Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82

Thông tin
GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सप्तबोध्यङ्गान्य् आर्याष्टाङ्गं मार्गं परिपूरयति. आध्यात्मशून्यतां परिपूरयति बहिर्द्धाशून्यतम् अध्यात्मबहिर्द्धाशून्यतां. अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यतां यावत् स्वलक्षणशून्यतां परिपूरयति. शून्यतां समाधिं परिपूरयत्य् आनिमित्तं समाधिम् अप्रणिहितं समाधिं परिपूरयति. अष्टौ विमोक्षान् परिपूरयति. नवानुपूर्वसमापत्ती परिपूरयति. पञ्चाभिज्ञापरिपूरयति. पञ्चधारणीमुखशतानि परिपूरयति. चतस्रः प्रतिसंविदः (अद्स्प्ग् इइ 25) परिपूरयति. दशतथागतबलानि चत्वारि वैशारद्यानि महामैत्रीं महाकरुणाम् अष्टादशावेणिकां बुद्धधर्मान् परिपूरयति. स इह विपाकीयेष्व् अनास्रवेषु धर्मेषु स्थित्वा पूर्वस्यान् दिशि लोकधातून् ऋध्या गत्वा बुद्धान् भगवतः पर्युपास्ते. तांश् च उपतिष्ठते. यावद् उपभोगपरिभोगैश् च सत्त्वानाम् अर्थं कुर्वति. ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति. ये शीलेन संग्रहीतव्यास् तांच् छीलेन संगृह्णाति. ये क्षान्त्या संग्रहीतव्यास् तान् क्षान्त्या संगृह्णाति. ये वीर्येण संग्रहीतव्यास् तान् वीर्येण संगृह्णाति. ये समाधिना संग्रहीतव्यास् तान् समाधिना संगृह्णाति. ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति. यावद् ये सर्वकुशलैः धर्मैः संग्रहीतव्यास् तान् सर्वकुशलैर् धर्मै संगृह्णाति. स तैः कुशलमूलै समन्वागतः सर्वधर्मेश्वरः संसारं चोपाददाति. न च संसारावचरै. दुःखैर् लिप्यते. सत्त्वानां कृते देवमानुष्यिकी संपत्तिर् उपाददाति. याभिः संपत्तिभिः सत्त्वान् संगृह्णाति: सो ऽलक्षणान् सर्वधर्मान् जानाति. स्रोतआपत्तिफलं च जानाति. न च तत्र अवतिष्ठते. सकृदागामिफलं च जानाति न च तत्र

अवतिष्ठते. अनागामिफलं च जानाति न च तत्र अवतिष्ठते. अर्हत्वं च जानाति न च तत्र अवतिष्ठते. प्रत्येकबोधिं च जानाति न च तत्र अवतिष्ठते. तत् कस्य हेतोह्स्? तथा हि तेन सर्वधर्मा ज्ञात्वा सर्वाकारज्ञता अनुप्राप्तव्या: या असाधारना सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व अलक्षणा सर्वधर्मा ज्ञात्वा षट्पारमिता अलक्षणान् जानाति. यावत् सर्वबुद्धधर्मान् अलक्षणान् जानाति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसु उपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति. प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीचिकोपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शिलपारमितां परिपूरयति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् मायोपमान् मरीच्युपमान् निर्मितोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा अलक्षणशीलपारमितां परिपूरयति. अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टां भुजिष्यां विज्ञप्रशस्तां सुसमाप्ताम् आर्याम् अनास्रवानि मार्गपर्यापन्नां (अद्स्प्ग् इइ 26) लोकोत्तरां, यत्र स्थित्वा समादानसांकेतिकं शीलं रक्षति. धर्मताप्रतिलंभिकशीलं च संवरशीलं च विज्ञप्तिसीलं च [f. 273b] समुदाचारशीलं च असमुदाचारसीलं च. स एवंरूपै शीलै समन्वागतो न परामृशत्य् अनेन अहं क्षत्रियमहाशालकुलानां सहभागतायै उपपद्येयं. ब्राह्मणमहासालकुलानं वा सहभागतायै गृहपतिमहासालकुलानं वा सहभागतायै उपपद्येयं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहभागतायै उपपद्येयं. त्रायंस्त्रिंशानां वा यामानां वा तुषितानां वा निर्माणरतिनां वा परनिर्मितवशवर्तिनां वा देवानां सहभागतायै उपपद्येयं. स्रोतआपत्तिफलं वा अनुप्राप्नुयां सकृदागामीनां वा अनागामिनां वा अर्हत्वं वा. प्रत्येकबोधिं वा बोधिं वा अनुप्राप्नुयाम् इति. तत् कस्य हेतोः? तथा ह्य् अलक्षणाः सर्वधर्माः एकलक्षणा यदुत अभावस्वभावलक्षणाः. न ह्य् अलक्षणो धर्म अलक्षणं धर्मम् अनुप्राप्नोति.

नापि विलक्षणो धर्मो विलक्षणं धर्मं प्राप्नोति. नाप्य् अविलक्षणा वा अलक्षणा वा धर्मा अविलक्षणान् व अलक्षणान् वा धर्मान् प्राप्नुवन्ति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अलक्षणशीलपारमितां परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रमन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते. मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकीया प्रतिलभ्य पञ्चसु धारणीमुखशतेषु पञ्चसु समाधिमुखशतेषु स्थित्वा चतस्रः प्रतिसंविद प्रतिलभ्य बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति. बुद्धान् भगवतः प्रयुपासिन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिग्रहीष्यति. पञ्चगतिके संसारे संसरिष्यति न च संसारावचरेण कर्मणा न विपाकेन लेप्स्यते. तद्यथापि नाम निर्मितश् चंक्रम्यते तिष्ठति निषादति शय्यं कल्पयति, न च अस्य आगमनं संदृष्यते न गमनं न स्थानं न निषद्या न शय्यान, सत्त्वानां च अर्थं करोति न च सत्त्वम् उपलभ्यते न (अद्स्प्ग् इइ 27) सत्त्वप्रज्ञप्तिं. तद्यथापि नाम सुभूते शान्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यकसंबोधिम् अभिसंबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य अपरिमाणां सत्त्वां द्वाभ्यां यानाभ्यां परिनिर्वाप्य न कश्चिद् बोधिसत्त्वम् उपलभते यम् अनुत्तरस्यां सम्यक्संबोधौ व्याकार्षीत्. स आयुसंस्कारान् उत्सृज्य निर्मितं निर्माय अनुपधिशेषे निर्वाणधातौ परिनिर्वृत, स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वाति. तस्य च परिनिर्वृतस्य न किञ्चिद् वस्तु

उपलभ्यते. रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो न सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, सत्त्वानां च अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंच् छीलपारमितां परिपूरयति. यस्या परिपूर्णत्वाद् अन्तर्गता सर्वधर्मा भवन्ति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं. स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोम्पमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्त्वा अलक्षणक्षान्तिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्वः अलक्षणेषु धर्मेषु स्थित्वा क्षान्तिपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां क्षान्तिभ्यां क्षान्तिपारमितां परिपूरयति. कतमाभ्यां द्वाभ्यां क्षान्तिभ्यां? अधिवासनक्षान्त्या धर्मावबोधक्षान्त्या च. तत्र कतमा अधिवासनक्षान्तिर्? यत् प्रथमचित्तोत्पादम् [f. 274a] उपादाय यावद् बोधिमण्डनिषदनाद् अन्त्रान्तराद् बोधिसत्त्वस्य महासत्त्वस्य सचेत् सर्वसत्त्वा आगम्य आगम्य आक्रोशेयु परिभाषेरन् वा. असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् दद्युस्, तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेन एकचित्तोत्पादो ऽपि क्षोभसहगतो व्यापादसहगतो वा नोत्पादयितव्यः. तेष्व् एव सत्त्वेष्व् अतीव कर्तव्याः क्लेशरुजार्ता बतेमे सत्त्वा, ते मया अपापचित्तम् उत्पादियतव्या. अपि तु मयैते शत्रुभूता स्कन्धा परिगृहीता. यद्यैवं प्रत्यवेक्षते मैत्रावान् करुणायति इयम् उच्यते अधिवासनक्षान्तिः. तत्र कतमा धर्मावबोधक्षान्तिः? यत् तान्य् अपि सत्त्वान् परमार्थतो नोपलभते. (अद्स्प्ग् इइ 28) को मा आक्रोशते परिभाषते वा असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, मायोपमा सर्वसंस्कारा रिक्तास् तुच्छा वशिका गगनकल्पा आत्मसत्त्वजीवजन्तुपुरुषपुद्गलमनुजमानवविरहितापरिकल्पसमुत्थितास्, ते सर्वे विकल्पा को मा आक्रोशते वा परिभाषते वा असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरति. लोष्टदण्डशस्त्रप्रहारान् वा ददाति, अहं पुनर् नैवं विकल्पयिष्यामि. स्वभावशून्यताम् उपादाय परमार्थशून्यताम् उपादायैयम् उच्यते धर्मावबोधक्षान्तिः. स एवम् उपपरीक्षमाण क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णया अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते.

सुभूतिर् आह: कैषा भगवन्न् अनुत्पत्तिकधर्मक्षान्ति. किं वा अस्य प्रमाणं. किं वा ज्ञानं?

भगवान् आह: अणुर् अपि सुभूते यद् धर्मो नोत्पद्यते. तद् उच्यते अनुत्पत्तिकम् इति. तत्र यज् ज्ञानं तद् उच्यते क्षान्ति, येन ज्ञानेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते.

आह: या च भगवंच् छ्रावकाणां या च प्रत्येकबुद्धानाम् अमित्पत्तिकधर्मक्षान्तिः या च बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकधर्मक्षान्ति. आसां क्षान्तीनां किन् नानाकरणं?

भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यत् सकृदागामिनो ज्ञानं च प्रहाणां च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यद् अनागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यद् अर्हतो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यत् प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धक्षान्त्याश् च बोधिसत्त्वक्षान्त्याश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनयैवंरूपया क्षान्त्या समन्वागत सर्वश्रावकप्रत्येकबुद्धान् अभिभवति. स एवैषा क्षान्त्याम् अनुत्पत्तिकधर्मक्षान्त्यां स्थित्वा बोधिसत्त्वमार्गे चरन् मार्गाकारज्ञतां परिपूरयति. यया परिपूर्णया अविरहितो भवति. सप्ततृंशता बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैः समाधिभिः. स आभि पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति. सो ऽविरहितत्वात् सत्त्वान् परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. सत्त्वांश् च परिपाच्य (अद्स्प्ग् इइ 29) बुद्धक्षेत्रं च परिशोध्य एकक्षणसमायुक्तया [f. 274b] प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन्न् अलक्षणक्षान्तिपारमितां परिपूरयति.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेष्व् अलक्षणेषु स्थित्वा कायिकं चैतसिकं च वीर्यम् आरभते, स कायिकेन वीर्येण बोधिम् अभिनिर्हरति. स दशदिक्षु लोकधातून् गत्वा. बुद्धान् भगवतः पर्युपास्ते सत्त्वानां च अर्थं करोति. स तेन कायिकेन वीर्येण सत्त्वान् परिपाच्य त्रिषु यानेषु निवेशयति. प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अलक्षणवीर्यपारमितां परिपूरयति. स चैतसिकेन वीर्येण अनास्रवेण मार्गेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति. यत्र पर्यापन्ना सर्वकुशलधर्मा तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहणानि चत्वारर्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टांगो मार्गः त्रिणि विमोक्षमुखानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तयो ऽष्टौ विमोक्षा नवानुपूर्वसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रिं महाकरुणाम् अष्टादशावेणिका बुद्धधर्मा, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्या परिपूर्या सर्ववासनानुसन्धिं प्रहास्यति, स प्रहाय लक्षणपरिनिष्पत्तिं परिपूर्य समन्तप्रभतां च आराग्य धर्मचक्रं प्रवर्तयति. द्वादशाकारं त्रिपरिवर्तं, यस्य प्रवर्ततेन त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पिष्यते प्रकम्पिष्यते संप्रकम्पयिष्यते चलिष्यति प्रचलिष्यति संप्रचलिष्यति. वेधिष्यति प्रवेधिष्यति संप्रवेधिष्यति. सर्वो ऽयं त्रिसाहस्रमहासाहस्रो इओकधातुर् उदारेण अवभासेन स्फरिष्यति. तस्य खलु पुनस् तथागतस्य अर्हतः सम्यक्संबुद्धस्य यत्र शब्दो निश्चरिष्यति यो सो ऽनुश्रावयिष्यते, तत्र ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तनि शब्दं श्रोष्यन्ति. ते सर्वे नियता भविष्यन्ति तृषु यानेषु, एवं बहुकरा हि सुभूते बोधिसत्त्वस्य (अद्स्प्ग् इइ 30) महासत्त्वस्य वीर्यपारमिता. वीर्यपारमितायां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मा परिपूरयितव्याः सर्वाकारज्ञता अनुप्राप्तव्याः.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? इह सुभूते [f. 275a] बोधिसत्त्वो महासत्त्व प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. मैत्रीम् उपसंपद्य विहरति. करुणां मुदिताम् उपेक्षाम् उपसंपद्य विहरति. आकाशानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनम् आकिञ्चन्यातनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयति. विद्युतोपमं समाधिं भावयति. सम्यक्समाधिं भावयति. वज्रोपमे समाधौ स्थित्वा तथागतसमाधिं स्थापयित्वा यावन्तः केचनः समाधयः श्रावकसाधारणाः वा प्रत्येकबुद्धसाधारणाः वा ये ऽप्य् अन्ये समाधिसमापत्तिगणास् तान् सर्वान् कायेन स्फरित्वा उपसंपद्य विहरति. न च तान् समाधीन् आस्वादयति. न समापत्तिफलं. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावान्, तत् कथम् अलक्षणो धर्म अलक्षणन् धर्मम् आस्वादयति. कथम् अभावो धर्म अभावं धर्मम् आस्वादयति? सो ऽनास्वादयन् न कस्यचित् समाधेर् वशेन उपपद्यते. रूपधातौ वा आरूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तौ धातौ नोपलभते. यो ऽपि समापद्येत येनापि समापद्येत तद् अपि नोपलभते. सो ऽनुपलभमानः अलक्षणसमाधिपारमितां परिपूरयति. सो ऽनया समाधिपारमितया श्रावकप्रत्येकबुद्धभूमीन् अतिक्रामति.

सुभूतिर् आह: कथं भगवं बोधिसत्त्वो महासत्त्व समाधिपारमितां परिपूर्य श्रावकप्रत्येकबुद्धभूमी अतिक्रामति?

भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितः यावत् स्वलक्षणशून्यतायां सुशिक्षितः, न चेह शून्यतासु कश्चिद् धर्म उपलब्ब्यते. यत्र प्रतिष्ठेत्. स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, यापि सा सर्वाकारज्ञता सापि शून्या शून्यताभिः. स आभिः शून्यताभिः बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति.

आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य आम कतमो न्यामः?

भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. आमः, सर्वोनुपलंभो न्यामः.

आह: कतमो भगवन्न् उपलंभः कतमो ऽनुपलंभः?

भगवान् आह: रूपं बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. वेदनासंज्ञासंस्कारविज्ञानं सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. चक्षुरूपणि च श्रोत्रं शब्दांश् च घ्राणं गन्धांश् च जिह्वरसाश् च कायः स्प्रष्टव्यानि च. मनो धर्मांश् च उपलंभः. यावत् सर्वाकारज्ञता उपलंभः. आमः. नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो ऽपि नोपलभ्यते. रूपस्य यावत् सर्वाकारज्ञताया. तत् कस्य हेतोः? थथा हि सुभूते यो रूपस्य स्वभाव सो ऽप्रव्याहारः, यावद् यः सर्वाकारज्ञताया स्वभावः सो ऽप्रव्याहारः. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, स नियामावक्रान्तो बोधिसत्त्वो महासत्त्वः सर्वसमाधिः परिपूर्णः समाधिवशेन अपि नोपपद्यते. प्राग् एव रागं वा दोषं वा मोहं वा उत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्यद् येन कर्माभिसंस्कारेण पञ्चगतिके संसारे पतेत् इति नेदं स्थानं विद्यते. अन्यत्र मायोपमेषु धर्मेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति. न च सत्त्वम् उपलभते (अद्स्प्ग् इइ 32) न मायां, सो ऽनुपलभमान सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. [f. 275b] एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः समाधिपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति. यदुत अनुपलंभचक्रशून्यतानिमित्ताप्रणिहितचक्रं.

पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमां सर्वधर्मान् परिजानाति. प्रतिश्रुत्कोपमान् प्रतिभासोपमान् मायोपमान् मरीच्युपमान् निर्मितोपमान् सर्वधर्मान् परिजानाति.

(vii 4) आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमान् सर्वधर्मान् परिजानाति. प्रतिश्रुत्कोपमान् प्रतिभासोपमान् मायोपमान् मरीच्युपमान् निर्मितोपमान् सर्वधर्मान् परिजानाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापि स्वप्नम् अद्राक्षीन् न स्वप्नदर्शिनं. न प्रतिश्रुत्कम् अद्राक्षीन् न प्रतिश्रुत्कश्रोतारं, न प्रतिभासम् अद्राक्षीन् न प्रतिभासदर्शिनं. न मायान् अद्राक्षीन् न मायादर्शिनं. न मरीचिकम् अद्राक्षीन् न मरीचिकदर्शिनं. न निर्मितम् अद्राक्षीन् न निर्मितदर्शिनं. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्न प्रतिश्रुत्क प्रतिभासो माया मरीचिका विपर्यासो निर्मितो, बालपृथग्जनानां. अर्हत् पुनर् न स्वप्नं पश्यति न स्वप्नदर्शिनं. यावन् न निर्मितं पश्यति न निर्मितदर्शिनं. एवं यावत् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्व तथागतो ऽर्हन् सम्यक्संबुद्धो नैव स्वप्नं पश्यति न स्वप्नदर्शिनं. यावन् न निर्मितं पश्यति न निर्मितदर्शिनं. तत् कस्य हेतोस्? तथा ह्य् अभावस्वभावाः सर्वधर्माः परिनिर्वाणसमा असद्भूततयाः. अपरिनिष्पन्नाः सर्वधर्माः असंभूततया. तत् किं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वा भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभाव उपलभ्येत परिनिष्पत्तिर् वा सद्भूतता वा, एवं च बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् रूपे न सज्जते. यावद् विज्ञाने न सज्जते, कामधातौ न सज्जते. रूपधातौ न सज्जते. आरूप्यधातौ न सज्जते. ध्यानविमोक्षसमाधिसमापत्तिषु न सज्जते. चतुर्षु स्मृत्युपस्थानेषु न सज्जते यावद् आर्याष्टाङ्गे मार्गे न सज्जते. शून्यतायां न सज्जते. आनिमित्तसमाधाव् अप्रणिहिते समाधौ न सज्जते. दानपारमितायां (अद्स्प्ग् इइ 33) न सज्जते.

शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां समाधिपारमितायां न सज्जते. स इह प्रज्ञापारमितायां स्थित प्रथमं भूमिं परिपूरयति. तत्र च च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स तान् भूमीन् नोपलभते. तत् किं तत्र च्छन्दरागम् उत्पादयिष्यति, यावद् दशमीं भूमिं परिपुरयति. तत्र च च्छन्दरागं नोत्पादयति. तत् कस्य हेतोस्? तथा हि स तान् भूमीन् नोपलभते. तत् किं तत्र च्छन्दरागम् उत्पादयिष्यति. स प्रज्ञापारमितायां चरति. तां च प्रज्ञापारमितां नोपलभते. सो ऽनुपलंभायां चरन् सर्वधर्मांश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति. तांश् च धर्मान् नोपलभते. तत् कस्य हेतोस्? तथा हि ते च धर्मा सा च प्रज्ञापारमिता अद्वयम् अद्वैधीकारं. तत् कस्य हेतोस्? तथा हि तेषां धर्माणां न कश्चिद् भेदो ऽस्ति. धर्मधातुनिर्देशेन तथतानिर्देशेन [f. 276a] भूतकोटिनिर्देशेन. असंभिन्नाः सर्वधर्माः.

आह: असंभिन्नानां भगवन् सर्वधर्माणां कथं कुशलाकुशलानां धर्माणां निर्देशो भवति. कथं लौकिकलोकोत्तराणां धर्माणां निर्देशो भवति. कथं सास्रवानास्रवाणां धर्माणां निर्देशो भवति. कथं संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति?

भगवान् आह: तत् किं मन्यसे सुभूते या धर्माणां धर्मता. अपि नु तत्र कस्यचिद् धर्मस्य. प्रव्याहारो ऽस्ति. संस्कृतस्य वा असंस्कृतस्य वा. स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वा. अनागामिफलस्य वा अर्हत्त्वस्य वा. प्रत्येकबोधेर् वा बोधेर् वा.

आह: नो हीदं भगवन्.

भगवान् आह: तद् अनेन अपि ते सुभूते पर्यायेण एवं वेदितव्यं. असंभिन्नाः सर्वधर्माः अलक्षणा अनुत्पादो ऽप्रादुर्भावाः सर्वधर्मा, न मे सुभूते पूर्वं बोधिसत्त्वचारिकां चरता कस्यचिद् धर्मस्य स्वभाव उपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कार इति वा. विज्ञानम् इति वा. यावत् संस्कृतम् इति वा असंकृतम् इति वा. यावत् स्रोतआपत्तिफलम् इति वा. यावद् बोधिर् इति वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अनुपलंभयोगेन. सर्वधर्माणां च स्वभावकुशलेन भवितव्यं. सर्वधर्मस्वभावकुशलो हि बोधिसत्त्वो महासत्त्व बोधिमार्गं (अद्स्प्ग् इइ 34) च परिपूरयति. सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. यत्र स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथा सत्त्वान् विनयति. यथा विनीतास् तृषु भवेषु न दृश्यन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अलक्षणयोगेन. ((72))

विइइ धर्मकाय अभिसमय परिवर्त 73.

(viii 4) अथ आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति. इमे कुशला धर्मा इमे अकुशला धर्मा इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे अनास्रवा इमे संस्कृता इमे असंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते. इमे सकृदागामिफलसाक्षात्क्रियायै इमे ऽनागामिफलसाक्षात्क्रियायै इमे ऽर्हत्फलसाक्षात्क्रियायै संवर्तन्ते. इमे प्रत्येकबोधये संवर्तन्ते. इमे ऽनुत्तरस्यै सम्यक्संबोधये संवर्तन्ते? एवं कथं प्रतिश्रुत्कोप्मानां प्रतिभासोपमानांमायोपमानां मरीच्युपमानां निर्मितोपमानाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्सणशून्यानां व्यवस्थानं भवति. इमे कुशला धर्मा इमे अकुशला यावद् इमे ऽनुत्तरस्यै सम्यक्संबोधये संवर्तन्ते?

भगवान् आह: इह सुभूते बालो ऽश्रुतवान् पृथग्जनः. स्वप्नम् उपलभते. स्वप्नदर्शिनम् अप्य् उपलभते. यावन् निर्मितम् उपलभते निर्मितदर्शिनम् अप्य् उपलभते. स स्वप्नम् उपलभ्य स्वप्नदर्शिनम् अप्य् उपलभ्य: यावन् निर्मितम् उपलभ्य निर्मितदर्शिनम् अप्य् उपलभ्य कुशलसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा, अकुशलसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा, आनेञ्ज्यान् अभिसंस्कारान् [f. 276b] अभिसंस्करोति कायेन वाचा मनसा, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयो शून्यतयो स्थित्वा, अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां च, सत्त्वानां धर्मन् देशयति. शून्यं त्रैधातुकम् एतन्, नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा. संस्कारा वा विज्ञानं वा, स्कन्धा वा धातवो वा आयतनानि वा, स्वप्न एष प्रतिश्रुत्कैषा प्रतिभाष एष मायैषा मरीचिकैषा (अद्स्प्ग् इइ 36) निर्मितम् एतत्. नास्ति स्कन्धा वा धातवो वा आयतनानि वा. नास्त्य् अत्र स्वप्नो न स्वप्नदर्शी न प्रतिश्रुत्का न प्रतिश्रुत्का श्रोता. न प्रतिभासो न प्रतिभासदर्शी. न माया न मायादर्शी, न मरीचिक न मरीचिकदर्शी. न निर्मितं न निर्मिता. अपि तु खलु सर्व एते धर्मा अवस्तुका अभावस्वभावास्, तद् यूयम् अस्कन्धेषु स्कन्धदर्शिन. अधातुषु धातुसंज्ञिन. अनायतनेष्व् आयतनसंज्ञिन. अपि तु खलु प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिता कर्मविपाकपरिगृहीता. किं पुनर् यूयम् अत्र अवस्तुकेषु धर्मेषु वस्तुसंज्ञिनो भवत. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन ये मत्सरिणः सत्त्वास् तान् मत्सर्याद् विनिवर्त्य दानपारमितायां नियोजयति. तेषां च दानपरित्यागो

महाभोगतायै संवर्तते. स तांश् ततः उच्चाल्य शीलपारमितायां नियोजयति. तेषां तच् छीलसमादानं स्वर्गोपपत्तये संवर्तते. स ततः उच्चाल्य समाधौ नियोजयति. तेषां समाधिब्रह्मलोकोपपत्तये संवर्तते. एवं प्रथमा ध्याना द्वितीये ध्याने द्वितीया ध्याना तृतीये ध्याने. तृतीया ध्याना चतुर्थे ध्याने. चतुर्थाद् ध्यानाद् आकाशानन्त्यायतनसमापत्तौ. विज्ञानन्त्यायतनसमापत्तौ. आकिंचन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापौऔ नियोजयति. स ततो हीनाद् दानाद् दानफलाच् च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातव् आश्वासयति निवेशयति प्रतिष्ठापयति. स ततः शीलाच् च शीलफलाच् च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयति. स ततः समाधेश् च समाधिफलाच् च अनेकपर्यायेण विवेच्य अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयति. चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् इद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे त्रिषु विमोक्षमुखेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेष्व् अश्वासयति निवेशयति विनयति प्रतिष्ठापयति. स एभिर् अनास्रवैर् धर्मैर् अरूपिभिर् अनिदर्शनैर् अप्रतिघैर् ये स्रोतआपत्तिफलं प्रार्थयन्ति तान् (अद्स्प्ग् इइ 37) स्रोतआपत्तिफले प्रतिष्ठापयति. यावद् ये ऽर्हत्त्वं प्रार्थयन्ति तान् अर्हत्त्वे प्रतिष्ठापयति. ये प्रत्येकबोधिं प्रार्थयन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति. ये ऽनुत्तरांसम्यक्संबोधिं प्रार्थयन्ति तेषां

बोधिमार्गम् आचष्टे उपदिशति समुत्तेजयति. संप्रहर्षयति. प्रतिष्ठापयति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमानां [f. 277a] सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं करोति.

एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यम् इदं भगवन्न् अद्भुतधर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायां चरन्न् अभावस्वभावानांसर्वधर्माणाम् अत्यन्तशून्यानाम् अनवराग्रशून्यानां सर्वधर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे अकुशला धर्मा इमे सास्रवा धर्मा इमे अनास्रवा धर्माः यावद् इमे संस्कृता धर्मा इमे असंस्कृता धर्माः.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. आश्चर्यम् इदं बोधिसत्त्वानां महासत्त्वानाम् अब्धुतधर्मो यदि इह गंभीरायां प्रज्ञापारमितायां चरन्तो धर्माणां व्यवस्थानं कुर्वन्ति. सचेत् पुनस् त्वं सुभूते जनीयाये बोधिसत्त्वस्य महासत्त्वस्य आश्चर्याद्भुतो धर्मस् तत्सर्वश्रावकप्रत्येकबुद्धैस् तस्य बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रत्युपकारः कर्तुं. न युष्माभिः सर्वैर् अपि बोधिसत्त्वस्य महासत्त्वस्य शक्यं स धर्मो ऽभिभवितुं.

सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य अब्धुतधर्म यः सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते?

भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्टु च मनसिकुरु, भाषिष्ये ऽहं ते. इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकीयासु षट्सु पारमितासु स्थित्वा पञ्चसु च अभिज्ञासु सप्ततृंशति च बोधिपक्ष्येषु धर्मेषु धारणीमुखेषु समाधिमुखेषु च दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु स्थित्वा दिश्विदिक्षु लोकधातूं गत्वा ये सत्त्वा दानेन (अद्स्प्ग् इइ 38) अनुग्रहीतव्यास् तान् दानेन अनुगृह्णाति. ये शीलेन ये क्षान्त्या ये वीर्येण ये समाधिना ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ये तृतीयेन ये चतुर्थेन ये आकाशानन्त्यायतनसमापत्त्या विज्ञानानन्त्यायतनसमापत्त्या आकिंचन्यायतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या अनुग्रहीतव्यास् तांस् तथैव अनुगृह्णाति. ये मैत्र्यानुग्रहीतव्यास् तां मैत्र्यानुगृह्णाति ये करुणया ये मुदितया ये उपेक्षयानुग्रहीतव्यास् तान् उपेक्षयानुगृह्णाति. ये चतुर्षु स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् इद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टांगेन मार्गेणानुग्रहीतव्या ये शून्यतया समाधिना ये आनिमित्तेन समाधिना ये अप्रणिहितेन समाधिना अनुग्रहीतव्यास् तान् अप्रणिहितेन समाधिना अनुगृह्णाति.

सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?

भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य्, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्यो: वस्त्रं वस्त्रार्थिकेभ्यः शय्यासनं शय्यासनार्थिकेभ्यो यावद् अन्यतरान्यतरां मनुष्यकां परिष्कारान् ददाति. यथैव तथागतया अर्हते सम्यक्संबुद्धाय ददाति. तथैव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यः तथैव मनुष्यभूतेभ्य. तथैव तिर्यग्योनिगतेभ्यः सर्वेभ्यः अनानात्वसंज्ञाम् उपस्थाप्य दानं ददाति. तत् कस्य हेतोः? तथाप्य् अनानात्वं सर्वधर्माः, सो ऽनानात्वं दानं दत्त्वा अनानात्वस्य धर्मस्य लाभी भविष्यति. यदुत सर्वाकारज्ञताया. सचेत् पुनर् सुभूते बोधिसत्त्वस्य महासत्त्वस्य तिर्यग्योनिगतं [f. 277b] प्राणिकम् अदक्षिणीयं दृष्ट्वा एवं चित्तम् उत्पद्येत, सम्यक्संबुद्धो मे दक्षिणीयो न तिर्यग्योनिगत इति. न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्य् एवम् अनुत्तरस्यै सम्यक्संबोधये संप्रस्थित, इमे मया (अद्स्प्ग् इइ 39) सत्त्वा दानेन अनुग्रहीतव्या इमे न अनुग्रहीतव्या ते दानेन अनुगृहीता क्षत्रियमहासालकुलेषु उपपत्स्यन्ते ब्राह्मणमहासालकुलेषु उपपत्स्यन्ते गृहपतिमहासालकुलेषु उपपत्स्यन्ते. ते तेनैव दानेन अनुगृहीता अनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति. सचेद् बोधिसत्त्वं महासत्त्वं सर्वो जनकायोर् वाध्यं याचेत, तत्र बोधिसत्त्वेन महासत्त्वेन नान्यं चित्तं नोत्पादयितव्यं. दातव्यं वा न दातव्यम् इत्य्, अविकोपितमानसेन. दातव्यम् एव तस्मै जनपदकायायः. तत् कस्य हेतोस्? तथा हि स जनपदकायस्य अर्थे ऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः. सचेत् पुनः विकल्पयेद् गर्ह्यो भवेत् तेषां बुद्धानां भगवतां तेषां च बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुष्यासुरस्य च लोकस्य, केन किलाध्यीष्ट: सर्वसत्त्वानां त्राणं भव लयनं शरणं परायणम् इति.

पुनर् अपरं सुभूते सचेद् बोधिसत्त्वस्य महासत्त्वस्य मनुष्यभूतो वा अमनुष्यभूतो वा आगम्य अङ्गप्रत्यङ्गानि च्छेतुं याचेत तं तदा तेन न द्वितीयं चित्तम् उत्पादयितव्यं. दास्ये वा न दास्ये वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय संचिन्त्य आश्रयः परिग्रहीतः. अनेन मे आत्मभावेन सर्वसत्त्वानाम् अर्थः कर्तव्यः. तेनैवं चित्तम् उत्पादयितव्यं, येषाम् अर्थे मया आत्मभावः उपादत्तस् ते अयाचितम् एव गृहीत्वा गच्छतुं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं.

पुनर् अप्रं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वैवं चित्तम् उत्पादयितव्यं, को वेह ददाति कस्मै वा दीयते किं वा दीयते, सर्वेषाम् एषां धर्माणां स्वभावो नोपलभ्यते. (अद्स्प्ग् इइ 40) तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या. न हि शून्यता कश्चिद् ददाति वा आहरते वा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. यदुत अध्यात्मशून्यतायां वा बहिर्धासून्यतायां वा. अध्यात्मबहिर्धाशून्यतायां वा शून्यताशून्यतायां वा परमार्थशून्यतायां वा प्रकृतिशून्यतायां वा सर्वधर्मशून्यतायां वा यावत् स्वलक्षणशून्यतायां वा, स इह शून्यतायां स्थित्वा यद् दानं दास्यति. तस्य सततसमितं दानपारमितापरिपूरिर् भविष्यति. सो ऽनया दानपारमितया परिपूर्या न अध्यात्मिकबाह्येषु धर्मेषु च्छिद्यमानेषु वा भिद्यमानेषु वा एवं चित्तम् उत्पादयिष्यति. न कश्चित् छिनत्ति वा भिनत्ति वा.

(विइइ 5,1अ). इह अहं सुभूते अद्राक्षं बुद्धचक्षुषा लोकं व्यवलोकयति पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् संचिन्त्य महानरकात् प्रपत्य तानि महानरकदुःकान्य् उपशमय्य त्रिभिः प्रातिहार्यैस् तेषां नारकाणां सत्त्वानां धर्मन् देशयन्ति. ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण च. तानि नरकदुःखान्य् उपशमय्य आदेशनाप्रातिहार्येण धर्मन् देशयन्त्य् अनुशासनी [f. 278a] प्रातिहार्येण च. ते बोधिसत्त्वा महासत्त्वा महामैत्र्या च महाकरुणया च महामुदितया च महोपेक्षया च धर्मन् देशयन्ति. ततस् ते नैरयिका सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तं प्रसाद्य ततो महानरकेभ्यो व्युत्थिस्थन्ते. ते ततो महानरकेभ्यो व्युत्थाय देवमनुष्याणां सभागतायै उपपद्यन्ते. अनुपूर्वेण च त्रिभिः प्रातिहार्यैर् दुःखस्य अन्तं कुर्वन्ति. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधातुषु कर्तव्यं.

(विइइ 5,1ब्) यावद् इह अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् अद्राक्षं गङ्गान्दीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकानि, तांस् ते बोधिसत्त्वा महासत्त्वा बुद्धान् भगवत उपतिष्ठन्ति तीव्रया भक्त्या प्रियेण न अप्रियेण मनापेन न अमनापेन गौरवेण न अगौरवेण. (अद्स्प्ग् इइ 41) यच् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तन् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्ति. उद्गृह्य धारयन्ति. न जातु विप्रणाशयन्ति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधातूसु.

इह पुनर् अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् अद्राक्षं पूर्वस्यां दिशि गङ्गानदीवालुकोपंच्षु लोकधातुषु बोधिसत्त्वा महासत्त्वास् तैर्यग्योनिकानां सत्त्वानाम् अर्थाय आत्मपरित्यागान् कुर्वतः. तत्र ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा च्छित्वा दशसु दिक्षु विक्षिपन्ति. तद् ये तैर्यग्योनिगताः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानां मांसानि खदन्ति. ते तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रिं प्रतिलभन्ते. ते तेन मैत्रीप्रतिलंभेन ततस् तिर्यग्योने व्युत्थिष्ठन्ते. व्युत्थाय देवमनुष्येषु उपपद्यन्ते. तत्र उपपन्ना बुद्धान् भगवतः आरागयन्ति. ते तान्. बुद्धान् भगवतः उपतिष्ठन्ति. ते तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रुत्वा तथात्वाय प्रतिपद्यन्ते. ते ऽनुपूर्वेण अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति. त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं बहुकरा हि सुभूते बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादयन्ति. उत्पाद्य तथत्वाय प्रतिपद्यन्ते. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधष्टाद् उपरिष्टाद् अनुविदिक्षु यावद् अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यति.

(विइइ 5,1च्) इह अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् अद्राक्षं पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् प्रेतवैषयिकानां सत्त्वानां तेषु प्रेतविषयेषु यानि दुःखानि तानि सर्वाणि प्रतिप्रश्रंभयन्ति. तत्र ते प्रेतवैषयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रं चित्तम् उत्पाद्य ततः प्रेतयोनेर् व्युत्थिष्ठन्ते. ते ततः प्रेतयोनेर् व्युत्थाय देवलोके मनुष्यलोके च उपपद्यन्ते. न च कदाचिद् बुद्धैर् भगवद्भिर् विरहिता भवन्ति यावन् न अनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति. एवं समन्ताद् दशसु दिक्षु कर्तव्यं. एवं महाकरुणाविहारि सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय प्रत्युपस्थितो यदुत परिनिर्वापनार्थाय.

(विइइ 5,1द्) इह पुनर् अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् (अद्स्प्ग् इइ 42) अद्राक्षन् [f. 278b] पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वांश् चातुर्महाराजकायिकानान् देवानान् धर्मन् देशयन्तस् त्रायस्त्रिंशानां देवानां यामानां तुषितानां निर्माणरतीनां परिनिर्मितवशवर्त्तिनां देवानां धर्मन् देशयन्तः, तत् ते देवपुत्रास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिकाद् धर्मं श्रुत्वा अनुपूर्वेण त्रिभिर् यानैर् परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वास्यन्ति च. तत्र सुभूतेत्ये देवपुत्रा उदारिकैः पञ्चभिः कामगुणैर् अधिमूर्च्छितास्, तेषां तानि विमानान्य् आदीप्य धर्मन् देशयन्ति, अनित्या खलु मार्षः सर्वसंस्कारा दुःखा अनात्मानो ध्रुवा अनाश्वासिका विपरिणामधर्मणः, कः संस्कारेषु विश्वस्तमना विहरेत्. एवं समस्तदशदिक्षु कर्तव्यं.

इह पुनर् अहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् अद्राक्षं बोधिसत्त्वान् महासत्त्वान् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये ब्रह्मदृष्टाव् अभिनिविष्टास् तांस् तेभ्यो दृष्टिगतेभ्यो विवेचयन्ति. कथं भो मार्षा शून्येषु सर्वधर्मेषु दृष्टीर् उत्पादयथ. रिक्तकेषु तुच्छकेषु सर्वधर्मेषु दृष्टीर् उत्पादयथ: एवं सुभूते बोधिसत्त्वा महासत्त्वा महाकरुणायां स्थित्वा सत्त्वानां धर्मन् देशयन्ति. आश्चर्यम् इदं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अब्धुतधर्मः. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु.

(विइइ 5,ले) इह आहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन्न् अद्राक्सं बोधिसत्त्वान् महासत्त्वान् पूर्वस्यान् दिशि गङ्गानादीवलुकोपमेषु लोकधातुषु मनुष्यांस् चतुर्भिः संग्रहवस्तुभिः संगृह्णतः. कतमैश् चतुर्भिः? (इ) दानेन, (इइ) प्रियवद्यतया, (इइइ) अर्थचर्यया, (इव्) समनार्थतया. [सेए ओन् प्प्. 43-4. ए.च्.]

(इ) कथं च सुभूते बोधिसत्त्वो महासत्त्व दानेन सत्त्वान् संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् संगृह्णाति. कतमाभ्यां द्वाभ्यां? यदुत (ल) आमिषदानेन च (इब्) धर्मदानेन च.

(ल) कथं च सुभूते बोधिसत्त्वो महासत्त्वः आमिषदानेन सत्त्वान् संगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. सुवर्णं वा रूप्यं वा मनिं वा मुक्ता वा. शङ्खा वा शिलान् वा प्रवाडं वा रजतं वा जातरूपं वा. अन्नं वा पानं वा यानं वा वस्त्रं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्राजीविकं वा स्त्रियो वा पुरुषान् वा अश्वान् वा हस्तिनो वा वा आत्म [न्नईवन्यतन्नैवम्] अनुश्रावयति: एत भो सत्त्वा यथा (अद्स्प्ग् इइ 44) तानवकम् एव मया चितकम् एव गृहीत्वा गच्छतः हारथ स तद् दानं दत्त्वा बुद्धं शरणं गमयति. धर्मं शरनं गमयति. संघं शरणं गमयति. कांश्चित् पञ्चशिक्षापदानि ग्राहयति. कांश्चिद् अष्टाङ्गसमन्वागतम् उपवषम् उपवसति. कांश्चिद् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति कांश्चित् प्रथमे ध्याने. यावन् नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयति. कांश्चिन् मैत्र्यां करुणायां मुदितायाम् उपेक्षायां समादापयति. कांश्चिद् बुद्धानुस्मृत्यां धर्मानुस्मृत्यां संघानुस्मृत्यां शिलानुस्मृत्यां त्यागानुस्मृत्यां देवतानुस्मृत्यां समादापयति. कांश्चि शुभादिकासु संज्ञासु समुत्थाय प्रत्यवेक्सणां समादापयति. कांश्चिद् आकारेषु. कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु. कांश्चिच् चतुर्षु सम्यक्प्रहाणेषु. कांश्चिच् चतुर्ष्व् ऋद्धिपादेषु. कांश्चि पञ्चस्व् इन्द्रियेषु. कांश्चि पञ्चसु बलेषु. कांश्चित् सप्तसु बोध्यङ्गेषु कांश्चिद् आर्याङ्गे मार्गे. कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु समाधिविमोक्षमुखेषु कांश्चिद् अष्टासु विमोक्षेषु कांश्चिन् नवस्व् अनुपूर्वसमापत्तिषु. कांश्चिद् दशसु तथागतबलेषु. कांश्चिच् चतुर्षु [f. 279a] वैशारद्येषु कांचिच् चतस्रसु

प्रतिसंवित्सु कांचिन् महामैत्र्यां महाकरुणायां कांश्चिद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु कांश्चिद् द्वातृंशमहापुरुषलक्सणपरिनिष्पत्तौ कांश्चिद् अशीत्यनुव्यञ्जनेषु कांश्चित् स्रोतआपत्तिफले कांश्चित् सकृदागामिफले. कांश्चिद् अनागमीफले कांश्चिद् अर्हत्त्वे कांश्चित् प्रत्येकबोधौ (अद्स्प्ग् इइ 45) प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् आमिषदानं ददात्य् उत्तरे च योगक्षेमे प्रतिष्ठापयति. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य आश्चर्याद्भुतधर्मः.

(इब्) कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेन अनुगृह्णाति? द्वे इमे सुभूते धर्मदाने (इब) लौकिकं च (इब्ब्) लोकोत्तरं च.

(इब) तत्र कतरत् सुभूते लौकिकन् धर्मदानं? या लौकिकानां धर्माणाम् आचक्षणा देशना संप्रकाशना. तद्यथा अशुभपरिवर्तकस्य, चतुर्णां ध्यानानां चतुर्णां ब्रह्मविहाराणाञ् चतसृणाम् आरूप्यसमापत्तीनां, ये ऽपि केचिद् अन्ये लौकिका धर्मा साधारणा. बालपृथग्जनैर्, इदं सुभूते लौकिकन् धर्मदानं. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व इदं लौकिकं धर्मदानं दत्त्वा अनेकपर्यायेण ततः समादानाद् विवेचयति. विचेव्य उपायकौशलेन आर्यधर्मेषु प्रतिष्ठापयत्य् आर्यधर्माणाञ् च फले. कतमे च आर्यधर्मा कतमच् च आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सप्ततृंशद् बोधिपक्ष्या धर्मास् त्रीणि विमोक्षमुखानि, आर्यधर्माणां फलं स्रोतआपत्तिफलं. यावद् अर्हत्वं. अपि तु खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्मा यत् स्रोतआपत्तिफले ज्ञानं यावद् अर्हत्त्वे ज्ञानं. प्रत्येकबोधौ ज्ञानं. यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु ज्ञानं यावद् दशसु तथागतबलेषु ज्ञानं. यावन् महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं. ये ऽप्य् अन्ये लौकिकलोकोत्तरा धर्मा सास्रवानास्रवा संस्कृता असंस्कृता धर्मास् तत्र यज् ज्ञानं यावत् सर्वाकारज्ञता इम उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माः. कतमच् च बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माणां फलं? यावत् सर्ववासनानुसन्धिप्रहाणम् इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य आर्यधर्माणां फलं.

अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति.

आह: यदि भगवन् बोधिसत्त्वो महासत्त्व सर्वाकारज्ञताम् अनुप्राप्नोति. तद् बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च किं नानाकरणं?

भगवान् आह: अस्ति नानाकरणं.

आह: कतमन् नानाकरणम् इति?

भगवान् आह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति. तथागतः पुनः प्राप्तज्ञान उच्यते. तत् कस्य हेतोः? न ह्य् अन्यद् बोधिसत्त्वस्य चित्तम् उपलभ्यते ऽन्यस् तथागतस्य अर्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्मेष्व् अनन्धकारता अनुप्राप्ता. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकन् धर्मदानं, यदुत निश्रय भवति. लोकोत्तरधर्मदानं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् लौकिके धर्मदाने नियोज्य उपायकौशलेन यावत् सर्वाकारज्ञतायां प्रतिष्ठापयति.

(viii 5,2) (ibb) katamac ca subhūte bodhisattvasya mahāsattvasya lokottaraṃ dharmadānam asādhāraṇaṃ sarvabālapṛthagjanaiḥ. tadyathā (la) catvāri smṛtyupasthānāni (1b) catvāri samyakprahāṇāni, [f. 279b] (1c) catvāra ṛddhipādāḥ, (1d) pañcendriyāṇi (1e)pañcabalāni, (1f) sapta bodhyaṅgāni, (lg) āryāṣṭāṅgo mārgaḥ, (a) triṇi vimokṣamukhāni, (3) aṣṭau vimokṣā, (4) nava anupūrvasamāpattayaḥ, (13) daśa tathāgatabalāni, (14) catvāri vaiśāradyāni, (10)catasraḥ pratisaṃvido, (b) mahāmaitrī (19) mahākaruṇā, (20) aṣṭādaśāveṇikā buddhadharmāḥ, (c) dvātṛṃśan mahāpuruṣalakṣaṇāny, (d) aśītim anuvyañjanāni, (e) pañcadhāraṇīmukhaśatāni, (f) samādhimukhaśatāni. idam ucyate lokottaraṃ dharmadānaṃ na laukikaṃ. (la) katamāni ca subhūte catvāri smṛtyupasthānāni? yaduta (i) adhyātmakāye kāyānupaśyī viharati. bahirddhākāye kāyānupaśyī viharaty, adhyātmabahirddhā kāye kāyānupaśyī viharaty, ātāpī saṃprajānan smṛtimān vinīya loke 'bhiddhyādaurmanasye, samudayānupaśyī ca kāye viharati. vyayānupapaśyī ca kāye viharati. samudayavyayānupaśyī ca kāye viharaty, aniśritaś ca viharati. [na ca jātu] loke upādadāti. evaṃ (ii) vedanāsv evaṃ (iii) citte evaṃ (iv) dharmeṣu.

(1ब्) कतमानि च सुभूते सम्यक्प्रहाणानि? (इ) अनुत्पन्नानां पापकानाम् अकुशलानान् धर्माणाम् अनुत्पादाय च्छन्दं जनयत्य्, (इइ) उत्पन्नानां प्रहाणाय व्यायच्छते, (इइइ) अनुत्पन्नानां कुशलानां धर्माणाम् (अद्स्प्ग् इइ 47) उत्पादाय च्छन्दं जनयति वीर्यम् आरभते. (इव्) उत्पन्नानां वृद्धये वैपुल्यतायै भावनापारिपूर्यै च्छन्दं जनयति.

(ल्च्) कतमे च सुभूते ऋद्धिपादाः? च्छन्दसमाधिप्रहाणसंस्कारसमन्वागतश् चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादः.

(ल्द्) कतमानि च पञ्चेन्द्रियाणि? श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इमान्य् उच्यन्ते पञ्चेन्द्रियाणि.

(ले) कतमानि च पञ्चबलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं, इमान्य् उच्यन्ते पञ्चबलानि.

(1f) katamāni ca subhūte saptabodhyaṅgāni? smṛtisaṃbodhyaṅgaṃ dharmavicayasaṃbodhyaṅgaṃ, vīryasaṃbodhyaṅgaṃ pritisaṃbodhyaṅgaṃ praśrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgaṃ, imāny ucyante saptabodhyaṅgāni.

(ल्ग्) कतमश् च सुभूते आर्याष्टांगो मार्गः? तद्यथा सम्यग्दृष्टिः सम्यक्संकल्प सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयम् उच्यते आर्याष्टाङ्गो मार्गः.

(अ) तत्र कतमे त्रयस् समाधयः? शून्यतासमाधिर् आनिमित्तसमाधिर् अप्रणिहितसमाधिः, कतमश् च शून्यतासमाधिः? या शून्याकारेण विविक्ताकारेण च चित्तस्यैकग्रता अयम् उच्यते शुन्यतासमाधिः. तत्र कतमश् च आनिमित्तसमाधिः? या शान्ताकारेण चित्तस्यैकग्रता अयम् उच्यते आनिमित्तसमाधिः. कतमश् च अप्रणिहितः समाधिः? या अनित्याकारेण दुःखाकारेण च. चित्तस्यैकाग्रता अयम् उच्यते अप्रणिहितसमाधिः.

(3) कतमे ऽष्टौ विमोक्षा? (इ) रूपीरूपाणि पश्यत्य् अयं प्रथमो विमोक्षः. (इइ) अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. (इइइ) शुभत्वम् अप्य् अधिमुक्तो भवत्य् अयं त्रितीयो विमोक्षः. (इव्) स सर्वशो रूपसंज्ञानांसमतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमात् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य् अयं चतुर्थो विमोक्षः. (व्) स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्. अयं पञ्चमो [f. 280a] विमोक्षः. (वि) स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसनिपद्य विहरत्य् अयं षष्टो विमोक्षः. (विइ) स सर्वश आकिंचन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य् अयं सप्तमो विमोक्षः. (विइइ) स सर्वशो नैवसंज्ञानासणिज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् (अद्स्प्ग् इइ 48) उपसंपद्य विहरत्य् अयम् अष्टमो विमोक्षः. इम उच्यन्ते ऽष्टौ विमोक्षाः.

(4) katamāni ca navānupūrvasamāpattayaḥ? ihaikatyo (i) viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmair savitarkaṃ savicāraṃ vivekajaṃ. prītisukhaṃ prathaman dhyānam upasaṃpadya viharati. yāvan (viii) naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. (ix) sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati. imāny ucyante navānupūrvasamāpattaya.

(13) katamāni ca subhūte daśatathāgatabalāni? iha subhūte tathāgata (i) sthānaṃ ca sthānato yathābhūtaṃ prajānāti. asthānaṃ ca asthānato yathābhūtaṃ prajānāti. (ii) atītānāgatapratyutpannānāṃ karmāṇāṃ karmasamādānāṃ sthānaśo hetuśo vipākaṃ yathābhūtaṃ prajānāti. (vii) indriyabalabodhyaṅga. dhyānasamādhisamāpatti. saṃkleśavyavadānaṃ yathābhūtaṃ prajānāti. (v) parasattvānāṃ parapudgalānāṃm indriyaparāparajñatā yathābhūtaṃ prajānāti. (iv) parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānāti. (vi) sarvatrāgaminīṃ pratipadaṃ yathābhūtaṃ prajānāti. (iii) nānādhātuṃ lokam anekadhātuṃ yathābhūtaṃ prajānāti. (viii) anekavidhaṃ pūrvenivāsam anusmarati: ekaṃ vā jātiṃ yāvat sākāraṃ soddeśam anekavidhaṃ pūrvanivāsam anusmarati. (ix) divyena cakṣuṣā viśuddhena atikrānta mānuṣena sattvān paśyati. yāvat sugatau svargaloke deveṣu upapadyamānān. (x) āsravāṇāṃ kṣayād anāsravaṃ cetovimuktiṃ prajñāvimuktiṃ yathābhūtaṃ prajānāti. imāni daśatathāgatabalāni.

(14) कतमानि च सुभूते तथागतस्य चत्वारि वैशारद्यानि? (इ) सम्यक्संबुद्धस्य मे प्रतिजानत इमे धर्मा अनभिसंबुद्धा इत्य् अत्र वत मे कश्चित् सदेवके लोके समारके सब्रह्मके सब्रह्मण [ब्राणिकाया]प्रजायां सह धर्मेण चोदयेत् इति. निमित्तम् एतन् न समनुपश्यामि. निमित्तम् एतद् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्त, आर्षभं स्थानं प्रतिजानामि: पर्षद्गतः सम्यक्षिंहनादं नदामि ब्रह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्धा पुनर् लोके सह धर्मेण. (इइ) क्षीणास्रवस्य वत मे प्रतिजानत. इमे आस्रवाः अपरिक्षीणाः, यावद् (इइइ) ये खलु पुनर् मया अन्तरायिका धर्मा आख्यातास् तां प्रतिषेवमाणो नालम् अन्तरायेति. (अद्स्प्ग् इइ 49) यावद् (इव्) या मे प्रतिपद् आख्याता आर्यो नैर्याणिक्यो नैर्वेधिक्यस्, तत् करस्य सम्यग्दुःखक्षयाय ताः प्रतिसेवमाणो न निर्यायात् सम्यग्दुःखक्षयाय, यावद् इमानि चत्वारि वैशारद्यानि.

(10) कतमाश् च तथागतस्य चतस्रः प्रतिसंविदः? तद्यथा अर्थप्रतिसंविद् धर्मप्रतिसंविन् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्. ताः पुनः कतमाः? अर्थारंबणा धर्मारंबणा निरुक्त्यारंबणा प्रतिभानारंबणा.

(20) katame ca subhūte [f. 280b] tathāgatasya aṣṭādaśāveṇikā buddhadharmāḥ? (i) nāsti tathāgatasya skhalitaṃ, (ii) nāsti ravitaṃ, (iii) nāsti muṣitasmṛtitā, (v) nāsty asamāhitaṃ ciuaṃ, (iv) nāsti nānātvasaṃjñā, (vi) nāsty apratisaṃkhyāyopekṣā, (vii) nāsti cchandasya hāniḥ, (viii) nāsti vīryasya hāniḥ, (ix) nāsti smṛter hāniḥ, (x) nāsti samādher hāniḥ, (xi) nāsti prajñāyā hānir, (xii) nāsti vimukter hānir, nāsti vimuktijñānadarśanasya hāniḥ. (xiii) sarvaṃ kāyakarma jñānapūrvaṃgamaṃ jñānānuparivartti. (xiv) sarvaṃ vākkarma jñānānupūrvaṃgamaṃ jñānānuparivartti. (xv) sarvaṃ manaskarma jñānapūrvaṃgamaṃ jñānānuparivartti. (xvi) atīte 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. (xvii) anāgate 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. (xviii) pratyutpanne 'dhvany apratihatam asaṅgaṃ jñānadarśanaṃ pravartate. ime 'ṣṭādaśāveṇikā buddhadharmāḥ.

(च्) कतमानि च सुभूते तथागतस्य द्वातृंशन् महापुरुषलक्षणां? (1) सुप्रतिष्ठितपादः स भगवां. तत्रैदं सुप्रतिष्ठितपादता. सर्ववद्भ्यां पादतलाभ्यां समं पृथिवीं स्पृशति. तद्यथापि नाम समुद्गाभ्यां. सपि चाभ्योन्नतावनमति. निंमौन्नमति. (2) चक्र अङ्कपादतलः स भगवान्. तत्रेयं चक्राङ्कपादतलता. पादयोर् अस्य चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे. (3) मृदुतरुणहस्तपादतलः स भगवान्. मृद्व् अस्य हस्तपादं यथा न अन्येषां. (4) दीर्घ अङ्गुलीकः स भगवान्. तत्रेयं दीर्घाङ्गुलीकता. दीर्घम् अस्य अङ्गुलयो हस्तपादे यथा न अन्येषां. (5) जालहस्तपाद स भगवान्. तत्रेयं जालहस्तपादता. हंसराजस्यैव अस्य सजालं हस्तपादं. (6) आयतनपार्ष्णि स भगवान्. तत्रेयम् आयतनपार्ष्णिता. आयते अस्य पार्ष्णी अतिरेकेण यथा न अन्येषां. (7) उच्छङ्खपाद स भगवान्. तत्रेयम् उच्छङ्खपादता. उच्चैर् अस्य जातौ गुल्फौ भवतः. (8) ऐणेयजंघः स भगवान्. त्रत्रेयम् ऐणेयजंघता. अनुपूर्वसमुद्गते अस्य जंघे तद्यथापि (अद्स्प्ग् इइ 50) नाम ऐणेयस्य मृगराजस्य. (9) प्रभूतऋजुसुजातगात्रः स भगवान्. तत्रेयं प्रभूतऋजुसुजातगात्रता. अकुब्जम् अभग्नं सुजातं सर्वाकारै सप्त अरत्न्युच्छ्रायेण अनुरूपविस्तरम् अस्य गात्रं भवति. (1ओ) आजानुबाहु स भगवान्. तत्रेयम् आजानुबाहुता. स्थितो ऽनवनमन् यदा आकाङ्क्षति तदा द्वाभ्यां पाणितलाभ्याम् उभे जानुमण्डले परामृशति. संपरामार्ष्टि: (11) कोशाहितवस्तिगुह्य स भगवान्. तत्रेयं कोशाहितवस्तिगुह्यता. तद्यथा अभिजातस्य हस्त्याजानेस्यस्य अश्वाजानेयस्य वा. (12) एकैकलोमा स

भगवान्. तत्रेयम् एकैकलोमता. सर्वरोमकूपेष्व् एकैकं लोमं जातं मृदु कुण्डलकजातं. प्रदक्षिणावर्तं. (13) ऊर्ध्वांगलोमा स भगवान्. तत्रेयम् ऊर्ध्वांगलोमता. ऊर्ध्वमुखान्य् अस्य केशलोमानि जातानि. नीलानि मृदूनि कुण्डलकजातानि प्रदक्षिणावर्तानि. (14) श्लक्ष्णसूक्ष्मच्छविः स भगवान्. तत्रेयं श्लक्ष्णसूक्ष्मच्छविता. न अस्य जलं वा रजो वा काये श्लिष्यति. (15) सुवर्णवर्ण स भगवान्. अभिरूप प्रासादिकः. तत्रेयं सुवर्णवर्णच्छविता. तया सुवर्णवर्णतया कांचनपट्टसन्निकाशो ऽस्य कायो ऽत्यर्थं भ्राजते. (16) सप्तोत्सद स भगवान्. तत्रेयं सप्तोत्सदता. अधस्तात् पादतलयोर् द्वाव् उत्सदौ जाताव् अभिरूपौ प्रासादिकौ दर्शनीयाव् उपचितमांसशोणितेन. द्वयो पाण्यो द्वाव् उत्सदौ जाताव् अभिरूपौ प्रासादिकौ [f. 281a] दर्शनीयाव् उपचितमांसशोणितेन. द्वयोर् अंसकूटयोर् द्वाव् उत्सदौ जाताव् अभिरूपौ प्रासादिकौ दर्शनीयाव् उपचितमांसशोणितेन. पृष्टतो ग्रीवायाम् एक उत्सदो जातो ऽभिरूपः प्रासादिको दर्शनीय उपचितत्वङ्मांसशोणितेन. (17) सिंहपूर्वार्धकायः स भगवान्. तत्रेयं सिंहपूर्वार्धकायता. सिंहस्यैव अस्य मृगराजस्य विस्तीर्णः पूर्वोर्धकायो भवति. (18) संवृत्तस्कन्ध स भगवान्. तत्रेयं संवृत्तस्कन्धता. पीनाच् अस्य सर्वतः उपचितौ स्कन्धौ बृहवतः. (19) चितान्तरांसस् स भगवान्. तत्रेयं चितान्तरांसता. उरो विस्तारोपचयाच् चितो ऽस्य भवन्त्य् अन्तरांसः. (20) न्यग्रोधपरिमण्डल स भगवान्. तत्रेयं न्यग्रोधपरिमण्डलता. यावद् अस्य आरोहस् तावत् परिणाह यावत् परिणाहस् तावद् आरोह. (21) सिंहहनुस् स भगवान्. तत्रेयं सिंहहनुता. सिंहस्यैव अस्य

वृत्तौ हनू भवतः. (22) चत्वारिंशद्दन्तः स भगवान्. तत्रेयं चत्वारिंशद्दन्तता. अधस्ताद् अस्य विंशतिर् दन्ता उपरिष्टा( विंशति. (23) अविरलदन्त स भगवान्. तत्रेयम् अविरलदन्तता. सहिता अस्य दन्ता भवन्ति. (24) समदन्त स भगवान्. तत्रेयं समदन्तता. अनुन्नत अवनता अस्य दन्ता भवन्ति. (25) शुक्लदन्त स भगवान्. तत्रेयं शुक्लदन्तता. (अद्स्प्ग् इइ 51) ज्योतिष्मन्तो ऽस्य दन्ता भवन्ति. (26) रसरसाग्रताहारस् स भगवान्. तत्रेयं रसरसाग्रहारता. रिज्यो ऽस्य कण्ठे रसाहारिन्यो जाता भवन्त्य्, जिह्व अवक्रा. अविवर्णास्, ताभिः सुप्रतिष्ठिताभिः सिराभिः कायो ऽत्यर्थं शोभते. (27) प्रभूतजिह्व स भगवान्. तत्रेयं प्रभूतजिह्वता. यदा आकांक्सति जिह्वायोभे कर्णे स्रोतसि परामृशति संपरामार्ष्टि: उभे चक्षुः स्रोतसि सर्वङ्ककेशपर्यन्तं मुखमण्डलं जिह्वाया आच्छादयति. (28) ब्रह्मस्वरः स भगवान्. तत्रेयं ब्रह्मस्वरता. यद् अस्य के? साहस्र्यां पर्षदो स्वरो यथा अभ्यन्तरे श्रुयते, मनोज्ञश् च ते कलविङ्क भानीति. (29) अभिनीलनेत्र स भगवान्. तत्रेयम् अभिनीलनेत्रता. यद् अस्य नेत्रयोर् नीलम् एव तत् सुविशुद्धं. यद् अवदातम् अवदातम् एव तत् सुविशुद्धं भवति. (30) गोपक्ष्म स भगवान्. तत्रेयं गोपक्ष्मता. महार्षभस्य इव अस्य अक्षिपक्ष्माणि भवन्ति. यान्य् अधस्तात् तान्य् अधस्ताद् एव. यान्य् उपरिष्टात् तान्य् उपरिस्ताद् एव असंलुडितानि. (31) ऊर्णान्तरभ्रुक स भगवान्. तत्रेयम् ऊर्णान्तरभ्रुकता. ऊर्णा भगवन्तो भ्रुवोर् अन्तरे जाता अवदाता मृदुस् तूलसन्निभा अस्पृष्टा भ्रुवो ऽन्तरे प्रदक्षिणाकुण्डलावर्ता. (32) उष्णीसशीर्ष स भगवान्. तत्रेयम्

उष्णीषशीर्षता: वृत्तम् अस्य शीर्षं भवत्य् उष्णीषया सुपरिणथतया अत्यर्थं शोभते.

इमानि तस्य भगवतो द्वातृंशन् महापुरुषलक्सणानि, तैस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरति प्रकृतिप्रभया आकाङ्क्षन्न् असंख्येयलोकधातून्, तं तथागतः सत्त्व अनुकम्पया व्यामप्रभयाम् अधितिष्ठति. न खलु पुनः सूर्यचन्द्रमसोः प्रभा प्रज्ञायेत. न मासार्धमास न संवत्सर वा प्राकृतेन च स्वरेण त्रिसाहस्रमहासाहस्रं लोकधातुं विज्ञापयति. उत्तरे च यावद् आकांक्सति तावत् स्वरेण विज्ञापयति.

एवं खलु सुभूते [f. 281b] बोधिसत्त्वो महासत्त्वः सत्त्वान् द्वाभ्यां दानाभ्यां संगृह्णाति यदुत आमिषदानेन च धर्मदानेन च. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य आश्चार्याद्भुतो धर्मः.

(इइ) कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रियवादितया सत्त्वान् संगृह्णाति? पारमिताभिः. दानपारमितया शीलपारमितया. क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया. प्रज्ञापारमितया. आभिः षड्भि पारमिताभिर् बोधिसत्त्वो महासत्त्व प्रियवादितया सत्त्वान् संगृह्णाति. तत् कस्य हेतोः? इमासु पारमितासु सर्वकुशलधर्मा संगृहिता.

(इइइ) कथं च बोधिसत्त्वो महासत्त्वो ऽर्थक्रियया सत्त्वान् संगृह्णाति? आभिर् एव षड्भिः पारमिताभिः दीर्घरात्रं सत्त्वान् संगृहीत यदुत दानेन च प्रियवादितया अर्थक्रियया च समानार्थतया च.

(द्) स सत्त्वानाम् अशीतिम् अनुव्यञ्जननानि देशयति. कतमानि च सुभूते अशीतिर् अनुव्यञ्जनानि तथागतस्य? तद्यथा 1. ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति, 2. स्निग्धपुष्पितानखाश् च बुद्धा भगवन्तो भवन्ति, 3. तुङ्गनखास् च बुद्धा भगवन्तो भवन्ति, 4. वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति, 5. दीर्घाङ्गुलयश् च भवन्ति, 6. चिताङ्गुलयश् च भवन्ति, 7. अनुपूर्वाङ्गुलश् च, 8. गूढशिराश् च भवन्ति, 9. निर्ग्रन्थिशिराश् च भवन्ति, 10. गूढगुल्फाश् च भवन्ति, 11. अविषमपादाश् च भवन्ति, 12. सिंहविक्रान्तगामिनश् च भवन्ति, 13. नागविक्रान्तगामिनश् च भवन्ति, 14. हंसविक्रान्तगामिनश् च भवन्ति, 15. वृसविक्रान्तगामिनश् च भवन्ति, 6. प्रदक्षिणगामिनश् च भवन्ति, 17. चारुगामिनश् च भवन्ति, 18. अवक्रगामिनश् च भवन्ति, 19. वृत्तगामिनश् च भवन्ति, 20. मृष्टगात्राश् च भवन्ति, 21. अनुपूर्वगात्राश् च भवन्ति, 22. सुपरिणतजातमण्डलाश् च भवन्ति, 23. परिपूर्णव्यञ्जनास् च भवन्ति, 24. ईर्यापथसंपन्नाश् च भवन्ति, 25. अस्थानसंपन्नाश् च भवन्ति, 26. समक्रमाश् च भवन्ति, 27. शुचिगात्राश् च भवन्ति, 28. मृदुगात्राश् च भवन्ति, 29. विशुद्धगात्राश् च भवन्ति, 30. अवलोकनीयाश् च भवन्ति, 31. न दीर्घमुखाश् चभवन्ति, (अद्स्प्ग् इइ 53) 32. उदारमुखाश् च भवन्ति, 33. बिंबोष्टाश् च भवन्ति, 34. परिपूर्णमुखमण्डलाश् च भवन्ति, 35. गंभीरयोषाश् च भवन्ति, 36. गंभीरनाभाश् च भवन्ति, 37. प्रदक्षिणावर्त्तनाभाश् च भवन्ति, 38. सुकुमारगात्राश् च भवन्ति, 39. अदीनगात्राश् च भवन्ति, 40. उत्सदगात्राश् च भवन्ति, 41. सुसंहतनाश् च

भवन्ति, 42. सुविभक्तप्रत्यङ्गाश् च भवन्ति, 43. परिपूर्णहस्तपादाश् च भवन्ति, 44. वृत्तकुक्षयश् च भवन्ति, 45. मृष्टकुक्षयश् च भवन्ति, 46. अभग्नकुक्षयश् च भवन्ति, 47. च्छादोदराश् च भवन्ति, 48. समन्तप्रासादिकाश् च भवन्ति, 49. शुचिसमाचाराश् च भवन्ति, 50. व्यपगततीलकाश् च भवन्ति, 51. तूलसदृशसुकुमारपानयश् च भवन्ति, 52. गंभीरपानिलेखाश् च भवन्ति, 53. आयतपाणिलेखास् च भवन्ति, 54. अच्छिन्नपाणिलेखाश् च भवन्ति, 55. रक्तपाणिलेखाश् च भवन्ति, 56. प्रसन्नवदनाश् च भवन्ति, 57. चन्द्रमुखाश् च भवन्ति, 58. तनुजिह्वाश् च भवन्ति, 59. ताम्रजिह्वाश् च भवन्ति, 60. सर्वाकारपरिपूर्णस्वराश् च भवन्ति, 61. मधुरवल्गुस्वराश् च भवन्ति, 62. वृत्तदंष्ट्राश् च भवन्ति, 63. तीक्ष्णदंष्ट्राश् च भवन्ति, 64. शुक्लदंष्ट्राश् च भवन्ति, 65. तुङ्गनासाश् च भवन्ति, 66. विशालनयनाश् च भवन्ति, 67. अंजितपक्ष्मणश् च भवन्ति, 68. आयतभ्रुवश् च भवन्ति, [f. 282a] 69. श्लक्ष्णभ्रुवश् च भवन्ति, 70. समस्निग्धलोमभ्रुवश् च भवन्ति, 7. पीनायतसमकर्णाश् च भवन्ति, 72. सुपरिणतललाटाश् च भवन्ति, 73. पृथुललाटाश् च भवन्ति, 74 सुपरिपूर्णोत्तमाण्गा च भवन्ति सचेत् खलु पुनर् देवमुष्याश् चक्षुषा पश्यन्ति. सर्वं समं पश्यन्ति. न चातिमन्यमाना अववदन्ति. अनुपरिचैषां स्वरं स्मरति. बहिर्द्धा निश्चरति 75. समन्तव्यामप्रभया च अवभासिता भवन्ति. 76. सूक्ष्ममृदुस्निग्धकेशाश् च भवन्ति, 77-78. असंलुडितासितसंरजितवत्रित केशाश् च भवन्ति, 79-80. सुरभिश्रीस्वस्तिककेशाश् च बुद्धा भगवन्तो भवन्ति. एभि सुभूते अशीत्य्

अनुव्यञ्जनैस् तथागतस्य कायः समन्वागतो छवति.

(viii 5,3) (ए) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वान् एवं अवदति. एत यूयं कुलपुत्रा अक्षराभिनिर्हारकुशला भवतः. एकाक्षरे कुशला भवतः. द्वयोर् अक्षरयोर् यावद् द्वाचत्वारिंशत्य् अक्षरेषु कुशला भवत. एकाक्षरेण सर्वं व्यपगतम् अनुगच्छत. द्वितीयेन अक्षरेण सर्वं व्यपगतम् अनुगच्छतः. यावद् द्वाचत्वारिंशताक्षरै. सर्वं व्यपगतम् अनुगच्छतः, एकस्मिन्न् अक्षरे द्वाचत्वारिंशतम् अक्षराण्य् (अद्स्प्ग् इइ 54) अन्तर्गतानि भावयतः, द्वाचत्वारिंशत्य् अक्षरेष्व् एकाक्षरम् अन्तर्गतं भावयतः, स खलु पुनर् सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशत्य् अक्षरेषु कुशलो भवति. द्वाचत्वारिंशत्य् अक्षराण्य् एकस्मिन्न् अक्षरे कुशलो भावयितुं. एकस्मिन्न् अक्षरे द्वाचत्वारिंशतम् अक्षराणि कुशलो भावयितुं. अक्षराभिनिर्हारकौशलं भावयित्वा अक्षराभिनिर्हारकुशलो भवति. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक् संबुद्धो धर्मकुशलो ऽक्षरकुशलः, स धर्मकुशल अक्षरकुशलश् च धर्मन् देशयति. अक्षरैर् अनक्षरं धर्मन् देशयति. न च अक्षर आकारनिर्मुक्त सुभूते स धर्मः.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते. धर्माश् च नोपलभ्यन्ते. धर्मस्वभावश् च नोपलभ्यते. अत्यन्त अनवराग्रशून्यताम् उपादाय. कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानापारमितायां चरंश् चतुर्षु ध्यानेषू चरंश् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु. सप्तविंशतिबोधिपक्ष्येषु धर्मेषु चरन् चतुर्दशसु शून्यतासु शून्यतायां समाधौ चरन्न् आनिमित्ते समाधाव् अप्रणिहिते समाधौ चरन्न् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशस्व् आवेणिकेषु बुद्ध धर्मेषु द्वात्रिंशतिमहापुरुषलक्षणेष्व् अशीत्याम् अनुव्यञ्जनेषु चरन्. षट्स्व् अभिज्ञासु विपाकीयासु स्थित्वा सत्त्वानान् धर्मन् देशयति. न च तत्र सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं. सत्त्वानुपलब्ध्या च रूपानुपलब्धिर्, यावद् विज्ञानानुपलब्धिह्र् यावत् षट्पारमितानुपलब्धिः यावद् अशीत्याम् अनुव्यञ्जनानुपुलब्धिह्र् अष्टादशावेणिकबुद्धधर्म अनुपलब्धिः, न च सत्त्वानुपलब्धौ सत्त्वप्रज्ञप्तिर् प्रज्ञायते न यावद् अशीतिर् अनुव्यञ्जनानि न अष्टादशावेणिका बुद्धधर्माः प्रज्ञायन्ते. कथम् एतद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां [f. 282b] चरन् सत्त्वानान् धर्मन् देशयति? माहैव (अद्स्प्ग् इइ 55) स भगवन् बोधिसत्त्वो महासत्त्वः असत्सु धर्मेषु सत्त्वान् समादापयति. विपर्यासे नियोजयति. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वम् एव तावन् नोपलभते प्राग् एव बोधिपक्ष्यान् धर्मान्.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत् तथा यथा वदसि, सत्त्वानुपलब्धितः अध्यात्मशून्यता वेदितव्या. बहिर्धाशून्यता वेदितव्या अध्यात्मबहिर्धाशून्यता वेदितव्या शून्यताशून्यता वेदितव्या महाशून्यता वेदितव्या परमार्थशून्यता वेदितव्या. संस्कृतशून्यता वेदितव्या असंस्कृतशून्यता वेदितव्या अत्यन्तशून्यता वेदितव्या. अनवराग्रशून्यता वेदितव्या. अवकारशून्यता वेदितव्या. प्रकृतिशून्यता वेदितव्या. स्वलक्षणशून्यता वेदितव्या सर्वधर्मशून्यता वेदितव्या अनुपलंभशून्यता वेदितव्या: अभावशून्यता वेदितव्या स्वभावशून्यता वेदितव्या: अभावस्वभावशून्यता वेदितव्या. स्कन्धशून्यता वेदितव्या. धातुशून्यता वेदितव्या. आयतनशून्यता वेदितव्या. अत्यन्तशून्यता वेदितव्या प्रतीत्यसमुत्पादशून्यता वेदितव्या. आत्मशून्यता वेदितव्या सत्त्वशून्यता वेदितव्या. जीवशून्यता वेदितव्या जन्तुशून्यता वेदितव्या. मनुजशून्यता पोषशून्यता पुद्गलशून्यता कारककारापक-उत्थापकसमुत्थापकवेदकवेदयित्रीजानकपश्यकशून्यता वेदितव्या ध्यानशून्यता वेदितव्या अप्रमाणशून्यता आरूप्यसमापत्तिशून्यता: स्मृत्युपस्थानशून्यता यावत् सप्ततृंशन्बोधिपक्ष्यधर्मशून्यता शून्यताशून्यता आनिमित्ताप्रणिहितशून्यता वेदितव्या. अष्टविमोक्षशून्यता नवानुपूर्वसमापत्तिशून्यता. दशतथागतबलशून्यता. चतुर्वैशारद्यशून्यता चतुःप्रतिसंविच्छून्यता. महामैत्रीमहाकरुणाशून्यता वेदितव्या. अष्टादशावेणिकबुद्धधर्मशून्यता वेदितव्या. स्रोतआपत्तिफलशून्यता यावद् अर्हशून्यता प्रत्येकबोधिशून्यता मार्गाकारज्ञताशून्यता बोधिशून्यता बुद्धक्षेत्रशून्यता वेदितव्या. बोधिसत्त्वः पुनः सुभूते प्रज्ञापारमितायां चरन्न् इमे

सर्वधर्मा शून्या इति दृष्ट्वा विपर्यासगतानां सत्त्वानां धर्मन् देशयति. तथा च देशयति यथा स्वपि शून्यतासु न वर्तते. स एवं पश्यन् सर्वधर्मान् अनावरणतो ज्ञात्वा न कंचिद् धर्मं विकोपयति. न द्विधीकरोति, यथाभूतं च देशयति. तद्यथापि नाम तथागत निर्मितः अनेकानि निर्मितकोटी निर्माय कांश्चिद् दानपारमितायां नियोजयति. कांश्चिच् छीलपारमितायां कांश्चि क्षान्तिपारमितायां कांश्चिद् वीर्यपारमितायां कांश्चित् समाधिपारमितायां. (अद्स्प्ग् इइ 56) कांश्चित् प्रज्ञापारमितायां नियोजयति. कांश्चिच् चतुर्षु ध्यानेषु. कांश्चिच् चतुर्ष्व् अप्रमाणेषु. कांश्चिच् चतसृस्व् आरूप्यसमापत्तिषु कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु. कांश्चिद् यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु नियोजयति. कांश्चिद् यावत् सर्वाकारज्ञतायां नियोजयति. कांश्चित् स्रोतआपत्तिफले नियोजयति. कांश्चिद् यावद् बोधौ नियोजयति. तत् किं मन्यसे सुभूते अपि नु तेन निर्मितेन कस्यचिद् धर्मस्य प्रभेदः कृतः?

आह: नो हीदं भवन्.

भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं, यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानान् धर्मन् देशयति. तांश् च यथाभूतं प्रतिष्ठापयति. विपर्यासेभ्यः परिमोचयत्य् अबद्धामुक्तयोगेन. तत् कस्य हेतोः? [f. 283a] तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्य अबद्धामुक्तता न तद् रूपं. या वेदनाया संज्ञायाः संस्काराणां विज्ञानस्य अबद्धामुक्तता न तद् विज्ञानं यावत् या संस्कृतासंस्कृतानाम् अबद्धामुक्तता न ते संस्कृतासंस्कृता धर्माः. तत् कस्य हेतोः? अत्यन्तविशुद्धं हि रूपं यावद् अत्यन्तविशुद्धं विज्ञानं. यावत् संस्कृतासंस्कृता धर्मा कर्तव्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयति. न च सत्त्वम् उपलभते. अनुपलब्धौ सर्वद्धर्माणां बोधिसत्त्वो महासत्त्वो स्थितस् तच् च अस्थानयोगेन. रूपशून्यतया अस्थानयोगेन. यावद् विज्ञानशून्यतया अस्थानयोगेन. यावत् संस्कृतासंस्कृतानां धर्माणां शून्यतया अस्थानयोगेन. न हि संस्कृतासंस्कृता धर्माः क्वचित् स्थिताः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नोपलभ्यते. यत्र प्रतितिष्ठेयुः, न ह्य् अभावः अभावे स्थास्यति. न स्वभावः स्वभावे स्थास्यति. न परभावः परभावे स्थास्यति. तत् कस्य हेतोः? तथा हि ते सर्वे नोपलभ्यन्ते. या च सा अनुपलब्धिः सा न क्वचित् स्थास्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् इमान् धर्मान् प्रभावयत्य् आभिः सर्वशून्यताभिः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (अद्स्प्ग् इइ 57)

चरन्न् अनपराधि भवति बुद्धानां भगवतां बोछिसत्त्वानां च महासत्त्वानां प्रत्येकबुद्धानां च श्रावकाणां च सर्वेषां च आर्याणां. तत् कस्य हेतोः? तथा हि बुद्धैश् च भगवद्भिर् बोधिसत्त्वैश् च महासत्त्वै प्रत्येकबुद्धैश् च श्रावकैश् च एषैव धर्मता अनुबुद्धा. अनुभुध्य सर्वसत्त्वानान् धर्मन् देशयन्ति. तां ते धर्माणां धर्मतां न व्यतिवर्तन्ते. तत् कस्य हेतोःर्? न हि धर्मता व्यतिवर्तते. न तथता न भूतकोटिर् व्यतिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते. यो व्यतिवर्तेत.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न व्यतिवर्तते न तथता न भूतकोटिर् व्यतिवर्तते. किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावद् अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावद् अन्ये संस्कृतासंस्कृता धर्मा लौकिकलोकोत्तरा सास्रवानास्रवा धर्माः अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः?

भगवान् आह: नो हीदं सुभूते, न सुभूते अन्यो रूपम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावन् नान्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावन् न अन्ये सर्वधर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः.

आह: यदि भगवन् न अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावन् न अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः यावन् न अन्ये सर्वधर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः, तत् कथं भगवन् व्यवस्थानं भवति. कृष्णानां धर्माणां कृष्णो विपाकः, नरका वा तिर्यग्योनिर् वा यमलोको वा: शुक्लानान् धर्माणां शुक्लो विपाकः, देवमनुष्याः, कृष्णशुक्लानान् धर्माणां कृष्णशुक्लो विपाकः, सुखदुःखप्रतिसंवेदन. अकृष्णशुक्लानां धर्माणाम् अकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः यावद् अनुत्तरा सम्यक्संबोधिः.

भगवान् आह: संवृतिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते, न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यं निर्देष्टुं. तत् कस्य हेतोः? अविकल्पो हि स धर्मः अप्रव्याहरो, (अद्स्प्ग् इइ 58) यदुत नामसत्यं रूपसत्यम् अनुत्पाद अनिरोधः असंक्लेशः अव्यवदानं, इयम् अत्यन्तशून्यता. अनवराग्रशून्यता.

आह: यदि भगवन् संवृतिसत्यम् उपादाय फलव्यवस्थानं भवति. न परमार्थसत्येन. ननु भगवं. सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति. सकृदागामिफलम् अनागामिफलम् अरहत्त्वं. [f. 283b] प्रत्येकबोधि सम्यक्संबोधिर् भविष्यति?

भगवान् आह: किं पुनः सुभूते बालपृथग्जनाः संवृतिसत्यं वा परमार्थसत्यं वा प्रजानान्ति. यदि प्रजानंति तेषाम् अपि फलव्यवस्थानं भविष्यति. स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा. यः पुनः सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गभावना, तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? आर्यपुद्गलानां पुनर् मार्गश् च मार्गभावना च. तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भविष्यति.

आह: किं पुनर् भगवन् मार्गभावनाया फलप्राप्तिर् भवति. फलं वा प्राप्यते?

भगवान् आह: नो हीदं सुभूते, न मार्गभावनाया फलप्राप्तिर् भवति. फलं वा प्राप्यते. न पुनः सुभूते अभावितमार्गस्य फलप्राप्तिर् न मार्गेण फलं प्राप्स्यते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति. न च भागच्छेदेन संस्कृतधातोर् वा असंस्कृतधातोर् वा फलव्यवस्थानम्.

आह: यदि भगवन् न भागच्छेदेन संस्कृतधातोर् वा असंस्कृतधातोर् वा फलव्यवस्थानं भवति, न निर्देष्टं पुनर् भगवता, इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणात्, सकृदागामिफलं कामरागव्यापादतनुत्वात्, अनागामिफलं पञ्चानाम् अधोभागीयानां संयोजनानां प्रहाणात्, अर्हत्वं पञ्चानाम् ऊर्द्धंभागीयानां (अद्स्प्ग् इइ 59) संयोजनानां प्रहाणात्, प्रत्येकबोधिर् यत् किंचित् समुदयधर्म सर्वन् तं निरोधधर्मेति सम्यक्संबोधिः सर्ववासनानुसन्धिप्रहाणात्. अस्य वयं भगवन् भाषितस्य कथम् अर्थम् आजानीयाम, न संस्कृतानां वा असंस्कृतानां वा धर्माणां भागच्छेदेन फलव्यवस्थानं भवति?

भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा अनुत्तरा सम्यक्संबोधिर् वा संस्कृतम् एतद् उताहो ऽसंस्कृतं?

आह: असंस्कृतम् एतद् भगवन् न संस्कृतं सुगतः.

भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?

आह: नो हीदं भगवन्.

भगवान् आह: तत् किं मन्यसे सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा. संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति. यदुत अलक्षणान्. अपि नु तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति. संस्कृतम् इति वा असंस्कृतम् इति वा?

आह: नो हीदं भगवन्.

भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयत्य् अभागच्छेदताम् उपादाय. यदुत अध्यात्मशून्यताम् उपादाय. यावत् स्वलक्षणशून्यताम् उपादाय. आत्मना च न क्वचिद् धर्मे ऽभिनिविशते. परं च न क्वचिद् अभिनिवेशयति. दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा, प्रथमे वा ध्याने यावच् चतुर्थे वा ध्याने. मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तौ वा स्मृत्युपस्थानेषु वा. यावद् आर्याष्टाङ्गे मार्गे. यावत् सर्वाकारज्ञतायां वा, सो ऽनभिनिविष्टो न क्वचित् सज्जते. तद्यथापि नाम तथागतनिर्मितो दानं च ददाति न च दानफले सज्जते. न दानफलं प्रत्यनुभवत्य् अन्यत्र सर्वसत्त्वानां परिनिर्वापनार्थं. यावत् षट्सु पारमितासु यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु न क्वचित् तिष्ठति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मेषु चरति. न क्वचिद् धर्मे तिष्ठति न सज्जते. तत् कस्य हेतोः? तथा ह्य् अस्य धर्माणां धर्मलक्षणं सुप्रतिविद्धं.

// लक्षणानुव्यञ्जनाक्षराभिनिर्हारनिर्देशपारमितापरिवर्त्तः. 73 //

परिवर्त 74.

अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् धर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति?

भगवान् आह: यथा सुभूते निर्मितस्य असमुदाचारो रागद्वेषमोहेषु असमुदाचारो रूपेष्व् असमुदाचारो यावद् विज्ञाने. एवम् असमुदाचार [f. 284a] आध्यात्मिकबाह्येषु धर्मेषु असमुदाचार अनुशयपर्युत्थानेषु असमुदाचारः सास्रवानास्रवेषु धर्मेष्व् असमुदाचार लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु असमुदाचारो मार्गे असमुदाचारो फले. एवं सुभूते धर्माणां धर्मनयः सुप्रतिविद्धं भवति.

आह: कथं भगवन् निर्मितस्य मार्गभावना?

भगवान् आह: यां मार्गभावनाम् आगम्य नैव संक्लिश्यते न व्यवदायते वा, नैव पञ्चगतिके संसारे दृश्यते.

आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽवस्तुकान् सर्वधर्मान् प्रतिविध्यति?

भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु तथागतनिर्मितस्य किंचिद् वस्त्व् अस्ति यद् वस्त्व् आगम्य संक्लिश्यते वा व्यवदायते वा, पञ्चगतिके वा संसारे संदृश्येत?

आह: नो हीदं भगवन्, न भगवंस् तथागतनिर्मितस्य किंचिद् वस्त्व् अस्ति यद् वस्त्व् आगम्य संक्लिश्येत वा व्यवदायेत वा. पञ्चगतिके वा संसारे संदृश्येत.

भगवान् आह: एवं खलु सुभूते धर्माणां धर्मनयः सुप्रतिविद्धो भवति.

आह: किं पुनर् भगवं. सर्वं रूपं तथागतनिर्मितोपमं. सर्वा वेदनासंज्ञासंस्कारा सर्वं विज्ञानं तथागतनिर्मितोपमं?

भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदनासंज्ञासंस्कारा सर्वं विज्ञानं निर्मितोपमं.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.