Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
- Thông tin
- GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अनुपलंभयोगेन समाधिः समापत्तव्यः प्रज्ञां भावयता. अनुपलंभयोगेन [f. 250b] प्रज्ञा भावयितव्या. यावत् सर्वाकारज्ञतां भावयता अनुपलंभयोगेन सर्वाकारज्ञता भावयितव्या. आह: कियता भगवन्न् अनुपलंभो भवति. कियतोपलंभो भवति? भगवन् आह: यावद् द्वयं तावद् उपलंभ. अद्वयम् अनुपलंभ. आह: किम् इति भगवन् द्वयं? भगवान् आह: यावत् चक्षूरूपाणि यावद् यावन् मनोधर्माश् च यावद् यावद् बोधिर् बुद्धाश् च इदं सुभूते द्वयं. आह: किं पुनर् भगवन्न् उपलभ्यो ऽनुपलंभः अथ अनुपलभ्यो ऽनुपलंभ? भगवान् आह: न सुभूते अनुपलंभ्यो ऽनुपलंभ. न अनुपलभ्यो ऽनुपलंभः. अपि तु खलु पुनः सुभूते उपलंभ अनुपलंभसमता अनुपलंभः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन उपलंभसमतायां शिक्षितव्यं. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाम् अनौपलंभिको भवति. आह: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नैवोपलंभे सज्जते नैवानुपलंभे, कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिः परिपूरयितव्यं, भूमेर् भूमिं परिपूर्य सर्वाकारज्ञता अनुप्राप्तव्या? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपलंभे स्थित्वा भूमेर् भूमिं परिपूरयति. न ह्य् उपलंभे स्थित्वा शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां चरता भूमेर् भूमि परिपूरयितुं. तत् कस्य हेतो? अनुपलंभो हि प्रज्ञापारमिता अनुपलंभो बोधि सो ऽपि नोपलभ्यते. यः प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन
प्रज्ञापारमितायां (अद्स्प्ग् इ 140) चरितव्यं. आह: यदि भगवं प्रज्ञापारमिता नोपलभ्यते बोधिर् अपि नोपलभ्यते यो ऽपि बोधौ चरति सो ऽपि नोपलभ्यते. तत् कथम् इदानीं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधर्मेषु प्रविचयः कर्तव्यः इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानं यावद् इयं बोधिः? भगवान् आह: न हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तथा धर्मेषु प्रविचयं करोति. यथा कुर्वन् रूपम् उपलभेत वेदनां संज्ञां संस्कारान् विज्ञानम् उपलभेत. यावद् बोधिम् उपलभेत. आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नोपलभते. वेदनां संज्ञां संस्कारान् विज्ञानं नोपलभते. यावद् बोधिं नोपलभते, कथम् इदानीं दानपारमितां परिपूर्य शीलपारमितां क्षन्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति. बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति. सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति. सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति. धर्मचक्रं प्रवर्त्य बुद्धकार्यं करोति. बुद्धकार्यं कृत्वा सत्त्वान् संसारात् परिमोचयति? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपस्य कृते प्रज्ञापारमितायां चरति. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य कृते यावन् न बोधेः [f. 25ल] कृते प्रज्ञापारमितायां चरति. आह: कस्य भगवन् कृते बोधिसत्त्वो महासत्त्वः (अद्स्प्ग् इ 141) प्रज्ञापारमितायां चरति? भगवन् आह: न कस्यचित् कृते
बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. तत् कस्य हेतोस्? तथा ह्य् अकृताः सर्वधर्माः अनभिसंस्कृताः सर्वधर्माः, सापि प्रज्ञापारमिता अकृता अनभिसंस्कृता, बोधिर् अप्य् अकृता अनभिसंस्कृता. बोधिसत्त्वो ऽप्य् अकृतो ऽनभिसंस्कृतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अकृत अनभिसंस्कृतयोगेन. आह: यदि भगवन्न् अकृता अनभिसंस्कृताः सर्वधर्मा, तत् कथम् एषां त्रयाणां यानानां व्यवस्थानं भवति. श्रावाकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा? भगवान् आह: न सुभूते अकृतानभिसंस्कृतानां धर्माणां किंचिद् व्यवस्थानम् उपलभ्यते. अभिसंस्कृतानाम् अभिसंचेतयितानां धर्माणां व्यवस्थानम् उपलभ्यते. तत् कस्य हेतोस्? तथा हि बालो ऽश्रुतवान् पृथग्जनो ऽभिनिविश्य पञ्चसु स्कन्धेषु रूपे यावद् विज्ञाने. यावत् सर्वाकारज्ञातायाम् अभिनिविश्य रूपं मन्यते रूपम् उपलभते. यावद् विज्ञानं मन्यते विज्ञानम् उपलभते. यावद् बोधिं मन्यते बोधिम् उपलभते. तस्यैवं भवत्य्: अहं बोधिम् अभिसंभोत्स्ये अहं सत्त्वान् मोचयिष्ये संसारात् स एवम् असत् कल्पयति. तत् कस्य हेतोस्? तथा हि सुभूते यद् बुद्धैः पंचभिश् चक्षुभिर् नोपलब्धं रूपं यावद् बोधिः, तत् ते मोहपुरुषा अन्धा अचक्षुष्का सत्त्वांच् छिन्नन्ति संसारात् परिमोचयितुं. आह: यदि भगवंस् तथागतेन अर्हता सम्यक्संबुद्धेन पंचभिश् चक्षुभिर् नोपलभ्दाः सत्त्वा ये संसारात् परिमुच्येरन्, कथम् इदानीं भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वांस् तृषु राशिषु व्याकर्षीत्, सम्यक्त्वनियते अनियते मिथ्यात्वनियते? भगवान् आह; (अद्स्प्ग् इ 142) न मे
सुभूते अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कश्चित् सत्त्व उपलब्धः, सम्यक्त्वनियतो वा अनियतो वा मिथ्यात्वनियतो वा. अपि तु खलु सुभूते य इमे सत्त्वा अद्रव्ये द्रव्यसंज्ञिन. अभूतग्राहाद् वारयामि, लोकव्यवहारेण न पुनः परमार्थेन. आह: ननु भगवता परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा? भगवान् आह: नेति. आह: तद् विपर्यासे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा? भगवान् आह: नेति. आह: तद् यदि भगवन् नापि परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा नापि विपर्यासे स्थित्वा तन् मा हैव न तथागतेन अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा भवेत्. भगवान् आह: अभिसंबुद्धा सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः, सा न क्वचित् स्थित्वा संस्कृते वा धाताव् असंस्कृते वा धातौ. तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित् स्थितः संस्कृते वा धातौ वा असंस्कृते वा धातौ. स तथागतनिर्मितो गच्छति च आगच्छति च, तिष्ठति च निषीदति च, स दानपारमितायां चरेच् छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरेत्, यावच् चत्वारि ध्यानान्य् उपसंपद्य विहरेत् चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्ती. पञ्चाभिज्ञा चत्वारि स्मृत्युपस्थानानि भावयेद् यावद् आर्याष्टांगं [f. 251b] मार्गं शून्यतां समाधिम् आनिमित्तं समाधिम् अप्रणिहितं समाधिम् अध्यात्मशून्यतां यावत् स्वलक्षणशून्यताम् अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीर् दशतथागतबलानि चत्वान् वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रीं महाकरुणाम् (अद्स्प्ग् इ 143) अष्टादशावेणिकान्
बुद्धधर्मान् धर्मचक्रप्रवर्तनायै. स च निर्मितः अप्य् अप्रमाणान् सत्त्वान् निर्माय त्रिषु राशिषु व्याकुर्यात्, तत् किं मन्यसे सुभूते. अपि नु तेन निर्मितेन कश्चित् सत्त्वो व्याकृतो भवेत्? आह: नो हीदं भगवन्. भगवान् आह: एवम् एव सुभूते तथागतेन निर्मितोपमा सर्वधर्मा ज्ञाता गणिता अज्ञाननिर्मितां ज्ञात्वा न कश्चित् सत्त्व उपलब्धो नापि विनीतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. तद्यथापि नाम सुभूते तथागतनिर्मित. आह: यदि भगवं सर्वधर्मा निर्मितोपमास्, तथागतस्य च निर्मितस्य च को विशेषः किं नानाकरणं को ऽभिप्रायः? भगवान् आह: तथागतस्य सुभूते निर्मितस्य च न किंचिद् विशेषो न किंचिन् नानाकरणम् उपलभ्यते. निर्विशेषो हि सुभूते तथागतश् च निर्मितश् च. तत् कस्य हेतोः? तथा हि यत् तथागतः कर्म करोति. तं निर्मितः कर्म करोति. आह: किं पुनर् भगवन् सति तथागते निर्मितः कर्म करोति? भगवान् आह; करोति सुभूते. आह: अथ कथं पुनर् भगवन्न् असति तथागते निर्मित कर्म करोति? भगवान् आह: तद्यथापि नाम सुभूते शान्तमतिस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वम् अनुपलभमानस् तथागतविग्रहं निर्माय परिनिर्वृत, तेन च निर्मितेनोर्ध्वं कल्पं बुद्धकार्यं कृतं, स च पश्चाद् बोधिसत्त्वो महासत्त्वः व्याकृत्य परिनिर्वृत इति संज्ञातः, न च निर्मितस्य कश्चिद् उत्पादो न परिनिर्वाणं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यदुत निर्मितोपमान् सर्वधर्मान् अधिमुच्य. (अद्स्प्ग् इ 144) आह: यदि निर्मितस्य च तथागतस्य च विशेषो नास्ति,
दक्षिणापरिशुद्धिः कथं भविष्यति. य इमे भगवं सत्त्वा पुण्यार्थिका निर्वानार्थिकास् तथागते ऽर्हे सम्यक्संबुद्धे दक्षिणां प्रतिष्ठापयन्ति. न च जातु सा क्षीयते यावन् न ते सर्वे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति. एवम् एव निर्मिते दक्षिणा प्रतिष्ठापिता. न जातु क्षीयते यावन् न ते सर्वे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति? भगवान् आह: यया सुभूते धर्मतया तथागत सदेवमानुषासुरस्य लोकस्य दक्षिणीयः तथैव धर्मतया निर्मितः सदेवमानुषासुरस्य लोकस्य दक्षिणीयः. तिष्ठतु तावत् सुभूते तथागतप्रतिष्ठापिता दक्षिणा. तिष्ठतु तथागतनिर्मितप्रतिष्ठापिता दक्षिणा. ये ऽपि केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा तथा तथागतं मैत्रावता मनसिकारेण मनसिकरिष्यन्ति, सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुःखस्यान्तं करिष्यन्ति. तिष्ठतु मैत्रावान् मनसिकारः, ये पि केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा आकाशे पुष्पं क्षेप्स्यन्ति तथागतं मनसिकृत्य, सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् अनधिगम्य, दुःखस्यान्तं करिष्यन्ति. तिष्ठतु सुभूते मैत्रावान् मनसिकारः तिष्ठत्व् आकाशे पुष्पं, ये केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा बुद्धं नमस्करिष्यन्ति, सर्वे ते [f. 252a] ऽनुपूर्वेण दुःखस्यान्तं करिष्यन्ति. एवं महार्थिका वत सुभूते तथागतप्रतिष्ठापिता दक्षिणा. एवं महानुशंसा. तद् अनेन पर्यायेण सुभूते वेदितव्यं. , तथागतस्य च निर्मितस्य च नास्ति किंचिन् नानाकरणं, धर्माणां धर्मतां प्रमाणीकृत्य (अद्स्प्ग् इ 145) एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं,
धर्माणां धर्मतायाम् अवतीर्य. सा च धर्माणां धर्मता न विकोपयितव्या इयं प्रज्ञापारमिता इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्यं. इयन् ध्यान पारमिता, इयं ध्यानपारमिताया धर्मतेति न विकोपयितव्यं. यावत् इयन् दानपारमिता इयन् दानपारमिताया धर्मतेति न विकोपयितव्यं. एवं यावत् सर्वधर्मेषु कर्तव्यं. आह: यदि भगवन् सर्वधर्माणां धर्मता न विकोपयितव्या, तद् यत् पुनर् भगवंस् तथागतेन विकोपितम् इदं रूपम् यावद् इदं विज्ञानं. एवम् अध्यात्मिका बाह्या धर्मा निर्दिष्टाः, एवं कुशला अकुशलाः सास्रवा अनास्रवाः लौकिका लोकोत्तराः साधारणा असाधारणाः संस्कृत असंस्कृता धर्मा निर्दिष्टाः, तन् मा हैव भगवता धर्माणां धर्मता विकोपिता भवति? भगवान् आह: नो हीदं सुभूते. नामनिमित्तैश् च मया ते धर्मा निर्दिष्टाः धर्माणां सूचना कृता, कथं परो ऽवतरेत् इति. न पुनर् धर्माणां धर्मता विकोपिता भवति. आह: यदि भगवं नामनि मित्तं निर्दिष्टं परेषाम् अवतरणार्थं, तत् कथं भगवन्न् अनामका अनिमित्ता धर्मा नामनिमित्तेन व्याहृताः भगवान् आह: व्याहारः सुभूते न नामनिमित्तं न अभिनिवेशो वा, नान्यत्र सुभूते दुःखम् एव व्याहरामि न नाम्नि न निमित्ते वा अभिनिवेशे. न हि सुभूते तथागतो वा तथागतश्रावको वा नामनिमित्ते (अद्स्प्ग् इ 146) ऽभिनिविशते. यदि सुभूते नाम नाम्न्य् अभिनिविशेत, निमित्तं निमित्ते ऽभिनिविशेत, शून्यता शून्यतायाम् अभिनिविशेत, आनिमित्तम् आनिमित्ते ऽभिनिविशेत, अप्रणिहितम् अप्रणिहिते ऽभिनिविशेत. तथता तथतायाम् अभिनिविशेत, भूतकोटिः भूतकोट्याम् अभिनिविशेत, धर्मधातुर् धर्मधाताव् अभिनिविशेत,
असंस्कृतम् असंस्कृते ऽभिनिविशेत. अभिनिविशेत तथागतो वा तथागतश्रावको वा नामनिमित्ते. एते च सर्वधर्मा नाममात्रं. न चैते नाममात्रे ऽप्य् अवतिष्ठन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नामनिमित्तमात्रे स्थित्वा प्रज्ञापारमितायाञ् चरितव्यं. तत्र च न अभिनिवेष्टव्यं. आह: यदि भगवं नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तत् कस्येदानीं कृते बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पादयति, बोधये चित्तं उत्पाद्य अनेकविधान् संस्काराविप्रकारान् प्रत्यनुभवति. बोधिसत्त्वचारिकां चरति. बोधिसत्त्वचारिकां चरन् विचित्राणि दानानि ददाति. शीलञ् च रक्षति क्षान्त्या च संपादयति. वीर्यं च आरभते. समाधिं च समापद्यते. प्रज्ञां च भावयति. शून्यतायां च चरति. ध्यानाप्रमाणैश् च अरूप्यसमापत्तिभिश् च चरति. स्मृत्युपष्ठानैश् च विहरति सम्यक्प्रहाणैश् च विहरति. यावच् छून्यतानिमित्ताप्रणिहितैश् च विमोक्षमुखैर् विहरति, दशभिश् च तथागतबलैर् विहरति यावन् महामैत्रीं महाकरुणां च परिपूरयति? भगवान् आह: यत् सुभूतिर् एवम् आह: यदि नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तत् कस्य इदानिं कृते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति? यस्मात् (अद्स्प्ग् इ 147) तर्हि सुभूते नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तच् च नाम नाम्ना [f. 252b] शून्यं, निमित्तं निमित्तेन शून्यं. तस्माद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरं सर्वाकारज्ञताम् अनुप्राप्नोति. सर्वकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति. धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयति. तस्य च नामनिमित्तस्य नोत्पादो न व्ययो न
स्थितस्यान्यथात्वं प्रज्ञायते. आह: सर्वाकारज्ञता सर्वाकारज्ञतेति भगवन् वदसि. भगवान् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति वदमि. आह: यत् पुनर् भगवं सर्वाकारज्ञता तथागतेन निर्दिष्टा, मार्गाकारज्ञता अपि तथागतेन निर्दिष्टा, सर्वज्ञतापि तथागतेन निर्दिष्टा. आसां भगवंस् तिसृणां सर्वज्ञतानां. को विशेष किन् नानाकरणं? भगवान् आह: सर्वज्ञता सुभूते श्रावकप्रत्येकबुद्धानां मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञता तथागतानाम् अर्हतां सम्यक्संबुद्धानं. आह: केन कारणेन भगवं सर्वज्ञता श्रावकप्रत्येकबुद्धानां. केन कारणेन मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानां. केन कारणेन सर्वाकारज्ञता तथागतानाम् अर्हतां सम्यक्संबुद्धानां? भगवान् आह: एतावद् एव सुभूते सर्वं यावद् एव अध्यात्मिकाश् च बाह्याश् च धर्माः ते श्रावकप्रत्येकबुद्धैर् अपि ज्ञाता न पुनः सर्वमार्गाणि न सर्वाकारेण. यत् पुनः सुभूतिर् एवम् आह: केन कारणेन मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानाम् इति? सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेनौत्पादयितव्याः, सर्वमार्गाः ज्ञातव्या, (अद्स्प्ग् इ 148) ये च श्रावकप्रत्येकबुद्धमार्गा. ये च बोधिसत्त्वमार्गाः, ते च मार्गाः परिपूरयितव्याः, तैश् च मार्गैर् मार्गकरणीयं कर्तव्यं. न च भूतकोटि प्रतिवेद्धव्या. आह: यत् पुनर् भगवं बोधिसत्त्वेन महासत्त्वेन बुद्धमार्गः परिपूरयितव्यो ननु तेन भूतकोटि न? साक्षात्कर्तव्या? भगवान् आह: न अपरिशोध्य सुभूते बुद्धक्षेत्रं न अपरिपाच्य सत्त्वांस् तेन बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या. आह: किं पुनर् भगवं बोधिसत्त्वेन
महासत्त्वेन मार्गे स्थित्वा भूतकोटिः साक्षात्कर्तव्या? भगवान् आह: नेति. आह: तद् अमार्गे स्थित्वा? भगवान् आह: नेति. आह: तन् मार्गे च अमार्गे च स्थित्वा? भगवान् आह: नेति. आह: तन् नैव मार्गे न अमार्गे स्थित्वा? भगवान् आह: नेति. आह: तत् कथं भगवं बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या? भगवान् आह: तत् किं मन्यसे सुभूते मार्गे ते स्थितस्य अनुपादायास्रवेभ्यश् चित्तं विमुक्तं? आह: नो हीदं भगवन्. भगवान् आह: अमार्गे स्थितस्य? आह: नो हीदं भगवन्. भगवान् आह: तन् मार्गे च अमार्गे स्थितस्य? आह: नो हीदं भगवन्. भगवन् आह: तन् नैव मार्गे न अमार्गे स्थितस्य अनुपादाय आस्रवेभ्यश् चित्तं विमुक्तं? आह: नो हीदं भगवन्. न मे भगवं क्वचित् स्थितस्य अनुपादायास्रवेभ्यस् चित्तं विमुक्तं, विमुक्तं च मे भगवंश् चित्तं यथा न क्वचित् स्थितस्य. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन न क्वचित् स्थित्वा भूतकोटिः साक्षात्कर्तव्या. यत् पुनः सुभूते सर्वाकारज्ञता सर्वाकारज्ञतेत्य् (अद्स्प्ग् इ 149) उच्यते. एकेन आकारेण सर्वाकारज्ञतेत्य् उच्यते. यदुत शान्ताकारेण. अपि तु खलु पुनः सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् [f. 253a] धर्मा सूच्यन्ते, सर्वाणि तान्य् आकारास् तानि लिङ्गानि तानि निमित्तानि तथागतेन अनुबुद्धानि, तस्मात् सर्वाकारज्ञतेत्य् उच्यते. आह: यत् पुनर् भगवं सर्वाकारज्ञता च मार्गाकारज्ञता च सर्वज्ञता च, कच्चिद् भगवन्न् आसाम् तिसृणां सर्वज्ञतानां क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्य सावशेषप्रहाणम् अस्य अनवशेषप्रहाणम् इति? भगवान् आह: न सुभूते क्लेशप्रहाणस्य नानात्वम् अस्ति. अस्ति पुनस्
तथागतस्य सर्ववासनानुसन्धिप्रहाणं न पुनः स्रावकस्य प्रत्येकबुद्धस्य च सर्वासनानुसन्धिक्लेशप्रहानं. आह: किं पुनर् भगवन्न् एभिर् अनुप्राप्तम् असंस्कृतं. किं वा पुनर् भगवन्न् असंस्कृतस्य नानात्वम् उपलभ्यते? भगवान् आह: नेति. आह: यद्य् असंस्कृतस्य नानात्वं नोपलभ्यते, कुतो भगवन्न् एवं निर्दिशत्य्: अस्य सर्ववासनानुसन्धिप्रहाणम् अस्य न सर्ववासनानुसन्धिप्रहाणं? भागवान् आह: न सुभूते वासनानुसन्धिक्लेशो ऽस्ति. अपि त्व् अस्ति तेषां श्रावाकप्रत्येकबुद्धानां रागदोषमोहप्रहाणं कश्चित् तु कायविकारास् प्रवर्तन्ते ते बालपृथग्जनानाम् अनर्थाय सनिवर्तन्ते. न तु श्रावकानां ते तथागतस्य नास्ति. अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: यद्य् अभावो (अद्स्प्ग् इ 150) भगवं मार्गः अभावो निर्वाणं, तत् कुतः भगवन् निर्दिश्यते. अयं श्रोतआपन्न अयं सकृदागामी. अयम् अनागामी अयम् अर्हन्न् अयं प्रत्येकबुद्ध्हो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः? भगवान् आह: सर्व एते सुभूते असंस्कृतप्रभाविता. यश् च श्रोतआपन्नो यश् च सकृदागामी यश् च अनागामी यश् च अर्हन् यश् च प्रत्येकबुद्धो यश् च बोधिसत्त्वो महासत्त्वो यश् च तथागतो ऽर्हन् सम्यक्संबुद्धः. आह: कच्चित् पुनर् भगवन्न् असंस्कृतं प्रभावयत्य् अयं श्रोतआपन्नो ऽयं यावद् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति? भगवान् आह: न खलु सुभूते असंस्कृतं प्रभावयत्य् अपि तु खलु वचनं प्रमाणीकृत्य जल्प्यते. न पुनः परमार्थेन शक्यं प्रभावितुं. तत् कस्य हेतोः? नास्ति तत्र वाक्पथप्रज्ञप्तिर्. आह: कथं
भगवन् पश्चिमा कोटिर् प्रज्ञप्यते? भगवान् आह: लोकव्यवहारं सुभूते प्रमाणीकृत्य यैर् यैर् अन्तः उच्छिन्नस् तेषां पश्चिमा कोटिः प्रज्ञप्यते. अपि तु खलु पुनर् यैः पूर्वान्तो व्यवच्छिन्नस् तेषां पश्चिमा कोटिर् प्रज्ञप्ता. आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां कुतः पुनः पूर्वकोटिः प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते? भगवन् आह: एवम् एतत् सुभूते एवम् एतत्. स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वकोटिर् न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञप्यते नेदं स्थानं विद्यते. अपि तु खलु सुभूते ये ते सत्त्वा स्वलक्षणशुन्यान् धर्मान् न जानन्ति, तेषाम् एवं निर्दिष्टम् इयं सा पूर्वकोटिर् इयं सा पश्चिमा कोटिर् इति, न पुनः स्वलक्षणशून्येषु सर्वधर्मेषु (अद्स्प्ग् इ 151) पूर्वकोटिर् न पश्चिमा कोटिर् उपलभ्यते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु सर्वधर्मेषु प्रज्ञापारमितायां चरितव्यं. स्वलक्षणशून्येषु सर्वधर्मेषु चरन् न क्वचिद् अभिनिविशते. अध्यात्मिकेषु वा बाह्येषु वा, संस्कृतेषु वा असंस्कृतेषु वा, श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्न् उच्यते, केनार्थेन प्रज्ञापारमितेत्य् उच्यते? भगवान् आह: परमपारमिप्राप्तैषा सुभूते प्रज्ञापारमिता सर्वधर्माणां, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते अनया प्रज्ञापारमितया सर्वश्रावकप्रत्येकबुद्धा [f. 253b] बोधिसत्त्वाश् च महासत्त्वा तथागताश् च अर्हन्तः सम्यक्संबुद्धा पारं गता गच्छन्ति गमिष्यन्ति, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि
तु खलु पुनः सुभूते परमार्थेन यो ऽर्थः सर्वधर्माणां अभिन्नः स. इह प्रज्ञापारमितयाः तैश् च तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः सर्वधर्मेषु पारो नोपलब्धस्, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते इह प्रज्ञापारमितायां तथता अन्तर्गता भूतकोटिर् अन्तर्गता धर्मधातुर् अन्तर्गतास्, तेनार्थेनोच्यते प्रज्ञापारमितेत्य्. अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता न केनचिद् धर्मेण संयुक्ता वा विसंयुक्ता वा सनिदर्शना वा अनिदर्शना वा प्रतिघा वा अप्रतिघा वा. तत् कस्य हेतोः? तथा हि इयं प्रज्ञापारमिता अरूपिण्य् अनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता सर्वधर्माणां (अद्स्प्ग् इ 152) चारिका, दात्री सर्वप्रतिभानानां सर्वालोकानानाम् अनच्छेद्येयं सुभूते प्रज्ञापारमिता असंहार्या मारैर् वा मारकायिकाभिर् देवताभिः श्रावकप्रत्येकबुद्धयानिकैर् वा पुद्गलैर् यावन् न कैश्चिद् अन्यतीर्थिकैः पापमित्रैर् इयं प्रज्ञापारमिता शक्यम् आच्छेतुं बोधिसत्त्वस्य महासत्त्वस्य. तत् कस्य हेतोस्? तथा हि ते सर्वे ऽत्र प्रज्ञापारमितायां नोपलभ्यन्ते स्वलक्षणशून्यताम् उपादाय. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन इह प्रज्ञापारमितायां चरितव्यं. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन इह गंभीरायां प्रज्ञापारमितायाम् अर्थे चरता अनित्यार्थे चरितव्यं दुःखार्थे अनात्मार्थे चरितव्यं. दुःखज्ञानार्थे समुदयज्ञानार्थे निरोधज्ञानार्थे मार्गज्ञानार्थे. क्षयज्ञानार्थे. अनुत्पादज्ञानार्थे. धर्मज्ञानार्थे. अन्वयज्ञानार्थे. संवृतिज्नानार्थे, परमार्थज्ञानार्थे. यावद् यथावज्ज्ञानार्थे
चरितव्यं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायार्थे चरितव्यं. आह: यदि भगवन्न् इह गंभीरायां प्रज्ञापारमितायाम् अर्थश् च अनर्थश् च नोपलभ्यते. कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायार्थे चरितव्यं? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन गंभीरे प्रज्ञापारमितार्थे चरता एवं चरितव्यं. रागो मे ऽर्थो ऽनर्थ इति न वरितव्यं दोशो मे ऽर्थो ऽनर्थ इति न चरितव्यं मोहो मे ऽर्थो ऽनर्थ इति न चरितव्यं मिथ्यादृष्टिर् मे ऽर्थो ऽनर्थ इति न चरितव्यं यावत् सर्वदृष्टिगतानि मे (अद्स्प्ग् इ 153) ऽर्थो ऽनर्थ इति न चरितव्यं. तत् कस्य हेतोः? न हि रागदोषमोहानां तथता यावन् न नानादृष्टिगतानां तथता कस्यचिद् अर्थं करोति न अनर्थं करोति. रूपं मे अर्थ इति न चरितव्यं. रूपं मे ऽनर्थ इति न चरितव्यं, विज्ञानं मे अर्थ इति न चरितव्यं विज्ञानं मे ऽनर्थ इति न चरितव्यं. यावद्: बोधि मे ऽर्थ इति न चरितव्यं बोधि मे ऽनर्थ इति न चरितव्यं. तत् कस्य हेतोः? तथा हि सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न कश्चिद् धर्मो उपलब्धो यो ऽर्थं वा कुर्याद् अनर्थं वा. अपि तु खलु सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणां धर्मता धर्मस्थितिता स्थितैव धर्मधातु. स नैव कस्यचिद् अर्थं करोति न अनर्थं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन अर्थ अनर्थान् वर्जितेन प्रज्ञापारमितायां चरितव्यं. आह: केन कारणेन भगवन् प्रज्ञापारमिता न अर्थं करोति न अनर्थं करोति? भगवान् आह: तथा हि
सुभूते संस्काराणाम् असंस्कृतधर्मता याश् च करणीया प्रज्ञापारमिता, अनेन कारणेन प्रज्ञापारमिता [f. 254a] न कस्यचिद् अर्थकरा न अनर्थकरा. आह: ननु भगवन्न् असंस्कृतो ऽर्थ सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? भगवान् आह: असंस्कृतो ऽर्थः सुभूते सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? न पुनर् कस्यचिद् उपकारेण वा अनुपकारेण वा प्रत्युपस्थितः. तद्यथापि नाम सुभूते आकाशस्य तथता न कस्यचिद् उपकारेण वा अनुपकारेण वा प्रत्युपस्थिता, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता (अद्स्प्ग् इ 154) न कस्यचिद् धर्मस्य उपकारेण वा अनुपकारेण वा प्रत्युपस्थिता. आह: ननु भगवं बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. बोधिसत्त्वो महासत्त्वः इह गंभीरायाम् असंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नोति, न पुनर् द्वययोगेन. आह: किं पुनर् भगवन्न् अद्वयो धर्म अद्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किं द्वयो धर्म द्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किं द्वयो धर्म अद्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किम् अद्वयो धर्म द्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् कथम् इदानीं प्राप्यते? भगवान् आह: यदा न द्वयन् धर्मो नाद्वयन् धर्म उपलभ्यते. तत् कस्य हेतोः? अनुपलंभो हि प्राप्ति सा न अनुपलंभेन प्राप्यते न पुनर् उपलंभेन प्राप्यते. (63)
परिवर्त 64.
athāyuṣmān subhūtir bhagavantam etad avocat: gaṃbhīrā bhagavaṃ prajñāpāramitā duṣkarakārakā bhagavaṃ bodhisattvāḥ mahāsattvāḥ ye 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante na ca nāma kaścit sattva upalabhyate na ca sattvaprajñaptis, te ca sattvānāṃ kṛte anuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante. tadyathāpi nāma bhagavaṃ kaścid eva puruṣa ākāśa apratiṣṭhāne stambam icched vāpayitum evam eva bhagavaṃ bodhisattvā mahāsattvāḥ sattvānāṃ kṛte sarvākārajñatām icchanty anuprāptuṃ. bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā bodhisattvā mahāsattvāḥ ye sattvānāṃ kṛte 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante. tāṃ ca sarvākārajñatām abhisaṃbudhya sattvāṃ sattvagrāhāt parimocayanti. tadyathāpi nāma subhūte kaścid eva puruṣaḥ stambam icched vāpayituṃ. sa ca puruṣas tasya stambasya na mūlaṃ jānīyān) na śākhān na gaṇḍaṃ na pattrān na puṣpaṃ na phalaṃ jānīyāt, sa tasya stambasya gaṇḍaṃ vāpayitvā kālena kālaṃ gopayet udakaṃ dadyāt tasya sa gaṇḍam anupūrveṇa śākhāsaṃpannaś ca bhavet pattrasaṃpannaś ca bhavet puṣpasaṃpannaś ca (adspg i 156) bhavet phalasaṃpannaś ca bhavet. sa tasya stambasya pattrāṇi ca anubhuṃjīta puṣpāṇi ca phalāni ca anubhuṃjīta. evam eva subhūte ye bodhisattvāḥ mahāsattvāḥ sarvasattvānāṃ kṛte 'nuttarasyai samyaksaṃbodhaye saṃpratiṣṭhante te 'nupūrveṇa ṣaṭpāramitāsu caraṃtaḥ sarvākārajñatām anuprāpnuvanti. te sarvasattvānāṃ pattrapuṣpaphalopajīvyā bhavanti. tatredaṃ subhūte pattraṃ yad bodhisattvaṃ mahāsattvam āgamya sattvāḥ tribhyo apāyebhyaḥ [f.
254ब्] परिमुच्यन्ते. पुष्पं यद् बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहासालकुलेषु ब्राह्मणमहासालकुलेषु गृहपतिमहासालकुलेषु उपपद्यन्ते चातुर्महाराजकायिकेषु देवेषु उपपद्यन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगेषु देवेषु उपपद्यन्ते. फलं यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्य तां सत्त्वां स्रोतआपत्तिफले प्रतिष्ठापयति सकृदागामीफले प्रतिष्ठापयति अनागामीफले प्रतिष्ठापयति. अर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. तम् एव बोधिसत्त्वं महासत्त्वम् आगम्य सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्य ते ऽपि सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवंति. तत्र ये दक्षिणां प्रतिष्ठापयंति ते सर्वे ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, यदुत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. न च तत्र सत्त्वं प्रज्ञपयंति. न सत्त्वप्रज्ञप्तिं तांश् च सत्त्वां सत्त्वग्राहां परिमोचयंति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन (अद्स्प्ग् इ 157) प्रज्ञापारमितायं चरितव्यं. न चेह कश्चित् सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते. येषां कृते सर्वाकारज्ञताम् अनुप्राप्स्यामि. सुभूतिर् आह: तथागत एव भगवं बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य सर्वनरका उच्छिद्यन्ते, सर्वतिर्यग्योनय सर्वयमलोका उच्छिद्यन्ते सर्वाक्षणापाया उच्छिद्यन्ते सर्वदारिद्र्यान्य् उच्छिद्यन्ते सर्वहीनगतय उच्छिद्यन्ते सर्वकामधातुर् उच्छिद्यते सर्वरूपधातुर् उच्छिद्यते सर्व आरूप्यधातुर् उच्छिद्यते. भगवान् आह: एवम् एतत्
सुभूते एवम् एतत्, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. सचेत् खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो नाभविष्यन्, नातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अनुत्तरां सम्यक्संबोधिं प्रज्ञास्यतन्, न प्रत्येकबुद्धानां लोके प्रादुर्भावो ऽभविष्यन् न अर्हतां लोके प्रादुर्भावो ऽभविष्यन् न अनागामिनां न सकृदागामिनां न स्रोतआपन्नानां लोके प्रादुर्भावो ऽभविष्यत्. न पुनर् यावत् सर्वनरका उदच्छेत्स्यंत न सर्वतिर्यग्योनयो न सर्वयमलोका उदच्छेत्स्यन्त. न सर्वकामधातुर् उदच्छेत्स्य् अन्त न सर्वरूपधातुर् उदच्छेत्स्यन्त न सर्वारूप्यधातुर् उदच्छेत्स्यन्त. ... ... अपि तु खलु पुनर् सुभूते यद् एवं वदसि, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्य इति. एवम् एतत् सुभूते एवम् एतत्. तथागत एव बोधिसत्त्वो महासत्त्वः वेदितव्यः. तत् कस्य [f. 255a] हेतोः? यया सुभूते तथतया तथागतः प्रज्ञप्यते, यया तथतया (अद्स्प्ग् इ 158) प्रत्येकबुद्धः प्रज्ञप्यते. यया तथतया सर्वार्याः प्रज्ञप्यन्ते. यया तथतया रूपं प्रज्ञप्यते यया तथतया यावद् विज्ञानं प्रज्ञप्यते यया तथतया यावत् संस्कृतधातुः प्रज्ञप्यते. असंस्कृतधातु प्रज्ञप्यते. सर्वा सा तथतैव, तस्मात् तथता इत्य् उच्यते. तस्यां तथतायां बोधिसत्त्वो महासत्त्वः स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्मात् तथागत इत्य् उच्यते. अनेन सुभूते पर्यायेण बोधिसत्त्वो महासत्त्वस् तथागत एव वेदितव्यः तथतां प्रमाणीकृत्य. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन तथता प्रज्ञापारमितायां शिक्षितव्यं. तथताप्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वः शिक्षित्वा
सर्वधर्मतथतायां शिक्षते. महासत्त्वः शिक्षित्वा सर्वधर्मतथतायां शिक्षते. सर्वधर्मतथतायां शिक्षित्वा सर्वधर्मतथतां परिपूरयिष्यति. सर्वधर्मतथतां परिपूर्य सर्वधर्मतथतावशीभावनताम् अनुप्राप्स्यति, सर्वधर्मतथतावशीभावनताम् अनुप्राप्य सर्वसत्त्वेन्द्रियकुशलो भविष्यति इन्द्रियकुशलो भूत्वा. इन्द्रियपरिपूरीकुशलताम् अनुप्राप्स्यति. इन्द्रियपरिपूरीकुशलताम् अनुप्राप्य सत्त्वानां कर्मस्वकतां ज्ञास्यति, सत्त्वानां कर्मस्वकतां ज्ञात्वा प्रणिधिज्ञानं परिपूरयिष्यति, प्रणिधिज्ञानं परिपूर्य त्रिध्वसुज्ञानं विशोधयिष्यति. त्रिध्वसुज्ञानं विशोध्य बोधिसत्त्वचारिकां चरन् सत्त्वानाम् अर्थं करिष्यति, सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रं परिशोधयिष्यति. बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति. धर्मचक्रं प्रवर्त्य सत्त्वान् त्रिषु यानेषु (अद्स्प्ग् इ 159) प्रतिष्ठापयिष्यति, सत्त्वान् त्रिषु यानेषु प्रतिष्ठाप्य अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वां गुणानुशंसान् पश्यता आत्मना च अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितव्यं, परे च अनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादयितव्यं. सुभूतिर् आह: नमस्करणीयास् ते भगवं बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन. य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति. आह: कियद्
भगवं प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वः पुण्यं प्रसविष्यति यः सर्वसत्त्वानां कृते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः? भगवान् आह: सचेत् सुभूते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे श्रावकभूमौ प्रतितिष्ठेयु प्रत्येकबुद्धभूमौ प्रतितिष्ठेयु. अपि नु ते सत्त्वा बहुपुण्यं प्रसवेयुः? आह: बहु भगवन् बहु सुगत. अप्रमेयं भगवन्न् अप्रमेयं सुगत. भगवान् आह: यच् च खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानां सर्वश्रावकयानिकानां प्रत्येकबुद्धयानिकानां वा पुण्यं, यच् च प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यं, अस्य प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य पुण्यसंभारस्य एवं (अद्स्प्ग् इ 160) त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां वा [f. 255b] पुण्यं शततमीम् अपि कलां नोपैति. यावत् कोटीशतसहस्रतमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका पुद्गला न पुनः श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. तिष्ठन्तु त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा, सचेत् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे श्रावकगुणसमन्वागता प्रत्येकबुद्धगुणसमन्वागता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति. यावत् कोटीशतसहस्रतमीम् अपि कलां नोपैति. यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोर्? बोधिसत्त्वप्रसूता हि
श्रावकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. एवं सचेद् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे शुक्लविदर्शनाभूमौ प्रतिष्ठिता भवेयुः तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. सचेत् पुनः ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे गोत्रभूमौ प्रतिष्ठिता भवेयुः, तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. यावत् सचेद् अष्टमकभूमौ प्रतिष्ठिता भवेयुर्. दर्शनभूमौ प्रतिष्ठिता भवेयुः तनुभूमौ प्रतिष्ठिता भवेयु. वीतरागभूमौ प्रतिष्ठिता भवेयुः कृतावीभूमौ प्रतिष्ठिता भवेयुः प्रत्येकबुद्धभूमौ प्रतिष्ठिता भवेयुः (अद्स्प्ग् इ 161) तेषां यत् पुण्यं तत् प्रथमचित्तोत्पदिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावत् कोटीशतसहस्रतमीम् अपि कलान् नोपैति. यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रवकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. सचेत् पुनर् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वन्यामम् अवक्रान्ता भवेयुस्, तेषां यत् पुण्यं तद् बोधिसत्त्वस्य महासत्त्वस्य पुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. सचेत् पुनर् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिप्रतिपन्नका भवेयुस् तेषां यत् पुण्यं तथागतस्य अर्हतः सम्यक्संबुद्धस्य पुण्यस्य शततमीम् अपि कलान् नोपैति यावत् कोटीशतसहस्रतमीम् अपि कलां
नोपैति. यावद् उपनिशाम् अपि न क्समते. आह: प्रथमचित्तोत्पादिकेन भगवं बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या? भगवान् आह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकाराज्ञता मनसिकर्तव्या. आह: सर्वाकारज्ञताया भगवं को भाव किम् आरंबणं किम् आधिपतेयं क आकार किं लक्षणं? भगवान् आह: सर्वाकारज्ञतेति सुभूते ऽभावः अलक्सणम् अनिमित्तम् अनाभोगम् अनुत्पाद अप्रादुर्भावः. यत् पुनर् सुभूतिर् एवम् आह: सर्वाकारज्ञतायाः किम् आरंबणम् इति? सर्वाकारज्ञताया किम् आधिपतेयं क आकार किं लक्षणम् इति? सर्वाकारज्ञताया सुभूते अभाव आरंबणं, (अद्स्प्ग् इ 162) स्मृतिर् आधिपतेयं, शान्तिर् आकारो, अलक्षणं लक्षणं. सर्वाकारज्ञतायाः सुभूते इदम् आरंबणम् इदम् आधिपतेयम् इदं लक्षणम् अयम् आकार. आह: किं पुनर् सर्वाकारज्ञतैव अभावः, उताहो रूपम् अप्य् अभावः, वेदनासंज्ञासंस्कारविज्ञानम् [f. 256a] अप्य् अभावः, एवम् आध्यात्मिकबाह्या धर्माः अभावाः, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाण्गो मार्ग शून्यतासमाधिः आनिमित्तसमाधिः अप्रणिहित समाधिः अष्टौ विमोक्षाः नवानुपूर्वसमापत्तयः दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा प्रथमाभिज्ञा द्वितीयाभिज्ञा तृतीया चतुर्थी पञ्चम्य् अभिज्ञा षष्ट्य् अभिज्ञा संस्कृतधातुर् असंस्कृतधातुर् अप्य् अभावः? भगवान् आह: रूपम् अपि सुभूते अभाव
वेदनासंज्ञासंस्कारविज्ञानम् अप्य् अभावः यावत् संस्कृतधातुर् अप्य् अभावः असंस्कृतधातुर् अप्य् अभावः. तत् कस्य हेतोस्? तथा हि सुभूते सर्वाकारज्ञताया स्वभावो नास्ति. यस्य खलु पुनः सुभूते स्वभावो नास्ति स अभावः. आह: केन कारणेन भगवं सर्वाकारज्ञताया स्वभावो नास्ति? भगवान् आह: नास्ति सुभूते सांयोगिकः स्वभावः. यस्य सांयोगिकः स्वभावो नास्ति स अभावः. अनेन सुभूते पर्यायेण अभावस्वभावाः सर्वधर्माः. अपि तु खलु पुनर् सुभूते शून्यतास्वभावाः सर्वधर्माः आनिमित्तस्वभावाः सर्वधर्माः अप्रणिहितस्वभावाः सर्वधर्मा. अपि तु खलु सुभूते. तथतास्वभावः (अद्स्प्ग् इ 163) सर्वधर्माः भूतकोटिस्वभावाः सर्वधर्माः धर्मधातुस्वभावाः सर्वधर्माः. अनेनापि सुभूते पर्यायेणैवं वेदितव्यम् अभावस्वभावाः सर्वधर्माः. आह: यदि भगवन् सर्वधर्माः अभावस्वभावास्, तत् कतमेनोपायकौशलेन समन्वागतः प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बुद्धक्षेत्रं परिशोधयति. सत्त्वांश् च परिपाचयति. एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् बुद्धक्षेत्रं परिशोधयति सत्त्वांश् च परिपाचयति. एवं प्रथमे ध्याने चरन् यावत् चतुर्थे ध्याने मैत्र्यां यावद् उपेक्षायां, आकाशानन्त्यायतनसमापत्तौ यावन् नैवसंज्ञानासंज्ञायतनसमापत्तौ, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, चतुर्षु स्मृत्युपस्थानेषु यावद् आर्याष्टाङ्गे मार्गे, शून्यतायां समाधौ आनिमित्तसमाधौ अप्रणिहितसमाधौ, ध्यानेषु अप्रमाणेषु यावत् नवानुपूर्वसमापत्तीषु दशसु तथागतबलेषु
चतुर्षु वैशारद्येषु. चतसृषु प्रतिसंवित्स्व् अष्टादशेष्व् आवेणिकेषु बुद्धधर्मेषु, महामैत्र्यां महाकरुणायां (यावत्? ) सर्वाकारज्ञतायां चरन् बुद्धक्षेत्रं परिशोधयति सत्त्वांश् च परिपाचयति. भगवान् आह: एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं वेदितव्यं, यद् अभावस्वभावेषु धर्मेषु परिचयं करोति, बुद्धक्षेत्रं च [f. 256b] परिशोधयति. सत्त्वांश् च परिपाचयति. तच् च बुद्धक्षेत्रं तांश् च सत्त्वान् अभावस्वभावां जानाति. स खलु पुनर् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरं बोधिमार्गे परिचयं (अद्स्प्ग् इ 164) करोति. शीलपारमितायां चरं बोधिमार्गे परिचयं करोति. क्षान्तिपारमितायां चरं बोधिमार्गे परिचयं करोति. वीर्यपारमितायां चरं बोधिमार्गे परिचयं करोति. ध्यानपारमितायां चरं बोधिमार्गे परिचयं करोति. प्रज्ञापारमितायां चरन् बोधिमार्गे परिचयम् करोति. यावत् सर्वाकारज्ञतायां चरं बोधिमार्गे परिचयं करोति, तन् च बोधिमार्गम् अभावस्वभावं जानाति. स खलु पुनर् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंस् तावत् तस्मिन् बोधिमार्गे परिचयं करोति. यावन् न दशभिस् तथागतबलैः समन्वागतो भवति. न चतुर्भिर् वैशारद्यैः समन्वागतो भवति. न चतसृभिः प्रतिसंविद्भिः समन्वागतो भवति न आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतो भवति. अयं सुभूते स बोधिमार्गो यत्र मार्गे स्थित्वा पारमितान् परिपूरयति. पारमितान् परिपूर्य एकक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्य तत्र अवस्थायां सर्ववासनानुसन्धिक्लेशन् प्रहास्यति
अनुत्पत्तिकप्रहाणेन. स बुद्धचक्षुषा त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोकयन्न् अभाव इत्य् अपि न उपलप्स्यते प्राग् एव भावं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अभावस्वभावसर्वधर्मेषु. एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं यद् अभाव इति नोपलभते प्राग् एव भावं. स खलु पुनर् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं (अद्स्प्ग् इ 165) ददाति, स तन् दानन् ददन् न कल्पयति, न निमित्तीकरोति नैव भावतो न अभावतो मनसिकरोति. प्रतिग्राहकम् अपि न कल्पयति, न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति. दायकम् अपि न कल्पयति. न निमित्तीकरोति. नैव भावतो नाभवतो मनसिकरोति. तद् अपि बोधिचित्तं नोपलभते. न निमित्तीकरोति, नालम्बनीकरोति. न समनुपश्यति ... यावत् ... प्रज्ञापारमितां न कल्पयति, न निमित्तीकरोति, नैव भावतो न अभावतो मनसिकरोति. यो ऽपि तां प्रज्ञापारमितां भावयति, तम् अपि न समनुपश्यति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति, येषाम् अपि सत्त्वानां कृतशस् तां प्रज्ञापारमितां भावयति तां न कल्पयति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति. तत् कस्य हेतोस्? तथा हि यदि त एव सर्वधर्मा अभावास् ते न बुद्धैः कृता न श्रावकैर् न प्रत्येकबुद्धैः कृता. अकारकाः हि सर्वधर्मा कारकविरहिताः आह: ननु भगवं धर्मैर् एव धर्मा विरहिता? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. धर्मैर् एव धर्मा विरहिता. आह: यदि भगवं धर्मैर् एव धर्मा विरहितास्, तत् कथं विरहितो धर्मो
विरहितं धर्मं संजानाति, भाव इति वा अभाव इति वा. न हि भगवन्न् अभावो धर्मो अभावम् धर्मं जानाति. न भावो धर्मो ऽभावं धर्मं जानाति. न अभावो धर्मो ऽभावन् धर्मं जानाति. न भावो धर्मो भावं धर्मं जानाति. एवम् असंजानं सर्वधर्मेषु कुतः एवं भवति. बोधिसत्त्वस्य महासत्त्वस्य भाव इति वा अभाव इति वा? भगवान् आह: लोकसंवृतिम् उपादाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (अद्स्प्ग् इ 166) चरन् भाव इति वा अभाव इति वा निर्दिशति, न पुनः परमार्थेन. आह: किं पुनर् भगवन्न् अन्या लोकसंवृतिर् अन्यः परमार्थः? भगवान् आह: न अन्य सुभूते इओकसंवृतिर् अन्यः परमार्थः. येन लोकसंवृतेस् तथता सैव परमार्थस्य [f. 257a] तथता, तत् ते सत्त्वा विपर्यस्ता एतां तथतां न जानन्ति न पश्यन्ति. तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो लोकसंवृत्या निर्दिशति, भाव इति वा अभाव इति वा. अपि तु खलु सुभूते य एते सत्त्वाः पञ्चस्कन्धेषु भावसंज्ञिनः अभाव इति न जानन्ति. तेषाम् अर्थायैवं तं निर्दिश्यते, धर्माणाम् अप्रभेदताम् उपादाय, कथम् अभाव जानीयुर् इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. ((64))
परिवर्त 65.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्व चारिका बोधिसत्त्वचारिकेत्य् उच्यते, कस्यैतद् अधिवचनं यदुत बोधिसत्त्वचारिकेति? भगवान् आह: बोधिसत्त्वचारिका बोधिसत्त्वचारिकेति सुभूते उच्यते बोधये एसा चारिका तस्माद् बोधिसत्त्वचारिकेत्य् उच्यते. आह: क्व भगवं सा बोधिसत्त्वस्य महासत्त्वस्य चारिका? भगवान् आह: रूपं शून्यम् इति चरति. वेदनासंज्ञासंस्कारविज्ञानं शून्यम् इति चरति. एवम् आध्यात्मिकबाह्यैर् आयतनैर् दानपारमितायां चरति शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां. आध्यात्मशून्यतायां चरति. बहिर्द्धाशून्यतायाम् आध्यात्मबहिर्द्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यंतशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां चरति स्वलक्षणशून्यतायां चरति. अनुपलंभशून्यतायाम् अभावशून्यतायां चरति. स्वभावशून्यतायान चरति. अभावस्वभाशून्यतायां चरति. प्रथमे ध्याने चरति. द्वितीये तृतीये एअतुर्थे ध्याने चरति मैत्र्यां चरति. करुणायां मुदितायाम् उपेक्षायां चरति. आकाशानन्त्यायतने चरति. विज्ञानन्त्यायतने आकिंचन्यायतने, नैव (अद्स्प्ग् इ 168) संज्ञानासंज्ञायतने चरति. चतुर्षु स्मृत्युपस्थानेषु चरति. चतुर्षु सम्यक्प्रहाणेषु चतुर्षु ऋद्धिपादेषु पंचस्व् इन्द्रियेषु. पंचसु बलेषु. सप्तबोध्यङ्गेष्व्. आर्याष्टांगे मार्गे चरति. शून्यतायां समाधौ चरत्य् आनिमित्ते समाधौ च अप्रणिहिते समाधौ चरति. अष्टसु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु चरति. दशसु तथागतबलेषु
चरति. चतसृषु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्या महाकरुणायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. बुद्धक्षेत्रपरिशुद्धये चरति. सत्त्वपरिपाके चरति. प्रतिभाने चरत्य् अक्षराभिनिर्हारेषु चरति. अक्षरप्रवेशेषु चरति. अनक्षरप्रवेशे चरति. धारनीषु चरति. संस्कृतधातौ चरत्य्. असंस्कृतधातौ चरति. तथा पुनर् चरति यथा बुद्धिर् न द्विधी भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधौ चरति. अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बुद्धो बुद्ध इति भगवम्न् उच्यते. कस्यैतद् अधिवचनं बुद्ध इति? भगवान् आह: भूतो ऽर्थो बुद्ध इत्य् उच्यते. अपि तु खलु सुभूते भूतो ऽनेन धर्मो ऽभिसंबुद्धस्, तस्माद् बुद्ध इत्य् उच्यते. भूतो [f. 257b] ऽनेनार्थः प्रतिविद्धस् तस्माद् बुद्ध इत्य् उच्यते. अपि तु खलु सुभूते सर्वधर्माः अनेन यथावद् अभिसंबुद्धास्, तस्माद् बुद्ध इत्य् उच्यते. आह: बोधि बोधिर् इति भगवन्न् उच्यते, कस्यैतद् भगवन्न् अधिवचनं बोधिर् इति? भगवान् आह: बोधिर् इति सुभूते शून्यताया एतद् अधिवचनं, तथताया एतद् अधिवचनं, भूतकोटेर् एतद् अधिवचनं, धर्मधातोर् एतद् अधिवचनं. अपि तु खलु सुभूते बोधिर् इति तथत अवितथता (अद्स्प्ग् इ 169) अनन्यतथता अनन्यथाभावस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते नामधेयनिमित्तमात्रम् एतद् यदुत बोधिस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते अभेदार्थो बोध्यर्थः. अपि तु खलु सुभूते बुद्धानाम् एषा भगवतां बोधिस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते बुद्धैर् एषा भगवद्भिर्
अभिसंबुद्धास्, तस्माद् बोधिर् इत्य् उच्यते. आह: यो भगवं बोधिसत्त्वो महासत्त्व इह बोधये चरति, स किं षड्भिः पारमिताभिर् चरति यावत् सर्वाकारज्ञतायां विहरति, कतमेषां भगवं कुशलमूलानाम् आचयो भवत्य् अपचयो वा हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः इह बोधौ चरति षड्भिः पारमिताभिर् चरति यावत् सर्वाकारज्ञतया चरति. तस्य न कस्यचिद् धर्मस्य आचयो भवत्य् अपचयो वा हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशं वा व्यवदानं वा. तत् कस्य हेतो? न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरतः कस्यचिद् धर्मस्य आरंबणयोगेन प्रत्युपस्थिता, आचये वा अपचये वा हानये वा वृद्धये वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा. आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः बोधिर् न कस्यचिद् धर्मस्य आरंबणयोगेन प्रत्युपस्थिता. तत् कथम् इदानीं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितां परिगृह्णाति. शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिगृह्णाति, कथम् अध्यात्मशून्यतायां चरति. बहिर्द्धाशून्यतायाम् अध्यात्मबहिर्द्धाशून्यतायां यावत् स्वलक्षणशून्यतायां (अद्स्प्ग् इ 170) चरति, कथं ध्यानेषु अप्रमणेषु आरूप्यसमापत्तिषु यावत् अनुपूर्वविहारसमापत्तिषु चरति. कथं शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु चरति. कथं दशसु तथागतबलेषु चरति चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां
महाकरुणायां चरति. कथं दशसु बोधिसत्त्वभूमिषु चरति. श्रावकप्रत्येकब्बुद्धभूमिम् अतिक्रामति. बोधिसत्त्वन्यामं च अवक्रामति? भगवान् आह: न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य द्वयचारिणी बुद्धिः. न हि सुभूते बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति. न द्वयेन शीलपारमितायां चरति, न द्वयेन क्षान्तिपारमितायां चरति, न द्वयेन वीर्यपारमितायां चरति. न द्वयेन समाधिपारमितायां चरति. न द्वयेन प्रज्ञापारमितायां चरति. एवं सुभूते बोधिसत्त्वो महासत्त्वः दानपारमितां परिगृह्णाति यावत् प्रज्ञापारमितां परिगृह्णाति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति. आह: यदि भगवं न द्वयेन [f. 258a] दानपारमितायां चरति, न द्वयेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर् विवर्धमानै प्रथमचित्तोत्पादम् उपादाय. यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् विवर्धते? भगवान् आह: ये सुभूते द्वयेन चरन्ति, न ते विवर्धन्ते कुशलमूलैः. तत् कस्य हेतोः? द्वयनिश्रिता हि सुभूते सर्वबालपृथग्जनास्, ते न विवर्धंते कुशलमूलैः. बोधिसत्त्वो महासत्त्वः पुनर् अद्वयेन चरति, स प्रथमचित्तोत्पादम् उपादाय कुशलमूलैर् विवर्धते. यावत् पश्चिमकश् चित्तोत्पाद कुशलमूलैर् विवर्धते. तेन (अद्स्प्ग् इ 171) न शक्यते ऽभिभवितुं. सदेवमानुषासुरेण लोकेन, यैर् अकुशलमूलैर् अवमर्दितः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेत्, तद् अन्यैर् वा अकुशलैर् धर्मैः संहृयेत, यैः संहृयमानो दानपारमितायां चरन् कुशलैर् मूलैर् न
विवर्धेत, यावत् सर्वाकारज्ञतायां चरन् कुशलमूलैर् न विवर्धेत. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. आह: किं पुनर् भगवं बोधिसत्त्वेन महासत्त्वेन कुसलमूलानां कृते प्रज्ञापारमितायां चरितव्यं? भगगवान् आह: नो हीदं सुभूते, न बोधिसत्त्वो महासत्त्वो कुशलमूलानां कृते प्रज्ञापारमितायां चरति, नाप्य् अकुशलमूलानां कृते प्रज्ञापारमितायां चरति, न च अपर्युपास्य बुद्धान् भगवतो, न अपरिपूर्य कुशलमूलानि. न कल्याणमित्रैर् अपरिगृहीतो बोधिसत्त्वो महासत्त्वः शक्तः सर्वाकारज्ञताम् अनुप्राप्तुं. आह: कथं भगवं पर्युपास्य बुद्धां भगवतः कुशलमूलैः परिगृहीतः कल्याणमित्रैर् परिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बुद्धान् भगवतः पर्युपास्ते, यच् च ते बुद्धा भगवन्तो भाषन्ते, सूत्रं गेयं व्याकरणं गाथोदाननिदान-इत्युक्तकजातकवैपुल्य-अद्भुतधर्मापदानापदेशस् तत् सर्वम् उद्गृह्णात्य् उद्गृह्य वाचा सुपरिचितं कृत्वा मनसा च अनुप्रेक्षितं कृत्वा दृष्ट्या सुप्रतिविद्धं कृत्वा धारणीं प्रतिलभते. धारण्याप्रतिलब्धया प्रतिसंविद उत्पादयति. प्रतिसंविद्भिर् उत्पादिताभिस् (अद्स्प्ग् इ 172) तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु विप्रणश्यति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति. तत्र च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलान्य् अवरोपयति, यैः कुशलमूलैः परिगृहीतो न जात्व् अपायेष्व् अक्षणेषु चोपपद्यते. तैश् च कुशलैः मूलैः आश्रयपरिशुद्धिं परिगृह्णाति, यैर् आश्रयैर् बुद्धक्षेत्रं परिशोधयति
सत्त्वांश् च परिपाचयति, तैश् च कुशलमूलैः परिगृहीतः कल्याणमित्रैर् न जातु विरहितो भवति बुद्धैश् च भगवद्भिः बोधिसत्त्वैर् महासत्त्वैः श्रावकैश् च ये बुद्धयानस्य वर्णां भाषन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूलानि च अवरोपयितव्यानि कल्याणमित्राणि च सेवितव्यानि. ((65)) [f. 258b]
परिवर्त 66.
अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: यः पुनर् भगवं बोधिसत्त्वो महासत्त्वो नैव बुद्धां भगवतः पर्युपास्ते, न कुशलमूलानि परिपूरयति, न कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नुयात्? भगवान् आह: नास्ति सुभूते बोधिसत्त्वो महासत्त्वो यो बुद्धां भगवतो ऽपर्युपास्य कुशलमूलान्य् अपरिपूर्य कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयात्. तत् कस्य हेतोर्? बुद्धान् एव तावत् पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि. सेवित्वा आद्य् अपि तावत् सर्वाकारज्ञता न शक्यते ऽनुप्राप्तुं. प्राग् एव अपर्युपास्य बुद्धान् भगवतः अपरिपूर्य कुशलमूलान्य् असेवित्वा कल्याणमित्राणि सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नेदं स्थानं विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्ये बोधिं निष्ठातुकामेन, क्षिप्रं च अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन बुद्धान् ब्नगवतः पर्युपासितव्या कुशलमूलान्य् अवरोपयितव्यानि कल्याणमित्राणि सेवितव्यानि. आह: केन कारणेन भगवं बोदिसत्त्वो महासत्त्वो बुद्धान् भगवतः पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि सेवित्वा सर्वाकारज्ञतां न अनुप्राप्नोति? भगवान् आह: उपायकौशलविरहितत्वात्, सो ऽनेनोपायो न श्रुतो भवति तेषां बुद्धानां भगवताम् अन्तिकात्, तानि च कुशलमूलानि न अवरोपितानि. (अद्स्प्ग् इ 174) तानि च कल्याणमित्राणि न सेवितानि. ये ऽस्योपायम् उपदिशन्ति. आह: कतमद् भगवांस् तद् उपायकौशलं येनोपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम्
उपादाय दानपारमितायां चरं सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति, बुद्धेभ्यो भगवद्भ्यस् प्रत्येकबुद्धेभ्यः श्रावकेभ्यो मनुष्यभूतेभ्यः अमनुष्यभूतेभ्यः. स तैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् समन्वागतो न च अस्य दाने दानसंज्ञा भवति, न प्रतिग्राहके प्रतिग्राहकसंज्ञा भवति, न दायके दायकसंज्ञा भवति. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्य् असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तान् सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित्समर्थाः सर्वधर्मा इत्य् असंस्कारलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागत कुशलमूलैर् विवर्धते, स कुशलमूलैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. न च दानफलम् आशंसते यद् दानफलं संसारे परिभुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वपरिमोचनतायै दानपारमितायां चरति. उपायकौशल्यनिर्देशपरिवर्तः. ((66))
पतिवर्त 67.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरं प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति. तस्य नैव राग चित्तम् आवृनोति न दोषो न मोहो न अनुशया न पर्युत्थानानि न अन्ये ऽप्य् अकुशला धर्मा ये बोधेः परिपन्थकरा, तद्यथा मात्सर्यं वा दौशील्यं वा क्षोभणचित्तं वा कौसीद्यचित्तं वा हीन [f. 259a] वीर्यचित्तं वा विभ्रान्तचित्तं वा दौष्प्रज्ञचित्तं वा मानो वा अवमानो वा अधिमानो वास्मिमानो वा. श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानात्य्, असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित्समर्थात् सर्वधर्मा इत्य् असंस्कृतलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागतः कुशलमूलैर् विवर्धते. स कुशलमूलैर् विवर्धमानः शीलपारमितायां चरति. स शीलपारमितायां चरं सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. न च शीलफलम् आकाण्क्षते, यच् छीलफलं संसारे परिभुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वपरिपाचनतायै शीलपारमितायां चरति. ((67))
परिवर्त 68.
एवं क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता कर्तव्या. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञां भावयति. तस्य नैव राग चित्तम् आवृणोति, न दोषो यावन् न श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्य् असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित् असमर्थाः सर्वधर्मा इत्य् असंस्कृतलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागतः कुशलमूलैर् विवर्धते स कुशलमूलैर् विवर्धमानः प्रज्ञापारमितायां चरति. स प्रज्ञापारमितायां चरं सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति. न च प्रज्ञाफलम् आकांक्षते यत् प्रज्ञाफलं संसारे परिभुंजीतान्यत्र सत्त्वपरित्राणतायै सत्त्वपरिमोचनतायै प्रज्ञापारमितायां चरति. ((68))
परिवर्त 69.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमध्यानं समापद्यते यावत् चतुर्थं ध्यानं समापद्यते, मैत्रिं यावद् उपेक्षां समापद्यते, आकाशानन्त्यायतनसमापत्तिं यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते. न च विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स उपायकौशलेन समन्वागतो येनोपायकौशलेन तान् ध्यान अप्रमाणआरूप्यसमापत्तीन् स्वलक्षणशून्यान् जानाति यावद् अनभिनिर्वृत्तान् जानाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय उपायकौशलेन समन्वागतो दर्शनभावनाप्रहातव्ये च मार्गे चरति, न च स्रोतआपत्तिफलम् अनुप्राप्नोति न सकृदागामीफलं न अनागामीफलं न अर्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति यावद् अनभिनिर्वृत्तान् जानाति. तेषु च बोधिपक्षिकेषु धर्मेषु चरंच् छ्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकेषु धर्मेषु क्षान्ति. पुनर् अपरं सुभूते ऽबोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टौ विमोक्षान् समापद्यते नवानुपूर्वसमापत्तीन् समापद्यते न च स्रोतआपत्तिफलम् अनुप्राप्नोति यावन् न अर्हत्त्वम् अनुप्राप्नोति. तत् (अद्स्प्ग् इ 178) कस्य हेतोः? तथा हि स्वलक्षणशून्यान् सर्वधर्मान् [f. 259b] जानाति यावद् अनभिनिर्वृत्तां सर्वधर्मान् जानाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दशसु तथागतबलेषु परिचयं करोति, चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च परिचयं करोति. न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति यावन् न
बुद्धक्षेत्रं परिशोधितं भवति सत्त्वाश् च परिपाचिता भवन्ति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. आह: परमबुद्धिमां खलु भगवन् बोधिसत्त्वो महासत्त्वो भवति, य एवं गंभीरेषु धर्मेषु चरति न च विपाकं परिगृह्णाति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. परमबुद्धिमान् बोधिसत्त्वो महासत्त्वो य एवं गंभीरेषु धर्मेषु चरति, न च विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वभावतो न चलति. आह: कस्य स्वभावतो न चलति? भगवान् आह: अभावान् न चलति. यत् पुनः सुभूतिर् एवम् आह: कस्य स्वभावान् न चलति? रूपस्य स्वभावां न चलति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य स्वभावान् न चलति, दानपारमिताया स्वभावान् न चलति, शीलपारमिताया स्वभावान् न चलति, क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया स्वभावान् न चलति. ध्यानस्वभावान् न चलत्य् अप्रमाणस्वभावान् न चलत्य् आरूप्यसमापत्तिस्वभावान् न चलति. स्मृत्युपस्थानानां स्वभावान् न चलति. यावद् आर्याष्टाङ्गस्य मार्गस्य स्वभावान् न चलति. शून्यतासमाधेर् आनिमित्तस्य समाधेर् अप्रणिहितस्य समाधेः स्वभावान् न चलत्य् अष्टविमोक्षनवानुपूर्वसमापत्तिस्वभावान् (अद्स्प्ग् इ 179) न चलति. दशानां तथागतबलानां स्वभावान् न चलति यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावान् न चलति. महामैत्र्या महाकरुणाया स्वभावान् न चलति. तत् कस्य हेतोः? तथा हि सुभूते य एषां धर्माणां स्वभावः सो ऽभावः. न हि सुभूते अभावेन अभावः शक्यम् अभिसंबोद्धुं. आह: किं पुनर् भगवन्
भावेन भावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् अभावेन भावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् अभावेन अभावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् भावेन अभाव सक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तन् मा हैव भगवन् न प्राप्तिर् न अभिसमयो भविष्यति, यदि न अभावेन अभावस्य अभिसमयो न भावेन भावस्य अभिसमयः न अभावेन भावस्य अभिसमयो न भावेन अभावस्य अभिसमयः. भगवान् आह: अस्त्य् अभिसमयो, न पुनर् अनेन चतुष्क अभिनिर्हारेण. आह: कथम् इदानिं भगवन्न् अभिसमयः? भगवान् आह: यत्र नैव भावो न अभावः स तादृशो ऽभिसमयः यत्रैते प्रपंचा न संविद्यन्ते, अप्रपंच्योनिस्प्रपञ्चो ऽभिसमयः. आह: कः पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः? भगवान् आह: रूपं नित्यम् इत्य् अनित्यम् इति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्च. वेदनासंज्ञसंष्कारविज्ञानं नित्यम् इत्य् अनित्यम् इति वा प्रपञ्चः. रूपं सुखम् इति [f. 260a] वा दुःखम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं सुखम् इति वा दुःखम् इति वा प्रपञ्च. रूपम् आत्मेत्य् अनात्मेति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानम् आत्मेत्य् अनात्मेति (अद्स्प्ग् इ 180) वा प्रपञ्च. रूपं शान्तम् इत्य् अशान्तम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं शान्तम् इत्य् अशान्तम् इति वा प्रपञ्च. रूपं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्च. दुःखम् आर्यसत्यं परिज्ञेयम् इति प्रपञ्च, समुदय प्रहातव्य इति प्रपञ्च,
निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, मार्गो भावयितव्य इति प्रपञ्चः. चत्वारि ध्यानानि भावयितव्यानि इति प्रपञ्चः चत्वार्य् अप्रमाणानि भावयितव्यानि इति प्रपञ्चः चतस्रः आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः. चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि भावयिष्यामि इति प्रपञ्चः चत्वाररिद्धिपादा भावयितव्या इति प्रपञ्चः. एवं पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गो भावयितव्या इति प्रपञ्चः. शून्यताविमोक्षमुखम् आनिमित्तं विमोक्षमुखम् अप्रणिहितं विमोक्षमुखं भावयितव्यम् इति प्रपञ्चः अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो भावयितव्या इति प्रपञ्चः, श्रोतआपत्तिफलं सकृदागामीफलम् अनागामीफलम् अर्हत्त्वं समतिक्रामिष्यामि इति प्रपञ्चः. प्रत्येकबुद्धभूमिं समतिक्रामिष्यामि इति प्रपञ्चः दशबोधिसत्त्वभूमीन् परिपूरयिष्यामि इति प्रपञ्चः बोधिसत्त्वन्यामम् अवक्रामिष्यामि इति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामि इति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामि इति प्रपञ्चः. दशतथागतबलान्य् उत्पादयिस्यामि इति प्रपञ्चः, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् उत्पादयिष्यामि इति प्रपञ्चः. सर्वाकारज्ञताम् अनुप्राप्स्यामि इति प्रपञ्चः सर्ववासनानुसन्धिक्लेशं प्रहास्यामि इति प्रपञ्चः. तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति (अद्स्प्ग् इ 181) वेदनासंज्ञासंस्कारविज्ञानं नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति ... न्नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति. यावत् सर्वाकारज्ञाताम् अनुप्राप्स्यामि इत्य् अप्रपञ्च्यन् न
प्रपञ्चयति. सर्ववासनानुसन्धिक्लेशं प्रहास्यामि इत्य् अप्रपञ्च्यन् न प्रपञ्चयति. तत् कस्य हेतोर्? न हि स्वभावः स्वभावं प्रपञ्चयति. न अभाव अभावं प्रपञ्चयति. न च स्वभाव अभावौ स्थापयित्वा अन्यः कश्चिद् धर्म उपलभ्यते, यः प्रपञ्चयेद् येन वा प्रपञ्चयेद् यत्र वा प्रपञ्चयेत्. तस्मात् तर्हि सुभूते निष्प्रपञ्च्यं रूपं. निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्यं विज्ञानं. यावन् निष्प्रपञ्च्या सर्वाकारज्ञता. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्च्यायां प्रज्ञापारमितायां चरितव्यं. अपि तु खलु सुभूते नास्ति रूपस्य स्वभावो नास्ति वेदनायाः संज्ञाया संस्काराणां नास्ति विज्ञानस्य स्वभावः. यावन् नास्ति सर्वाकारज्ञताया स्वभावः. यस्य स्वभावो नास्ति तद् निष्प्रपञ्च्यं. [f. 260b] अनेन सुभूते कारणेन निष्प्रपञ्च्यं रूपं निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्यं विज्ञानं. यावन् निष्प्रपञ्च्या सर्वाकारज्ञता. एवं खलु सुह्हूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वन्यामम् अवक्रामति. आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभाव उपलभ्यते. कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्यामम् अवक्रामति, श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धर्मार्गेण वा? भगवान् आह: न सुभूते श्रावकमार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्यामम् अवक्रामति. न (अद्स्प्ग् इ 182) प्रत्येकबुद्धमार्गेण न बुद्धमार्गेण. अपि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वन्यामम् अवक्रामति. तद्यथापि नाम अष्टमकः सर्वमार्गेषु शिक्षित्वा सम्यक्त्वन्यामम् अवक्रामति. न च तावत् फलम्
अनुप्राप्नोति यावन् न फलमार्गम् उत्पादयति, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वन्यामम् अवक्रामति. न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति. यावन् न वज्रोपमः समाधिः प्रतिलब्धो भवति. स तस्य समाधेः प्रतिलंभाद् एकक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामो ऽवक्रामितव्यः, ननु भगवन्न् अन्य एव अष्टमकस्य मार्गः अन्यः स्रोतआपन्नस्य अन्यः सकृदागामितायै प्रतिपन्नकस्य अन्यः सकृदागामिनः अन्यो ऽनागामितायै प्रतिपन्नकस्य अन्यो ऽनागामिनः अन्यो ऽर्हत्त्वप्रतिपन्नकस्य अन्यो ऽर्हतो मार्गः अन्यः प्रत्येकबुद्धस्य अन्यः तथागतस्य अर्हतः सम्यक्संबुद्धस्य मार्गः. यदि भगवन्न् अन्य एषां मार्गस्, तत् कथं बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामो ऽवक्रमितव्यः? यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपूरयितव्याः, तन् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्य अष्टमको भवेद्, दर्शनमार्गम् उत्पाद्य स्रोतआपन्नो भवेद्, भावनामार्गम् उत्पाद्य सकृदागामीप्रतिपन्नको भवेत्. सकृदागामी भवेद् अनागामीप्रतिपन्नको भवेद् अनागामी भवेद् अर्हत्त्वप्रतिपन्नको भवेद् (अद्स्प्ग् इ 183) अर्हन् भवेत् प्रत्येकबुद्धमार्गम् उत्पाद्य प्रत्येकबुद्धो भवेद्, अस्थानं च भगवन्न् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा बोधिसत्त्वन्यामम् अवक्रामेन् नेदं स्तानं विद्यते यद् बोधिसत्त्वन्यामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. एवं श्रोतआपत्तिफलम् अनुप्राप्य
सकृदागामीफलम् अनुप्राप्य अनागामीफलम् अनुप्राप्य अर्हत्त्वम् अनुप्राप्य प्रत्येकबोधिम् अनुप्राप्य बोधिसत्त्वन्यामम् अवक्रामेत् बोधिसत्त्वन्यामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. तत् कथं भगवन् जानीयाम बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति, बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नोति. सर्ववासनानुसन्धिं च प्रजहाति? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अस्थानं सुभूते अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा श्रोतआपत्तिफलं च अनुप्राप्ययावद् अर्हत्त्वं च अनुप्राप्य प्रत्येकबोधिं च अनुप्राप्य बोधिसत्त्वन्यामम् अवक्रामेन् नेदं स्थानं विद्यते. बोधिसत्त्वन्यामम् अनवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. अपि तु खलु सुभूते [f. 261a] बोधिसत्त्वो महासत्त्वो प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन्न् अष्टौ भूमीञ् ज्ञानेन च दर्शनेन च अतिक्रामति. कतमा अष्टौ? शूक्लविदर्शनभूमि गोत्रभूमिर् अष्टमकभूमि दर्शनभूमिस् तनुभूमिर् वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिः ईदृशः स इमा अष्टौ भूमीञ् ज्ञानेन च दर्शनेन च अतिक्रम्य मार्गाकारज्ञतया बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं (अद्स्प्ग् इ 184) प्रजहाति. तत्र सुभूते. यद् अष्टमकस्य ज्ञानं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् छ्रोतआपन्नस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यत् सकृदागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यद् अनागामिनो ज्ञानं च
प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यद् अर्हतः ज्ञानं च प्रहानं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यत् प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. तद् बोधिसत्त्वो महासत्त्वो श्रावकप्रत्येकबुद्धमार्गान् परिपूर्य मार्गाकारज्ञताज्ञानेन बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं प्रजहाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां फलोपाजीव्यो भवति. आह: य इमे भगवन् मार्गाः, श्रावकमार्गः प्रत्येकबुद्धमार्गो बुद्धमार्गस्, तत् कतमात्र भगवन् मार्गाकारज्ञतामार्गः? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन मार्गाकारज्ञताविशुद्धिर् उत्पादयितव्या. तत्रेयं सुभूते मार्गाकारज्ञताविशुद्धिः, यैर् यैर् आकारैर् यैर् यैर् लिङ्गैर् यैर् यैर् निमित्तैर् मार्गः सूच्यते. तत्र तान् आकारान् तानि लिङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेन अभिसंबोद्धव्यान्य् अभिसंबुद्ध्य परेषाम् आख्यातव्यानि. देशयितव्यानि प्रकाशयितव्यानि, प्रज्ञापयितव्यानि प्रतिष्ठापयितव्यानि, परस्य विनयनार्थं यथा परो जानीयात्, तत्र बोधिसत्त्वेन महासत्त्वेन सर्वरुतसंकेतघोषा (अद्स्प्ग् इ 185) अभ्युदीरयितव्याः आधारयितव्याः यादृशैस् त्रिसाहस्रमहासाहस्रं लोकधातुं विज्ञापयेन् प्रतिश्रुत्का आज्ञानन अर्थेन. तद् अनेन अपि सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपूरयितव्याः मार्गाकारज्ञतां परिपूर्य सत्त्वानाम् आशया ज्ञातव्याः. नैरयिकानां सत्त्वानां मार्गो ज्ञातव्यः
हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, ततश् च नैरयिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, तिर्यग्योनिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, यमलौकिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, किन्नराणां महोरगानां नागानां यक्षाणां मनुष्यानां मार्गो ज्ञातव्यः हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. ब्रह्मणानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्य फलं ज्ञातव्यं. आभास्वराणां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्य फलं ज्ञातव्यं. शुभकृत्स्नानां वृहत्फलानाम् असंज्ञिसत्त्वानाम् अवृहाणाम् अतपानां सुदृशानां [f. 261b] सुदर्शनानाम् अकनिष्ठानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. आकाशानन्त्यायतनानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. यावत् नैवसंज्ञानासंज्ञायतननं देवानां मार्गो ज्नातव्यो हेतुर् ज्नातव्य फलं ज्ञातव्यं. चत्वारि स्मृत्युपस्थानानि ज्ञातव्यानि चत्वारि सम्यक्प्रहाणानि चत्वारि ऋद्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ज्ञातव्यानि यावच् शून्यताविमोक्षमुखम् आनिमित्तं विमोक्षमुखम् अप्रणिहितं विमोक्षमुखं (अद्स्प्ग् इ 186) ज्ञातव्यं दशतथागतबलानि ज्ञातव्यानि चत्वारि वैशारद्यानि ज्ञातव्यानि चतस्रः प्रतिसंविदो ज्ञातव्याः अष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः महामैत्री ज्ञातव्या महाकरुणा ज्ञातव्या. यैश् च मार्गैर् ये सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्यास् तां स्रोतआपत्तिफले प्रतिष्ठापयति. यावद् ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति. ये प्रत्येकबोधौ
प्रतिष्ठापयितव्यास् तां प्रत्येकबोधौ प्रतिष्ठापयति. ये बोधौ प्रतिष्ठापयितव्यास् तां बोधौ प्रतिष्ठापयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गाकारज्ञता यत्र बोधिसत्त्वो महासत्त्व शिक्षित्वा सत्त्वाशयताम् अवतरति. सत्त्वाशयताम् अवतीर्य. तथैव धर्मं देशयति. सा च अस्य धर्मदेशना अक्षूणा अमोघाश् च भवति. तत् कस्य हेतोस्? तथा ह्य् अनेन परेषाम् इन्द्रियाणि प्रभावितानि भवन्ति. स सत्त्वानां गतिं चागतिञ् च च्युतिम् उपपत्तिं च प्रजानाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. अत्र प्रज्ञापारमितायां सर्वमार्गा अन्तर्गता. ये केचिद् बोधिपक्षिका धर्मा यत्र बोधिसत्त्वेन महासत्त्वेन चरितव्यं श्रावकैर् वा प्रत्येकबुद्धैर् वा चरितव्यं. आह: यदि भगवन् ये च बोधिपक्षिका धर्मा या च बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. कथं भगवं बोधिपक्षिका धर्मा बोधेर् आहारका भवन्ति. न हि भगवन न संयुक्तो न विसंयुक्तः अरूपिणो ऽनिदर्शनो ऽप्रतिघो एकलक्षणो यदुतालक्षणो धर्म कस्यचिद् धर्मस्य आहारको (अद्स्प्ग् इ 187) वा अपहारको वा. तद्यथापि नाम भगवन् न आकाशं कस्यचिद् धर्मस्य आहारको वा अपहारको वा, एवम् एव भगवन् न स्वलक्षणशून्यो धर्मः कस्यचिद् धर्मस्य आहारको वा अपहारको वा. भगवान् आह: एवम् एतत् सुभूते एवम् एतन्. न सुभूते स्वलक्षणशून्यो धर्मः कस्यचिद् धर्मस्य आहारको वा अपहारको वा. ये पुनः सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति तेषाम् अर्थायैवं निर्दिश्यते. इमे बोधिपक्षिका धर्मा बोधेर्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
