Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सौन्दरानन्द (bản Matsunami)
- Tác giả
- अश्वघोष
- Thông tin
- GRETIL — Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अश्वघोष: सौन्दरानन्द
चन्तो इ
ओं नमो बुद्धाय //
चन्तो इ
गौतमः कपिलो नाम मुनि धर्मभृतां वरः / बभूव तपसि श्रान्तः काक्षीवान् इव गौतमः // saund_1.1 //
अशिश्रियद् यः सततं दीप्तं काश्यपवत् तपः / आशिश्राय च तद्वृद्धौ सिद्धिम् काश्यपवत् पराम् // saund_1.2 //
हविःषु यश् च स्वात्मार्थं गाम् अधुक्षद् वसिष्ठवत् / तपःशिष्टेषु च शिष्येषु गाम् अधुक्षद् वसिष्ठवत् / माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत् // saund_1.3 // तृतीय इव यश् चाभूत् कायाङ्गिरसयोर् धिया // saund_1.4 // तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे / क्षेत्रं चायतनं चैव तपसाम् आश्रमो ऽभवत् // saund_1.5 //
चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः / हविर्धूमवितानेन यः सदाभ्र इवाबभौ // saund_1.6 //
मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः / भूमिभागैर् असंकीर्णैः साङ्गराग इवाभवत् // saund_1.7 //
शुचिभिस् तीर्थसंख्यातैः पावनैर् भावनैर् अपि / बन्धुमान् इव यस् तस्थौ सरोभिः ससरओरुहैः // saund_1.8 //
पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः / शुशुभे ववृधे चैव नरः साधनवान् इव // saund_1.9 //
नीवारफलसंतुष्टैः स्वस्थैः शान्तैर् अनुत्सुकैः / अकीर्णो ऽपि तपोभृधिभिः शून्यशून्य इवाभवत् // saund_1.10 //
अग्नीनां हूयमानानां शिखिना कूजताम् अपि / तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः // saund_1.11 //
विरेजुर् हरिणा यत्र सुप्ता मेध्यासु वेदिषु / सलाजैर् माधवीपुष्पैर् उपहाराः कृता इव // saund_1.12 //
अपि क्षुद्रमृगा यत्र सान्ताश् चेरुः समं मृगैः / शरञ्येभ्यस् तपस्विभ्यो विनयङ् शिक्षिता इव // saund_1.13 //
संदिग्धे ऽप्य् अपुनर्भावे विदुध्हेष्व् आगमेष्व् अपि / प्रत्यक्षिण इवाकुर्वंस् तपो यत्र तपोधनाः // saund_1.14 //
यत्र स्म मीयते ब्रह्म कैश् चित् कैश् चिन् न मीयते / काले निमीयते सोमो न चाकाले प्रमीयते // saund_1.15 //
निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः / संहृष्टा इव यत्नेन तापसास् ते पिरे तपः // saund_1.16
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः / तपोरागेण धर्मस्य विलोपम् इव चक्रिरे // saund_1.17 //
अथ तेजविसदनं तपःक्षेत्रं तम् आश्रमम् / केचिद् इक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः // saund_1.18 //
सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः / पात्रं शब्दस्य महतः श्रियां च विनयस्य च // saund_1.19 //
अर्हरूपा ह्य् अनर्हस्य महात्मानश् चलात्मनः / प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः // saund_1.20 //
मातृशुल्काद् उपगतां ते श्रियं न विषेहिरे / ररक्षुश् च पितुः कौत्सास् ते भवन्ति स्म गौतमाः // saund_1.22 //
एकपित्रोर् यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् / राम एवाभवद् गार्ग्यो वासुभद्रो ऽपि गौतमः // saund_1.23 //
शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच् च चक्रिरे / तस्माद् इक्ष्वाकुवंश्यास् ते भुवि शाक्य इति स्मृताः // saund_1.24 //
स तेषां गौतमश् चक्रे स्ववंशसदृशीः क्रियाः / मुनिर् ऊर्ध्वं कुमारस्य सगरस्येव भार्गवः // saund_1.25 //
कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः / वाल्मीकिर् इव धीमांश् च धीमतोर् मैथिलेययोः // saund_1.26 //
तद्वनं मुनिना तेन तैश् च क्षत्रियपुङ्गवैः / शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे // saund_1.27 //
अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया / मुनिः स वियद् उत्पत्य तान् उवाच नृपात्मजान् // saund_1.28 //
या पतेत् कलशाद् अस्माद् अक्षय्यसलिलान् महीम् / धारा ताम् अनतिक्रम्य माम् अन्वेत यथाक्रमम् // saund_1.29 //
ततः परमम् इत्य् उक्त्वा शिरोभिः प्रणिपत्य च / रथान् आरुरुहुः सर्वे शीघ्रवाहान् अलङ्क्रृतान् // saund_1.30 //
ततः स तैर् अनुगतः स्यन्दनस्थैर् नभोगतः / तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा // saund_1.31 //
अष्टापदम् इवालिख्य निमित्तैः सुर्भीकृतम् / तान् उवाच मुनिः स्थित्वा भूमिपालसुतान् इदम् // saund_1.32 //
अस्मिन् धारापरिक्षिप्ते नेमिचिह्नितलक्षणे / निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् // saund_1.33 //
ततः कदाचित् ते वीरास् तस्मिन् प्रतिगते मुनौ / बभ्रमुर् यौवनोद्दामा गजा इव निरङ्कुशाः // saund_1.34 //
बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः / शराध्मातमहातूणा व्यायताबद्धवाससः // saund_1.35 //
जिज्ञासमाना नागेषु कौशलं श्वापदेषु च / अनुचक्रुर् वनस्थस्य दौष्मन्तेर् देवक्रमणः // saund_1.36 //
तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशून् इव / तापसास् तद्वनर्ह् हित्वा हिमवन्तर्ह् सिषेविरे // saund_1.37 //
ततस् तदाश्रमस्थानं शून्यर्ह् तैः शून्यचेतसः / पश्यन्तो तदाश्रमस्थानर्ं शून्यं तैः निशश्वसुः // saund_1.38 //
अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः / तत्र तज्ज्ञैर् उपाख्यातान् अवापुर् महतो निधीन् // saund_1.39 //
अलं धर्मार्थकामानां निखिलानाम् स्वाप्तये / निधयो नैकविधयो भूरयस् ते गतारयः // saund_1.40 //
ततस् तत्प्रतिलम्भाच् च परिणामाच् च कर्मणः / तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन् न्यवेशयन् // saund_1.41 //
सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् / शैलकल्पमहावप्रं गिविरजम् इवापरम् // saund_1.42 //
पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् / हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेर् इव // saund_1.43 //
वेदवेदाङ्गविदुषस् तस्थुषः षट्सु कर्मसु / शान्तये वृद्धये चैव यत्र विप्रान् अजीत्जपन् // saund_1.44 //
तद्भूमेर् अभियोक्तॄणां प्रयुक्तान् विनिवृत्तये / यत्र स्वेन प्रभावेन भृत्यदण्डान् अजीत्जपन् // saund_1.45 //
चारित्रधन्संपन्नान् सलज्जान् दीर्घदर्शिनः / अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः // saund_1.46 //
व्यस्तैस् तैस् तैर् गुञैर् युक्तान् मतिवाग्विक्रमादिभिः / कर्मसु पतिरूपेषु सैचांस् तान् न्ययूयुजन् // saund_1.47 //
वसुमद्भिर् अविभ्रान्तैर् अलंविद्यैर् अविस्मितैः / यद् बभासे नरैः कीर्णं मन्दरः किन्नरैर् इव // saund_1.48 //
यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया / श्रीमन्त्य् उद्यानसंज्ञानि यशोधामान्य् अचीकरन् // saund_1.49 //
श्वाः पुष्करिणीश् चैव परमाग्र्यगुणाम्भसः / नाज्ञाया चेतनोत्कर्षाद् दिक्षु सर्वास्व् अचीखनन् // saund_1.50 //
मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च / सभाः कूपवतीश् चैव समन्तात् प्रत्यतिष्ठिपन् // saund_1.51 //
हस्त्यश्वरथसकीर्णम् असंकीर्णम् अनाकुलम् / अनिगूढार्थिविभवं निगूढज्ञानपौरुषम् // saund_1.52 //
संनिधानम् इवार्थानाम् आधानम् इव तेजसाम् / निकेतम् इव विद्यानां संकेतम् इव संपदाम् // saund_1.53 //
वासवृक्षं गुणवताम् आश्रयं शरणैषिआम् / आनर्तं कृतशास्त्राणाम् आलानं बाभुशालिनाम् // saund_1.54 //
समाजैर् उत्सवैर् दायैः क्रियाविधिभिर् एव च / अलञ्चक्रुर् अलंवीर्यास् ते जगद्धाम तत्पुरम् // saund_1.55 //
यस्माद् अन्यायतस् ते च कं चिन् नाचीकरन् करम् / तस्माद् अल्पेन कालेन तत् तदापूपुरन् पुरम् // saund_1.56 //
कपिलस्य च तस्यर्षेस् तस्मिन्न् आश्रमवास्तुनि / यस्मात् ते तत्पुरं चक्रुस् तस्मात् कपिलवास्तु तत् // saund_1.57 //
ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे / पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् // saund_1.58 //
आपुः पुरं तत्पुरुहूतकल्पास् ते तेजसार्येण न विस्मयेन / आपुर् यशोगन्धम् अतश् च शश्वत् सुता ययातेर् इव कीर्तिमन्तः // saund_1.59 //
तन्नाथवृत्तैर् अपि राजपुत्रैर् अराजकं नैव रराज राष्ट्रम् / तारासहस्रैर् अपि दीप्यमानैर् अनुत्थिते चन्द्र इवान्तरीक्षम् // saund_1.60 //
यो ज्यायान् अथ वयसा गुणैश् च तेषां भ्रातॄणां वृषभ इवौजसा वृषाणाम् / ते तत्र प्रियगुरुवस् तम् अभ्यषिञ्चन्न् आदित्या दशशतलोचनं दिवीव // saund_1.61 //
आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियदुखाय धृतात्परः / तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवम् इवानुष्र्तो मरुद्भिः // saund_1.62 //
सौन्दरनद महाकाव्ये कपिलवास्तुवर्णनो नाम प्रथमः सर्गः /
चन्तो इइ
ततः कदा चित् कालेन तद् अवाप कुलक्रमात् / राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः // saund_2.1 //
यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये / नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे // saund_2.2 //
बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमान् अपि / विक्रान्तो नय्वांश् चैव धीरः सुमुख एव च // saund_2.3 //
वपुष्मांश् च न च स्तब्धो दक्षिणो न च नारजवः / तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः // saund_2.4 //
आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश् च व्यपाश्रितः / अभवद् यो न विमुखस् तेजसा दित्सयैव च // saund_2.5 //
यः पूर्वै राजभिर् यातां यियासुर् धर्मपद्धतिम् / राज्यं दीक्षाम् इव वहन् वृत्तेतान्वगमत् पितॄन् // saund_2.6 //
यस्य सुव्यहाराच् च रक्षनाच् च सुखं प्रजाः / शिश्यिरे विगतोद्वेगाः पितुर् अङ्कगता इव // saund_2.7 //
कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले / अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् // saund_2.8 //
हितं विप्रियम् अप्य् उक्तो यः शुश्राव न चुक्षुभे / दुष्कृतं बह्व् अपि त्यक्त्वा सस्मार कृतम् अण्व् अपि // saund_2.9 //
प्रणतान् अनुजग्राह विजग्राह कुलद्विषः / आपन्नान् परिजग्राह निजग्राहास्थितान् पथि // saund_2.10 //
प्रायेण विषये यस्य तच्छीलम् अनुवर्तिनः / अर्जयन्तो ददृशिरे धनानीव गुणान् अपि // saund_2.11 //
अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः / दानान् यदित पात्रेभ्यः पापं नाकृत किं चन // saund_2.12 //
धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजिवोद्यतां धुरम् / न ह्य् अवान्छीच् एयुतः सत्यान् मुहूर्तम् अपि जीवितम् // saund_2.13 //
विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया / व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव // saund_2.14 //
अवेदीद् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् / अरक्षीद् धैर्यवीर्याभ्याम् इन्द्रियाण्य् अपि च प्रजाः // saund_2.15 //
अहार्षीद् दुःखम् आर्तानां द्विषतां चोर्जितं यशः / अचैष्ते च नयैर् भूमिं भूयसा यशसैव च // saund_2.16 //
अप्य् आसीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः / नाहौष्ते च यशो लोभाद् अन्यायाधिगतैर् धनैः // saund_2.17 //
सौहार्दऋढभक्तित्वान् मैत्रेषु विगुणेष्व् अपि / नादिदासीददित्सीत् तु सौमुख्वात् स्वं स्वम् अर्थवत् // saund_2.18 //
अनिवेद्याग्रम् अर्हद्भ्यो नालिक्षत् हिं चिद् अप्लुतः / गाम् अधर्मेण नाधुक्षत् क्षीरतर्षेण गाम् इव // saund_2.19 //
नासृक्षद् बलिम् अप्राप्तं नारुक्षन् मानम् ऐश्वरम् / आगमैर् बुद्धिम् आहिक्षद् धर्माय न तु कीर्तये // saund_2.20 //
क्लेशार्हान् अपि कांश् चि तु नाक्लिष्ट क्लिष्टकर्मणः / आर्यभावाच् च नाघुक्षद् द्विषतो ऽपि सतो गुणान् // saund_2.21 //
आकृषद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव / परस्वं भुवि नामृक्षन् महाविषम् इवोरगम् // saund_2.22 //
नाक्रुक्षद् विषये तस्य कश् चित् कैश् चित् क्व चित् क्षतः / अदिक्षत् तस्य हस्तस्थम् आर्तेभ्यो ह्य् अभयं धनुः // saund_2.23 //
कृतागसो ऽपि प्रणतान् प्राग् एव प्रियकारिणः / अदर्शत् स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत् // saund_2.24 //
बह्वीर् अध्यगमद् विद्या विषयेष्व् अकुतूहलः / अदर्शत् कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि नास्रसत् // saund_2.25 //
अवर्धिष्ट गुञैः शश्वद् अवृधन् मित्रसंपदा / अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि // saund_2.26 //
शरैर् अशीशम् अच्छत्रून् गुणैर् बन्धून् अरीरमत् / रन्ध्रैर् नाचूचुदद् भृत्यान् करैर् नापीपिडत् प्रजाः // saund_2.27 //
रक्षणाच् चैव शौर्याच् च निखिलां गाम् अवीवपत् / स्पष्टया दण्डनीत्या च रात्रिसत्त्रान् अवीवपत् // saund_2.28 //
कुलं राजर्षिवृत्तेन यशोगन्धम् अवीवपत् / दीप्त्या तम इवादित्यस् तेजसारीन् अवीवपत् // saund_2.29 //
अपप्रथत् पितॄंश् चैव सत्पुत्रदऋशैर् गुणैः / सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः // saund_2.30 //
दानैर् अजस्रविपुलैः सोमं विप्रान् असूषवत् / राजधर्मस्थिअत्वाच् च काले सस्यम् असूषवत् // saund_2.31 //
अधर्मिष्ठाम् अचकथन् न कथाम् अकथङ्कतः / चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् // saund_2.32 //
राष्ट्रम् अन्यत्र च बलेर् न स किङ् चिद् ददीदपत् / भृत्यैर् एव च सोद्योगं द्विषद्दर्पम् अदीदपत् // saund_2.33 / स्वैर् एवादीदपच् चापि भूयो भूयो गुणैः कुलम् / प्रजा नादीदपच् चैव सर्वधर्मव्यवस्थया // saund_2.34 //
अश्रान्तः समये यज्वा वज्ञभूमिम् अमीमपत् / पालनाच् च च्विजान् ब्रह्म निर्दुविग्नान् अमीमपत् // saund_2.35 //
गुरुभिर् विधिवत्काले सौम्यः सोमम् अमीमपत् / तपसा तेजसा चैव द्विषत्सैन्यम् अमीमपत् // saund_2.36 //
प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मम् अवीवसत् / दर्शनाच् चैव धर्मस्य काले स्वर्गम् अवीवसत् // saund_2.37 //
व्यक्तम् अप्य् अर्थकृच्छ्रेषु नाधर्मिष्ठम् अतिष्ठिपत् / प्रिय इत्य् एव चाशक्तं न संरागाद् अवीवृधत् // saund_2.38 //
तेजसा च त्विषा चैव रिपून् दृप्तान् अभीभसत् / यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत् // saund_2.39 //
आनृशंस्यान् न यशसे तेनादायि सदार्थिने / द्रव्यं महद् अपि त्यक्त्वा न चैवाकीर्ति किं चन // saund_2.40 //
तेनारिर् आपि दुःखार्तो नात्याजि शरणागतः / जित्वा दृप्तान् अपि रिपून् न तेनाकारि विस्मयः // saund_2.41 //
न तेनाभेदि मार्यादा कामाद् द्वेषाद् भयाद् अपि / तेन सत्स्व् अपि भोगेषु नासेवीन्द्रियवृत्तिता // saund_2.42 //
न तेनार्दर्शि विषमं कार्यङ् क्व चन किं चन / विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः // saund_2.43 //
तेनापायि यथाकल्पं सोमश् च यश एव च / वेदश् चाम्नायि सततं वेदोक्तो धर्म एव च // saund_2.44 //
एवमादिभिर् अत्यक्तो बभूवासुलभैर् गुणैः / अशक्यशक्यसामन्तः शाक्यराजः स शक्रवत् // saund_2.45 //
अथ तस्मिन् तथा काले धर्मकामा दिवौकसः / विचेरुर् दिशि लोकस्य धर्मचर्या दिदृक्षवः // saund_2.46 //
धर्मात्मानश् चरन्तस् ते धर्मजिज्ञासया जगत् / ददृशुस् तं विशेषेण धर्मात्मानं नराधिपम् // saund_2.47 //
देवेभ्यस् तुषितेभ्यो ऽथ बोधिसत्त्वः क्षितिं व्रजन् / उपपत्तिं प्रणिदधे कुले तस्य महीपतेः // saund_2.48 //
तस्य देवी नृदेवस्य माया नाम तदाभवत् / वीतक्रोधतमोमाया मायेव दिवि देवता // saund_2.49 //
स्वप्ने ऽथ समये गर्भम् आविशन्तं ददर्श सा / षड्दन्तं वारणं श्वेतम् ऐरावतम् इवौजसा // saund_2.50 //
तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः / तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः // saund_2.51 //
तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः / साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः // saund_2.52 //
सूर्यरश्मिभिर् अक्लिष्टं पुष्पवर्षं पपात खात् / दिग्वारणकराधूताद् वनाच् चैत्ररथाद् इव // saund_2.53 //
दिवि दुन्दुभयो नेदुर् दीव्यतां मरुताम् इव / दिदीपे ऽभ्यधिअं सूर्यः शिवश् च पवनो ववौ // saund_2.54 //
तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः / सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया // saund_2.55 //
समाययौ यशःकेतुं श्रेयःकेतुकरः परः / बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव // saund_2.56 //
देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः / नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले // saund_2.57 //
दीर्घबाहुर् महावक्षाः सिंहांसो वृसभेक्षनः / वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे // saund_2.58 //
मधुमास इव प्राप्तश् चन्द्रो नअ इवोदितः / अङ्गवान् इव चानङ्गः स बभौ कान्तया श्रिया // saund_2.59 //
स तौ संवर्धयामास नरेन्द्रः परया मुदा / अर्थः सज्जनहस्तस्थो धर्मकामौ महान् इव // saund_2.60 //
तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ / आर्यस्यारम्भमहतो दर्मार्थाव् इव भूतये // saund_2.61 //
तयोः सत्पुत्रयोर् मध्ये शाक्यराजो रराज सः / मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः // saund_2.62 //
ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश् च / कामेष्व् अजस्रङ् प्रममाद नन्दः सर्वार्थसिद्धस् तु न संररञ्ज // saund_2.63 //
स प्रेक्श्यैव हि जीर्णम् आतुरङ् च मृतङ् च विमृशन् जगदन्भिज्ञम् आर्तचित्तः / हृदयगतपरघृणो न विषयरतिम् अगमज् जननमरणभयम् अभितो विजिघांसुः // saund_2.64 //
उद्वेगाद् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः / निशि नृपतिनिलयनाद् वनगमन्कृत्मनाः सरस इव मथितनलिनात् कलहंसः // saund_2.65 //
सौन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः /
चन्तो इइइ
तपसे ततः कपिलवास्तु हयगरथौघसंकुलम् / श्रीमद् अभयम् अनुरक्तजनं स विहाय विश्चितमना वनं ययौ // saund_3.1 //
विविधाग्मांस् तपसि तांश् च विविधनियमाश्रयान् मुनीन् / प्रेक्ष्य स विषयतृआकृपणान् अनवस्थितं तप इति न्यवर्तत // saund_3.2 //
अथ मोक्षवादिनम् अराडम् उपशममतिं तथोड्रकम् / तत्त्वकृतमतिर् उपास्य जहावयम् अप्य् अमार्ग इति मागकोविदः // saund_3.3 //
स विचारयन् जगति किं नु परमम् इति तं तम् आगमम् / निश्चयम् अनधिगतः परतः परमं चचार तप एव दुष्करम् // saund_3.4 //
अथ नैष मार्ग इति विक्ष्य तद् अपि विपुलं जहौ तपः / ध्यानविषयम् अवगम्य परं बुभुजे वरान्नम् अमृतत्वबुद्धये // saund_3.5 //
स सुवर्णपीनयुगबाहुर् ऋषभगतिर् आयतेक्षणः / प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चयविधेर् बुभुत्सया // saund_3.6 //
उपविश्य तत्र कृतबुद्धिर् अचल्धृतिर् अद्रिराजवत् / मारबलम् अजयद् उग्रम् अथो बुबुधे पदं शिवम् अहार्यम् अव्ययम् // saund_3.7 //
अवगम्य तं च कृतकार्यम् अमृतमनसो दिवौकसः / हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे // saund_3.8 //
सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ / नेदुर् अपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः // saund_3.9 //
अवबुध्य चैव परमार्थम् अजरम् अनुकम्पया विभुः / नित्यम् अमृतम् उपदर्श्यितुं स वराञसीपरिकराम् अयात् पुरीम् // saund_3.10 //
अथ धर्मचक्रम् ऋतनाभि धृतिमतिसमाधिनेमिमत् / तत्र विनयनिमारम् ऋषिर् जगतो हिताय परिषद्य् अवर्तयत् // saund_3.11 //
इति दुःखम् एतद् इयम् अस्य समुदयलता प्रवर्तिका / शान्तिर् इयम् अयम् उपाय इति प्रविभागशः परम् इदं चतुष्टयम् // saund_3.12 //
अभिधाय च त्रिपरिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् / द्वादशनियतविकल्पम् ऋषिर् विनिनाय कौण्डिनसगोत्रम् आदितः // saund_3.13 //
स हि दोषसागरम् अगाधम् उपधिजलम् आधिजनुत्कम् / क्रोधमदभयतर्ङ्गचलं प्रततार लोकम् अपि व्यतारयत् // saund_3.14 //
स विनीय काशिषु गयेषु बहुजनम् अथो गिरिव्रजे / पित्र्यम् अपि परमकारुणिको नगरं ययाव् अनुजिघृक्षया तदा // saund_3.15 //
विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः / सूर्यसदृशवपुर् अभ्युदितो विजहार सूर्य इव गौतमस् तमः // saund_3.16 //
अभितस् ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् / वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् // saund_3.17 //
अपरिग्रहः स हि बभूव नियतमतिर् आत्मनीश्वरः / नैकविधभयकरेषु किम्-उ स्वजनस्वदेशजनमित्रवस्तुषु // saund_3.18 //
प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञयागमत् / निश्चितमतिर् असिचन्दनयोर् न जगाम दुःखसुखयोश् च विक्रियाम् // saund_3.19 //
अथ पार्थिवः समुपलभ्य सुतम् उपगतं तथागतम् / तूर्णम् अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ // saund_3.20 //
सुगतस् तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया / शेषम् अपि च जनम् अश्रुमुखं विनीषय गगनम् उत्पपात ह // saund_3.21 //
स विचक्रमे दिवि भुवीव पुनर् उपविवेश तस्थिवान् / निश्चलमतिर् अशयिष्ट पुनर् बहुधाभवत् पुनर् अभूत् तथैकधा // saund_3.22 //
सलिले क्षिताव् इव चचार जलम् इव विवेष मेदिनीम् / मेघ इव दिवि ववर्ष पुनः पुनर् अज्वलन् नव इवोदितो रविः // saund_3.23 //
युगपज् ज्वलन् ज्वलनवच् च जलम् अवसृहंश् च मेघवत् / तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः // saund_3.24 //
तम् उदीक्ष्य हेममणिजालवलयिनम् इवोत्थितं ध्वजम् / प्रीतिम् अगमद् अतुलां नृपतिर् जनता नताश् च बहुमानम् अभ्ययुः // saund_3.25 //
अथ भाजनीकृतम् अवेक्ष्य मनुजपतिम् ऋद्धिसंपदा / पौरजनम् अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः // saund_3.26 //
नृपतिस् ततः प्रथमम् आप फलम् अमृतधर्मसिद्धयोः / धर्मम् अतुलम् अधिगम्य मुनेर् मुनये ननाम स यतो गुराव् इव // saund_3.27 //
बहवः प्रसन्नमनसो ऽथ जननमरणार्तिभीरवः / शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात् प्रवव्रजुः // saund_3.28 //
विजहुस् तु ये ऽपि न गृहाणि तनयपितृमात्रपेक्षया / ते ऽपि नियमविधिमामरणाज् जगृहुश् च युक्तमनसश् च दघ्रिरे // saund_3.29 //
न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि परवधोपजीवनः / किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेर् उपासया // saund_3.30 //
अकृशोध्यमः कृशधनो ऽपि परपरिभवासहो ऽपि सन् / नान्यधनम् अपजहार तथा भुजगाद् इवान्यविभवाद् धि विव्यथे // saund_3.31 //
विभवान्वितो ऽपि तरुणो ऽपि विषयचपलेन्द्रियो ऽपि सन् / नैव च परयुवतीर् अगमत् परमं हि ता धनतो ऽप्य् अमन्यत // saund_3.32 //
अनृतं जगाद न च कश् चिद् ऋतम् अपि जजल्प नाप्रियम् / श्लक्ष्णम् अपि च न जगाव् अहितं हितम् अप्य् उवाच न च पैशुनाय यत् // saund_3.33 //
मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः / कामसुखम् असुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः // saund_3.34 //
न परस्य कश् चिद् अपघातम् अपि च स्गृणो व्यचिन्तयत् / मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस् परं जनः // saund_3.35 //
नियतं भविष्यति परत्र भवद् अपि च भूतम् अप्य् अथो / कर्मफलम् अपि च लोकगतिर् नियतेति दर्शनम् अवाप साधु च // saund_3.36 //
इति कर्मञा दशविधेन परमकुशलेन भूरिणा / भ्रंशिनि शितहिलगुणो ऽपि युगे विजहार तत्र मुन्संश्रयज् जनः // saund_3.37 //
न च तत्र कश् चिद् उपपत्तिसुखम् अभिललाष तैर् गुणैः / सर्वम् अशिवम् अवगम्य भवं भवसंक्षयाय ववृते न जन्मने // saund_3.38 //
अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः / स्रोतसि हि ववृतिरे बहवो रजसस् तनुत्वम् अपि चक्रिरे परे // saund_3.39 //
ववृते ऽत्र यो ऽपि विषमेषु विभवदृशेषु कश् चन / त्यागविनयनियमाभिरतो विजहार सो ऽपि न चचाल सत्पथात् // saund_3.40 //
अपि च स्वतो ऽपि परतो ऽपि न भयम् अभवन् न दैवतः / तत्र च सुसुखसुभिक्षगुणैर् जहृषुः प्रजाः कृतयुगे मनोर् इव // saund_3.41 //
इति मुदितम् अनामयं निरापत् कुरुरघुपुरुपुरोपमं पुरं तत् / अभवद् अभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे // saund_3.42 //
चन्तो इव्
मुनौ ब्रुवाञे ऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु / प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः // saund_4.1 //
स चक्रवाक्येव हि चक्रवाकस् तया समेतः प्रियया प्रियार्हः / नाचिन्तयद् वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मम् // saund_4.2 //
लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति / दीप्त्या च मानेन च भामिनीति यतो बभाषे त्रिविधेन नाम्ना // saund_4.3 //
सा हासहंसा नयन्द्विरेफा पीनस्तनात्युन्नतपद्मकोशा / भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण // saund_4.4 //
रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन / मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः // saund_4.5 //
सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश् च नन्दः / अतीत्य मर्त्यान् अनुपेत्य देवान् सृष्टाव् अभूताम् इव भूतधात्रा // saund_4.6 //
तां सुन्दरीं चेन् न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः / द्वन्दं ध्रुवं तद् विकलं न शोभेतान्योन्यहीनाव् इव रात्रिचन्द्रौ // saund_4.7 //
कन्दर्परत्योर् इव लक्ष्यभूतं प्रमोदनान्द्योर् इव नीडभूतम् / प्रहर्षतुष्ट्योर् इव पात्रभूतं द्वन्दं सहारंस्त मदान्धभूतम् // saund_4.8 //
परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् / परस्पराश्लेषहृताण्गरागं परस्परं तन् मिथुनं जहार // saund_4.9 //
भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाव् इवोभौ / चिक्रीडतुश् चाभिविरेजतुश् च रूपश्रियान्योन्यम् इवाक्षिपन्तौ // saund_4.10 //
अन्योन्यसंरागविवर्धनेन तद् द्वन्द्वम् अन्योन्यम् अरीरमच् च / क्लमान्तरे ऽन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदच् च // saund_4.11 //
विभूषयाम् आस ततः प्रियां स सिषेविषुस् तां न मृजावहार्थम् / स्वेनैव रूपेण विभूषिता हि विभूषणानाम् अपि भुषणं सा // saund_4.12 //
दत्त्वाथ सा दर्पणम् अस्य हस्ते ममाग्रतो धारय तावद् एनम् / विशेषकं यावद् अहं करोमीत्य् उवाच कान्तं स च तं बभार // saund_4.13 //
भर्तुस् ततः श्मश्रु निरीक्षमाणा विशेषकङ् सापि चकार तादृक् / निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः // saund_4.14 //
सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास / भवेच् च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार // saund_4.15 //
चिक्षेप कर्णोत्पलम् अस्य चांसे करेञ सव्येन मदालसेन / पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रे ऽस्य ताम् एव विनिर्दुधाव // saund_4.16 //
ततश् चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोधासितराङ्गुलिभ्याम् / पध्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान् नाम ननाम नदः // saund_4.17 //
स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे / सुवर्णवेद्याम् अनिलावभग्नः पुष्पातिभाराद् इव नागवृक्षः // saund_4.18 //
सा तं स्तनोद्वर्तितहारष्टिर् उत्थापयाम् आस निपीड्य दोर्भ्याम् / कथं कृतो ऽसीति जहास चोच्चैर् मुखेन साचीकृतकुण्डलेन // saund_4.19 //
पत्युस् ततो दर्पणसक्तपाणेर् मुहुर्मुहुर् वक्त्रम् अवेक्षमाणा / तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत् // saund_4.20 //
तस्या मुखङ् तत् सतमालपत्त्रङ् ताम्राधरौष्ठं चिकुरायताक्षम् / रक्ताधिकाग्रं पतितद्विरेफङ् सशैवलङ् पद्मम् इवाबभासे // saund_4.21 //
नन्दस् ततो दर्पणम् आदरेण बिभ्रत् तदामण्डनसाक्षिभूतम् / विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श // saund_4.22 //
तत् कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् इवारविन्दम् / नन्दः प्रियाया मुखम् ईक्षमाणो भूयः प्रियानन्दकरो बभूव // saund_4.23 //
विमानकल्पे स विमानगर्भे ततस् तथा चैव नन्दन नन्दः / तथागतश् चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म // saund_4.24 //
अवाङ्मुखो निष्प्रणयश् च तस्थौ भ्रातु गृहे ऽन्यस्य गृहे यथैव / तस्माद् अथो प्रेष्यजनप्रमादाद् भिक्षाम् अलब्धैव पुनर् जगाम // saund_4.25 //
का चित् पिपेषाङ्गविलेपनं हि वासो ऽङ्गना का चिद् अवासयच् च / अयोजयत् स्नानविधिं तथान्या जग्रन्थुर् अन्याः सुरभीः स्रजश् च // saund_4.26 //
तस्मिन् गृहे भर्तुर् अतश् चरन्त्यः क्रीडानुरूपं ललितं नियोगम् / काश् चिन् न बुद्धं ददृशुर् युवत्यो बुद्धस्य वैषा नियतङ् मनीषा // saund_4.27 //
का चित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः / विनिष्पतन्तं सुगतं ददर्श पयोदगर्भाद् इव दीप्तम् अर्कम् // saund_4.28 //
सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश् च / नन्दस्य तस्थौ पुरतो विवक्षुस् तदाज्ञया चेति तदाचचक्षे // saund_4.29 //
अनुग्रहायास्य जनस्य शङ्के गुरुर् गृहं नो भगवान् प्रविष्टः / भिक्षाम् अलब्ध्वा गिरम् आसनं वा सून्याद् अरण्याद् इव याति भूयः // saund_4.30 //
श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनःप्रयाणम् / चचाल चित्राभरणाम्बरस्रक् कल्पद्रुमो धूत इवानिलेन // saund_4.31 //
कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे / कर्तुं गमिष्यामि गुरौ प्रणामं माम् अभ्यनुज्ञातुम् इहार्हसीति // saund_4.32 //
सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव / ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचो ऽभ्युवाच // saund_4.33 //
नाहं यियासोर् गुरुदर्शनार्थम् अर्हामि कर्तुं तव धर्मपीडाम् / गच्छार्यपुत्रैहि च शीघ्रम् एव विशेषको यावद् अयङ् न शुष्कः // saund_4.34 //
सचेद् भवेस् त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयम् / मुहुर्मुहुस् त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् // saund_4.35 //
अथाप्य् अनाश्यानविशेषकायां मय्य् एष्यसि त्वं त्वरितं ततस् त्वाम् / निपीडयिष्यामि भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन // saund_4.36 //
इत्य् एवम् उक्तश् च निपीडितश् च तयासवर्णस्वनया जगाद / एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर् दूरगतो न मे सः // saund_4.37 //
ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन / विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर् बभार // saund_4.38 //
सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी / स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तस्ं मृगं भ्रान्तं मृगङ् भ्रान्तं मुखी मृगीव // saund_4.39 //
दिदृक्षयाक्षिप्तमना मुनेस् तु नन्दः प्रयाणं प्रति तत्वरे च / विवृत्तदृष्टिश् च शनैर् ययौ तां करीव पश्यन् स लडत्करेञुम् // saund_4.40 //
छातोदरिं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीम् इवाद्रेः / काक्षेण पश्यन् न ततर्प नन्दः पिबन्न् इवैकेन जलं करेण // saund_4.41//
तङ् गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनर् आचकर्ष / स ऽनिश्चयान् नापि ययौ न तस्थौ तुरंस् तरङ्गेष्व् इव राजहंसः // saund_4.42 //
अदर्शनं तूपगतश् च तस्या हर्म्यात् ततश् चावततार तूर्णम् / श्रुत्वा ततो नूपुरनिस्वनं स पुनर् ललम्बे हृदये गृहीतः // saund_4.43 //
स कामरागेञ निगृह्यमाणो धर्मानुरागेञ च कृष्यमाणः / जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः // saund_4.44 //
ततः क्रमैर् दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर् भवेद् इति / स्वजेय तां चैव विशेषकप्रियां कथं प्रियाम् आर्द्रविशेषकाम् इति // saund_4.45 //
अथ स पथि ददर्श मुक्तमानं पितृनगरे ऽपि तथागताभिमानम् / दशबलम् अभितो विलम्बमानं ध्वजम् अनुयान इवैन्द्रम् अर्च्यमानम् // saund_4.46 //
सौन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः /
चन्तो व्
अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धि गृहीतवेषाः / महापणेभ्यो व्यवहारिणश् च महामुनौ भक्तिवशात् प्रणेमुः // saund_5.1 //
के चित् प्रणम्यानुययुर् म्हूर्तङ् के चित् प्रणम्यार्थवशेन जग्मुः / के चित् स्वकेष्व् आवस्थेषु तस्तुः कृत्वाञ्जलीन् विक्षणतत्पराक्षाः // saund_5.2 //
बुद्धस् ततस् तत्र नरेन्द्रमार्ग स्रोतो महद्भक्तिमतो जनस्य / जगाम दुऊखेन विगाहमानो जलागमे स्रोत इवापगायाः // saund_5.3 //
अथो महद्भिः पथि संपतद्भिः संपूज्यमानाय तथागताय / कर्तुं प्रञामं न शशाक नन्दस् तेनाभिरेमे तु गुरोर् महिम्ना // saund_5.4 //
स्वं चावसङ्गं पथि निर्मुमुक्षुर् भक्तिं जनस्यान्यमतेश् च रक्षन् / नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततो ऽन्यं सुगतः प्रपेदे // saund_5.5 //
ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गम् अभिप्रतस्थे / गत्वाग्रतश् चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नद्नः // saund_5.6 //
शनैर् व्र्जन्न् एव स गौरवेण पटावृतांसो विनतार्धकायः / अधोनिबद्धाञ्जलिर् ऊर्ध्वनेत्रः सगद्गदं वाक्यम् इदं बभाषे // saund_5.7 //
प्रासादसंस्थो भवन्तम् अन्तःप्रविष्टम् अश्रौषम् अनुग्रहाय / अतस् त्वरावान् अहम् अभ्युपेतो गृहस्य कक्ष्यामहतो ऽभसूयन् // saund_5.8 //
तत् साधु साधुप्रिय मत्प्रियार्थं तत्रास्तु बिक्षूत्तम भैक्षकाल्सः / असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः // saund_5.9 //
इत्य् एवम् उक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन / तादृङ्निमित्तं सुगतश् चकार नाहारकृत्यं स यथा विवेद // saund_5.10 //
ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार / अनुग्रहार्थं सुगतस् तु तस्मै पात्रं ददौ पुष्करपत्त्रनेत्रः // saund_5.11 //
ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् / जग्राह चापग्रहणक्षंआभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् // saund_5.12 //
पराङ्मुखस् त्व् अन्यमनस्कम् आराद् विज्ञाय नन्दः सुगतं गतास्थम् / हस्तस्थपात्रो ऽपि गृह यियासुः ससार मार्गान् मुनिम् ईक्षमाणः // saund_5.13 //
भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुर् एव / विमोहयाम् आस मुनिस् ततस् तं रथ्यामुखस्यावरणेन तस्य // saund_5.14 //
निर्मोक्षबीजं हि ददर्श तस्य ज्ञनं मृदु क्लेशरजश् च तीव्रम् / क्लेशानुकूलं विषयात्मकङ् च नन्दं यतस् तं मुनिर् आचकर्ष // saund_5.15 //
संक्लेशपक्षो द्विविधश् च दृष्टस् तथा द्विकल्पो व्यवदानपक्षः / आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य // saund_5.16 //
अयत्नतो हेतुबलाधिकस् तु निर्मुच्यते घट्टितमात्र एव / यत्नेन तु प्रत्ययनेयबुद्धिर् विमोक्षम् आप्नोति पराश्रयेण // saund_5.17 //
नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयताम् अवाप / यस्माद् इमं तत्र चकार यत्नं तं स्नेहपङ्कान् मुनिर् उज्जिहीर्षम् // saund_5.18 //
नन्दस् तु दुःखेन विचेष्टमानः शनैर् अगत्या गुरुम् अन्वगच्छत् / भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्न् आद्रविशेषकं तत् // saund_5.19 //
ततो मुनिस् तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् / निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् // saund_5.20 //
दीनं महाकारुणिकस् ततस् तं दृष्ट्वा मुहूर्तं करुणायमानः / करेण चक्द्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदम् उवाच चैनम् // saund_5.21 //
यावन् न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम् / सर्वास्व् अवस्थास्व् इह वर्तमानः सर्वाभिसारेण निहन्ति मृत्युः // saund_5.22 //
साधारणात् स्वप्ननिभादसाराल् लोलं मनः कामसुखान् नियच्छ / हव्यैर् इवाग्नेः पवनेरितस्य लोकस्य कामैर् न हि तृप्तिर् अस्ति // saund_5.23 //
श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस् तृप्तिर् रसेभ्यः / प्रधानमध्यात्मसुखं सुखेभ्यो विद्यारतिर् दुःखतत्मा रतिभ्यः // saund_5.24 //
हितस्य वक्ता प्रवरः सुऋद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः / ज्ञानाय कृत्यं परमं क्रियाभ्यः किम् इन्द्रियाणाम् उपगम्य दास्यम् // saund_5.25 //
तन् निश्चितं भीक्लमशुग्वियुक्तं परेष्व् अनायत्तम् अहार्यम् अन्यैः / नित्यं शिवं शान्तिसुखं वृणीष्व किम् इन्द्रियार्थार्थम् अनर्थम् ऊढ्वा // saund_5.26 //
जरासमा नास्त्य् अमृजा प्रजानां व्याधेः समो नास्ति जगत्य् अनर्थः / मृत्योः समं नास्ति भयं पृथिव्याम् एतत् त्रयं खल्व् अवशेन सेव्यम् // saund_5.27 //
स्नेहेन कश् चिन् न समो ऽस्ति पाशः स्रोतो न तृणासमम् अस्ति हारि / रागाग्निना नास्ति समस् तथाग्निस् तच् चेत् त्रयं नास्ति सुखं च ते ऽस्ति // saund_5.28 //
अवश्यभावि प्रियविप्रयोगस् तस्माच् च शोको नियतं विषेव्यः / शोकेन चोन्मादम् उपेयिवांसो राजर्षयो ऽन्ये ऽप्य् अवशा विचेलुः // saund_5.29 //
प्रज्ञामयं वर्म बधान तस्मान् नो क्षान्तिनिघ्नस्य हि शोकबाणाः / महच् च दग्धुं भवकक्षजालं संधुक्षयाल्पाग्निम् इवात्मतेजः // saund_5.30 //
यथौषधैर् हस्तगतैः सविद्यो न दश्यते कश् चन पन्नगेन / तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजङ्गमेन // saund_5.31 //
आस्थाय योगं परिगम्य तत्त्वं न त्रासम् आगच्छति मृत्युकाले / आबद्धवर्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः // saund_5.32 //
इत्य् एवम् उक्तः स तथागतेन सर्वेषु भूतेष्व् अनुकम्पकेन / धृष्टं गिरान्तर्हृदयेन सीदंस् तथेति नन्दः सुगतं बभाषे // saund_5.33 //
अथ प्रमादाच् च तम् उज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् / प्रव्राजयानन्द शमाय नन्दम् इत्य् अब्रवीन् मैत्रमना महर्षिः // saund_5.34 //
नन्दं ततो ऽन्तर्मनसा रुदन्तम् एहीति वैदेहमुनिर् जगाद / शनैस् ततस् तं समुपेत्य नन्दो न प्रव्रजिष्याम्य् अहम् इत्य् उवाच // saund_5.35 //
श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस / संश्रुत्य तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः // saund_5.36 //
मय्य् अग्रजे प्रव्रजिते ऽजितात्मन् भ्रात्षृव् अनुप्रव्रजितेषु चास्मान् / ज्ञातींश् तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः // saund_5.37 //
राजर्षयस् ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः / निष्ठीव्य कामान् उपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः // saund_5.38 //
भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म / नैवास्ति मोक्तुं मैत्रालयं ते देशं मुमूर्षोर् इव सोपसर्गम् // saund_5.39 //
संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा / आरोप्यमाणस्य तम् एव मार्गं भ्रष्टस्य सार्थाद् इव सार्थिकस्य // saund_5.40 //
यः सर्वतो वेश्मनि दह्यमाने शयित मोहान् न ततो व्यपेयात् / कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः // saund_5.41 //
प्रञीयमानश् च यथा वधाय मत्तो हसेच् च प्रलपेच् च वध्यः / मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरीतचेताः // saund_5.42 //
यदा नरेन्द्राश् च कुटुम्बिनश् च विहाय बधूंश् च परिग्रहांश् च / ययुश् च यास्यन्ति च यान्ति चैव प्रियेष्व् अनित्येष्व् कुतो ऽनुरोधः // saund_5.43 //
किं चिन् न पश्यामि रतस्य यत्र तद् अन्यभावेन भवेन् न दुःखम् / तस्मात् क्व चिन् न क्षमते प्रस्क्तिर् यदि क्षमस् तद्विगमान् न शोकः // saund_5.44 //
तत् सौम्य लोलं परिगम्य लोकं मायोपमं चित्रम् इवेन्द्रजालम् / प्रियाभिधान्तं तय्ज मोहजालं छेत्तुं मतिस् ते यदि दुःखजालम् // saund_5.45 //
वरं हितोदर्कम् अनिष्टम् अन्नं न स्वादु यत् स्याद् अहितानुबद्धम् / यस्माद् अहं त्वा विनियोजयामि शिवे शुचौ वर्त्मनि विप्रिये ऽपि // saund_5.46 //
बालस्य धार्त्री विनिगृह्य लोष्टं यथोद्धरत्य् आस्यपुटप्रविष्टम् / तथोज्जिहीर्षुः खलु रागशल्यं तत् त्वाम् अवोचं परुषं हिताय // saund_5.47 //
अनिष्टम् अप्य् औषधम् आतुराय ददाति वैद्यश् च यथा निगृह्य / तद्वन् मयोक्तं प्रतिकूलम् एतत् तुभ्यं हितोदर्कम् अनुग्रहाय // saund_5.48 //
तद् यावद् एव क्षञसंनिपातो न मृत्युर् आगच्छति यावद् एव / यावद् वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावद् एव // saund_5.49 //
इत्य् एवम् उक्तः स विनायकेन हितैषिना कारुणिकेन नन्दः / कर्तास्मि सर्वं भगवन् वचस् ते तथा यथाज्ञापय्सीत्य् उवाच // saund_5.50 //
आदाय वैदेहमुनिस् ततस् तं निनाय संश्लिष्य विचेष्टमानम् / व्ययोजयच् चास्रुपरिप्लुताक्षं केशश्रियं छत्त्रनिभस्य मूर्ध्नः // saund_5.51 //
अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु / वक्राग्रनालं नलिनं तडागे वर्षोदकलिन्नम् इवाबभासे // saund_5.52 //
नन्दस् ततस् तरुकषायविरक्तवासाश् चिन्तावशो नवगृहित इव द्विपेन्द्रः / पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालात्पेन परिषिक्त इवाबभासे // saund_5.53 //
सौन्दरनन्दे महाकाव्ये नन्दप्रव्राजनो नाम पञ्चमः सर्गः /
चन्तो वि
ततो हृते भर्तरि गौरवेण प्रीतौ हृतायाम् अरतौ कृतायाम् / तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे // saund_6.1 //
सा भर्तुर् अभ्यागमनप्रतीक्षा गवाक्षम् आक्रम्य पयोधराभ्याम् / द्वारोन्मुखी चलयोक्त्रका ललम्बे मुखेन तिर्यङ्नतकुण्डलेन // saund_6.2 //
विलम्भआरा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे / तपःक्सयाद् अप्सरसां वरेव च्युतं विमानात् प्रियम् ईक्षमाणा // saund_6.3 //
सा खेदसंस्विन्नललाटकेन निश्वासनीष्पीतविशेषकेण / चिन्ताचलाक्षेण मुखेन तस्थौ बर्तारम् अन्यत्र विशङ्कमाना // saund_6.4 //
ततश् चिरस्थानपर्श्रमेञ स्थितैव पर्यङ्कतले पपात / तिर्यक् च शिश्ये प्रविकीर्णहारा सपादुकैकार्थविलम्बपादा // saund_6.5 //
अथात्र का चित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुम् अनीप्समाना / प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती // saund_6.6 //
तस्याश् च सोपानतलप्रणादं श्रुतैव तूर्णं पुनर् उत्पपात / प्रीत्या प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना // saund_6.7 //
सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपुरनिस्वनेन / सोपानकुक्षिङ् प्रससार हर्षाद् भ्रष्टं दुकूलान्तम् अचिन्तयन्ती // saund_6.8 //
ताम् अङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे / विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः // saund_6.9 //
सा दुःखिता भर्तुर् अदर्शनेन कामेन कोपेन च दह्यमाना / कृत्वा करे वक्त्रम् उपोपविष्टा चिन्तानदीं शोकजलां ततार // saund_6.10 //
तस्या मुखं पद्मसपत्नभूतं पाणौ स्थितङ् पल्लवरागताम्रे / छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्मम् इवोपरिष्टात् // saund_6.11 //
सा स्त्रीस्वभावेन विचिन्त्य तत् तद् दृष्टानुरागे ऽभिमुखे ऽपि पत्यौ / धर्माश्रिते तत्त्वम् अविन्दमाना संकल्प्य तत् तद् विललाप तत् तत् // saund_6.12 //
एष्याम्य् अनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञाम् / कस्मान् नु हेतोर् दयितप्रतिज्ञः सो ऽद्य प्रिय मे वितथप्रतिज्ञः // saund_6.13 //
आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोर् अतिदक्षिणस्य / कुतो विकारो ऽयम् अभूतपूर्वः स्वेनापरागेण ममापचारात् // saund_6.14 //
रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तम् / तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात् // saund_6.15 //
रूपेण भावेन च मद्विशिष्ता प्रियेण दृष्टा नियतं ततो ऽन्या / तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं माम् अगमद् विहाय // saund_6.16 //
भक्तिं स बुद्धं प्रति याम् अवोचत् तस्य प्रयातुं मयि सोपदेशः / मुनौ प्रसादो यदि तस्य हि स्यान् मृत्योर् इवोग्राद् अनृताद् बिभीयात् // saund_6.17 //
लेकार्थम् आदर्शनम् अन्यचित्तो विभूषयन्त्य मम धारयित्वा / बिभर्ति सो ऽन्यस्य जनस्य तङ् चेन् नमो ऽस्तु तस्मै चलसौहृदाय // saund_6.18 //
नेच्छन्ति याः शोकम् अवाप्तुम् एवं श्रद्धातुम् अर्हन्ति न ता नराणाम् / क्व चानुवृत्तिर् मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन // saund_6.19 //
इत्य् एवमादि प्रियविप्रकुता प्रिये ऽन्यद् आशङ्क्य च सा जगाद / संभ्रान्तम् आरुह्य च तद् विमानं तां स्त्री सबाष्पा गिरम् इत्य् उवाच // saund_6.20 //
युवापि तावत् प्रियदर्शनो ऽपि सौभाग्यभाग्व्याभिजनान्वितो ऽपि / यस् त्वां प्रियो नाभ्यचरत् कदा चित् तम् अन्यथा यास्यतिकातरासि // saund_6.21 //
मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् / न स त्वद् अन्यां प्रमदाम् अवैति स्वचक्रवाक्या इव चक्रवाकः // saund_6.22 //
स तु त्वदर्थं गृहवासम् ईप्सन् जिजीविषुस् त्वत्परितोषहेतोः / भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः // saund_6.23 //
श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात / प्रगृह्य बाहू विरुराव चोच्चैर् हृदीव दिग्धाभिहता करेणुः // saund_6.24 //
सा र्दोअनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः / पपात शीर्णाकुलहारयष्टिः फलातिभाराद् इव चूतयष्टिः // saund_6.25 //
सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी / पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रग् इवातपेन // saund_6.26 //
संचिन्त्य संचिन्त्य गुणांश् च भर्तुर् दीर्घं निशशवास तताम चैव / विभूषश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव // saund_6.27 //
न भुषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि / निर्भुषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव // saund_6.28 //
धृतः प्रियेणायम् अभून् ममेति रुक्मत्सरुं दर्पणम् आलिलिङ्गे / यत्नाच् च विन्यस्ततमालपत्त्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ // saund_6.29 //
सा चक्रवाक्वीक भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका / विस्पर्धमानेव विमानसंस्तहिः पारावतैः कूजनलोकण्ठैः // saund_6.30 //
विचित्रमृद्वास्तरणे ऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डिते ऽपि / रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना // saund_6.31 //
संदृष्य भर्तुश् च विभूषञानि वासांसि वीणाप्रभृतिंश् च लीलाः / तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद // saund_6.32 //
सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव / शोकाग्निनान्तर्धृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव // saund_6.33 //
रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ / चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् // saund_6.34 //
तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः / अन्तर्गृहाद् आरुरुहुर् विमानं त्रासेन किंनर्य इवाद्रिपृष्ठम् // saund_6.35 //
बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः / स्थानानुरूपेण यथाभिमानं निलिल्यिरे ताम् अनु दह्यमानाः // saund_6.36 //
ताभिर् वृता हर्म्यतले ऽङ्गनाभिश् चिन्तातनुः सा सुतनुर् बभासे / शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरद्भ्रमध्ये // saund_6.37 //
या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च / सा पृष्ठतस् तां तु समालिलिङ्गे प्रमृह्य चाश्रूणि वचांस्य् उवाच // saund_6.38 //
राजर्षिवध्वास् तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः / इक्ष्वाकुवंशे ह्य् अभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि // saund_6.39 //
प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस् ते / तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदास्रितानाम् // saund_6.40 //
यद्य् अन्यया रूपगुणाधिकत्वाद् भर्ता हृतस् ते कुरु बाष्पमोक्षम् / मनस्विनी रूपवती गुणाध्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् // saund_6.41 //
अथापि किं चिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशो ऽत्र बाष्पः / अतो विशिष्टं न हि दुःखम् अस्ति कुलोद्गतायाः पतिदेवतायाः // saund_6.42 //
अथ त्व् इदानीं लडितः सुखेन स्वस्थः फलस्थो व्यस्नान्य् अदृष्त्वा / वीतस्पृहो धर्मम् अनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले // saund_6.43 //
इत्य् एवम् उक्तापि बहुप्रकारं स्नेहात् तया नैव धृतिं चकार / अथापरा तां मनसो ऽनुकूलं कालोपपन्नं प्रणयाद् उवाच // saund_6.44 //
ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रम् एव / त्वया विना स्थास्यति तत्र नासौ सत्त्वाष्रयश् चेतनयेव हीनः // saund_6.45 //
अङ्के ऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः / आपत्सु कृच्छ्रास्व् अपि चागतासु त्वां पश्यतस् तस्य भवेन् न दुःखम् // saund_6.46 //
त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः / यस् तस्य भावस् त्वयि यश् च रागो न रंस्यते त्वद्विरहात् स धर्मे // saund_6.47 //
स्याद् अत्र नासौ कुलसत्त्वगोयात् काषायम् आदाय विहास्यतीति / अनात्मनादाय गृहोन्मुखस्य पुनर् विमोक्तुं क इवास्ति दोषः // saund_6.48 //
इत्य् युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा / द्रमिडम् अभिमुखी पुरेव रम्भा क्षितिम् अगमत् परिवारिताप्सरोभिः // saund_6.49 //
सौन्दरनन्दे महाकाव्ये भार्याविलापो नाम षष्टः सर्गह् //
चन्तो विइ
लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन् न तु चेतसा तत् / भार्यागतैर् एव मनोवितकैर् जेह्रीयमाणो न ननन्द नन्दः // saund_7.1 //
स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः / यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम // saund_7.2 //
स्थितः स दीनः सहकारवीथ्याम् आलीनसंमूर्छितषत्पदायाम् / भृशं जजृम्भे युगदीर्घबाहुर् ध्यात्वा प्रियां चापम् इवाचकर्ष // saund_7.3 //
स पितक्षोदम् इव प्रतीच्छन् चूतद्रुम्भेयस् तनुपुष्पवर्षम् / दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः // saund_7.4 //
शोकस्य हर्ता शरणागतानां शोकस्य कर्ता प्रतिगर्वितानाम् / अशोकम् आलम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच // saund_7.5 //
प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीताम् इव निष्पतन्तिम् / सस्मार ताम् अश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम् // saund_7.6 //
पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् / संकल्पयाम् आस शिखां प्रियायाः शुक्लांशुके ऽट्टालम् अपास्रितायाः // saund_7.7 //
लतां प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् / निशाम्य चिन्ताम् अगमत् तदैवं श्लिष्टाभवन् माम् अपि सुन्दरीति // saund_7.8 //
पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैर् इव हेमगर्भैः / कान्तारवृक्षा इव दुःखितस्य न चक्षुर् आचिक्षिपुर् अस्य तत्र // saund_7.9 //
गन्धं वसन्तो ऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः / तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर् हृदयं प्रतेपुः // saund_7.10 //
संरक्तकण्ठैश् च विनीलकण्ठैस् तुष्टैः प्रहृष्टैर् अपि चान्यपुष्टैः / लेलिह्यमानैश् च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद // saund_7.11 //
स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन / कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत् तत् // saund_7.12 //
अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च / त्यक्त्वा प्रियाम् अश्रुमुखीं तपो ये चेरुश् चरिष्यन्ति चरन्ति चैव // saund_7.13 //
तावद् दृढं बन्धनम् अस्ति लोके न दारवं तान्तवम् आयसं वा / यावद् दृढं बन्धनम् एतद् एव मुखं चल्श्क्षं ललितं च वाक्यम् // saund_7.14 //
छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच् चैव सुहृद्बलाच् च / ज्ञानाच् च रौक्ष्याच् च विना विमोक्तुं न शक्यते स्नेहमयस् तु पाशः // saund_7.15 //
ज्ञानं न मे तच् च शमाय यत् स्यान् न चास्ति रौक्ष्यं करुणात्मको ऽस्मि / कामात्मकश् चास्मि गुरुश् च बुद्धः स्थितो ऽन्तरे चक्रगतेर् इवास्मि // saund_7.16 //
अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विर्गुरुणानुशिष्टः / सर्वास्व् अवस्थासु लभे न शान्तिं प्रियावियोगाद् इव चक्रवाकः // saund_7.17 //
अद्यापि तन् मे हृदि वर्तते च यद् दर्पणे व्याकुलिते मया सा / कृतानृतक्रोधकम् अब्रवीन् मां कथं कृतो ऽसीति शठं हसन्ती // saund_7.18 //
यथैष्य् अनाश्यानविशेषकायां मयीति यन् माम् अवदच् च साश्रु / पारिप्लवाक्षेण मुखेन बाला तन् मे वचो ऽद्यापि मनो रुणद्धि // saund_7.19 //
बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुर् एषः / सक्तः क्व चिन् नाहम् इवैष नूनं शान्तस् तथा तृप्त इवोपविष्टः // saund_7.20 //
पुंस्कोकिलानाम् अविचिन्त्य घोषं वसन्तलक्ष्म्याम् अविचार्य चक्षुः / शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः // saund_7.21 //
अस्मै नमो ऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय / शान्तात्मने ऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय // saund_7.22 //
निरीक्षमाणाय जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् / कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते // saund_7.23 //
भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः / जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद् धि नास्मद्विधम् आषिपेयुः // saund_7.24 //
कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवान् अहल्याम् / सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषो ऽहम् // saund_7.25 //
सूर्यः सरण्यूं प्रति जातरागस् तत्प्रीतये तष्ट इति श्रुतं नः / याम् अश्वभूतो ऽश्ववधुं समेत्य यतो ऽश्विनौ तौ जनयां बभूव // saund_7.26 //
स्त्रीकारणं वैरविषक्तबुद्ध्योर् वैवस्वताग्न्योश् चलितात्मधृत्योः / बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेद् इहान्यः // saund_7.27 //
भेजे श्वपाकीं मुनिर् अक्षमालां कामाद् वैष्ठश् च स सद्वरिष्टः / यस्यां विवस्वान् इव भूजलादः सुतः प्रसूतो ऽस्य कपिञ्जलादः // saund_7.28 //
पराशः शापशरस् तहर्षिः कालीं सिषेवे झषगर्भयोनिम् / सुतो ऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता // saund_7.29 //
द्वैपायनो धर्मपरायञश् च रेमे समं काशिषु वेश्यवध्व / यया हतो ऽभूच् चलनूपुरेञ पादेन विद्युल्लतयेव मेघः // saund_7.30 //
तथाञ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे / सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता // saund_7.31 //
तथा नृपर्षेर् दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः / स्रुचं गृहीत्वा स्रवद् आत्मतेजश् चिक्षेप वह्नाव् असितो यतो ऽभूत् // saund_7.32 //
तथाङ्गदो ऽन्तं तपसो ऽपि गत्वा कामाभिभूतो यमुनाम् अगच्छत् / धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव // saund_7.33 //
निशाम्य शान्तां नरदेवकन्यां वने ऽपि शान्ते ऽपि च वर्तमानः / चचाल धैर्यान् मुनिर् ऋष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः // saund_7.34 //
ब्रह्मर्षिभावार्थम् अपास्य राज्यं भेजे वनं यो विषयेष्व् अनास्थः / स गाधिजश् चापहृतो घृताच्या समा दशैकं दिवसं विवेद // saund_7.35 //
तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ / यः कामरोषात्मतयानपेक्षः शशाप ताम् अप्रतिगृह्यमाणः // saund_7.36 //
प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् / संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष // saund_7.37 //
नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर् विभुधप्रभावः / तथोर्वशीम् अप्सरसं विचिन्त्य राजर्षिर् उन्मादम् अगच्छद् ऐडः // saund_7.38 //
रक्तो गिरेर् मूर्धनि मेनकायां कामात्मकत्वाच् च स ताल्जङ्घः / पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने // saund_7.39 //
नाशं गतायां परमाङ्गनायां गङ्गाजले ऽनङ्गपरीतचेताः / जह्नुश् च गङ्गां नृपतिर् भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः // saund_7.40 //
नृपश् च गङ्गाविरहाज् जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः / कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुर् अस्वतन्त्रः // saund_7.41 //
हृतां च सौनन्दकिनानुशोचन् प्राप्ताम् इन्वोर्वीं स्त्रियम् उर्वशीं ताम् / सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोधवभिन्नवर्मा // saund_7.42 //
भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः / बलेन सेनाक इति प्रकाशः सेनापतिर् देव इवात्तसेनः // saund_7.43 //
स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन् जनमेजयः सः / अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्म्हथम् उत्ससर्जे // saund_7.44 //
शप्तश् च पाण्डुर् मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः / जगाम माद्रीं न महर्षिशापाद् असेव्यसेवी विममर्श मृत्युम् // saund_7.45 //
एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः / धिया च सारेण च दुर्बलः सन् प्रियाम् अपश्यन् किमु विक्लवो ऽहम् // saund_7.46 //
यास्यामि तस्माद् गृहम् एव भूयः कामं करिष्ये विधिवत् सकामम् / न ह्य् अन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच् च्युतस्य // saund_7.47 //
पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः / यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सो ऽस्ति च नास्ति चैव // saund_7.48 //
यो निःसृतश् च न च निःसृतकामरागः काषायम् उद्वहति यो न च निष्कसायः / पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः // saund_7.49 //
न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति यो ऽपि हि मे विचारः / सो ऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः // saund_7.50 //
शाल्वाधिपो हि ससुतो ऽपि तथाम्बरीषो रामो ऽन्ध्व एव स च सांकृतिर् अन्तिदेवः / चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा जटाष् च कुटिला मुकुटानि बभ्रुः // saund_7.51 //
तस्माद् भिक्षार्थं मम गुरुर् इतो यावद् एव प्रयातस् त्यक्त्वा काषायं गृहम् अहम् इतस् तावद् एव प्रयास्ये / पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्याद् उपहतमतेर् नाप्य् अयं जीवलोकः // saund_7.52 //
सौन्दरनन्द महाकाव्ये नन्दिव्लापो नाम सप्तमः सर्गः /
चन्तो विइइ
अथ नन्दम् अधीरलोचनं गृहयानोत्सुकम् उत्सुकोतुस्कम् / अभिगम्य शिवेन चक्षुषा श्रमणः कश् चिद् उवाच मैत्रया // saund_8.1 //
किम् इदं मुखम् अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः / धृतिम् एहि नियच्छ विक्रियां न हि बाष्पश् च शमश् च शोभते // saund_8.2 //
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च / श्रुतविध्युपचारकोविदा द्विविधा एव तयोश् चिकित्सकाः // saund_8.3 //
तद् इयं यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् / विनिगुह्य हि रोगम् आतुरो नचिरात् तीव्रम् अनर्थम् ऋच्छति // saund_8.4 //
अथ दुःखम् इदं मनोमयं वद वक्ष्यामि यद् अत्र भेषजम् / मनसो हि रजस्तमस्विनो भिषजो ऽध्यात्मविदः परीक्षकाः // saund_8.5 //
निखिलेन च सत्यम् उच्यतां यदि वाच्यं मयि सौम्य मन्यस्ते / गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च // saund_8.6 //
इति तेन स चोदितस् तदा व्यवसायं प्रविवक्षुर् आत्मनः / अवलम्ब्य करे करेण तं प्रविवक्षुर् आत्मनः // saund_8.7 //
अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः / मृदुभिर् मृदुमारुतेरितैर् उपगूधाव् इव बालपल्लवैः // saund_8.8 //
स जगाद ततश् चिकीषितम् घननिश्वासगृहीतम् अन्तरा / श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् // saund_8.9 //
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः / अधृतौ यद् इयं हितैषिता मयि ते स्यात् करुणात्मनः सतः // saund_8.10 //
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि / न हि भावम् इमं चलात्मने कथयेयं ब्रुवते ऽप्य् असाधवे // saund_8.11 //
तद् इदं शृणु मे समासतो न रमे धरविधाव् ऋते प्रियाम् / गिरिसानुषु कामिनीम् ऋते कृतरेता इव किंनरश् चरन् // saund_8.12 //
वनवाससुखात् पराङ्मुखः प्रयियासा गृहम् एव येन मे / न हि शर्म लभे तया विना नृपतिर् हीन इवोत्तमश्रिया // saund_8.13 //
अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः / श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैर् इदम् // saund_8.14 //
कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः / प्रविविक्षति वागुरां मृगश् चपलो गीतरवेण वञ्चितः // saund_8.15 //
विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः / विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयम् एव पञ्जरम् // saund_8.16 //
कलभः करिणा खलूद्धृतो बहुपङ्काद् विषमान् नदीतलात् / जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति // saund_8.17 //
शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेञ बोधितः / तरुणः खलु जातविभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति // saund_8.18 //
महता खलु जातवेदसा ज्वलिताद् उत्पतितो वनद्रुमात् / पुनर् इच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः // saund_8.19 //
अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः / न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः // saund_8.20 //
अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः / अशनं खलु वान्तम् आत्मना कृपञः श्वा पुनर् अत्तुम् इच्छति // saund_8.21 //
इति मन्मथशोककर्षितं तम् अनुध्याय मुहुर् निरीक्ष्य च / श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यम् उवाच विप्रियम् // saund_8.22 //
अविचारयतः शुभाशुभं विषयेष्व् एव निविष्टचेतसः / उपपन्नम् अलब्धचकुसुषो न रतिः श्रेयसि चेद् भवेत् तव // saund_8.23 //
श्रवणे ग्रहणे ऽथ धारणे परमार्थावगमे मनःशमे / अविषक्तमतेश् चलात्मनो न हि धर्मे ऽभिरतिर् विधीयते // saund_8.24 //
विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेर् अमानिनः / शमकर्मसु युक्तचेतसः कृतबुद्धेर् न रतिर् न विद्यते // saund_8.25 //
रमते तृषितो धनश्रिया रमते कामसुखेन् बालिशः / रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया // saund_8.26 //
अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः / सदृशी न गृहाय चेतना प्रणतिर् वायुवशाद् गिरेर् इव // saund_8.27 //
स्पृह्येत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् / उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः // saund_8.28 //
व्यसनाभिहतो यथा विशेत् पर्मुक्तः पुनर् एव बन्धनम् / समुपेत्य वनं तथा पुनर् गृहसंज्ञं मृगयेत बन्धनम् // saund_8.29 //
पुरुषश् च विहाय यः कलिं पुनर् इच्छेत् कलिम् एव सेवितुम् / स विहाय भजेत बालिषः कलिभूताम् अजितेन्द्रियः प्रियाम् // saund_8.30 //
सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः / विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः // saund_8.31 //
प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः / इति दोषभयावहाश् च ताः कथम् अर्हन्ति निषेवनं नु ताः // saund_8.32 //
स्वजनः स्वजनेन भिद्यते सुहृदश् चापि सुहृज्जनेन यत् / परदोषविक्षणाः शठास् तदनार्याः प्रचरन्ति योषितः // saund_8.33 //
कुलजाः कृपणीभवन्ति यद् यद् अयुक्तं प्रचरन्ति साहसम् / प्रविशन्ति च यच् चमूमुखं रभसास् तत्र निमित्तम् अङ्गनाः // saund_8.34 //
वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा / मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् // saund_8.35 //
प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते / कुपितो भुजगो ऽपि गृह्यते प्रदानां तु मनो न गृह्यते // saund_8.36 //
न वपुर् विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् / प्रहरन्त्य् अविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव // saund_8.37 //
न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् / कलिता वनितैव चञ्चला तद् इहारिष्व् इव नावलम्ब्यते // saund_8.38 //
अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् / प्रणतेषु भवन्ति गर्विताः प्रमदास् तृप्ततराश् च मानिषु // saund_8.39 //
गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् / धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्य् अवज्ञया // saund_8.40 //
विषयाद् विषयान्तरं गता प्रचरत्य् एव यथा हृतापि गौः / अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना // saund_8.41 //
प्रविशन्त्य् अपि हि स्त्रियश् चिताम् अनुभध्नन्त्य् अपि मुक्तजीव्ताः / अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदम् // saund_8.42 //
रमयन्ति पतीन् कथं चन प्रमदा याः पतिदेवताः क्व चित् / चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वन् एव ताः // saund_8.43 //
श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती / मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिर् न विद्यते // saund_8.44 //
कुरुहैहयवृष्णिवंशजा बहुमायाकवचो ऽथ शम्बरः / मुनिर् उग्रतपाश् च गौतमः समवापुर् वनितोद्धतं रजः // saund_8.45 //
अकृतज्ञम् अनार्यम् अस्थिरं वनितानाम् इद ईदृशं मनः / कथम् अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु // saund_8.46 //
अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि / किमु कायम् असद्गृहं स्रवद् वैन्तानाम् अशुचिं न पश्यसि // saund_8.47 //
अनुलेपनम् अञ्जनं स्रजो मणिमुक्तातपनीयम् अंशुकम् / यद् अहन्य् अहनि प्रधावनैर् वसनैश् चाभरणैश् च संस्कृतम् / अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि // saund_8.48 //
अथ वा समवैषि तत्तनूम् अशुभां त्वं न तु संविद् अस्ति ते / सुरभिं विदधासि हि क्रियाम् अशुचेस् तत्प्रभवस्य शान्तये // saund_8.49 //
मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः / यदि साधु किम् अत्र योषितां सहजं तासु विचीयतां शुचि // saund_8.50 //
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः / यदि सा तव सुन्दरी भवेन् नियतं ते ऽद्य न सुन्दरी भवेत् // saund_8.51 //
स्रवतीम् अशुचिं स्पृशेच् च कः सघुणो जर्जरभाण्डवत् स्त्रियम् / यदि केवलया त्वचावृता न भवेन् मक्षिकपत्त्रमात्रया // saund_8.52 //
त्वचवेष्ठितम् अस्तिपञ्जरं यदि कायं समवैषि योषिताम् / मदनेन च कृष्यसे बलाद् अघृणः कायं सम्वैषि योषिताम् // saund_8.53 //
शुभताम् अशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु / अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् // saund_8.54 //
तद् अवेत्य मनःशरीरयोर् वनिता दोषवतीर् विशेषतः / चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् // saund_8.55 //
श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् / उपगम्य यथा तथा पुनर् न हि बेह्त्तुं नियमं त्वम् अर्हसि // saund_8.56 //
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानम् इच्छतः / निधनम् अपि वरं स्थिरात्मनश् च्युतविनयस्य न चैव जीवितम् // saund_8.57 //
बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्य् अपसृतः समराद् रथस्थः / भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस् तथा भवति कामर्हृतेन्द्रियाश्वः // saund_8.58 //
हास्यो यथा च परमाभरणाम्बरस्रग् भैक्षं चरन् धृतधनुश् चलचित्रमौलिः / वैरूप्यम् अभ्युपगतः परैण्डभोजी हास्यस् तथा गृहसुखाभिमुखः सतृष्णः // saund_8.59 //
यथा स्वन्नं भुक्त्वा परमश्यनीये ऽपि शयितो वराहो निर्मुक्तः पुनर् अशुचि धावेत् परिचितम् / तथा श्रेयः शृण्वन् प्रशमसुखम् आस्वाद्य गुणवद् वनं शान्तं हित्वा गृहम् अभिलषेत् कामतृषितः // saund_8.60 //
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः / यथा हन्ति व्याघ्रः शिशुर् अपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधम् अनर्थाय भवति // saund_8.61 //
तद् विज्ञाय मनःशरीरनियतान् नारिषु दोषान् इमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च / दृष्ट्वा दुर्बलम् आमपत्रसदृशं मृत्यूपसृष्टं जगन् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुं नार्हसि // saund_8.62 //
सुन्दरनन्दे महाकाव्ये स्त्रीविघातो नामाष्टमः सर्गः /
canto ix
अथैवम् उक्तो ऽपि स तेन भिषुणा जगाम नैवोपशमं प्रियां प्रति / तथा हि ताम् एव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः // saund_9.1 //
यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्नाति मुमूर्षुर् आतुरः / तथैव मत्तो बलरूपयौवनैर् हितं न जग्राध स तस्य तद्वचः // saund_9.2 //
न चात्र चित्रं यदि रागपाप्मना मनो ऽभिभूयेत तमोवृतामनः / नरस्य पाप्मा हि तदा निवर्तते यदा भवत्य् अन्तगतं तमस् तनु // saund_9.3 //
ततस् तथाक्षिप्तम् अवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च / गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शन्तये // saund_9.4 //
बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि / अहं इव् इदं ते त्रयम् अव्यवस्तितं यथावबुद्धो न तथावबुध्यसे // saund_9.5 //
इदं हि रोगायतनं जरावशं नदीतटानोकहवच् चलाचलम् / न वेत्सि देहं जलफेनदुर्बलं बलस्थताम् आत्मनि येन मन्यसे // saund_9.6 //
यदान्नपानासनयानकर्मणाम् असेवनाद् अप्य् अतिसेवनाद् अपि / शरीरम् आसन्नविपत्ति दृश्यते बले ऽभिमानस् तव केन हेतुना // saund_9.7 //
हिमातपव्याधिजराक्षुदादिभिर् यदाप्य् अनर्थैर् उपमीयते जगत् / जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे // saund_9.8 //
त्वगस्थिमांसक्षतजात्मकं यद शरीरम् आहारवशेन तिष्ठति / अजस्रम् आर्तं सततप्रतिक्रियं बलान्वितो ऽस्मीति कथं विहन्यसे // saund_9.9 //
यथा घटं मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् / समुच्छ्रयं तद्वद् असारम् उद्वहन् बलं व्यवस्येद् विषयार्थम् उद्यतः // saund_9.10 //
शरिरम् आमाद् अपि मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् / चित्रं हि तिष्ठेद् विधिवद्धृतो घटाद् इदं नु निःसारत्मं मतं मम // saund_9.11 //
यदाम्बुभूवाय्वनलाश् च धातवः सदा विरुद्धा विषमा इवोरगाः / भवन्त्य् अनर्थाय शरीरम् आश्रिताः कथं बलं रोगविधो व्यवस्यसि // saund_9.12 //
प्रायन्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास् तु भवन्ति धातवः / क्व चिच् च किं चिच् च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः // saund_9.13 //
इदं हि शय्यासनपानभोजनैर् गुणैः शरिरं चिरम् अप्य् अवेक्षितम् / न मर्षयत्य् एकम् अपि व्य्तिक्रमं यतो महाशिविषवत् प्रकुप्यति // saund_9.14 //
यदा हिमार्तो ज्वलनं निषेवते हिमं निदाघाभिहतो ऽभिकाङ्क्षति / क्षुधानिव्तो ऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च // saund_9.15 //
तद् एवम् अज्ञाय शरीरम् आतुरं बलान्वितो ऽस्मीति न मन्तुम् अर्हसि / असारम् अस्वन्तम् अनिश्चितं जगज् जगत्य् अनित्ये बलम् अव्यवस्थितम् // saund_9.16 //
क्व कार्तवीर्यस्य बलाभिमानिनः स्हस्रबाहोर् बलम् अर्जुनस्य तत् / चकर्त बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्य् अशनिर् गिरेर् इव // saund_9.17 //
क्व तद्बलं कंसविकर्षिणो हरेस् तुरङ्गराजस्य पुटावभेदिनः / यम् एकबाणेन निजघिन्वान् जराः क्रमागता रूपम् इवोत्तमं जरा // saund_9.18 //
दितेः सुतस्यामररोषकारिणश् चमूरुचेर् वा नमुचेः क्व तद्बलम् / यम् आहवे क्रुद्धम् इवान्तकं स्थितं जघान फेनावयवेन वासवः // saund_9.19 //
बलं कुरूणां क्व च तत् तदाभवद् युधि ज्वलित्वा तरसौजसा च ये / समित्सम्मिधा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः // saund_9.20 //
अतो विदित्वा बल्वीर्यमानिनां बलान्वितानाम् अवमर्दितं बलम् / जगज् जरामृत्युवशं विचारयन् बले ऽभिमानं न विधातुम् अर्हसि // saund_9.21 //
बलं महद् वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावद् इन्द्रियैः / जयश् च ते ऽत्रास्ति महच् च ते बलं पराजयश् चेद् वितथं च ते बलम् // saund_9.22 // तथा मता वीरतरा मनीषिणो जयन्ति लोहानि षशिन्द्रियाणि ये // saund_9.23 // अहं वपुष्मान् इति यच् च मन्यसे विचक्षणं नैतद् इदं च गृह्यताम् / क्व तद् वपुः सा च वपुष्मती तनुर् गदस्य साम्यस्य च सारणस्य च // saund_9.24 //
यथा मयूरश् चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः / शरीरसंस्कारगुणाद् ऋते तथा बिभर्षि रूपं यदि रूपवान् असि // saund_9.25 //
यदि प्रतीपं वृणुयान् न वाससा न शौचकाले यदि संस्पृशेद् अपः / मृजाविशेषं यदि नाददीत वा वपुर् वपुष्मन् वद कीदृशं भवेत् // saund_9.26 //
नवं वयश् चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः / नियच्छ तच् छैलनदीरयोपमं द्रुतं हि गच्छत्य् अन्विरति यौवनम् // saund_9.27 //
ऋतुर् व्यतीतः परिवर्तते पुनः क्षयङ् प्रयातः पुनर् एति चन्द्रमाः / गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् // saund_9.28 //
विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् / यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि // saund_9.29 //
निषेव्य पानं मदनीयम् उत्तमं निशाविवासेषु चिराद् विमाद्यति / नरस् तु मत्तो बलरूपयौवनैर् न कश् चिद् अप्राप्य जरां विमाद्यति // saund_9.30 //
यथेक्षुर् अत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते / तथा जरायन्त्रनिईडिता तनुर् निपीतसारा मरणाय तिष्ठति // saund_9.31 //
यथा हि नृभ्यां करपत्त्रम् ईरितं समुच्छ्रितं दारु भिनत्त्य् अनेकधा / तथोच्छ्रितां पातयति प्रजाम् इमाम् अहर्निशाभ्याम् उपसंहिता जरा // saund_9.32 //
स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः / श्रमस्य योनिर् बल्वीर्ययोर् वधो जरासमो नास्ति शरीरिणां रिपुः // saund_9.33 //
इदं विदित्वा निधनस्य दैशिकं जराभिदहानं जगतो महद्भयम् / अहं वपुष्मान् बलवान् युवेति वा न मानम् आरोढुम् अनार्यम् अर्हसि // saund_9.34 //
अहं ममेत्य् एव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः / तम् उत्सृजैवं यदि शाम्यता भवेद् भयं ह्य् अहं चेति ममेति चार्छति // saund_9.35 //
यदा शरीरे न वशो ऽस्ति कस्य चिन् निरस्यमाने विविधैर् उपप्लवैः / कथं क्षमं वेत्तुम् अहं ममेति वा शरीरसंज्ञं गृहम् आपदाम् इदम् // saund_9.36 //
सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृते ऽबले / स दुष्टधाताव् अशुचौ चलाचले रमेत काये विपरीत्दर्शनः // saund_9.37 //
यथा प्ररोहन्ति तृणान्य् अयत्नतः क्षितौ प्रयत्नात् तु भव्न्ति शालयः / तथैव दुःखानि तृञान्य् अयत्नतः क्षितौ प्र्यत्नात् तु भवन्ति वा न वा // saund_9.39 //
शरीरम् आर्तं परिकर्षतश् चलं न चास्ति किं चित् परमार्थतः सुखम् / सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यस्वस्यति // saund_9.40 //
यथानपेक्ष्याग्र्यम् अपीसितं सुखं प्रबाधते दुःखम् उपेतम् अण्व् अपि / तथानपेक्ष्यात्मनि दुःखम् आगतं न विद्यते किं चन कस्य चित् सुखम् // saund_9.41 //
शरीरम् ईदृग्भहुदुःखम् अध्रुवं फलानुरोधाह् अथ नावगच्छसि / द्रवत् फलेभ्यो धृतिरश्मिभिर् मनो निगृह्यतां गौर् इव शस्यलालसा // saund_9.42 //
न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोर् इव / यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते // saund_9.43 //
यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान् नैव शमं निगच्छति / तथेन्द्रियार्थेष्व् अजितेन्द्रियश् चरन् न कामभोगैर् उपशान्तिम् ऋच्छति // saund_9.44 //
यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान् न भजेत तत्क्षमम् / तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया // saund_9.45 //
अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा / अनर्थमूला विषयाश् च केवला ननु प्रहेया विषमा यथारयः // saund_9.46 //
इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् / परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्य चिच् छिवाः // saund_9.47 //
यथोपयुक्तं रसवर्णगन्धवद् वधाय किंपाकफलं न पुष्टये / निषेव्यमाणा विषयाश् चलात्मनो भवन्त्य् अनर्थाय तथा न भूतये // saund_9.48 //
तत् एतद् आज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितम् / जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयम् उद्गिरन् गिरम् // saund_9.49 //
इति हितम् अपि बह्व् अपीदम् उक्तः श्रुतमहता श्रमणेन तेन नन्दः / न धृतिम् उपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः // saund_9.50 //
नन्दस्य भावम् अवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे / सत्त्वाशयानुशयभावपर्क्षकाय बुद्धाय तत्त्वदिउषे कथयां चकार // saund_9.51 //
सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः /
canto x
श्रुत्वा ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् / नन्दं निरानन्दम् अपेतधैर्यम् अभ्युज्जिहीर्षुर् मुनिर् आजुहाव // saund_10.1 //
तं प्राप्तम् अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः / स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय // saund_10.2 //
नन्दं विदित्वा सुगतस् ततस् तं भार्याभिधाने तमसि भ्रमन्तम् / पाणौ गृहीत्वा वियद् उत्पपात मणिं जले साधुर् इवोज्जिहीर्षुः // saund_10.3 //
काषायवस्त्रौ कनकावदातौ विरेजतुस् तौ नभसि प्रसन्ने / अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाव् इव चक्रवाकौ // saund_10.4 //
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् / आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तम् आशु // saund_10.5 //
तस्मिन् गिरौ चारञसिद्धजुष्टे शिवे हविर् धूमकृत्तोत्तरीये / आगम्य पारस्य निराश्रयस्य तौ तस्थतुर् द्वीप इवाम्बरस्य // saund_10.6 //
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः / दरीश् च कुञ्जांश् च वनौकसश् च विभूषणं रक्षणम् एव चाद्रेः // saund_10.7 //
बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः / भुजे बलस्यायतपीनबाहोर् वैडूर्यकेयूर इवाबभासे // saund_10.8 //
मनःशिलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः / संतप्तचामीकरभक्त्चित्रं रूप्याङ्गदं शीर्णम् इवाम्बिकस्य // saund_10.9 //
व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः / बभौ गिरेः प्रस्रवणं पिपासुर् दित्सन् पितृभ्यो ऽम्भ इवावतिर्णः // saund_10.10 //
चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे / छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिम् इवार्यवृत्तः // saund_10.11 //
सुवर्णगौराश् च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः / सार्दूलपातप्रतिमा गुहाभयो निशेप्तुर् उद्गार इवाचलस्य // saund_10.12 //
दरीचरीणाम् अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणाम् / वृद्न्दानि रेजुर् दिशि किंनरीणां पुष्पोत्कचानाम् इव वल्लरीणाम् // saund_10.13 //
नगान् नगस्योपरि देवदारून् आयासयन्तः कपयो विचेरुः / तेभ्यः फलं नापुरतो ऽपजग्मुर् मोघप्रसादेभ्य इवेश्वरेभ्यः // saund_10.14 //
तस्मात् तु यूथाद् अपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्राम् / शाखामृगीम् एकविपन्नदृष्टिं दृष्ट्वा मुनिर् नन्दम् इदं बभाषे // saund_10.15 //
का नन्द रूपेण च चेष्टया च संपश्यतश् चारुतरा मता ते / एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः // saund_10.16 //
इत्य् एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिद् इदं जगाद / क्व चोत्तमस्त्री भगवन् बधूस् ते मृगि नगक्लेश्करी क्व चैषा // saund_10.17 //
ततो मुनिस् तस्य निशम्य वाक्यं हेत्वन्तरं किं चिद् अवेक्षमाणः / आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः // saund_10.18 //
ऋताव् र्ताव् आकृतिम् एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः / चित्रां समस्ताम् अपि के चिद् अन्ये षण्णाम् ऋतूनां श्रियम् उद्वहन्ति // saund_10.19 //
पुष्यन्ति के चित् सुरभीर् उदारा मालाः स्रजश् च ग्रथिता विचित्राः / कर्णानुकूलान् अवतंसकांष् च प्रत्यर्थिभूतान् इव कुण्डलानाम् // saund_10.20 //
रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा / प्रफुल्लनीलोत्पलरोहिणो ऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा // saund_10.21 //
नानाविरागाण्य् अथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि / अतान्तवान्य् एकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा // saund_10.22 / हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याण्य् अथ नूपुराणि / एवंविधान्य् आभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः // saund_10.23 //
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि / स्पर्शक्षमाण्य् उत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः // saund_10.24 //
यत्रायतांश् चैव ततांश् च तांस् तान् वाद्यस्य हेतून् सुषिरान् घनांश् च / फलन्ति वृक्षा मणिहेमचित्राः क्रीडासहायास् त्रिदशालयानाम् // saund_10.25 //
मन्दारवृक्षांश् च कुशेशयांश् च पुष्पानतान् कोकनदांश् च वृक्षान् / आक्रम्य माहात्म्यगुणैर् विराजन् राजायते यत्र स पारिजातः // saund_10.26 //
कृष्टे तपःषीलहलैर् अखिन्नैस् त्रिपिष्टपक्षेत्रतले प्रसूताः / एवंविधा यत्र सआनुवृत्ता दिवौकसां भोगविधानवृक्षाः // saund_10.27 //
मनःशिलाभैर् वदनैर् विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश् च / शावैश् च पक्षैर् अभिलोहितान्तैर् माञ्जिष्ठकैर् अर्धसितैश् च पादैः // saund_10.28 //
चित्रैः सुवर्णच्छदनैस् तथान्ये वैडुर्यवर्णाभिर् नयनैः प्रसन्नैः / विहङ्गमा शिञ्जिरिकाभिधाना रुतैर् मनःश्रोतहरैर् भ्रमन्ति // saund_10.29 //
रक्ताभिर् अग्रेषु च वल्लरीभिर् मध्येषु चामीकरपिञ्जराभिः / वैडूर्यवर्णाभिर् उपान्तमध्येष्व् अलङ्कृता यत्र खगाश् चरन्ति // saund_10.30 //
रोचिष्णवो नाम पत्रत्रिणो ऽन्ये दीप्ताग्निवर्णा ज्वलितैर् इवास्यैः / भ्रमन्ति दृष्टीर् वपुषाक्षिपन्तः स्वनैः शुभैर् अप्सरसो हरन्तः // saund_10.31 //
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः / स्वैः कर्मभिर् हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते // saund_10.32 //
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां / मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः // saund_10.33 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
