Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82

Thông tin
GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं यावत् सर्वं विज्ञानं निर्मितोपमं, निर्मितस्य भगवन् न रूपं न वेदना न संज्ञा (अद्स्प्ग् इइ 61) न संस्कारा न विज्ञानं. न संक्लेशो न व्यवदानं नापि पञ्चगतिकः संसारो यतो सत्त्वान् परिमुच्येत.

भगवान् आह: तत् किं मन्यसे सुभूते अपि नु बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचारिकां चरता कश्चित् सत्त्व उपलभ्दो यन् नरकात् परिमोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा देवेभ्यो वा मनुष्येभ्यो वा?

आह: नो हीदं भगवन्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न बोधिसत्त्वेन महासत्त्वेन कश्चित् सत्त्वो उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तथा ह्य् अनेन सर्वधर्मा मायोपमा ज्ञाता दृष्टा विदिता. निर्मितोपमा ज्ञाता दृष्टा विदिता.

आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा मायोपमा निर्मितोपमाज्ञाता दृष्टा विदिता. कस्य पुनर् अर्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति. चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु सप्तत्रिंशतिबोधिपक्ष्येषु धर्मेषु बोधिमार्गे चरति. बुद्धक्षेत्रं च परिशोधयति. सत्त्वांश् च परिपाचयति?

भगवान् आह: यदि सुभूते सत्त्वा स्वयम् एव निर्मितोपमा सर्वधर्माञ् जानीयुर्, न बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय असंख्येयान् कल्पान् बोधिसत्त्वचारिकां चरेत्. यस्मात् तर्हि सुभूते सत्त्वा स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति, तस्माद् बोधिसत्त्व महासत्त्वः असंख्येयान् कल्पान् षट्सु पारमितासु चरति. सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिशोधयति.

सुभूतिर् आह: यदि भगवन् सर्वधर्मा स्वप्नोपमाः प्रतिश्रुत्कोपमाः. मरीच्युपमाः प्रतिभासोपमाः मायोपमा निर्मितोपमाः. क्व भगवन्. सत्त्वाः प्रतिष्ठिता यतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उच्चालयति?

भगवान् आह: नामनिमित्तेषु सुभूते सत्त्वाः प्रतिष्ठिताः असत्परिकल्पे तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नामनिमित्ताद् उच्चालयति.

आह: कतमद् भगवन् नाम कतमं निमित्तं?

भगवान् आह: आगन्तुकम् एतत् सुभूते नामधेयं प्रक्षिप्तं यदुत नामेति वा निमित्तम् इति वा. कृतृमम् एतन् नामधेयं यदुत नामेति वा निमित्तम् इति वा. रूपम् इति वा वेदनेति वा. संज्ञेति वा संस्काराः इति वा. विज्ञानम् इति वा. स्त्री वा पुरुष इति वा. दारक इति वा दारकेति वा. नारका इति वा तैर्यग्योनिका इति वा यामलौकिक इति वा. देव इति वा. मनुष्य इति वा. संस्कृता धर्मा इति वा असंस्कृता धर्मा इति वा. स्रोतआपतिफलम् इति वा. सकृदागामिफलम् इति वा. अनागामिफलम् इति वा. अर्हत्त्वम् इति वा प्रत्येकबोधिम् इति वा. [f. 284b] सम्यक्संबोधिर् इति वा. अपि तु खलु सुभूते प्रज्ञप्तिधर्म सर्वं तन् नाम नामार्थेन. नाममात्रम् इदं सर्वं संस्कृतं यत्र बालपृथग्जनाः सक्ताः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन समन्वागतो विवेचयति. परिकल्पसमुत्थितं सर्वं एतन् नाम, मा यूयं परिकल्पे सज्जध्वं. असति वस्तुनि स्वभावशून्ये, न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मं देशयति. कतमत् सुभूते निमित्तं? द्वे इमे सुभूते निमित्ते यत्र बालपृथग्जनाः सक्ताः, कतमे द्वे? यदुत रूपनिमित्तं च आरूप्यनिमित्तं च. कतमञ् च सुभूते रूपनिमित्तं? यत् किंचित् सुभूते रूपम् औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् अत्र क्षणिकेषु धर्मेषु परिकल्पनया ग्रहणम् एति. इदम् उच्यते रूपनिमित्तं. कतमच् च सुभूते आरूप्यनिमित्तं? यत् किंचिद् अरूपिणां धर्माणाम्0निमित्तग्राहेण परिकल्प्य क्लेशो जायते, इदम् उच्यते आरूप्यनिमित्तं. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन ततो निमित्ताद् विवेच्य आनिमित्ते धातौ निवेशयति प्रतिष्ठापयति, तथा उच निवेशयति. तथा प्रतिष्ठापयति यथा न द्वये पतति. इदं निमित्तम् इदम् आनिमित्तम् इति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (अद्स्प्ग् इइ 63) चरन्न् उपायकौशलेन सत्त्वान् निमित्ताद् विवेच्य आनिमित्ते धातौ प्रतिष्ठापयति.

आह: यदि भगवन्न् इयत् परमा एते सर्वधर्मा यदुत नामनिमित्तपरमाः प्रज्ञप्तिमात्राः परिकल्पसमुत्थिताः, कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च विशेषम् अधिगच्छति. कुशलेषु धर्मेषु. परं च विशेष अधिगमे प्रतिष्ठापयति कुशलेषु धर्मेषु. यैः कुशलैर् धर्मैर् भूम्याभूमिं परिपूरयति. सत्त्वांश् च त्रिषु यानेषु नियोजयति.

भगवान् आह: सचेत् सुभूते वस्त्व् अभविष्यन् न अवस्तु निमित्तं. नेदं सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो कुशलेषु धर्मेषु विशेषम् अध्यगमिष्यन् न परं च विशेषाधिगमे नियोजयिष्यत्. यस्मात् तर्ह्य् अवस्तु निमित्तं न वस्तु, तस्मात् सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्य् आनिमित्तयोगेन वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां परिपूरयत्य् आनिमित्तयोगेन. चत्वारि ध्यानानि परिपूरयत्य् आनिमित्तयोगेन. चत्वार्य् अप्रमाणानि परिपूरयत्य् आनिमित्तयोगेन. चतस्र आरूप्यसमापत्तीन् परिपूरयत्य् आनिमित्तयोगेन. चत्वारि स्मृत्युपस्थानानि परिपुरयत्य् आनिमित्तयोगेन. यावद् आर्याष्टांगं मार्गं परिपूरयत्य् आनिमित्तयोगेन. अध्यात्मशून्यतां परिपूरयत्य् आनिमित्तयोगेन. बहिर्द्धाशून्यतां परिपूरयत्य् आनिमित्तयोगेन. अध्यात्मबहिर्द्धाशून्यतांपरिपूरयत्य् आनिमित्तयोगेन. यावत् स्वलक्षणशून्यतां परिपूरयत्य् आनिमित्तयोगेन. अष्टौ विमोक्षान् परिपूरयत्य् आनिमित्तयोगेन. नवानुपूर्वसमापत्तीन् परिपूरयत्य् आनिमित्तयोगेन. दशतथागतबलानि परिपूरयत्य् आनिमित्तयोगेन. यावद् अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्य् आनिमित्तयोगेन. स इमान् कुशलान् धर्मान् [f. 285a] परिपूर्य परान् अत्रैव कुशलेषु धर्मेषु नियोजयत्य् आनिमित्तयोगेन. सचेत् पुनः सुभूते धर्म निमित्तम् अभविष्यद् अन्तशो वालाग्रकोटिनिक्षेपमात्रम् अपि, नेदं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां (अद्स्प्ग् इइ 64) चरन्न् आनिमित्तम् अस्मृतिम् अमनसिकारं धर्मम् अभिसंभोत्स्यत. सत्त्वांश् च तथात्वे प्रत्युपस्थापयिष्यति अनास्रवेषु धर्मेषु, सर्वे हि सुभूते अनास्रवा धर्मा आनिमित्तम् अस्मृतिर् अमनसिकारः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अर्थं करोत्य् अनास्रवैर् धर्मैः.

आह: यदि भगवन् सर्वधर्मा आनिमित्तम् अस्मृतिर् अमनसिकारः, कुतो भगवं. गणनां करिष्यामि; इमे सास्रवा धर्मा इमे अनास्रवा धर्मा इमे साधारणा धर्मा इमे असाधारणा धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्मा?

भगवान् आह: तत् किं मन्यसे सुभूते अन्यद् आनिमित्तम् अन्ये श्रावकधर्माः?

आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे सुभूते अन्यद् आनिमित्तम् अन्ये प्रत्येकबुद्धधर्माः अन्यद् आनिमित्तम् अन्ये बोधिसत्त्वधर्मा अन्यद् आनिमित्तम् अन्ये बुद्धधर्माः?

आह: नो हीदं भगवन्.

भगवान् आह: ननु सुभूते आनिमित्तम् एव स्रोतआपत्तिफलं. सकृदागामिफलं. अनागामिफलम् अर्हत्त्वं. प्रत्येकबोधिर् बोधिसत्त्वधर्मा बुद्धधर्माः?

आह: एवम् एतद् भगवन् एवम् एतत् सुगत.

भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्: यदुत आनिमित्तं सर्वधर्माः. अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः आनिमित्तेषु सर्वधर्मेषु विवर्धते कुशलैर् धर्मैः, यदुत षड्भिः पारमिताभिश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियै. पञ्चभिर् बलैः. षड्भिर् अनुस्मृतिभिः. सप्तभिर् बोध्यङ्गैर्. आर्याष्टाङ्गेन मार्गेण: यावत् सर्वबुद्धधर्मैः. तत् कस्य हेतोः? न ह्य् अन्यत्र शिक्षितव्यं बोधिसत्त्वेन महासत्त्वेन अन्यत्र शून्यता आनिमित्त अप्रणिहितेषु धर्मेषु शिक्षितव्यं. तत् कस्य हेतोः? अत्र हि त्रिषु विमोक्षमुखेषु सर्वकुशलधर्मा अन्तर्गताः. तथा हि स्वलक्षणशून्यं शून्यताविमोक्षमुखं. निमित्तापगम आनिमित्तं विमोक्षमुखं. अनभिसंस्कारम् अप्रणिहितं विमोक्षमुखं. (अद्स्प्ग् इइ 65) स इह तृषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्व पञ्चसु स्कन्धेषु शिक्षते. द्वादशस्व् आयतनेषु शिक्षते. अष्टादशसु धातुषु शिक्षते. चतुर्ष्व् आर्यसत्येषु शिक्षते. द्वादशांगिके प्रतीत्यसमुत्पादे शिक्षते. अध्यात्मशून्यतायां शिक्षते. बहिर्द्धासून्यतायां शिक्षते. अध्यात्मबहिर्द्धाशून्यतायां शिक्षते. यावद् अभावस्वभावशून्यतायां शिक्षते. एवं यावत् षट्सु पारमितासु शिक्षते. चतुर्षु स्मृत्युपस्थानेषु शिक्षते. यावद् आर्याष्टांगे मार्गे शिक्षते. दशसु तथागतबलेषु शिक्षते. चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते.

सुभूतिर् आह: यथा कथं पुनर् भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसु उपादानस्कन्धेषु शिक्षते?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं प्रजानाति. यथा च रूपम् उत्पद्यते. यथा रूपं निरुध्यते. यथा रूपस्य तथता. कथं रूपं प्रजानाति इति? अत्यन्तच्छिद्रतश् च अत्यन्तसुषिरतश् च. तद्यथापि नाम फेनपिण्ड असारकः एवं रूपं प्रजानाति. कथं च [f. 285b] रूपस्य उत्पादं प्रजानाति? न रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति इत्य् अकुतश्चिद् आगमनतश् च अक्वचिद् गमनतश् च रूपस्य उत्पादं प्रजानाति. यन् न कुतश्चिद् आगतं न क्वचिद् गतं, एवं हि सुभूते बोधिसत्त्वो महासत्त्व रूपस्य उत्पादव्ययं प्रजानाति. कथं च रूपस्य तथतां प्रजानाति? न तथता उत्पद्यते वा निरुध्यते वा न आगच्छति न गच्छति. न संक्लिष्यते न व्यवदायते. नि हीयते न वर्धते. एवं तथतां प्रजानाति. अवितथता सुभूते तथता तस्मात् तथताइत्य् उच्यते. न सा विततथा तेन तथातेत्य् उच्यते. एवं रूपस्य तथतां प्रजानाति. कथं च वेदनां प्रजानाति? कथं वेदनाया उत्पादं कथं वेदनाया व्ययं कथं वेदनायांस् तथतां प्रजानाति? तद्यथापि नाम उदकबुद्बुदा रिक्तका उत्पद्यन्ते च निरुध्यन्ते च. एवं वेदनां प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं वेदनाया उत्पादव्ययं प्रजानाति. कथं च वेदनायास् तथतां प्रजानाति? अवितथतातथता. एवं वेदनायांस् तथतां प्रजानाति. कथं च संज्ञां प्रजानाति? तद्यथा (अद्स्प्ग् इइ 66) मरीचिकायाम् उदकम् अत्यन्ततया नोपलभ्यते. एवं संज्ञां प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं संज्ञाया उत्पादव्ययं प्रजानाति. कथं च संज्ञातथतां

प्रजानाति? यथैव वेदनातथता एवं संज्ञातथतां प्रजानाति. कथं संस्कारान् प्रजानाति तद्यथापि नाम कदल्याः सारम् असारतया पत्र पत्रं कृत्वा नोपलभ्यते एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययं प्रजानाति? अकुतश्चिद् आगमनतया अक्वचिद् गमनतया संस्काराणाम् उत्पादव्ययं प्रजानाति. कथं च संस्काराणां तथतां प्रजानाति? वेदनातथतया संस्कारतथतां प्रजानाति. कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय. एवं विज्ञानं प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं विज्ञानस्य उत्पादव्ययं प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? वेदनातथतया विज्ञानतथतां प्रजानाति. कथं च धातून् प्रजानाति? चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यं. रूपधातुर् रूपधातुस्वभावेन शून्यं. चक्षुविज्ञानधातुश् चक्षुविज्ञानधातुस्वभावेन शून्यं. एवं यावन् मनोधातुर् धर्मधातुर् मनोविज्ञानधातुः कर्तव्यः. कथं च आयतनानि प्रजानाति? आध्यात्मिका धर्मा आध्यात्मिकैर् धर्मै शून्याः, बाह्या धर्माः बाह्यैर् धर्मैः शून्याः. एवम् आयतनानि प्रजानाति. कथं च आर्यसत्यं प्रजानाति दुःखं प्रजानाति. सत्यं प्रजानाति. आर्यसत्यं प्रजानाति. द्वयताविनिर्मुक्तम् आर्यसत्यम् अद्वयं हि आर्याणां सत्यम् इति प्रजानाति. एवं समुदयं निरोधं निरोधगामिनीप्रतिपदम् आर्यसत्यं प्रजानाति. कथं दुःखतथतां प्रजानाति? तथत्?ऐव दुःखस्य तथतेति प्रजानाति. एवं समुदयस्य निरोधस्य मार्गस्य. तथतां प्रजानाति. कथं च प्रतीत्यसमुत्पादं प्रजानाति? अनुत्पादतो प्रतीत्यसमुत्पादं प्रजानाति. एवम् अनिरोधतो

ऽनुच्छेदतो ऽशाश्वततो ऽनेकार्थतो ऽनानार्थतो ऽनागमतो न निर्गमतः प्रपञ्चोपरमतः शिवं प्रतीत्यसमुत्पादं प्रजानाति. एवं प्रतीत्यसमुत्पादं प्रजानाति.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमे परस्परभिन्नान् (अद्स्प्ग् इइ 67) धर्मान् एवं प्रजानाति. ननु भगवन् धर्मधातुर् विकोपितो भवति?

भगवान् आह: विकोपित सुभूते स्याद् यदि धर्मधातुर्विनिर्मुक्तः +अन्यः? कश्चिद् धर्मः स्याद्. न सुभूते धर्मधातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते. यद्य् उपलभ्येत स्याद् धर्मधातोर् विकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा बोधिसत्त्वेन वा. प्रत्येकबुद्धेन वा तथागतश्रावकेण वा धर्म [f. 286a] धातुर्विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलब्धः. अनुपलभ्य न प्रज्ञपयति. धर्मधातुर्विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यत इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यं.

सुभूतिर् आह: धर्मधातौ भगवंच् छिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन क्वचिच् छिक्षितं भवति?

भगवान् आह: धर्मधातौ सुभूते शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः.

आह: केन कारणेन भगवं सर्वधर्मा धर्मधातुः?

भगवान् आह: तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धर्माणां धर्मधातुर् अभेदयोगेन. यदुत संस्कृतधातुर् असंस्कृतधातुर् च धर्मधातुः. एवं यावत् सर्वधर्मेषु कर्तव्यं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति.

आह: यदि भगवन् सर्वधर्मा धर्मधातुः, कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? समाधिपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितव्यं? कथं बोधिसत्त्वेन महासत्त्वेन प्रथमे ध्याने शिक्षितव्यं? कथं द्वितीये त्रितीये चतुर्थे ध्याने शिक्षितव्यं? कथं मैत्र्यां करुणायां मुदितायाम् उपेक्षायाम् आकाशानन्यायतने यावन् नैवसंज्ञानासंज्ञायतने शिक्षितव्यं? कथं चतुर्षु स्मृत्युपस्थानेषु यावद् आर्याष्टाङ्गे मार्गे शिक्षितव्यं? कथं (अद्स्प्ग् इइ 68) शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं? कथम् अष्टादशसु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु शिक्षितव्यं? कथं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितव्यं? कथं पञ्चाभिज्ञासु शिक्षितव्यं? कथं द्वातृंशद्महापुरुषलक्षणपरिनिष्पत्तौ शिक्षितव्यं? कथम् अशीत्य् अनुव्यञ्जनपरिनिष्पत्तौ शिक्षितव्यं? कथं क्षत्रियमहासालकुलोपपत्तौ ब्राह्मणमहासालकुलोपपत्तौ गृहपतिमहासालकुलोपपत्तौ शिक्षितव्यं? कथं चातुर्महाराजकायिकानां देवानाम् उपपत्तौ त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मकायिकानाम् आभास्वराणां शुभकृत्स्नानां वृहणां परीत्तवृहनां वृहत्फलानां देवानाम् उपपत्तौ शिक्षितव्यं? कथम् असंज्ञीसत्त्वोपपत्तौ शुद्धावासदेवनिकयोपपत्तौ शिक्षितव्यं कथं प्रथमे चित्तोत्पादे शिक्षितव्यं. कथं द्वितीये त्रितीये चतुर्थे पञ्चमे षष्टे सप्तमे अष्ठमे नवमे दशमे चित्तोत्पादे

शिक्षितव्यं. कथं श्रावकभूमौ प्रत्येकबुद्धभूमौ बोधिसत्त्वनियामे शिक्षितव्यं? कथं सत्त्वपरिपाके बुद्धक्षेत्रपरिशुद्धौ सर्वधारणीमुखसमाधिमुखेषु शिक्षितव्यं? कथं प्रतिभाने शिक्षितव्यं? कथं बोधिमार्गे शिक्षितव्यं यत्र शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः? यदि भगवन् धर्मधाताव् इमे विकल्पा न सन्ति, माहैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासे चरेत्. अप्रपञ्च्यं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पाः. न हि धर्मधातुर् रूपं न वेदना न संज्ञा न संस्कारा न धर्मधातुर् विज्ञानं. नान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया संज्ञायाः संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुर्. रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपं. यावद् विज्नानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं. एवं सर्वधर्मा ज्ञातव्याः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि. रूपम् एव धर्मधातुर् [f. 286b] धर्मधातुर् एव रूपं. वेदनासंज्ञासंस्कारविज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं. यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् (अद्स्प्ग् इइ 69) चरन् कंचिद् धर्मं धर्मधातुविनिर्मुक्तं पश्येन् न अनुत्तरस्यै सम्यक्संबोधयं प्रतिष्ठित. यस्मात् सर्वधर्मा धर्मधातुस् तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुर् इति ज्ञात्वा अनामकानि सर्वधर्मान् नामसंकेतेन देशयति. इदं रूपम् इत्य् इयं वेदना इति इयं संज्ञा इति इमे संस्कारा इति इदं विज्ञानम् इति. यावद् इयं बोधिर् इति.

(viii 5,4) तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारन्तेवासी वा यत् किंचिद् एव द्रव्यजातम् अधिष्ठाय विविधं रूपगतं सन्दर्शयेत्. यदुत हस्तिविग्रहं वा अश्वविग्रहं वा बलीवर्दविग्रहं वा पुरुषस्त्रिदारकदारिकविग्रहं वा. उद्यानविमानपोवन(?)आरामरमणीयकानि. पुष्करणीरमणीयकानि वा वनरमणीयकानि वा, यत्र विविधास् तरणोपस्तररिअप्रत्यास्तरनानि. पुष्पमाल्यगुणां वा खादनीयभोजनीयानि वा दर्शयेद्, गीतवादितेन वा जनं रमयेत्. दानं वा ददंच् छीलं वा रक्षन् क्षान्त्या वा संपादयन् वीर्यं वा आरभमाणः समाधिर् वा विक्रीनुन् प्रज्ञां वा भावयन्. स तत्रैभिर् आकारैर् जनं रमयेत्, क्षत्रियमहासालकुलानि वा दर्शयेत् ब्राह्मणमहासालकुलानि वा गृहपतिमहासालकुलानि वा दर्शयेत्. चातुर्महाराजकायिकान् वा देवान् वा दर्शयेत्, सुमेरुं वा दर्शयेत्, त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्मणरतीं वा परनिर्मितवशवर्तिनो वा देवान् यावन् नैवसंज्ञानासंज्ञायतनोपगात्वा देवान् दर्शयेद्, अरूपिण स्रोतआपन्नं वा सकृदागामिनो वा अनागामिनो वा अर्हन्तो वा प्रत्येकबुद्धान् वा. ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्ति. प्रथमायां भूमौ चरन्ति. यावद् दशम्यां महाभूमौ चरन्ति. बोधिसत्त्वन्यामम् अवक्रामन्त्य् अभिज्ञाम् अभिनिर्हरन्ति. ताभिर् अभिज्ञाभिर् विक्रीडन्ति सत्त्वांश् (अद्स्प्ग् इइ 70) च परिपाचयन्ति. बुद्धक्षेत्रं च परिशोधयन्ति. ध्यानविमोक्षसमाधिसमापत्तिभिर् विक्रीडन्ति. अङ्गप्रत्यङ्गानि वा परित्यजन्ति. दुष्करचर्यान् वा

चरन्ति. तथागतबलानि वा निष्पादयन्ति. वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं महाकरुणां वा तान् अपि दर्शयेत्. सर्वाङ्गप्रत्यङ्गपरिपूर्णं बुद्धविग्रहं वा आदर्शयेत्. तत्र बालजतीया सत्त्वा एवं जानीयुह्: अहो यावत् सुशिक्षितो ऽयं मनुष्यः कथं शोभनं करोति. यद् इमं जनम् एवं रमयत्य् एवं विविधानि च रूपाण्य् आदर्शयति. यावद् बुद्धविग्रहं वा. ये खलु पुनस् तत्र मनुष्या भवन्ति पण्डिता व्यक्ता मेधाविनः तद्रूपया मीमांसया समन्वागता तेषाम् एवं भवत्य्. आश्चर्यम् इदम् अद्भुतधर्मो न चात्र कश्चिद् धर्म उपलभ्यते. अयं च मनुष्य इमां जनताम् एवम् असद्भिर् धर्मैर् रमयति. तां च सत्त्वसंज्ञान् नोपलभते. अद्रव्ये वतेमे सत्त्वा द्रव्यसंज्ञिन इति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो न कश्चिद् धर्मन् धर्मधातुविनिर्मुक्तं पश्यति. प्रज्ञापारमितायां चरन्न् उपायकौशलेन न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं.

(viii 5,5). स आत्मना च दानं ददाति परं च दाने समादापयति. दानस्य च वर्णं भाषते. ये ऽप्य् अन्ये सत्त्वा दानं ददन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च शीलं रक्षति. परं च शीले समादापयति. शीलस्य च वर्णं भाषते ये ऽप्य् अन्ये शीलं रक्षन्ति. तेषां च वर्णवादी [f. 287a] भवति समनुज्ञः. एवम् आत्मना च क्षान्तिं भावयंति. परं च क्षान्तौ समादापयति. क्षान्तेश् च वर्णं भाषते. ये ऽप्य् अन्ये क्षान्तिं भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च वीर्यम् आरभते. परं च वीर्ये समादापयति. वीर्यस्य च वर्णं भाषते. ये ऽप्य् अन्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च समाधिं समापद्यन्ते. परं च समाधौ समादापयति. समाधेश् च वर्णं भाषते ये ऽप्य् अन्ये समाधिं समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च प्रज्ञानि भावयति. परं च प्रज्ञायां समादापयति प्रज्ञायाश् च वर्णं भाषते. ये ऽप्य् अन्ये प्रज्ञां भावयन्ति. तेषां च वर्णवादी भवति: समनुज्ञः.

(viii 5,6) आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तन्ते परं च दशसु कुशलेषु कर्मपथेषु समादापयति. दशानां च कुशलानां कर्मपत्ः आनां च वर्णं भाषते. ये ऽप्य् अन्ये (अद्स्प्ग् इइ 71) सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च अष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति. परं च अष्टाङ्गसमन्वागते पोषधे समादापयति: अष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते. ये च अन्ये सत्त्वा अष्टाङ्गसममन्वागतं पोषधम् उपवसन्ति. तेषां च वर्णवादी भवति समनुज्ञः. आतमना च पञ्चशिक्षापदानि समादाय वर्तन्ते. परं च पञ्चसु शिक्षापदेषु समादापयन्ति. पञ्चानां च शिक्षापदानां वर्णं भाषते. ये च अन्ये सत्त्वा पञ्चशिक्षापदानि समादाय वर्तन्ते तेषांच वर्णवादी भवति समनुज्ञः. एवम् आत्मना च प्रथमं ध्यानं समापद्यते याव चतुर्थं मैत्रीं करुणां मुदितां उपेक्षाम् आकाशानन्त्यायतनसमापत्तिं यावन् नैवसंज्ञनासंज्ञायतनसमापत्तिं. आत्मना च स्मृत्युपस्थानानि भावयति. यावद् आर्याष्टांगं मार्गं त्रीणि विमोक्षमुखानि अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीर् दशतथागतबलानि. चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीतिम् अनुव्यञ्जनानि भावयति. परं च अशीत्याम् अनुव्यञ्जनेषु समादापयति. अशीतिर् अनुव्यञ्जनानां वर्णं भाषते ये ऽप्य् अन्ये सत्त्वा अशीतिम् अनुव्यञ्जनानि भावयन्ति. तेषां च वर्णवादी भवति समनुज्ञः.

(viii 5,7) यदि सुभूते धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये नाभविष्यत्. न बोधिसत्त्वो महासत्त्व उपायकौशलेन सत्त्वानां धर्मधातुं सूचयति. सत्त्वांश् च परिपाचयिष्यति. यस्मात् तर्हि सुभूते धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये, तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मधातुं सूचयति. सत्त्वानाम् अर्थाय बोधिसत्त्वचारिकां चरति. सत्त्वांश् च परिपाचयति.

// सर्वधर्मसमतानिर्देशपरिवर्त्तः. // 74 //

परिवर्त 75. अकोप्यनिर्देश

अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते, न सत्त्वप्रज्ञप्तिः, कस्य अर्थाय बोधिसत्त्वो महासत्त्व प्रज्ञापारमितां भावयति?

एवम् उक्ते भगवान् आयुष्मन्तम् सुभूतिम् एतद् अवोचत्: भूतकोटिं सुभूते प्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. यदि सुभूते अन्या भूतकोटिर् भवेद् अन्या सत्त्वकोटिर् (अद्स्प्ग् इइ 72) न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरेत्. यस्मात् तर्हि सुभूते न अन्या भूतकोटिर् अन्या सत्त्वकोटिस्, तस्माद् बोधिसत्त्वो महासत्त्व सत्त्वानाम् अर्थे प्रज्ञापारमितायां चरति. प्रज्ञापारमितायां सुभूते चरन् बोधिसत्त्वो महासत्त्वो भूतकोट्यविकोपनतया सत्त्वान् भूतकोट्यां प्रतिष्ठापयति.

आह: यदि भगवन् भुतकोटिः सत्त्वकोटिस्, तत् किं भूतकोटिर् भूतकोट्यां प्रतिष्ठापयति? [f. 287b] यदि भगवं भूतकोटिर् भूतकोट्यां प्रतितिष्ठेत्, ततः स्वभावः स्वभावे प्रतितिष्ठेत्. न च भगवं स्वभाव स्वभावे प्रतितिष्ठति. कथं भगवन् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति?

भगवान् आह: न सुभूते भूतकोटिर् भूतकोट्यां प्रतितिष्ठते. न स्वभाव स्वभावे प्रतितिष्ठते. अपि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वकोटिर् भूतकोट्यां प्रतिष्ठापयति. न च अन्या भूतकोटिर् अन्या सत्त्वकोटिर्, इति हि सत्त्वकोटिश् च भूतकोटिश् च अद्वयम् एतद् अद्वैधीकारं.

आह: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं येन उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति. दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तमध्यम् आचष्टे. यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः. शून्यं मधयतः शून्यं, तथैव दानफलम् अपि शून्यं. दानपतिर् अपि शून्यः. प्रतिग्राहको ऽपि शून्यः. एवं कुलपुत्रा: सर्व एते ऽर्था भूतकोट्यां न संविद्यन्ते. मा च अन्यद् दानं मंस्यसे ऽन्यद् दानफलं मा च अन्यद् दानपतिं मंस्यसे ऽन्यं प्रतिग्राहकं. यदा त्वं कुलपुत्र न अन्यद् दानं मंस्यसे ऽन्यद् दानफलं. नान्यद् (अद्स्प्ग् इइ 73) दानपतिं मंस्यसे ऽन्यं प्रतिग्राहकं. तदा तवेदं दानम् अमृतं भविष्यत्य् अमृतफलपर्यवसानम्. अनेन च दानेन मा रूपं परिग्रहीर् मा वेदनां संज्ञां मा संस्कारान् मा विज्ञानं परिग्रही. तत् कस्य हेतोर्? यथा ह्य् एतद् दानं शून्यं दानेन. अस्य फलं शून्यं फलेन. दानपतिर् अपि शून्यो दानपतिना. प्रतिग्राहको ऽपि शून्य प्रतिग्राहकेण, न शून्यतायां दानम् उपलभ्यते. न दानफलं न दानपतिर् न प्रतिग्राहकः उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया एते धर्मा स्वभावेन शून्या. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् शीले प्रतिष्ठापयति. एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरम. यावत् मिथ्यादृष्टिं प्रहाय: मिथ्यादृष्टिं प्रतिविरम. नैषां कुलपुत्र धर्माणांकश्चित् स्वभावः संविद्यते: यथा ते परिकल्पितः, हन्त तावत् कुलपुत्र व्युपपरीक्षस्व: कतम एष धर्मः प्राणीनाम् अयं जीवितान् व्यपरोपयिष्यसि.

येन वा व्यपरोपयिष्यसि. यावन् मिथ्यादृष्टे कर्तव्यं. अनेन च सुभूते उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति. स तस्य दानस्य च शीलस्य च फलम् आचष्टे. तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं. ततः स कुलपुत्रो दानस्य च शीलस्य च फलं शून्यम् इति विदित्वा तत्र न अभिनिविशते. अनभिनिविशमान अविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति. यया प्रज्ञया सर्व अनुशयपर्युत्थनानि च्छित्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वाति. लोकव्यवहारेण न पुनः परमार्थेन, तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते. यः परिनिर्वायाद् वा परिनिर्वापितो वा. अपि तु खलु तद् एव अस्य परिनिर्वाणं यदुत [f. 288a] अत्यन्तशून्यता. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान् क्षुभितान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् एवम् अनुशास्ति. एहि त्वं कुलपुत्र क्षान्त्या संपादय क्षान्तिञ् च भावय (अद्स्प्ग् इइ 74) अधिवासनजातीयो भव, यो वा व्यापद्यते. येन वा व्यापद्यसे. यत्र वा व्यापद्यसे: सर्व एते धर्माः प्रकृतिशून्या, हन्त तावत् कुलपुत्र व्युपपरीक्ष्व को ऽत्र व्यापद्यते. कस्मिं व्यापद्ये. केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्या. या च प्रकृतिशून्यता न सा जातु न शून्यता, सा न तथागतैः कृता न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् न किन्नरैर् न महोरगैर् न चातुर्महाराजकायिकैर् देवैर् यावन् न परनिर्मितवशवर्तिभिः न ब्रह्माभिर् यावन् न शुभकृत्स्नैर् न शुद्धावासैर् यावन् न

नैवसंज्ञानासंज्ञायतनोपगैर् देवैः. तद् हन्त तावत् कुलपुत्र व्युपपपरीक्षस्व को ऽत्र व्यापद्यते कस्य वा व्यापद्ये. केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्याः. न हि शून्यता कस्यचिद् अन्तिके व्यापद्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं सत्त्वान् उपायकौशलेन प्रकृतिशून्यतायां नियोजयत्य्. अपि हेताव् अपि फले. प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण अनुत्तरस्यां सम्यक्संबोधौ संहर्षयति समादापयति निवेशयति. प्रतिष्ठापयति. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यः प्राप्नुयाद् येन वा प्राप्नुयाद् यद् वा प्राप्नुयात्. इयं सुभूते भूतकोटिः प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति. सत्त्वानां कृते, न च तत्र सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं. तत् कस्य हेतोः? सत्त्वविविक्ता हि सर्वधर्माः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वां हीनवीर्यान् कुसीदान् दृष्ट्वा एवं कायिके चैतसिके वीर्ये समादापयति. न हि कुलपुत्र: प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते. यत्र संसीदेद् येन वा संसीदेद् यो वा संसीदेत्, सर्व एते धर्माः प्रकृतिशून्यताया न व्यतिवर्तन्ते. हन्तेदानिं कायिकं चैतसिकं च वीर्यं संजनय्य कौसीद्यम् उत्सृज्य कुशलेषु धर्मेषु प्रयुज्यस्व: यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये. यदि वा ध्याने यदि वा प्रज्ञायां. यदि वा ध्यानविमोक्षसमाधिसमापत्तिषु यदि वा स्मृत्युपस्थानेषु यदि वा यावद् आर्याष्टाङ्गे मार्गे (अद्स्प्ग् इइ 75) यदि वा शून्यतायां

यदि वा आनिमित्ते यदि वा अप्रणिहिते: यदि वा सर्वबुद्धधर्मेषु: सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व शून्यताया, न ह्य् अनावरणेषु धर्मेषु कस्यचिद् धर्मस्य संसीदना संविद्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन प्रकृतिशून्यतायां सत्त्वां समादापयति. निवेशयति. प्रतिष्ठापयति. तथा पुनः प्रतिष्ठापयति. यत्र द्वयन् न विद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यता अद्वैधीकारा, न ह्य् अद्वयो धर्मः न क्वचित् संसीदति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् प्रकृतिशून्यतया वीर्ये सत्त्वान् अववदत्य् अनुशास्ति. एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ. यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञे. यदि वा स्मृत्युपस्थानेषु यदि वा यावद् आर्याष्टाङ्गे मार्गे. यदि वा अष्टासु विमोक्षेषु यदि वा नवस्व् अनुपूर्वसमापत्तिषु. यदि वा दशसु तथागतबलेषु यदि वा चतुर्षु वैशारद्येषु. यदि वा चतसृषु प्रतिसंवित्सु यदि वा महामैत्र्यां यदि वा महाकरुणायां यदि वा अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, मा चैतान् धर्मान् द्वयतो मनसिकार्षीर् मा अद्वयत, तत् कस्य हेतोः? [f. 288b] प्रकृतिशून्यतैते धर्माः, न च प्रकृतिशून्यता द्वयतो मनसिकर्तव्या न अद्वयतः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन बोधिसत्त्वचारिकां चरं सत्त्वां परिपाचयति. सत्त्वां परिपाच्य अनुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति. सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबोधौ यावद् अनुत्तरस्यां सम्यक्संबोधौ

प्रतिष्ठापयति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरन्न् उपायकौशलेन विक्षिप्तचित्तान् सत्त्वान् एवम् अववदति. एवम् अनुशास्ति, एहि त्वं कुलपुत्र समाधिं भावय, मा विक्षेपसंज्नी मा समाधिसंज्ञी भूः. तत् कस्य हेतोः? प्रकृतिशून्यतैते धर्म, न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षिप्यते एकाग्रि भवति वा. स त्वम् अत्र समाधौ स्थित्वा यद् यद् एव कुशलमूलं करिष्यसि कायेन वा. वाचा वा मनसा वा. यदि वा दानं दास्यसि. यदि वा शीलं रक्षस्यसि. यदि वा क्षान्त्या संपादयिष्यसि. यदि वा वीर्यम् आरप्स्यसे, यदि वा समाधिम् उत्पादयिष्यसि. यदि वा प्रज्ञां भावयिष्यसि. यदि वा स्मृत्युपस्थानेषु चरिष्यसि. (अद्स्प्ग् इइ 76) यदि वा यावद् आर्याष्टाङ्गे मार्गे. यदि वा त्रिषु विमोक्षमुखेषु यदि वा अष्टासु विमोक्षेषु यदि वा नवस्व् अनुपूर्वसमापत्तिषु. यदि वा दशसु तथागतबलेषु. यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु: यदि वा महामैत्र्यां यदि वा महाकरुणायां महामुदितायां महोपेक्षायां यदि वा अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु: यदि वा द्वातृंशतिमहापुरुषलक्षणेषु यदि वा अशीत्याम् अनुव्यंजनेषु. यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे. यदि वा बोधिसत्त्वमार्गे. यदि वा बुद्धमार्गे. यदि वा स्रोतआपत्तिफले यदि वा सकृदागामिफले. यदि वा अनागामिफले. यदि वा अर्हत्त्वे. यदि वा प्रत्येकबोधौ. यदि वा सर्वाकारज्ञतायां. यदि वा सत्त्वपरिपाके यदि वा बुद्धक्षेत्रपरिशुद्धौ, तस्य ते. इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतह्: एवं खलु सुभूते बोधिसत्त्वो महासत्त्व

प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादायज्न जात्व् अकर्मको भवति. किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वं. बुद्धक्षेत्राद् बुद्धक्षेत्रं सततसमितं संक्रामति. बुद्धां भगवतः पर्युपासिनह्: यञ् च तेशां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति. तस्य जातिव्यतिवृत्तस्य अपि न जातु विप्रणश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. धारणीप्रतिलब्धश् च सततसमितं भवति. अहीनेन्द्रियो. यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण: यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञता सततसमितं सुभाविता, तेन अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गा. सुभाविता भवन्ति: यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गः. तस्य अभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भवन्त्य् अविप्रणाशयोगेन. स तासु विपाकीयास्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति. न च परिहीयते पंचगतिके संसारे संसरन्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थितो उपायकौशलेन सत्त्वानाम् अर्थं करोति. स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवं अनुशास्ति. एहि त्वं कुलपुत्र यद् यद् एव कर्म करोषि. कायेन वा वाचा वा मनसा वा तत् सर्वं प्रकृतिशून्यम् (अद्स्प्ग् इइ 77) एवं प्रत्यवेक्षस्व, तस्य ते सर्वं कर्मामृतफलं भविष्यत्य् अमृतपर्यवासनं. न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते. यो विनश्येद् यो वा परिहीयेत. [f. 289a] तत् कस्य हेतोः? न हि प्रकृतिशून्यता परिहीयते नापि

प्रकृतिशून्यताया कश्चिद् धर्मः परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो न अभावः. तत् किम् अभावस्वभावेषु धर्मेषु परिहास्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् अववदत्य् अनुशास्ति. एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको भवति. स आत्मना च दशकुशलेषु कर्मपथेषु सततसमितं वर्तते. परं च दशकुशलेषु कर्मपथेषु समादापयति. एवं पंचसु शिक्षापदेष्व् अष्टाङ्गसमन्वागते उपवासे, आत्मना च. प्रथमध्यानं समापद्यते परं च प्रथमे ध्याने समादापयति. एवं यावच् चतुर्थे ध्याने. आत्मना च सततसमितं मैत्रीविहारी भवति परं च सततसमितं मैत्रीभावनायां समादापयति. एवं करुणायां मुदितायाम् उपेक्षायां यावन्. नैवसंज्ञानासंज्ञायतनसमापत्तौ, आत्मना च स्मृत्युपस्थानं भावयति. परं च स्मृत्युपस्थानेषु समादापयति. एवं यावद् आर्याष्टाङ्गे मार्गे. आत्मना च दशसु तथागतबलेषु शिक्षते. परं च दशसु तथागतबलेषु समादापयति. निवेशयति विनयति प्रतिष्ठापयति. एवं यावद् अशीत्याम् अनुव्यञ्जनेषु, आत्मना च स्रोतआपत्तिफलज्ञानम् उत्पादयति. न च तत्र अवतिष्ठते. परं च स्रोतआपत्तिफले प्रतिष्ठापयति. एवं यावद् अर्हत्त्वे प्रत्येकबोधौ, आत्मना च अनुत्तरस्याम्: सम्यक्संबोधेर् मार्गम् उत्पादयति. परं च तत्र मार्गे ऽवदत्य् अनुशास्ति निवेशयति. विनयति प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन न कदाचित् कर्म न करोति.

आह: यदि भगवं. प्रकृतिशून्याः सर्वधर्माः न च प्रकृतिशून्यतायां सत्त्वम् उपलभ्यते, न धर्मो न अधर्मस्, तत् कथं भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतायैः संप्रतिष्ठते?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि, प्रकृतिशून्याः सर्वधर्माः, न च प्रकृतिशुन्यतायां सत्त्वम् उपलभ्यते, (अद्स्प्ग् इइ 78) न धर्मो न अधर्मः, यदि पुनः सुभूते नप्रकृतिशून्या सर्वधर्माः भवेयुर् न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां प्रतितिष्ठेत्. न अस्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य प्रकृतिशून्यान् धर्मान् देशयेत्. रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्काराविज्ञानं सुभूते प्रकृतिशून्यं. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मन् देशयति. अष्टादशधातवो द्वादशायतनानि प्रकृतिशून्या इति धर्मन् देशयति. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गो मार्ग प्रकृतिशून्य इति धर्मन् देशयति. त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो. दशतथागतबलानि चत्वारि वैशारद्यानि. चतस्रः प्रतिसंविदो महामैत्री महाकरुणा महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा द्वातृंशन् महापुरुषलक्षणानि अशीतिर् अनुव्यञ्जनानि प्रकृतिशून्यान् इति धर्मन् देशयति. स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलं. अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता सर्ववासनानुसन्धिक्लेशप्रहाणं प्रकृतिशून्य् [f. 289b] अम् इति धर्मन् देशयति. यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्याः सर्वधर्मा इति धर्मन् देशयिष्यन्. एवं बहिर्द्धाशून्यता आध्यात्मबहिर्द्धाशून्यता शून्यताशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता

अवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता न प्रकृतिशून्या भवेत्? तद् विनाशिता प्रकृतिशून्यता भवेन्, न च प्रकृतिशून्यता विनश्यति. न कूटस्थो भवति. नापि सा पुनर् अवक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था, न हि सा कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एषा सा धर्मस्थितिता यत्र न कस्यचिद् धर्मस्य आचयो वा अपचयो वा उपलभ्यते. हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा वयवदानं वा. एषा सा प्रकृतिर् धर्माणां यत्र स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते. न च कस्यचिद् धर्मस्य (अद्स्प्ग् इइ 79) प्रस्थानं समनुपश्यति न अप्रस्थानं. असंप्रस्थिता. अस्थिता हि सर्वधर्माः. एषा सा धर्माणां धर्मस्थिता, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्त्तते ऽनुत्तरस्याः सम्यक्संबोधेः. तत् कस्य हेतोस्? तथा हि स न कस्यचिद् धर्मस्य आवरणं समनुपश्यति. अनावरणान् सर्वधर्मान् समनुपश्यति. तत् किं विचिकित्सिष्यत्य् अनुत्तरस्या सम्यक्संबोधेः. यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिं न आत्मा न जीवो न पोषो न पुद्गलो न जन्तुर् न मनुजो न मानवो न कारको न कारापको न वेदको न वेदयिता न उत्थापको न जनको न पश्यक उपलभ्यते. न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते. एवम् आध्यात्मिकबाह्या धर्माः कर्तव्याः यावद् अशीतिर् अनुव्यञ्जनानि.

(viii 5,8) तद्यथापि नाम सुभूते तथागतनिर्मितो निर्मितस्य भिक्षोर् भिक्षुण्या वा उपासकस्य वा उपासिकाया वा अनुप्रबन्धं कल्पनियुतं धर्मन् देशयेत्, तत् किं मन्यसे सुभूते अपि नु ते निर्मिता भव्या स्रोतआपत्तिफलम् अनुप्राप्तुं सकृदागामिफलम् अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा अनुत्तरां वा सम्यक्संबोधिम् अनुप्राप्तुं?

आह: नो हीदं भगवन्. तत् कस्य हेतोस्? तथा हि तेषां वस्तु नास्ति.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अवस्तुकानां सर्वधर्माणां कतम स सत्त्वो यम् बोधिसत्त्वो महासत्त्वो निवेशयेत् स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वा अनुत्तरायां वा सम्यक्संबोधौ, अन्यत्र विपर्यासपर्यवनद्धः प्रज्ञा अविपर्यासे निवेशयति प्रतिष्ठापयति. य एव विपर्यास स एव अविपर्यास. कल्पनिष्यन्दम् उपादाय. अविकल्पश् च अविपर्यास, यत्र विपर्यासो नास्ति तत्र न आत्मा न सत्त्वो यावन् न जनको न पश्यकः, तत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं यावन् न बोधिः, यत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं. यावन् न बोधिः, एषा सा प्रकृतिशून्यता. यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपर्यासां सत्त्वान् सत्त्वसंज्ञायां मोचयति. एवं रूपसंज्ञायात् अरूपसंज्ञायान् मोचयति. यावत् सर्वेभ्यः सास्रवेभ्यो धर्मेभ्यो मोचयति. (अद्स्प्ग् इइ 80) ये ऽपि ते [f. 290a] अनास्रवा धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि. चत्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यंगान्य् आर्याष्टांगो मार्ग त्रिणि विमोक्षमुखानि यावद् अष्टादशावेणिका बुद्धधर्माः, तद् अपि न तथा परमार्थः, यदुत असंस्कृतम् अनुत्पादः अभावः अप्रादुर्भावः एषा सा प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बोधिः, यत्र न सत्त्वो यावन् न जनको न पश्यकः, न रूपं न वेदना स संज्ञा न संस्कारा न विज्ञानं. एवं विस्तरेण कर्तव्यं. यावद् अशीतिर् अनुव्यञ्जनानि. न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृते ऽनुत्तरस्यै सम्यक्संबोधये ऽभिप्रतिष्ठते.

अन्यत्रप्रकृतिशून्यतापरिज्ञान अर्थे. सा अपि प्रकृतिशून्यता पूर्वे वा सा प्रकृतिशून्यता, पश्चाद् वा सा प्रकृतिशून्यता. मध्ये वा सा प्रकृतिशून्यता, न सा जातु न प्रकृतिशून्यता. तद् बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितासु चरं सत्त्वानां सत्त्वसंज्ञीनां सर्वसंज्ञाप्रमोक्षण अर्थं मार्गाकारज्ञातायां चरति. स मार्गाकारज्ञतायां चरन् सर्वमार्गेषु चरति. यदुत श्रावकमार्गे प्रत्येकबुद्धमार्गे बोधिसत्त्वमार्गे. स खलु पुनर् बोधिसत्त्वो महासत्त्व सर्वमार्गान् परिपूर्य सत्त्वां परिपाच्य बुद्धक्षेत्रं परिशोध्य आयुह्संस्कारान् अधिष्टाय अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. बुद्धनेत्रिं न व्यवच्छिन्नत्ति यदुत प्रकृतिशून्यतां. एषा सा बुद्धानां भगवतां बुद्धनेत्रि, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्री यदुत प्रकृतिशून्यता, ये ऽपि ते अनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्री यदुत प्रकृतिशून्यता: ये ऽपि ते एतर्हि दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्रि यदुत प्रकृतिशून्यता. न ह्य् अन्यतः प्रकृतिशून्यताया लोकप्रादुर्भावो भवत्य् अन्यत्र बुद्धानां भगवताम् अन्तिकात्, तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यतापारमितासु चरितव्यं, यत्र चरं बोधिसत्त्वो महासत्त्वो न परिहीयते सर्वाकारज्ञतया.

सुभूतिर् आह: आश्चर्यम् इदं भगवं. बोधिसत्त्वानां महासत्त्वानां यत्र हि नाम एवं प्रकृतिशून्येषु सर्वधर्मेषु चरन्ति. तां च प्रकृतिशून्यतां न विकोपयन्त्य्, अन्यद् रूपम् अन्या प्रकृतिशून्यता. एवम् अन्या वेदनासंज्ञासंस्काराविज्ञानम् अन्या प्रकृतिशून्यता. एवं विस्तरेण सर्वधर्माणां कर्तव्यं. यावद् अन्या बोधिर् अन्या प्रकृतिशून्यता, रूपम् एव प्रकृतिशून्यता प्रकृतिशून्यतैव रूपं, वेदनैव प्रकृतिशून्यता प्रकृतिशून्यतिव वेदना. संज्ञैव प्रकृतिशून्यता प्रकृतिशून्यतैव संज्ञा, संस्कारा एव प्रकृतिशून्यता प्रकृतिशून्यतैव संस्कारा, विज्ञानम् एव प्रकृतिशून्यता प्रकृतिशून्यतैव विज्ञानं. यावद् बोधिर् एव प्रकृतिशून्यता प्रकृतिशून्यतैव बोधिः.

भगवान् आह: यदि सुभूते अन्यद् रूपं भवेद् अन्या प्रकृतिशून्यता. अन्या वेदनासंज्ञासंस्काराविज्ञानं भवेद् अन्या प्रकृतिशून्यता. यावद् अन्या बोधिर् भवेद् अन्या प्रकृतिशून्यता. यदि सुभूते रूपं न प्रकृतिशून्यं भवेन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरांसम्यक्संबोधिम् अभिसंबुद्ध्येत. एवं वेदनासंज्ञासंस्कारा, यदि विज्ञानं न प्रकृतिशून्यं भवेन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, यावद् यदि बोधिर् न प्रकृति [f. 290b] शून्यता भवेन् न बोधिसत्त्वो महासत्त्वो ऽन्य्त्तरां सम्यक्संबोधिम् अभिसंबुध्येत. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यं वेदनासंज्ञासंस्काराविज्ञानं प्रकृतिशून्यं, यावद् बोधिः प्रकृतिशून्या: तस्माद् बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. तत् कस्य हेतोः? न ह्य् अत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वा, अन्यत्र सदेवको लोकः समारकः सब्रह्मकः सो मूढः इदं रूपम् अहं रूपं मम रूपं. यावद् इदं विज्ञानम् अहं विज्ञानं मम विज्ञानं, ते रूपम् अभिनिविश्य यावद् विज्ञानम् अभिनिविश्य अहंकारममकारयोश् चरन्ति. अहंकारममकारयोर् अभिनिविश्य अध्यात्मिकबाह्येषु (अद्स्प्ग् इइ 82) वस्तुष्व् अभिनिविश्यन्ते, अभिनिविश्य उपपद्य आयतनेषु उपाददाते. रूपं वेदनां संज्ञां संस्कारान् विज्ञानं, ते न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यन्ते. पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्व प्रकृतिशून्यतापारमितासु चरन् रूपं न विकोपयति. शून्यं वा न वाशून्यम् इति. वेदनासंज्ञासंस्कारान्, विज्ञानं

न विकोपयति. शून्यं वा न वाशून्यम् इति. यावद् बोधिं न विकोपयति शून्यं वा न वाशून्यम् इति. तत् कस्य हेतोः? न हि रूपशून्यता रूपं विकोपयति. इदं रूपम् इयं रूपशून्यता यावद् इयं विज्ञानम् इयं विज्ञानशून्यता यावद् इयं बोधिर् इयं बोद्धिशून्यता. तद्यथापि नाम सुभूते न आकाशम् आकाशं विकोपयति. नाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति. न बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयति. एवम् एव सुभूते न रूपं शून्यतां विकोपयति. न वेदनासंज्ञासंस्काराविज्ञानं शून्यतां विकोपयति. न शून्यता विज्ञानं विकोपयति. यावन् न बोधिः शून्यतां विकोपयति. न शून्यता बोधिं विकोपयति. तत् कस्य हेतोः? न ह्य् एषां स्वभावो ऽस्ति य एवं विकोपयेद्. इदं रूपम् इयं शून्यता इयं वेदनासंज्ञासंस्काराविज्ञानम् इयं शून्यता यावद् इयं बोधिर् इयं शून्यता.

सुभूतिर् आह: यदि भगवन्न् अभेदः सर्वधर्माः, कुतो बोधिसत्त्वो महासत्त्व संप्रस्थितो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति? न च भगवन् द्वैधीकारो बोधिर् न च द्विधीकुर्वता शक्यम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं.

भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, न द्वये चरतो बोधिर् न द्वैधीकारो बोधि, अद्वयं हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिर् द्वैधीकारे चरति बोधिर् इति बोधिसत्त्व इति वा. सा च बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न रूपे चरति. न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति. यावन् न बोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति वा ममैति वा, अहं रूपे चरेयं मम रूपं, अहं वेदनायां संज्ञायां संस्कारेष्व् अहं विज्ञाने चरेयं मम विज्ञानं, (अद्स्प्ग् इइ 83) यावद् अहं बोधौ चरेयं मम बोधिः. न च बोधिसत्त्वस्य महासत्त्वस्य बोधिर् उगृह्णे वा अनुद्गृह्णे वा चरति.

सुभूतिर् आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न उद्गृह्णे चरति न अनुद्गृह्णे. कुह बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति?

भगवान् आह: तत् किं मन्यसे सुभूते कुह तथागतस्य निर्मितस्य बोधिश् चरति. उद्गृह्णे वा अनुद्गृह्णे वा चरति?

आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे सुभूते अर्हतः स्वप्नान्तरगतस्य बुद्धि. कुह चरति. उद्गृह्णे वा अनुद्गृह्णे वा?

आह: नो हीदं भगवन्न्, अपि तु खलु भगवन् यद्य् अत्यन्ततो ऽर्हन् न स्वपिति कुत पुनर् अस्य स्वप्ने बुद्धिश् चरिष्यत्य् उद्गृह्णे वा अनुद्गृह्णे वा?

भगवान् आह: एवम् एव सुभूते न बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरत्य् उद्गृह्णे व अनुद्गृह्णे वा.

आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न उद्गृह्णे चरति न अनुद्गृह्णे चरति. न रूपे चरति. यावन् न सर्वाकारज्ञातायां चरति, न पुनर् भगवन् [f. 291a] बोधिसत्त्वो महासत्त्वो दशभूमिषु चरति. षट्सु पारमितासु सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु त्रिषु विमोक्षमुखेषु चतुर्दशसु शून्यतासु ध्यानविमोक्षसमाधिसमापत्तिषु दशसु तथागतबलेषु यावद् अशीत्यानुव्यंजनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति. सर्वाकारज्ञताम् अभिसंबुध्यते. न च भगवन्न् अस्थित्वा दशसु भूमिषु षट्सु पारमितासु यावत् पञ्चस्व् अभिज्ञासु, बोधिसत्त्वन्यामम् अनवक्रम्य बुद्धक्षेत्रम् अपरिशोध्य सत्त्वान् अपरिपाच्य शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं.

भगवान् आह: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, न षक्यम् अपरिपूर्य दशभूमी षट्पारमिताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टङ्गं मार्गं. शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि. चतुर्दशशून्यता दशतथागतबलानि. यावद् अशीतिम् अनुव्यञ्जनानि पञ्चाभिज्ञा शक्यम् अपरिपूर्य असंप्रमोषधर्मतां सदोपेक्षविहारितां सर्वाकारज्ञताम् अभिसंबोद्धुं. तत् खलु पुनः सुभूते रूपप्रकृतौ (अद्स्प्ग् इइ 84) स्थित्वा वेदनासंज्ञासंस्काराविज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा. सा च प्रकृतिर् उपशान्त. न कस्यचिद् धर्मस्य आचयं वा करोत्य् अपचयं वा. उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वा अभिसमयं वा.

(viii 5,9) तत् खलु पुनः सुभूते लोकव्यवहारप्रज्ञप्तिधर्मताम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. न पुनः परमार्थेन किंचिद् अस्ति रूपम् वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावद् बोधिर् वा, यो वा बोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारताम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. तत् तु बोधिसत्त्वो महासत्त्व. प्रथमचित्तोत्पादम् उपादाय बोधाय चरति, न पुनस् तानि चित्तान्य् उपलभते. न सत्त्वान् न बोधिं न बुद्धं न बोधिसत्त्वं. तत् किं मन्यसे सुभूते यस्मिन् समये सुभूतिना सत्कायदृष्टिप्रहाणायेन्द्रियाणि प्रतिलब्धान्य् आनन्तर्यो वा समाधिः स्रोतआपत्तिफलं वा प्राप्तं. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्तं. अपि नु तस्मिन् समये स्वप्नो वा उपलब्धश् चित्तं वा मार्गो वा फलं वा. आह: नो हीदं भगवं.

भगवान् आह: तत् कथं पुनस् ते आज्ञाव्याकृता सुभूतिना अर्हत्त्वं प्राप्तम् इति?

आह: लोकव्यवहारताम् उपादाय.

भगवान् आह: एवम् एतत् सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो, लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदनासंज्ञासंस्काराविज्ञानं प्रज्ञप्तं, यावल् लोकव्यवहारेण सर्वाकारज्ञता प्रज्ञप्ता. न पुनर् बोधिसत्त्वेन महासत्त्वेन कश्चिद् धर्मो उपलब्धो यस्य धर्मस्य आचयं वा कुर्याद् अपचयं वा उपकारं वा कुर्याद् अपकारं वा धर्मप्रकृतिम् उपादाय. सापि धर्माणां धर्मप्रकृतिर् नोपलब्धाः, कः पुनर् वादः, प्रथमचित्तोत्पादम् उपलप्स्यते. यावद् दशमीं भूमिं षट्पारमिता सप्तत्रिंशतं बोधिपक्ष्यान् धर्मान् उपलप्स्यते. शून्यतासमाधिम् आनिमित्तं समाधिं अप्रणिहितं (अद्स्प्ग् इइ 85) समाधिम् उपलप्स्यते. यावद् बुद्धधर्मान् उपलप्स्यत इति. नेदं स्थानं विद्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो [f. 291b] ऽनुत्तरस्यां सम्यक्संबोधौ चरित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं करोति. ((75))

परिवर्त 76. सत्त्वपरिपाकसन्नाह

(viii 5,10) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु तृषु विमोक्षमुखेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वेषु समापत्तिषु. दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरंश् चतुर्दशसु शून्यतासु चरं बोधिमार्गं परिपूर्याभव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्: कथं पुनर् भगवं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?

भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन दानपारमितायां चरति. न च दानम् उपलभते न दानपतिं न प्रतिग्राहकं. नाप्य् अन्यत्रैतेभ्यो धर्मेभ्यश् चरति. तदा बोधिसत्त्वो महासत्त्वः आसादयति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरण्च् छीलपारमितायां चरति. न च शीलम् उपलभते न शीलवन्तं. नाप्य् अन्यत्रैताभ्यां धर्माभ्यां चरति. तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् क्षान्तिपारमितायां चरति. न च क्षान्तिम् उपलभते न क्षमिणं. नाप्य् अन्यत्रैताभ्यां धर्माभ्यां चरति, तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्यते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् वीर्यपारमितायां चरति. न च वीर्यम् उपलभते न वीर्यवन्तं. नाप्य् अन्यत्रैताभ्यां धर्माभ्यां चरति, तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्न् उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां

चरन् ध्यानपारमितायां चरति. न च ध्यानम् उपलभते न ध्यायिनं नाप्य् (अद्स्प्ग् इइ 86) अन्यत्रैताभ्यां धर्माभ्याञ् चरति. तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. पुनर् अपरं सुभूते यदा बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, न च प्रज्ञाम् उपलभते न प्राज्ञं. नाप्य् अन्यत्रैताभ्यां धर्माभ्यां चरति. तदा बोधिसत्त्वो महासत्त्व आसादयिष्यति बोधिमार्गं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कर्तव्यं.

अथायुष्माञ्च् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् योगम् आपद्यते?

भगवान् अह: इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन [f. 292a] रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न विज्ञानं योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न दानपारमितां योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि दानपारमितायां स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न प्रज्ञापारमितां योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायाः स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा. यावन् नावेणिकबुद्धधर्मान् योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माणां स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा.

आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यं योजयेद् वा वियोजयेद् वा. तत् कथं प्रज्ञापारमिताया अभिनिर्हारो भवति. यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं? न च अशिक्षित्वा प्रज्ञापारमितायां शक्यं बोधिसत्त्वेन महासत्त्वेन अनुत्तरं सम्यक्संबोधिम् अभिसंबोद्धुं.

भगवान् आह: एवम् एतच् छारद्वतीपुत्र एवम् एतत्, तथा यथा वदसि, न शक्यं प्रज्ञापारमितायाम् अशिक्षित्वा बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुम्. तं तु उपायकौशलेन न अनुपायकौशलेन. यदि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य स्वभावम् उपलभेत तद् उद्गृह्णीयात्. अथ नोपलभते. तत् किं ग्रहीष्यति. इयं प्रज्ञापारमिता इयं समाधिपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता इदं रुपं यावद् इदं विज्ञानं यावद् इमे बुद्धधर्माः, यावद् बोधिसत्त्वम् अपि नोपलभते. तत् किं ग्रहीस्यति, अग्राह्या शारद्वतीपुत्र प्रज्ञापारमिता. यावद् अग्राह्याः बुद्धधर्माः. इयं शारद्वतीपुत्र पारमिता अग्राह्या पारमिता यदुत प्रज्ञापारमिता. अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. यत्र शिक्षमाणो बोधिसत्त्वो महासत्त्व शिक्षाम् अपि नोपलप्स्यते. कुतो बोधिं. कुतः प्रज्ञापारमितां कुतो बोधिसत्त्वधर्मान् कुतो बुद्धधर्मान् कुतः प्रत्येकबुद्धधर्माः कुतः श्रावकधर्मान् कुतः पृथग्जनधर्मान्. तत् कस्य हेतोः? तथा हि शारद्वतीपुत्र न कस्यचिद् धर्मस्य स्वभावः संविद्यते. एवम् अस्वभावानां सर्वधर्माणां कतमः पृथग्जनः कतमः स्रोतआपन्न. कतमः सकृदागामी कतमो ऽनागमी कतमो ऽर्हन् कतम प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमस् तथागतो ऽर्हन् सम्यक्संबुद्धः. यदि इमे पुद्गला नोपलभ्यन्ते. कुतस् तेषान् धर्माणां प्रादुर्भावो भविष्यति. यै धर्मैर् निर्दिश्यते. पृथग्जनो वा स्रोतआपन्नो वा यावद् अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा तथागतो वा ऽर्हन् सम्यक्संबुद्ध.

आह: अवस्तुकानां भगवं सर्वधर्माणां कुतः आगमः प्रज्ञास्यते. अयं पृथग्जनो यावद् अयं तथागतो ऽर्हन् सम्यक्संबुद्धः?

भगवान् आह: किं शारद्वतीपुत्र रूपस्य वस्त्व् अस्ति? भूतो भावो यत्र बालपिथग्जना अभिनिविष्टाः?

आह: नो हीदं भगवन्न् अन्यत्र विपर्यासात्.

भगवान् आह: किं पुनः शारद्वतीपुत्र वेदनाया संज्ञाया संस्काराणां विज्ञानस्य वस्त्व् अस्ति भूतो भावो यत्र बालपृथग्जना अभिनिविष्टा?

आह: नो हीदं भगवन्न् अन्यत्र विपर्यासात्.

भगवान् आह: किं पुनः [f. 292b] शारद्वतीपुत्र यावद् बुद्धधर्माणां वस्त्व् अस्ति भूतो भावो यत्र बालपृथग्जना अभिनिविष्टाः?

आह: नो हीदं भगवन्न् अन्यत्र विपर्यासात्.

भगवान् आह: एवम् एतच् छारत्वतीपुत्र एवम् एतत्. विपर्यासेन सत्त्वा अवस्तुकान् सर्वधर्मान् भावतः कल्पयन्ति. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन अवस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठति.

(viii 5,11) आह: कतमद् भगवं बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं येन उपायकौशलेन बोधिसत्त्वो महासत्त्वः अवस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठति?

भगवान् आह: इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्य वस्तु समनुपश्यति. यत्र वस्तुनि प्रतिहन्येत, यत्र वा प्रतिहन्यमानो ऽवलीयेत: अवलीयमानः संसीदेत् संसीदन् विसीदेद् विसीदं कौसीद्यम् आपद्येत: यस्मात् तर्हि शारद्वतीपुत्र अवस्तुका अजीवा निर्जीवा. अभावस्वभावा प्रकृतिशून्याः स्वलक्षणशून्या. सर्वधर्माः, अन्यत्र संमोहे न सत्त्वा अभिनिविष्टा स्कन्धा इति वा धातव इति वा आयतनानि इति वा, तद् बोधिसत्त्वो महासत्त्वः अभावस्वभावान् सर्वधर्मान् संपश्यन् प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन्. मायाकारसदृशम् आत्मभावम् अधिष्ठाय सत्त्वानां धर्मं देशयति. ये सत्त्वा मत्सरिणो भवन्ति. तेषान् दानकथां करोति, दुश्शीलानां शीलकथां व्यापन्नचित्तानां क्षान्तिकथां कुसीदानां वीर्यकथां विक्षिप्तचित्तानां समाधिकथां दुष्प्रज्ञानां प्रज्ञाकथां करोति. यदा ते सत्त्वा दाने प्रतिष्ठापिता भवन्ति. यावद् प्रज्ञापारमितायां प्रतिष्ठापिता भवन्ति. तदा तेषां (अद्स्प्ग् इइ 89) सत्त्वानाम् उत्तरिकथां करोति. आर्यां नैर्याणिकीं नैर्वेधिकीं यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति. यावद् अर्हत्त्वम् अनुप्राप्नुवन्ति प्रत्येकबोधिम् अनुप्राप्नुवन्ति. यावत् सर्वाकारज्ञताम् अनुप्राप्नुवन्ति.

आह: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् औपलंभिको भवति य असतो ऽसंविद्यमानान् सत्त्वान् दाने नियोजयति. यावत् प्रज्ञायां नियोजयति. उत्तरि च आर्यां नैर्याणिकीं कथां करोति. यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति. यावत् सर्वाकारज्ञताम् अनुप्राप्नुवन्ति?

भगवान् आह: न खलु पुनः शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कंचित् सत्त्वम् उपलभते. अन्यत्र संवृतिसंकेतेन व्यवहारति. तत्र शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः द्वयो सत्ययो स्थित्वा सत्त्वानां धर्मन् देशयति. यदुत संवृतिपरमार्थसत्ययो, न हि शारद्वतीपुत्र द्वयो सत्ययोः सत्त्वम् उपलभ्यते न सत्त्वप्रज्ञप्तिः. अपि तु खलु पुनर् उपायकौशलेन बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. सत्त्वानान् धर्मन् देशयति. तत् ते सत्त्वा दृष्ट एव धर्मे आत्मानं नोपलभन्ते, प्राग् एव यत् प्राप्स्यन्ति येन वा प्राप्स्यन्ति. एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः [f. 293a] प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मन् देशयति.

आह: महोत्पादो वतायं भगवन् यदुत बोधिसत्त्वो महासत्त्वः, न च नाम भगवं कस्यचिद् धर्मस्य एकत्वं वा नानात्वं वा. नापि पृथक्त्वम् उपलभ्यते. एवंरूपं च सन्नाहं सन्नह्यति येन सन्नाहेन सन्नद्धेन न कामधातौ संदृश्यते. न रूपधातौ. नारूप्यधातौ न संस्कृतधातौ न असंस्कृतधातौ संदृश्यते. सत्त्वांश् च त्रैधातुकां. परिमोचयति. न च सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते: सत्त्वाप्रज्ञप्तितः सत्त्व अबद्धः अमुक्तः, सत्त्व अबद्ध अमोक्षया असंक्लेशाव्यवदानं, असंक्लेशाव्यवदानेन न गतिसंभेदः प्रज्ञायते. गत्यसंभेदतायां न (अद्स्प्ग् इइ 90) च कर्म न क्लेशः, अकर्माक्लेशस्य कुतो विपाको भविष्यति. येन विपाकेन आत्मा वा सत्त्वो वा पञ्चगतिके संसारे संदृश्येत.

भगवान् आह: एवम् एतच् छारद्वतीपुत्र एवम् एतद् यथा वाचं भाषसे. सचेत् पूर्वं सत्त्वो ऽभविष्यत् पश्चान् न अभविष्यत्, तत् स्याद् एष दोषो, बोधिसत्त्वस्य अपि तथागतस्य अपि. एवं पूर्वं भाव पश्चाद् अभाव इति. तत् स्याद् एष दोषः, पञ्चगतिको वा संसारो पूर्वं भावो ऽभविष्यत् पश्चाद् अभावो वा, तत् स्याद् एष दोषो. यस्मात् तर्हि शारद्वतीपुत्र उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता तथता अवितथता यत्र न आत्मा न सत्त्वो न जीवो न पुद्गलो न कारको न कारापकः, तत्र कुतो रूपं भविष्यति कुतो वेदना संज्ञा संस्कारा कुतो विज्ञानं भविष्यति. असस्त्वेतेषु धर्मेषु कुतः पञ्चगतिकः संसारो भविष्यति. यतः सत्त्वाः परिमोचयितव्याः स्युर्, यस्मात् तर्हि शारद्वतीपुत्र इमे धर्मा ईदृशाः स्वभावशून्या तद् बोधिसत्त्वो महासत्त्वः पौर्वकानां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वा अनुत्तरस्यै सम्यक्संबोधये ऽभिप्रतिष्ठते, न ह्य् अत्र कश्चिद् धर्मो यं वयम् उपलभेमहि. यं वोपलभमानान शक्नुयाम् अधिमोक्तुं. यत्र सत्त्वा अभिनिविष्टाः अन्यत्र विपर्यासेन. तद् बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्यति. येन सन्नाहेन सन्नद्धेन न प्रत्युदावर्तते ऽनुत्तरस्यै सम्यक्संबोधेः. न मया अनभिसंबोद्धव्या अनुत्तरा सम्यक्संबोधिः, अभिसंबोद्धव्या एव मया अनुत्तरा सम्यक्संबोधिः, अभिसंबुध्य सत्त्वानाम् अर्थं करिष्यामि. येन अर्थेन सत्त्वां विपर्यासं परिमोचयिष्यामि. तद्यथापि नाम मायाकारनिर्मितः पुरुषः बहूनि प्राणिकोटिनियुतशतसहस्राणि निर्माय प्रभूतेन खादनीयभोजनीयेन संतर्पयेत् संतर्प्य उदानम् उदानयेद् बहुम् एव पुण्यं प्रसूतं बहुम् एव पुण्यं प्रसूतम् इति. तत् किं मन्यसे शारद्वतीपुत्र कश्चित् अत्र भोजितो वा संतर्पितो वा?

आह: नो हीदं भगवन्.

भगवान् आह: एवम् एव शारद्वतीपुत्र बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरंश् चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु. चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु. चतुर्ष्व् इद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेष्व् आर्याष्टांगे मार्गे चतुर्दशसु शून्यतासु त्रिषु विमोक्षमुखेषु अष्टसु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु, दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गं [f. 293b] परिपूरयन् बुद्धक्षेत्रं परिषोधयति सत्त्वाञ् च परिपाचयति, न च कंचिद् सत्त्वम् उपलभते. यम् उपलभ्य विनयेद् इति.

(viii 5,12) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्ग यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्या बुद्धक्षेत्रं च परिशोधयितव्यं?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरंच् छीलपारमितायां क्षान्तिपारमितायां. वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरं सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.

आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वेभ्यो दानन् ददाति. दानन् दत्त्वा एवम् अववदत्य् एवम् अनुशास्ति, इह कुलपुत्र मा दानं ग्राहतो गृहीतः, मा दानग्राहेण गृहीतेन आत्मभावो ऽभिनिर्वर्तयिष्यथ, येन आत्मभावेन अभिनिर्वृत्तेन बहूनि दुःखानि प्रत्यनुभविष्यथ. नेह कुलपुत्र पर्मार्थेन दानं न दानफलं, न दानपतिर् न प्रतिग्राहकः, सर्व एते धर्माः प्रकृतिशून्याः, न प्रकृतिशून्यो धर्मः धर्मं प्रतिगृह्णाति. अग्राह्या च प्रकृतिशून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानन् ददाति न च तत्र दानम् उपलभते. न दानपतिं न प्रतिग्राहकं, अनुपलंभपारमितैषा यदुत (अद्स्प्ग् इइ 92) दानपारमिता. स इमान् सर्वांस् त्रीन् धर्मान् अनुपलभमानः सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति. सकृदागामिफले. अनागामिफले अर्हत्त्वे प्रत्येकबोधाव् अनुत्तरस्यां सम्यक्संबोधौ नियोजयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति. स आत्मना च दानन् ददाति परांश् च दाने समादापयति. दानस्य च वमं भाषते, ये च अन्ये सत्त्वा दानन् ददन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तद् बोधिसत्त्वो महासत्त्वः एवंरूपं महादानन् दत्त्वा क्सत्रियमहासालकुलानां वा सभागतायै उपपद्यते. ब्राह्मणमहासालकुलानां वा सभागतायै उपपद्यते. गृहपतिमहासालकुलानां वा सभागतायै उपपद्यते. कोट्टराजा वा भवति चक्रवर्तिर् वा भवति. चक्रवर्तिराज्यं वा प्रतिलभते. तत्र तान् सत्त्वांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णाति. कतमैश् चतुर्भिः? दानेन प्रियवचनेन

अर्थक्रियया समानार्थतया च. सत्त्वान् दानेन संगृहीतान् अनुपूर्वेण शीले प्रतिष्ठापयति. समाधौ प्रज्ञायां, चतुर्ष्व् अप्रमाणेषु चतसृस्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु. यावत् सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु शून्यतायाम् आनिमित्ते अप्रणिहिते समाधौ प्रतिष्ठापयति. सम्यक्त्वनियामम् अवक्रामति. यावद् अर्हत्त्वं प्रापयति प्रत्येकबोधिं प्रापयत्य् अनुत्तरस्यां सम्यक्संबोधौ समादापयति. हंत भो पुरुषा स्वभिसंबोधानुत्तरा सम्यक्संबोधिः, तत्र न कश्चिद् धर्म. स्वभावेन संविद्यते. यत्रसत्त्वाः सत्त्वाः अन्यत्र विपर्यासेभ्यः, तस्मात् सर्वविपर्यासग्राहाच् [f. 294a] छिन्द: आत्मानं च मोचयतः संसारात्, परां च मोचयत, एवं यूयम् आत्मनश् च महान्तम् अर्थं करिष्यथ, परं च महत्य् अर्थे नियोजयिष्यथः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं. यथा चरं प्रथमचित्तोत्पादम् उपादाय. न कदाचिद् दुर्गतिं प्रपतति. न जातु चक्रवर्तिराज्यं न कारयति. तत् कस्य हेतोः? यादृशं बीजं तादृशं फलं. तस्य खलु पुनश् चक्रवर्तिनो ये याचनका (अद्स्प्ग् इइ 93) ये याचनका आगच्छन्ति तस्य चक्रवर्तिराज्यस्यैवं भवति, नान्यस्य मया कृते चक्रवर्त्तित्वं परिगृहीतम् अन्यत्र सत्त्वानाम् अर्थाय. स ब्रवीति यस्य येन अर्थस् तद् युष्मद्भ्यं दत्तं भवतु, युष्माकम् एव तन् न मम. अनेनाप्य् अनर्थिको ऽस्म्य् अध्यात्मिकेन रूपेण प्राग् एव अन्येन. अन्यत्र मया सत्त्वानाम् अर्थाय संसार उपादत्तः, स करुणायमानो महाकरुणां परिपूर्य यावन् महाकरुणया सत्त्वानाम् अर्थं करोति. तांश् च सत्त्वान् नोपलभते. ये परिनिष्पन्ना भवेयुः.

अन्यत्र संज्ञासमज्ञासंकेतेन व्यवहारति. स च व्यवहारः प्रतिश्रुत्कोपमः अव्यवहारो वेदितव्यं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित् सत्त्वानाम् अन्तिके अपरित्यक्तं भवत्य् अन्तशः आत्मनः मांसान्य् अपि, प्राग् एव बाह्यान्य् उपकरणानि. यैर् उपकरणैः सत्त्वाः संसारात् परिमोचयितव्या.

आह: कतमान्य् उपकरणानि?

भगवान् आह: दानपारमिता उपकरणं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता उपकरणं. यावद् अष्टादशावेणिकबुद्धधर्मा उपकरणं. इमानि तान्य् उपकरणानि यैर् उपकरणैर् अनुगृहीता सत्त्वाः संसारात् परिमुच्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वेभ्यो दानं ददाति. स तद् दानन् ददन्न् एवं वाचं भाषते. एत यूयं शीलं रक्षत, अहं युष्माकम् अवैकल्यं करिष्याम्य्, अन्नेन वा पानेन वा यावद् अन्यतरान्यतरैः परिष्कारैः, येन यूयं वैकल्येन दौशील्यं कुरुथ. तद् युष्माकम् अवैकल्यं करिष्याम्य्, अन्नेन वा पानेन वा यावत् सप्तभिर् रत्नैः. तद् यूयं संवरशीले स्थित्वा अनुपूर्वेण दुःखस्य अन्तं करिष्यथः. तृभिर् यानैः, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा सर्वाकारज्ञताज्ञानेन6वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां (अद्स्प्ग् इइ 94) स्थित्वा शीलपारमिताया सत्त्वान् संगृह्णाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा ये सत्त्वा कुप्यन्ति व्यापद्यन्ते तेषां सत्त्वानाम् एवं वाचं भाषते. केन यूयं कारणेन कुलपुत्रा व्यापद्यध्वे तेन यूयं वैकल्येन व्यापद्यध्वे तद् ममान्तिकाद् गृह्णीतः, अहं युष्माकम् अवैकल्यं करिष्ये, अन्नेन वा पानेन वा यावद् अन्यतरान्यतरैः परिष्कारैर्, येन न कोपिष्यथ [f. 294b] न व्यापत्स्यध्वे, तत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा तान् सत्त्वान् क्षान्तौ नियोजयति. नात्र कश्चिद् भावो ऽस्ति यो ऽत्र सार येन युष्माकं क्रोध उत्पद्यते, अभूतपरिकल्प एष क्रोध, नैवात्र किंचिद् वस्त्व् अस्ति यस्य यूयं वस्तुनः. कृते

अभियुज्यथ. कुप्यथ व्यापद्यध्वे. अभिषज्य कुपित्वा व्यापद्य दण्डेन वा प्रहारथ शस्त्रेण वा प्रहारथ. अन्योन्यं जीविताद् व्यवरोपयथ. तद् यूयम् अभूतपरिकल्पेन क्षुभिता नरकं वा प्रपतिष्यथ. तिर्यग्योनिं वा. यमकोकं वा, या अपि कश्चिद् अन्या दुर्गतयः. यत्र यूयं दुःखास् तीव्रा खरा कटुका वेदना वेदयिष्यथ. हं भो पुरुषा मा अवस्तुकानां धर्माणां कृते. तत् कर्म परिग्रहीष्यथ. येन कर्मणा परिगृहीतेन मनुष्यप्रतिलंभो न भविष्यति. प्राग् एव बुद्धोत्पादम् आसादयिष्यथ. दुह्र्लभ खलु मार्ष बुद्धोत्पाद दुर्लभो मनुष्यप्रतिलंभः. मा इमं क्षणं विरागयिष्यथ. मा विचिकित्सा भविष्यथ. तत्र बोधिसत्त्वो महासत्त्व (अद्स्प्ग् इइ 95) आत्मना च क्षान्त्या संपादयति. परञ् च क्षान्तौ नियोजयति क्षान्त्याश् च वर्णं भाषते, ये ऽप्य् अन्ये क्षान्तिं भावयन्ति. तेषां च वर्णवादी भवति समनुज्ञः. तत्र तान् सत्त्वान् क्षान्त्या नियोज्य क्षान्तौ स्थापयित्वा अनुपूर्वेण त्रिभिर् यानैः परिनिर्वापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिपारमितायां सत्त्वान् संगृह्णाति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् वीर्यपारमितायां नियोजयति? इह सुभूते बोधिसत्त्वो महासत्त्व सत्त्वान् कुसीदान् विदित्वा एवं ब्रवीति, कस्य यूयं कृते कौसीद्यम् आपध्यद्वे. त एवं ब्रूवन्ति, प्रत्ययवैकल्येन. तत्र बोधिसत्त्वो महासत्त्वो दानपारमितायांचरंस् तान् सत्त्वान् एवं ब्रवीति. हं भो पुरुष अहं युष्माकं सर्वप्रत्ययान् उपसंहरिष्यामि. यदि वा दानप्रत्ययान् यदि वा शीलप्रत्ययान् यदि वा क्षान्तिप्रत्ययान् यैर् वा यैर् आकारैर्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.