायकषां पर्यङ्कम् अङ्कावहितम् बबन्ध // saund_17.3 //

ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय / सर्वेन्द्रियाण्य् आत्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे // saund_17.4 //

ततः स तत्त्वं निखिलं चिकीषुर् मोक्षानुकूलांश् च विधींश् चिकीर्षन् / ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ // saund_17.5 //

संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् / प्रशान्तचेता नियमस्थचेताः स्वस्थस् ततो ऽभूद् विषयेष्व् अनास्थः // saund_17.6 //

आतप्तबुद्धेः प्रहितात्मनो ऽपि स्वभ्यस्तभावाद् अथ कामसंज्ञा / पर्याकुलं तस्य मनश् चकार प्रावृट्सु विद्युज् अलम् आगतेव // saund_17.7 //

स पर्यवस्थानम् अवेत्य सद्यश् चिक्षेप तां धर्मविघात्गकर्त्रीम् / प्रियाम् अपि क्रोधपारितचेता नारीम् इवोद्वृत्तगुणां मनस्वी // saund_17.8 //

आरब्धवीर्यस्य मनःशमाय भूयस् तु तस्याकुशलो वितर्कः / व्याधिप्रणाशाय निविष्टबुद्धेर् उपद्रवो घोर इवाजगाम // saund_17.9 //

स तद्विघाताय निमित्तम् अन्यद् योगानुकूलं कुशलं प्रपेदे / आर्तायनं स्क्षीणबलो बल्स्थं निरस्यमानो बलिनारिणेव // saund_17.10 //

पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विघृह्य / राजा यथाप्नोति हि गाम् अपूर्वां नीतिर् मुकुक्षोर् अपि सैव योगे // saund_17.11 //

विमोक्षकामस्य हि योगिनो ऽपि मनः पुरं ज्णानविधिश् च दण्डः / गुणाश् च मित्राण्य् अरयश् च दोषा भूमिर् विमुक्तिर् यतते यदर्थम् // saund_17.12 //

स दुःखजालान् महतो मुकुक्षुर् विमोक्षमार्गाधिगमे विविक्षुः / पन्थानम् आर्यं परमं दिदृक्षुः शमं ययौ किं चिद् उपात्तचक्षुः // saund_17.13 //

यः स्यान् निकेतस् तमसो ऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः / यस्मात् तु मोक्षाय स पात्रभूतस् तस्मान् मनः स्वात्मनि संजहार // saund_17.14 //

संभारतः प्रत्ययतः स्वभावाद् आस्वादतो दोषविशेषतश् च / अथात्मवान् निःसरणात्मतश् च धर्मेषु चक्रे विधिवत् परीक्षाम् // saund_17.15 //

स रूपिणं कृत्स्नम् अरूपिणं च सारं दिदृक्षुर् विचिकाय कायम् / अथाशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं चैव चिकाय कायम् // saund_17.16 //

अनित्यतस् तत्र हि शून्यतश् च निरात्मतो दुःखत एव चापि / मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार // saund_17.17 //

यस्माद् अभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्य् अवश्यम् / सहेकुतं च क्षयिहेतुमच् च तस्माद् अनित्यं जगद् इत्य् अविन्दत् // saund_17.18 //

यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः / दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखम् इति व्यपश्यत् // saund_17.19 //

यतश् च संस्करागतं विविक्तं न कारकः कश् चन वेदको वा / सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकम् इमं ददर्श // saund_17.20 //

यस्मान् निरीहं जगद् अस्वतन्त्रं नैश्वर्यम् एकः कुरुते क्रियासु / तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् // saund_17.21 //

ततः स वातं व्यजनाद् इवोष्णे काष्ठाश्रितं निर्मथनाद् इवाग्निम् / अन्तःक्षितिस्थं खननाद् इवाम्भो लोकत्तरं वर्तिम दुरापम् आप // saund_17.22 //

सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः / क्लेशारिभिश् चित्तरणाजिरस्थैः सार्धं युयुस्त्सुर् विजयाय तस्थौ // saund_17.23 //

ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः / मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे // saund_17.24 //

स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन / दुःखस्य हेतूंश् चतुरश् चतुर्भिः स्वैः स्वैः प्रचारायतनैर् ददार // saund_17.25 //

आर्यैर् बलैः पञ्चभिर् एव पञ्च चेतःखिलान्य् अप्रतिमैर् बभञ्ज / मिथ्याञ्गनागांश् च तथाङ्गनागैर् विनिर्दुधावाष्टभिर् एव सो ऽष्टौ // saund_17.26 //

अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्व् अकथं कथः सन् / विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिम् आप // saund_17.27 //

स दर्शनाद् आर्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् / प्रत्यात्मिकाच् चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव // saund_17.28 //

दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्व् असंमूढतया चतुर्षु / शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव // saund_17.29 //

कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतम् अवेक्षमाणः / ज्ञानाश्रयां प्रीतिम् उपाजगाम भूयः प्रसादं च गुराव् इयाय // saund_17.30 //

यो हि प्रवृत्तिं नियताम् अवैति नैवान्यहेतोर् इह नाप्य् अहेतोः / प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकं पश्यति यश् च धर्मम् / तस्योपदेष्टारम् अथार्यवर्यं स प्रेक्षते बुद्धम् अवाप्तचक्षुङ् // saund_17.32 //

यथोपदेशेन शिवेन मुक्तो रोगाद् अरोगो भिषजं कृतज्ञः / अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः // saund_17.33 //

आर्येण मार्गेण तथैव मुक्तस् तथागतं तत्त्वविद् आर्यतत्त्वः / अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः // saund_17.34 //

स नाशकैर् दृष्टिगतैर् विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य / भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर् न तत्रास न दुर्गतिभ्यः // saund_17.35 //

त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् / ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्व् अपि नोपलेभे // saund_17.36 //

स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार / कृत्वा महोरस्कतनुस् तनू तौ प्राप द्वितीयं फलम् आर्यधर्मे // saund_17.37 //

स लोभचापं परिकल्पबाणं रागं महावैरिणम् अल्पशेषम् / कायस्वभावाधिगतैर् बिभेद योगायुधास्त्रैर् अशुभापृषत्कैः // saund_17.38 //

द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नम् / मैत्रीपृषत्कैर् धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर् जघान // saund_17.39 //

मूलान्य् अथ त्रीण्य् आसुधस्य वीरस् त्रिभिर् विमोक्षायतनैश् चकर्त / चमूमुखस्थान् धृतकार्मुकांस् त्रीन् अरीन् इवारिस् त्रिभिर् आयसाग्रैः // saund_17.40 //

स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस् तान् अभिभूय शत्रून् / योगाद् अनागामिफलं प्रपद्य द्वारीव निर्वाञपुरस्य तस्थौ // saund_17.41 //

कामैर् विकितं मलिनैश् च धर्मैर् वितर्कवच् चापि विचारवच् च / विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे // saund_17.42 //

कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखाद् अवाप / सुखं विगाह्याप्स्व् इव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः // saund_17.43 //

तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् / बुद्ध्वा मनःक्षोभकरान् अशान्तांस् तद्विप्रयोगाय मतिं चकार // saund_17.44 //

क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः / एकाग्रभूतस्य तह्तोर्मिभूताश् चित्ताम्भसः क्षोभकरा वितर्काः // saund_17.45 //

खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः / अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः // saund_17.46 //

अथावितर्कं क्रमशो ऽविचारम् एकाग्रभावान् मनसः प्रसन्नम् / समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तद् आध्यात्मशिवं स दध्यौ // saund_17.47 //

तद् ध्यानम् आगम्य च चित्तमौनं लेभे परां प्रीतिम् अलब्धपूर्वाम् / प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्व् अभवत् तथैव // saund_17.48 //

प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तर दुःखम् / प्रीताव् अतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगम् उपारुरोह // saund_17.49 //

प्रीतेद्र् विरागात् सुखम् आर्यजुष्टं कायेन विन्दन्न् अथ संप्रजानन् / उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः // saund_17.50 //

यस्मात् परं तत्र सुखं सुखेभ्यस् ततः परं नास्ति सुखप्रवृत्तिः / तस्माद् बभाषे शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या // saund_17.51 //

ध्याने ऽपि तत्राथ ददर्श दोषं मेने परं शान्तम् अनिञ्जम् एव / आभोगतो ऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखम् इत्य् अजस्रम् // saund_17.52 //

यत्रेञ्जितं स्पन्दितम् अस्ति तत्र यत्रास्ति च स्पन्दितम् अस्ति दुःखम् / यस्माद् अतस् तत् सुखम् इञ्जकत्वात् प्रशान्तिकामा यतयस् त्यजन्ति // saund_17.53 //

अथ प्रहाणात् सुखदुःखयोश् च मनोविकारस्य च पूर्वम् एव / दध्याव् उपेक्षामृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् // saund_17.54 //

यस्मात् तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तद् अर्थचारि / तस्माद् उपेक्षास्मृतिपारिशुद्धिर् निरुच्यते ध्यानविधौ चतुर्थे // saund_17.55 //

ध्यानं स निश्रित्य ततश् चतुर्थम् अर्हत्त्वलाभाय मतिं चकार / संधाय मैत्रं बलवन्तम् आर्यं राजेव देशान् अजितान् जिगीषुः // saund_17.56 //

चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन / ऊर्ध्वङ्गमान्य् उत्तमबन्धनानि संयोजनान्य् उत्तमबन्धनानि // saund_17.57 //

बोध्यङ्गनागैर् अपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द / द्वीपान् इवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिर् एव सप्त // saund_17.58 //

अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणाम् / दोषेषु तां वृत्तिम् इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः // saund_17.59 //

इति त्रिवेगं त्रिझषं त्रिवीचम् एकाम्भसं पञ्चरयं द्विकूलम् / द्विग्राहम् अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरम् उत्ततार // saund_17.60 //

अर्हत्त्वम् आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः / विभीर् विषुग् वीतमदो विरागः स एव धृत्यान्य इवाबभासे // saund_17.61 //

भ्रातुश् च शास्तुश् च तयानुशिष्ट्या नन्दस् ततः स्वेन च विक्रमेण / प्रशान्तचेताः परिपूर्णकार्यो वाणीम् इमाम् आत्मगतां जगाद // saund_17.62 //

नमो ऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन / बहूनि दुःखान्य् अपवर्तितानि सुखानि भूयांस्य् उपसंहृतानि // saund_17.63 //

अहं ह्य् अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः / निवर्तितस् तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन // saund_17.64 //

तस्याज्ञया कारुणिकस्य शास्तुर् हृदिस्थम् उत्पाट्य हि रागशल्यम् / अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य // saund_17.65 //

निर्वाप्य कामाग्निम् अहं हि दीप्तं धृत्यम्बुना पावकम् अम्बुनेव / ह्लादं परं सांप्रतम् आगतो ऽस्मि शीतं ह्रदं घर्म इवावतीर्णः // saund_17.66 //

न मे प्रियं किं चन नाप्रियं मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः / तयोर् अभावात् सुखितो ऽस्मि सद्यो हिमातपाभ्याम् इव विप्रमुक्तः // saund_17.67 //

महाभयात् क्षेमम् इवोपलभ्य महावरोधाद् इव विप्रमोक्षम् / महार्णवात् पारम् इवाप्लवः सन् भीमान्धकाराद् इव च प्रकाशम् // saund_17.68 //

रोगाद् इवारोग्यम् असह्यरूपाद् ऋणाद् इवानृण्यम् अनन्तसंख्यात् / द्विषत्सकाशद् इव चापयानं दुर्छिक्षयोगाच् च यथा सुभिक्षम् // saund_17.69 //

तद्वत् परां शान्तिम् उपागतो ऽहं यस्यानुभावेन विनायकस्य / करोमि ब्ःऊयः पुनर् उक्तम् अस्मै नमो नमो ऽर्हाय तथागताय // saund_17.70 //

येनाहं गिरिम् उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन / कामात्मा त्रिदिवचरीभिर् अङ्गनाभिर् निष्कृष्टो युवतिमये कलौ निमग्नः // saund_17.71 //

तस्माच् च व्यसनपराद् अनर्थपङ्काद् उत्कृष्य क्रमशिथिलः करीव पङ्कात् / शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः // saund_17.72 //

तं वन्दे परम् अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञम् आशयज्ञम् / संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनर् अपि चास्मि संनतस् तम् // saund_17.73 //

महाकाव्ये सौन्दरनन्दे ऽमृताधिगमो नाम सप्तदशः सर्गः /

canto xviii

अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः / जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुम् अभ्यगच्छत् // saund_18.1 //

द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर् हि शिष्यस्य गुरोश् च शिष्यः / परिश्रमस् ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव // saund_18.2 //

यतो हि येनाधिगतो विशेषस् तस्योत्तमाङ्गे ऽर्हति कर्तुमिड्याम् / आर्यः सरागो ऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः // saund_18.3 //

यस्यार्थकामप्रभवा हि भक्तिस् ततो ऽस्य सा तिष्ठति रूढमूला / धर्मान्वयो यस्य तु भक्तिरागस् तस्य प्रसादो हृदयावगाढः // saund_18.4 //

काषायवासाः कनकावदातस् ततः स मूर्ध्ना गुरवे प्रणेमे / वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीर् इव कर्णिकारः // saund_18.5 //

अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव / संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव // saund_18.6 //

या दृष्टिशल्यो हृदयावगाढः प्रभो भृशं माम् अतुदत् सुतीक्ष्णः / त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः // saund_18.7 //

कथङ्कथाभावगतो ऽस्मि येन छिन्नः स निःसंशय संशयो मे / त्वच्छासनात् सत्पथम् आगतो ऽस्मि सुदेशिकस्येव पथि प्रनष्टः // saund_18.8 //

यत् पीतम् आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् / तन् मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन // saund_18.9 //

क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्याम् उषितो ऽस्मि सम्यक् / कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतो ऽस्मि न लोकधर्मा // saund_18.10 //

मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् / तवास्मि गां साधु निपीय तृप्तस् तृषेव गाम् उत्तमवत्सवर्णः // saund_18.11 //

यत् पश्यतश् चाधिगमो ममायं तन् मे समासेन मुने निबोध / सर्वज्ञ कामं विदितम् तवैतत् स्वं तूपचरां प्रविवक्षुर् अस्मि // saund_18.12 //

अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य / मुक्तस्य रोगाद् इव रोगवन्तस् तेनैव मार्गेण सुखं घटान्ते // saund_18.13 //

उर्व्यादिकान् जन्मनि वेद्मि धातून् नात्मानम् उर्व्यादिषु तेषु किं चित् / यस्माद् अतस् तेषु न मे ऽस्ति सक्तिर् बहिश् च कायेन समा मतिर् मे // saund_18.14 //

स्कन्धांश् च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच् चपलान् असारान् / अनात्मकांश् चैव वधात्मकांश् च तस्माद् विमुक्तो ऽस्म्य् अशिवेभ्य एभ्यः // saund_18.15 //

यस्माच् च पश्याम्य् उदयं व्ययं च सर्वास्व् अवस्थास्व् अहम् इन्द्रियाणाम् / तस्माद् अनित्येषु निरात्मकेषु दुःखेषु मे तेष्व् अपि नास्ति संगः // saund_18.16 //

यतश् च लोकं सम्जन्मनिष्ठं पश्यामि निःसारम् असच् च सर्वम् / अतो धिया मे मनसा विबद्धम् अस्मीति मे नेञ्जितम् अस्ति येन // saund_18.17 //

चतुर्विधे नैकविधप्रसंगे यतो ऽहम् आहारवैधाव् असक्तः / अमूर्छितश् चाग्रथितश् च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः // saund_18.18 //

अनिश्रितश् चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे / यस्मात् समात्मानुगतश् च तत्र तस्माद् विसंयोगगतो ऽस्मि मुक्तः // saund_18.19 //

इत्य् एवम् उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः / प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे // saund_18.20 //

ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य / धर्मान्वयं चानुगतं प्रसादं मेघस्वरस् तं मुनिर् आबभाषे // saund_18.21 //

उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर् मे पतितो ऽसि मूर्ध्ना / अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिर् एव // saund_18.22 //

अद्यासि सुप्रव्रजितो जितात्मन्न् ऐश्वर्यम् अप्य् आत्मनि येन लब्धम् / जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्व् अजितेन्द्रियस्य // saund_18.23 //

अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत् ते / अतः पुनश् चाप्रयताम् असौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम् // saund_18.24 //

अद्यार्थवत् ते श्रुतवच् छ्रुतं तच् छ्रुतानुरूपं प्रतिपद्य धर्मम् / कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः // saund_18.25 //

अहो धृतिस् ते ऽविषयात्मकस्य यत् त्वं मतिं मोक्षविधाव् अकार्षीः / यास्यामि निष्ठाम् इति बालिशो हि जन्मक्षयात् त्रासम् इहाभ्युपैति // saund_18.26 //

दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः / उदेति दुःखेन गतो ह्य् अधस्तात् कूर्मो युगच्छिद्र इवार्ञवस्थः // saund_18.27 //

निर्जित्य मारं युधि दुर्निवारम् अद्यासि लोके रणशीर्षूरः / शूरो ऽप्य् आसूरः स हि वेदितव्यो दोषैर् अमित्रैर् इव हन्यते यः // saund_18.28 //

निर्वाप्य रागाग्निम् उदीर्णम् अद्यासि लोके रणशीर्षशूरः / दुःखं हि शेते शयने ऽप्य् उदारे क्लेशाग्निना चेतसि धयमानः // saund_18.29 //

अभ्युच्छ्रितो द्रव्यमदेन पूर्वम् अद्यासि तृष्नोपरमात् समृद्धः / यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः // saund_18.30 //

अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति / भ्रष्टस्य धर्मात् पितृभिर् निपाताद् अश्लाघनियो हि कुलापदेशः // saund_18.31 //

दिष्ट्यासि शान्तिं परमाम् उपेतो निस्तीर्णकान्तार इवाप्तसारः / सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस् तथैव // saund_18.32 //

आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति / आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः // saund_18.33 //

भवत्य् अरूपो ऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर् गुणैः स्वैः / दोषैः परीतो मलिनीकरैस् तु सुदर्शनीयो ऽपि विरूप एव // saund_18.34 //

अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतम् आत्मकार्यम् / श्रुतोन्नतस्यापि हि नास्ति बुद्धिर् नोत्पद्यते श्रेयसि यस्य बुद्धिः // saund_18.35 //

उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः / प्रज्ञामयं यस्य हि नास्ति चक्षुश् चक्षुर् न तस्यास्ति सचक्षुषो ऽपि // saund_18.36 //

दुःखप्रतीकारनिमित्तम् आर्तः कृष्यादिभिः खेदम् उपैति लोकः / अजस्रम् आगच्छति तच् च भूयो ज्ञानेन यस्याद्य कृतस् त्वयान्तः // saund_18.37 //

दुःखं न मे स्यात् सुखम् एव मे स्याद् इति प्रवृत्तः स्ततं हि लोकः / न वेत्ति तच् चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यतावत् // saund_18.38 //

इत्य् एवमादि स्थिरबुद्धिचित्तस् तथागतेनाभिहितो हिताय / स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर् वाक्यम् उवाच नन्दः // saund_18.39 //

अहो विशेषेण विषेषदर्शिंस् त्वयानुकम्पा मयि दर्षितेयम् / यत् कामपण्के भगवन् निमग्नस् त्रातो ऽस्मि संसारभयाद् अकामः // saund_18.40 //

भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन ततैव मात्रा / हतो ऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः // saund_18.41 //

शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य / प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वम् असक्तबुद्धेः // saund_18.42 //

अतो हि तत्त्वं परिगम्य सम्यञ् निर्धूय दोषान् अधिगम्य शान्तिम् / स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् // saund_18.43 //

इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखम् / महार्हम् अप्य् अन्नम् अदैवाहृतं दिवौकसो भुक्तवतः सुधाम् इव // saund_18.44 //

अहो ऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् / सुधीरम् अध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थम् ऋच्छति // saund_18.45 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.