Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
- Thông tin
- GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वीर्यम् आरप्स्यध्वे. ताम्न् युष्माकन् उपसंहरिष्यामि, तत्र ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्योपकरणैर् वीर्यम् आरभन्ते. कायिकं वा चैतसिकं वा, तेन कायिकेन चैतसिकेन वीर्येण सर्वकुशलधर्मान् परिपूरयन्ति. यैः कुशलैर् धर्मैः आर्यान् अनास्रवान् धर्मान् भावयन्ति. यान् भावयन्तः स्रोतआपत्तिफलं वा प्राप्नुवन्ति सकृदागामिफलं वा अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति. अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा वीर्यपारमितायां सत्त्वान् संगृह्णाति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् नियोजयति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वान् विक्षिप्तचित्तान् दृष्ट्वा एवम् अववदति. किम् इति भोः सत्त्वा ध्यानानि न समापद्यध्वे. त एवं ब्रूवन्ति. प्रत्ययवैकल्येन, तान् एतां बोधिसत्त्वो महासत्त्वो एवं ब्रविति. अहं भोः सत्त्वास् तान् प्रत्ययान् उपसंहरिष्ये. यैः प्रत्ययैर् न वितर्कयिष्यथ. अध्यात्मं वा बहिर्धा वा. तत्र बोधिसत्त्वो महासत्त्वस् तेषां सत्त्वानांस् तान् प्रत्ययान् उपसंहरति. यैः प्रत्ययैर् उपसंहृतैर् न वितर्कयन्ति. ते च सत्त्वा वितर्कैश् च्छिन्नैः प्रथमं ध्यानं समापद्यन्ते. द्वितीयं तृतीयं चतुर्थं ध्यानं समापद्यन्ते. मैत्रीं [f. 295a] समापद्यन्ते करुणां मुदिताम् उपेक्षां समापद्यन्ते. ते तैर् ध्यानैर् यावद् आर्याष्टाङ्गमार्गं भावयन्ति. यं (अद्स्प्ग् इइ 96) भावयन्तो ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति. तत्रापरे बोधिमार्गान् न परिहीयन्ते. यावद् अनुत्तरा सम्यक्संबोधिः. एवं खलु सुभूते बोधिसत्त्वो
महासत्त्वो दानपारमितायां स्थित्वा समाधिपारमितायां सत्त्वान् संगृह्णाति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् प्रज्ञापारमितायांसत्त्वान् संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् एवं ब्रवीति. किम् इदं भोः सत्त्वा यूयं न प्रज्ञापारमितां भावयत? त एवं ब्रूवन्ति, प्रत्ययवैकल्येन. तत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् एवम् अववदति. ममान्तिकाद् उपकरणानि परिगृह्णीत. ममान्तिकाद् उपकरणानि परिगृह्य दानानि ददध्वं शीलं रक्षतः क्षान्तिं भावयत वीर्यम् आरभध्वं समाधिं समापद्यध्वं. तत्रैमान् आकारान् परिपूर्य एवं मीमांसध्वम् अस्ति कश्चिद् धर्मो यः प्रज्ञापारमितायां भाष्यमानायाम् उपलभ्यते. आत्मा वा सत्त्वो वा यावत् कारको वा कारपको वा रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा सर्वपारमिता सप्ततृंशद् वा बोधिपक्ष्या धर्माः स्रोतआपत्तिफलं वा. सकृदागामिफलं वा. अनागामिफलं वा अर्हत्त्वं वा. प्रत्येकबोधिर् वा. यावद् अनुत्तरा सम्यक्संबोधिः. तत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कंचिद् धर्मम् उपलभते. यम् उपलभ्य अभिनिविशेत, सो ऽनभिनिविशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यति. सो ऽनुपलभमानो न विकल्पयति अयं नैरयिको वा तैर्यग्योनिको वा यामलौकिको वा अयम् असुरकायिको वा देवो वा मनुष्यो वा अयं शीलवान् दुःशीलो वा अयं स्रोतआपन्नो ऽयं सकृदागामी अयम् अनागामी अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते
बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् प्रज्ञापारमिताया संगृह्णाति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां स्थित्वा यावत् सप्ततृंशतं बोधिपक्ष्यान् धर्मान् परिगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वानाम् उपकरणान्य् उपनामयति. यैर् उपकरणैर् परिगृहीता सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति. चत्वारि सम्यक्प्रहाणानि. चत्वारर्द्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि. सप्तबोध्यङ्गान्य् आर्याष्टाङ्गं मार्गं (अद्स्प्ग् इइ 97) भावयन्ति. येन मार्गेण परिगृहीता संसारां मुच्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व सत्त्वान् आर्यैर् अनास्रवैर् धर्मैः संगृह्णाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् अनर्थान् दुःखितान् अशनवसनविप्रहीणान् दृष्ट्वा एवं परिपाचयति. एत यूयं कुलपुत्रा ममान्तिकाद् अन्नं वा पानं वा यानं वा वस्त्रं वा माल्यगन्धविलेपनशय्यासनग्लानप्रत्ययभैषय्जपरिष्कारान् गृहीतः, यावत् सप्तभिर् रत्नै. सत्त्वान् अनुगृह्णीत, तद् युष्माकं भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय, मा च एवं चिन्तयत, अस्यै सो ऽर्थो नास्माकम् इति. दीर्घरात्रम् एषो ऽर्थो मया सत्त्वानां कृते. अर्जित. तद् यूयम् आत्मीयम् एव चिन्तयित्वा [f. 295b] सत्त्वेभ्यो ददत. तेन च दानेन शीले नियोजयति क्षान्तौ वीर्ये समाधौ प्रज्ञायां नियोजयति यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु नियोजयति त्रिषु विमोक्षमुखेषु यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु नियोजयति. मा च तावता तुष्टिम् आपद्यध्वं. उत्तरि
वा आर्यानास्रवेषु धर्मेषु प्रतिष्ठापयतः. स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबोधौ ऽनुत्तरस्यां सम्यक्संबोधौ. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्या. यथा परिपाच्यमानास् त्रिभ्योपायेभ्यः परिमुच्यन्ते. यावत् संसारात् परिमुच्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां स्थित्वा एवं सत्त्वाः परिपाचयितव्या, येन प्रत्ययवैकल्येन दौःशील्यम् आपद्यध्वं. तां प्रत्ययान् युष्माकम् उपसंहरिष्यामि. अन्नं वा पानं वा यावद् अन्यतरान्यतरान् मानुष्यकां परिष्कारान्, स तान् सत्त्वांच् छीलपारमितायां स्थित्वा तथारूपेण अनुग्रहेण अनुगृह्णाति. यथारूपेण अनुग्रहेण अनुगृहीता (अद्स्प्ग् इइ 98) सत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तन्ते. तान् अखण्डशीलान् यावद् अपरामृष्टशीलान् संवरशीले प्रतिष्ठाप्य, यावन् षट्सु पारमितासु कर्तव्यं. ((76))
परिवर्त 77.
अथ आयुष्ंअत सुभूतेर् एतद् अभूत्: कतमः स बोधिसत्त्वस्य महासत्त्वस्य मार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अयम् ईदृशः सन्नाहः सन्नद्धव्यः?
अथ खलु भगवान् आयुष्मतः सुभूतेश् चेतसैव चेतः पङ्वितर्कम् आज्ञाय आयुष्मन्तं सुभूतिम् एतद् अवोचत्: षट्पारमिता सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, सप्ततृंशद् बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य मार्गः त्रीणि विमोक्षमुखानि चतुर्दशशून्यता अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो दशतथागतबलानि. यावद् अष्टादशावेणिका बुद्धधर्मा, अपि तु खलु सुभूते सर्वधर्मा बोधिसत्त्वस्य महासत्त्वस्य मार्गः. तत् किं मन्यसे सुभूते अस्ति कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं, यत्र शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत? नास्ति सुभूते कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं. अशिक्षित्वा बोधिसत्त्वो महासत्त्वो न शक्तः सराकारज्ञाताम् अनुप्राप्तुं.
आह: यदि भगवं सर्वधर्मा शून्या. कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षते? न नु भगवन्न् अप्रपंच्यं प्रपंचयेति. इयन्त इति वा इम इति वा, इमे धर्मा लौकिका इमे लोकोत्तरा. एवं सास्रवा वा अनास्रवा वा. संस्कृता वा असंस्कृता वा. पृथग्जनधर्मा वा यावद् अर्हन्धर्मा वा प्रत्येकबुद्धधर्मा वा बुद्धधर्मा वा.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्माः शून्याः. यदि पुनः सुभूते सर्वधर्माः शून्या न अभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत: यस्मात् तर्हि सुभूते सर्वधर्माः शून्यास् तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अपि तु खलु सुभूते तद् एवं वदसि: यदि सर्वधर्माः शून्याः कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति. इयन्त इति वा इम इति वा यावत् पृथग्जनधर्मा वा यावद् अर्हद्धर्मा वा. प्रत्येकबुद्धधर्मा वा. (अद्स्प्ग् इइ 99) बुद्धधर्मा वा. इति. तत् कच्चित् पुनः सुभूते एते सत्त्वा एवं जानंति सर्वधर्माः शून्या इति. यदि जानीयुर् नै [f. 296a] व बोधिसत्त्वो महासत्त्वो सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्. यस्मात् तर्हि सुभूते एते सत्त्वा न जानन्ति सर्वधर्माः शून्या इति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वधर्मव्यवस्थानं कृत्वा सत्त्वानान् धर्मं देशयति.
(viii 5,13) तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमत एव एवम् उपपरीक्षितव्यं. न अत्र कश्चिद् धर्मः स्वभावेन उपलभ्यते. अन्यत्र अभिसंस्कारात्. तत्र एवं सर्वधर्माणां स्वभावम् उपपरीक्षेत. उपपरीक्ष्य न क्वचिद् अभिनिविशते. यदि वा पारमितासु यदि वा सप्ततृंशति बोधिपक्ष्येषु धर्मेषु यदि वा स्रोतआपत्तिफले. यदि वा सकृदागामिफले यदि वा अनागामिफले यदि वा अर्हत्त्वे यदि वा प्रत्येकबोधौ यदि वा अनुत्तरस्यां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या, न हि शून्यताया शून्यतायाम् अभिनिविशते. शून्यतैव तावन् नोपलभते. प्राग् एव यः शून्यतायाम् अभिनिवेक्ष्यते. एवं हि बोधिसत्त्वो महासत्त्वः अनभिनिविष्टः सर्वधर्मेषु विहरति. यत्र शिक्षायां स्थित्वा सर्वाश् चर्या अवलोकयति क्वेमे सत्त्वाश् चरंति असद्ग्राहे, तत्र बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोच्या वतेमे सत्त्वा असद्ग्राहाद् इति. ततोपायकौशलेन प्रज्ञापारमितायां स्थित्वा एवम् अववदति. एत यूयं भोः सत्त्वा दानं ददध्वं. तद् युष्माकम् अवैकल्यं भविष्यति. भोगैः, तैश् च भोगैर् मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. एवं शीले अववदति. एत यूयं भोः सत्त्वाः शीलं रक्षत. तेन च शीलेन मा मंस्यध्वे. न तत्र किंचित् सारम् अस्ति. एवं क्षान्तौ वीर्ये समाधाव् अववदति एत यूयं भोः सत्त्वा समाधिं समापद्यध्वं. तेन समाधिना मा मंस्यध्वे, न तत्र किनिचित् सारम् अस्ति. एवं प्रज्ञायाम् अववदति. एत (अद्स्प्ग् इइ 100) भोः सत्त्वाः प्रज्ञां भावयतः, तया च प्रज्ञया मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. एवं
स्रोतआपत्तिफले एवं सकृदागामिफले एवम् अनागामिफले एवम् अर्हत्त्वे एवं प्रत्येकबोधौ एवं बुद्धधर्मेष्व् अववदति. एत यूयं भोः सत्त्वाः बुद्धधर्मां भावयतः, तैश् च बुद्धधर्मैर् मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. स एवम् एव अववदन्न् एवम् अनुशासन् बोधिसत्त्वमार्गे चरति. न च क्वचित् अभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टा हि सर्वधर्मा, तथा ह्य् एषां स्वभावो नास्ति येन अभिनिविश्येत. शून्यतास्वभावताम् उपादाय: तत्र सुभूते बोधिसत्त्वो महासत्त्वो बोधिमार्गे चरन् न क्वचित् प्रतितिष्ठति. सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति. न च तत्र प्रतितिष्ठति. शीलपारमितायां चरति न च तत्र प्रतितिष्ठति. क्षान्तिपारमितायां चरति न च तत्र प्रतितिष्ठति. वीर्यपारमितायां चरति न च तत्र प्रतितिष्ठति. ध्यानपारमितायां चरति न च तत्र प्रतितिष्ठति. प्रज्ञापारमितायां चरति न च तत्र प्रतितिष्ठति. स प्रथमं ध्यानं समापद्यते न च तत्र प्रतितिष्ठति. तत् कस्य हेतोः? तथा हि प्रथमं ध्यानं ध्यानेन शून्यं यो ऽपि समापद्येत सो ऽपि शून्यः यैर् अप्य् आकारैः समापद्यते. ते ऽप्य् आकारा शून्या. एवं द्वितीयम् [f. 296b] तृतीयं चतुर्थम् एवं मैत्रिं करुणां मुदिताम् उपेक्साम् आरूप्यसमापत्तीम् अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीं स्रोतआपत्तिफलं प्रतिलभते. न च तत्र प्रतितिष्ठति. सकृदागामिफलं प्रतिलभते. न च तत्र प्रतितिष्ठति. अनागामिफलं प्रतिलभते न च तत्र प्रतितिष्ठति. अर्हत्त्वं प्रतिलभते न च तत्र प्रतितिष्ठति. प्रत्येकबोधिं प्रतिलभते. न च तत्र प्रतितिष्ठति.
आह: केन कारणेन न प्रतितिष्ठति?
भगवान् आह: द्वाभ्यां कारणाभ्यां न प्रतितिष्ठति. कतमाभ्यां द्वाभ्यां? स्वभावश् च तेषां फलानां नास्ति यत्र प्रतितिष्ठेत्. येन वा प्रतितिष्ठेत्. यो वा प्रतितिष्ठेत्. न च तन्मात्रकेण तुष्टिम् आपद्यते. न मया स्रोतआपत्तिफलं न प्राप्तव्यं. न च तत्र स्थातव्यं. यावन् न मया अर्हत्त्वं न प्राप्तव्यं. न च तत्र स्थातव्यं. न मया प्रत्येकबुद्धभूमिर् न प्राप्तव्या, न च तत्र स्थातव्यं. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये. तत् कस्य हेतोः? तथा हि मया प्रथमचित्तोत्पादम् उपादाय नान्यं चित्तं प्रतिलब्धम् अन्यत्र अनुत्तरस्या सम्यक्संबोधेः. तत् कस्य (अद्स्प्ग् इइ 101) हेतोः? तथा हि मया प्रथमम् भूमिम् उपादाय न अन्यं चित्तम् उत्पादितम् अन्यत्र अनुत्तरस्या सम्यक्संबोधेः. एवं यावद् दशमी भूमिर् यावद् बोधिसत्त्वन्यामम् अवक्रान्तः न अन्यः कश्चि चित्तोत्पाद उत्पादितो ऽन्यत्र अनुत्तरस्याः सम्यक्संबोधेः. अविक्षिप्तमनसा, सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन पराक्रमते. वाचा मनसा नान्यत्र बोधिचित्तेन, तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वा अविक्षिप्तम. नसा बोधिमार्गम् उत्पादयति.
आह: यदि भगवं सर्वधर्मा अनुत्पन्नास् तत् कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्मा अनुत्पन्ना, तत् पुनः कथम् इति. ये ऽनाभिसंस्कुर्वन्ति तेषां सर्वधर्मा अनुत्पन्नाः?
आह: न नु पुनर् भगवन्न् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणान् धर्मस्थिति?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणान् धर्मस्थितिः, ये पुनर् इमां धर्मस्थितिं न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति. येन बोधिसत्त्वमार्गेण सत्त्वान् मोचयति संसारात्.
(viii 5,14) आह: किं पुनर् भगवन्न् उत्पन्नेन मार्गेण बोधिः प्राप्यते?
भगवान् आह: नो हीति.
आह: तद् अनुत्पन्नेन मार्गेण बोधिः प्राप्यते?
भगवान् आह: नो हीति.
आह: तद् उत्पन्नेन अनुत्पन्नेन च मार्गेण बोधिः प्राप्यते?
भगवान् आह: नो हीति.
आह: तन् नैवोत्पन्नेन नैवानुत्पन्नेन मार्गेण बोधिः प्राप्यते?
भगवान् आह: नो हीति.
आह: तत् कथं पुनर् भगवं. बोधिः प्राप्यते.
भगवान् आह: न सुभूते मार्गेण बोधिः प्राप्यते. न अमार्गेण. बोधिर् एव मार्गो मार्ग एव बोधिः.
आह: यदि भगवं बोधिर् एव मार्गो मार्ग एव बोधिः, तत् प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिः, तत् कथं तथागतो ऽर्हन् सम्यक्संबुद्धो निर्दिश्यते. द्वातृंशता महापुरुषलक्षणैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः?
भगवान् आह: [f. 297a] तत् किं मन्यसे सुभूते बुद्धो बोधिं प्राप्नोति?
आह: नो हीदं भगवं, न बुद्धो बोधिं प्राप्नोति. बुद्ध एव बोधिर् बोधिर् एव बुद्धः.
भगवान् आह: यत् पुनः सुभूतिर् एवम् आह. तत् प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिर् इति. इह सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमितां परिपूर्य सप्ततृंशतं बोधिपक्ष्यां धर्मान् परिपूर्य दशतथागतबलानि. चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो: महामैत्रीं महाकरुणाम् अष्टादशावेणिकां बुद्धधर्मान् परिपूर्य वज्रोपमेन समाधिना एकचित्तक्षणसमायुक्तया प्रज्नया अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः तदा तथागत इति निर्दिश्यते. सर्वदर्शी सर्वधर्मवशवर्ती.
(viii 5,15) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय. कायदौष्टुल्यं वाग्दौष्टुल्यं मनोदौष्टुल्यम् आत्मनश् च परस्य च परिशोधयति. यैः परिशुद्धैर् बुद्धक्षेत्रं परिशोधयति.
आह: कतमद् भगवन् कायदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य, कतमद् वाग्दौष्टुल्यं कतमो मनोदौष्टुल्यं?
भगवान् आह: यत् कायकर्माकुशलं प्राणातिपातः आदत्तदानं काममिथ्याचारः इदं कायदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् वाक्कर्माकुशलं मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापः, इदं वाग्दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यन् मनस्कर्माकुशले अभिध्या व्यापदो मिथ्यादृष्टि इदं मनोदौष्टुल्यं (अद्स्प्ग् इइ 103) बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यन् मत्सर्यचित्तम् इदं मनोदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य, यद् दौशील्यचित्तं क्षोभनाचित्तं कौसीद्यचित्तं विक्षेपचित्तम् असमहितचित्तं दौष्प्रज्ञचित्तम् इदम् अपि मनोदौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यच् छीलापरिशुद्धिम् इदम् अपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यच् चतुर्भिर् स्मृत्युपस्थानैर् विरहित इदम् अपि दौष्टुल्यम् बोधिसत्त्वस्य महासत्त्वस्य. एवं चतुर्भिः सम्यक्प्रहाणैश् चतुर्भि ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलै सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण. शून्यतायाः समाधिना आनिमित्तेन समाधिना अप्रणिहितेन समाधिना विरहित इदम् अपि दौष्टुल्यम् बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यत् स्रोतआपत्तिफलसाक्षात्क्रिया तत्र च अस्पृहणता इदम् अपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. एवं यावद् अर्हत्त्वे प्रत्येकबोधौ वा. स्पृहणता इदम् अपि दौष्टुल्यं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते रूपसंज्ञा दौष्टुल्यं वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्टुल्यं, चक्षुसंज्ञा स्रोत्रसंज्ञा घ्राणसंज्ञा जिह्वसंज्ञा कायसंज्ञा मनःसंज्ञा इदम् अपि दौष्टुल्यं बोधिसत्त्वस्य
महासत्त्वस्य. रूपसंज्ञा यावद् धर्मसंज्ञा. चक्षुर्धातुसंज्ञा यावन् मनोधातुसंज्ञा. [f. 297b] स्त्रिसंज्ञा पुद्गलसंज्ञा. कामधातुसंज्ञा रूपधातुसंज्ञा अरूपधातुसंज्ञा कुशलसंज्ञा अकुशलसंज्ञा यावत् संस्कृतसंज्ञा असंस्कृतसंज्ञा इदम् अपि कायदौष्टुल्यं वाग्दौष्टुल्यं मनोदौष्टुल्यं, तद् बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् सर्वाणि तानि दौष्टुल्यानि विवर्ज्य आत्मना च दानं ददाति परांश् च दाने समादापयति. सो ऽन्नम् अन्नार्थिकेभ्यो ददाति. पानं पानार्थिकेभ्यो, यावद् अन्यतरान्यतराण्य् उपकरणार्थिकेभ्यो ददाति. परं च उपकरणदाने समादापयति. प्रतिष्ठापयति. ततश् च यत् कुशलमूलं तत् सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति. एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां, यावत् स आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तभिर् रत्नैः परिपूर्य तृभ्यो रत्नेभ्यो दानं ददाति, तस्यैवं भवत्य्, अनेन मे कुशलमूलेन सप्तरत्नमयं बुद्धक्षेत्रं (अद्स्प्ग् इइ 104) भवतु. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति. बुद्धेषु वा बुद्धचैत्येषु वा. तस्व्यैवं भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रे दिव्याश् शब्दाः मनोज्ञा सततसमितं वाद्यन्तां. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वस् त्रिसाहस्रमहासाहस्रं लोकधातुं दिव्यगन्धपरिपूर्णं कृत्वा बुद्धेभ्यो वा बुद्धचैत्येभ्यो वा ददाति. तस्यैवं भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रे दिव्या गन्धा प्रवान्तु. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेभ्यो वा तथागतश्रावकेभ्यो वा ददाति. तस्यैवं
भवत्य्, अनेन कुशलमूलेन तत्र मे बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनान्य् अभिनिर्वर्तंतां. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्य् अनुलेपनानि ददाति. तथागतेषु वा तथागतचैत्येषु वा. तस्यैवं भवत्य्, अनेन कुशलमूलेन अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र मे बुद्धक्षेत्रे सर्वसत्त्वानि दिव्याः स्पर्शा अभिनिर्वर्तन्ताम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति. मनोरथसंकल्पैर् एव इष्टान् पञ्चकामगुणां बुद्धानां भगवतां श्रावकानां सर्वसत्त्वानां च उपनामयेयं. तस्यैवं जानतः एवं भवत्य्, अनेन कुशलमूलेन तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वश्रावकसंघस्य सर्वसत्त्वानां च मनोरथसंकल्पेनैव इष्टाः पञ्चकामगुणाः प्रादुर्भवन्ति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वैः सार्धं बुद्धेभ्यो वा श्रावकेभ्यो वा पञ्चकामगुणान् दानन् ददाति. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति. यन्व् अहम् आत्मना च प्रथमं ध्यानं समापद्येय. सर्वसत्त्वांश् च प्रथमे ध्याने निवेशयेयं. एवं याव चतुर्थे ध्याने निवेशयेयं. प्रतिष्ठापयेयं. मैत्र्यां करुणायां मुदितायाम् उपेक्षयां यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु. तस्य मे ऽनुत्तरसम्यक्संबोधिम् अभिसंबुद्धस्य सर्वसत्त्वाश् चतुर्भिर् ध्यानैर् अविरहिता भवेयुश् चतुर्भिर् अप्रमाणैश् चतुर्भिर् स्मृत्युपस्थानैर् यावत् सप्ततृंशति बोधिपक्ष्यैर् धर्मैर् अविरहिता भवेयु. एवं खलु सुभूते [f. 298a] बोधिसत्त्वो
महासत्त्वो बुद्धक्षेत्रं परिशोधयति, (अद्स्प्ग् इइ 105) स तावद् अनुत्तरां सम्यक्संबोधिं न अभिसंबुध्यते. यावन् नेमे सर्व अभिप्राया परिपूर्यन्ते. स आत्मना च सर्वकुशलमूलसमन्वागतो भवति. तांश् च सर्वसत्त्वान् कुशलमूलसमन्वागतान् करोति. तस्य अभिरूपः कायो भवत्य् अप्य् आत्मनः अपि तेषां सत्त्वानां ये तेन बोधिसत्त्वेन महासत्त्वेन परिपाचिता. तेषां सो ऽभिरूपो दर्शनीयः प्रासादिक. कायो ऽभिनिर्वर्तते. यदुत पुण्यपरिगृहीतत्वात्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति. तथा च परिशोधयति. यथा त्रयाणाम् अपायानां प्रज्ञप्तिर् अपि न भविष्यति. दृष्टिगतानाम् अपि प्रज्ञप्तिर् न भविष्यति. रागदोषमोहानां प्रज्ञप्तिर् न भविष्यति. स्त्रिपुरुषप्रज्ञप्तिर् न भविष्यति. द्वयोर् यानयो प्रज्ञप्तिर् न भविष्यति. अनित्यदुःख अनात्मप्रज्ञप्तिर् न भविष्यति. परिग्राहप्रज्ञप्तिर् न भविष्यति. अहंकारममकारप्रज्ञप्तिर् न भविष्यति. अनुशयपर्युत्थानप्रज्ञप्तिर् न भविष्यति. विपर्यासप्रज्ञप्तिर् न भविष्यति. फलव्यवस्थानप्रज्ञप्तिर् न भविष्यति. अन्यत्र शून्यतानिमित्ताप्रणिहितस्य समाधेर् घोषो निश्चरिष्यति. त्यागेच्छताया. सर्वेषां तेषां धर्माणां घोषो निश्चरिष्यति. यदि वाध्यात्मिकानां यदि वा बाह्यानां वारितानाम् एवं घोषो निश्चरिष्यति. शून्यता इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा. यथैवैषान् धर्माणां स्वभावस् तथैव शब्दो निश्चरिष्यति. सर्वधर्माः सर्वधर्मैः शून्या इति, यथा तेषां धर्माणां स्वभावस् तथैव शब्दो निश्चरिष्यति. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच्
छून्यं तत्र निमित्तं नास्ति. यत्र निमित्तं नास्ति तद् अप्रणिहितं. एषा सा एवंरूपा धर्मदेशना निश्चरिष्यति. रात्रौ वा दिवा वा स्थितानां वा निषण्णानां वा. शयानां वा चंक्रम्यमाणानां वा. ईदृशी धर्मदेशना निश्चरिष्यति. तत्र बुद्धक्षेत्रे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य. तस्य खलु पुनस् तथागतस्य अर्हत सम्यक्संबुद्धस्य ये दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस् ते सर्वे वर्णं भाषन्ते. ये खलु पुनस् तस्य तथागतस्य नामधेयं श्रोष्यन्ति. सर्वे ते नियता भविष्यन्त्य् अनुत्तरस्यां सम्यक्संबोधौ. तस्य खलु पुनस् तथागतस्य अर्हतः सम्यक्संबुद्धस्य अनुत्तरां (अद्स्प्ग् इइ 106) सम्यक्संबोधिम् अभिसंबुद्धस्य धर्मन् देशयतो न कस्यचित् सत्त्वस्य संशयो भविष्यत्य् अयं धर्मो ऽयं न धर्म इति. तत् कस्य हेतोः? या खलु पुनर् सर्वधर्माणां धर्मता न तत्र कश्चिद् अधर्मः सर्व स धर्मः, तत्र ये सत्त्वा अकुशलमूलग्रस्ता अनवरुप्तकुशलमूला बुद्धेषु वा बुद्धश्रावकेषु वा. अकल्याणमित्रपरिगृहीता आत्मदृष्टिम् आलीयन्ते. यावत् सर्वदृष्टिगतान्य् आलीयन्ते. अन्तेषु तिष्ठन्ति. उच्छेदे शाश्वते वा, ते मिथ्याग्राहेण गृहीता असम्यक्संबुद्धेषु सम्यक्संबुद्धसंज्ञिनः सम्यक्संबुद्धेषु वा असम्यक्संबुद्धसंज्ञिनः. ते अधर्मं धर्म इति वदन्ति. धर्मं वा अधर्म इति वदन्ति. ते धर्मं प्रतिक्षिपन्ति, प्रतिक्षिप्य कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातान् नरकेषु उपपद्यन्ते, तत्र बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् संसारपर्यापन्नान् ततः पापकाद् दृष्टिगतान् विवेचयन्ति. विवेच्य अनियते [f. 298b] राशौ
प्रतिष्ठापयन्ति. तत्र प्रतिष्ठापिता पुनर् अपायेषु उपपद्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, यस्य परिशोधनात् सत्त्वानां न क्वचिन् निकेतो भवति. लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु सास्रवेषु वा धर्मेष्व् अनास्रवेषु वा धर्मेषु संस्कृतेषु वा धर्मेष्व् असंस्कृतेषु वा धर्मेषु, यावत् सर्वसत्त्वा नियता भवन्त्य् अनुत्तरस्यां सम्यक्संबोधौ. ((77))
परिवर्त 78.
(viii 5,16) अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतः अथ अनियतः?
भगवान् आह: नियतः सुभूते बोधिसत्त्वो महासत्त्वो न अनियतः.
आह: कतमत्र राशौ नियत. श्रावकराशौ वा प्रत्येकबुद्धराशौ वा बुद्धराशौ वा?
भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ वा नियतः प्रत्येकबुद्धभूमौ वा, बुद्धभूमौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः.
आह: किं पुनर् भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो नियत उताहो ऽवैवर्तिकः उताहो चरमभविकः?
भगवान् आह: प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो नियत अवैवर्तिको नियतश् चरमभविको नियतः.
आह: किं पुनर् भगवन् नियतो बोधिसत्त्वो महासत्त्वो अपायेषु उपपद्यते?
भगवान् आह: नो हीदं सुभूते. तत् किं मन्यसे सुभूते अपि न्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा अपायेषु उपपद्यते?
आह: नो हीदं भगवन्.
भगवान् आह: एवम् एव सुभूते यो बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय दानं ददञ्च् छीलं रक्षन् क्षान्त्या संपादयन् वीर्यं वारभमाणः समाधिं समापद्यमानः प्रज्ञां भावयं. मैत्रीकरुणामुदिता-उपेक्षां सर्वसत्त्वेषु भावयति सर्व अकुशलधर्मप्रहाणाय तिष्ठति. सो ऽपायेषु उपपद्येत इति नेदं स्थानं विद्यते. दीर्घायुष्केषु वा देवेषु उपपद्येत इति नेदं स्थानं विद्यते. यत्र वा अप्रचारः कुशलधर्माणाम् एडमूकेषु वा जनपदेषु उपपद्येत इति. नेदं स्थानं विद्यते. दस्युषु म्लेच्छेषु प्रत्यन्तेषु वा जनपदेषु उपपद्येत इति. यत्र अगतिश् चतसृणां पर्षदन् नेदं स्थानं विद्यते. मिथ्यादृष्टिकेषु वा कुलेषु उपपद्येत इति नेदं स्थानं विद्यते. तत्र च उपपद्येत यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्द इति नेदं स्थानं (अद्स्प्ग् इइ 108) विद्यते. अक्रियादृष्टिं वा पतेद् इति नेदं स्थानं विद्यते. अपि तु खलु सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः अध्याशयेन, दसाकुशलाः कर्मपथान् अध्यापद्येत इति नेदं स्थानं विद्यते.
आह: यदि भगवम् बोधिसत्त्वो महासत्त्वः एवं कुशलमूलसमन्वागतः यदुत अप्रतिरूपेषु स्थानेषु नोपपद्यते. तद् यानि इमानि तथागतेन आत्मनस् तिर्यग्गतिजातकानि निर्दिष्टानि. इमानि पुनस् तत्र कुशलमूलं क्व गतानि?
भगवान् आह: न पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽशुभेनकर्मणा तिर्यग्गताव् उपदद्यते. अपि तु येन येन आत्मभावेन सत्त्वानाम् अर्थः कर्तव्यंस् तं तम् एव आत्मभावं संचिन्त्य सत्त्वानाम् अर्थाय परिगृह्णाति. किं पुनः सुभूते अस्त्य् अर्हतां वा प्रत्येकबुद्धानां वा तद् उपायकौशलं येन उपायकौशलेन [f. 299a] समन्वागतस् तिर्यग्योनिगतौ6(उपपन्नः स्यात्?
आह: नो भगवन्.
भगवान् आह: तथागतस्य तद् उपायकौशलम् अस्ति येन तत्र उपपन्नः स्याद्. ये ऽस्य वधाय पराक्रमन्ति तान् अनुत्तरायां क्षान्तौ समादापयति विनयति प्रतिष्ठापयति. तेषां सत्त्वानाम् एव अर्थाय आत्मानं च परित्यजति. न च तेषां सत्त्वानां विहेठं करोति. तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं. यथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयन्न् अनुत्तरस्यै सम्यक्संबोधये तिर्यग्योनाव् व्युपपद्यते. न च तिर्यग्योनिगतैर् दोसैर् लिप्यते.
आह: कतमेषु भगवं कुशलेषु धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्व इमान् एवंरूपान् आत्मभावान् परिगृह्णाति?
भगवान् आह: कतमं सुभूते कुशलो धर्मो यो बोधिसत्त्वेन (अद्स्प्ग् इइ 109) महासत्त्वेन न परिपूरयितव्याः? सर्वकुशलधर्मपरिपूरिर् अनुत्तरा सम्यक्संबोधि. तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णेन न कश्चित् कुशलो धर्मो यो न परिपूरयितव्यः. न हि स कश्चित् कुशलो धर्मो येन अपरिपूरितेन अनुत्तरां सम्यक्संबोधिर् अभिसंबुध्येत नेदं स्थानं विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय सर्वकुशलधर्मपरिपूर्यैः शिक्षितव्यं. यत्र शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नोति. सर्ववासनानुसन्धिं प्रहास्यति.
आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वस् तावच् छुक्लधर्मसमन्वागतः आर्येण अनास्रवेण धर्मेण अपायेषु उपपद्यते. तिर्यग्योनौ वा?
भगवान् आह: किं पुनर्. सुभूते तथागत आर्यो ऽनास्रवः?
आह: एवम् एतद् भगवन्न् एवम् एतत् सुगतः. आर्यो ऽनास्रवस् तथागतः.
भगवान् आह: किं पुनस् तथागतस् तैर्यग्योनिकं प्राणिनम् अभिनिर्मिमीतः यम् अभिनिर्माय बुद्धकार्यं कुर्यात्?
आह: कुर्याद् भगवन्.
भगवान् आह: किं पुनस् तथागतस् तैर्यग्योनिको भवेत्?
आह: नो हीदं भगवन्.
भगवान् आह: किं पुनस् तथागतस् तैर्यग्योनिकं दुःखं प्रत्यनुभवेत्?
आह: नो हीदं भगवन्.
भगवान् आह: एवम् एव सुभूते आर्येण अनास्रवेण धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः संचिन्त्य तथारूपम् आत्मभावं परिगृह्णाति. येन आत्मभावेन सत्त्वान् परिपाचयति. यथार्हं यथायोग्यं.
आह: किं पुनर् भगवन्न् अर्हन् निर्मितम् अभिनिर्मिणोति. यो ऽभिनिर्मितो ऽर्हन्कर्म कुर्याद्, येन कर्मणा परस्य प्रीतिं जानयेत्?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. एवम् एव बोधिसत्त्वो महासत्त्वः आर्येण अनास्रवेण धर्मेण समन्वागतः संचिन्त्य (अद्स्प्ग् इइ 110) तथारूपम् आत्मभावं परिगृह्णाति. येन आत्मभावेन सत्त्वानां बुद्धकार्यं करोति. न च तेन तथारूपेण आत्मभावेन दुःखितो भवति. न दुःखां वेदनां प्रत्यनुभवति. तत् किं मन्यसे सुभूते यां मायाकारो मायान् दर्शयति. हस्तिविग्रहां वा अश्वविग्रहां वा बलीवर्दविग्रहां वा अन्यां वा विविधां मायां दर्शयति. अपि नु ते हस्तिविग्रहा भवन्त्य् अश्वविग्रहा वा वलीवर्दविग्रहा वा अन्या वा विविधा प्राणिजातय?
आह: नो हीदं भगवं.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्व आर्येण अनास्रवेण धर्मेण समन्वागतो भवति. संचिन्त्य तथारूपम् आत्मभावं परिगृह्णाति. यथारूपेण आत्मभावेन सत्त्वानाम् अर्थं करोति. न च तथारूपां वेदनां प्रत्यनुभवति.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महोपायकौशलं भगवं बोधिसत्त्वस्य महासत्त्वस्य यो हि नाम भगवन्न् आर्येण ज्ञानेन समन्वागतो येन येन आत्मभावेन शक्नोति सत्त्वानाम् अर्थः कर्तुं तं तम् एव आत्मभावं परिगृह्णाति.
(viii 5,17) कतमेषु भगवंच् छुक्लेषु धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्वो [f. 299b] इमान्य् एवंरूपान्य् उपायकौशलानि करोति न च तैर् लिप्स्यते?
भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो महासत्त्वः इमान्य् एवंरूपान्य् उपायकौशलानि करोति. यैर् उपायकौशलै पूर्वस्यान् दिशि दक्षिणायां पश्चिमायाम् उत्तरस्याम् अधस्तात् तिर्यक् समन्ताद् दशसु दिक्ष्व् ऐकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति. न च तेन तत्र किंचित् संस्पृश्यते. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्व सर्वथैव धर्मं नोपलभते. यो वा संस्पृश्येत येन वा संपृश्येत यत्र वा संस्पृश्येत. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावेन शून्याः. न च शून्यता शून्यतां संस्पृशति. न अपि शून्यतां कश्चिद् धर्म संस्पृशति. न अपि शून्यता संस्पृश्यते. तत् कस्य हेतोः? तथा हि शून्यता शून्यतायां नोपलभ्यते. इयं (अद्स्प्ग् इइ 111) सा अनुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थित्वा न अन्येषु धर्मेषु?
भगवान् आह: अस्ति पुनः सुभूते कश्चिद् धर्मो यो न प्रज्ञापारमितायाम् अन्तर्गतः?
आह: यदि भगवं. प्रज्ञापारमिता स्वभावेन शून्या कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गता? न च भगवंच् छून्यतायां कश्चिद् धर्मो ऽन्तर्गतो वा न वा अन्तर्गतः.
भगवान् आह: न पुनः सुभूते सर्वधर्मा सर्वधर्मैः शून्याः?
आह: शून्या भगवं.
भगवान् आह: यदि सुभूते सर्वधर्माः सर्वधर्मैः शून्या, न नु सर्वधर्मा शून्यतायाम् अन्तर्गता?
आह: एवम् एतद् भगवन्.
भगवान् आह: तद् अनेन सुभूते पर्यायेण एवं वेदितव्यं, यत् प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्व इदम् एवंरूपम् उपायकौशलं कुरुते.
(viii 5,18) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सर्वधर्मशून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्माति? यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गच्छति. तत्र लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ् च देशयन्ति तां. पर्युपास्ते धर्मं च शृणोति. तत्र च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातवस् तां सर्वां शून्या इति पश्यति. ये ऽपि तत्र बुद्धा भगवन्तस् ते ऽपि बुद्धा भगवन्तस् स्वभावशुन्या4न अन्यत्र नामसंकेतेन प्रज्ञप्तिम् उपादाय निर्दिश्यन्ते. सर्वाः प्रज्ञप्ति स्वभावेन शून्याः, यदि ते लोकधातवो न स्वभावेन शून्याः अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या (अद्स्प्ग् इइ 112) अभविष्यंस्, तत् प्रादेसिकी शून्यताभविष्यत्. यस्मान् न प्रादेशिकी शून्यता तस्मात् सर्वधर्माः सर्वधर्मैः शून्याः, तद् बोधिसत्त्वो महासत्त्व उपायकौशलेन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति. यास्व् अभिज्ञासु स्थित्वा दिव्यं चक्षुर् अभिनिर्हरति. दिव्यश्रोत्रम् ऋद्धिं परचित्तज्ञानं. पूर्वे निवासं च्युतोपपत्तिं, न च विना अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. /// [300अ/ब् मिस्सिन्ग्] /// [f. 301a] तस्माद् बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञापारमितायां बोधिर् अन्तर्गता; तेभिर् एव अभिज्ञाभिर् बोधिर् मार्गयितव्या; स मार्गयमाणो दिव्येन चक्षुषा आत्मनस् तान् कुशलान् धर्मान् पश्यति. परं च कुशलेषु धर्मेषु नियोजयति. न च तेषु कुशलेषु धर्मेषु अभिनिवेष्ठते. तत् कस्य हेतोः? तथा हि ते सर्वे कुशला धर्माः स्वभावेन शून्या. न हि शून्यताया क्वचिद् अभिनिविशते. यद् अभिनिविश्य आस्वादयेत्. निरास्वादा हि शून्यता. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर्
अभिनिर्हरति. येन दिव्येन चक्षुषा सर्वधर्मांच् छून्या इति पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मताम् आगम्य कर्म अभिनिरोपयति. यया कर्माभिनिरुप्त्या सत्त्वानान् धर्मन् देशयति. न पुनः सत्त्वं न सत्त्वप्रज्ञप्तिम् उपलभते. इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः अभिज्ञापारमिताम् अभिनिर्माति. याभिर् अभिज्ञाभिर् ये ऽभिज्ञाकरणीयान् धर्मान् तान् करोति. तत्र बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् दिशि विदिक्ष्व् ऊर्ध्वम् [**] तिर्यग् लोकधातूं पश्यति. स तत्र ऋध्या गत्वा सत्त्वानाम् अर्थं (अद्स्प्ग् इइ 113) करोति. यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा समाध्मा यदि वा प्रज्ञाया यदि वा सप्ततृंशता बोधिपक्ष्यैर् धर्मैः यदि वा ध्यानाप्रमाणारूप्यविमोक्षसमाधिसमापत्तिभिर् यदि वा श्रावकधर्मैर् यदि वा. प्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यकरो भवति. तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवन् धर्मन् देशयति. ददध्वद् दानन्, दुःखं हि दारिद्र्यं, न हि दारिद्र्येण शक्यम् आत्मनो ऽप्य् अर्थः कर्तुं. प्राग् एव परस्य, तद् यूयम् आत्मना च दुःकिता भविष्यथः परं च दुःखयिष्यथ, मा दारिद्र्येण अभिभूता अन्योन्य मांसानि खादन्तो न परिमोक्ष्यध्वे तृभ्यो ऽपायेभ्यः, ये दुःशीला सत्त्वास् तेषाम् एवन् धर्मन् देशयति. दुःखं हि भोः पुरुषा दौःशील्यं, न हि दुःशीलेन शक्यम् आत्मनो ऽप्य् अर्थः कर्तुं, प्राग् एव परस्य. दौःशील्यस्य यो विपाकः स नरका वा तिर्यग्योनिर् वा यमलोको वा, तद्
यूयं तृष्व् अपायेषु प्रपतिता. आत्मानम् एव न शक्या अर्थं कर्तुं प्राग् एव परम्, तद् युष्माभिर् एकदौःशील्यस्य चित्तस्य अप्य् अवकाशो न दातव्यो, मा पश्चात् तापिनो ऽभूत्. ये सत्त्वास् परस्परं व्यापन्नचित्तास् तेषाम् एवन् धर्मन् देशयति. मा यूयम् अन्योन्यं व्यापद्यध्वं. क्षुभितचित्तानां सतां न कश्चित् कुशलो धर्मः प्रादुर्भवति, तद् युष्माकम् अन्योन्यक्षुभितचित्तानां सतां स्थानम् एतद् विद्यते. यन् नरकोपपत्तिर् भवेद् वा तिर्यग्योनिर् वा यमलोको वा, हंत युष्माभिर् एकचित्तम् अपि न क्षोभयितव्यं, प्राग् एव अन्येषां अकुशलानां चित्तानाम् अवकाशो न दातव्यः इति. ये कुसीदास् तां वीर्ये नियोजयति, एवं यावद् ये विक्षिप्तचित्तास् तान् समाधौ नियोजयति. ये दुष्प्रज्ञास् तान् प्रज्ञायां नियोजयति. ये रागचरितास् तान् अशुभायां नियोजयति. ये द्वेषचरितास् तां मैत्र्यां नियोजयति. [f. 301b] ये मोहचरितास् तां प्रतीत्यसमुत्पादे नियोजयति. ये कुमार्गे प्रस्थितास् तान् मार्गे नियोजयति. यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे नियोजयति. तेषाम् एवन् धर्मन् देशयति, यत्र यूयम् अभिनिविष्टास् ते धर्माः स्वभावेन शून्या, न हि स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुं. अनभिनिविष्टा च (अद्स्प्ग् इइ 114) शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति. नास्ति सुभूते बोधिसत्त्वो महासत्त्वो येन शक्यम् अभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मन् देशयितुं, उत्पथप्रस्थिता वा सत्त्वा मार्गम् अवतारयितुं नेदं स्थानं विद्यते. यथा सुभूते पक्षी शकुनिर् अपक्षको न शक्नोत्य् आकाशेन क्रामितुम् एवम् एव सुभूते बोधिसत्त्वो महासत्त्व
अनागम्य अभिज्ञा न शक्नोति. धर्मन् देशयितुं. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः. स आभिर् अभिज्ञाभिर् अभिनिर्हर्ताभिर् यम् आकाङ्क्षिश्यति सत्त्वानाम् अर्थं कर्तुं तं सुखिन करिष्यति. दिव्येन चक्षुषा गङ्गानादीवालुकोपमान् लोकधातून् द्रक्ष्यति. तांश् च तत्र सत्त्वान् उपपन्नान् द्रक्ष्यति. दृष्ट्वा च तान् सत्त्वान् ऋध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, प्रज्ञाय तथैव धर्मन् देशयिष्यति. यदि वा दानकथां यदि वा यावन् नैर्यानिकीं कथां. स दिव्येन श्रोत्रधातुना उभौ शब्दौ श्रोष्यति. यदुत दिव्यांश् च मानुष्यकांश् च. तत्र ये पूर्वस्यां दिशि यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति. स तेन दिव्येन श्रोत्रधातुना तान् धर्मान् श्रोष्यति. श्रुत्वा च तथात्वाय उद्ग्रहीष्यति. तथात्वाय उद्गृह्य अनन्यथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति. स तेन चेतःपर्यायज्ञानेन सत्त्वानां चित्तं प्रज्ञास्यति. तेषान् तथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. सो ऽनेकविधं पूर्वेनिवासम् अनुस्मरिष्यति अन्य आत्मनो ऽपि परस्य अपि. स तेन पूर्वेनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यत्य् एवंनामकास् ते ऽभूवन्. पौर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धा सश्रावकास्, तत्र ये सत्त्वा पूर्वेनिवासानुस्मृत्यधिमुक्ता भविष्यन्ति. तेषां तथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. स ऋद्ध्या अनेकान् विविधां लोकधातूं गत्वा बुद्धां भगवतः पर्युपासिष्यते
पर्युपास्य अभिज्ञानेन सत्त्वानां धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. स आस्रवक्षयज्ञानेन सुविदितेन सत्त्वानान् धर्मन् देशयिष्यति. यदि वा दानकथां यदि वा नैर्याणिककथां. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां च (अद्स्प्ग् इइ 115) रता अभिज्ञा अभिनिर्हर्तव्या. स एभिर् अभिज्ञाभिः सुपरिचिताभि यं यम् एव आत्मभावं परिगृहीतुम् आकाङ्क्षिष्यति. तं तम् एव आत्मभावं परिग्रहीस्यति. स न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति. नैव अस्य अनुनयप्रतिघौ भविष्यथ. तद्यथापि नाम तथागतनिर्मितः [f. 302a] पुरुषः सर्वकृत्यानि करोति. न च तेन सुखेन वा दुःखेन वा क्लिश्यते. एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञाविक्रीडितेन भवितव्यं. यथा विक्रीडमानो बुद्धक्षेत्रं च परिशोधयिष्यति. सत्त्वांश् च परिपाचयिष्यति. न पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन अपरिशोधिते बुद्धक्षेत्रे अपरिपाचितेषु सत्त्वेषु शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. तत् कस्य हेतोः? नास्ति सुभूते मार्गाङ्गविकलस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरा सम्यक्संबोधिः.
(viii 5,19) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य मार्गाङ्गानि. यानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वकुशलधर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गाङ्गानि.
आह: ते पुनर् भगवन् कतमे कुशलधर्मा मार्गाङ्गानि. यैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते?
भगवान् आह: प्रथमचित्तोत्पादम् उपादाय दानपारमिता कुशलो धर्मस् तत्र या अकल्पना यद् ददन् न कलप्यति. इदं दानन् अस्मै ददाम्य् अहन् ददामि इत्य् एतत् त्रयं न कल्पयति. स्वभावशुन्यताम् उपादाय, यया पारमितया आत्मना च तरति परं च तारयति संसारार्णवात्. इमे ते कुशलधर्मा बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरस्या सम्यक्संबोधये मार्गो येन मार्गेन अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च (अद्स्प्ग् इइ 116) संसारार्णवात्. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता समाधिपारमिता प्रज्ञापारमिता चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि: चतस्रः आरूप्यसमापत्तयः चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि. चत्वारर्द्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः त्रीणि विमोक्षमुखानि. चतुर्दशशून्यता अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो धारणीमुखानि समाधिमुखानि. प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः, यावन्तः केचिद् बोधिमार्गा इमे ते कुशला धर्मा ये बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्या यां परिपूर्य सर्वाकारज्ञताम् अनुप्राप्नोति. याम् अनुप्राप्य धर्मचक्रं प्रवर्तयति. ((78))
परिवर्त 79
(viii 5,20) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्मा बोधिसत्त्वधर्मास् तद् बुद्धधर्मास् पुनर् कतमे?
भगवान् आह: यत् पुनः सुभूतिर् एवम् आह. यदि इमे धर्मा बोधिसत्त्वधर्मास् तद् बुद्धधर्माः पुनः कतम इति. इम एव सुभूते बुद्धधर्मा यदेमान् धर्मान् सर्वाकारैर् अभिसंबुध्यते. तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसन्धिः प्रहीयते, तद् बोधिसत्त्वो महासत्त्वो ऽभिसंबुध्यते, तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् एकलक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धः, अयं विशेषो बोधिसत्त्वस्य च तथागतस्य च अर्हतः सम्यक्संबुद्धस्य. तद्यथापि नाम सुभूते अन्य एव प्रतिपन्नको अन्य एव फलस्तः, न च न ताव् उभाव् आर्यपुद्गलौ, एवम् एव सुभूते (अद्स्प्ग् इइ 117) बोधिसत्त्वो महासत्त्व आनन्तर्यमार्गे [f. 302b] प्रतिपन्नकस्तः, तथागतस् पुनर् अर्हन् सम्यक्संबुद्धः सर्वधर्मेष्व् अनन्धकारता प्राप्त, इयं सुभूते विशेसो बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च अर्हत सम्यक्संबुद्धस्य.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि पुनर् भगवन्न् इमे धर्माः स्वलक्षणशून्याः, स्वलक्सणशून्येषु धर्मेषु कुतो विशेषो नानाकरणं वा उपलभ्यते? अयं नैरयिको ऽयं तैर्यग्योनिको ऽयं यमलौकिकः अयं देवो ऽयं मनुष्य अयं गोत्रभूर् अयम् अष्टमक अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. यथैव भगवन्न् इमे पुद्गला नोपलभ्यन्ते. तथैव भगवं. कर्म नोपलभ्यते. यथैव कर्म नोपलभ्यते तथैव कर्मविपाको नोपलभ्यते.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् तथा यथा वदसि. स्वलक्सणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते. ये पुनः सुभूते स्वलक्षणशून्यान् धर्मान् न जानन्ति ते कर्म अभिसंस्कुर्वन्ति. दुश्चरितं वा सुचरितं वा सास्रवं वा अनास्रवं वा. ते दुश्चरितेन कर्मणा त्रिष्व् अपायेषु प्रपतन्ति. सुचरितेन देवमनुष्येषु उपपद्यन्ते. अच्छिद्रेण कर्मणा रूपधातौ वा अरूप्यधातौ वा चोपपयन्ते. तद् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन्न् अच्छिद्रचारि इमान् बोधिसत्त्वधर्मान् उत्पादयति. यान् उत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अभिसंबुध्य सत्त्वानाम् अर्थणि करोति. यो ऽर्थ. कृतो न पुनर् विप्रणश्यति. यस्य विप्रणाशात् पञ्चगतिके संसारे प्रपतेत्.
अह: किं पुनर् भगवता अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पञ्चगतिकः संसार उपलब्धः?
भगवान् आह: नो हीति.
आह: किं पुनस् तथागतेन कृष्णा वा शुक्ला वा अकृष्णाशुक्ला वा धर्माः उपलब्धाः?
भगवान् आह: नो हीति.
आह: यदि नोपलब्धा. कुतो नरका वा तिर्यग्योनिर् वा यमलोका वा प्रज्ञप्ताः कुतो देवमनुष्याः प्रज्ञप्ताः कुतः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धः कुतो बोधिसत्त्वः कुतस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः?
भगवान् आह: किं पुनः सुभूते एते सत्त्वा स्वलक्षणशून्यां. सर्वधर्मां जानन्ति?
आह: नो हीति.
भगवान् आह: यदि पुनः सुभूते सत्त्वा एवं जानीयुः स्वलक्षणशून्या धर्मा इति. तन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये ऽसंप्रतिष्ठमानो न सत्त्वां मोचयेत् त्रिभ्यो ऽपायेभ्यो यावत् संसारगतिभ्यः. यस्मात् तर्हि सुभूते सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मास् ते अप्रजानन्तो न परिमुच्यन्ते पञ्चगतिकात् संसारात्. तद् बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वा स्वलक्षणशून्यान् धर्मान् सत्त्वानाम् अर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते. नेमे धर्मास् तथा संविद्यन्ते यथा बालपृथग्जना अभिनिविष्टा, तद् इमे सत्त्वाः असतः असंविद्यमानान् धर्मान् स्वतः कल्पयित्वा उपलभ्य: असत्त्वे सत्त्वसंज्ञिनः अरूपे रूपसंज्ञिन. अवेदनायां वेदनासंज्ञिनः असंज्ञायां संज्ञासंज्ञिनः असंस्कारेषु संस्कारसंज्ञिनः अविज्ञाने विज्ञानसंज्ञिनः [f. 303a] यावद् असंस्कृतधर्मान् असतो ऽसंविद्यमाना कल्पयित्वा, विपर्यासैर् विपर्यस्तचित्ता. कायेन वाचा मनसा कर्म अभिसंस्कुर्वन्ति. ते पञ्चगतिकात् संसारान् न परिमुच्यन्ते. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं सर्वान् अन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचारिकां चरति. यां चारिकां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
(viii 5,21). अभिसंबुध्य दुःखं च दुःखसमुदयं च दुःखनिरोधं च दुःखनिरोधगामिनीं च प्रतिपादम् आचष्टे (अद्स्प्ग् इइ 119) देशयति. प्रज्ञपयति प्रस्थापयति. विवरति विभजति उत्तानीकरोति संप्रकाशयति. तत्र चतुर्ष्व् आर्यसत्येषु सर्वे ऽन्तर्गता कुशला धर्मा ये केचिद् बोधिपक्ष्या धर्मायैर् बोधिपक्ष्यैर् धर्मैस् त्रयाणां रत्नानां व्यवस्थानं भवति. कतमेषां त्रयाणां? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एषां त्रयाणां रत्नानां प्रादुर्भावात् सत्त्वाः परिमुच्यन्ते पञ्चगतिकात् संसारात्.
अथायुष्मान् सुभूतिर् भगवन्तं एतद् अवोचत्: किं पुनर् भगवन् दुःखज्ञानेन परिनिर्वाणं भवत्य् अथ दुःखेन, समुदयज्ञानेन परिनिर्वाणं भवत्य् अथ समुदयेन, दुःखनिरोधज्ञानेन परिनिर्वाणं भवत्य् अथ दुःखनिरोधेन: मार्गज्ञानेन परिनिर्वाणं भवत्य् अथ मार्गेण.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुःखज्ञानेन परिनिर्वाणं भवति न दुःखेन, न समुदयज्ञानेन पर्मिर्वाणं भवति. न समुदयेन. न दुःखनिरोधज्ञानेन परिनिर्वाणं भवति. न दुःखनिरोधेन. न मार्गज्ञानेन परिनिर्वाणं भवति न मार्गेण. या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुन दुःखज्ञानेन परिनिर्वाणं भवति. न दुःखेन न समुदयज्ञानेन न समुदयेन न दुःखनिरोधज्ञानेन न दुःखनिरोधेन न मार्गज्ञानेन न मार्गेण परिनिर्वाणं भवति.
आह: कतमा एषं भगवंस् चतुर्णाम् आर्यसत्यानां समता?
भगवान् आह: यत्र सुभूते न दुःखं न दुःखज्ञानं न समुदयो न समुदयज्ञानं न निरोधो न निरोधज्ञानं न मार्गो न मार्गज्ञानं. यैषां चतुर्णाम् आर्यसत्यानां तथता अवितथता धर्मता. धर्मधातुर् धर्मनियामता धर्मस्थिता. यद् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धातुर् यदुत धर्मधातुः असंप्रमोषाय अपरिहाणाय संवर्तते. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधाय चरति. न च सत्यान्य् अनुबोधव्यानि.
एवम् उक्ते आयुष्मान् सुभूतिर् भववन्तम् एतद् अवोचत्: कथं पुनर् भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधाय चरति. यथा चरं सत्यान्य् अनुबुध्यते. अभिसंबुध्य तथात्वं प्रतिविध्यति. यथा प्रतिविध्यन् नैव श्रावकभूमौ पतति न प्रत्येकबुद्धभूमौ पतति. बोधिसत्त्वन्यामम् अवक्रामति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न तान् धर्मांस् तथा पश्यति. यथा पश्यं किंचिद् धर्मम् उपलभेत. अनुपलभमानः सर्वधर्मांच् छून्या इति पश्यति. सत्यपर्यापन्नांश् च असत्यपर्यापन्नाञ् च तान् सर्वान् शून्या इति पश्यति. स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वगोत्रभूभूमौ स्थितो भवति. स बोधिसत्त्वगोत्रभूभूमौ स्थित्वा न मूर्ध्न निपातं पतति. येन [f. 303b] मूर्ध्न निपातेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति. स इह बोधिसत्त्वगोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीः. स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति. चत्वार्य् आर्यसत्यानि प्रतिविबुध्यति. स च दुःखञ् च परिजानाति. न च दुःखारम्बणां चित्तम् उत्पादयति. समुदयं च प्रजाहति. न च समुदयारम्बणं चित्तम् उत्पादयति. निरोधं च साक्षात्करोति. न च निरोधारम्बणं चित्तम् उत्पादयति. मार्गं च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति. अन्यत्र बोधिनिम्नेन चित्तेन सर्वधर्मान् यथावत्वं पश्यति.
आह: कतमा भगवन् सर्वधर्माणां यथावत्ता?
भगवान् आह: शून्यता.
आह: कतमा शून्यता?
भगवान् आह: स्वलक्सणशून्यता. सो ऽनयैवंरूपया विपश्यनया सर्वधर्मांच् छून्या इति विपश्यति. न कस्यचिद् धर्मस्य स्वभावं पश्यति. यत्र भावे स्थित्वा बोधिम् अभिसंबुध्येत.
आह: एवं सति भगवन्न् अभावश् च बोधिः?
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्. यथा वदसि. अभावश् (अद्स्प्ग् इइ 121) च बोधिः, सा न बुद्धैः कृता न प्रत्येकबुद्धैर् न अर्हद्भिर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैर्, य इह बोधाय चरन्ति. अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति यथात्वं. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मं देशयति. ((79))
परिवर्त 80.
(viii 5,22) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावा सर्वधर्मास्, ते न बुद्धै कृता न प्रत्येकबुद्धैर् न अर्हद्भिर् न अनागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् न प्रतिपन्नकैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृता य इह बोधाय चरन्ति. तत् कुत एसान् धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते, इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मनुष्याः, अनेन वा कर्मणा नरकास् तिर्यग्योनिर् यमलोकः अनेन कर्मणा देवाः अनेन कर्मणा मनुष्याः अनेन कर्मणा ब्रह्मकायिका देवाः यावन् नैवसंज्ञानासंज्ञायतना देवाः. अनेन कर्मणा स्रोतआपन्नाः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धाः अनेन कर्मणा बोधिसत्त्वो महासत्त्वो ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धः. अभावस्य हि भगवन् न काचित् क्रिया यया क्रिया नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमानुष्यं वा यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत. स्रोतआपत्तिफलं वा अनुप्राप्नुयात् सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो बोधिमार्गे चरेत् तथागतो वा ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञतां वा अनुप्राप्नुयाद् याम् अनुप्राप्य सत्त्वां संसारां मोचयेद्.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् तथा यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं. बालो हि सुभूते (अद्स्प्ग् इइ 122) अश्रुतवान् पृथग्जनः आर्यधर्मेष्व् अकोविदः अभावस्वभावान् धर्मान् न प्रजानाति. स विपर्याससमुत्थितेन चित्तेन विविधं कर्माभिसंस्करोति. तस्य तादृश एव आत्मभावो अभिनिर्वर्तते. यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा यावन् नैवसंज्ञानासंज्ञायतनेषु [f. 304a] देवेषु. यावद् अभावस्य न कर्म न क्रिया न फलं. यः पुनर् अभावः अभाव एव सः. यत् पुनर् सुभूतिर् एवम् आह. अभावस्य हि न काचित् क्रिया यया क्रियया यावत् स्रोतआपत्तिफलं वा अनुप्राप्नुयात्. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो मार्गाकारज्ञतायाञ्च् चरेत् तथागतो वार्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति. याम् अनुप्राप्य सत्त्वान् संसारान् मोचयेत्. तत् किं मन्यसे सुभूते न अभावो मार्गः अभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो ऽनागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिह्र् अभावो यावत् सर्वाकारज्ञता.
आह: अभावो भगवन् मार्गः अभाव स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो ऽनागामिफलम् अभावो ऽर्हत्वम् अभावः प्रत्येकबोधिर् अभावो यावत् सर्वाकारज्ञता.
भगवान् आह: तत् किं मन्यसे सुभूते अभावो धर्मः अभावन् धर्मम् अनुप्राप्नोति?
आह: नो भगवन्.
भगवान् आह: इति हि सुभूते. यश् च अभावो यश् च मार्ग उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यदुत अलक्सणौ, तत्र सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वांश् चतुर्भिर् विपर्यासैर् अभिनिविष्टां पञ्चस्कन्धेषु अनित्ये नित्यसंज्ञीनो दुःखे सुखसंज्ञीनः अनात्मान्य् आत्मसंज्ञिनः. अशुभे शुभसंज्ञीनो भावाभिविनिष्टास् ततो भावाद् विवेचयति.
(viii 5,23) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कच्चिद् भगवन् वस्त्व् अस्ति भूतं भावंस् तथता अवितथता यत्र स्थित्वा बालपृथग्जना वस्त्व् इत्य् अभिनिविशन्ते. भूतं भावस् तथता अवितथता. (अद्स्प्ग् इइ 123) यदि नास्ति कथं कर्म अभिसंस्कुर्वन्ति. येन कर्मणा पञ्चगतिकात् संसारान् न परिमुच्यन्ते?
भगवान् आह: नास्ति सुभूते अन्तशो बलाग्रकोटीनिक्षेपमात्रम् अपि वस्तु यत्र स्थित्वा बालपृथग्जना कर्माभिसंस्कुर्वन्ति अन्यत्र विपर्यासेन. तेन हि सुभूते उपमान् ते करिष्यामि यावद् एव अस्यैवार्थस्य भूयस्यामात्रया परिपूरये यथापण्डिताजानीयुः. तत् किं मन्यसे सुभूते कच्चित् स्वप्नदर्शिनो वस्त्व् अस्ति. यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचारयेत्?
आह: स्वप्न एव तावन् नास्ति. कुतः पुनः स्वप्नदर्शी, तत्र स्थित्वा पञ्चभिः कामगुणैः परिचारयेत्.
भगवान् आह: तत् किं मन्यसे सुभूते कच्चित् पुनर् धर्मो ऽस्ति संस्कृतो वा असंस्कृतो वा सास्रवो वा अनास्रवो वा यो न स्वप्नोपमः?
आह: नास्ति भगवं. कश्चिद् धर्म संस्कृतो वा असंस्कृतो वा सास्रवो वा अनास्रवो वा यो न स्वप्नोपमः.
भगवान् आह: कच्चित् पुनः स्वप्ने पञ्चगतिकः संसारो ऽस्ति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते स्वप्ने मार्गभावना अस्ति, यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत?
आह: नो हीदं भगवन्न्, अवस्तुकः स भगवन् धर्मः अप्रज्ञप्तिकः अप्रज्ञपनीयः सर्वव्याहारपदव्यञ्जनैः.
भगवान् आह: तत् किं मन्यसे सुभूते यदा आदर्शमण्डले प्रतिबिम्बन् दृश्यते कच्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्यात् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्यान् वा?
आह: नो हीदं भगवन्न्, अवस्तुकं भगवन् प्रतिबिम्बं अन्यत्र बालानाम् उल्लापकं, तत् कुतो ऽस्य [f. 304b] कर्म भविस्यति. (अद्स्प्ग् इइ 124) यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा. देवमनुष्यान् वा?
भगवान् आह: तत् किं मन्यसे सुभूते कच्चित् तस्य मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
आह: नो हीदं भगवन्न् अवस्तुकंश् च भगवन् प्रतिबिम्बं तत् कुतो ऽस्य मार्गभावना भविष्यति. यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे सुभूते या सा प्रतिश्रुत्का वनगहनपर्वतकन्दरप्राग्भारतो निश्चरति. कच्चित् तस्या प्रतिश्रुत्काया वस्त्व् अस्ति यत् कर्माभिसंस्कुर्यात्, यत् कर्माभिसंस्कृत्य. नरकं वा गच्छेत् तिर्यग्योनिं वा यमकोकं वा?
आह: नो हीदं भगवम् अवस्तुका भगवं. सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत.
भगवान् आह: तत् किं मन्यसे सुभूते कच्चित् तस्याः प्रतिश्रुत्काया मार्गभावना अस्ति: यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
आह: अत्यन्ततया भगवन् सैव प्रतिष्रुत्का नास्ति. कुतः पुनस् तस्या मार्गभावना भविष्यति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे सुभूते येयं मरीचिकायाम् अनुदके उदकसंज्ञा. अनद्यां नदीसंज्ञा. अनगरे नगरसंज्ञा. अनुद्याने उद्यानसंज्ञा तत् किं तस्यां मरीचिकाया संज्ञायां कर्म अस्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत?
आह: अत्यन्ततया भगवं मरीचिकायाम् उदकन् नास्ति. न नदी, न नगर उद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुषो मोह. कुतस् तस्या कर्म भविष्यति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत.
भगवान् आह: तत् किं मन्यसे सुभूते कच्चित् तस्या विपर्यस्तसंज्ञाया मार्गभावना अस्ति. यान् मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
आह: न भगवन् विपर्यस्तायाः संज्ञाया मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत.
भगवान् आह: तत् किं मन्यसे सुभूते यां मायाकारो विविधान् मायाम् अभिनिर्मिनोति. यदि वा हस्तिकायं यदि वा अश्वकायं यदि वा बलीवर्दकायं. यदि वा पत्तिकायं. यदि वा रथकायं यदि वा स्त्रिकायं यदि वा पुरुषकायं, अपि नु तस्या मायाया वस्त्व् अस्ति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु देवेषु उपपद्येत?
आह: नो हीदं भगवं, न हि तस्या मायाया वस्त्व् अस्त्य् अन्तशो बलाग्रकोटिनिक्षेपमात्रम् अपि. यत्र स्थित्वा कर्माभिसंस्कुर्यात्. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु देवेषु उपपद्येत.
भगवान् आह: तत् किं मन्यसे सुभूते कश्चित् तस्या मायाया मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
आह: नो हीदं भगवन्न् अवस्तुकस्य [f. 305a] धर्मस्य मार्गभावना कुतो भविष्यति. संक्लेशो वा व्यवदानं वा?
भगवान् आह: तत् किं मन्यसे सुभूते यः पुनस् तथागतो निर्मितं निर्मिणोति कच्चित् तस्य निर्मितस्य वस्त्व् अस्ति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतेनेषु देवेषु उपपद्येत?
आह: नो हीदं भगवन्न् अवस्तुकः स भगवं निर्मितः.
भगवान् आह: तत् किं मन्यसे सुभूते. कच्चित् तस्य निर्मितस्य मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न ववदायेत?
आह: नो हीदं भगवं.
भगवान् आह: तत् किं मन्यसे सुभूते कश्चिद् अत्र संक्लिश्यते वा व्यवदायते वा?
आह: नो हीदं भगवं.
भगवान् आह: यथैव सुभूते कश्चिन् न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं. तत् कस्य हेतोर्? अहंकारममकारयो स्थित्वा: सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, न च भूतदर्शी संक्लिश्यते वा व्यवदायते वा. यथैव भूतदर्शी न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं. ((80))
परिवर्त 81.
(viii 5,24) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतदर्शी भगवं न संक्लिश्यते न व्यवदायते. ऽभूतदर्श्य् अपि न संक्लिश्यते न व्यवदायते. तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्य च भगवं न संक्लेशो न व्यवदानं. भावस्य अपि भगवन् न संक्लेशो न व्यवदानम्, स्वभावस्य अपि भगवन् न संक्लेशो न व्यवदानं. अभावस्वभावस्य अपि भगवन् न संक्लेशो न व्यवदानं. तद् यद् एतद् भगवता व्यवदानं निर्दिष्टं, तत् कथम् इदं भगवन्?
भगवान् आह: या एषां सर्वधर्माणां समता तन् मयोक्तं व्यवदानं?
आह: सा पुनः सर्वधर्माणां समता कतमा?
भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता. धर्मनियामता भूतकोटिः यो ऽसाव् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धर्मस्थितिताधातुर् यदुत धर्मधातुर् इदं सुभूते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवहृयते. अनभिलाप्यं पुनस् तद् अप्रव्याहारं. सर्वगीर्घोषवाक्पथातीतं.
(viii 5,25) आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमा. प्रतिभासोपमाः मरीच्युपमाः मायोपमा निर्मितोपमास्, तत् कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमेषु सर्वधर्मेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मरीच्युपमेषु मायोपमेषु सर्वधर्मेष्व् अवस्तुकेष्व् अद्रव्येष्व् अनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादयत्य् अहं दानपारमितां परिपूरयिष्यामि. शीलपारमितां परिपूरयिष्यामि. क्षान्तिपारमितां परिपूरयिष्यामि. वीर्यपारमितां परिपूरयिष्यामि. ध्यानपारमितां परिपूरयिष्यामि. अभिज्ञापारमितां परिपूरयिष्यामि. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि. चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि. यावद् आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीन् दशतथागतबलानि. चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणाम् धारणीमुखानि समाधिमुखानि यावद् अष्टादशावेणिका बुद्धधर्मा. द्वातृंशन्महापुरुषलक्षणानि. अशीतिम् (अद्स्प्ग् इइ 127) अनुव्यञ्जनानि महाभासं परिनिष्पादयति यत् त्रिसाहस्रमहासाहस्रलोकधातून् अवभासेन स्फरति, ब्रह्मस्वरतां परिनिष्पादयति. यद् एक स्वरेण [f. 305b] दशदिग्लोकधातुषु यथाधिमुक्तानां सत्त्वानां चेतसैव चेतःपरिवितर्कम् अज्ञाय धर्मं देशयिष्यामि इति.
भगवान् आह: तत् किं मन्यसे सुभूते न त्व् एते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा. मरीच्युपमाः मायोपमा निर्मितोपमाह्ये त्वया परिकीर्तिता?
आह: यद्य् एते भगवन् धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा. मरीच्युपमा मायोपमा निर्मितोपमा, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, न हि भगवन् स्वप्नो भूतो न यावन् निर्मितः. न हि भगवन्न् अभूतेन शक्यं दानपारमितायां चरता शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां. प्रज्ञापारमितायां यावद् अस्तादशस्व् आवेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न ह्य् अभूतेन शक्यं दानपारमितायां चरता. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां. यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. सर्व एते धर्मा अभिसंस्कृता अभिसंचेतयिता. न हि शक्यम् अभिसणिष्कृतैर् अभिसंचेतयितैर् धर्मैः सर्वाकारज्ञताम् (अद्स्प्ग् इइ 128) अनुप्राप्तुं. अपि तु खलु सुभूते सर्व एते धर्मा मार्गाहरणताय संवर्तन्ते मार्गोत्पादाय न पुन फलस्य अधिगमाय, य एषां धर्माणाम् अनुत्पाद अप्रादुर्भाव अलक्षणो ऽपि सः. तद् बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय यावत् तम् एव कुशलन् धर्मम् आरभते. यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां. यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा ध्यानानि यदि वा अप्रमाणानि यदि वा आरूप्यसमापत्तीर् यदि वा स्मृत्युपस्थानानि यावन् मार्गं. यदि वा आध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां. यदि वा विमोक्षा नवानुपूर्वसमापत्ती यदि वा यावद् आवेणिकबुद्धधर्मान्. तत् सर्वं मायागतम् इति जानाति. न शक्यम् इमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावद् अष्टादशावेणिकान् बुद्धधर्मान् अपरिपूर्य सत्त्वान् परिपाचयितुं. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यं यम् एव कुशलन् धर्मम् आरभते सर्वं तं स्वप्नोपमं जानाति. यावन् निर्मितोपमं जानाति. स प्रज्ञापारमितायां चरन् यावत् सर्वाकारज्ञतां स्वप्नोपमां जानाति. यावन्
निर्मितोपमां जानाति. ते सर्वसत्त्वा स्वप्ने चरन्ति इति जानाति. यावन् निर्मिते चरन्ति इति जानाति. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्. स्वप्नोपमान् धर्मान् अभावतो गृह्णाति. यावन् गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नोति. यावन् निर्मितोपमान् धर्मान् अभावतो गृह्णाति. यावन् गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नोति. अग्राह्या च प्रज्ञापारमिता. अग्राह्या यावद् अष्टादशावेणिका बुद्धधर्माः. तद् बोधिसत्त्वो महासत्त्व अग्राह्याः सर्वधर्मा इति विदित्वा अनुत्तरां सम्यक्संबोधिं प्रार्थयति. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः यावन् निर्मितोपमा, न च अग्राह्येण. [f. 306a] धर्मेण अग्राह्यो धर्मः शक्यम् अनुप्राप्तुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति. (अद्स्प्ग् इइ 129) तद् बोधिसत्त्वो महासत्त्व सर्वसत्त्वानाम् अर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते, स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति. तत् सर्वसत्त्वानां कृते. यच् छीलं रक्षति यां क्षान्तिं भावयति यन् वीर्यम् आरभते यद् ध्यानं समापद्यते यां प्रज्ञां भावयति तत् सर्वसत्त्वानां कृते, न पुनर् आत्मार्थं, न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृते ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृते, स प्रज्ञापारमितायां चरन् ये असत्त्वे सत्त्वसंज्ञया स्थितास् अनात्मान्य् आत्मसंज्ञया स्थिता एवं जन्तुमनुजमानवपोषपुद्गलकारककारापकसमुत्थापकवेदकवेदयित्रिषु. यावद् अजानके जानकसंज्ञया स्थिता अपश्यके पश्यकसंज्ञया स्थितास् तां विपर्यासान् विवेचयति. विपर्यासाद् विवेच्य. अमृते धातौ प्रतिष्ट्ःआपयति. यत्र प्रतिष्ठापितानां नेमे
समुदाचाराः प्रवर्तन्ते. आत्मसंज्ञा यावत् कारककारापकसंज्ञा वा, स सर्वाणि इमानि निमिञ्जितमन्यितस्पन्दितप्रपञ्चितानि त्यक्त्वा अमन्यमानेन चेतसा बहुलम् उपसंपद्य विहरति. अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च न क्वचिद् धर्मे ऽभिनिविशते. सर्वसत्त्वांश् च अनभिनिवेशे प्रतिष्ठापयति. लोकव्यवहारेण. न पुन परमार्थेन.
आह: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः, किं पुनः स लोकव्यवहारेण अभिसंबुद्धः उतः परमार्थेन?
भगवान् आह: लोकव्यवहारेण व्यवहृयते. अयं तथागतेन धर्मो ऽभिसंबुद्ध इति. न पुनर् अत्र कश्चिल् लभ्यते. अयन् धर्मो ऽनेन धर्मेण अभिसंबुद्ध इति. तत् कस्य हेतोर्? उपलंभो ह्य् एष यदुत अनेन धर्मेण अयन् धर्मो ऽभिसंबुद्ध इति. न च द्वयेन काचित् प्राप्तिर् न अभिसमय.
आह: यदि भगवन् न द्वयेन प्राप्तिर् अभिसमयश् च, किं पुनर् अद्वयेन प्राप्तिर् अभिसमयश् च?
भगवान् आह: न द्वयेन प्राप्तिर् न अभिसमयो न अद्वयेन प्राप्तिर् अभिसमयश् च, यथैवात्र प्राप्तिर् अभिसमयश् च. यत्र न द्वयं न अद्वयं. तत् कस्य हेतोः? प्रपञ्च एष यदैष प्राप्तिर् एसो ऽभिसमय. न च धर्मसमतायां प्रपञ्चो ऽस्ति. निष्प्रपञ्च हि धर्मता.
आह: अभावस्वभावानां भगवन् सर्वधर्माणां का धर्मसमता?
भगवान् आह: एषैवात्र धर्मसमता यत्र न भावो न अभावो न स्वभावो न परिकीर्तना, न धर्मसमता परिकीर्त्यते, न च अन्यः कश्चिद् धर्म उपलभ्यते धर्मसमतायां. स्थापयित्वा सर्वधर्मव्यतिवृत्ता धर्मसमता, अगतिर् अविषयो धर्मसमता. कस्यचिद् बालस्य वा आर्यस्य वा.
आह: किं पुनर् भगवं धर्मसमता. तथागतस्य अप्य् अविषयः?
भगवान् आह: अविषयः सुभूते. धर्मसमता. सर्वार्याणां स्रोतआपन्नानां वा सकृदागामिनां वा अनागामिनां वा. अर्हतां वा. प्रत्येकबुद्धानां वा बोधिसत्त्वानां [f. 306b] वा तथागतस्य अप्य् अविषय.
आह: न पुनर् भगवं सर्वधर्मविषयवशवर्त्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
भगवान् आह: स्यात् सर्वधर्मविषयवशवर्त्ती तथागतो ऽर्हन् सम्यक्संबुद्धो, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च स्रोतआपन्नानां या च सकृदागामिनां या च अनागामिनां या च अर्हतां या च प्रत्येकबुद्धानां या च बोधिसत्त्वानां या च तथागतानाम् धर्मसमता एकसमता सा, समतायांश् च न किञ्चिन् नानाकरणं, या च पृथग्जनानां समता या च सर्वार्याणां समता एकसमता सा, नैकसमतायां द्वयम् अस्त्य् अयं पृथग्जनो ऽयं यावत् तथागतो ऽर्हन् सम्यक्संबुद्ध इति. सर्व एते धर्मा. समतायां नोपलभ्यन्ते.
आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते. अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धः अयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं सत्य् अविशेषो भविष्यति. पृथग्जनानां स्रोतआपन्नानां च सकृदागामिनां च अनागामिनां च अर्हतां च प्रत्येकबुद्धानां च बोधिसत्त्वानां च तथागतानां च अर्हतां सम्यक्संबुद्धानां.
भगवान् आह: एवम् एत सुभूते एवम् एतद्. अविशेषः सर्वधर्मसमतायां (अद्स्प्ग् इइ 131) पृथग्जनानां यावत् तथागतानां च अर्हतां सम्यक्संबुद्धानां.
आह: यदि भगवन्न् अविशेषः पृथग्जनानां यावत् तथागतानां च अर्हतां सम्यक्संबुद्धानां, तत् कुत एषां भगवंस् त्रयाणां रत्नानां लोके प्रादुर्भावो भवति. बुद्धरत्मस्य धर्मरत्नस्य संघरत्नस्य?
भगवान् आह: तत् किं मन्यसे सुभूते अन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्मसमता?
आह: यथा अहं भगवतो भाषितस्य अर्थम् आजानामि न अन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्मसमता. यद् एव भगवं बुद्धरत्नं यद् एव धर्मरत्नं यद् एव संघरत्नं सैव धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्सणा. यदुत अलक्षणास्, तत् पुनर् कथं भगवन् एषाम् अलक्षणानां धर्माणां व्यवस्थानं करोत्य् अयं पृथग्जनो अयं स्रोतआपन्नः अयं सकृदागामी अयम् अनागामी अयम् अर्हन्न् अयं प्रत्येकबुद्धः अयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः?
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागतस्यैष विषयः तथागतस्यैष पुरुषकारो यद् अलक्सणानां धर्माणां व्यवस्थानं करोति. तत् किं मन्यसे सुभूते यदि तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिं न अभिसंभोत्स्यत. अनभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्याद्, अपि नु नरका वा प्रज्ञास्यन्ते तिर्यग्योनिर् वा यमलोक वा. देवा वा मनुष्या वा. चातुर्महाराजकायिका वा यावत् परनिर्मितवशवर्त्तिनो वा ब्रह्मकायिका वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् वा स्मृत्युपस्थानानि वा यावद् आर्याष्टाङ्गो मार्गः त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वसमापत्तय अध्यात्मशून्यता बहिर्धाशून्यता. अध्यात्मबहिर्धाशून्यता यावत् स्वलक्षणशून्यता यावद् अष्टादशावेणिका बुद्धधर्माः प्रज्ञास्यन्ते?
आह: नो प्रज्ञास्यन्ते भगवन्. [f. 307a]
भगवान् आह: तस्मात् तर्हि सुभूते तथागतस्यैष पुरुषकारो यो धर्मसमताया च न चलति धर्माणां च व्यवस्थानं करोति.
आह: किं पुनर् भगवं यथा चैव तथागतो धर्मसमतायाश् च न चलति. तथैव पृथग्जना न चलन्ति. तथैव स्रोतआपन्ना न चलन्ति. तथैव यावत् प्रत्येकबुद्धा न चलन्ति. तथैव यावद् बोधिसत्त्वा न चलन्ति.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
