Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
- Thông tin
- GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
उपनायका भवन्ति इति. अपि तु खलु पुनर् सुभूते यच् र रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता. या च ध्यानपारमिता या एअ प्रज्ञापारमिता या च आध्यात्मशून्यता या च बहिर्द्धाशून्यता यावद् या च स्वलक्षणशून्यता यच् च प्रथमध्यानं या च यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् ये च चत्वारि स्मृत्युपस्थानानि यो च यावद् आर्याष्टाङ्गो मार्गो ये च यावत् त्रिविमोक्षमुखानि ये [f. 262a] च यावद् अष्टौ विमोक्षा यावन् नवानुपूर्वविहारसमापत्तयः ये च यावद् दशतथागतबलानि चत्वरि वैशारद्यानि चतस्रः प्रतिसंविदः अष्टादशावेणिका बुद्धधर्मा या च महामैत्री या च महाकरुणा या च यावत् सर्वाकारज्ञता अस्मिन्न् आर्ये धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतरणार्थम् एवं लोकव्यवहारेण व्याहृता न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र ज्ञानेन च दर्शनेन शिक्षितव्यं, ज्ञानेन दर्शनेन शिक्षित्वा केचिद् धर्माः प्रतिवेद्धव्याः (अद्स्प्ग् इ 188) केचिद् धर्मा न प्रतिवेद्धव्याः. कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन दर्शनेन शिक्षित्वा प्रतिवेद्धव्याः, कतमे धर्मा ज्ञानेन दर्शनेन शिक्षित्वा न प्रतिवेद्धव्याः? श्रावकप्रत्येकबुद्धधर्माः शिक्षित्वाज्ञानेन दर्शनेन च न प्रतिवेद्धव्याः, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्मा प्रतिवेद्धव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्यधर्मविनये
प्रज्ञापारमितायां शिक्षितव्यं. आह: आर्यो धर्मविनयो आर्यो धर्मविनय इति भगवन्न् उच्यते. कियता भगवन्न् आर्यो धर्मविनय इत्य् उच्यते? भगवान् आह: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेण न संयुक्ता न विसंयुक्ताः दोषेण न संयुक्ता न विसंयुक्ताः मोहेन न संयुक्ता न विसंयुक्ताः सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ताः विचिकित्सया न संयुक्ता न विसंयुक्ताः शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः कामरागव्यापादेन न संयुक्ता न विसंयुक्ताः रूपरागारूपरागेण न संयुक्ता न विसंयुक्ताः अविद्यया न संयुक्ता न विसंयुक्ताः मनौद्धत्येन न संयुक्ता न विसंयुक्ताः प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ताः यावत् चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ताः मैत्र्या न संयुक्ता न विसंयुक्ताः करुणया न संयुक्ता न विसंयुक्ताः मुदितया न संयुक्ता न विसंयुक्ताः उपेक्षया न संयुक्ता न विसंयुक्ताः यावत् नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः चतुर्भिः स्मृत्युपस्थानैर् न संयुक्त न विसंयुक्ताः यावन् महामैत्र्या महाकरुणया न संयुक्ता न विसंयुक्ताः, संस्कृतधातुना न (अद्स्प्ग् इ 189) संयुक्ता न विसंयुक्ताः असंस्कृतधातुना न संयुक्ता न विसंयुक्ता इति. तेन ते आर्या इत्य् उच्यन्ते. तेषां चायं धर्मो विनयश् च, तस्माद् आर्यो धर्मविनय इत्य् उच्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः. ते अरूपिणः अरूपिणाः सार्धं न संयुक्ता न विसंयुक्ताः, अनिदर्शना अनिदर्शनेन सार्धं न संयुक्ता न विसंयुक्ताः, अप्रतिघा
अप्रतिघेन सार्धं न संयुक्ता न विसंयुक्ताः, अलक्षणा अलक्षणेन सार्धं न संयुक्ता न विसंयुक्ताः. इयं सुभूते अरूप्य् अनिदर्शना अप्रतिघा एकलक्षणा अलक्षणा पारमिता बोधिसत्त्वानां [f. 262b] महासत्त्वानां यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यो ऽत्र शिक्षित्वा न कस्यचिद् धर्मस्य लक्षणम् उपलभते. सुभूतिर् आह: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं, न वेदना संज्ञा संस्कारा विज्ञानलक्षणे शिक्षितव्यं. न चक्षुर्लक्षणे शिक्षितव्यं न यावत् मनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातोर् अब्धातोर् तेजोधातोर् वायुर्धातोर् आकाशधातोर् विज्ञानधातोर् लक्षणे शिक्षितव्यं, न दानपारमिताया लक्षणे शिक्षितव्यं, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमिताया लक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे शिक्षितव्यं यावन् न स्वलक्षणशून्यतालक्षणे शिक्षितव्यं, न प्रथ मध्यानलक्षणे शिक्षितव्यं यावन् न चतुर्थध्यानलक्षणे शिक्षितव्यं न मैत्र्या लक्षणे शिक्षितव्यं न यावन् नैवसांज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं न स्मृत्युपस्थानानां लक्षणे शिक्षितव्यं यावन् न आर्याष्टाङ्गमार्गस्य लक्षणे (अद्स्प्ग् इ 190) शिक्षितव्यं, न शुन्यता समाधेर् नानिमित्तस्य समधेर् नाप्रणिहितस्य समाधेर् लक्सने शिक्षितव्यं, न विमोक्षाणां न अनुपूर्वसमापत्तीनां लक्षणे शिक्षितव्यं, न दशबलानां न चतुर्णां वैशारद्यानां च चतसृणां प्रतिसंविदां न अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणे शिक्षितव्यं, न महामैत्र्या न महाकरुणाय लक्षणे शिक्षितव्यं न
दुःखार्यसत्यानां लक्षणे शिक्षितव्यं, न समुदयलक्षणे शिक्षितव्यं न निरोधलक्षणे शिक्षितव्यं न मार्गलक्षणे शिक्षितव्यं नार्यलक्षणे शिक्षितव्यं नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं न असंस्कृतधातुलक्षणे शिक्षितव्यं. यदि भगवन्न् अत्रापि धर्मलक्षणेषु न शिक्षितव्यं, कथं भगवन्न् अशिक्षित्वा बोधिसत्त्वो महासत्त्वः सर्वधर्मलक्सणे संस्कारलक्षणे च श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामिष्यत्य्. अनतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं कथं बोधिसत्त्वन्यामम् अवक्रमिष्यति, बोधिसत्त्वन्यामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महयानेन वा? भगवान् आह: यदि सुभूते कस्यचिद् धर्मस्य लक्सणं भवेत् तद् बोधिसत्त्वेन महासत्त्वेन तत्र लक्षणेषु शिक्षितव्यं. यस्मात् तर्हि सुभूते सर्वधर्माः अलक्षणा अरूपिणो अनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. तस्माद् बोधिसत्त्वेन महासत्त्वेन नैव लक्षणे शिक्षितव्यं नालक्षणे. तत् कस्य हेतोर्? न हि पूर्वम् अलक्षणा अभूवन् पश्चात् सलक्षणा भूताः, यस्मात् तर्हि (अद्स्प्ग् इ 191) सुभूते पूर्वम् अप्य् एते धर्मा एतर्ह्य् अप्य् अलक्षणास् तस्माद् बोधिसत्त्वेन महासत्त्वेन नैव लक्षणे शिक्षितव्यं, न अलक्षणे. तत् कस्य हेतोर्? उत्पादाद् वा अनुत्पदाद् वा तथागतानां स्थित एवायम् अलक्षणधातुर्. [f. 263a] आह: यदि भगवन्न् अलक्षणाः सर्वधर्माः न विलक्षणस्, तत् कथं बोधिसत्त्वस्य
महासत्त्वस्य प्रज्ञापारमितभावना भविष्यति? न च भगवन्न् अभावयित्वा प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन शक्त श्रावाकभूमिर् वा प्रत्येकबुद्धभूमिर् वा अतिक्रमितुं, अनतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं न च शक्यं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वन्यामो ऽवक्रमितुं, अनवक्रम्य बोधिसत्त्वन्यामं न शक्यं बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिम् उत्पादयितुं, अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् नोत्पाद्य न शक्यम् अभिज्ञा उत्पादयितुं, बोधिसत्त्वो ऽभिज्ञा अनुत्पदे न शक्यं बुद्धक्षेत्रं परिशोधयितुं सत्त्वांश् च परिपाचयितुं, बुद्धक्षेत्रम् अपरिशोध्य सत्त्वांश् च अपरिपाच्य न शक्यं सर्वाकारज्ञताम् अनुप्राप्तुं, अननुप्राप्य सर्वाकारज्ञतां न शक्यं द्गर्मचक्रं प्रवर्तयितुं, धर्मचक्रम् अप्रवर्त्य न शक्यं सत्त्वां स्रोतआपत्तिफले प्रतिष्ठापयितुं न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबोधौ प्रतिष्ठापयितुं, नापि शक्यं सत्त्वान् दानमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुं न शीलमये भावनामये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुं. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अलक्षणा सुभूते सर्वधर्मा न विलक्षणाः. आह: त कथम् अलक्षणेषु धर्मेषु प्रज्ञापारमिताभावना भवति? भगवान् (अद्स्प्ग् इ 192) आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासत्त्वस्य विलक्षणा नैवलक्षणा. अलक्षणभावना सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना. आह: तत् कथम् अलक्षणा प्रज्ञापारमिताभवना भवति? भगवान् आह: सर्वधर्मविभावना प्रज्ञापारमिताभावना. आह: तत् कथं भगवं
सर्वधर्मविभावना? भगवान् आह: रूपविभावनाभावना प्रज्ञापारमिताभावना. वेदनासंज्ञासंस्काराविज्ञानविभावनाभावना प्रज्ञापारमिताभावना. चक्षुश्रोत्रघ्राणजिह्वाकायमनोविभावनाभावना प्रज्ञापारमिताभावना. रूपशब्दगन्धरसस्प्रष्टव्यधर्मविभावनाभावना प्रज्ञापारमिताभावना. आयूहविभावनाभावना प्रज्ञापारमिताभावना. निर्यूहविभावनाभावना प्रज्ञापारमिताभावना. प्रथमध्यानविभावनाभावना प्रज्ञापारमिताभावना. द्वितीयध्यानतृतीयध्यानचतुर्थध्यानविभावनाभावना प्रज्ञापारमिताभावना. मैत्रीविभावनाभावना प्रज्ञापारमिताभावना. करुणामुदिता उपेक्षाविभावनाभावना प्रज्ञापारमिताभावना. आकासानन्त्यायतनविभावनाभावना प्रज्ञापारमिताभावना. विज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनविभावनाभावना प्रज्ञापारमिताभावना. बुद्धानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना. धर्मानुस्मृतिसंघानुस्मृतिशीलानुस्मृतित्यागानुस्मृतिदेवतानुस्मृत्युद्वेगानुस्मृत्यानापानानुस्मृतिमरणानुस्मृतिकायगतानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना. अनित्यसंज्ञादुःखसंज्ञानात्मसंज्ञाशुभसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. प्रतीत्यसमुत्पादविभावनाभावना प्रज्ञापारमिताभावना. आत्मसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. सत्त्वसंज्ञजीवसंज्ञाजन्तुसंज्ञामनुजसंज्ञा मानवसंज्ञा [f. 263b] (अद्स्प्ग् इ 193) पोषसंज्ञापुद्गलसंज्ञाकारकसंज्ञाकारपकसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. नित्यसंज्ञासुखसंज्ञाशुभसंज्ञात्मसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. स्मृत्युपस्थानविभावनाभावना प्रज्ञापारमिताभावना.
सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गविभावनाभावना प्रज्ञापारमिताभावना. शून्यतासमाधिविभावनाभावना प्रज्ञापारमिताभावना. आनिमित्तसमाध्यप्रणिहितसमाधिविभावनाभावना प्रज्ञापारमिताभावना. अष्टविमोक्षविभावनाभावना प्रज्ञापारमिताभावना. नवानुपूर्वसमापत्तिविभावनाभावना प्रज्ञापारमिताभावना. सवितर्कसविचारसमाधिविभावनाभावना प्रज्ञापारमिताभावना. अवितर्कसविचारमात्रसमाधिविभावनाभावना प्रज्नापारमिताभावना. अवितर्काविचारसमाधिविभावनाभावना प्रज्ञापारमिताभावना. दुःखार्यसत्यविभावनाभावना प्रज्ञापारमिताभावना. समुदयनिरोधमार्गार्यसत्यविभावनाभावना प्रज्ञापारमिताभावना. दुःखज्ञानसमुदयज्ञाननिरोधज्ञानमार्गज्ञानविभावनाभावना प्रज्ञापारमिताभावना. क्षयज्ञानविभावनाभावना प्रज्ञापारमिताभावना. अनुत्पादज्ञानधर्मज्ञानान्वयज्ञानसंवृतिज्ञानपरिचयज्ञानयथावज्ज्ञानविभावनाभावना प्रज्ञापारमिताभावना. दानपारमिताविभावनाभावना प्रज्ञापारमिताभावना. शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताविभावनाभावना प्रज्ञापारमिताभावना. अध्यात्मशून्यताविभावनाभावना प्रज्ञापारमिताभावना. बहिर्द्धाशून्यता अध्यात्मबहिर्द्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यता (अद्स्प्ग् इ 194) संस्कृतशून्यतासंस्कृतशून्यतात्यन्तशुन्यतानवराग्रशून्यताअनवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यताभावशून्यतास्वभावशून्यताभावस्वभावशून्यताविभावनाभावना प्रज्ञापारमिताभावना. दशतथागतबलविभावनाभावना प्रज्ञापारमिताभावना.
चतुर्वैशारद्यचतुप्रतिसंविदष्टादशावेणिकबुद्धधर्माविभावनाभावना प्रज्ञापारमिताभावना. महामैत्रिमहाकरुणाविभावनाभावना प्रज्ञापारमिताभावना. स्रोतआपत्तिफलविभावनाभावना प्रज्ञापारमिताभावना. सकृदागामिफलानागामिफलार्हत्वप्रत्येकबोधिविभावनाभावना प्रज्ञापारमिताभावना. सर्वाकारज्ञताविभावनभावना प्रज्ञापारमिताभावना. सर्ववासनानुसन्धिप्रहाणविभावनाभावना प्रज्ञापारमिताभावना. सुभूतिर् आह: कथं पुनर् भगवं रूपविभावनाभावना प्रज्ञापारमिताभावना यावत् कथं सर्ववासनानुसन्धिप्रहानविभावनाभावना प्रज्ञापारमिताभावना? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति यावद् विज्ञानं भाव इति न भावयति. यावत् सर्वाकरज्ञतां भाव इति न भावयति यावत् सर्ववासनानुसन्धिप्रहाणं [f. 264a] भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः दानपारमिताभावना, नास्ति शिलपारमिताभावना क्षान्तिपारमिताभावना वीर्यपारमिताभावना ध्यानपारमिताभावना नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावन. (अद्स्प्ग् इ 195) नास्ति भावसंज्ञिनः यावत् सर्वाकारज्ञताभावना. तत् कस्य हेतोस्? तथा हि सुभूते तस्ज भावे सक्तस्य दानेन शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञायाम् एष संगः. यस् तथा सक्तस् तस्य नास्ति मोक्षः. नास्ति सुभूते भावसंज्ञिनः स्मृत्युपस्थानभावना, न सम्यक्प्रहाणभावना ऋद्धिपादाभावना इन्द्रियभावना बलभावना, न बोध्यङ्गभावना न मार्गभावना न शून्यताभावना न अनिमित्तभावना न अप्रणिहितभावना, यावन् नास्ति
सर्वाकारज्ञताभावना. तत् कस्य हेतोस्? तथा हि सुभूते स भावे सक्तः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किम् इति भगवन् भावः? किम् इत्य् अभावः? भगवान् आह: द्वयं सुभूते भावः, अद्वयम् अभावः. आह: किम् इति भगवन् द्वयं? भगवान् आह: रूपसंज्ञा सुभूते द्वयं, वेदनासंज्ञासंस्काराविज्ञानसंज्ञा द्वयं, चक्षुःसंज्ञा यावत् मनोसंज्ञा द्वयं, रूपसंज्ञा यावद् धर्मसंज्ञा यावद् बुद्धसंज्ञा बोधिसंज्ञा संस्कृतधातुसंज्ञा असंस्कृतधातुसंज्ञा यावत् सुभूते सर्वसंज्ञा यावच् च असंज्ञा सर्वम् एतद् द्वयं. यावद् द्वयं तावद् भावः, यावद् भावस् तावत् संस्क्ष्रो, यावत् संस्कारस् तावत् सत्त्वा न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः (अद्स्प्ग् इ 196) तद् अनेन अपि सुभूते पर्यायेणैवं वेदितव्यम्: नास्ति द्वयसंज्ञिनो दानं नास्ति शीलं नास्ति क्षान्तिर् नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा, नास्ति मार्गो नास्ति प्राप्तिर् नास्त्य् अभिसमयो, नास्त्य् अन्तशः आनुलोमिक्य् अपि क्षान्तिः, कुतः पुनर् रूपस्य परिज्ञा यावद् विज्ञानस्य परिज्ञा, यावत् सर्वाकारज्ञतायाः परिज्ञा? यस्य नास्ति मार्गभावना, कुतस् तस्य स्रोतआपत्तिफलं कुतो यावद् अर्हत्वं कुतः प्रत्येकबोधिः, कुतो यावत् सर्ववासनानुसन्धिप्रहाणं? ((69))
परिवर्त 70.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिनः अनुलोमिक्य् अपि क्षान्तिर् नास्ति, कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् अभावसंज्ञिनः अनुलोमिकी क्षान्तिः नास्ति, शुक्लविदर्शनभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनुभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा बुद्धभूमिर् वा. मार्गभावना वा यां मार्गभावनाम् आगम्य क्लेशान् न प्रजहाति श्रावकप्रतिसंयुक्तान् वा प्रत्येकबुद्धप्रतिसंयुक्तां वा, यैः क्लेशैर् आवृतो बोधिसत्त्वन्यामं न अवक्रामेत्, बोधिसत्त्वन्यामम् अनवक्रमन् सर्वाकारज्ञतां न अनुप्राप्नुयात्, सर्वाकारज्ञतां न अनुप्राप्नुवन् सर्ववासनानुसन्धिक्लेशान् न प्रजहीत? यदि भगवन् नास्ति कस्यचिद् धर्मस्य उत्पद्यमानस्य उत्पादः न च अनुत्पाद्य इमान् धर्मांच् छक्यं सर्वाकारज्ञतां अनुप्राप्तुं? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न अभावसंज्ञिन आनुलोमिकी क्षान्तिर् अस्ति यावन् नास्ति सर्ववासनानुसन्धिक्लेशप्रहानं. आह: किं पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा भवत्य् अभावसंज्ञा वा, रूपसंज्ञा वा यावत् विज्ञानसंज्ञा वा, यावत् सर्वाकारज्ञतासंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा, द्वेषसंज्ञा वा द्वेषप्रहाणसंज्ञा [f. 264b] वा, मोहसंज्ञा वा मोहप्रहाणसंज्ञा (अद्स्प्ग् इ 198) वा, अविद्यासंज्ञा वा अविद्याप्रहाणसंज्ञ वा, संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा, विज्ञानसंज्ञा वा विज्ञानप्रहानसंज्ञा वा, नामरूपसंज्ञा वा नामरूपप्रहानसंज्ञा वा, षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा, स्पर्शसंज्ञा वा
स्पर्शप्रहाणसंज्ञा वा, वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा, तृष्णासंज्ञा वा तृष्णाप्रहानसंज्ञा वा, उपादानसंज्ञा वा उपादानप्रहाणसंज्ञा वा, भवसंज्ञा वा भवप्रहाणसंज्ञा वा, जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा, जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा, समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा, निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा, मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, यावत् सर्वाकारज्ञतासंज्ञा वा सर्ववासनानुसन्धिक्लेशप्रहानप्रहाणसंज्ञा वा? भगवान् आह: नो हीदं सुभूते. न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्वचिद् धर्मे भावसंज्ञी वा अभावसंज्ञी वा भवति. एषैव बोधिसत्त्वस्य महासत्त्वस्य आनुलोमिकी क्षान्तिर् यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. एतद् एव अस्य फलं यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. अभावः खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभाव एव अभिसमयस्. तद् अनेन अपि ते सुभूते पर्यायेणैवं वेदितव्यम्: अभावस्वभावाः सर्वधर्माः. आह: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, तत् कथं भगवन्न् अभावस्वभावाः सर्वधर्मास् तथागतेन अभिसंबुद्धाः, येषाम् अभिसंबोधाय सर्वधर्मविषयवशवर्त्तिता (अद्स्प्ग् इ 199) अनुप्राप्ता? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह अहं सुभूते पूर्वं बोधिसत्त्वचारिकां चरं, षट्सु पारमितासु चरन्, विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं
सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं यावद् चतुर्थं ध्यानम् उपसंपद्य विहरामि. सो ऽहं तेषान् ध्यानानां ध्यानाङ्गानाञ् च निमित्तम् अनुद्गृह्णंस्, तैर् ध्यानैर् न मन्ये, ध्यानानि न आस्वादयामि, ध्यानानि नोपलभे. सो ऽहं तानि ध्यानान्य् आकारविशुद्धानि समापद्ये, सो ऽहं तानि ध्यानानि विपाकीकृत्वा विविधज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि, यावद् दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै चित्तपर्यायज्ञानसाक्षात्क्रियायै पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि. तासां साक्षात्क्रियायां निमित्तम् अनुद्गृह्णंस् ताभिर् अभिज्ञभिर् न मन्ये न आस्वादयामि नोपलभे. सो ऽहं ताः पञ्चाभिज्ञाः आकाशसमाः पश्यामि समापद्ये. सो ऽहं सुभूते एकलक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इदं दुःखं, अयं दुःखसमुदयो, अयं दुःखनिरोधः, इयं दुःखनिरोधगमिनीप्रतिपद् इति यथाभूतम् आज्ञातवान्, सो ऽहं दशभिः तथागतबलैः समन्वागतश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः महामैत्र्या महाकरुणया ऽष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतः सत्त्वांस् त्रिषु राशिषु व्याकरोमि. (अद्स्प्ग् इ 200) आह: कथं भगवंस् [f. 265a] तथागतेन अर्हता सम्यक्संबुद्धेन अभावस्वभावानि चत्वारि ध्यानानि उत्पादितानि, कथम् अभास्वभावा षडभिज्ञा उत्पादिता, कथं सत्त्वासत्त्वा त्रिषु राशिषु व्याकृताः? भगवान् आह: सचेत् सुभूते कामानां वा पापकानां वा अकुशलानां धर्माणां स्वभावो ऽभविष्यद् भावो वाभविष्यत् पर भावो वाभविष्यन्, न अहं सुभूते पूर्वं बोधिसत्त्वचारिकां चरन्न् अभावस्वभावान् कामान्
विदित्वा अभावस्वभावान् पापकान् अकुशलान् धर्मान् विदित्वा चत्वारि ध्यानान्य् उपसंपद्य व्याहर्षं. यस्मात् तर्हि सुभूते न कामानां पापकानां च अकुशलानां धर्माणां स्वभावो ऽस्ति न भावो न परभावः अन्यत्र अभावस्वभावत्वात् एव, तस्माद् अहं पूर्वं बोधिसत्त्वचारिकां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य व्याहर्षं. एवं यावत् चतुर्थं ध्यानम् उपसंपद्य व्याहर्षं. सचेत् सुभूते अभिज्ञानां भावो वा स्वभावो वा परभावो वा अभविष्यन्, न अहं सुभूते सर्वाभिज्ञा अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये. यस्मात् तर्हि सुभूते सर्वाभिज्ञानां न भावो न स्वभावो न परभावो ऽस्ति, अन्यत्र अभावस्वभावात् एव, तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः.
/// leaf broken off here
vi. अभिसमय (विअ) [f. 265a] सुभूतीर् आह: यदि भगवं बोधिसत्त्वो महासत्त्वो ऽभावस्वभावेषु सर्वधर्मेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. तत् कथं भगवन्न् अभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा अनुपूर्वप्रतिपत् प्रज्ञायते यया अनुपूर्वक्रियया अनुपूर्वशिक्षया अनुपूर्वप्रतिपदा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वम् एवैवं श्रुतं भवति. बुद्धानां भगवताम् अन्तिकाद् बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मैः पर्युपासितानाम् अर्हतां वा अन्तिकाद् अनागामिनां वा सकृदागामिनां वा. स्रोतआपन्ननां वा. अभावस्वभावत्वं बुद्धानां भगवताम् अभावस्वभावत्वम् अभावस्वभावत्वं बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अभावस्वभावत्वम् अर्हताम् अभावस्वभावत्वम् अनागामिनाम् अभावस्वभावत्वम् स्रोतआपन्नानाम् अभावस्वभावत्वं सर्वार्याणां. नास्ति सर्वसंस्काराणां स्वभावः. अन्तशावालाग्रकोटिस्थानमात्रम् अपि: तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति /// यावत् स्रोतआपन्नानां, यद्य् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये यदि वा न अभिसंभोत्स्ये, अभाव एव सर्वधर्माः. यन्व् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् भावसंज्ञायां चरतः अभा /// वे प्रतिष्ठापयेयं, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठत सर्वसत्त्वानां परिनिर्वाणाय स अनुपूर्वक्रियायाम् आरभते अनुपूर्वशिक्षा अनुपूर्वप्रतिपदं (अद्स्प्ग् इइ 2) यत्र शिक्षित्वा पौर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
(वि, 1-6) स प्रथमम् एव षट्सु पारमितासु चरति यदुत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां [f. 265b] वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां.
(vi 1) स दानपारमितायां चरन्न् आत्मना च दानं ददाति परं च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये च अन्ये दानपारमितायां चरन्ति तेषाम् अपि च वर्णवादी भवति समनुज्ञः. स तेन दानेन महाभोगस्कन्धं प्रतिलभते. स दानं त्यजति दानं ददाति विगतमत्सरेण चित्तेन. अन्नम् अन्नार्थिकेभ्यो पानं पानार्थिकेभ्यो /// केभ्यो गन्धं गन्धार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्यः शयनं शयनार्थिकेभ्यो /// ति. स तेनैव दानेन शीलस्कन्धं रक्षति. देवमाहन्त्यं च मनुष्यमाहन्त्यं च प्रतिलभते /// शीलस्कन्धं प्रतिलभते समाधिस्कन्धं प्रतिलभते प्रज्ञास्कन्धं प्रतिलभते विमुक्तिस्कन्धं प्रतिलभते. विमुक्तिज्ञानदर्शनस्कन्धं प्रतिलभते. स तेनैव दानेन समन्वागतः श्रावकप्रत्येकबुद्धभूमी अतिक्रामति, श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य बुद्धक्षेत्रं परिशोध्य सत्त्वां परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति. सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य तां? संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेन अनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रतिपत् प्रज्ञायते. तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति.
(vi 2) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय आत्मना च शीलपारमितायां चरति. परं च शीलपारमितायां प्रतिष्ठापयति, शीलस्य च वर्णं भाषते, ये च अन्ये शीलपारमितायां चरन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. स तेन शीलेन देवमाहन्त्यं च मनुष्यमाहन्त्यं च प्रतिलभते. स तेन शीलेन सत्त्वांस् शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठापयति. विमुक्तिज्ञानदर्शने प्रतिष्ठापयति. स तेन शीलेन समन्वागतः श्रावकप्रत्येकबुद्धभूमी (अद्स्प्ग् इइ 3) अतिक्रामति श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन /// सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेन अनुपूर्वक्रिया प्रज्ञायते. अनुपूर्वशिक्षा अनुपूर्वप्रतिपत् प्रज्ञायते. तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति.
(vi 3) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय आत्मना च क्षान्तिपारमितायां चरति. परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति, क्षान्त्या च वर्णं भाषते, ये च अन्ये क्षान्तिपारमितायां चरन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. स क्षान्तिपारमित् /// शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठापयति [f. 266a] विमुक्तिज्ञानदर्शने प्रतिष्ठापयति. स तेन शीलस्कन्धेन च समाधिस्कन्धेन च प्रज्ञास्कन्धेन च विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च /// शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च बोधिसत्त्वन्यामम् अवक्रामति सत्त्वान् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते. तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति.
(vi 4) पुनर् अपरं सुभूते /// ते. कुशलेषु धर्मेषु. परं च वीर्ये समादापयति. वीर्यस्य च वर्णं भाषते, ये च अन्ये वीर्यम् आरभन्ते तेषाम् अपि वर्णवादी भवति समनुज्ञः. /// शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति. प्रज्ञायां प्रतिष्ठापयति. विमुक्तौ प्रतिष्ठापयति. विमुक्तिज्ञानदर्शने प्रतिष्ठापयति शीलस्कन्धेन च समाधिस्कन्धेन च प्रज्ञास्कन्धेन च विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन /// चत्? सत्त्वां त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं (अद्स्प्ग् इइ 4) खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येण अनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रतिपत् प्रज्ञायते. तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति.
(vi 5) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय आत्मना च ध्यानानि समापद्यते /// म्य समापत्तिषु प्रतिष्ठापयति. ध्यानानां च वर्णां भाषते. अप्रमाणानाम् आरूप्यसमापत्तिनां /// ऽपि वर्णवादी भवति समनुज्ञः. स तत्र ध्यानेषु स्थित्वा अप्रमाणेष्व् आरूप्यसमापत्तिषु च स्थित्वा. /// शीले प्रतिष्ठापयति समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापयन्ति. विमुक्तौ प्रतिष्ठापयति. विमुक्तिज्ञानदर्शने प्रतिष्ठापयति. स तेन शीलस्कन्धेन च समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन च श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य तेनैव च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन /// एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेन अनुपूर्वक्रिया प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति.
(vi 6) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां चरं सत्त्वान् दाने प्रतिष्हापयति. शीले प्रतिष्ठापयति. समाधौ प्रतिष्ठापयति प्रज्ञायां प्रतिष्ठापयति विमुक्तौ प्रतिष्ठापयति विमुक्तिज्ञानदर्शने प्रतिष्ठापयति. [f. 266b] प्रज्ञापारमितायां चरत आत्मना /// क्षान्त्या संपादयति. वीर्यम् आरभते. ध्यान् /// प्रतिष्ठापयति. दानस्य च वर्णं भाषते शीलस्य क्षान्त्या वीर्यस्य ध्यानानां प्रज्ञायाश् च वर्णं भाषते. ये च अन्ये /// भावयन्ति तेषाम् अपि वर्णवादी भवति. समनुज्ञः. स तया दानपारमितयाः शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया स्रावकप्रत्येकबुद्धभूमी अतिक्रामति श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति. बुद्धक्षेत्रं परिशोध्य सत्त्वां परिपाच्य सर्वाकारज्ञाताम् अनुप्राप्नोति. सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. तच् च सर्वं नोपलभते. तत् कस्य हेतोस्? तथा ह्य् अस्य स्वभाव नास्ति. (अद्स्प्ग् इइ 5) (vi 7-12) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रस्थाने. स प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्यते. स बुद्धानुस्मृतिं भावयति. धर्मानुस्मृतिं भावयति संघानुस्मृतिं. शीलानुस्मृतिं त्यागानुस्मृतिं देवतानुस्मृतिं भावयति.
(vi 7) कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति. न वेदनातो /// तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वातृंशता महापुरुषलक्सणैर् मनसिकर्तव्य न: सुवर्णवर्ण? कायतो मनसिकर्त्व्य /// तत् कस्य हेतोस्? तथा हि कायस्य प्रभाया अनुव्यञ्जनानां च स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्त्व्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्त्व्यः. तत्कस्य हेतोः? तथा हि शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यः. न चतुर्भ्यो वैशारद्येभ्यो न चतसृभ्य प्रतिसंविद्यो न महामैत्र्या न महाकरुणया न अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्त्व्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति [f. 267a] यस्य स्वभवो नास्ति स अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादाद् मनसिकर्तव्यो. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति यस्य स्वभावो नास्ति. सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
(अद्स्प्ग् इइ 6) एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्त्व्या. एवं खल्व् अस्य अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा अनुपूर्वप्रस्थानं, स इह अनुपूर्वक्रिययाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रस्थाने शिक्षमाण अनुपूर्वप्रस्थानैश् चत्वारी स्मृत्युपस्थानानि परिपूरयति /// प्रहाणानि चतुरर्द्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टांगं मार्गम् /// सर्वाकारज्ञतार्ण् परिपूरयत्य् अभावस्वभावयोगेन. स अभावत एव सर्वधर्मान् अभिसंबुध्यते. यत्र स्वभावसंज्ञा ऽपि नास्ति.
(vi 8) कथञ् च सुभूते बोधिसत्त्वेन महावत्त्वेन धर्मानुस्मृतिर् भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशलधर्मा मनसिकर्तव्या न अकुशला धर्मा मनसिकर्तव्या न व्याकृता न अव्याकृता न लौकिका न लोकोत्तरा न सामिषा न निरामिषा न आर्या न अनार्या न सास्रवा ना अनास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना न आरूप्यधातुपर्यापन्ना /// तथा हि तेषां धर्माणां स्वभावो नास्ति यस्य स्वभावो नास्ति. सः अभावः. अभाव स्मृत्य् अमनसिकारो हि धर्मानुस्मृति. इह अ? धर्म /// अभिसंबुध्यते. यत्र स्वभावसंज्ञास्य भावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मानुस्मृतिर् भावयितव्या.
(vi 9) कथञ् च सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन /// विमुक्तिविमुक्तिज्ञानदर्शनसंपन्नाश् चत्वारि पुरुषयुगानि अष्टौ पुरुषपुद्गलास् तत् कस्य हेतोः? /// एवमन(? ) पि कर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति सः अभावः. अस्मृत्य् अमनसिकारो हि संघानुस्मृतिः. /// ष्राप्नोत्य् [?] अस्मृत्य् अमनसिकारेण. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या.
(vi 10) कथञ् च सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रथमचित्तोत्पादम् उपादाय /// समाधिसंवर्तनीयै [f. 267b] शीलैः समन्वागतेन तानि शीलान्य् अभावस्वभावतो मनसिकर्तव्यानि यत्राञ्चापि स्मृतिकर्म नास्ति कः पुनर् (अद्स्प्ग् इइ 7) स्मृतिविगमः. तत् कस्य हेतोस्? /// यत्र स्वभावसंज्ञापि नास्ति.
(vi 11) कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायानि चरता त्यागानुस्मृतिर् भावयितव्या? /// सामिष त्यागो यदि वा धर्मत्यागः यत्र परित्यज्यता चित्तम् एव नोत्पादयितव्यं. ददामि वा न ददामि वा. परित्यजामि वा न परित्यजामि वा /// तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, स एवं त्यागानुस्मृत्यां चरंच् छिक्षमाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्रापयति.
(vi 12) कथञ् च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् भावयितव्या? /// चातुर्महाराजकायिकेषु देवेषु उपपन्ना यावत् परनिर्मितवशवर्तिषु देवेषु उपपन्नास् ते अभावस्वभावतो मनसिकर्तव्याः. /// गेन ता देवता. मनसिकर्तव्याः. यत्राञ्चापि स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्न् अनुपूर्वेण यावत् सर्वाकारज्ञतां मनसिकरोति. /// [वा आरूप्य व च म द?] अनागामिनस् ते अभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति. येषां स्वभावो नास्ति ते ऽभावा. /// यत्राञ्चापि स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्न् अनुपूर्वेण यावत् सर्वाक्रारज्ञतां मनसिकरोति. /// पुनर् मनसिकुर्वतो ऽअनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रस्थानं प्रज्ञायते. ///
(vi 13) पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अनुपूर्वक्रिया अनुपूर्वशिक्षा अनुपूर्वप्रस्थानम् अभावस्वभावयोगेन आध्यात्मशून्यतायां शिक्षितव्यं. /// महाकरुणायां शिक्षितव्यं. स च बोधिमार्गे शिक्षमाण अभावस्वभावां धर्मान् अभिसंभोत्स्यते. /// एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रस्थानं प्रज्ञायते /// ? /// (अद्स्प्ग् इइ 8) सुभूतिर् आह: यदि भगवन्न् अभावस्वभा वा सर्वधर्मा तन् नास्ति रूपं नास्ति यावद् विज्ञानं नास्ति स्कन्धा नास्ति धातवो नास्ति /// नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर् नाप्य् अभिसमयो नास्ति यावत् सर्वधर्मा इति.
भगवान् आह: अपि नु सुभूते अभावस्वभावेषु धर्मेष्व् अस्तिता वा नास्तिता वोपलभ्यते?
सुभूतिर् आह: नो हीदं भगवं न अभावस्वभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभ्यते.
भगवान् आह: तत् कथं सुभूते इदं सुभूते [f. 268a] एवं भवति, यद्य् अभावस्वभावाः सर्वधर्माः तन् नास्ति रूपं नास्ति यावद् विज्ञानं नास्ति यावत् प्राप्तिर् नाप्य् अभिसमयो नास्ति यावत् सर्वधर्मा इति?
आह: न अहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि. अपि तु खलु पुनर् भगवं भविष्यन्त्य् अनागाते ऽध्वनि भिक्षवः श्रावकयानिकाः वा. प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा. एवं वक्ष्यन्ति. यद्य् अभावस्वभावा. सर्वधर्माः तद् अभावस्वभावेषु सर्वधर्मेषु को ऽत्र संक्लिश्यते वा व्यवदायते वा, ते संक्लेशव्यवदानम् अजानाना शीलविपन्नाश् च भविश्यन्ति. दृष्टिविपन्नाश् च भविष्यन्त्य् आचारविपन्नाश् च भविष्यन्ति. तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां तिसृणां गतीनाम् अन्यतरान्यतरा गतिः प्रतिकाङ्क्षितव्या नरका वा तिर्यग्योनिर् वा यमलोका वा, इदम् अप्य् अहं भगवन्न् अनागतभयं संपश्यंस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिपृच्छामि. अपि तु खलु भगवन्न् अहं अत्र धर्मेषु न काङ्क्षमि न विचिकित्सामि.
भगवनाह: साधु साधु सुभूते एवम् एतद् यथा वदसि. ((70))
परिवर्त 7ल्.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावा सर्वधर्माः, कम् अर्थवशं संपश्यन् बोधिसत्त्वो महासत्त्व सत्त्वानाम् अर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते?
भगवान् आह: यथैव सुभूते अभावस्वभावाः सर्वधर्मास् (अद्स्प्ग् इइ 9) तथैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते. तत् कस्य हेतोः? क्षुद्रक सुभूते उपलंभः, न उपलंभसंज्ञिनः प्राप्तिर् न अभिसमयो न अनुत्तरां सम्यक्संबोधिः.
आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वा अभिसमयो वा अनुत्तरा वा सम्यक्संबोधिः?
भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभो ऽभिसमयः अनुपलंभ एव अनुत्तरा सम्यक्संबोधिः धर्मधात्वविकोपितत्वाम् उपादाय. धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभस्य प्राप्तिं वा अभिसमयो वा अनुत्तरां वा सम्यक्संबोधिम् इच्छेत्.
आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् न अभिसमयो न अनुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एव अभिसमयो ऽनुपलंभ एव अनुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो दिवितीया कुतस् त्रितीया कुतो यावद् दशमी भूमि कुतो ऽनुत्पत्तिकधर्मक्षान्ति. कुतो विपाकीया अभिज्ञा कुतो विपाकीयं दानं कुतो विपाकीयं शीलं कुतो विपाकीया क्षान्ति कुतो विपाकीयं वीर्यं कुतो विपाकीयं ध्यानं कुतो विपाकीया प्रज्ञा, यत्र स्थित्वा विपाकीयेषु धर्मेषु सत्त्वान् परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. बुद्धांश् च भगवत उपतिष्ठति अन्नेन पानेन वस्त्रैर् गन्धैर् माल्यै शयनेनासनेन उपाश्रयेण प्राजीविकेण यावद् अन्यतराभिर् मानुषिकीभिः संपत्तिभिः ताश् च अस्य नाच्छेद्यन्ते. यावत् परिनिर्वृतस्य शरीरेषु श्रावकेषु च विपाक कृत्वा न क्षीयते.
भगवान् आह: यत एव सुभूते अनुपलंभस् तत एव प्रथमा भूमिर् यावद् दशमी भूमिः तत एव विपाकीयाः पञ्च अभिज्ञाः तत एव विपाकीयन् दानं शीलं क्षान्ति वीर्यं ध्यानं प्रज्ञा तत एव (अद्स्प्ग् इइ 10) विपाकीयानि कुशलमूलानि यैः कुशलमूलै. सत्त्वानाम् अर्थं करोति. यावत् परिनिर्वृतस्य अपि पूजा: प्रवर्तन्ते.
आह: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षन्त्याश् च वीर्यस्य च समाधेश् च प्रज्ञायाश् च अभिज्ञानां च को विशेषः किं नानाकरणं?
भगवान् आह: अनुपलंभस्य च सुभूते दानस्य च शीलस्य च क्षन्तेश् [f. 268b] च वीर्यस्य च समाधेश् च प्रज्ञायाश् च अभिज्ञानां च न किंचिन् नानाकरणं. यत् पुनः सुभूते अनुपलिप्तं दानं शीलं क्षान्ति वीर्यं ध्यानं प्रज्ञाभिज्ञा च, तेषां नानाकरणं निर्दिष्टं.
आह: कथं पुनर् भगवन्न् अनुपलिप्तस्य दानस्य यावद् अभिज्ञानां नानाकरणं निर्दिश्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अनुपलभ्य दानम् अनुपलभ्य त्यागम् अनुपलभ्य दायकम् अनुपलभ्य प्रतिग्राहकं दानं ददाति अनुपलभ्य शीलं शीलं रक्षति. अनुपलभ्य क्षान्तिं क्षान्तौ चरति. अनुपलभ्य वीर्यं वीर्ये चरति. अनुपलभ्य समाधिं समाधौ चरति. अनुपलभ्य प्रज्ञां प्रज्ञायां चरति. अनुपलभ्य अभिज्ञा अभिज्ञाषु चरति अनुपलभ्य स्मृत्युपस्थानानि स्मृत्युपस्थानेषु चरति. यावद् अनुपलभ्य मार्गं मार्गे चरति. यावद् अनुपलभ्य शून्यतां शून्यतायां चरति. अनुपलभ्य आनिमित्तन् आनिमित्ते चरति. अनुपलभ्य अप्रणिहितम् अप्रणिहिते चरति. अनुपलभ्य सत्त्वान् सत्त्वान् परिपाचयति. अनुपलभ्य बुद्धक्षेत्रं बुद्धक्षेत्रं परिशोधयति. अनुपलभ्य बुद्धधर्मान् बोधिम् अभिसंबुध्यते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलंभप्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति मारेण पापीयसा मारकायिकाभिर् वा देवताभिः.
vii. अभिसमय
(विइ अ) एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एकचित्तेन षट्पारमिताः परिगृह्णाति. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वसमापत्ती पञ्चाभिज्ञा अध्यात्मशून्यतां. यावद् अभावस्वभावशून्यतां दशतथागतबलानि चत्वारि वैशारद्यानि. चतस्र प्रतिसंविदो महामैत्रिं महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् द्वातृंशन् महापुरुषलक्षणान्य् अशीतिम् अनुव्यञ्जनानि परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः यद् दानं ददाति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यच् छीलं रक्षति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. य /// क्षान्तिं भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् वीर्यम् आरभते तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः यन् समाधिं समापद्यते तन् नान्यत्र प्रज्ञापारमितया परिह्गृहीतः. यत् प्रज्ञां भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् ध्यानानि समापद्यते तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् अप्रमाणानि समापद्यते तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यावद् आरूप्यसमापत्तीन् समापद्यते तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यत् स्मृत्युपस्थानानि समापद्यते तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यावद् यद् आर्याष्टाङ्गं मार्गं भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् विमोक्षमुखानि भावयति. तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यच् चत्वार्य् आर्यसत्यानि भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीन् भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यत् (अद्स्प्ग् इइ 12) पञ्चाभिज्ञा भावयति [f. 269a] तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यद् दशतथागतबलानि भावयति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यावद् यद् अष्टादशावेणिकान् बुद्धधर्मान् भावयति. तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. यल् लक्षणानि यद् अशीतिम् अनुव्यञ्जनानि अभिनिर्हारति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतः. एवं हि सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् एकचित्तोत्पादेन षट्पारमितान् परिगृह्णाति. यावद् अशीत्य् अनुव्यञ्जनानि परिगृह्णाति.
आह: कथं भगवन् प्रज्ञापारमितया परिगृहीतो बोधिसत्त्वो महासत्त्वो एकचित्तोत्पादेन षट्पारमिता परिगृह्णाति. यावद् अशीतिम् अनुव्यञ्जनानि परिगृह्णाति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यद् दानं ददाति तत् प्रज्ञापारमितया परिगृहीतः तत्र न द्वयसंज्ञी भवति. यच् छीलं रक्षति तत्र न द्वयसंज्ञी भवति. यत् क्षान्तिं भावयति तत्र न द्वयसंज्ञी भवति. यद् वीर्यम् आरभते तत्र न द्वयसंज्ञी भवति. यद् समाधिं भावयति तत्र न द्वयसंज्ञी भवति. यत् प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति. यावद् यद् अशीतिम् अनुव्यञ्जनान्य् अभिनिर्हारते. तत्र न द्वयसंज्ञी भवति.
आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति. तत्र च न द्वयसंज्ञी भवति. यावद् अशीतिम् अनुव्यञ्जनान्य् अभिनिर्हारति. तत्र च न द्वयसंज्ञी भवति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दानपारमितां परिपूरयति. स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गता कृत्वा दानन् ददाति. एवं सर्वबोधिपक्ष्यान् धर्मान् परिपूरयति यावत् स तत्र मार्गे सर्वाः षट्पारमिता अन्तर्गता कृत्वा मार्गं भावयति. तत् पुनः कथम् इति? यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानन् ददाति. सो ऽनास्रवे चित्ते स्थित्वा दानं ददाति. स तत्र अनास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. को ददाति कस्मै वा ददाति. केन वा ददाति को वा ददामि. स निमित्तापगतेन चित्तेन दानं ददात्य् अनास्रवेण विगततृष्णेन विगताविद्येन, स तच् चित्तं न समनुपश्यति. तद् दानं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलं रक्षति. तच् च शीलं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. एवं निमित्तापगतेन (अद्स्प्ग् इइ 13) चित्तेन क्षान्तिं भावयति. तां च क्षान्तिं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन वीर्यम् आरभते. तच् च वीर्यं न समनुपश्यति. यवात् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन समाधिं समापद्यते. तं च समाधिं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन प्रज्ञां भावयति तां च प्रज्ञां न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति यावद् अशीत्य् अनुव्यञ्जनेषु कर्तव्यं.
आह: कथं भगवन्न् अनिमित्तेष्व् अनभिसंस्कारेषु सर्वधर्मेषु दानपारमितापरिपूरिर् भवति. शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिर् भवति? चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहणानां चतुर्णांस् ऋद्धिपादानां पञ्चानां इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टांगस्य मार्गस्य परिपूरिर् भवति. शून्यताया आनिमित्तस्य [f. 269b] अप्रणिहितस्य समाधे. परिपूरिर् भवति. दशतथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदानां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरिर् भवति?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन दानं ददात्य् अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्य यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान्न् आध्यात्मिकं वा अङ्गप्रत्यङ्गानि बाह्यं वा भार्यपुत्रदुहित्रीराय्जं वालंकृत्यालंकृत ददाति. याचनकेभ्यस्, तस्य कश्चिद् एवागम्य एवं वदेत् किम् अनेनेदृशेन दानेन दत्तेनैवं निरुपकारेण, तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एवं भवति. किं चापि मे सत्त्वा एवं परिभाषन्ते. अनेनेदृशेन दानेनैवम् अस्थिरेण दत्तेन इति. अथ च पुनर् दातव्यम् एव मया दानं, न मया दानं न? दातव्यं. स तद् दानं सर्वसत्त्वै साधारणं कृत्वा अनुत्तरस्यै सम्यक्संबोधौ परिणामयति. स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति. किं वा दानम् एकस्मै वा ददामि, केन वा ददामि को वा ददाति. (अद्स्प्ग् इइ 14) किं वा परिणामयामि. क्व वा परिणामयामि. केन वा परिणामयामि. को वा परिणामयति. स तद् वस्तुन् न समनुपश्यति. यद् वा दद्याद् यत्र वा दत्त्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? सर्वं वस्त्व् अध्यात्मशून्यतया शून्यं बहिर्द्धाशून्यतया शून्यम् अध्यात्मबहिर्द्धाशून्यतया शून्यं शून्यताशून्यतया शून्यं महाशून्यतया शून्यं संस्कृतशून्यतया शून्यम् असंस्कृतशून्यतया शून्यम् अत्यन्तशून्यतया शून्यम् अनवराग्रशून्यतया शून्यं. अवकारशून्यतया शून्यं प्रकृतिशून्यतया शून्यं सर्वधर्मशून्यतया शून्यं. स्वलक्षणशून्यतया शून्यं. स एवं संपश्यति क्व वा परिणामयिष्यति. किं वा परिणामयिष्यति. केन वा परिणामयिष्यति,
तेनैवं परिणामयता परिणामितं भवति. स सत्त्वांस् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. दानपारमितां च परिपूरयति. शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावत् सप्ततृंशतो बोधिपक्ष्यान् धर्मान् शून्यताम् आनिमित्तम् अप्रणिहितं समाधिं यावद् अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति. स आदद् एव दानपारमितां परिपूरयति. विपाकं च न परिगृह्णाति. तद्यथापि नाम परनिर्मितवशवर्त्तिनां देवानां मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्त्य्, एवम् एव तस्य बोधिसत्त्वस्य महासत्त्वस्य मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्ति. स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति. स देवमानुष्य असुरं च लोकं संतर्पयति. स तान् सत्त्वांश् तया दानपारमितया परिगृह्य उपायकौशलेन च त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो यावच् छीलपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंच् छीलपारमितां परिपूरयति. स आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं शीलं प्रतिलभते. तत् पुनर् अस्य शीलम् अखण्डं भवत्य् अच्छिद्रम् अकल्माषम् अपरामृष्टं भुजिष्यं सुसमाहितं विज्ञप्रशस्तं, तेन च शीलेन न कंचिद् धर्मं परामृशति. रूपं वा वेदनां वा संज्ञां वा संस्कारान् वा विज्ञानं वा (अद्स्प्ग् इइ 15) द्वातृंशतां वा महापुरुषलक्सणानि क्षत्रियमहासालकुलानि वा ब्राह्मणमहासालकुलानि वा [f. 270a] गृहपतिमहासालकुलानि
चातुर्महाराजिकां वा देवास् त्रयस्त्रिंशत्कायिकान् वा यामान् वा तुषितां वा निर्मणरतीं वा परनिर्मितवशवर्त्तिनो वा ब्रह्मकायिकां वा ब्रह्मपुरोहितां वा ब्रह्मपारिषद्यां वा परीत्तां वा अप्रमाणां वा आभास्वरां वा परिशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा बृहत्फलान् वा असंज्ञिकान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अघनिष्ठान् वा आकाशानंत्यायतनं वा. विज्ञानंत्यायतनं वा आकिंचन्यानन्त्यायतनं वा. नैवसंज्ञानासंज्ञायतनं वा. स्रोतआपत्तिफलं वा. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा. प्रत्येकबुद्धं वा चक्रवर्तीराज्याधिपत्यं वा कारयेयम् इत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वा सर्वाकारज्ञातायां परिणामयत्य्, आनिमित्तानुपलंभाद्वयपरिणामेन, लोकव्यवहारेण न पुनः परमार्थेन. तया च शीलपारमितया परिपूरितया उपायकौशलेन च चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादययोगेन. दिव्यं च चक्षुर् अभिनिर्हारति. येन दिव्येन चक्षुषा वैनयिकेन ये पूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश् च पश्यति. तस्यास्य दर्शनं न नश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्यां यावद् ये समन्ताद् दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश् च पश्यति. तच् चास्य दर्शनं न नश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. स दिव्येन श्रोत्रधातुना विशुद्धेन अतिक्रान्त मानुषेण तेषां बुद्धानां भगवतां भाषमणानां शब्दं शृणोति. तच् च श्रुतं तावन् न नश्यति. यावन् न तेन श्रुतेन आत्मनः च
परस्य च अर्थः कृतो भवति. चेतःपर्यायज्ञानेन च तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति. तेन च चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, पूर्वेनिवासानुस्मृतिज्ञानेन च तेषां सत्त्वानाम् अतीतानि कुशलमूलान्य् आज्ञाय तै कुशलमूलैस् तां सत्त्वां संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, ते तथा समादापिताया च तथा संप्रहर्षिताया विशेषगामिनो भवन्त्य्, आस्रवक्षयज्ञानेन च सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति यावद् अर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. (अद्स्प्ग् इइ 16) अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. एवं यावद् यत्र यत्र सत्त्वाः प्रतिबलाः भवन्ति कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
कथं च सुभूते आनिमित्तेष्व् अनाभोगेष्व् अनुपलंभेष्व् अनभिसंस्कारेषु धर्मेषु क्षान्तिपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सचेत् सर्वसत्त्वा आगम्य आगम्य लोष्टदण्डशस्त्रप्रहारान् दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादस्य अपि क्षोभसहगतस्य अवकाशो न दातव्यः. तत्र बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे? यच् च सर्वसत्त्वानां मया क्षान्तव्यम् आक्रोशपरिभाषलोष्टदण्डशस्त्रप्रहारम् इति. या च अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या. तत्र बोधिसत्त्वेन महासत्त्वेन आक्रुश्यमानेन वा परिभाष्यमाणेन वा लोष्टदण्डशस्त्रप्रहारेषु दीयमानेष्व् एवं प्रत्यवेक्षितव्यं. को मे आक्रोर्शति वा परिभाष्यते वा लोष्टदण्डशस्त्रप्रहारान् वा ददाति. कस्य वा ददाति. तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यः, सर्वधर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मान् एव नोपलप्स्यते कुतः पुनर् धर्मः. [f. 27ओब्] स्वभावं, तस्य धर्मस्वभावं प्रत्यवेक्षमाणस्य एवं भवति. को मे छिन्नत्ति वा भिन्नत्ति वा. स एवं प्रत्यवेक्षमाणो धर्मस्वभावम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलप्स्यते. तत्र अनुत्पत्तिकेषु धर्मेषु क्षान्ति. किम् इति: क्लेशानुत्पत्तिकता च ज्ञानानाच्छेद्यता च. सो ऽनयो द्वयो क्षान्त्यौ स्थित्वा चत्वारि ध्यानानि परिपूरयिष्यति. चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गं मार्गं त्रिनि विमोक्षमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणाम् अष्टादशावेणिकां बुद्धधर्मान्.
स एषु धर्मेषु स्थित्वा आर्येष्व् अनास्रवेषु लोकोत्तरेष्व् असाधारणेषु सर्वश्रावकप्रत्येकबुद्धैः सार्धं ततः आर्या अभिज्ञा परिपूरयिष्यति. याभिर् अभिज्ञाभिः परिपूर्णाभिः षड्भिश् च पारमिताभिः समुदागच्छति, अनास्रवेषु च पञ्चस्व् अभिज्ञासु (अद्स्प्ग् इइ 17) स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि बुद्धान् भगवन्तो द्रक्ष्यति. तांश् च बुद्धान् भगवतो दृष्ट्वा बुद्धानुस्मृतिं प्रतिलप्स्यते. तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं यावत् समन्ताद् दशसु दिक्षु, स दिव्येन श्रोत्रधातुना यन् तेषां बुद्धानां भगवतां भाषितं तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्य तथत्वाय सत्त्वानान् धर्मन् देशयिष्यति. स तेषां बुद्धानां भगवतां चेतसैव चित्तम् आज्ञास्यति. स तेन चित्तपर्यायज्ञानेन सर्वसत्त्वानां चेतसैव चित्तम् आज्ञायत तथत्वाय धर्मन् देशयिष्यति. पूर्वेनिवासानुस्मृतिज्ञानेन. तेषां सत्त्वानां कुशलमूलान् आज्ञाय तां पौर्वकेण कुशलमूलेन संहर्षयिष्यति समादापयिष्यति आस्रवक्षयज्ञानेन च तां सत्त्वांस् त्रिषु यानेषु निवेषयिष्यति प्रतिष्ठापयिष्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्षान्तिपारमिता परिपूर्यते.
कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रादुर्भावेष्व् अनभिसंस्कारेषु धर्मेषु वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन एव वीर्येण समन्वागतो भवति. स प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स चतुर्थं ध्यानं समापन्नः अनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, यावत् सूर्यचन्द्रमसौ पाणिना परामृशत्य् आ ब्रह्मलोकं कायेन वशवर्त्तयति. तेन कायिकेन वीर्येण समन्वागतो ये पूर्वस्यां दिशि बुद्धा भगवन्तो विहरन्त्य् अनेकशतसातसाहस्रेषु लोकधातुषु सर्द्ध्या गत्वा बुद्धान् भगवतः उपतिष्ठति. चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषय्ज्यपरिष्कारैः. तस्य ते चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारास् तावन् न क्षीयन्ते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते. अभिसंबुद्धबोधेश् (अद्स्प्ग् इइ 18) च सदेवमानुषासुरो लोकः सुखी भवति. चीवरपिण्डपातशय्यनासनग्लानप्रल्ययभैषज्यपरिष्कारैः, परिनिर्वृतस्य च शरीरेषु शरीरपूजाः प्रवर्तन्ते. तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति. सो च यथा श्रुतो न जातु विप्रनश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिगृह्णाति सर्वाकारज्ञताया चरन्. एवं खलु सुभूते [f. 271a] बोधिसत्त्वो महासत्त्व कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः चैतसिकेन वीर्येण समन्वागतः
आर्येण अनास्रवेण मार्गेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतः अकुशलस्य कायकर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽवकासं न ददाति. न परामृशति. नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वा आत्मेति वा अनात्मेति वा संस्कृतम् इति वा असंस्कृतम् इति वा. कामधातुं वा रूपधातुं वा आरूप्यधातुं वा. सास्रवधातुं वा अनास्रवधातुं वा. प्रथमध्यानं वा यावच् चतुर्थं ध्यानं वा. मैत्रिं वा करुणां वा मुदितां वा उपेक्षां वा आकाशानन्त्यायायतनं वा. यावन् नैवसंज्ञानासंज्ञायतनं वा स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादान् वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टङ्गं मार्गं वा शून्यतां वा आनिमित्तं वा अप्रणिहितं वा यावद् बुद्धधर्मान् वा न परामृशति. नित्या इति वा अनित्या इति वा सुखम् इति वा दुःखम् इति वा आत्मेति वा अनात्मेति वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा बोधिसत्त्वत्वं वा न परामृशति. इमे सत्त्वा दर्शनप्रभाविता इमे तनुभूमिप्रभाविता इमे अवरभागीयप्रभाविता इमे ऊर्ध्वंभागीयप्रभाविता. इमे प्रत्येकबुद्धप्रभाविता इमे मार्गाकारज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते. येन स्वभावेन प्रभाव्येरन्. स तेनैव चैतसिकेन (अद्स्प्ग् इइ 19) वीर्येण समन्वागतो मरणमुखे ऽपि समाने सत्त्वानाम् अर्थं करोति. तांश् च सत्त्वान् नोपलभते. वीर्यपारमितां च परिपूरयति. तां च
वीर्यपारमितां नोपलभते. बुद्धधर्मांश् च परिपूरयति तांश् च बुद्धधर्मान् नोपलभते. बुद्धक्षेत्रं च परिशोधयति तच् च बुद्धक्षेत्रं नोपलभते. स तेन कायिकेन च चैतसिकेन च वीर्येण समन्वागतः सर्वकुशलधर्मान् परिपूरयति. तत्र च न सज्जति. सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. सत्त्वानाम् अर्थं कुर्वन्, येन येनर्धिप्रातिहार्येणेच्छति विकुर्वितुम्. तेनर्धिप्रातिहार्येण विकुर्वति. यदि वा पुष्पवर्षेण यदि वा गन्धविमुञ्चनेन. यदि वा गीतवाद्यारंभेण यदि वा भूमिचालेन. यदि वा अवभासेन: यदि वा सप्तरत्नमयलोकधातुसन्दर्शनेन. यत्र यत्र वा यौवनार्थानां सत्त्वानां कृते आत्मानम् अवसृजति. यदि वा ज्योतिरन्धानां सत्त्वानाम् अर्थे आत्मनो ऽवसृजति. यदि वा गन्धम् अवसृजति. यदि वा महायज्ञान् अवसृजति. यत्र न प्राणातिपात प्रवर्तते. यदि वा अनन्तां सत्त्वान् मार्गे ऽवतारयति. यावत् प्राणातिपाताद् विरमयति. यावन् मिथ्यादृष्टे परिमोचयति, कांश्चिद् दानेन अनुगृह्णाति. कांश्चिच् छीलेन. केसांचित् कृते अङ्गप्रत्यङ्गानि परित्यजति. केषांचित् पुत्रदारा केषांचिद् राज्यं केषांचिद् अर्थे आत्मानम् अवसृजाति. एवें येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्य तेन तेनोपायेन सत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति.
कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अनामनिमित्तेषु धर्मेषु स्थित्वा समाधिपारमितां परिपूरयति? (अद्स्प्ग् इइ 20) इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं तत् अन्यात् सर्वसमाधीन् [f. 27ल्ब्] परिपूरयति. स विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः. सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. स मैत्रिसहगतेन चित्तेन यावद् उपेक्षासहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वो ऽपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तत्र समाधिपारमितायां स्थित्वाष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. नवानुपूर्वसमापत्तीं शून्यतां समाधिम् आनिमित्तं समाधिम् अप्रणिहितं समाधिम् उपसंपद्य विहरति. आनन्तर्यांश् च समाधिम् उपसंपद्य विहरति. विद्युतोपमं समाधिं सम्यक्समाधिं वज्रोपमं समाधिम् उपसंपद्य विहरति. स इह समाधिपारमितायां स्थित्वा सप्ततृंशतं बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति. स इह समाधिपारमितायां स्थित्वा मार्गाकारज्ञताज्ञानेन यावन् मार्गाकारज्ञतायां सर्वसमाधीन् अन्तर्गतान् दृष्ट्वा शुक्लविपश्यनाभूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति. बुद्धभूमिं परिपूरयति. सो ऽत्र च भूमिषु चरति. न च अन्तरेण फलं च अनुप्राप्नोति. यावन् न सर्वाकारज्ञताज्ञानम् अनुप्राप्नोति. सो ऽत्र समाधिपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं
संक्रामति. बुद्धान् भगवतः पर्युपासिनः. स तान् बुद्धान् भगवत. पर्युपास्ते तेषां च बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति. सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. लोकधातौश् च लोकधातुं संक्रामति. सत्त्वानां च अर्थं करोति. कांश्चित् सत्त्वान् दानेन अनुगृह्णाति. कांश्चिच् छीलेन, कांश्चित् क्षान्त्या कांश्चिद् वीर्येण कांश्चित् समाधिना कांश्चित् प्रज्ञया कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन, कांश्चित् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति. कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति. कांश्चित् प्रत्येकबोधौ प्रतिष्ठापयति. कांश्चिद् बोधौ प्रतिष्ठापयति. यैर् यैः कुशलमूलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र नियोजयति. स इह समाधिपारमितायां स्थित्वा सर्वधारणीमुखान्य् (अद्स्प्ग् इइ 21) अभिनिर्हरति. चतस्रः प्रतिसंविद प्रतिलभते. विपाकीयानाञ् च अभिज्ञानां लाभी भवति, स न जातु मातुः कुक्षाव् उपपद्यते. न जातु कामान् प्रतिसेवते, न च काचिद् उपपत्तिर् यां न प्रतिगृह्णाति. न चोपपत्तिदोषेण लिप्यते. तत् कस्य हेतोः? तथा ह्य् अनेन मायोपमा धर्माः सुदृष्टा भवन्ति. स मायोपमान् सर्वसंस्कारान् विदित्वा सर्वसत्त्वानाम् अर्थं करोति. न च तत्र सत्त्वान् न सत्त्वप्रज्ञप्तिर् उपलभ्यते. सो ऽनुपलभमान सर्वधर्मा अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारताम् उपादाय न पुनः परमार्थेन. स इह समाधिपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति. न च जातु समाधिपारमिताया विरहितो भवति. यावद् अनुत्तरां सम्यक्संबोधिं परिपूरयति. स इह मार्गाकारज्ञतायां
स्थित्वा सर्वाकारज्ञताम् अभिनिर्हरति. यत्र स्थित्वा सर्ववासनानुसन्धिं प्रजहाति. सर्ववासनानुसन्धिं प्रहाय आत्मनश् च परस्य च अर्थं करोति. स आत्मनश् च परस्य च अर्थं कुर्वन् सदेवमानुषासुरस्य लोकस्य दक्षिणीयो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् समाधिपारमितां परिपूरयति.
(vii 2) कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह [f. 272a] सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् न कंचिद् धर्मं सद्भूततापरिनिष्पन्नं समनुपश्यति, स रूपस्य सधूततां परिनिष्पन्नतां च न समनुपश्यति. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सद्भूततां परिनिष्पन्नतां च न समनुपश्यति. रूपस्योत्पादं न समनुपश्यति. वेदनायाः संज्ञाया संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति. स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादम् असमनुपश्यन् रूपस्यायंद्वारं न समनुपश्यति. वेदनाया संज्ञाया संस्काराणां विज्ञानस्य आयंद्वारं न समनुपश्यति. रूपस्य सन्निचयं न समनुपश्यति. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सन्निचयं न समनुपश्यति. (अद्स्प्ग् इइ 22) एवं यावत् सास्रवाणां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति. तुच्छकाम् एव रिक्तकताम् एव समनुपश्यति. स एवं प्रत्यवेक्षमाणो रूपस्य स्वभावं नोपलभते. वेदनायाः संज्ञाया संस्काराणां विज्ञानस्य स्वभावं नोपलभते. यावत् सास्रवाणाम् अनास्रवाणां धर्माणां स्वभावं नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुच्यते, स एवम् अधिमुच्यमान अध्यात्मशून्यतायां चरन् यावत् स्वलक्षणशून्यतायां चरन् न क्वचिद् धर्मेष्व् अभिनिविशते. रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा यावद् बोधौ वा, सो ऽभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिसत्त्वमार्गं परिपूरयति. यदुत
षट्पारमितान्. यावत् सप्ततृंशतं बोधिपक्ष्यधर्मान् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् द्वातृंशन् महापुरुषलक्षणान्य् अशीतिम् अनुव्यञ्जनानि परिपूरयति, स विपाकधर्मणि बोधिमार्गे स्थित्वाषट्सु पारमितासु परिपूर्णासु यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु परिपूर्णेषु यावद् विपाकीयास्व् अभिज्ञासु परिपूर्णासु, ये सत्त्वा दानेन अनुग्रहीतव्यास् तान् दानेन अनुगृह्णाति. ये ऽशीलेन अनुग्रहीतव्यास् तान् शीलेन अनुगृह्णाति. ये क्षान्त्या अनुग्रहीतव्यास् तान् क्षान्त्या अनुगृह्णाति. ये वीर्येण अनुग्रहीतव्यास् तान् वीर्येण अनुगृह्णाति. ये समाधिना अनुग्रहीतव्यास् तान् समाधिना अन्तिगृह्णाति. ये प्रज्ञया अनुग्रहीतव्यास् तान् प्रज्ञया अनुगृह्णाति. ये विमुक्त्या अनुग्रहीतव्यास् तान् विमुक्त्या अनुगृह्णाति. ये विमुक्तिज्ञानदर्शनेन अनुग्रहीतव्यास् तान् विमुक्तिज्ञानदर्शनेन अनुगृह्णाति. ये स्रोतआपत्तिफले प्रतिष्ठापयितव्यास् तान् स्रोतआपत्तिफले प्रतिष्ठापयति. ये सकृदागामिफले प्रतिष्ठापयितव्यास् तान् सकृदागामिफले प्रतिष्ठापयति. ये ऽनागामिफले प्रतिष्ठापयितव्यास् तान् अनागामिफले प्रतिष्ठापयति. ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति. ये प्रत्येकबोधौ प्रतिष्ठापयितव्यास् तान् प्रत्येकबोधौ प्रतिष्ठापयति. ये बोधौ प्रतिष्ठापयितव्यास् तान् बोधौ प्रतिष्ठापयति. एष सर्वत्र पेयाल. सो ऽनेकविधम् ऋध्या विकुर्वन् गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, स आकांक्संस् तान् गङ्गानदीवालुकोपमान् (अद्स्प्ग् इइ 23) लोकधातून् यादृशाना रत्नानाम् आकांक्षिष्यति तादृशाना रत्नानाम् अभिनिर्हास्यति. स सत्त्वानाम् अभिप्रायान्
परिपूरयन् लोकधातोर् [f. 272b] लोकधातुं संक्रमिष्यति, स तान् लोकधातून् दृष्ट्वा यथाभिप्रेतं बुद्धक्षेत्रं परिग्रहीष्यति. तद्यथापि नाम परनिर्मितवशवर्तिषु देवेषु उपभोगपरिभोगा, ये ऽप्य् अन्येषु बुद्धक्षेत्रेषु अपगतपर्येष्टिषु ते तत्र भविष्यन्ति. स तया विपाकीयेन दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकीयाभिर् अभिज्ञाभिर् विपाकीयेन बोधिमार्गेण मार्गाकारज्ञतायां चरन् सर्वधर्मपरिपूरिप्राप्त सर्वाकारज्ञताम् अनुप्राप्स्यति. यावत् सचेद् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कार विज्ञानम् अपरिगृहीतं यावत् सर्वधर्मा कुशला वा अकुशला वा लौकिका वा लोकोत्तरा वा. सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा. अपरिगृहीतास्, तथैव अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वोपभोगपरिभोगा अपरिगृहीता भविष्यन्ति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृहीता अनुपलंभयोगेन, सर्वधर्मा अपरिग्रहाय वा सत्त्वानां धर्मो देशितः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति. ((7))
परिवर्त 72.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् असंभिन्नेषु सर्वधर्मेष्व् आनिमित्तेषु सर्वधर्मेषु स्वलक्षणशून्येषु षण्णां पारमितानां भावनापरिपूरिर् भवति. दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमितायाः समाधिपारमिताया. प्रज्ञापारमितायाः. कथम् एषां सास्रवाणाम् अनास्रवाणां (अद्स्प्ग् इइ 24) धर्माणां नानाकरणं प्रज्ञायते, कथं दानपारमिता अन्तर्गता भवति प्रज्ञापारमितायां, कथं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता कथं यावद् अष्टादशावेणिका बुद्धधर्मा अन्तर्गता भवन्ति प्रज्ञापारमितायां. कथं भगवन्न् एवं विलक्षणानां धर्माणाम् एकलक्षणानां यदुत अलक्षणानां. प्रज्ञप्तिर् भवति?
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. स्वप्नोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरह्हते समाधिं भावयति प्रज्ञां भावयति, प्रतिश्रुत्कोपमेषु पञ्चसु स्कन्धेषु स्थित्वा. दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरभते समाधिं भावयति प्रज्ञां भावयति. एवं प्रतिभासोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरभते समाधिं भावयति प्रज्ञां भावयति. स्वप्नोपमा पञ्चस्कन्धा अलक्षणा प्रतिश्रुत्कोपमा प्रतिभासोपमा मरीच्युपमा मायोपमा निर्मितोपमा पञ्चस्कन्धाः अलक्षणाः. तत् कस्य हेतोः? न हि स्वप्नस्य कश्चित् स्वभावः न प्रतिभासस्य कश्चित् स्वभावः न मरीचिकायाः कश्चित् स्वभावः न मयाया कश्चित् स्वभावः न निर्मितस्य कश्चित् स्वभावः. यस्य स्वभावो नास्ति तस्य लक्सणं नास्ति, यस्य लक्सणं नास्ति तद् एकलक्षणं यदुत अलक्षणं. तद् अनेन अपि ते सुभूते पर्यायेण एवां वेदितव्यम्: अलक्षणं दानम् अलक्षणो दायकः अलक्षण प्रतिग्राहकः. य एवं ज्ञात्वा दानं ददाति स दानपारमितां [f. 273a] परिपूरयंच् छीलपारमितया न विवर्तते. क्षान्तिपारमितया वीर्यपारमितया समाधिपारमितया प्रज्ञापारमितया न विवर्तते. स इह षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति. चत्वार्य् अप्रमाणां चतस्रः आरूप्यसमापत्ती परिपूरयति. चत्वारि स्मृत्युपस्थानानि परिपूरयति. चत्वारि सम्यक्प्रहाणानि. चतुरर्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
