Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सौन्दरानन्द (bản Matsunami)
- Tác giả
- अश्वघोष
- Thông tin
- GRETIL — Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यथा हि रत्नाकरम् एत्य दुर्मतिर् विहाय रत्नान्य् असतो मणिन् हरेत् / अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत् कामसुखोपअब्धये // saund_18.46 //
अहो हि सत्तेष्व् अतिमैत्रचेतसस् तथागतस्यानुजिघृक्षुता परा / अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे // saund_18.47 //
मया न शक्यं प्रतिकर्तुम् अद्य किं गुरौ हितैषिण्य् अनुकम्पके त्वयि / समुद्धृतो येन भवार्णवाद् अहं महार्णवाच् चूर्णितनौर् इवोर्मिभिः // saund_18.48 //
ततो मुनिस् तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः / इदं बभाषे वदताम् अनुत्तमो यद् अर्हति श्रीघन एव भाषितुम् // saund_18.49 //
इदं कृतार्थः परमार्थवित् कृती त्वम् एव धीमन्न् अभिधातुम् अर्हसि / अतीत्य कान्तारम् अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् // saund_18.50 //
अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्न् उप्शान्तमानसः / न दृष्टसत्यो ऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमान् अपि // saund_18.51 //
रजस्तमोभ्यां परिमुक्तचेतसस् तवैव चेयं सदृसी कृतज्ञता / रजःप्रकर्षेण जगत्य् अवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः // saund_18.52 // अतो ऽस्ति भूयस् त्वयि मे विवक्षितं नतो हि भक्तश् च नियोगम् अर्हसि // saund_18.53 // अवाप्तकार्यो ऽसि परां गतिं गतो न ते ऽस्ति किं चित् करणीयम् अण्व् अपि / अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परान् अपि // saund_18.54 //
इहार्थम् एवारभते नरो ऽधमो विमध्यमस् तूभयलौकिकीं क्रियाम् / क्रियाम् अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनर् अप्रवृत्तये // saund_18.55 //
इहोत्तमेभ्यो ऽपि मतः स तूत्तमो य उत्तमं धर्मम् अवाप्य नैष्ठिकम् / अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्यो ऽप्य् उपदेष्टुम् इच्छति // saund_18.56 //
विहाय तस्माद् इह कार्यम् आत्मनः कुरु स्थिरात्मन् परकार्यम् अप्य् अथो / भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यताम् अयम् // saund_18.57 //
ब्रवीतु तावत् पुरि विस्मितो जनस् त्वयि स्थिते कुर्वति धर्मदेशनाः / अहो बताश्चर्यम् इदं विमुक्तये करोति रागी यद् अयम् कथाम् इति // saund_18.58 //
ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर् मनोरथैः / वधूर् गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः // saund_18.59 //
त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा / मनसि शमदमात्मैके विविक्ते मतिर् इव कामसुखैः परीक्षकस्य // saund_18.60 //
इत्य् अर्हतः परमकारुणिकस्य शास्तुर् मूर्ध्ना वचश् च चरणौ च समं गृहीत्वा / स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान् मुनेः प्रतिययौ विमदः करीव // saund_18.61 //
भिक्षर्थं समये विवेश स पुरं दृष्टीर् जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः / निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन् नात्मानम् उत्कर्षयन् // saund_18.62 //
इत्य् एषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतॄणां ग्रहणार्थम् अन्यमनसां काव्योपचारात् कृता / यन् मोक्षात् कृतम् अन्यद् अत्र हि मया तत् काव्यधर्मात् कृतं पातुं तिक्तम् इवौषधं मधुयुतं हृद्यं कथं स्याद् इति // saund_18.63 //
प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात् प्रतिहतं काव्यवाजेन तत्त्वं कथितम् इह मया मोक्षः परम् इति / तद् बुद्ध्वा शामिकं यत् तद् अवहितम् इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतम् उपकरं चामीकरम् इति // saund_18.64 //
सौन्दरनन्दे महाकाव्य आज्ञाव्याकरणो नामाष्टादशः सर्गः /
आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोर् आचार्यभदन्ताश्वघोषस्य महाकवेर् महावादिनः कृतिर् इयम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
